अथ तृतीयः पटलः
अथ विस्तार्य वक्ष्यामि साधकानां हिताय च ।
हंसमन्त्रेण जीवं वै सतत्त्वं कुण्डलीयुतम् ॥ १ ॥
योगयुक्तेन विधिना परं ब्रह्मणि योजयेत् ।
वामनासापुटे धूम्रं वायुबीजं विचिन्तयेत् ॥ २ ॥
तेन संशोधिततनुर्दक्षे वातं विरेचयेत् ।
दक्षनासापुटे रक्तं वह्निबीजं विचिन्तयेत् ॥ ३ ॥
तेन सञ्जनितो वह्निः शुष्कं देहं च भस्मसात् ।
कृत्वा तं वामया सेच्यं ठं बीजं शुक्लवर्णकम् ॥ ४ ॥
ललाटे योज्य चन्द्रस्थं तेन वै ताडयेत् ततः ।
तेन सञ्जनितं देहं पवित्रं सुमनोहरम् ॥ ५ ॥
भावयित्वा विधानेन जीवं स्वस्थानमानयेत् ।
सोऽहं मन्त्रेण कुण्डल्या तत्त्वैश्च परिवारितम् ॥ ६ ॥
भूतशुद्धिरियं प्रोक्ता सर्वसम्पत्प्रदायिनी ।
प्राणयाममथो वक्ष्ये यथावदवधारय ॥ ७ ॥
दक्षया रेचयेद् वायुं द्वात्रिंशन्मानमानतः ।
ईडया कर्षयेद् वायुं मनोः षोडशमात्रया ॥ ८ ॥
सुषुम्नामध्यगं कृत्वा विद्यासङ्ख्येन धारयेत् ।
येनैव पूरयेद् वायुं तेनैव रेचयेत् पुनः ॥ ९ ॥
येनैव रेचयेत् पूर्वं तेनैव पूरयेत् पुनः ।
उभयोर्मध्यगं कृत्वा तत्तन्मात्राभिधारणम् ॥ १० ॥
ततः पूर्वोक्तरूपं तत् प्राणायामं व्यवस्थितम् ।
मातृकान्यासकं वक्ष्ये यथावदवधारय ॥ ११ ॥
ललाटे च मुखे चैव चक्षुषोः कर्णयोस्तथा ।
नसोश्च गण्डयोश्चैव ओष्ठयोर्दन्तयोस्तथा ॥ १२ ॥
मस्तके च मुखे चैव स्वरान् वै क्रमतो न्यसेत् ।
हस्तयोः पादयोश्चैव सन्धिष्वग्रे यथाविधि ॥ १३ ॥
पार्श्वयोः पृष्ठतश्चैव नाभौ च उदरे तथा ।
ककारादीन् मकारान्तान् वर्णान् तत्तद्गतान् न्यसेत् ॥ १४ ॥
हृदये स्कन्धद्वन्द्वे च अंसयोश्च निरामयः ।
यादयश्चैव चत्वारो न्यसनीयाः प्रयत्नतः ॥ १५ ॥
शादयश्च षडेवैते हृदयादिषु निर्दिर्शत् ।
हस्तपादयुगे नाभौ वक्त्रौष्ठसुविनिश्चयः ॥ १६ ॥
मातृकान्यासमेतद्धि प्रोक्तं सर्वसमृद्धिदम् ।
पीठन्यासमथो वक्ष्ये यथावदवधारय ॥ १७ ॥
कल्पयेदात्मनो देहे पाठं धर्मादितः क्रमात् ।
भास्करं च गणेशानं शिवं दुर्गां प्रपूजयेत् ॥ १८ ॥
अंशोरुयुगयोर्विद्वान् प्रादक्षिण्येन देशिकः ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं न्यसतु क्रमात् ॥ १९ ॥
मुखपार्श्वनाभिपार्श्वेष्वधर्मादीन् प्रकल्पयेत् ।
धर्मादयः स्मृताः पादाः पीठगात्राणि चापरे ॥ २० ॥
अनन्तहृदये पद्ममस्मिन् सूर्येन्दुपावकान् ।
एषां स्वस्वकला न्यस्याः प्रणवाक्षरपूर्विकाः ॥ २१ ॥
सत्वादींस्त्रीन् गुणान् न्यस्येत् तथैव त्रिगुरूत्तमः ।
आत्मानमन्तरात्मानं परमात्मानमेव च ॥ २२ ॥
ज्ञानात्मानं न्यसेद् धीमान् मायाबीजपुरःसरम् ।
नमो भगवते ब्रूयात् विष्णवे च पदं वदेत् ॥ २३ ॥
सर्वात्मसंयोगपदं योगपद्मपदं वदेत् ।
पीठात्मने हृदन्तोऽयं मनुस्तवादिरीरितः ॥ २४ ॥
विमलोत्कर्षिणी ज्ञाना क्रियायोगा च शक्तयः ।
ब्रह्मीशयोस्तथेशाना नान्तर्ग्रहा नवमी मता ॥ २५ ॥
यदासनं भवेद् यस्य तस्मिन् देवासने यजेत् ।
इच्छा ज्ञानं क्रिया चैव कामिनी कामदायिनी ॥ २६ ॥
रती रतिप्रिया चैव मध्ये चैव मनोन्मनी ।
सोऽहं सदाशिवप्रेतं ङेऽतं देव्या समाश्रयेत् ॥
पीठन्यासं विधायेत्थं चिन्तयेदिष्टदेवताम् ॥ २७ ॥
॥ इति सनत्कुमारतन्त्रे पीठयजनं नाम तृतीयः पटलः ॥ ३ ॥