०१

प्रथमः पटलः
ॐ नमो गणेशाय

नमः कनक-किञ्जल्क-पीत-निर्मल-वाससे ।
महाभुज-रिपुस्कन्ध-घृष्टचक्राय चक्रिणे ॥ १ ॥
विविक्ते भुवने रम्ये सिद्धचारणसेविते ।
सनत्कुमारं नत्वाऽथ पप्रच्छेदं पुलस्त्यकः ॥ २ ॥
कृष्णस्य च महाबाहोर्माहात्म्यं वक्तुमर्हसि ।
मन्त्रराजं यथान्यायं प्रसादं कुरु सुव्रत ॥ ३ ॥

सनत्कुमार उवाच

शृणु रूपं प्रवक्ष्म्यामि कृष्णस्यार्भककर्मणः ।
यस्याऽहं वशगा नित्यं रविरुद्राः सवासवाः ॥ ४ ॥
किं वा ते महिमा तस्य वक्तव्यो द्विजसत्तमः ।
दिवि भुव्यन्तरिक्षे च विष्णुरित्यभिधीयते ॥ ५ ॥
विधानं तस्य वक्ष्यामि यथातत्त्वं निशामय ।
आदौ गुरुमुखाल्लब्ध्वा मन्त्रं भक्तिसमन्वितः ॥ ६ ॥
गुरवे दक्षिणां दत्त्वा पूर्वसेवां समाचरेत् ।
द्विजसन्तर्पणं कृत्वा प्रहृष्टेनाऽन्तरात्मना ॥ ७ ॥
आदौ नैमित्तिकं कृत्वा सूर्यं सम्पूज्य भक्तितः ।
देवार्चनं तथा कृत्वा यागं कुर्याद् दयान्वितः ॥ ८ ॥
गिरौ नद्यां वने तीर्थे गोष्ठे देवालये तथा ।
अश्वत्थे सागरान्ते वा जपेत् प्रतिसहस्रकम् ॥ ९ ॥
शतं चैवाष्टकं कृत्वा भुक्त्वा स्थानेषु बुद्धिमान् ।
षोडशेनोपचारेण सम्पूज्य मधुसूदनम् ॥ १० ॥
काले ध्यात्वा यथान्यायं नैवेद्यं च निवेदयेत् ।
विष्णवे हृदयाह्वानं मन्त्रराजं निशामय ॥ ११ ॥
समाहितः शुचिर्भूत्वा भक्तिमानुद्धरेत् बुधः ।
ओङ्कारं पूर्वमुद्धृत्य त्रिवारं परमेश्वरम् ॥ १२ ॥
यद् यत् कामो भवेन्मन्त्री मन्त्रस्यादौ निवेदयेत् ।
पद्मजं तन्मुखोपेतं शक्रस्योपरि संस्थितम् ॥ १३ ॥
सेन्दुबिन्दुशिखोपेतं प्रथमं सर्वकामदम् ।
तीर्थं वह्निसमारूढं श्रिया मूर्ध्निं व्यवस्थितम् ॥ १४ ॥
शशिबिन्दुशिखाव्याप्तं द्वितीयं श्रीप्रदायकम् ।
रुद्रं पद्मसमायुक्तं पावकोपरि संस्थितम् ॥ १५ ॥
सेन्दुबिन्दुशिखाक्रान्तं तृतीयं मोक्षदं मतम् ।
खान्तं नान्तं तथा छान्तं धान्तं लान्तं चलद्वयम् ॥ १६ ॥
वान्तं मान्तं तथा षान्तं लान्तं सान्तान्तकं तथा ।
एपरम् ऐपरं चैव अपरान्तं परात्रयं ॥ १७ ॥
आद्यं गोपीजनपदं वल्लभाय ततः परम् ।
स्वाहा शब्दं ततो दद्यात् सम्पूर्णं सिद्धिदायकम् ॥ १८ ॥
॥ इति सनत्कुमारीये प्रथमः पटलः समाप्तः ॥ १ ॥