०२

अथ द्वितीयः पटलः
अथ सम्यक् प्रवक्ष्यामि यजनं ध्यानमेव च ।
ध्यानं चैव त्रिकालस्य नैवेद्यं च निशामय ॥ १ ॥
ब्राह्मे मुहूर्ते उत्थाय शुचिर्भूत्वा समाहितः ।
आसने उपविश्याथ गुरुं नत्वा पुटाञ्जलिः ॥ २ ॥
आत्मानं ब्रह्मणो रूपं चिन्तयेच्च मुहुर्मुहुः ।
जप्त्वामन्त्रं च सर्वेषां वादिनां विजयी भवेत् ॥ ३ ॥
ततः स्नात्वा शुचिर्भूत्वा सन्ध्यादीन् वैदिकांस्तथा ।
कुर्याद् गुरूपदेशेन लौकिकानपि देशिकः ॥ ४ ॥
श्रीकृष्णं तर्पयामीति मूलमुच्चार्य तर्पयेत् ।
पूजाद्वारे चोपविश्य पादप्रक्षालनं सुधीः ॥ ५ ॥
शिखाया बन्धनं चैव चास्त्रमन्त्रेण मन्त्रवित् ।
आचम्य द्वारदेवांस्तु पूजयेत् साधकोत्तमः ॥ ६ ॥
विघ्नानुत्सादयित्वा तु हस्तभूम्योर्विशोधनम् ।
गुरुं नत्वा गणेशं च वास्तुपूजां समाचरेत् ॥ ७ ॥
ब्रह्माणं पूजयित्वा तु आत्मासनमतः परम् ।
भूतशुद्धिं विधायाऽथ देवेऽहं चिन्तयेद् बुधः ॥ ८ ॥
ऋष्यादिन्याससर्वांश्च मातृकाणां ततो न्यसेत् ।
प्राणायामत्रयं कुर्यादङ्गन्यासं च मन्त्रवित् ॥ ९ ॥
आचक्रं च सुचक्रं च विचक्रं च द्विजोत्तमः ।
त्रैलोक्यरक्षणं चक्रमसुरान्तकमेव च ॥ १० ॥
एकैकं पूर्वतः कृत्वा चक्रशब्दं नियोजयेत् ।
चतुर्थ्यन्तं तु संसाध्य स्वाहाशब्दमनन्तरम् ॥ ११ ॥
तथा चाङ्गं समुच्चार्य प्रत्येकैकं नियोजयेत् ।
नमः स्वाहा स्वधा वौषट् वषट्कारं तथास्त्रकम् ॥ १२ ॥
हृदि मूर्ध्नि शिखादेशे तनौ दिक्षु तथाक्रमम् ।
स्वशक्तिभिः केशवाद्यैर्न्यासं कुर्याद् विचक्षणः ॥ १३ ॥
विभूतिपञ्जरं न्यस्य न्यसेत् तन्मूर्तिपञ्जरम् ।
तत्त्वन्यासं प्रकुर्वीत करन्यासं तथा बुधः ॥ १४ ॥
मन्त्रन्यासं प्रकुर्वीत व्यापकं च त्रिधा न्यसेत् ।
विभूतिपञ्जरन्यासं यत्र यत्र दशाक्षरम् ॥ १५ ॥
एवं कल्पोक्तकान् न्यासान् क्रमेण परिकल्पयेत् ।
शङ्खस्थापनकं चापि कुर्याद् गुरुपदेशतः ॥ १६ ॥
अर्घ्यं चापि तथा कृत्वा द्रव्यमभ्युक्ष्य यत्नतः ।
पीठं प्रकल्प्य देहे स्वे धर्मादीन वै प्रपूजयेत् ॥ १७ ॥
हृदि चैवमनन्तादीन् पूजयेच्च यथाविधि ।
बाह्यं मुख्यं गृहस्थस्य वर्णिनोऽन्तःप्रपूजनम् ॥ १८ ॥
यन्त्रं निर्माय ताम्रे तु ह्यनन्तादीन् प्रकल्पयेत् ।
तस्य कोणेषु धर्मादीन् तत्पार्श्वे पूर्वधर्मकान् ॥ १९ ॥
मध्येऽपि पूजयेन्नित्यमनन्तादि चतुर्दश ।
केशरेषु च पूजा वै विमलाद्याश्च देवताः ॥ २० ॥
आत्मानं देवतां भाव्य स्वनासापुटकेन तु ।
निःसार्य पूजयेद् देवं समावाह्य च यत्नतः ॥ २१ ॥
अनन्ताद्यैश्च बीजैश्च प्राणस्थानं समाचरेत् ।
पाद्यादींश्चैव यत्नेन पूजयेदाकृतीगणान् ॥ २२ ॥
धूपदीपौ समासाद्य नैवेद्यं च निवेदयेत् ।
जप्त्वा मन्त्रं च तन्त्रोक्तं पूजयेद् देववत् स्वयम् ॥ २३ ॥
श्रीकृष्णं तर्पयामीति मूलमुचार्य यत्नतः ।
वारत्रिरर्घ्यतोयेन तर्पयेन्मन्त्रमध्यके ॥ २४ ॥
प्राणायामत्रयं कुर्याद् व्यापकं च त्रयं न्यसेत् ।
तन्त्रोक्तेन विधानेन प्रयोगं कुरुते सुधीः ॥ २५ ॥
॥ इति सनत्कुमारतन्त्रे पूजासूत्रं नाम द्वितीयः पटलः ॥ २ ॥