अथ चतुर्थः पटलः
ध्यात्वा विश्वमयं देवं नवीनजलदप्रभम् ।
नवनीतं दक्षहस्ते दधानं पीतवाससम् ॥ १ ॥
आवाह्य पूजयेन्मन्त्रे शङ्खस्थापनपूर्वकम् ।
शङ्खमन्त्राम्बुभिः प्रोक्ष्य वामतो वह्निमण्डले ॥ २ ॥
साधारं स्थापयेद् विद्वान् बिन्दुश्रुतसुधामयैः ।
तोयैः सुगन्धिपुष्पाद्यैः पूजयेत् तं यथाविधि ॥ ३ ॥
आधारं पावकं शङ्खं सूर्यं तोयं सुधाकरम् ।
स्मरेद् वह्न्यर्कचन्द्राणां कलास्तास्ताष्वनुक्रमात् ॥ ४ ॥
मूलमन्त्रं जपेत् स्पृष्ट्वा न्यसेत् तस्याऽङ्गमन्त्रवित् ।
हृन्मन्त्रेणाऽभिसम्पूज्य हस्ताभ्यां छादयेत् पुनः ॥ ५ ॥
जपेन्मन्त्रं यथाकालं देशिको देवताधिया ।
अस्त्रमन्त्रेण संरक्ष्य कवचेनाऽवगुण्ठ्य च ॥ ६ ॥
धेनुमुद्रां समापाद्य बोधयेत् तं स्वमुद्रया ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥ ७ ॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ।
तीर्थावाहनमन्त्रोऽयं प्रोक्तः सर्वसमृद्धिदः ॥ ८ ॥
दक्षिणे प्रोक्षणीपात्रमादायाऽद्भिः प्रपूरितम् ।
किञ्चिदर्घ्याम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेत् ॥ ९ ॥
अर्घ्यस्योत्तरतः कार्यं पाद्यार्घ्याचमनीयकम् ।
आत्मानं यागवस्तूनि सर्वत्र प्रोक्षयेद् गुरुः ॥ १० ॥
शङ्खस्थापनकं सम्यक् प्रोक्तं सर्वसमृद्धिदम् ।
शिवादयश्च सम्पूज्याः केशवेष्वङ्गदेवताः ॥ ११ ॥
आवाह्य प्राणमनुना प्राणस्थापनमाचरेत् ।
पाशादित्र्यक्षरस्यान्ते हंसोऽमुष्य पदं पुनः ॥ १२ ॥
क्रमात् प्राणा इह प्राणास्तथा जीव इह स्थितः ।
अमुष्य सर्वेन्द्रियाणि भूयोऽमुष्यपदं वदेत् ॥ १३ ॥
वाङ्मनोनयनश्रोत्रघ्राणप्राणाः पदान्यथ ।
पश्चादिहागत्य मुखं चिरं तिष्ठन्तु ठद्वयम् ॥ १४ ॥
अयं प्राणमनुः प्रोक्तः सर्वेषां प्राणदायकः ।
स्वागतं कुशलप्रश्नं निगदेदग्रतो गुरुः ॥ १५ ॥
पाद्यं पादाम्बुजे दद्याद् देवस्य हृदयात्मना ।
एतच्छ्यामाकदूर्वाब्जविष्णुक्रान्ताभिरीरितम् ॥ १६ ॥
स्वधामन्त्रेण वदने दद्यादाचमनीयकम् ।
जाती - लवङ्ग - कक्कोलैस्तदुक्तं तन्त्रवेदिभिः ॥ १७ ॥
अर्घ्यं दिशेत् ततो मूर्ध्नि शिरोमन्त्रेण देशिकः ।
गन्ध - पुष्पाऽक्षत - यव - कुशाम्बु - तिल - सर्षपैः ॥ १८ ॥
दूर्वाभिः सर्व - देवानामेतदर्घ्यमुदीरितम् ।
स्वधात्मना ततः कुर्यान्मधुपर्कं समाहितः ॥ १९ ॥
आज्यं दधिमधून्मिश्रमेतदुक्तं मनीषिभिः ।
स्वधात्मना ततः कुर्यादद्भिराचमनीयकम् ॥ २० ॥
गन्धाद्भिः कारयेत् स्नानं वाससी परिधापयेत् ।
दद्याद् यज्ञोपवीतं च हाराद्याभरणैः सह ॥ २१ ॥
अर्घ्येणाऽभ्युक्ष्य देवेशं गन्धाद्यैः पूजयेत् तदा ।
गन्ध - चन्दन - कर्पूर - कालागुरुभिरीरितम् ॥ २२ ॥
षोडशैरुपचारैश्च पूजयित्वा प्रत्यत्नतः ।
आवृतीः पूजयेद् भक्त्या यथावदवधारय ॥ २३ ॥
वासुदेवं देवकीं च नन्दं नन्दप्रियं तथा ।
कमलां भारतीं चैव रतिं शान्तं च पत्रतः ॥ २४ ॥
शङ्खं चक्रं गदां चैव पद्मङ्कौस्तुभमेव च ।
श्रीवत्सं वत्सकं चैव वनमालां समर्चयेत् ॥ २५ ॥
मूलैनैव खगाध्यक्षं पूजयेत् तदनन्तरम् ।
स्वबीजेन ततो देवं गन्धपुष्पादिभिः क्रमात् ॥ २६ ॥
यथासङ्ख्यं ततो मन्त्रं पद्माक्षेण जपेदथ ।
समर्चयेत् ततो देवं हृदयादीननन्तरम् ॥ २७ ॥
आत्मदेहमयं कृत्वा प्राणायामं समाचरेत् ।
अथ देवस्य निर्माल्यैर्विष्वक्सेनं समर्चयेत् ॥ २८ ॥
एवं क्रमेण कर्तव्या कृष्णपूजा समाहितैः ।
पश्चाद् गोभ्यः समभ्यर्च्यग्रासं कुर्यात् सुशोभनम् ॥ २९ ॥
केयूराङ्गदहारैश्च कुण्डलैः कटिसूत्रकैः ।
नूपुरैर्वन्यपुष्पैश्च नानारत्नैर्विभूषितम् ॥ ३० ॥
सचन्द्रग्रहनक्षत्रैर्निर्मलं गगनेचरं ।
अथ रत्नप्रभायुक्तं सर्वालङ्कारभूषितम् ॥ ३१ ॥
सनकाद्यैः स्तूयमानं विमानस्थैर्नभोगतैः ।
सर्वलक्षणसंयुक्तं प्रातः कृष्णं समर्चयेत् ॥ ३२ ॥
तथा कल्पप्रभायुक्ते वन्ये काञ्चनमण्डपे ।
रत्नपीठे समासीनं कामिनीशतमध्यगम् ॥ ३३ ॥
चामराद्यैर्वीज्यमानं चन्दनाऽगुरुचर्चितम् ।
ध्यायेन्मध्यन्दिनं कृष्णं सुन्दरं स्मरवर्धनम् ॥ ३४ ॥
गोपालगणमध्यस्थं सुन्दरीशतमध्यगम् ।
तत्सर्वं स्ववशं कृत्वा क्रीडयन्तं मुदान्वितम् ॥ ३५ ॥
गन्धचन्दनमालाद्यैर्भूषितं नयनोत्सवम् ।
यथा मध्ये तथारत्रौ चिन्तयेत् कञ्जलोचनम् ॥ ३६ ॥
काञ्चने राजते पात्रे ताम्रके वाऽप्यभावतः ।
भक्त्या कृष्णं समभ्यर्च्य नैवेद्यं च निवेदयेत् ॥ ३७ ॥
प्रातर्दध्यौदनं दद्यात् पायसं च तथोत्तरम् ।
तथा सशर्करं क्षीरं रात्रौ दद्यात् सुशोभनम् ॥ ३८ ॥
एभिरेव विधानैश्च संसेव्यः परमेश्वरः ।
धर्मार्थकाममोक्षांश्च लभते जपकृन्नरः ॥ ३९ ॥
॥ इति सनत्कुमारतन्त्रे चतुर्थः पटलः ॥ ४ ॥