०५

अथ पञ्चमः पटलः

अथ मन्त्रान्तरं वक्ष्ये यथावदवधारय ।
मन्त्रदेहं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ॥ १ ॥
यस्य ग्रहणमात्रेण सर्वज्ञो जायते नरः ।
अचलां च लभेत् लक्ष्मीं कवित्वं भवसम्मतम् ॥ २ ॥
असाध्यं साधयेन्मन्त्री देवानामपि दुर्लभम् ।
इदं मे हृदयं गुह्यं यत् प्रष्टव्यं महामुने ॥ ३ ॥
अन्येषु साधिता मन्त्राः सर्वे च फलदायकाः ।
गृहीतस्य फलं दाता मन्त्रोयद्यप्यसाधितः ॥ ४ ॥
सन्तुष्टो हि गुरुर्यत्र तस्य तुष्टो जगत्पतिः ।
मन्त्रं न्यस्य गुरोर्वाक्यं न कदाचिद् विकल्पयेत् ॥ ५ ॥
गुरोर्देहं समाश्रित्य मन्त्रदेहोऽवतिष्ठते ।
ततः सर्वेण भावेन गुरुं मन्त्रेण पूजयेत् ॥ ६ ॥
गन्धमाल्यैर्धूपदीपैः सम्पूज्य गुरुमन्त्रतः ।
ततो मन्त्रं च गृह्णीयात् वस्त्रेणाऽऽच्छाद्य मस्तकम् ॥ ७ ॥
दक्षिणां गुरवे दद्यात् सुवर्णं धेनुमेव वा ।
सर्वकर्म प्रकुर्वीत वित्तशाठ्यविवर्जितः ॥ ८ ॥
अदक्षिणं कृतं कर्म वृथा विप्रेन्द्रनिश्चितम् ।
नारदाय पुरा प्रोक्तं स्वयं विष्णुरतन्द्रितः ॥ ९ ॥
स्वर्णं मे दक्षिणा देहि साक्षसूत्रकमण्डलुम् ।
ततो मन्त्रं गृहाण त्वं यथाविधि महामुने ॥ १० ॥
विधिहीनं कृतं कर्म सिद्धिं नैव प्रयच्छति ।
भूमिभागे समे शुद्धे गोमयेनोपलेपिते ॥ ११ ॥
तत्र शङ्खं प्रतिष्ठाप्य मातृकावपुषि न्यसेत् ।
परं ब्रह्मादितः कृत्वा वर्णसङ्घं समुद्धरेत् ॥ १२ ॥
सान्तं मथान्तं मां वह्निं वामत्रिकबिन्दुसंयुतम् ।
त्रिभिरेकार्णवीभूतं स्वाहान्तं मन्त्रमुद्धरेत् ॥ १३ ॥
ततो गुरुमुखाल्लब्ध्वा हृदये च निवेशयेत् ।
अयुतं च जपं कृत्वा हविष्याशी जितेन्द्रियः ॥ १४ ॥
दशांशं जुहुयादग्नौ मधुरत्रयसंयुतम् ।
सहस्रं वाऽपि पुष्पाणां वैष्णवानां सुसंयतः ॥ १५ ॥
माणिक्यसाधनार्थं च सहस्रमधिकं जपेत् ।
दशांशं जुहुयात् तस्य जपस्य द्विगुणं स्मृतम् ॥ १६ ॥
तस्य तत्त्वं निबोध त्वं वाह्यमानं महामुने ।
शम्भोर्मूलाक्षरं ह्यस्य त्रिशक्तिश्चाप्यवस्थिता ॥ १७ ॥
शिवोमन्तं तथा ब्रह्मा चेन्दुबिन्दुस्वरूपवान् ।
एतत् ते कथितं वत्स हृदयं मन्त्रमुत्तमम् ॥ १८ ॥
कस्यचिन्न हि वक्तव्यं त्रिषु लोकेषु दुर्लभम् ।
एवं संसाधिते मन्त्रे साधितं भुवनत्रयम् ॥ १९ ॥
कामं कृत्वा जपेन्मन्त्रं शुचिर्भूत्वा जितेन्द्रियः ।
कर्मणा मनसा वाचा कुर्याद् यदभिवाञ्छितम् ॥ २० ॥
तत् तस्य सिद्ध्यति क्षिप्रं यद्यपि स्यात् सुदुष्करम् ।
विष्णुर्ब्रह्मा च रुद्रश्च दुर्गा च सर्वदेवताः ॥ २१ ॥
अयं मन्त्रो महामन्त्रः सर्वेषां हृदये स्थितः ।
मन्त्रमेनं समुच्चार्य लभते द्विगुणं फलम् ॥ २२ ॥
पूजनं चास्य मन्त्रस्य यथाकार्यं तथा शृणु ।
अङ्गन्यासकरन्यासौ मन्त्रस्याऽप्यक्षरेण तु ॥ २३ ॥
कृत्वा चाऽष्टदलं पद्मं देवमावाह्य यत्नतः ।
स्थण्डिले वा जले वाऽपि गोपालं पूजयेत् तदा ॥ २४ ॥
ध्यानं चैव प्रवक्ष्यामि गोपालस्य जगद्गुरोः ।
जटिलं द्विभुजं नग्नं नीलोत्पलदलप्रभम् ॥ २५ ॥
बालं षण्मासदेशीयं देवं जानुचलं हरिम् ।
दाम्ना चैवोदरे बद्धं वृक्षावुदूखलेन च ॥ २६ ॥
लीलया कर्षमाणं च तिर्यक्कृतमुदूखलम् ।
यमलार्जुनयोर्मध्ये द्रुतमागत्य लीलया ॥ २७ ॥
मन्त्रेणाऽनेन चोत्पाट्य वृक्षौ द्वौ योजनायतौ ।
दाम्नि वासुकिमारोप्य मन्त्रेणाऽनेन यन्त्रितम् ॥ २८ ॥
उदूखले द्रुतं लग्नं नागराजेन वेष्टितम् ।
समाकृष्य समुत्पाट्य हसन्तं यमलार्जुनौ ॥ २९ ॥
हाहाकारपरैः सर्वैर्गोपगोपीजनैर्वृतम् ।
यशोदया कृतं क्रोडे क्रन्दन्त्याऽऽगत्य सत्वरम् ॥ ३० ॥
सर्वतो जगतो रूपं गोपवेशतिरोहितम् ।
एवं सञ्चिन्त्य गोपालं मायामयमनामयम् ॥ ३१ ॥
पाद्यादिभिः समभ्यर्च्य जपकर्म समापयेत् ।
एभिरेवाऽथवा पूजा कर्तव्या सुरवैरिणः ॥
धूपं दीपं च नैवेद्यं ताम्बूलादिकमर्पयेत् ॥ ३२ ॥

॥ इति सनत्कुमारीये पञ्चमः पटलः ॥ ५ ॥