श्री-साधनामृत-चन्द्रिका
प्रथमः प्रकाशः—
[१] अथ नित्य-कृत्यानि लिख्यन्ते ।
कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण हे । कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण पाहि मां कृष्ण कृष्ण कृष्ण कृष्ण कृष्ण रक्ष माम् ॥
ततः श्री-गुरुं प्रणम्य पृथिवीं प्रार्थयेत्—
समुद्र-मेखले देवि पर्वत-स्तन-मण्डले । विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे ॥
[२] ततो बहिर् यातः पादौ पाणी च प्रक्षाल्य दन्त-धावनं कुर्यात् । ततो रात्रि-वस्त्रं परित्यज्यान्य-वस्त्रं परिधायाचमनं कृत्वा गृह-मध्ये शुद्धासने पूर्वाभिमुख्य् उपविश्य पुनर् आचम्य निजाभीष्ट-मन्त्रं स्मरेत् । ततो निश्चल-मनाः श्री-गुरु-देवं स्मरेत् । यथा यामले—
कृपा-मरन्दान्वित-पाद-पङ्कजं श्वेताम्बरं गौर-रुचिं सनातनम् । शन्दं सुमाल्याभरणं गुणालयं स्मरामि सद्-भक्ति-मयं गुरुं हरिम् ॥
ततश् च—
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥
इत्य् उक्त्वा गुरुं प्रणमेत् ।
[३] ततश् च प्रणाम-वाक्यानि पठित्वा श्री-परम-गुर्व्-आदीन् प्रणमेत् । प्रणाम-वाक्यानि यथा—
पदाब्ज-महसा महा-कुमतिता-तमो-नाशकं व्रज-प्रणय-सुश्रियं प्रणत-ताप-संहारकम् । व्रजेन्द्र-तनय-प्रियं मधुर-मूर्तिम् आह्लादकं नमामि परमं गुरुं भव-समुद्र-सन्तारकम् ॥
इति परम-गुरुभ्यो नमः ।
[४] राधा-व्रजेन्द्रात्मज-भाव-मूर्तये
वृन्दावन-प्रेम-सुखामर-द्रवे । कारुण्य-वारां निधये महात्मने परात्परसमै गुरवे नमो नमः ॥
इति परात्-पर-गुरुभ्यो नमः ।
[५] महा-महिम-वन्दितं सकल-सत्त्व-भद्राकरं
व्रजेन्द्र-सुत-सेवन-प्रणय-सीधु-विश्वम्भरम् । कृपामय-कलेवरं रस-विलास-भूषाधरं नमामि परमेष्ठिनं गुरुम् अहं सदा शङ्करम् ॥
इति परमेष्ठि-गुरुभ्यो नमः ।
[६] त्रायस्व भो जगन्नाथ
गुरो संसार-वह्निना । दग्धं मां काल-दष्टं च त्वाम् अहं शरणं गतः ॥ इति ॥ हे श्री-गुरो ज्ञानद दीनबन्धो स्वानन्द-दातः करुणैकसिन्धो । वृन्दावनासीन-हितावतार प्रसीद राधा-प्रणय-प्रचार ॥ इति ॥
[७] ततः श्री-कृष्ण-चैतन्य-महाप्रभोः प्रणामः—
आनन्द-लीला-मय-विग्रहाय हेमाभ-दिव्य-छवि-सुन्दराय । तस्मै महा-प्रेम-रस-प्रदाय चैतन्य-चन्द्राय नमो नमस् ते ॥ इति । [CCA ६८] यस्यैव पादाम्बुज-भक्ति-लभ्यः प्रमाभिधानः परमः पुमर्थः । तस्मै जगन्-मङ्गल-मङ्गलाय चैतन्य-चन्द्राय नमो नमस् ते ॥ [CCA १४]
[८] ततो विज्ञापनम् ।
संसार-दुःख-जलधौ पतितस्य काम- क्रोधादि-नक्र-मकरैः कवलीकृतस्य । दुर्वासना-निगडितस्य निराश्रयस्य चैतन्य-चन्द्र मम देहि पदावलम्बम् ॥ [CCA ९१]
[९] ततः श्री-नित्यानन्द-प्रभोः प्रणामः—
औदार्येण सुकाम-धेनु-दिविषद्-वृक्षेन्दु-चिन्तामणि- वृन्दं ब्रह्म-सुखं च सुन्दरतया कदर्प-वृन्दं प्रभुम् । वात्सल्येन सुमातृ-धेनु-निचयं विस्पर्धिनं नन्दिनं नित्यानन्दम् अहं नमामि मधुर-प्रेमाब्धि-संवर्धिनम् ॥९॥ इति ॥
विज्ञापनं, यथा—
हाडाइ-पण्डित-तनूज कृपा-समुद्र पद्मावती-तनय तीर्थ-पदारविन्द । त्वं प्रेम-कल्प-तरुर् आर्ति-हरावतार मां पाहि पामरम् अनाथम् अनन्य-बन्धुम् ॥
[१०] ततः श्री-अद्वैत-प्रभोः प्रणतिः—
येन श्री-हरिर् ईश्वरः प्रकटयाञ्चक्रे कलौ राधया प्रेम्णा येन महेश्वरेण सकलं प्रेमाम्बुधौ प्लावितम् । विश्वं विश्व-प्रकाशि-कीर्तिम् अतुलं तं दीन-बन्धुं प्रभुम् अद्वैतं सततं नमामि हरिणाद्वैतं हि सर्वार्थदम् ॥ इति ।
विज्ञप्तिः—
अद्वैतं ते करुणया प्रणयावलोकैः के वाभवन् न हि शची-तनयस्य दासाः । प्रेमाम्बुधौ च सहसा बत के न मग्ना आशापि नो भवति मे बत किं ब्रवीमि ॥ इति ।
[११] श्री-गदाधर-पण्डितस्य प्रणामः—
यत्-पादाब्ज-नखाग्र-कान्ति-लवतो ह्य् अज्ञान-मोह-क्षयं यत्-कारुण्य-कटाक्षतः स्वयम् असौ श्री-गौर-कृष्णो वशम् । यातीषद्-भजनाच् च यस्य जगतां प्रेमेन्दुर् अन्तर्नभो नौमि श्रील-गदाधरं तम् अतुलानन्दैक-कल्प-द्रुमम् ॥ इति ।
विज्ञापनं—
हे हे गदाधर दया-सरितां पतिस् तं प्रेम्णा वशीकृत-शची-तनयो विभुश् च । पद्मावती-तनय एव तथा वशी ते किं ते ब्रवीमि मयि पामरके कृपायै ॥ इति ।
[१२] श्री-श्रीवासादीनां प्रणामः—
ये तीर्थ-प्रमिताः पुनन्ति जगतः सद्-वैद्य-कल्पाः प्रति कुर्वन्तीन्दु-निभाः कृपामृत-रुचो’प्य् आप्याययन्ति स्वयम् । सुस्निग्धया हरिचन्दनानि कलन्त्याभूष्यन्त्य् अद्भुता रत्नानीव हि तान् नमामि सततं श्रीवास-मुख्यान् मुहुः ॥
विज्ञापनम्—
हे श्रीवासादय इह कृपा-मूर्तयो गौर-कृष्ण- प्रेमाम्बुधेः सुर-विटपिनः शान्त-सौम्य-स्वभावाः । दीनोद्धारे प्रबल-नियमाः प्रेमदा यूयम् एव तस्माद् अज्ञं प्रपद-रजसा पापिनं मां पुनीत॥ इति ।
[१३] श्री-नवद्वीपस्य प्रणामः—
नवीन-श्री-भक्तिं नव-कनक-गौराकृति-पतिं नवारण्य-श्रेणीं नव-सुर-सरिद्-वात-वलितम् । नवीन-श्री-राधा-हरि-रसमय-कीर्तन-विधिं नवद्वीपं वन्दे नव-करुणम् आद्यं नव-रुचिम् ॥
[१४] श्री-गङ्गायाः प्रणामः—
नवद्वीपाराम-प्रकर-कुसुमामोद-वलितां स्फुरद्-रत्न-श्रेणी-चित-तट-सुतीर्थावलि-युताम् । हरेर् गौराङ्गस्यातुल-चरण-रेणूक्षित-तनुं समुद्यत्-प्रेमोर्मि-तुमुल-हरि-सङ्कीर्तन-रसैः ॥ प्रभु-क्रीडा-पात्रीम् अमृत-रस-गात्रीम् ऋषि-घटा- शिव-ब्रह्मेन्द्रादीडित-माहात्म्य-मुखराम् । लसत्-किञ्जल्काम्भोजनि-मधुप-गर्भोरु-करुणाम् अहं वन्दे गङ्गाम् अघ-निकर-भङ्गाजल-कणाम् ॥ इति ।
[१५] ततः श्री-गुरु-रूपां सखीं प्रणमेत्, यथा—
राधा-सम्मुख-संसक्तां सखी-सङ्ग-निवासिनीम् । ताम् अहं सततं वन्दे परां गुरु-रूपां सखीम् ॥
[१६] एवं क्रमेण यूथेश्वरीं प्रणम्य श्री-राधिकां प्रणमेत्—
रातोत्सव-विलासिन्यै नमस् ते परमेश्वरि । कृष्ण-प्राणाधिके राधे परमानन्द-विग्रहे ॥ प्रणमामि महा-नृत्य-मयीं त्वाम् अतिसुन्दरीम् । रत्नालङ्कृत-शोभाढ्यां कुसुमार्चित-विग्रहाम् ॥ इति ।
विज्ञप्तिः [उत्कलिका-वल्लर्यां, १९]—
भवतीम् अभिवाद्य चाटुभिर् वरम् ऊर्जेश्वरि वर्यम् अर्थये । भवदीयतया कृपां यथा मयि कुर्याद् अध्कां बकान्तकः ॥
[१७] श्री-कृष्णस्य प्रणामः—
नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च ।
जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः ॥ नमो नलिन-नेत्राय वेणु-वाद्य-विनोदिने । राधाधर-सुधा-पान-शालिने वनमालिने ॥ इति ॥
विज्ञप्तिः [उत्कलिका-वल्लर्यां, १८]—
प्रणिपत्य भवन्तम् अर्थये पशुपालेन्द्र-कुमार काकुभिः । व्रज-यौवतमौलि-मालिका- करुणापात्रम् इमं जनं कुरु ॥
[१८] श्री-ललितादीनां प्रणामः—
कारुण्य-कल्प-लतिके ललिते नमस् ते राधा-समान-गुण-चातुरिके विशाखे । त्वां नौमि चम्पक-लते’च्युत-चित्त-चञ्च- रीके विचित्र-चरिते च सुचित्र-रेखे ॥ श्री-रङ्ग-देवि दयित-प्रणयाङ्ग-रङ्गे तुभ्यं नमो’स्तु सुख-लास्य-सरित् सुदेवि । विद्या-विनोद-सदने’पि च तुङ्ग-विद्ये पूर्णेन्दु-खण्डन-खरे सुमुखीन्दु-लेखे ॥ राधानुजे मम नमो’स्तु अनङ्ग-देवि तुभ्यं सदा मधुमति प्रियता-मरन्दे । सौहार्द्य-सख्य-विमले नमो’स्तु श्री-श्यामले परम-सौहृद-पात्र-राधे ॥ हे पालिके प्रणय-पालिनि ते नमो’स्तु श्री-मङ्गले परम-मङ्गल-सीम-रूपे । धन्ये व्रजेन्द्र-तनय-प्रियता-सुसम्पन्- नौमीश-चन्द्र-रुचिरे ननु तारके त्वाम् ॥ इति ।
विज्ञप्तिः—
श्री-राधिका-प्रणय-निर्झर-सिक्त-चित्त- वृत्ति-प्रसून-परिमोदित-माधवास्ते । प्रेमानुराग-गुरवो ललितादयो मां स्वाङ्घ्र्यब्ज-रेणु-सदृशीम् अपि भावयन्तु ॥ इति ।
[१९] श्री-कृष्ण-किङ्करादीनां प्रणामः—
रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः । रसालः सुविलासश् च प्रेमकन्दो मरन्दकः ॥ आनन्दश् चन्द्रहासश् च पयोदो बकुलस् तथा । रसदः शारदाद्याश् च व्रजस्था अनुगा मताः ॥ मणि-मय-वर-मण्डनोज्जलाङ्गात् पुरट-जवा-मधुलिट्-पटीराभासः । निज-वपुर्-अनुरूप-दिव्य-वस्त्रान् व्रज-पति-तनय-किङ्करान् नमामि ॥
[२०] तद्-वयस्यानां प्रणामः—
क्षणादर्शनतो दीनाः सदा सह-विहारिणः । तद्-एक-जीविताः प्रोक्ता वयस्या व्रज-वासिनः ॥ बलानुज-सदृग्-वयो-गुण-विलास-वेष-श्रियः प्रियङ्करण-वल्लकी-दल-विषाण-वेण्व्-अङ्किताः । महेन्द्र-मणि-हाटक-स्फटिक-पद्म-राग-त्विषः सदा प्रणय-शालिनः सहचरा हरेः पान्तु नः ॥
[२१] श्री-बलदेवस्य प्रणामः—
गण्डान्तः-स्फुरद्-एक-कुण्डलम् अलिच्छन्नावतंसोत्पलं कस्तुरीकृत-चित्रकं पृथु-हृदि भ्राजिष्णु-गुञ्जा-स्रजम् । तं वीरं शरद्-अम्बुद-द्युति-भरं संवीत-नीलाम्बरं गम्भीर-स्वनितं प्रलम्ब-भुजम् आलम्बे प्रलम्ब-त्विषम् ॥
[२२] श्री-यशोदायाः प्रणामः—
क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः । रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥ [Bह्P १०.९.३] डोरी-जुटित-वक्र-केश-पटला सिन्दुर-बिन्दूल्लसत्- सीमन्त-द्युति-रङ्ग-भूषण-विधिं नाति-प्रभूतं श्रिता । गोविन्दास्य-निसृष्ट-साश्रु-नयन-द्वन्द्वा नवेन्दीवर- श्याम-श्याम-रुचिर् विचित्र-सिचया गोष्ठेश्वरी पातु वः ॥
[२३] श्री-व्रजाधीशस्य प्रणामः—
तिल-तण्डुलितैः कचैः स्फुरन्तं नव-भाण्डीर-पलाश-चारु-चेलम् । अति-तुन्दिलम् इन्दु-कान्ति-भाजं व्रज-राजं वर-कूर्चम् अर्चयामि ॥
[२४] श्री-रोहिणी-देव्याः प्रण्âमः—
पुत्राद् उच्चैर् अपि हल-धरात् सिञ्चति स्नेह-पुरैर् गोविन्दं याद्भुत-रसवती-प्रक्रियासु प्रवीणा । सख्य-श्रीभिर् व्रजपुर-महाराज-राज्ञीं नयैस्तद् गोपेन्द्रं या सुखयति भजे रोहिणीम् ईश्वरीं ताम् ॥ [VVS ११]
[२५] श्री-वृषभानोः—
खर्व-श्मश्रुम् उदारम् उज्ज्वल-कुलं गौरं समानं स्फुरत्- पञ्चाशत्तम-वर्ष-वन्दित-वयः-क्रान्तिं प्रवीणं व्रजे । गोष्ठेशस्य सखायम् उन्नततर-श्रीदामतो’पि प्रिअय्- श्री-राधां वृषभानुम् उद्भट-यशो-व्रातं सदा तं भजे ॥ [VVS २६]
[२६] श्री-कीर्तिदायाः प्रणामः—
अनुदिनम् इह मात्रा राधा-भव्य-वार्ताः कलयितुम् अतियत्नात् प्रेष्यते धात्रिकायाः । दुहितृ-युगलम् उच्चैः प्रेम-पूर-प्रपञ्चैर् विकल-मति ययासौ कीर्तिदा सावतान् नः ॥ [VVS २७]
[२७] श्री-रूप-मञ्जर्य्-आदीनां प्रणामः—
ताम्बूलार्पण-पाद-मर्दन-पयो-दानादिभिसारादिभिर् वृन्दारण्य-महेश्वरीं प्रियतया यास् तोषयन्ति प्रियाः । प्राण-प्रेष्ठ-सखी-कुलाद् अपि किलासङ्कोचिता भूमिकाः केली-भूमिषु रूप-मञ्जरी-मुखास् ता दासिकाः संश्रये ॥ [VVS ३८]
विज्ञप्तिः—
श्री-राधा-प्राण-तुल्या मधुर-रस-कथा-चातुरी-चित्र-दक्षा- सेवा-सन्तर्पितेशाः स्वसुरत-विमुखा राधिकानन्द-चेष्टाः । सर्वाः सर्वार्थ-सिद्धा निज-गुण-करुणा-पूर्ण-माध्वीक-सारा नर्माल्यो राधिकाया मयि कुरुत कृपां प्रेम-सेवोत्तरा याः ॥
[२८] सर्वाः प्रति विज्ञप्तिः—
हे प्रेम-सम्पद्-अतुला व्रज-नव्य-यूनोः प्राणाधिकाः प्रिय-सखी-प्रिय-नर्म-सख्यः । युष्माकम् एव चरणाब्ज-रजो’भिषेकं साक्षाद् अवाप्य सफलो’स्तु ममैव मूर्धा ॥
[२९] श्री-पौर्णमास्याः प्रणामः—
श्री-पौर्णमास्याश् चरणारविन्दं वन्दे सदा भक्ति-वितान-हेतुम् । श्री-कृष्ण-लीलाब्धितरङ्ग-मग्नं यस्या मनः सर्व-निषेवितायाः ॥
[३०] श्री-वृन्दायाः प्रणामः
तवारण्ये देवि ध्रुवम् इह मुरारिर् विहरते सदा प्रेयस्येति श्रुतिर् अपि विरौति स्मृतिर् अपि । इति ज्ञात्वा वृन्दे चरणम् अभिवन्दे तव कृपां कुरुष्व क्षिप्रं मे फलौत् नितरां तर्ष-विटपी ॥
[३१] श्री-तुलस्याः प्रणामः—
या दृष्ट्वा निखिलाघ-सङ्घ-शमनी-स्पृष्टा वपुः-पावनी रोगानाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी । प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्य तुलस्यै नमः ॥
[३२] श्री-वृन्दावनस्य प्रणामः—
आनन्द-वृन्द-परितुन्दिलम् इन्दिराया आनन्द-वृन्द-परिनिन्दित-नन्द-पुत्रम् । गोविन्द-सुन्दर-वधू-परिनन्दितं तद् वृन्दावनं मधुर-मूर्तम् अहं नमामि ॥ इति ॥
[३३] श्री-यमुनायाः प्रणामः—
गङ्गादि-तीर्थ-परिसेवित-पाद-पद्मां गोलोक-सख्य-रस-पूर-महिं महिम्ना । आप्लाविताखिल-सुसाधु-जनां सुखाब्धौ राधा-मुकुन्द-मुदितां यमुनां नमामि ॥
[३४] श्री-गोवर्धनस्य प्रणामः—
सप्ताहम् एवाच्युत-हस्त-पद्मके भृङ्गायमानं फल-मूल-कन्दरैः । संसेव्यमानं हरिम् आत्म-वृन्दकं गोवर्धनं तं शिरसा नमामि ॥
[३५] श्री-श्याम-कुण्डस्य प्रणामः—
दुष्टारिष्ट-वधे स्वयं समुदभूत् कृष्णाङ्घ्रि-पद्माद् इदं स्फीतं यन्-मकरन्द-विस्तृतिर् इवारिष्टाख्यम् इष्टं सरः । सोपानैः परिरञ्जितं प्रियतया श्री-राधया कारितैः प्रेम्णालिङ्गद् इव प्रियासर इदं तन् नित्य-नित्यं भजे ॥
[३६] श्री-राधा-कुण्डस्य प्रणामः—
श्री-वृन्दा-विपिनं सुरम्यम् अपि तच् छ्रीमान् स गोवर्धनः सा रास-स्थलिकाप्य् अलं रसमयैः किं तावद् अन्य-स्थलैः । यस्याप्य् अंश-लवेन नार्हति मनाक् साम्यं मुकुन्दस्य तत् प्राणेभ्यो’प्य् अधिकं प्रियेव दयितं तत् कुण्डम् एवाश्रये ॥ इति ।
[३७] श्री-व्रजवासिनां प्रणामः—
मुदा यत्र ब्रह्मा तृण-निकर-गुल्मादिषु परं सदा काङ्क्षन् जन्मार्पित-विविध-कर्माप्य् अनुदिनम् । क्रमाद् ये तत्रैव व्रज-भुवि वसन्ति प्रिय-जना मया ते ते वन्द्याः परम-विनयाः पुण्य-खचिताः ॥ इति ।
[३८] श्री-वैष्णवानां प्रणामः—
चैतन्य-चन्द्र-चरितामृत-शुद्ध-सिन्धु- वृन्दावनीय-सुरसोर्मि-समुन्निमग्नाः । ये वै जगन् निज-गुणैः स्वयम् आपुनन्ति तान् वैष्णवांश् च हरि-नाम-परान् नमामि ॥ वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च । पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥
एवं गुर्वाद्-क्रमेण प्रणाम-विज्ञप्ति-पाठस् त्रिसन्ध्यं कर्तव्यम् ।
[३९] अथ प्रातः-स्मरण-कीर्तने—
स जयति विशुद्ध-विक्रमः कनकाभः कमलायतेक्षणः । वरजानु-विलम्बि-सद्-भुजो बहुधाभक्तिरसाभिनर्तकः ॥ जयति जन-निवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ [Bह्P १०.९०.४८] स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ विदग्ध-गोपाल-विलासिनीनां सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् । पवित्रम् आम्नाय-गिराम् अगम्यं ब्रह्म प्रपद्ये नवनीत-चोरम् ॥ उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नं च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥
[४०-४१] अथ तत्र काल-नियमः । यथा श्रील-ध्यान-चन्द्र-गोस्वामि-पादैर् विरचित-पद्धत्यां1 । तत्र निशान्ते ध्यानम् [शारद-तिलके]—
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्या-सहस्रशः ॥ आत्मनो वदनाम्भोजे प्रेरिताक्षि-मधु-व्रताः । काम-बाणेन विवशाश् चिरम् आश्लेषणोत्सुकाः ॥ मुक्ता-हार-लसत्-पीन-तुङ्ग-स्तन-भरानताः । स्रस्त-धम्मिल्ल-वसना मद-स्खलित-भाषणाः ॥ दन्त-पङ्क्ति-प्रमोद्भासि-स्पन्दमानाधराञ्चिताः । विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः ॥ इति ।
[४२] अथ निशान्त-लीलां स्मरेत् । तत्रादौ गौरचन्द्रस्य [भावना-सार-सङ्ग्रहे]—
प्रगे श्रीवासस्य द्विज-कुल-रवैर् निष्कुट-वरे श्रुति-ध्यान-प्रख्यैः सपदि गत-निद्रं पुलकितम् । हरेः पार्श्वे राधा-स्थितिम् अनुभवन्तं नयनजैर् जलैः संसिक्ताङ्गं वर-कनक-गौरं भज मनः ॥ इति ॥
स्मरण-मङ्गले (३)—
रात्र्य्-अन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी- पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः । दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्खटीगीः-सशङ्कौ राधा-कृष्णौ सतृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥
[४३] सनत्-कुमार-संहितायां च ।
[४४] ततो हरिनाम-महा-मत्रं यथा-शक्ति जपेत् । ततः पुनश् च गुर्व्-आदीन् प्रणमेत् यथा—
वन्दे’हं श्री-गुरोः श्री-युत-पद-कमलं श्री-गुरून् वैष्णवांश् च श्री-रूपं साग्रजातं सह-गण-रघुनाथान्वितं तं स-जीवम् । साद्वैतं सावधूतं परिजन-सहितं कृष्ण-चैतन्य-देवं श्री-राधा-कृष्ण-पादान् सह-गण-ललिता-श्री-विशाखान्वितांश् च ॥
ततो मन्त्रादि-विधिं कुर्यात् । ततो वैष्णवाचमनम् । यथा— आदौ पादौ हस्तौ च प्रक्षालयेत् । ततः केशवाय नमः, श्री-नारायणाय नमः, श्री-माधवाय नमः, इति मन्त्र-त्रयं जपन् मुक्ताङ्गुष्ठ-कनिष्ठ-संहताङ्गुलिना दक्षिण-करेण वार-त्रयं जलम् आचमेत् । ततः श्री-गोविन्दाय नमः श्री-विष्णवे नमः इति मन्त्र-द्वयेन पाणि-द्वयं प्रक्षालयेत् । श्री-मधुसूदनाय नमः, श्री-त्रिविक्रमाय नमः इति मन्त्र-द्वयं जपन् संवृताङ्गुष्ठ-मूलेन मुखं वाम-दक्षिण-क्रमाभ्यां वार-द्वयं मार्जयेत् । श्री-वामनाय नमः श्री-श्रीधराय नमः इति मन्त्र-द्वयं जपन् तथा स्ंवृताङ्गुष्ठ-मूलेन ओष्ठाधरौ ऊर्ध्वाधः क्रमेण वार-द्वयं मार्जयेत् । श्री-हृषीकेशाय नमः इत्य् एकं मन्त्रं जपन् पाद-द्वयं प्रक्षालयेत् । श्री-पद्मनाभाय नमः इत्य् एकं मन्त्रं जपन् पुनः पाद-द्वयं प्रक्षालयेत् । श्री-दामोदराय नमः इत्य् एकं मन्त्रं जपन् जलं त्रि-वारम् अभिसिञ्चेत् । श्री-वासुदेवाय नमः इत्य् एकं मन्त्रं जपन् अङ्गुष्ठ-तर्जनीभ्यां नासिके स्पृशेत् । श्री-अनिरुद्धाय नमः श्री-पुरुषोत्तमाय नमः इति मन्त्र-द्वयं जपन् संयुक्ताङ्गुष्ठानामिकाभ्यां नेत्र-युगलं पुनः पुनः । श्री-अधोक्षजाय नमः श्री-नृसिंहाय नमः इति मन्त्र-द्वयं जपन् संयुक्ताङ्गुष्ठानामिकाभ्यां नाभिं स्पृशेत् । श्री-जनार्दनाय नमः इति मन्त्रं जपन् कर-तलेन हृदयं स्पृशेत् । श्री-उपेन्द्राय नमः इति मन्त्रं जपन् सर्वाङ्गुलिभिर् मस्तकं स्पृशेत् । श्री-हरये नमः श्री-कृष्णाय नमः इति मन्त्र-द्वयं जपन् कराग्रेण दक्षिण-वाम-बाहु-मूले स्पृशेत्।
अशक्तः केवलं दक्षं स्पृशेत् कर्णं तथा च वाक् । कुर्वितालभनं वापि दक्षिण-श्रवणस्य वै ॥ [HBV ३.१०८] इति ।
[४५] ततः स्नानार्थं गङ्गादौ गत्वा धौत-वस्त्रं मृत्तिकां च तटे न्यस्य तीर्थं प्रणम्य श्री-कृष्णं च प्रणम्य तं प्रार्थयेत् । प्रार्थना यथा पाद्मे—
देव-देव जगन्नाथ शङ्क-चक्र-गदाधर । देहि विष्णो ममानिज्ञां तव तीर्थ-निषेवणे ॥ पापो’हं पाप-कर्माहं पापात्मा पाप-सम्भवः । त्राहि मां पुण्डरीकाक्ष सर्व-पाप-हरो हरिः ॥ इति ॥
ततो जले प्रविश्य मृत्तिकां गृह्णीयात् । तन्-मन्त्रो यथा पाद्मे—
अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥ उद्धृतासि वराहेण कृष्णेन शत-बाहुना । नमस् ते सर्व-भूतानां प्रभवावनि सुव्रते ॥ इति ॥
[४६] ततो नाभि-दध्न-जले नद्यादौ प्रवाहाभिमुखी पुष्करण्य्-आदौ पूर्वाभिमुखी सन्, आदौ सामान्यतः स्नात्वाचम्य चतुर्दिक्षु चतुर्-हस्त प्रमाणं जलं कृत्वा तत्र तीर्थानि आह्वयेत्, यथा—
गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥
इति पठित्वा कृताञ्जलिर् भूत्वा तीर्थानि सम्प्रार्थयेत् ।
विष्णु-पाद-प्रऋतासि वैष्णवी विष्णु-देवता । त्राहि नस् त्व् एनसस् तस्माद् आजन्म-मरणान्तिकात् ॥ कलिन्द-तनये देवि परमानन्द-वर्धिनि । स्नामि ते सलिले सर्वापराधान् मां विमोचय ॥ पावनं पावनं साक्षाद् दुरितानां महासुरः । प्रसीद कृपणे मय्य् एवार्ते त्वं कृष्ण-वल्लभः ॥ उद्भूतं कृष्ण-पादाब्जाद् अरिष्ट-वधतश् छलात् । पाहि मां पामरं स्नामि श्याम-कुण्डे जले तव ॥ श्री-राधा-सम-सौभाग्यं सर्व-तीर्थ-प्रवन्दितम् ‘ प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे ॥ इति ।
[४७] तीर्थ-प्रार्थना-श्लोक-पञ्चकं पठित्वा श्री-कृष्ण-चरणाम्भोजं ध्यात्वा चावगुण्ठन-मुद्रया सप्तधा मूल-मन्त्रं जप्त्वा तीर्थ-जलं पुनः स-पुटाञ्जलिना स्व-मूर्ध्नि वार-त्रयम् अभिषिञ्च्य स्व-मन्त्रं जपन् सम्मज्ज्य स्नायात् । ततः उत्थाय पुनश् च स्व-मन्त्रं जपन् कुम्भ-मुद्रया वार-त्रयं जलं स्व-मूर्ध्नि अभिसिच्य मार्जनी वस्त्रेण अङ्गानि सम्मार्ज्य तीर्थं महिमा-पद्यानि पठेत् । तानि पद्यानि, यथा—
महा-पाप-भङ्गे दयालो न गङ्गे महेशोत्तमाङ्गे लसच्-चित्त-रङ्गे । द्रव-ब्रह्म-धामाच्युताङ्घ्र्य्-अब्जे मा पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये ॥ चिद्-आनन्द-भानोः सदानन्द-सूनोः पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री । अधानां लवित्री जगत्-क्षेम-धात्री पवित्री-क्रियान् नो व्पुर् मित्र-पुत्री ॥ अये श्री-सरः पावनं नाम सार्थं भवत्व् आनतं स्नानतो मा कृतार्थम् । कुरुष्व् आशु गोपी-रहः-केलि-कीर्ति वदन्तं वसन्तं त्वया तुल्य-वृत्तिम् ॥ अरिष्टामृतान् नन्दसूनोः प्रकाशं महानन्द-वारीन्दिरा-चिद्-विलासम् । अरिष्टं ममाग प्रकृष्टं लुनीहि सदा श्याम-कुण्डं वपुर् नः पुनीहि ॥ नमस् ते समस्तेश्वर-प्रेम-वन्यं महा-तीर्थं निर्मञ्छनीयात्म-धन्यम् । अये राधिका-कुण्ड-गो-षण्ड-नन्दं वपुर् नः पुनीहि प्रमोदीश-शन्दम् ॥ इति ।
[४८] ततस् तीर्थ-तटे आर्द्र-वस्त्रं परित्यज्य शुष्क-वस्त्रं परिधाय तत्रोपविश्य विधिवत् तिलकं कृत्वा पूर्वाभिमुखीभूयाचम्यादौ गुरुदेवं प्रार्थयेत् । यथा—
यो’न्धीकृत्य कुतर्क-घूक-पटलीम् अज्ञान-मोहान्ध-हृत् सन्नुदञ्च कुकर्म-जाड्यम् अभितो हृत्-पद्मम् उल्लासयन् । राधा-माधव-गूढ-रूप-सरणीम् उद्भाषयन् भास्करः स त्वं श्री-गुरुदेव पाहि पतितं मां दीनम् अन्धं जनम् ॥
[४९] ततः श्री-कृष्णं ध्यायेत्, यथा यामले—
ध्यायेत् सौरी-तटे दिव्यैश्वर्य-माधुर्य-भूषिते । वैकुण्ठोत्तम-सौभाग्ये श्री-कृष्णाभ्य्-अधिदैवते ॥ पृथिव्यां विद्यमाने’प्य् अप्राकृते सच्चिदात्मके । माथुरे मधुरैश्वर्य-माधुर्य-निकराकरे ॥ नाना-रत्न-चिते सौरी-वारि-मारुत-सेविते । निष्कामैः पर-माधुर्य-प्रेमैक-पुरुषर्थिभिः ॥ महर्षि-प्रमुखैर् ध्यान-गम्ये’नन्तांश-सम्भवे । नाना-वृक्ष-लता-कुञ्ज-पुष्प-पुञ्ज-सुसौरभे ॥ वृन्दारण्ये कल्प-वृक्ष-तले कोटि-रवि-प्रभे । लोचनानन्द-माधुर्य-दिव्ये श्री-रत्न-मन्दिरे ॥ सहस्र-दल-माणिक्ये केशराम्बुज-मध्यगे । रत्न-सिंहासन-वामे स्थितया राधया सह ॥ राजमानं दलालिस्थ-गोपी-मण्डल-मण्डितम् । कन्दर्प-बीज-गायत्री-पुरणाक्षर-विग्रहम् ॥ द्वात्रिंशल्-लक्षणैर् युतं चतुः-षष्ठि-गुणान्वितम् । कन्दर्प-कोटि-लावण्यं स्फुरच्-चिन्-मय-भूषणम् ॥ नव-यौवन-सम्पन्नं नील-नीरद-सुन्दरम् । रास-विलासिनं नित्यं गोविन्दं सुख-वारिधिम् ॥ इति ।
[५०] ध्यात्वा ततो मूल-मन्त्रं दशधा प्रजपेत् सुधीः ।
ततः कन्दर्प-गायत्र्या पञ्चधार्घ्यं समर्प्य च ॥ दत्त्वा पञ्चोपचारात् सुधेनु-मुद्रां प्रदर्शयेत् । स्व-मन्त्रं दशधा काम-गायत्रीं च जपेत् ततश् च ॥ श्री-कृष्ण-चरणाम्भोजे पञ्चाञ्जलि-जलानि वै । समर्प्य मूल-मन्त्रेण पीत्वा श्री-चरणामृतम् ॥ नत्वा कृष्णं तथा तीर्थं तीर्थानां स्तुतिम् आपठन् । व्रजेद् गृहं ततः प्रीतः श्री-मूर्ति-सेवनोत्सुकः ॥
तत्रार्थ-क्रमेणैव तत्रत्य-विधिः । तत्रादौ श्री-वृन्दावन-यमुना-तटे श्री-योग-पीठे कल्प-वृक्ष-तले श्री-मणि-मन्दिर-मध्ये श्री-रत्न-सिंहासने गोपी-गण-सेवितं श्री-राधया सह श्री-गोविन्दं ध्यायेत् । ततः काम-बीजं दशधा जपेत् । ततः काम-गायत्रीं दशधा जपेत् । ततो’ष्टादशाक्षर-गोपाल-मन्त्रं दशधा जपेत् । ततः श्री-राधिका-गायत्रीं दशधा जपेत् । ततः स्व-स्व-गायत्रीभ्यां पञ्चार्घ्यं समर्प्य जलेनैव पञ्चोपचार-पूजां तयोश् च कुर्यात् । यथा—एतत् पाद्यं, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यं, इदम् आचमनीयम् इति धेनु-मुद्रां प्रदर्श्य सर्वं तन्-मन्त्रेण समर्पयेत् । तम् अपि दशधा जपेत् । ततो मानसोपचारान् नाना-विध-मिष्टान्न-सुवासित-जल-ताम्बूलादीन् समर्प्य आरात्रिकं कृत्वा श्री-राधा-कृष्ण-चरणाम्भोजेषु पञ्च-पञ्चधा जलाञ्जलिं समर्प्य श्री-चरणामृतं गृहीत्वा किञ्चित् शिरसि धृत्वा प्रणमेत् ।
चरणामृत-धारण-मन्त्रो, यथा (HBV ३.२९०)—
अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥
अथ गुर्व्-आज्ञानुसारेण तिलक-धारण-विधिः, यथा पाद्मे (६.२२५.४६)—
आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा । नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते ॥ समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥ इति ।
[५१] हरि-मन्दिर-लक्षणम् (HBV ४.२१६-२१७; Pअद्मP ६.२२५.२७-२८)—
नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् । मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम् ॥ वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः । मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥ इति ।
तिलक-रचनाङ्गुलि-नियमे स्मृतिः (HBV ४.२२१)—
अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् । अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी ॥ इति ।
द्वादशाङ्गेषु तिलक-निर्माण-विधिः, यथा (Pअद्मP ६.२२५.४५-४७)
ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥ विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे । पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् । तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥ ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् । ललाटादि-क्रमेणैव धारणं तु विधीयते ॥
अथ भगवत्-प्रबोधनम्, यथा यामले—
नमस् ते गुरु-देवाय सर्व-सिद्धि-प्रदायिने ।
सर्व-मङ्गल-रूपाय सर्वानन्द-विधायिने ॥ इति ।
ततस् तत्-प्रार्थना, यथा तत्रैव—
श्री-गुरो परमानन्द प्रेमानन्द-फल-प्रद । व्रजानन्द-प्रदानन्द-सेवायां मां नियोजय ॥ इति ।
[५२] ततः श्री-मन्दिर-द्वारं गत्वा श्री-कृष्ण-प्रबोधन-वाक्यं पठेत्, यथा पाद्मे—
ईश्वर श्री-हरे कृष्ण देवकीनन्दन प्रभो । निद्रां मुञ्च जगन्नाथ प्रभात-समयो भवेत् ॥
यामले च—
गो-गोप-गोकुलानन्द यशोदानन्द-नन्दन । उत्तिष्ठ राधया सार्धं प्रातर् आसीज् जगत्पते ॥
इति पद्य-द्वयं पठित्वा तालि-वादन-घण्टा-वादन-पूर्वकं द्वारम् उद्घाटयेत् । ततो दीपं प्रज्वाल्य श्री-सिंहासन-निकटे गत्वा श्री-चरणावादौ स्पृष्ट्वा प्रयत्नतः तौ पुनर् उत्थाप्य श्री-सिंहासनोपरि संस्थाप्य पुनः प्रार्थयेत् । यथा तद्-वचनम् [Bह्P ३.९.२५]—
सो’साव् अदभ्र-करुणो भगवान् विवृद्ध- प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्व-विजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥
देव-प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकन-दानेन भूयो मां पारयाच्युत ॥ (HBV ३.१३२) इति ।
[५३] ततः आचमनार्थं प्रोक्षण-पात्रे जल-गण्डूषाणि दत्त्वा श्री-मुख-कर-चरणादिकं सूक्ष्मार्द्र-वस्त्रेण सम्मार्ज्य निर्माल्योत्तारणं कृत्वा स्वकरौ प्रक्षाल्य श्री-चरणेषु तुलसी-पत्र-मञ्जरीः तत्-तन्-मन्त्राभ्यां समप्यं सर्पिकान्न् अलड्डूकादि निवेद्य सुवासितं जलं दत्त्वाचमनं दद्यात् । ततः ताम्बूलं समर्प्य पुनर् आचमनं दत्त्वा मङ्गल-निराजनं घण्टा-शङ्खादि-वादन-पूर्वकं सजलं शङ्खं भ्रामयित्वा जलं श्री-गरुडोपरि भक्त-जन-मस्तकेषु च प्रक्षिपेद् इति ।
तत्र नीराजन-विधि-क्रमो, यथा यामले—
नवभिः सप्तभिर् मानैर् अङ्गुल्या तल-वर्तिभिः । शशि-गो-घृत-सिक्ताभिः पञ्चभिर् ईषिकान्तरैः ॥ प्रज्वाल्य यत्नतो दीपं काम-बीजं जपन् सुधीः । करयोर् व्युत्क्रमेनैवं तर्जन्य्-अङ्गुष्ठ-योगतः ॥ क्षेपणं भ्रामयंस् तस्योपरि मुद्रां प्रदर्श्य च । शङ्खोदकेन सहितं मूल-मन्त्रेण चार्पयेत् ॥ गायत्रीं च जपन् पुष्पाञ्जलिम् अग्रे समर्प्य च । मूल-मन्त्रेण वादित्वा स्तुत्वा घण्टां च वादयन् ॥ नीराजनं ततः कुर्यात् भ्रामयित्वा पुनः पुनः । चतुष्कं पादयोर् नाभौ द्विरास्ये त्रिविधं ततः ॥ सप्तधा निखिलाङ्गेषु हरेर् नीराजनं जलम् । तुलसी-गरुड-पृथ्वी वैष्णवानां क्रमात् ततः ॥ भ्रामयेत् सजलं शङ्खम् अष्टधा मनुम् आजपन् । तज् जलं गरुडे दत्त्वा वैष्णवेषु च प्रक्षिपेत् ॥ इति ।
प्रणमेत् ततः । ततः श्रीमन्दिरादि-लेपन-मार्जनादिकं कृत्वा स्नान-पूजा-भोजन-पात्र-मार्जन-धौतादिकं विधाय नैवेद्य-जलादिकं संस्कृत्य गन्ध-धूपादिमात्य-पुष्पाणि चिनुयात् ।
इति सूर्योदय-काल-पर्यन्तं कृत्यम् ।
इति श्री-साधनामृत-चन्द्रिकायां प्रथमः प्रकाशः ।
II।
द्वितीयः प्रकाशः
[१] अथ प्रातः षड्-दण्ड-कृत्यम् । तत्रादौ तुलसी-पत्र-मञ्जरी-चयनं कुर्यात् । मन्त्रौ यथा स्कान्दे—
तुलस्यामृत-जन्मासि सदा त्वं केशव-प्रिये । केशवार्थं विचिनोमि वरदा भव शोभने ॥ त्वद्-अङ्ग-सम्भवैः पत्रैः पूजयामि यथा हरिम् । तथा कुरु पवित्राङ्गि कलौ मल-विनाशिनि ॥ (HBV ७.३४७-८)
[२] अथ पूजा-विधि-क्रमः, यथा यामले—
वैष्णवो देव-पूजार्थं पूर्वाभिमुखी आसने । दर्भ-विनिर्मिते शुद्धे उपविश्य निजं गुरुम् ॥ नत्वा स्तुत्वा च सम्प्रार्थ्य निजेष्ट-मनुम् आस्मरन् । वाग्-यतैक-मनास् तत्र सम्प्रदायानुसारतः ॥ शङ्खादि-पूजासम्भारान् न्यस्येत् तत्-तत्-पदेषु तान् । देवस्य दक्षिणाग्रे वै स्नान-तोयं हि संस्कृतम् ॥ स्नानाचमन-पात्रस् तु समीपे विन्यस्येत् ततः । स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः ॥ तत्रैव घण्टां साधारं वामे नैवेद्य-धूपकम् । तुलसी-गन्ध-पुष्पादि-भाजनानि तु दक्षिणे ॥ तत्रैव घृत-दीपं च तैल-दीपं तु वामतः । सम्भारानपरान् न्यस्येत् स्व-दृष्टि-विषये पदे ॥ कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः ॥ इति ।
[३] तत्र शङ्ख-स्थापनं, यथा—आदौ स्व-वामाग्रे भूमौ जलेन त्रिकोण-मण्डलं लिखित्वा तद्-उपरि ओं नमः सुदर्शनायास्त्राय फट् इति मन्त्रेण स्थापयेत् । ओं हृदयाय नमः इति मन्त्रेण शङ्ख-मध्ये गन्धादीन् न्यसेत् । ओं सोम-मण्डलाय षोडश-कलात्मने नमः इति मन्त्रेण जलं पूरयेत् । तद् उपरि गङ्गे च यमुने चैव इत्यादि तीर्थ-मन्त्रं पठित्वा अङ्कुश-मुद्रया तीर्थान्य् आवाहयेत् । काम-बीजेन तुलसी-पत्रं तत्र विन्यस्य काम-गायत्र्या साधार-शङ्खं पूजयेत् । ततो धेनु-मुद्रां प्रदर्श्य तत्रावगुण्ठन-मुद्रया मूल-मन्त्रम् अष्टधा जपेत् । ततश् च तुलसी-पत्रेण किञ्चिज् जलं स्नानादि-पात्र-पूजा-सम्भारेषु सिञ्चेत् । इति ।
[४] अथ घण्टा-स्थापनम् (HBV ६.१५७)—
सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया । वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम् ॥
नारद-पञ्चरात्रे (HBV ६.१५२)—
आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने । नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम् ॥ इति ।
ततश् च वामे आधारोपरि काम-बीजेन घण्टां संस्थाप्य ओं जय-ध्वनि-मन्त्रमातः स्वाहा इति मन्त्रम् उच्चार्य गन्ध-पुष्पेणाभ्यर्च्य वादयेद् इति ।
[५] किं च एकादशे [Bह्P ११.२७.१२]—
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्ट-विधा मता ॥ इति ।
तत्र प्रतिमानुसारेणैव स्नानादिकं यथा-योग्यं कार्यम् इति ।
सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः पाञ्चरात्रिकाः । प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते ॥ सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः । शालग्रामात्मके रूपे नियमो नैव विद्यते ॥ (HBV ५.२९१-२)
यत्र निजाभीष्ट-मन्त्रेणैव सेवनम् इति ।
ततश् चादौ श्री-गुरुदेवं पूर्ववत् प्रणम्य प्रार्थ्य निजाभीष्ट-मन्त्रं दशधा स्मरेत् । ततः स्नानार्थं देवं प्रार्थयेत्, यथा—
यत्-पाद-शौच-तोयेन यद्-दास-पाद-वारिणा । पवित्रम् अखिलं विश्वं स त्वं श्री-राधया सह ॥ निमग्नो’पि महानन्द-वारिधौ करुणार्णव । स्नानाय भव गोविन्द भक्त-वाञ्छाभिपूरक ॥ इति ।
[६] ततश् च देवं स्नाना-पात्रोपरि तुलसी-पत्रासने संस्थाप्य तच्-चरण-पङ्कजे तुलसी-दलानि समर्प्य किञ्चित् शङ्खोदकं दत्त्वा घण्टा-वादन-पूर्वकं तन्-मूल-मन्त्रं जपन् शङ्खोदकेनैव स्नापयेत् । तत्रादौ गन्ध-तैलोद्वर्तनादिकं च यथासम्भव-विधिः । ततश् चाङ्गानि मार्जयित्वा पुनः संस्थाप्य ततो’ङ्ग-जल-मोचनं कारयित्वा शुष्क-वस्त्रं परिधाप्यासनान्तरे संस्थाप्य सम्प्रदायानुसारेण तिलकं दत्त्वा तौलसी-पत्राणि समर्प्य तेन भूषयित्वा गन्ध-माल्यादिकं समर्प्य गुग्गुल-धूपं दत्त्वा मिष्टान्नादि सुवासित-जलादिकं मूल-मन्त्रेणैव समर्प्य बहिर् गत्वासनान्तरे पूर्वाभिमुखी उपविश्य मानसोपचारैश् च तं सेवेत । ततश् च ताल-वादन-पूर्वकं द्वारम् उद्घाट्याचमनं दत्त्वा ताम्बूलं समर्प्य पुनः धूपं दत्त्वा पूर्ववत् शृङ्गारारात्रिकं कुर्यात् ।
[७] अथ प्रातर्-लीला-स्मरणम् । तत्रादौ गौरचन्द्रस्य, यथा भावना-सार-सङ्ग्रहे—
प्रातः स्वः-सरिति स्व-पार्षद-वृतः स्नात्वा प्रसूनादिभिस् तां सम्पूज्य गृहीत-चारु-वसनः स्रक्-चन्दनालङ्कृतः । कृत्वा विष्णु-समर्चनादि स-गणो भुक्त्वान्नम् आचम्य सद् वीटीं चान्य-गृहे क्षणं स्वपिति यस् तं गौरम् अध्येम्य् अहम् ॥ इति ।
स्मरण-मङ्गले—
राधां स्नात-विभूषितां व्रजपयाहूतां सखीभिः प्रगे तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनां । कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं सुस्नातं कृतभोजनं सहचरैस्ताञ्चाथ तञ्चाश्रये ॥ ४ ॥
[८] अथ प्रातः पूजा-विधिः—तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे श्री-रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-कृष्ण-चैतन्य-देवं श्री-गुर्व्-आदि-क्रमेण ध्यात्वा पूजयेत् । तत्र ध्यानादि श्री-चैतन्यार्चन-चन्द्रिकायाम्—
सिंहासनस्य मध्ये श्री-गौर-कृष्णं स्मरेत् ततः । दक्षिणे बलदेवं श्री-नित्यानन्द-सुविग्रहम् ॥ वामे गदाधरं देवम् आनन्द-शक्ति-विग्रहम् । देवस्याग्रे कर्णिकायाम् अद्वैतं विश्व-पावनम् ॥ तद्-दक्षिणे भक्त-वर्यं श्रीवासं छत्र-हस्तकम् । चतुर्दिक्षु महानन्द-मयं भक्त-गणं तथा ॥ इति ।
[९] श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते ।
रूप-स्वरूप-प्रमुखे स्व-गणस्थान् गुरून् स्मरेत् ॥
ततः सिंहासनाधो वाम-पार्श्वे श्री-गुरुदेवं ध्यायेत् । यथा यामले—
शुद्ध-स्वर्ण-रुचिं शुद्ध-भाव-भूषा-कलेवरम् । सच्-चिद्-आनन्द-सान्द्राङ्गं करुणामृत-वर्षिणम् ॥ शशाङ्कायुत-सङ्काशं वराभय-लसत्-करम् । शुक्लाम्बर-धरं देवं शुक्ल-माल्यानुलेपनम् ॥ शिष्यानुग्रह-सन्धानंअ स्मित-नित्य-युताननम् । श्री-कृष्ण-प्रेम-सेवादि-दातारं दीन-पालकम् ॥ समस्त-मङ्गलाधारं सर्वानन्द-मयं विभुम् । ध्यायन् श्री-गुरुदेवं तं परमानन्दम् अश्नुते ॥ इति ।
तत्-पाद-पद्म-सविधे सेवोत्सुकम् आत्मानं च भावयेत्—
दिव्य-श्री-हरि-मन्दिराढ्यम् अलिकं कण्ठं सुमालान्वितं वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्री-खण्ड-लिप्तं पुनः । शुभ्रं सूक्ष्म-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं ध्यायेत् श्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकं चात्मनः ॥ इति ।
[१०] अथ श्री-गुरु-पूजा-विधिः । तन्-मन्त्रेणैव सर्वं कुर्यात् । तद्, यथा— एतत् पाद्यं, एष प्रसादी गन्धः, एतत् प्रसादि-पुष्पम्, एष प्रसादी धूपः, एष प्रसादी दीपः, एतन् प्रसादि-नैवेद्यं, एतत् प्रसादि-पानीय-जलम्, इदम् आचमनीयम्, एतत् प्रसादि-ताम्बूलम्, एतत् प्रसादि-गन्ध-माल्यम्, एष प्रसादि- पुष्पाञ्जलिः इति । ततः प्रार्थना, यथा—
हे श्री-गुरो भुवन-मङ्गल-नाम-धेय ध्येयाङ्घ्रि-पद्मम् ऋषिभिः शरणं निजस्वम् । दीनाय मे दय दया-सरितां पते श्री- कृष्णाङ्घ्रि-पद्म-भजनं सुलभं यद् अस्तु ॥ इति ।
ततस् तन्-मन्त्रं जप्त्वा तद्-गायत्रीं स्मरेत् ।
[११] ततः श्री-कृष्ण-चैतन्यं ध्यायेत्, यथा—
श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं श्री-खण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम् । नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं चैतन्यं कनक-द्युतिं निज-जनैः संसेव्यमानं भजे ॥
ततस् तं पूजयेत् एतत् पाद्यम् इत्य् आदि प्रत्येकम् उक्त्वा श्री-कृष्ण-चैतन्य-चन्द्राय नमः इति मन्त्रेण ।
[१२] श्री-नित्यानन्द-प्रभोर् ध्यानम्—
कञ्जारेन्द्र-विनिन्दि-सुन्दर-गति-श्री-पादम् इन्दीवर- श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-सम्मर्दकम् । प्रेम्णा घूर्न-सुकञ्ज-खञ्जन-मदाजिन्-नेत्र-हास्याननं नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम् ॥
ततस् तं पूजयेत् । एतत् पाद्यम् इत्य् आदि प्रत्येकम् उक्त्वा श्री-नित्यानन्द-चन्द्राय नमः इति मन्त्रेण ।
[१३] श्रीमद्-अद्वैत-प्रभोर् ध्यानं, यथा—
सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् । श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-भूषाञ्चितम् अद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम् ॥ इति ।
ततस् तं पूजयेत् । एतत् पाद्यम् इत्य् आदि प्रत्येकम् उक्त्वा श्री-अद्वैत-चन्द्राय नमः इति मन्त्रेण । ततस् तुलसी-पत्राणि च श्री-प्रभुभ्यः समर्पयेत् ।
[१४] ततः श्री-गदाधरस्य ध्यानं, यथा—
कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् । प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौरचन्द्रेक्षणं ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम् ॥
ततः श्री-महाप्रभोः प्रसाद-निर्माल्यादिना श्री-गदाधरस्य श्री-श्रीवासादीनां च पूजा कर्तव्या । ततः श्री-गदाधरस्य पूजा, यथा – एतत् पाद्यम् एष प्रसादी गन्ध इत्य् आदि प्रत्येकम् उक्त्वा श्री-गदाधराय नमः इति मन्त्रेण ।
[१५] ततः श्रीवासादीनां ध्यानं, यथा—
ये चैतन्य-पदारविन्द-मधुपाः सत्-प्रेम-भूषोज्ज्वलाः शुद्ध-स्वर्ण-रुचो दृग्-अम्भु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः । सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः श्रीवासादि-महाशयान् सुख-मयान् ध्यायेत् तान् पार्षदान् ॥
ततः प्रसादैस् तेषां पूजा, यथा—एष प्रसादी गन्ध इत्य् आदि प्रत्येकम् उक्त्वा श्री-श्रीवासादिभ्यो नमः इति मन्त्रेण । ततः आरात्रिकं पूर्ववत् कुर्यात् ।
[१६] ततः मस्तकाञ्जलिर् भूत्वा सङ्क्षेपेण श्री-गुर्व्-आदीन् प्रणमेत् , यथा—
गुरूणां पादाब्जान्य् अखिल-सुख-सद्मानि नितरां प्रभुं नित्यानन्दं कनक-रुचि-कृष्णं सुरनदीम् । नमान्य् अद्वैतं माधव-तनयम् आह्लाद-वपुषं नवद्वीपं श्रीवास-मुख-रस-भक्तान् स्व-शिरसा ॥ इति ।
तथा प्रार्थना—
प्रसीद श्री-नवद्वीप श्री-गङ्गे श्री-गुरो हरे । श्री-चैतन्य-प्रभो नित्यानन्दाद्वैत कृपार्णव ॥ हे श्री-गदाधर शची-सुत-हार्द-पात्र गान्धर्विका-सुख-तनो रस-सार-गात्र । मां ते पदाब्ज-रजसा सदृशं विभाव्य कीर्तिं प्रचारय निजां कुशलैर् विभाव्य ॥ कल्पागा अमृताम्बुधेर् झष-वराः प्रेमाम्बुधेश् चातका मेघस्यामृत-पायिनो वर-विधोः पद्मानि चण्ड-त्विषः । भृङ्गाः पद्म-वनस्य नाक-सदना विष्णोर् महान्तो हि ते भक्ता गौर-हरेः परं मयि कृपां कुर्वन्त्व् अनन्य-गतौ ॥ इति ।
[१७] ततश् च श्री-गुरोर् आज्ञां गृहीत्वा श्री-वृन्दावन-मध्ये श्री-राधा-कृष्ण-परिजन-मध्ये विराजमानां श्री-गुरु-देवीं ध्यात्वात्मानं तद्-दासी-रूपां भावयेत् । तत्रादौ श्री-गुरोः प्रार्थना, यथा यामले—
त्वं गोपिका वृष-रवेस् तनयान्तिके’सि सेवाधिकारिणि गुरो निज-पाद-पद्मे । दास्यं प्रदाय कुरु मां व्रज-कानने हि राधाङ्घ्रि-सेवन-रसे सुखिनीं सुखाब्धे ॥ इति ।
[१८] ततस् तद्-ध्यानम् । यथा,
कृपामरन्द-सम्पूर्णां शुद्ध-स्वर्ण-लसद्-रुचिम् । क्षीण-मध्यां पृथु-श्रोणीं कस्तुरी-तिलकान्विताम् ॥ तुङ्ग-स्तनीं विधु-मुखीं रत्नाभरण-भूषिताम् । शोणान्तरीय-चित्रेन्दु-ज्योत्स्नाम्बर-विधारिणीम् ॥ हरिन्मणि-चित्र-स्वर्ण-चूडिकां मधुर-स्मिताम् । सीमन्तोपरि सद्-रत्नामलकालिल-सन्-मुखीम् ॥ किशोरीं गोपिकां रम्यां राधिका-प्रीति-भूषणाम् । सुन्दरीं सुकुमाराङ्गीं गुरुं ध्यायेत् प्रयत्नतः ॥ इति ।
[१९] ततस् तन्-मन्त्रं गायत्रीं च दशधा जपेत् । ततः आत्मनो ध्यानं यथा—
श्री-गुरोश् चरणाम्भोज-कृपा-सिक्त-कलेवराम् । किशोरीं गोप-वनितां नानालङ्कार-भूषिताम् ॥ पृथु-तुङ्ग-कुच-द्वन्द्वां चतुः-षष्ठि-कलान्विताम् । रक्त-चित्रान्तरीयाम् आवृत-शुक्लोत्तरीयकाम् । स्वर्ण-चित्रारुण-प्रान्त-मुक्ता-दाम-सुकञ्चुलीम् । चन्दनागुरु-काश्मीर-चर्चिताङ्गीं मधु-स्मिताम् ॥ सेवोपायन-निर्माण-कुशलां सेवनोत्सुकाम् । विनयादि-गुणोपेतां श्री-राधा-करुणार्थिनीम् ॥ राधा-कृष्ण-सुखामोद-मात्र-चेष्टां सुपद्मिनीम् । निगूढ-भावां गोविन्दे मदनानन्द-मोहिनीम् ॥ नाना-रस-कलालाप-शालिनीं दिव्य-रूपिणीम् । सङ्गीत-रस-सञ्जात-भावोल्लास-भरान्विताम् ॥ तप्त-काञ्चन-शुद्धाभां स्व-सौख्य-गन्ध-वर्जिताम् । दिवानिशं मनो-मध्ये द्वयोः प्रेम-भराकुलाम् । एवम् आत्मानम् अनिशं भावयेत् भक्तिम् आश्रितः ॥ इति ।
[२०] अथ वृन्दावन-ध्यानं, यथा गौतमीय-तन्त्रे—
ततो वृन्दावनं ध्यायेत् परमानन्द-वर्धनम् । सर्वर्तु-कुसुमोपेतं पतत्रि-गुण-नादितम् ॥ भ्रमद्-भ्रमर-झङ्कार-मुखरी-कृत-दिङ्-मुखम् । कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ॥ नाना-पुष्प-लता-बद्ध-वृक्ष-षण्डैश् च मण्डितम् । कमलोत्पल-कह्लार-धूलि-धूसरितान्तरम् ॥ तन्-मध्ये रत्न-भूमिं च सूर्यायुत-सम-प्रभाम् । तत्र कल्प-तरूद्यानं नियतं प्रेम-वर्षिणम् ॥ माणिक्य-शिखरालम्बि तन्-मध्ये मणि-मण्डपम् । नाना-रत्न-गणैश् चित्रं सर्वर्तु-सुविराजितम् ॥ नाना-रत्न-लसच्-चित्र-वितानैर् उपशोभितम् । रत्न-तोरण-गोपुर-माणिक्याच्छादनान्वितम् ॥ दिव्य-स्वर्ण-मुक्ता-भार-तार-हार-विराजितम् । कोटि-सूर्य-समाभासं निमुक्तं षट्-तरङ्गकैः । तन्-मध्ये रत्न-रचितं स्वर्ण-सिंहासनं महत् ॥ इति ।
[२१] तन्-मध्ये श्री-राधा-कृष्णं ध्यायेत् । तत्र श्री-कृष्ण-ध्यानं, पाद्मे पाताल-खण्डे (८१.३५-४२)—
पीताम्बरं घन-श्यामं द्विभुजं वनमालिनम् ॥३५॥ बर्हि-बर्ह-कृतोत्तंसं शशि-कोटि-निभाननम् । घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥३६॥ अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना । रचितं तिलकं भाले बिभ्रतं मण्डलाकृतिम् ॥३७॥ तरुणादित्य-सङ्काशं कुण्डलाभ्यां विराजितम् । घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥३८॥ प्रियास्य-न्यस्त-नयनं लीला-पाङ्गोन्नत-भ्रुवम् । अग्र-भाग-न्यस्त-मुक्ता-विस्फुरत्-प्रोच्च-नासिकम् ॥३९॥ दशन-ज्योत्स्नयाराजत्-पक्व-बिम्ब-फलाधरम् । केयूराङ्गद-सद्-रत्न-मुद्रिकाभिर् लसत्-करम् ॥४०॥ बिभ्रतं मुरलीं वामे पाणौ पद्मं तथैव च । काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥४१॥ रति-केलि-रसावेश-चपलं चपलेक्षणम् । हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥४२॥ इत्थं कल्प-तरोर् मूले रत्न-सिंहासनोपरि । वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥४३॥
[२२] ततस् तद्-वामे राधिकां ध्यायेत्, यथा पाद्मे पाताल-खण्डे (८१.४३-५०)—
वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः । नील-चोलक-संवीतां तप्त-हेम-सम-प्रभाम् ॥४४॥ पट्टाञ्चलेनावृतार्ध-सुस्मेरानन-पङ्कजाम् । कान्त-वक्त्रे न्यस्त-नेत्रां चकोरी-चञ्चलेक्षणाम् ॥४५॥ अङ्गुष्ठ-तर्जनीभ्यां च निज-कान्त-मुखाम्बुजे । अर्पयन्तीं पूग-फलं पर्ण-चूर्ण-समन्वितम् ॥४६॥ मुक्ताहार-स्फुरच्-चारुपीनोन्नत-पयोधराम् । क्षीण-मध्यां पृथु-श्रोणीं किङ्किणी-जाल-मण्डिताम् ॥४७॥ रत्न-ताटङ्क-केयूर-मुद्रा-वलय-धारिणीम् । रणत्-कटक-मञ्जीर-रत्न-पादां गुलीयकाम् ॥४८॥ लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् । आनन्द-रस-सम्मग्नां प्रसन्नां नव-यौवनाम् ॥४९॥ सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः । तत्-सेवन-पराभाव्याश् चामर-व्यजनादिभिः ॥५०॥
[२३] यामले यथा शिव उवाच—
प्रधानाष्ट-दलेष्व् एवम् अष्ट श्री-ललितादयः । राधा-कृष्ण-सुखामोदाः सेवोपायन-पाणयः ॥ सुवृन्दा यत्नतो ध्येयास् तत्रादौ ललितोत्तरे । ऐशान्ये तु विशाखैन्द्रे चित्रेन्दु-रेखिकाग्नये ॥ याम्ये चम्पक-वल्ली च नैरृत्ये रङ्ग-वेदिका । पश्चिमे तुङ्ग-विद्याथ सुदेवी वायवे तथा ॥ गोरोचनारुचि-मनोहर-कान्ति-देहां मायूर-पुच्छ-तुलित-च्छवि-चारु-चेलाम् । राधे तव प्रिय-सखीं च गुरुं सखीनां ताम्बूल-भक्ति-ललितां ललितां नमामि ॥ सौदामिनी-निचय-चारु-रुचि-प्रतीकां तारावलि-ललित-कान्ति-मनोज्ञ-चेलाम् । श्री-राधिके तव विचित्र-गुणानुरूपां सद्-गन्ध-चन्दन-रतां कलये विशाखाम् ॥ काश्मीर-कान्ति-कमनीय-कलेवराभां सुस्निग्ध-काच-निचय-प्रभा-चारु-चेलाम् । श्री-राधिके तव मनोरथ-वस्त्र-दाने चित्रां विचित्र-हृदयां सदयां प्र्पद्ये ॥ नृत्योत्सवां हि हरिताल-समुज्ज्वलाभां सद्-दाडिम-कुसुम-कान्ति-मनोज्ञ-चेलाम् । वन्दे मुदा रुचि-विनिर्जित-चन्द्र-लेखां श्री-राधिके तव सखीम् अहम् इन्दुलेखाम् ॥ सद्-रत्न-चामर-करां वर-चम्पकाभां चासाख्य-पक्ष-रुचिर-च्छवि-चारु-चेलाम् । सर्वान् गुणान् तुलयितुं दधतीं विशाखां राधे’थ चम्पकलतां भवत्याः प्रपद्ये ॥ सत्-पद्म-केशर-मनोहर-कान्ति-देहां प्रोद्यज्-जवा-कुसुम-दीधिति-चारु-चेलाम् । प्रायेण चम्पक-लताधिगुणां सुशीलां राधे भजे प्रिय-सखीं तव रङ्ग-देवीम् ॥ सच्-चन्द्र-मण्डल-मनोरम-कुङ्कुमाभां पाण्डु-च्छवि-प्रचुर-कान्ति-लसद्-दुकूलाम् । सर्वत्र कोविदतया महितां समज्ञां राधे भजे प्रिय-सखीं तव तुङ्गविद्याम् ॥ प्रोत्तप्त-शुद्ध-कनक-च्छवि-चारु-देहां प्रोद्यत्-प्रवाल-निचय-प्रभ-चारु-चेलाम् । सर्वानुजीवन-गुणोज्ज्वल-भक्ति-दक्षां श्री-राधिके तव सखीं कलये सुदेवीम् ॥
[२४] अथाष्टोपदलेष्व् एवम् अनङ्ग-मञ्जरी-मुखाः ।
सयूथा यत्नतो ध्येयास् तत्रोत्तरे दल-द्वये ॥ अनङ्ग-मञ्जरी तस्या वामे मधुमती मता । पूर्वयोर् विमला वामे श्यामला दक्षिणे द्वयोः । पालिका-मङ्गले वारुणयोर् धन्या च तारका ॥ अथ किञ्जल्क-पार्श्व-स्थाः सर्वदा सेवनोत्सुकाः । प्रिय-नर्म-सखीर् ध्यायेत् कृष्ण-दक्षिणतः क्रमात् ॥ लवङ्ग-मञ्जरीं रूप-मञ्जरीं रस-मञ्जरीम् । गुण-रत्य्-उत्तरे नाम मञ्जर्यौ भद्र-मञ्जरीम् ॥ लीला-मञ्जरीकां चैव विलास-मञ्जरीं तथा । विलास-मञ्जरीं चान्यां मञ्जर्यौ केलि-कुन्दयोः ॥ मदनाशोक-मञ्जर्यौ मञ्जुलालीं सुधा-मुखीम् । पद्म-मञ्जरिकाम् एताः षोडश प्रवरा मताः ॥ इति ।
श्री-वृन्दान्दीनां ध्यानं, यथा—
गाङ्गेय-चाम्पेय-तडिद्-विनिन्दि- रोचिः-प्रवाह-स्नपितात्म-वृन्दे । बन्धूकवद्-द्योतित-दिव्य-वासो वृन्दे भजे त्वच्-चरणारविन्दम् ॥ वसन्त-कालोद्भव-केतकी-तति-प्रभा- विडम्ब्य्-उद्भट-कान्ति-डम्बराम् । विनिन्दितेन्दीवर-भास्वराम्बराम् अनङ्ग-पूर्वां प्रणमामि मञ्जरीम् ॥ गोरोचनाविनिन्दि-निजाङ्ग-कान्तिं मायूर-पिञ्छाभ-सुचीन-वस्त्राम् । श्री-राधिका-पाद-सरोज-दासीं रूपाख्यकां मञ्जरिकां भजे’हम् ॥ प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां शोणाम्बरां चारु-सुभूषणाढ्याम् । श्री-राधिका-पाद-सरोज-दासीं तां मञ्जुलालीं निरतं भजामि ॥ तारा-निवास-युगलं वसानां तडित्-समान-सुतनु-च्छविं च । श्री-राधिकाया निकटे वसन्तीं भजे सुरूपां रति- मञ्जरीं ताम् ॥ हंस-पक्ष-रुचिरेण वाससा संयुक्तां विकच-चम्पक-द्युतिम् । चारु-रूप-गुण-सम्पदान्वितां सर्वदापि रस- मञ्जरीं भजे ॥ जवा-निभ-दुकूलाढ्यां तडिद्-आलितनु-च्छविम् । कृष्णामोद-कृपापेक्षां भजे’हं गुण- मञ्जरीम् ॥ स्वर्ण-केतकी-विनिन्दिकायिकां निन्दित-भ्रमर-कान्तिकाम्बराम् । कृष्ण-पाद-कमलोप-सेविनीम् अर्चयामि सुविलास- मञ्जरीम् ॥ चपलाद्-द्युति-निन्दि-कायिकां शुभ-ताआवलि-शोभिताम्बराम् । व्रज-राज-सुत-प्रमोदिनीं प्रभजे तां च लवङ्ग- मञ्जरीम् ॥ विशुद्ध-हेमाब्ज-कलेवराभां काच-द्युति-चारु-मनोज्ञ-चेलाम् । श्री-राधिकाया निकटे वसन्तीं भजाम्य् अहं कस्तूरी- मञ्जरीं ताम् ॥ एतासां सङ्गिनी भूत्वा स्व-गुर्व्-आज्ञानुसारतः । राधा-माधवयोर्ः सेवां कुर्यान् नित्यं प्रयत्नतः ॥ इति ।
[२५] ततः श्री-कृष्णं तन्-मन्त्रेणैव पूजयेत् । यथा— एतत् पाद्यम् इत्यादिना । तथा श्री-राधिकां तन्-मन्त्रेणैव पूजयेत् । यथा एतत् पाद्यम् इत्य् आदिना । ततः प्रत्येकं सखीं पूजयित्वा बाह्य-पूजां कुर्यात् । ततो गुरु-मन्त्रं दशधा जपेत् । तद्-गायत्रीं जपेत् । ततः श्री-कृष्ण-मन्त्रम् अष्टोत्तर-सहस्रम् अष्टोत्तरशतं वा जपेत् । ततः काम-गायत्रीं च दशधा जपेत् । ततः श्री-राधा-मन्त्रम् अष्टोत्तर-शतं जपेत् । तद्-गायत्रीं च दशधा जपेत् । ततो जप-समर्पणं कुर्यात् ।
गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् । सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते ॥ वृन्दावने सुर-महीरुह-योग-पीठे सिंहासने स्व-रमणेन विराजमानाम् । पाद्यार्घ्य-धूप-विधु-दीप-चतुर्-विधान् अस्रग्-भूषणादिभिर् अहं परिपूजयानि ॥ [Sअङ्कल्प-कल्प-द्रुम, ५२]
कृष्ण-देवा-सार्वभौम-कृत-टीका—वन-भ्रमण-क्रमेण आगत्य वृन्दावने कल्प-वृक्ष-योग-पीठ-सिंहासने श्री-कृष्णेन सह विराजमानां त्वां पाद्यार्ध्य-धूप-कर्पूर-दीप-चतुर्विधान्न-माल्यालङ्कारादिभिः पूजयानि ।
[२६] ततो विज्ञप्ति-पाठः (BRS १.२.१५४-१५६)—
मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन । परिहारे’पि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥ युवतीनां यथा यूनि यूनां च युवतौ यथा । मनो’भिरमते तद्वन् मनो’भिरमतां त्वयि ॥ भूमौ स्खलित-पादानां भूमिर् एवावलम्बनम् । त्वयि जातापराधानां त्वम् एव शरणं प्रभो ॥ कदाहं यमुना-तीरे नामानि तव कीर्तयन् । उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥
[२७] गोविन्द-वल्लभे राधे प्रार्थये त्वाम् अहं सदा ।
त्वदीयम् इति जानातु गोविन्द मां त्वया सह ॥
कदा गान-कला-नृत्यं शिक्षयिष्यसि राधिके ।
येन तुष्टो हरिस् ते मां किङ्करीम् इति मन्यते ॥
राधे वृन्दावनाधीशे करुणामृत-वाहिनि ।
कृपया निज-पादाब्ज-दास्यं मह्यं प्रदीयताम् ॥
तवैवास्मि तवैवास्मि न जीवामि त्वया विना ।
इति विज्ञाय राधे त्वं नय मां चरणान्तिके ॥
[२८] ततः पद्य-पञ्चकं पठेत्—
संसार-सागरान् नाथौ पुत्र-मित्र-गृहाकुलात् । गोप्तारौ मां युवाम् एव प्रपन्न-भय-भञ्जनौ ॥ यो’हं ममास्ति यत् किञ्चिद् इह लोके परत्र च । तत् सर्वं भवतोर् अद्य चरणेषु मयार्पितम् ॥ अहम् अप्य् अपराधानाम् आलयस् त्यक्त-साधनः । अगतिश् च ततो नाथौ भवन्तौ मे भवेद् गतिः ॥ तवास्मि राधिका-नाथ कर्मणा मनसा गिरा । कृष्ण-कान्ते तवैवास्मि युवाम् एव गतिर् मम ॥ शरणं वां प्रपन्नो’स्मि कौर्णा-निकराकरौ । प्रसादं कुरुतां दास्यं मयि दुष्टे’पराधिनि ॥ इत्य् एवं जपतां नित्यं प्रस्ताव्य-पद्य-पञ्चकम् । अचिराद् एव तद्-दास्यम् इच्छतां मुनि-सत्तम ॥ इति ।
[२९] ततः प्रसाद-गन्धादिभिर् वैष्णवान् पूजयेत् । एते प्रसादि-गन्ध-पुष्पे वैष्णवेभ्यो नमः इति ।
शुकः सूतस् तथा व्यासो नारदः कपिलो मनुः । प्रह्लादश् चाम्बरीषश् च हनुमांश् विभीषणः ॥ अक्रूरश् चोद्धवः श्रीमन्-मार्कण्डेयो युधिष्ठिरः । यमो निमिर् ध्रुवो भीष्मः पृथुश् चैव बलिस् तथा ॥ सनकाद्याश् च ते सर्वे तथैवान्ये च वैष्णवाः । निर्माल्यं वासुदेवस्य सर्वे गृह्णन्तु कामदम् ॥
इति पाद्मोक्त-मन्त्रेण प्रसाद-निर्माल्य-नैवेद्यादिकं वैष्णवेभ्यः समर्पयेद् इति ।
[३०] अथ तुलसी-पूजा ।
प्राग् दत्त्वार्घ्यं ततो’व्यर्च्य गन्ध-पुष्पाक्षतादिना । स्तुत्वा भगवतीं तां च प्रणमेत् प्रार्ह्त्य दण्डवत् ॥ (HBV ९.९९)
तत्रार्घ्य-मन्त्रः, यथा–
श्रियः श्रिये श्रियावासे नित्यं श्रीधर-सत्कृते । भक्त्या दत्तं मया देवि अर्घ्यं गृह्ण नमो’स्तु ते ॥ (HBV ९.१००)
इति पठित्वा इदम् अर्घ्यं श्री-तुलस्यै नमः ।
अथ पूजा मन्त्रः—
निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः । तुलसी हर मे पापं पूजां गृह्ण नमो’स्तु ते ॥ (HBV ९.१०१)
अथ स्तुति-मन्त्रः—
महा-प्रसाद-जननी सर्व-सौभाग्य-वर्धिनी । आधि-व्याधि-हरो नित्यं तुलसि त्वं नमो’स्तु ते ॥ (HBV ९.१०२)
अथ प्रार्थना-मन्त्रः—
श्रीयं देहि यशो देहि कीर्तिम् आयुस् तथा सुखम् । बलं पुष्टिं तथा धर्मं तुलसि त्वं प्रसीद मे ॥ (HBV ९.१०३)
प्रणाम-वाक्यं या दृष्टा निखिलाघ-सङ्घ-दमनी (HBV ९.१०४) इति । ततः प्रणमेत् वन्दे’हं श्री-गुरोः इति ।
इति प्रातः-कृत्यम् ।
इति श्री-साधनामृत-चन्द्रिकायां द्वितीयः प्रकाशः ।
III।
तृतीयः प्रकाशः
[१] अथ पूर्वाह्न-कृत्यम् । तत्रादौ गौरचन्द्रस्य यथा भावन-सार-सङ्ग्रहे—
हरि-वन-गति-लीलां व्याकुली-भूत-गोष्ठां स्मृति-विषय-गतां यः कारयामास साक्षात् । तद्-अनुकरण-कारी भक्त-वृन्दस्य मध्ये तम् अहम् इह भजामि गौरचन्द्रं हि नित्यम् ॥ इति ।
[२] स्मरण-मङ्गले (५)—
पूर्वाह्ने धेनुमित्रैर्विपिनमनुसृतं गोष्ठलोकानुयातं कृष्णं राधाप्तिलोलं तदभिसृतिकृते प्राप्ततत्कुण्डतीरम् । राधाञ्चालोक्य कृष्णं कृतगृहगमनार्ययार्कार्चनायै दिष्टां कृष्णप्रवृत्त्यै प्रहितनिजसखीवर्त्मनेत्रां स्मरामि ॥
[३] सनत्-कुमार-संहितायां च ।
इति पूर्वाह्न-कृत्यम् ।
इति श्री-साधनामृत-चन्द्रिकायां तृतीयः प्रकाशः ।
IV।
चतुर्थः प्रकाशः
[१] अथ मध्याह्न-कृत्यम् । तत्र मान्त्राद्य्-एकतर-स्नानं कुर्यात्, यथोक्तं हरि-भक्ति-विलासे (३.४२-४६)—
मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च । वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम् ॥ शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् । भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥ आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते । बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः । ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम् ॥
किं च—
असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया । तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः ॥ स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥
ततः पूजा-सम्भारैर् यथा-पूर्ववत् श्री-गुर्व्-आदि-क्रमेण मध्याह्न-पूजा । विज्ञप्ति-पाठादिकं कुर्यात् । अथ तत्र ध्यानं यथा क्रम-दीपिकायाम् (३.१-१६, २३-३१)
अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्- प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः । प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥१ विकाशि-सुमनो-रमास्वादन-मञ्जुलैः सञ्चरच्- छिलिमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः । कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर् विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥२ कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर् विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः । प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां विलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥३ प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ- क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् । स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥४ सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम् अधो’स्य कनक-स्थलीम् अमृत-शीकरासारिणः । प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥५ तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग- पीठे’ष्ट-पत्रम् अरुणं कमलं विचिन्त्य । उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥६ सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज- प्रत्यग्र-नील-जलजन्म-समान-भासम् । सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥७ आपूर्ण-शारद-गताङ्कुश-शाङ्क-बिम्ब- कान्ताननं कमल-पत्र-विशाल-नेत्रम् । रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त- गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥८ सिद्नूर-सुन्दरतराधरम् इन्दु-कुन्द- मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् । वन्य-प्रवाल-कुसुम-प्रचयावकॢप्त- ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥९ मत्त-भ्रमर-जुष्ट-विलम्बमान- सन्तान-कप्र-सव-दाम-परिष्कृतांसम् । हारावली-भगण-राजित-पीवरोरो- व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥१० श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम् आजानु-पीन-परिवृत्त-सुजात-बाहुम् । आबन्धुरोदरम् उदार-गम्भीर-नाभिं भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥११ नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि- ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् । द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम् आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥१२ चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ- कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् । माणिक्य-दर्पण-लसन्-नखराजि-राजद्- रत्नाङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥१३ मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र- संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् । लावण्य-सार-समुदाय-विनिर्मिताङ्ग- सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥१४ आस्यारविन्द-परिपूरित-वेणु-रन्ध्र- लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः । शश्वद्-द्रवी-जृत-विकृष्ट-समस्त-जन्तु- सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥१५॥ अथ सुललित-गोप-सुन्दरीणां पृथु-निविवीष-नितम्ब-मन्थराणाम् । गुरु-कुच-भर-भङ्गुरावलग्न- त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥२३॥ तद्-अतिमधुर-चारु-वेणु-वाद्या- मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् । मुकुल-विसर-रम्य-रूढ-रोमोद्- गम-समलङ्कृत-गात्र-वल्लरीणाम् ॥२४॥ तद्-अतिरुचिर-मन्द-हास-चन्द्रा- तप-परिजृम्भित-राग-वारिणाशेः । तरलतर-तरङ्ग-भङ्ग-विप्रुट्- प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥२५॥ तद्-अतिललित-मन्द-चिल्लि-चाप च्युत-निशितेक्षण-मार-वाण-वृष्ट्या । दलित-सकल-मर्म-विह्वलाङ्ग- प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥२६॥ तद्-अतिरुचिर-कर्म-रूप-शोभा- मृत-रस-पान-विधान-लालसाभ्याम् । प्रणय-सलिल-पूर-वाहिनीनाम् अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥२७॥ विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्- माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः । मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्- नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् ॥२८॥ स्खलित-ललित-पादाम्भोज-मन्दाभिघात- क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् । चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि- द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥२९॥ द्राघिष्ठ-श्वसन-समीरणाभि-ताप- प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् । नानोपायन-विलसत्-कराम्बुजानाम् आलीभिः सतत-निषेवितं समन्तात् ॥३०॥ तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज- स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् । तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् ॥३१॥
[२] अथ मानसोपचारैः पाद्य-गन्ध-धूप-दीप-नैवेद्याचमन-ताम्बूल-गन्ध-माल्यादिभिः पूजयेत् । ततो बहिर् नाना-व्यञ्जन-घृत-शाल्यन्नादिकं मूल-मन्त्रेणार्पयित्वा द्वारे कवाटं दत्त्वा बहिर् गच्छेत् । ततो भोजन-विज्ञप्तिं पठेत् ।
द्विज-स्त्रीणां भक्ते मृदुनि विदुरान्ने व्रज-गवां दधि-क्षीरे सख्युः स्फुट-चिपिट-मुष्टो मुररिपो । यशोदायाः स्तन्ये व्रज-युवती-दत्ते मधुनि ते यदासीद् आमोदस् तम् अयम् उपहारो’पि कुरुताम् ॥ या प्रीतिर् विदुरार्पिते मुररिपो कुन्त्य्-अर्पिते यादृशी या गोवर्धन-मूर्धनि या च पृथुके स्तन्ये यशोदार्पिते । भारद्वाज-समर्पिते शवरिका-दत्ते’धरे योषितां या वा ते मुनि-भाविनी-विनिहिते’न्ने’त्रापि ताम् अर्पय ॥ क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते दत्ते लड्डुनि भद्रया मधु-रसे सोमाभया लम्भिते । तुष्टिर् या भवतस् ततः शत-गुणाः राधा-निदेशान् मया न्यस्ते’स्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम् ॥
ततस् तालिवादनैर् द्वारम् उद्घाट्याचमनं दत्त्वा ताम्बूलम् अर्पयेत् । ततो राजोपचारारात्रिकं पूर्ववत् कृत्वा सजल-शङ्खं भ्रामयित्वा प्रयत्नतः देवं स्वापयेत् । ततो द्वारे कवाटं दत्त्वा बहिर् निर्गत्यासनोपरि पूर्वाभिमुखी उपविश्य स्व-मन्त्रं जपेत् ।
[३] ततो मध्याह्न-लीला-स्मरणं । तत्रादौ गौर्चन्द्रस्य भावन-सार-सङ्ग्रहे—
सहालि-श्री-राधा-सहित-हरि-लीलां बहुविधां स्मरन् मध्याह्नीयां पुलकित-तनुर् गद्गद-वचाः । ब्रुवन् व्यक्तं तां च स्वजन-गण-मध्ये’नुकुरुते शची-सूनुर् यस् तं भज मम मनस् त्वं बत सदा ॥
[४] स्मरण-मङ्गले (६)
मध्याह्ने’न्योन्य-सङ्गोदित-विविध-विकारादि-भूषा-प्रमुग्धौ वाम्योत्कण्ठातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ । दोलारण्याम्बु-वंशी-हृति-रति-मधु-पानार्क-पूजादि-लीलौ राधा-कृष्णौ स-तृष्णौ परिजन-घटया सेव्यमानौ स्मरामि ॥ इति ।
[५] तत उत्थाय चतुर्वारं प्रदक्षिणं कृत्वा श्री-तुलसीं पूर्ववत् सम्पूज्य श्री-गुर्व्-आदीन् दण्डवत् प्रणमेत् । ततश् च—
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां वृन्दावने किम् अपि गुल्म-लतौषधीनाम् । या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ [१०.४७.६१]
इति पठित्वा व्रज-धूलि-सेवनं कुर्यात् । ततश् च—
अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥
इति पठित्वा चरणामृतं पीत्वा किञ्चित् स्व-शिरसि धारयेत् ।
रुदन्ति पातकाः सर्वे निःश्वसन्ति मुहुर् मुहुः । हा हा कृत्वा पलायन्ते जगन्नाथान्न-भक्षणात् ॥ प्रसादम् अन्नं तुलसी-विमिश्रं विशेषतः पाद-जलेन सिक्तम् । यो’श्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुत-कोटि-पुण्यम् ॥
इति मध्याह्न-कृत्यम् ।
V।
पञ्चमः प्रकाशः
[१] अथ अपराह्न-कृत्यम् । तत्र सङ्ख्या-निबद्ध-श्री-नाम-ग्रहणं श्री-भागवतादि-भक्ति-शास्त्र-श्रवणादि कर्तव्यम् । अथापराह्न-लीला-स्मरणं, तत्रादौ श्री-गौरचन्द्रस्य, यथा भावना-सार-सङ्ग्रहे—
परावृत्तिं गोष्ठे व्रज-नृपति-सूनोर् विपिनतो महानन्दाम्भोधेः सपदि जनयित्रीं स्व-हृदये । स्मरन् श्री-गौराङ्गो नटति वलते निःश्वसिति च क्षणं मुह्यन् सर्वान् विवशयति यस् तं भज मनः ॥
[२] स्मरण-मङ्गले (७)—
श्री-राधां प्राप्त-गेहां निज-रमण-कृते कॢप्त-नानोपहारां सुस्नातां रम्य-वेशां प्रिय-मुख-कमलालोक-पूर्ण-प्रमोदाम् । कृष्णं चैवापराह्णे व्रजम् अनुचलितं धेनु-वृन्दैर् वयस्यैः श्री-राधालोक-तृप्तं पितृ-मुख-मिलितं मातृ-मृष्टं स्मरामि ॥
इति अपराह्न-कृत्यम् ।
इति श्री-साधनामृत-चन्द्रिकायां पञ्चमः प्रकाशः ।
VI।
षष्ठः प्रकाशः
[१] अथ सायाह्न-कृत्यम् । ततः पूर्ववत् सायाह्न-स्नान-तिलकादिकं कृत्वा द्वारम् उद्घाट्य श्री-देवम् उत्थाप्याचमनं दत्त्वा किञ्चिद् भोजयित्वा चारत्रिकं च कुर्यात् । ततः सायाह्न-लीला-स्मरणं, तत्रादौ श्री-गौरचन्द्रस्य, यथा भावना-सार-सङ्ग्रहे—
सायन्तनीं कृष्ण-मनोज्ञ-लीलां स्नानाशनाद्यां हि मुहुर् विचिन्त्य । स्व-भक्त-मध्ये’नुकरोति नित्यं तां यो मनस् तं भज गौरचन्द्रम् ॥
[२] स्मरण-मङ्गले (८)—
सायं राधा स्वसख्या निज-रमण-कृते प्रेषितानेक-भोज्यां सख्यानीतेश-शेषाशन-मुदित-हृदं तां च तं च व्रजेन्दुम् । सुस्नातं रम्य-वेशं गृहम् अनुजननी-लालितं प्राप्त-गोष्ठं निर्व्यूढो’स्रालि-दोहं स्व-गृहम् अनु पुनर् भुक्तवन्तं स्मरामि ॥
इति सायाह्न-कृत्यम् ।
इति श्री-साधनामृत-चन्द्रिकायां षष्टः प्रकाशः ।
VII।
सप्तमः प्रकाशः
[१] अथ प्रदोष-कृत्यम् । तत्र प्रदोष-लीला-स्मरणम् । तत्रादौ गौरचन्द्रस्य भावना-सार-सङ्ग्रहे—
समुत्कण्ठासन्ना कलित-हरि-वार्ता बत यथा- भिसृत्यासौ राधा हरिम् अपि निकुञ्जे गतवती । तथात्मानं मत्वा कटि-निहित-पाणिर् विशति च स्खलन् गच्छन् गौरो नटति धृत-कम्पाश्रु-पुलकः ॥ इति ।
[२] स्मरण-मङ्गले (९)—
राधां सालीगणान्ताम् असित-सित-निशा-योग्य-वेशां प्रदोषे दूत्या वृन्दोपदेशाद् अभिसृत-यमुना-तीर-कल्पाग-कुञ्जाम् । कृष्णं गोपैः सभायां विहित-गुणि-कलालोकनं स्निग्ध-मात्रा यत्नाद् आनीय संशायितम् अथ निभृतं प्राप्त-कुञ्जं स्मरामि ॥
[३] ततश् च यथा-शक्ति अन्न-व्यञ्जनादिक-मिष्टान्न-दुग्ध-सुवासित-जलादिकं देवं भोजयित्वा आचमनं दत्त्वा ताम्बूलं समर्प्यारात्रिकं कुर्यात् । ततश् च—
गोविन्द परमानन्द योग-निद्रां वितन्यताम् । राधया पुष्प-शय्यायां दासी-गण-निषेवितः ॥
इति मन्त्रं पठित्वा देवं स्वापयेत् । ततश् च बहिर् निर्गत्य द्वारम् आवृत्य प्रणमेत् ।
इति प्रदोष-कृत्यम् ।
इति श्री-साधनामृत-चन्द्रिकायां सप्तमः प्रकाशः ।
VIII।
अष्टमः प्रकाशः
[१] अथ निशा-कृत्यम् । तत्र निशा-लीला-स्मरणम् । तत्रादौ गौरचन्द्रस्य भावना-सार-सङ्ग्रहे—
श्री-श्रीवास-गृहे मुदा परिवृतो भक्तैः स्वनामावलीं गायद्भिर् गलद्-अश्रु-कम्प-पुलको गौरो नटित्वा प्रभुः । पुष्पाराम-गते सुरत्न-शयने ज्योत्स्नायुतायां निशि विश्रान्तः स शची-सुतः कृत-फलाहारो निषेव्यो मम ॥
[२] स्मरण-मङ्गले (१०-११)—
ताव् उत्कौ लब्धसङ्घौ बहुपरिचरणैर्वृन्दयाराध्यमानौ गानैर्नर्मप्रहेलीसुलपननटनैः रासलास्यादिरङ्गैः । प्रेष्ठालीभिर्लसन्तौ रतिगतमनसौ मृष्टमाध्वीकपानौ क्रीडाचार्यौ निकुञ्जे विविधरतिरणौद्धत्यविस्तारितान्तौ ॥
ताम्बूलैर्गन्धमाल्यैर्व्यजनहिमपयःपादसंवाहनाद्यैः प्रेम्णा संसेव्यमानौ प्रणयिसहचरीसञ्चयेनाप्तशातौ । वाचा कान्तैरणाभिर्निभृतरतिरसैः कुञ्जसुप्तालिसङ्घौ राधाकृष्णौ निशायां सुकुसुमशयने प्राप्तनिद्रौ स्मरामि ॥
सनत्-कुमार-संहितायां च ।
इति श्री-साधनामृत-चन्द्रिकायाम् अष्टमः प्रकाशः ।
IX।
अथ लालसामयानि पद्यानि पठन्ति— यथा उत्कण्ठा-मालिकायाम्—
श्री-रूप-मञ्जरि सुमञ्जुल-कञ्ज-नेत्रे कारुण्य-पात्रि गुण-मञ्जरि मञ्जुलालि । कस्तूरिके गुण-मञ्जरि रसमञ्जरीति वक्ष्ये कदा व्रज-वनस्य वसन् निकुञ्जे ॥
श्रील-विश्वनाथ-ठक्कुर-कृत-श्री-सङ्कल्प-कल्प-द्रुमे [८२-८४]—
हे मञ्जुलालि निज-नाथ पादाब्ज-सेवा- सातत्य-सम्पद्-अतुलासि मयि प्रसीद । तुभ्यं नमो’स्तु गुण-मञ्जरि मां दयस्व माम् उद्धरस्व रसिके रस-मञ्जरि त्वम् ॥ हे भानुमत्य् अनुपम-प्रणयाब्धि-मग्ना स्व-स्वामिनोस् त्वम् असि मां पदवीं नय स्वाम् । प्रेम-प्रवाह-पतितासि लवङ्ग-मञ्जर्य् आत्मीयतामृत-मयी मयि धेहि दृष्टिम् ॥ हे रूप-मञ्जरि सदासि निकुञ्ज-यूनोः केलि-कला-रस-विचित्रित-चित्त-वृत्तिः । स्व-दत्त-दिर् अपि यत् सम-कल्पयन्तत्- सिद्धौ तवैव करुणा प्रभुताम् उपेतु ॥
श्री-स्तवावल्याम् [स्व-सङ्कल्प-प्रकाश-स्तोत्रे]—
अलं मान-ग्रन्थेर् निभृत-चटु-मोक्षाय निभृतं मुकुन्दे हा हेति प्रथयति नितान्तं मयि जने । तद्-अर्थं गान्धर्वाचरण-पतितं प्रेक्ष्य कुटिलं कदा प्रेम-क्रौर्यात् प्रखर-ललिता भर्त्सयति माम् ॥३॥ मुदा वैदग्ध्यान्तर्-ललित-नव-कर्पूर-मिलन- स्फुरन्-नाना-नर्मोत्कर-मधुर-माध्वीक-रचने । सगर्वं गान्धर्वा-गिरिधर-कृते प्रेम-विवशा विशाखा मे शिक्षां वितरतु गुरुस् तद्-युत-सखी ॥४॥ कुहू-कण्ठी-कण्ठाद् अपि कमन-कण्ठी मयि पुनर् विशाखा गानस्यापि च रुचिर-शिक्षां प्रणयतु । यथाहं तेनैतद् युव-युगलम् उल्लास्य स-गणाल् लेभे रासे तस्मान् मणि-पदक-हारान् इह मुहुः ॥५॥ क्वचित् कुञ्जे कुञ्जे छल-मिलित्-गोपालम् अनु तां मद्-ईशां मध्याह्ने प्रियतर-सखी-वृन्द-वलिताम् । सुधाजैत्रैर् अन्नैः पचन-रस-विच् चम्पकलता- कृतोद्यच्-छिक्षो’हं जन इह कदा भोजयति भोः ॥६॥ क्वचित् कुञ्ज-क्षेत्रे स्मर-विषम-सङ्ग्राम-गरिम- क्षरच्-चित्र-श्रेणीं व्रज-युव-युगस्योत्कट-मदैः । विधत्ते सोल्लासं पुनर् असमयं पर्ण-कचयैर् विचित्रं चित्रातः सखि कलित-शिक्षो’प्य् अनु जनः ॥७॥ परं तुङ्गाद्या यौवत-सदसि विद्याद्भुत-गुणैः स्फुटं जित्वा पद्मा-प्रभृति-नव-नारीर् भ्रमति या । जनो’यं सम्पाद्य सखि विविध-विद्यास्पदतया तया किं श्रीनाथाच्छल-निहित-नेत्रेङ्गित-लवैः ॥८॥ स्फुरन्-मुक्ता-गुञ्जा-मणि-सुमनसां हार-रचने मुदेन्दोर् लेखा मे रचयतु तथा शिक्षण-विधिम् । यथा तैः सङ्कॢप्तैर् दयित-सरसी-मध्य-सदने स्फुटं राधा-कृष्णाव् अयम् अपि जनो भूषयति तौ ॥९॥ अये पूर्वं रङ्गेत्य् अमृतमय-वर्ण-द्वय-रस- स्फुरद्-देवी-प्रार्थ्यं नटन-पटलं शिक्षयति चेत् । तदा रासे दृश्यं रस-वलित-लास्यं विदधतोस् तयोर् वक्त्रे युञ्जे नटन-पटु-वीटिं सखि मुहुः ॥१०॥ सद्-अक्ष-क्रीडानां विधिम् इह तथा शिक्षयितुं सा सुदेवी मे दिव्यं सदसि सुदृशां गोकुल-भुवाम् । तयोर् द्वन्द्वे खेलाम् अथ विदधतोः स्फूर्जति तथा करोमि श्रीनाथां सखि विजयिनीं नेत्र-कथनैः ॥११॥
श्री-स्तव-मालायां श्री-श्री-गान्धर्वा-सम्प्रार्थनाष्टकम् [२]
हा देवि काकु-भर-गद्गदयाद्य वाचा याचे निपत्य भुवि दण्डवद्-उद्भटार्तिः । अस्य प्रसादम् अबुधस्य जनस्य कृत्वा गान्धर्विके निज-गणे गणनां विधेहि ॥
[उत्कलिका-वल्लरिः ५२]
कदाहं सेविष्ये व्रतति-चमरी-चामर-मरुद्- विनोदेन क्रीडा-कुसुम-शयने न्यस्त-वपुषौ । दरोन्मीलन्-नेत्रौ श्रम-जल-कण-क्लिद्यद्-अलकौ ब्रुवाणाव् अन्योन्यं व्रज-नव-युवानाव् इह युवाम् ॥५२॥
श्री-वृन्दावन-शतके [१७.३]
गुणैः सर्वैर् हीनो’प्य् अहम् अखिल-जीवाधमतमो’प्य् अशेषैर् दोषैः स्वैर् अपि च वलितो दुर्मतिर् अपि । प्रसादाद् यस्यैवाविदम् अहह राधां व्रजपतेः कुमारं श्री-वृन्दावनम् अपि स गौरः मम गतिः ॥
श्रील-रसिकानन्द-प्रभु-कृत-भागवत-वन्दनायाम्—
आलोकामृत-दानतो भव-महा-बन्धं नॄणां छिन्दतः स्पर्शात् पाद-सरोज-शौच-पयसां ताप-त्रयं भिन्दतः । आलापाद् व्रज-नागरस्य पदयोः प्रेमाणम् आतन्वतो वन्दे भागवतान् इमान् अनुलवं मूर्ध्ना निपत्य क्षितौ ॥ सर्वेषां भक्ति-शास्त्राणां पद्यानि तु स्वतुष्टये । सङ्गृहीतानि चारूणि विज्ञेयानि मनीषिभिः ॥ रचिता कृष्ण-दासेन गोवर्धन-निवासिना । केनचिद् अतिमुग्धेन साधनामृत-चन्द्रिका ॥
परम-करुणार्णव-श्रील-नरोत्तम-दास-नाम-धेय-ठक्कुर-महाशय-भृत्यानुभृत्य-श्री-कृष्ण-दासेन रचिता साधनामृत-चन्द्रिका समाप्ता ।
ख-बाणाश्वैक-शाके चैत्रे गोवर्धनान्तरे ।
द्वादश्यां सौम्यघस्त्रे’यं ग्रन्थ-सम्पूर्णताम् अगात् ॥
[१७५० शक = १८२८ AD]
-
Sत्रन्गे, बुत् I चन्नोत् फ़िन्द् थेसे वेर्सेस् इन् म्य् एदितिओन्। ↩︎