विस्तारः (द्रष्टुं नोद्यम्)
[चोम्मेन्तर्य् तकेन् ओवेर् फ़्रोम्
गउदिय ग्रन्त्ह मन्दिर:
थिस् इस् अन् इन्तेरेस्तिन्ग् तेxत्। थेरे अप्पेअर् तो बे मन्य् ओरिगिनल् वेर्सेस् स्प्रिन्क्लेद्
थ्रोउघोउत् थे तेxत्, मन्य् ओफ़् wहिछ् अरे इन्चोम्प्लेते। सोमे ओफ़् थे वेर्सेस् दोन्ऽत् फ़ोल्लोw
अन्य् रेगुलर् मेतेर् अन्द् सोमे wओर्क् इस् नेएदेद् तो एदित् थिस् तेxत्। सोमे वेर्सेस् अरे लिकेल्य्
क़ुओतेस्, बुत् इ हवेन्ऽत् बेएन् अब्ले तो त्रचे थेम्।
इ हवे उसेद् हरिदस् स्हस्त्रिऽस् एदितिओन्, अन्द् हवे नोत् हद् अच्चेस्स् तो अनोथेर्। इत् wओउल्द्
बे wओर्थ् फ़िन्दिन्ग् ओथेर् मनुस्च्रिप्त्स् इन् ओर्देर् तो प्रोदुचे अ त्रुए च्रितिचल् एदितिओन्।]
श्री-साधना-दीपिका
प्रथम-कक्षा
अमन्दं वृन्दावन-मन्दिरोदरे
सुहेम-रत्नावलि-चित्र-कुट्टिमे ।
सहोपविष्टं प्रियया समानया
गोविन्द-साक्षाद्-भगवन्तम् आश्रये ॥१॥
संसार-कूपे पतितान् अशेषान्
उद्धर्तु-कामः कलि-काल-लोकान् ।
यः प्रादुरासीत् किल गौड-देशे
चैतन्य-चन्द्रं तम् अहं प्रपद्ये ॥२॥
श्री-चैतन्य-प्रियतमः श्रीमद्-राधा-गदाधरः ।
तत्-परीवर-रूपस्य श्री-गोविन्द-प्रसेवनम् ॥
तयोः सत्-प्रेम-सत्-पात्रं श्री-रूपः करुणाम्बुधिः ।
तत्-पाद-कमल-द्वन्द्वे रतिर् मे स्याद् व्रजे सदा ॥३॥
तदीय-सेवाधिपतिं महाशयं
समस्त-कल्याण-गौणैक-मन्दिरम् ।
वारेन्द्र-विप्रान्वय-भूषणं गुरुं
भजेऽनिशं श्री-हरि-दास-सञ्ज्ञकम् ॥४॥
यत्-सेवया वशः श्रीमद्-गोविन्दो नन्द-नन्दनः ।
पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥५॥
किं चास्मिन् कदाचिद् वसन्त-वासरावसरे रात्रौ रास-मण्डले भ्रमति सति
सञ्चारिण्याः श्री-वृषभानु-सुताया आश्चर्यं रूपं दृष्ट्वा तमालस्य मूले
मूर्च्छितवान् इति महती प्रसिद्धिः ।
तस्यैव कान्ता-परिचारकोऽसौ
तयोश् च दासः किल कोऽपि नाम्ना ।
स्वकीय-लोकस्य तदीय-दास्ये
मति-प्रवेशाय करोति यत्नम् ॥६॥
श्रीमद्-राधा-प्राण-बन्धोर् नैत्यिकं चरितं हि यत् ।
श्रीमत्-कृष्ण-कवीन्द्रेण कृपया प्रकटीकृतम् ॥७॥
श्रीमद्-रूपाज्ञया तेषां परमाप्त-वरेण तु ।
कृतं तस्मिन् मया भाष्ये तेषां वाक्य-प्रमाणतः ॥८॥
अथ तस्मात् पृथक्त्वेन साक्षाद्-भगवतो हरेः ।
मन्त्र-मय्यां समासेन सेवा किञ्चिद् विलिख्यते ॥९॥
तत्-तत्-प्रसङ्ग-सङ्गत्या सिद्धान्तोऽपि च लिख्यते ।
तस्य मध्ये न लिखितो ग्रन्थ-विस्तार-भीतितः ।
कक्षा-दशम-सम्पूर्णो ग्रन्थोऽयं सम्भविष्यति ।१०॥
तत्र प्रथम-कक्षायां श्रीमत्-सेवा-प्रकाशनम् ।
द्वितीये श्रील-गोविन्द-साक्षाद्-भगवतः कथा ॥११॥
तृतीये मध्य-कैशोरे रसोत्कर्ष-निरूपणम् ।
चतुर्थेऽष्टादशार्णस्य मन्त्रस्यार्थो विलिख्यते ॥१२॥
पञ्चमेऽस्य व्रज-भुवो माहात्म्यं परिकीर्तितम् ।
षष्ठे श्रीभानु-नन्दिन्याः प्रकाशस्य कथा शुभा ॥१३॥
श्रीमन्-महाप्रभोस् तस्य भक्त-वृन्दस्य चैव हि ।
तत्त्वात्मिका-कथा प्रोक्ता तत्-तद्-ग्रन्थ-प्रमाणतः ॥१४॥
सप्तमे त्व् अष्टमे प्रोक्ता पुनः श्री-रूप-सत्-कथा ।
रागात्मिका तथा रागानुगा-भक्ति-निरूपणम् ॥१५॥
कक्षाया नवमे लेख्यं दशमे लिख्यते पुनः ।
श्रीमद्-भगवतस् तत्-तद्-भक्त्यादेस् तत्त्व-वर्णनम् ॥१६॥
अथ श्रीमद्-रूप-सनातनाभ्यां श्रील-पण्डित-गोस्वामि-शिष्य-श्री-परमानन्द-
गोस्वामिना च श्रीमद्-वृन्दावन-योग-पीठादिषु सर्वं स्वरूप-राज-स्वयम्-
भगवतः श्रीमद्-गोविन्द-देवस्य श्रीमन्-मदन-गोपाल-गोपीनाथयोश् च सेवा
श्रीमद्-ईश्वरेच्छया स्व-स्व-स्थाने स्व-स्व-सेवाः प्रकाशिताः । प्रकाशस् तु न
भेदेषु गण्यते स हि न पृथक् [लघुभाग्। १।१८] इति ।
स्वयं भगवतः श्रीमद्-गोविन्दस्य सुखाधिकः ।
वृन्दावने योग-पीठे सेवा तु प्रकटीकृता ।
श्री-चैतन्य-कृपा-रूप-रूपेण करुणा-कृता ॥१७॥
सेवा गोपाल-देवस्य पर्मानन्द-दा शुभा ।
श्री-सनातन-रूपेण तत्रैव प्रकटीकृता ॥१८॥
परमानन्द-दे श्रीमन्-नीप-पादप-भू-तले ।
कालिन्दी-जल-संसर्गि-शीतलानल-कल्पिते ॥१९॥
राधा-गदाधर-च्छात्रः परमानन्द-नामकः ।
यस् तेनाशु प्रकटितो गोपीनाथो दयाम्बुधिः ।
वंशी-वट-तटे श्रीमद्-यमुनोपतटे शुभे ॥२०॥
ततः सर्वस्व-रूपं जानता श्रील-रूपेण श्री-सनातनेन च मूल-स्वरूप-शक्ति-श्री-
राधा-गदाधर-परिवारे श्रीमन्-महाप्रभोर् आज्ञानुसारेण स्व-स्व-स्थाने स्व-
स्व-सेवा समर्पिता । तत्रापि श्री-पण्डित-गोस्वामि-शिष्यः प्रेमि-कृष्ण-दास-
गोस्वामिने समर्पिता श्री-रूपेण । तथा हि,
श्रीमद्-गदाधरस्यास्य स्वरूपं पूर्व-लक्षणम् ।
जानता श्रील-रूपेण सेवा तस्मै समर्पिता ॥२१॥
श्रील-सनातन-गोस्वामिना स्वस्यातीवान्तरङ्गाय श्री-कृष्ण-दास-ब्रह्मचारिणे
श्री-मदन-गोपाल-देवस्य सेव समर्पिता । एवं श्रीमद्-रूपाद्वैत-रूपेण
श्रीमद्-रघुनाथेन श्री=युत-कुण्ड-युगल-परिचर्या तत्-परिसर-भूमिश् च श्री-
गोविन्दाय समर्पिता । एवं श्री-गोपीनाथस्य सेवा श्री-परमानन्द-गोस्वामिना
श्रीमधु-पण्डित-गोस्वामिने समर्पिता । किं च त्रयाणां श्री-विग्रहाणां प्रेयसी
किल श्री-हरि-दास-गोस्वामि-श्री-कृष्ण-दास-ब्रह्मचारि-गोस्वामि-श्री-मधु-
पण्डित-गोस्वामिभिश् च प्रकाशिता ॥
इति प्रथम-कक्षा
(२)
द्वितीय-कक्षा
अथ श्री-वृन्दावनोत्तमाङ्ग-योग-पीठाष्ट-दल-कमल-कर्णिका-राज-सिंहासन-
विराजमानः सर्वस्व-रूप-राजः सर्व-प्रकाश-मूल-भूतः स्वयं भगवत्-श्री-
व्रजेन्द्र-नन्दनो मध्य-कैशोरावस्थितः श्री-गोविन्द-देव एव श्री-
वृन्दावनाधिराजः । यथा बहूनां राज-पुत्राणां राज-पुत्रत्वे साम्ये तथाप्य्
एको राज-सिंहासनार्हो राजा भवति श्रुति-स्मृति-पुराणादाव् अस्यैव प्राधान्यात्,
यथा व्रजे महा-रासे धाम्नोऽभेदेऽपि परिकर-भेदेन सर्वेषु यूथेषु
पूर्णतम-प्रकाशेन स्थितः सन् श्री-राधिकायाः पार्श्वे स्वयम् एव विराजते, तथा
। अतएव मौन-मुद्रादिकं प्रकाश्य विग्रहवल्-लीला-काले सर्वेषां श्री-कृष्ण-
प्रकाशानां तत्रैवान्यत्र स्थितः सन् श्री-कृष्ण-चैतन्य-महाप्रभोस् तत्
पार्षदानां च निरतिशय-कृपा प्रकाश-रूप-श्री-रूप-सेवाम् अङ्गीकृत्य श्री-
गोविन्द-देवः स्वयम् एव विराजते । तथा ह्लादिनी-शक्ति-सारांश-महाभाव-
स्वरूपया श्रुति-स्मृति-पुराणादिषु वृन्दावनाधीशात्वेन प्रसिद्धया श्री-राधया
सह विराजमानत्वेनास्यैव प्रसिद्धेः, यथा ब्रह्म-संहितायाम् (५।३७)-
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
यथा हरि-वंशे-
अहं किलेन्द्रो देवानां त्वं गवाम् इन्द्रतां गतः ।
गोविन्द इति लोकास् त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥
श्री-भागवते च (१०।२१।२३)-
इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः ।
अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥
टीका च-देव-मातृभिर् इति । गाः पशून् गां स्वर्गं वा इन्द्रत्वेन विन्दतीति कृत्वा
च गोविन्द इत्य् अभ्यधात् नाम कृतवान् ।
पुनस् तत्रैव दशम-स्कन्धे (१०।२७।२८)-
इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः ।
अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् ॥
पद्यावल्यां[*एन्द्नोते #१]-
कालिन्दी-तीर-कल्प-द्रुम-तल-विलसत्-पद्म-पादारविन्दो
मन्दान्दोलाङ्गुलीभिर् मुखरित-मुरली मन्द-गीताभिनन्दः ।
राधा-वक्त्रेन्दु-मन्द-स्मित-मधुर-सुधास्वाद-सन्दोह-सान्द्रः
श्रीमद्-वृन्दावनेन्द्रः प्रभवतु भवतां भूतये कृष्ण-चन्द्रः ॥
स्कान्दे मथुरा-खण्डे नारदोक्तौ-
तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ॥
भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥
वृन्दावने महा-सद्म यैर् दृष्टं पुरुषोत्तमैः ।
गोविन्दस्य महीपाल ते कृतार्था मही-तले ॥
तथा हि श्री-कृष्ण-सन्दर्भे श्री-भागवत-षष्ठ-स्कन्धे (६।८।२०)-मां केश्ववो
गदया प्रातर् अव्याद् गोविन्द आसङ्गवम् आत्त-वेणुः इति ।
टीका च-तौ हि श्री-मथुरा-वृन्दावनयोः सुप्रसिद्ध-महा-योगपीठयोस् तत्-तन्-
नाम्नैव सहितौ प्रसिद्धौ तौ च तत्र तत्र प्रापञ्चिक-लोक-दृष्ट्या श्रीमत्-
प्रतिमाकारेण भातः । स्वजन-दृष्ट्या साक्षाद्-भूतौ च । तत्रोत्तर-रूपं
ब्रह्म-संहिता-गोविन्द-स्तवादौ प्रसिद्धम् । अतएवात्रापि साक्षाद्-रूप-वृन्द-
प्रकरण एवैतौ पठितौ इत्य् आदि-सन्दर्भ-टीकेत्य् अर्थः ।
तथा हि-साक्षाद् भगवतः श्रीमद्-गोविन्दस्य सुखाधिका । तथा हि श्री-चैतन्य-
चरितामृते (१।८।५०-५१)-
वृन्दावने कल्प-वृक्ष सुवर्ण-सदन
महा-योग-पीठ ताङ्हा रत्न-सिंहासन
ताते बसि आछेन साक्षात् व्रजेन्द्र-नन्दन
श्री-गोविन्द नाम साक्षात् मन्मथ-मदन
नौ सर्वत्र देशे यथा श्री-कृष्ण-प्रकाशादीनां नवीन-प्राचीना-धातु-शीलाद्य्-
आकाराः क्वचिद् भक्त-वत्सलतया चलच्-छक्ति-प्रकाशिका अर्चायमानाः क्वचित्
सामान्याकाराश् च श्री-नन्द-नन्दन-प्रकाशा दृश्यन्ते । तथासौ स्वयं भगवान्
श्री-गोविन्द-देवोऽपि (इति चेत्) ? न, किं त्व् असौ तथात्वे दृश्यमानोऽप्य् अर्चायमान-
विशेषः स्वयं प्रकाशः साक्षाद् व्रजेन्द्र-नन्दन एव ।
अत्र युक्ति-सुदृष्टान्तां प्राचीन-पौराणिकां कथाम् आह-प्रेम-नगरापर-
पर्याये प्रतिष्ठान-पुरे कोऽपि राजासीत् । स च पञ्च-पुत्रः । वार्धक-दशायां
मनसि एवं विचारितवान्-मत्-पुत्रेषु यो राज्यादि-पालनेन् समर्थो मयि प्रेमवांश्
च भवेत् । तस्मिन् राज्यादि समर्पयिष्यामि । इति मनसि कृत्वा बहिर् जडवद्
आचरितवान् । तं दृष्ट्वा सर्वे जना मनसि दुःखिता अभवन् । पुत्राणां मध्ये
तु ये दुष्टाचारास् ते मनसि हृष्टा राज्यादिकं नेतुं विषय-सुखं च कर्तुं
प्रवृत्ता अभवन् । तेषु कोऽपि पण्डितो ज्ञानवान् पूर्वतोऽपि पित्रोः प्रीतिं कृत्वा
सेवायां प्रवृत्तः । राजा तु तस्य भक्तिं दृष्ट्वा तस्मिन् राज्यादि-भारं
समर्पितवान् । अन्ये पुत्रास् तु तच् छ्रुत्वा तद्-उपरि दण्डादिकं कृतवन्तः । तान्
दृष्ट्वामात्याः सर्वे तद्-वृत्तान्तं राज्ञि निवेदितवन्तः ।
राजा तु तच् छ्रुत्वा कृत्रिम-जड-स्वभावादिकं त्यक्त्वा तान् पुत्रान् निरस्य तस्मिन्
पुत्रे स्वच्छन्दम् अभिषेकं कृतवान् । तथायं श्री-गोविन्द-देवः साक्षाद्
व्रजेन्द्र-कुमारोऽप्य् आधुनिक-भक्तानां प्रेम-तारतम्यं कर्तुं मौन-
मुद्रादिकम् अङ्गीकृत्य राधिकया सह विराजते । अत्रापि श्रुति-स्मृति-पुराणादि-
प्रमाणानि बहूनि सन्ति । तत्र श्री-गोपाल-तापन्यां (१।९-१०)-
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥९॥
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ॥ इत्य् आदि ।
तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इत्य् आदि ।
गोपालाय गोवर्धनाय गोपी-जन-वल्लभाय नमो नमः ।
तथा हि ऊर्ध्वाम्नाये-
गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योग-पीठे स एव सततं स्थितः ॥
असौ युग-चतुष्केऽपि श्रीमद्-वृन्दावनाधिपः ।
पूजितो नन्द-गोपाद्यैः कृष्णेनापि सुपूजितः ॥
चीर-हर्ता व्रज-स्त्रीणां व्रत-पूर्ति-विधायकः ।
चिद्-आनन्द-शिलाकारो व्यापको व्रज-मण्डले ॥
तत्र-
चन्द्रावली-दुराधर्षं राधा-सौभाग्य-मन्दिरम् ॥
तथा हि अथर्व-वेदे-गोकुलारण्ये मथुरा-मण्डले वृन्दावन-मध्ये सहस्र-
दल-पद्मे षोडश-दल-मध्येऽष्ट-दल-केशरे गोविन्दोऽपि श्यामः पीताम्बरो
द्विभुजो मयूर-पुच्छ-शिरो वेणु-वेत्र-हस्तो निर्गुणः स-गुणो निराकारः साकारो
निरीहः स-चेष्टो विराजते इति ।
द्वे पार्श्वे चन्द्रावली राधा च इत्य् आदि ।
तथा च सम्मोहन-तन्त्रोक्तिः-
गोविन्द-सहितां भूरि-हाव-भाव-परायणाम् ।
योग-पीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥
तथा हि स्कान्दे-
गोविन्द-स्वामि-नामात्र वसत्य् अर्चात्मकोऽच्युतः ।
गन्दर्वैर् अप्सरोभिश् च क्रीडमानः स मोदते ॥
तथा हि ब्रह्म-संहितायां (५।१)-
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥
अत्र श्लोके कृष्णोः विशेष्यः । अन्यत्रापि गोविन्दस्य विशेष्यत्वम् । यथा-
व्रजे गोविन्द-नामा यः पशूनाम् इन्द्रतां गतः ।
स एव कृष्णो भवति मनो-नेत्रादि-कर्षणात् ॥
ब्रह्म-संहितायां च (५।३९)-
रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
टीका च-यो गोविन्दो रामादि-मूर्तिषु कला-नियमेन तिष्ठन् सन् नानावतारम्
अकरोत्, स देवः स्वयं कृष्णः समभवन् तं भजामीति ।
श्री-गोपाल-तापन्यां (१।३५, ३९-४२, ४५)-
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥
तथा हि-
वेणु-वादन-शीलाय गोपालायाहि-मर्दिने ।
कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥
वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने ।
नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥
नमः पाप-प्रणाशाय गोवर्धन-धराय च ।
पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥
निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे ।
अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥
केशव क्लेश-हरण नारायण जनार्दन ।
गोविन्द परमानन्द मां समुद्धर माधव ॥ इत्य् आदि ।
तत्र ऊर्ध्वाम्नाये-
श्रीमन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष्ठितः । इति ।
श्री-दशमे (१०।१९।१६)-
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ॥ इति ।
तथा हि (१०।२१।१०)-
वृन्दावने सखि भुवो वितनोति कीर्तिं
यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि ।
गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं
प्रेक्षाद्रि-सान्व्-अपरतान्य-समस्त-सत्त्वम् ॥ इति ।
तथा हि श्री-गोविन्द-लीलाम्र्ते (२१।२८) च-
श्री-गोविन्द-स्थलाख्यं तटम् इदम् अमलं कृष्ण-संयोग-पीठं
वृन्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पीठ-स्थलाभम् ।
कुञ्ज-श्रेणी-दलाढ्यं मणिमय-गृह-सत्-कर्णिकं स्वर्ण-रम्भा-
श्रेणी-किञ्जल्कम् एषा दश-शत-दल-राजीव-तुल्यं ददर्श ॥
श्री-पद्म-पुराणे (५।६९।७९-८५)-
पार्वत्य् उवाच
गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृत-विग्रह ।
तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥
ईश्वर उवाच
मध्ये वृन्दावने रम्ये-मञ्जु-मञ्जीर-शोभिते ।
योजनाश्रित-सद्-वृक्ष-शाखा-पल्लव-मण्डिते ॥
तन्-मध्ये मञ्जु-भवने योग-पीठं समुज्जवलम् ।
तद्-अष्ट-कोण-निर्माणं नाना-दीप्ति-मनोहरम् ॥
तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् ।
तस्मिन् नष्ट-दलं पद्मं कर्णिकायां सुखाश्रयम् ॥
गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते ।
श्रीमद्-गोविन्द-मन्त्र-स्थ-बल्लवी-वृन्द-सेवितम् ॥
दिव्य-व्रज-वयो-रूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम् ॥
यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् ।
वराह-संहितायां च-
वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥
अस्य टीका च-अथ सर्वासाम् अर्चानां दर्शन-माहात्म्यं वदन् उपर्य् उपरि
स्फूर्त्या श्रीमद्-अर्चा-विशेषायमाणस्य साक्षाद्-भगवतः श्री-गोविन्द-देवस्य
दर्शन-माहात्म्यम् आह वृन्दावन इति ।
तथा हि वराह-तन्त्रे पञ्चम-पटले, यथा-
श्री-वराह उवाच-
कर्णिका तन् महद् धाम गोविन्द-स्थानम् अव्ययम् ।
तत्रोपरि स्वर्ण-पीठे मणि-मण्डप-मण्डितम् ॥
तथा हि-
कर्णिकायां महा-लीला तल्-लीला-रस-तद्-गिरौ ।
यत्र कृष्णो नित्य-वृन्दा-काननस्य पतिर् भवेत् ॥
कृष्णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाषितैः ।
दलं तृतीयकं रम्यं सर्व-श्रेष्ठोत्तमोत्तमम् ॥
तथा हि-
गोविन्दस्य प्रिय-स्थानं किम् अस्य महिमोच्यते ।
गोविन्दं तत्र संस्थं च वल्लवी-वृन्द-वल्लभम् ॥
दिव्य-व्रज-वयो-रूपं वल्लवी-प्रीति-वर्धनम् ।
व्रजेन्द्रं नियतैश्वर्यं व्रज-बालैक-वल्लभम् ॥
तथा हि-
पृथिव्य् उवाच-
परमं कारणं कृष्णं गोविन्दाख्यं परात्परम् ।
वृन्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् ॥
वराह उवाच-
राधया सह गोविन्दं स्वर्ण-सिंहासने स्थितम् ।
पूर्वोक्त-रूप-लावण्यं दिव्य-भूषं सुसुन्दरम् ॥
त्रिभङ्ग-मञ्जु-सुस्निग्धं गोपी-लोचन-तारकम् ।
तत्रैव योग-पीठे च स्वर्ण-सिंहासनावृते ॥
प्रत्यङ्ग-रभसावेशाः प्रधानाः कृष्ण-वल्लभाः ।
ललिताद्याः प्रकृतयो मूल-प्रकृती राधिका ॥
सम्मुखे ललिता देवी श्यामलापि च वायवे ।
इतरे श्री-मधुमती धन्यैशान्यां हरि-प्रिया ॥
विशाखा च तथा पूर्वे शैव्या चाग्नौ ततः परम् ।
पद्मा च दक्षिणे भद्रा नैरृते क्रमशः स्थिताः ॥
योग-पीठस्य कोणाग्रे चारु-चन्द्रावली प्रिया ।
प्रकृत्य् अष्टौ तद् अन्याश् च प्रधानाः कृष्ण-वल्लभाः ॥
प्रधाना प्रकृतिश् चाद्या राधिका सर्वथाधिका ।
चित्ररेखा च वृन्दा च चन्द्रा मदन-सुन्दरी ॥
सुप्रिया च मधुमती शशीरेखा हरिप्रिया ।
सम्मुखादि-क्रमे दिक्षु विदिक्षु च तथा स्थिताः ॥
षोडशी प्रकृति-श्रेष्ठा प्रधाना कृष्ण-वल्लभा ।
वृन्दावनेश्वरी राधा तवद् तु ललिता प्रिया ॥
गौतमीय-तन्त्रे-
रत्न-भूधर-संलग्न-रत्नासन-परिग्रहम् ।
कल्प-पादप-मध्यस्थ-हेम-मण्डपिका-गतम् ॥
इत्य् अनेन गोविन्दस्यैव विशेषणम् इति विवेचनीयम् । तापनी च- तम् एकं गोविन्दं
सच्-चिद्-आनन्द-विग्रहम् इति ।
श्री-जयदेव-चरणैश् च (ग्ग् २।१९)-
गोविन्दं व्रज-सुन्दरी-गण-वृतं पश्यामि हृष्यामि च ॥
श्री-भक्ति-रसामृत-सिन्धौ (२।१।४३)-
लीला प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः ।
इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥
तत्रैव (१।२।२३९)-
स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं
वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे
मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सन्गेऽस्ति रङ्गः ॥
श्री-दान-केलि-कौमुद्यां -
अर्जुनः: बिसाहे । इदं बि थोअ च्चेअ । ता सुणाहि । सो किर अस्सुद-अर-साहम्मो
सम्मोहण-माहुरा-भर-णब्बो सब्बोबरि विरेहन्तो पिअ-बअस्सस्स सअल-गोउल-
बैत्तणेण गोइन्दाहिसेअ-महूसबो कस्स बा गब्बं ण क्खु खब्बेदि ?
।[*एन्द्नोते #२]
इत्य् एवम्भूतस्य मौन-मुद्रादिकं प्रकाश्य विग्रहवत् स्थितस्य श्री-गोविन्द-
देवस्य प्रकट-लीला-काले मौन-मुद्रादिकम् आच्छादितम् अभवत् । तथा च-
प्रकट-लीला-काले भक्तानां भक्ति-सदर्शनार्थं प्रकटितम् एव । तत्र श्री-
गोपाल-तापन्यादि-प्रसिद्धं-कदाचित् प्रकटीभूय (१।१०) द्विभुजं मौन-
मुद्राढ्यं इति च ।
किं च श्री-कृष्ण-सन्दर्भे (१५३)-
तद् एवं तत्र श्री-कृष्ण-लीला द्विविधा अप्रकट-रूपा प्रकट-रूपा च ।
प्रापञ्चिक-लोकाप्रकटत्वात् तत्-प्रकटत्वाच् च । तत्राप्रकटा -
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ग्तु २।३६] इति ।
मथुरा-तत्त्व-प्रतिपादक-श्री-गोपाल-तापन्य्-आदौ - चिन्तामणि-प्रकर-सद्मसु-
कल्प-वृक्ष [भ्प् ५।४०] इत्य् आदि वृन्दावन-तत्त्व-प्रतिपादक-ब्रह्म-संहितादौ च
प्रकट-लीलातः किञ्चिद् विलक्षणत्वेन दृष्टा, प्रापञ्चिक-लोकैस् तद्-वस्तुभिश्
चामिश्रा, कालवद्-आदि-मध्यावसान-परिच्छेद-रहित-स्व-प्रवाहा, यादवेन्द्रत्व-
व्रज-युवराजत्वाद्य्-उचिताहरहर्-महा-सभोपवेश-गोचारण-विनोदादि-लक्षणा
। प्रकट-रूपा तु श्री-विग्रहवत् कालादिभिर् अपरिच्छेद्यैव सती भगवद्-
इच्छात्मक-स्वरूप-शक्त्यैव लब्धारम्भ-समापना प्रापञ्चिकाप्रापञ्चिक-लोक-
वस्तु-संवलिता तदीय-जन्मादि-लक्षणा ।
तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा तत्-तद्-
एकतर-स्थानादि-नियत-स्थितिका तत्-तन्-मन्त्र-ध्यान-मयी । यथा बृहद्-ध्यान-
रत्नाभिषेकादि-प्रस्तावः क्रम-दीपिकायाम् । यथा वा –
अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ इत्य् आदि गौतमीय-तन्त्रे ।
यथा वा -
वेणुं क्वणन्तम् अरविन्द-दलायताक्षम्-
बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् ।
कन्दर्प-कोटि-कमनीय-विशेष-शोभं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् [५।३९-४०] ।
होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य्-आद्य्-अनन्तरं -
गोविन्दं मनसा ध्यायेत् गवां मध्ये स्थितं शुभम् ।
बर्हापीडक-संयुक्तं वेणु-वादन-तत्-परम् ॥
गोपी-जनैः परिवृतं वन्य-पुष्पावतंसकम् ॥ इति बोधायन-कर्म-विपाक-
प्रायश्चित्त-स्मृतौ ।
तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् । तदिह
श्लोका भवन्ति –
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं मौन-मुद्राढ्यं वनमालिनमीश्वरम् ॥
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्त-पङ्कज-मध्यगम् ॥
कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥
इति श्री-गोपाल-तापन्याम् [१।११-१५] - गोविन्दं गोकुलानन्दं सच्-चिद्-आनन्द-विग्रहम्
[ग्तु १।३७] इत्य् आदि च ।
अथ स्वारसिकी च यथोदाहृतम् एव स्कान्दे –
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः स-रामो बालकैः सह ॥ इत्य् आदि ।
तत्र च-कारात् श्री-गोपेन्द्रादयो गृह्यन्ते । राम-शब्देन रोहिण्य् अपि । तथा तेनैव
क्रीडतीत्य् आदिना व्रजागमन-शयनादि-लीलापि । क्रीडा-शब्दस्य विहारार्थत्वाद्
विहारस्य नाना-स्थानानुसारण-रूपत्वाद् एक-स्थान-निष्ठाया
मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसर-विविध-स्वेच्छामयी स्वारसिकी ।
एवं ब्रह्म-संहितायाम् –
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम्
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् ५।२८] इति ।
अत्र कथा गानं नात्यं गमनम् अपि वंशी [ब्रह्मस् ५।५२] इत्य् अत्रानुसन्धेयम्
। तत्र नाना-लीला-प्रवाह-रूपतया स्वारसिकी गङ्गेव ।
अथाप्रकटायां मन्त्रोपासना-मयीम् आह –
मां केशवो गदया प्रातर् अव्याद्
गोविन्द आसङ्गवम् आत्त-वेणुः । [भ्प् ६।८।२] इति ।
आत्त-वेणुर् इति विशेषेण गोविन्दः श्री-वृन्दावन-मथुरा-प्रसिद्ध-महा-योग-
पीठयोस् तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र प्रापञ्चिक-लोक-
दृष्ट्यां श्रीमत्-प्रतिमाकारेणाभातः स्वजन-दृष्ट्यां साक्षाद्-रूप-वृन्द-
प्रकरण एव एतौ पठितौ । ततश् च नारायण-वर्माख्य-मन्त्रोपास्य-
देवतात्वेन (श्री-गोपाल-तापन्यादि-प्रसिद्ध-स्वतन्त्र-मन्त्रान्तरोपास्य-
देवतात्वेन) च मन्त्रोपासना-मय्याम् इदम् उदाहृतम् ॥
तथा हि ललित-माधवे (७।३३फ़्)-
राधिका (श्री-कृष्ण-मुखेन्दुम् अवलोक्य): हन्त ! हन्त ! णिब्भ-रूक्कण्डिदा ए
मम मुद्धत्तणम्, जं गोइन्दस्स पडिमं जेब्ब गोइन्दं मण्णेमि ।
तथा राधिका (७।३५)-
पुरो धिन्वन् घ्राणं परिमिलति सोऽयं परिमलो
घन-श्यामा सेयं द्युति-विततिर् आकर्षति दृशौ ।
स्वरः सोऽयं धीरस् तरलयति कर्णौ मम बलाद्
अहो गोविन्दस्य प्रकृतिम् उपलब्धा प्रतिकृतिः ॥
स्कान्दे-
दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् ।
रथे च वामनं दृष्ट्वा पुनर् जन्म न विद्यते ॥
द्वारकायां श्री-पुरुषोत्तमे च । एतत्-पद्य-द्वये गोविन्द-शब्दस् तु सर्व-
प्रकाश-मूल-भूतस्य श्री-वृन्दावन-नाथस्य गोविन्दस्य प्रकाशापेक्षया । स
च प्रकाशस् तु न भेदेषु गण्यते स हि न पृथक् इति (ल्भाग् १।१।२०) ।
दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरम् ।
सकृद् दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्म-हत्यायाः ।
वर्तमानं च यत् पापं यद् भूतं यद् भविष्यति ।
तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात् ।
गोविन्देति यथा प्रोक्तं भक्त्या वा भक्ति-वर्जितम् ।
दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः ॥
गोविन्द-नामा यः कश्चिन् नरो भवति भूतले ।
तन् नास्ति कर्मजं लोके वाङ्-मानसम् एव वा ।
यन् न क्षपयते पापं कलौ गोविन्द-कीर्तनम् ॥
किं तत्र वेदागम-शास्त्र-विस्तरैस्
तीर्थैर् अनेकैर् अपि किं प्रयोजनम् ।
यद्य् आननेनेछसि मोक्ष-कारणं
गोविन्द गोविन्द इति स्फुटं रट ॥
श्री-चैतन्य-चरितामृते (१।८।५०-५१)
वृन्दावने कल्प-वृक्ष सुवर्ण-सदन ।
महा-योग-पीठ ताङ्हा रत्न-सिंहासन ॥
ताते बसि आछेन साक्षात् व्रजेन्द्र-नन्दन ।
श्री-गोविन्द नाम साक्षात् मन्मथ-मदन ॥
(१।५।२२१, २२५-६)
याङ्र ध्यान निज-लोके करे पद्मासन
अष्टादशाक्षर-मन्त्रे करे उपासन
साक्षात् व्रजेन्द्र-सुत इथे नाहि आन
येबा अज्ञे करे ताङ्रे प्रतिमा-हेन ज्ञान
सेइ अपराधे तार नाहिक निस्तार
घोर नरकेते पडे कि बलिब आर
ब्रह्म-वैवर्ते-
प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥
द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।
श्री-गोविन्द-पाद-द्वन्द्वे विमुखा ये भवन्ति हि ॥
असौ रसिक-शेखरो गोविन्द-देवः कदाचिद् ऋतु-भेदेन स्व-सेवा-काले यथोचित-
भोजनादि-निमित्ताय स्वाधिकार-नियुक्तेन केनापि सह-गोप-किशोर-रूपेण रात्रौ
स्वप्न-स्फूर्त्या साक्षाद् रूपेण वा कथोपकथनं कुरुते । एतच् च लोक-
परम्परया श्रूयते । किन्तु अतीव-रहस्यत्वात् आचार्य-वचनाद्य्-अनुरोधाच् च
प्रकाश्य न लिख्यते इत्य् आदि ।
अथ ऊर्ध्वाम्नाय-तन्त्र-वाक्यान्य् आह-
श्री-पार्वत्य् उवाच-
कोऽसौ गोविन्द-देवोऽस्ति यस् त्वया सूचितः पुरा ।
कीदृशं तस्य माहात्म्यं किं स्वरूपं च शङ्कर ॥
श्री-महादेव उवाच-
गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योग-पीठे स एव सततं स्थितः ॥
असौ युग-चतुष्केऽपि श्रीमद्-वृन्दावनाधिपः ।
पूजितो नन्द-गोपाद्यैः कृष्णेनापि सुपूजितः ॥
चीर-हर्ता व्रज-स्त्रीणां व्रत-पूर्ति-विधायकः ।
चिद्-आनन्द-शिलाकारो व्यापको व्रज-मण्डले ॥
किशोरताम् उपक्रम्य वर्तमानो दिने दिने ।
ताम्बूल-पूरित-मुखो राधिका-प्राण-दैवतः ॥
रत्न-बद्ध-चतुः-कूलं हंस-पद्मादि-सङ्कुलम् ।
ब्रह्म-कुण्ड-नाम कुण्डं तस्य दक्षिणतो दिशि ॥
रत्न-मण्डपम् आभाति मद्नार-तरुभिर् वृतम् ।
तन्-मध्ये योग-पीठाख्यं साम्राज्य-पदम् उत्तमम् ॥
वृन्दावनेश्वरी-प्राज्य-साम्राज्य-रस-रञ्जितः ।
इहैव निर्जितः कृष्णो राधया प्रौढ-हासया ॥
तस्यां गो श्रीः सदा वृन्दा वीरा चाखिल-साधना ।
योग-पीठस्य पूर्वत्र नाम्ना लीलावती स्थिता ।
दक्षिणस्यां स्थिता श्यामा कृष्ण-केलि-विनोदिनी ॥
पश्चिमे संस्थिता देवी भोगिनी नाम सर्वदा ।
उत्तरत्र स्थिता नित्यं सिद्धेशी नाम देवता ।
पञ्च-वक्त्रः स्थितः पूर्वे दश-वक्त्रश् च दक्षिणे ॥
पश्चिमे च चतुर्वक्त्रः सहस्र-वक्त्र उत्तरे ।
सुवर्ण-वेत्र-हस्ता च सर्वतः शासने स्थिता ॥
मदनोन्मोदिनी नाम राधिकायाः प्रिया सखी ।
पादयोः पातयत्य् एव गोविन्दं मान-विह्वलम् ॥
रति-पति-मति-मानदेऽपि साक्षाद्
इह युगलाकृति-धाम-काम-दम्भे ।
हरि-मणि-नव-नील-मधुरीभिः
पदि पदि मन्मथ-सौधम् उच्चिनोति ॥
मन्मथ-द्वितयं पश्चात् श्री-कृष्णायेति सत्-पदम् ।
गोविन्दाय ततः पश्चात् स्वाहायं द्वादशाक्षरः ॥
गोविन्दस्य महा-मन्त्रः काले पूर्वानुराग-भाक् ।
ततः परं प्रवक्ष्यामि गोविन्दं युगलात्मकम् ॥
लक्ष्मी-मन्मथ-राधेति गोविन्दाभ्यां नमः पदम् ।
एतस्य ज्ञान-मात्रेण राधा-कृष्णौ प्रसीदतः ॥
अनयोस् तु ऋषिः कामो विराट् छन्द उदाहृतः ।
देवता नित्य-गोविन्दो राधा-गोविन्द एव च ॥
योग-पीठेश्वरी शक्तिः षड्-अङ्गं काम-बीजकैः ।
ध्यायेद् गोविन्द-देवं नव-घन-मधुरं द्विय-लीला-नटन्तम्
विस्फूर्जन्-मल्ल-कच्छं कर-युग-मुरली-रत्न-दण्डाश्रितं च ।
असन्न्यस्ताच्छ-पीताम्बर-विपुल-दशा-द्वन्द्व-गुच्छाभिरामं
पूर्ण-श्री-मोहनेन्द्रं तद्-इतर-चरणाक्रान्त-दक्षाङ्घ्रि-नालम् ॥
एवं ध्यात्वा जपेन् मन्त्रं यावल्-लक्ष-चतुष्टयम् ।
तिलाज्य-हवनस्यान्ते योग-पीठेश्वरौ यजेत् ॥
चम्पकाशोक-तुलसी-कह्लारैः कमलैस् तथा ।
राधा-गोविन्द-युगलं साक्षात् पश्यति चक्षुषा ॥
श्रीमन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष्ठितः ।
कैशोर-रूपी गोपालो गोविन्दः प्रौढ-विग्रहः ।
उभयोस् तारतम्येन गोपीनाथोऽतिसुन्दरः ॥
धीरोद्धतस् तु गोपालो धीरोदात्तयोच्यते ।
गोविन्दो गोपिकानाथो यो धीर-ललिताकृतिः ॥
सिंह-मध्यस् तु गोपालस् त्रिभङ्ग-ललिताकृतिः ।
गोविन्दो गोपिकानाथः पीन-वक्षः-स्थलो विटः ॥
त्रिसन्ध्यम् अन्यद् अन्यद् धि माधुर्यं गोविदां पतौ ।
गोवर्धन-दरी-धातु-पल्लवादि-विचित्रिते ।
बाल्यतः समतिक्रान्तः कैशोरात् परतो गतः ॥
वगाहमानः कन्दर्पः श्री-गोविन्दो विराजते ।
नाना-रत्न-मनोहारीन्य् एतस्मिन् योग-पीठके ।
सहजो हि प्रभावोऽयं नाचिरात् परितुष्यति ॥
अन्येषु सिद्ध-पीठेषु या सिद्धिर् बहु-हायनैः ।
वृन्दावने योग-पीठे सैकेनाह्ना प्रजायते ॥
प्रातर् बालार्क-सङ्काशं सङ्गवे मङ्गल-च्छवि ।
मध्याह्ने तरुणार्काभं पराह्ने पद्म-पत्रवत् ॥
सायं सिन्दूर-पूराभं रात्रौ च शशि-निर्मलम् ।
तमस्विनीष्व् इन्द्रनील-मयूख-मेचक-प्रभम् ॥
वर्षासु च सदाभाति हरित्-तृण-मणि-प्रभम् ।
शरत्-सुचन्द्र-बिम्बाभं हेमन्ते पद्म-रागवत् ॥
शिशिरे हीरक-प्रख्यं वसन्ते पल्लवारुणम् ।
ग्रीष्मे पीयूष-पूराभं योग-पीठं विराजते ॥
माधुरीभिः सदाच्छन्नम् अशोक-ललितादृतम् ।
अघश् चोर्ध्वं महा-रत्न-मयूखैः परितो वृतम् ॥
चन्द्रावली-दुराधर्षं राधा-सौभाग्य-मन्दिरम् ॥
श्री-रत्न-मण्डपं नाम तथा शृङ्गार-मण्डपम् ॥
सौभाग्य-मण्डपं नाम महा-माधुर्य-मण्डपम् ।
साम्राज्य-मण्डपं नाम तथा कन्दर्प-मण्डपम् ॥
आनन्द-मण्डपं नाम तथा सुरत-मण्डपम् ।
इत्य् अष्टौ योग-पीठस्य नामानि शृणु पार्वति ॥
नामाष्टकं यः पठति प्रभाते
श्री-योग-पीठस्य महत्तमस्य ।
गोविन्द-देवं वशयेत् स तेन
प्रेमानम् आप्नोति परस्य पुंसः ॥
अथ मन्त्र-मय्यां सद्-आचार-विधिर् लिख्यते । मन्त्र-मयी द्विधा । तत्र श्री-
भागवतादि-वर्णित-जन्म-कर्म-गो-चारणादि-लीला एक-विधा । सा तु स्मरण-
मङ्गल-श्री-गोविन्द-लीलामृताद्य्-अनुसारेण कर्तव्या । द्वितीया तु अर्चायमान-
विशेष-मौन-मुद्राढ्य-श्री-विग्रह-विशेष-सेवा । सा च सर्व-स्मृति-सम्मता श्री-
हरि-भक्ति-विलासे लिखितास्ति । तद्-अनुसारेण प्रेम-युक्तया भक्त्या कर्तव्या ।
तस्मात् किञ्चित् प्रकाश्य लिख्यते ।
ब्राह्म-मुहूर्ताद् उत्थाय पूजकादयः सर्वे पार्षदाः सेवानामापराध-रहिता
भगवत्-परिचर्यां विना प्रसादान्नम् अप्य् अस्वीकुर्वन्तः । किं पुनर् भगवद्-
द्रव्यं स्वेच्छया बलात्कारेण वा । विधिवत् गुर्वादि-प्रणाम-दन्त-धावन-
यथोचित-स्नानादि-विधिं कृत्वा स्व-सेवायां सावधानाः श्री-मन्दिरे प्रविशन्ति ।
पूजकस् तु विधिवत् घण्टादि-वाद्यं कृत्वा प्रभोः श्रीमद्-ईश्वर्याश् च
प्रबोधनं कारयेत् । ग्रीष्म-शीत-वर्षाद्य्-अनुसारेण देवादि-दुर्लभ-सेवां
[अद्दितिओनल् तेxत्? यथा साधकः सिद्ध-रूपेण मानसीं लीलां दण्डात्मिकां
भावयेत् तथा तेनैव गुरु-परम्परया रागानुगा-मतेन मौन-मुद्राढ्यः
। दण्डात्मिका-लीला-सेवा चैका नाम्ना भेदः पृथग् भवेत् । अतस् तयोर् ऐक्य-
सेवनं च ।]
ततः श्री-मुख-प्रक्षालनादिकम्, यथा श्री-गोविन्द-लीलामृते (१।२४?) (प्रोबब्ल्य्
कक्)
स-मुष्टि-पाणि-द्वयम् उन्नमय्य
विमोटयन् सोऽथ रसालसाङ्गम् ।
जृम्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नीलः शयनाद् उदस्थात् ॥
तद् यथा-
उत्थाय तल्प-वरतः स वरासन-स्थो
दत्तैर् जलैः कनक-झर्झरि-नालितोऽपि ।
सरकास् तः पतित-पत्र-विनिर्मितेन
वीटी-वरेण परिममार्ज सुदिव्य-दन्तान् ॥
एवं श्रीमद्-ईश्वर्याश् च (श्री-कृष्णाह्निक-कौमुद्यां २।४९,५२)
उत्थाय तल्प-तलतः कनकासन-स्था
निद्रावसान-विगलन्-नियत-व्यवस्था ।
सा पाद-पीठम् अधिदत्त-पदारविन्दा
रेजे तदा पर्जनैर् विहिताभिनन्दा ॥
आमृज्य सूक्ष्म-वसनेन सितेन कान्तान्
सा दन्त-काष्ठ-शकलेन विघृष्ट-दन्तान् ।
ताम्बूल-राग-पर-भागवतीं मनोज्ञां
जिह्वां विशोधनिकया व्यलिखद् रसज्ञाम् ॥
ततः सुस्वादु-मिष्ट-दधि-समर्पणम् । ततो मङ्गलारात्रिकम् । तत्र ध्यानम्-
कर्पूरावलि-निन्दि चारु-वसनं बिभ्रन्-नितम्बे वहन्न्
उष्णीषं वर-मूर्ध्नि कान्तम् अरुणं निद्रा-विमिश्रेक्षणम् ।
स्वीकुर्वन् सुखदं मनोरथ-करं माङ्गल्यारात्रिकं
गोविन्दः कुशलं करोति भवतो रात्र्य्-अन्त-काले सदा ॥
ततो हैमन्ते फल्गुला-धारणम्-
कौशेय-वस्त्र-परिनिर्मित-फल्गुलाख्यं
प्रालेय-वारणकं बहु-मूल्य-लभ्यम् ।
सौवर्ण-चित्र-परिचित्रित-सर्व-देशम्
आ-मस्तकात् पद-युगावधि शोभमानम् ॥
गोविन्दम् आदि-पुरुषं व्रज-राज-पुत्रं
पश्यन्तम् अग्निम् अमलं भगवन्तम् ईडे ।
वर्णेनारुणम् अतुलं
बहु-रत्न-चित्र-विचित्रित-फल्गुलकम् ।
बिभ्राणं गोविन्दं
विहसद् वदनं कदा पश्ये ॥
अथ ग्रीष्मे तनिया-धारणम्-
सूक्ष्म-वस्त्र-निर्मितं त्रिभाग-रूप-खण्डितम् ।
सर्व-प्रान्त-देश-स्वर्ण-सूत्र-मौक्तिकाञ्चितम् ॥
कृष्ण-देव-मध्य-देश-राजितं विराजितम् ।
ग्रीष्म-ताप-शोषकं सुशीत-वस्त्रम् आश्रये ॥
मुकुलित-कञ्चुक-धारणम्-
उष्णीषं दधद् अरुणं धटीं
विचित्रां तद्-उपरि च बिभ्राणः ।
मुकुलित-कञ्चुक-बन्धः
श्री-गोविन्दो हृदि स्फुरतु ॥
ततः सर्वे मिलित्वा आरात्रिक-दर्शनम् । एवं देव-मुनीन्द्रादयोऽपि गीतावाद्य-
कीर्तनादि कुर्वन्ति । यथा पद्यावल्यां (२२)-
चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् ।
आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सङ्कीर्तनम् ॥
अथ दर्शन-फलम्-
सर्वाभीष्ट-प्रदं श्रीमन् मङ्गलारात्रि-दर्शनम् ।
प्रेम-भक्ति-प्रदं सर्व-दुःस्वप्नादि-निवर्तकम् ॥
एवं पाचकादयः सर्वे स्व-स्व-सेवायां परम-भक्त्या च सावधाना वर्तिष्यन्ते
। सेवायां मुखोऽधिकारी तु स्व-प्रतिनिधिं कर्म-चारिणम् उद्दिश्य तस्मिन् स्व-
सर्व-कर्म समर्प्य सेवायां सावधानः स्वयं करिष्यति अभावे पूजकादि-द्वारा
च । एवं श्रीमद्-ईश्वर्या दधि-भोजनं मङ्गल-नीराजनं च कर्तव्यम् ।
अथ शृङ्गारारात्रि-विधिर् लिख्यते । ततः सुगन्ध-तैलादिभिर् मर्दनोन्-
मार्जनादिकं हिम-ग्रीष्म-वर्षादि-कालोचितम् उष्ण-शीतल-जलादिभिः स्नानं च,
सूक्ष्म-वस्त्रेण श्रीमद्-अङ्ग-सम्मार्जनम्, यथा श्री-गोविन्द-लीलामृते (४।८-१२)-
तम् आगतं स्नापन-वेदिकान्तरं
भृत्यः समुत्तार्य विभूषणं तनोः ।
सुकुञ्चितं चीन-नवीनम् अंशुकं
सारङ्ग-नामा लघु पर्यधापयन् ॥८॥
अभ्यज्य नारायण-तैल-लेपैः
प्रत्यङ्ग-नाना-मृदु-बन्ध-पूर्वम् ।
सुबन्ध-नामा क्षुरित-सूनुर् अस्य
प्रेम्णाङ्ग-सम्मर्दनम् आततान ॥९॥
उद्वर्तनेनास्य मुदा सुगन्धः
शीतेन पीतेन सदा सुशीतम् ।
स्निग्धेन मुग्धो नवनीत-पिण्डाद्
उद्वर्तयामास शनैस् तद्-अङ्गम् ॥१०॥
धात्री-फलार्द्र-कल्केन केशान् शीत-सुगन्धिना ।
स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥११॥
मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अथ दासाः ।
शतकुम्भ-घटिकात्त-विमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥१२॥
इति श्री-गोविन्द-देवस्य साक्षाद् व्रजेन्द्र-नन्दनत्वेन पूजकादिभिर् भाव-युक्तेन
मनसा स्नानादिकं कर्तव्यम् । ततः पीतारुणादि-नाना-विध-स्वर्ण-चित्र-वस्त्रादि
। एवं स्वर्ण-रूप्य-मौक्तिक-रत्न-जटित-नानालङ्कार-गुञ्जा-मालादि-विदग्ध-
पूजकेन परिधापनीयम् । कदाचित् सेवावसरे लोकोत्तर-चमत्कार-स्वाद-
पक्वान्नादिकं प्रेम-युक्तेन मनसा तत्-सेवा-सुख-पराधीनोऽर्पयेत् ।
तत्र कञ्चुकादि-धारणम्, यथा (ब्र्स् २।१।३५१)-
स्मेरास्यः परिहित-पाटलाम्बर-श्रीश्
छन्नाङ्गः पुरट-रुचोरु-कञ्चकेन ।
उष्णीषं दधद् अरुणं धटीं च चित्राः
कंसारिर् वहति महोत्सवे मुदं नः ॥
क्वचिच् च नट-वर-वेशम्, यथा (ब्र्स् २।१।३५३)-
अखण्डित-विखण्डितैः सित-पिशङ्ग-नीलारुणैः
पटैः कृत-यथोचित-प्रकट-सन्निवेशोज्ज्वलः ।
अयं करभ-राट्-प्रभः प्रचुर-रङ्ग-शृङ्गारितः
करोति करभोरु मे घन-रुचिर् मुदं माधवः ॥
ऊर्ध्वाम्नाये-
ध्यायेद् गोविन्द-देवं नव-घन-मधुरं दिव्य-लीला-नटन्तं
विस्फूर्जन्-मल्ल-कच्छं कर-युग-मुरली-रत्न-दण्डाश्रितं च ।
असन्न्यस्ताच्छ-पीताम्बर-विपुल-दशा-द्वन्द्व-गुच्छाभिरामं
पूर्ण-श्री-मोहनेन्द्रं तद्-इतर-चरणाक्रान्त-दक्षाङ्घ्रि-नालम् ॥
एवं ध्यात्वा जपेन् मन्त्रं यावल्-लक्ष-चतुष्टयम् ।
तिलाज्य-हवनस्यान्ते योग-पीठेश्वरौ यजेत् ॥
चम्पकाशोक-तुलसी-कह्लारैः कमलैस् तथा ।
राधा-गोविन्द-युगलं साक्षात् पश्यति चक्षुषा ॥
श्रीमन्-मदन-गोपालोऽप्य् अत्रैव सुप्रतिष्ठितः ।
एवं श्री-तापन्याम्-
कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥
तत्र आकल्पः (ब्र्स् २।१।३५४)-
केश-बन्धनम् आलेपो माला-चित्र-विशेषकः ।
ताम्बूल-केलि-पद्मादिर् आकल्पः परिकीर्तितः ॥
यथा (२।१।३५८)-
ताम्बूल-स्फुरद्-आननेन्दुर् अमलं धम्मिल्लम् उल्लासयन्
भक्ति-च्छेद-लसत्-सुघृष्ट-घुसृणालेप-श्रिया पेशलः ।
तुङ्गोरः-स्थल-पिङ्गल-स्रग् अलिक-भ्राजिष्णु-पत्राङ्गुलिः
श्यामाङ्ग-द्युतिर् अद्य मे सखि दृशोर् दुग्धे मुदं माधवः ॥
अथ मण्डनम् (२।१।३५९-३६०)-
किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः ।
केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥
यथा -
काञ्ची चित्रा मुकुटम् अतुलं कुण्डले हारि-हीरे
हारस् तारो वलयम् अमलं चन्द्रा-चारुश् चतुष्की ।
रम्या चोर्मिर् मधुरिम-पूरे नूपुरे चेत्य् अघारेर्
अङ्गैर् एवाभरण-पटली भूषिता दोग्धि भूषाम् ॥
यथा स्तवावल्यां मुकुन्दाष्टके (३) -
कनक-निवह-शोभानन्दि पीतं नितम्बे
तद्-उपरि नवरक्तं वस्त्रम् इत्थं दधानः ।
कनक-निचितम् उष्णीषं दद्धच् चोत्तमाङ्गे
व्रज-नव-युव-राजः कोऽपि कुर्यात् सुखं ते ॥[*एन्द्नोते #३]
एतद्-उपलक्षणं समय-क्रमे ऋतु-क्रमे नानावेश-भूषादि-मुकुलित-बन्ध-
कञ्चुकादिकं ज्ञेयम्, यथा-
उष्णीषं दधद् अरुणं धटीं
विचित्रां तद्-उपरि च बिभ्राणः ।
मुकुलित-कञ्चुक-बन्धः
श्री-गोविन्दो हृदि स्फुरतु ॥
यथा-
पुष्पैश् चूडां मुकुटम् अतुलं कुण्डले चारु-हीरे
वक्षस्य् आरोहयन्तीर् विविध-सुकुसुमैर् वन्य-मालां वहन्तम् ।
जानुन्य् आरोहयन्तीं भ्रमर-कर्षिणीं बिभ्रतं कान्तयान्यां
नाम्ना तां वैजयन्तीं निज-प्रियतमया पश्य गोविन्द-देवम् ॥
गोविन्द कर्ण-युग-कुण्डल-युग्म-मध्ये
कण्ठ-स्थले कर-युगाङ्गुलि-पर्व-मध्ये ।
पादाब्जयोर् उपरि चाङ्गुलिषु प्रभातितान्
हीरकान् सुकृतिनो हृदि चिन्तयन्ति ॥
मुक्तादि-हेम-जटित उष्णीष-सव्ये मुख्योपरिष्टाच् च ।
हरि-हृदय-स्थे सुन्दरि हीरक-राजे मनो लग्नम् ॥
श्री-गोविन्द-लीलामृते (४।१४)
भक्ति-च्छेदाढ्य-चर्चां मलयज-घुसृणैर् धातु-चित्राणि बिभ्रद्
भूयिष्ठं नव्य-वासः शिखि-दल-मुकुटं मुद्रिकाः कुण्डले द्वे ।
गुञ्जाहारं सुरत्न-स्रजम् अपि तरलं कौस्तुभं वैजयन्तीं
केयूरे कङ्कणे श्री-युत-पदक-कटकौ नूपुरौ शृङ्खलां च ॥
श्री-कृष्णाह्निक-कौमुद्यां (३।१८)-
चूडा-चुम्बित-चारु-चन्द्र-कलसद्-गुञ्जालतः कर्णयोः
पुन्नाग-स्तवकी लवङ्ग-लतिका श्री-कुण्डला पूर्णयोः ।
श्री-वक्षः प्रतिमुक्त-मौक्तिक-लता श्री-रञ्जि-गुञ्जा सरः
क्रीडा-कानन-यान-कौतुक-मना रेजे स पीताम्बरः ॥
अथ परुणमास्यादि-युगल-दर्शनम्-
विद्युद्-घनाङ्गौ घन-विद्युद्-अम्बरौ
निसर्ग-मन्द-स्मित-सुन्दराननौ ।
मिथः कटाक्षाशुग-कीलितान्तरौ
राधा-मुकुन्दौ प्रणमामि तौ मुदा ॥
एवं श्रीमद्-ईश्वर्या द्वादशाभरण-षोडश-शृङ्गारादिकं कर्तव्यम् । तद् यथा
(उन् ४।९-१०)-
स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी
सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता ।
ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥
द्वादशाभरणं यथा-
दिव्यश् चूडामणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि-
निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च ।
हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-क् प्तास्
तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥
यथा-
सङ्गोप्याङ्गाभरण-पटलीं रक्त-चित्रान्तरीयं
श्रोणौ चेलं तद्-उपरि वरं दण्डिकाख्यं च नीलम् ।
सर्वाङ्गानावरयितुम् अये देवि किं ते प्रयोज्यं
दृष्ट्वा चान्तर् मुदितमनसोत्फुल्लताम् एति नाथः ॥
(विलाप-कुसुमाञ्जल्यां २८)-
या ते कञ्चुलिर् अत्र सुन्दरि मया वक्षोजयोर् अर्पिता
श्यामाच्छादन-काम्यया किल न सासत्येति विज्ञायताम् ।
किन्तु स्वामिनि कृष्ण एव सहसा तत् ताम् अवाप्य स्वयं
प्राणेभ्योऽप्य् अधिकं स्वकं निधि-युगं सङ्गोपयत्य् एव हि ॥
(भक्ति-रसामृत-सिन्धौ ३।५।८)-
मद-चकित-चकोरी-चारुता-चोर-दृष्टिर्
वदन-दमित-राकारोहिणी-कान्त-कीर्तिः ।
अविकल-कल-धौतोद्धूति-धौरेयक-श्रीर्
मधुरिम-मधु-पात्री राजते पश्य राधा ॥
एवं समयानुरूप-वस्त्रादि-परिधापनं कर्तव्यम्, तथा स्वर्ण-रौप्य-
मौक्तिक-रत्न-जटित-नानालङ्कारादिकं च ।
अथ तिलकादि-दर्शनार्थम् आदर्श-दर्शनम्, यथा (श्री-गोविन्द-लीलामृते २।१०४-
१०५) श्रीमद्-ईश्वर्याः-
तदैव समयाभिज्ञा पुरस्तान् मणि-बन्धनम् ।
आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥
सा कृष्ण-नेत्र-कुतुकोचित-रूप-वेषं
वर्ष्मावलोक्य मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष-वेषः ॥
अथ श्रीमद्-ईश्वरस्य श्री-भागवते (१०।३५।१०)-
दर्शनीय-तिलको वन-माला-
दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैर् अलघु गीतम् अभीष्टम्
आद्रियन् यर्हि सन्धित-वेणुः ॥
अथ रागानुगीय-विधिवत् पूजा-तुलसी-समर्पणं यथा (१०।३०।१)-
कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये ।
तद् यथा-
मातस् तुलसि गोविन्द-हृदयानन्द-कारिणी इत्य् आदि ।
ततो धूप-दीपादि-निवेदनम्-
स धूप-दीपकं श्रीमद्-गोविन्द-मुख-पङ्कजम् ।
शृङ्गारे ये तु पश्यति ते यान्ति परमं पदम् ।
तेनापि सह दिव्यन्ति तल्-लोके शाश्वतीः समाः ॥
ततः पक्वान्न-निवेदनं । ततः कर्पूरादि-संस्कृत-ताम्बूला-समर्पणम् । ततो
नाना-विधान्न-व्यञ्जन-पिष्ट-पूप-पायस-सरस-रसालादि-निवेदनम् ।
अत्रैव श्री-गोविन्दः प्रिय-पूजारि-गोस्वामिनं प्रति दधि-कडमान्नं स्वयं
याचितवान् । यथा-
दधि-कडमान्नं मिष्टं गोविन्द-प्रिय-पूजकं स्वस्य ।
याचित्वा येन नीतं तं वन्दे स्वयं भगवन्तम् ॥
तत आरात्रिकम्, सर्वे मिलित्वा तद्-दर्शनम् । अथारात्रिक-दर्शन-फलम्-
शृङ्गारात्रिकं नाम गोविन्दस्य सुखावहम् ।
प्रेम-भक्ति-प्रदातारं दर्शनात् पाप-नाशकम् ॥
अथ राजभोग-विधिर् लिख्यते । वस्त्र-भूषादिकं समर्प्य तथैव मन्दिर-
सेवकस् तु तत आगत्य मन्दिर-धौतादिकं कृत्वा ततो धूप-दीपं च निवेदयेत्
। तत् तु सङ्गोपनम् । ततः पाचकाः परम-रसिकाः परम-सावधाना
नियतेन्द्रिया नाना-प्रकार-शाकाद्य्-अन्न-व्यञ्जन-रोटिका-पूप-पायस-पिष्टकादि-
शिखरिणी-रसालादिकं लेह्य-चोष्य-पेय-चर्व्य-षड्-रस-निर्मितं सुवर्ण-पात्रादिषु
परिवेषयन्ति । स्व-स्व-र्तु-भवं फलादिकं च । एवम् एकादश्यादि-व्रत-दिनानि,
सद्-आचारानुसारेण श्री-प्रभोः श्रीमद्-ईश्वर्या नित्य-नियमित-पाक-रचनादि
कर्तव्यम् । पूजको नियतेन्द्रियः सावधानः सन् भोजन-सामग्रीं विधिवद्
रागानुगीय-मतेन दश-घटिकान्तः समप्र्य समयान् निवर्ति निवसेत् । पूजकस्य
तु नैवेद्य-समर्पणे विज्ञप्तिर्, यथा श्री-रूप-गोस्वामि-पादैः श्री-पद्यावल्यां
(११८)-
क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते
दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते ।
तुष्टिर्या भवतस् ततः शतगुणां राधा-निदेशान् मया
नस्तेऽस्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम् ॥
आह्निक-कौमुद्यां (३।९-१०)-
शाकादि-क्रमतोऽभितोष-वशतः सर्वाणि सद्-व्यञ्जनान्य्
आदं मातृ-मुदे भवेद् अपि यथा पक्त्री-मनो-रञ्जना ।
तान् सर्वान् सह-भोजिनः सरसया वाचा सहन् हासयन्
भुञ्जध्वं न परित्यजन् किम् अपीत्य् एकान्तम् आह्लादयन् ॥
अन्नं व्यञ्जनवत् कियत् कियद् अदंश् चक्रेऽन्नवद् व्यञ्जनं
पर्याप्तं न तथापि लालसतया वाभूद् अनुव्यञ्जनम् ।
प्रत्येकं च तद् इष्ट-पिष्टक-कुलं तां गोरसानां भिदाम्
एकैकां च कृताभिनन्दनम् अदन् सम्पिप्रिये सर्वदा ॥
पूजकस् तु शीतल-जलादि समर्प्य मन्दिरान् निर्गत्य नियम-जपादि कुर्यात् । जप-
नियमान्ते च विधिवद् घण्टादि-वाद्यं कृत्वा श्री-मन्दिरे प्रविश्य ततो जल-
सेवकेन दत्त-पाटलादि-परिवासितयमुना-जलेनाचमनं दत्त्वा सुक्ष्म-वस्त्रेण
मुख-मार्जनादिकं कुर्यात् । ततो महा-प्रसादानयनं ततो मन्दिर-सेवकेन
मन्दिरमार्जनं । ततस् ताम्बूलादि-समर्पणम्, यथा-
एला-लवङ्ग-परिपूरित-पूग-चूर्णैः
कर्पूर-पूर-परिवासित-चूर्ण-वृन्दैः ।
पर्णः सुकर्तरि -विखण्डित-पार्श्व-भागैस्
तां वीटिकां स बुभुजे वर-नागवल्ल्याः ॥
ततो ग्रीष्मार्तौ नाना-विध-सुवासित-जल-नाना-विध-जल-यन्त्रादिना सेचनम् ।
एवं मन्त्रमय-नाना-वीजनादिकं च । एवं सुगन्ध-द्रव्यादि पुरतो धारणम्
। एवं सुगन्ध-पुष्पादिभिर् माला-कुञ्ज-कुटीर-रचनम् । एवं वर्षादिषु यथा-
योग्यं ज्ञेयम् । तत आरात्रिकस्य सर्वे मिलित्वा दर्शनम् । ततो दर्शन-फलम्,
यथा-
स्वयं भगवतः श्रीमद्-गोविन्दस्य कृपाम्बुधेः ।
महाराजोपचाराख्यम् आरात्रिकम् अनुत्तमम् ॥
य इदं श्रद्धया देवि पश्येन् मन्त्री सुभक्तिमान् ।
स सर्व-कामान् लभते भक्तिं तत्-पादयोः पराम् ॥
एवं श्रीमद्-ईश्वर्या भोजनाचमन-ताम्बूलादि-समर्पणं च । तथा हि-
ताभ्यः परिविवेशान्नं तुलस्या रूप-मञ्जरी ।
स्नेहेन मोहिनी यद्वद् देवताभ्योऽमृतं क्रमात् ॥
ततो रत्न-खट्टोपरि शय्यादि-रचनं तत्र भाव-युक्तेन मनसा शयनं कारयेत्
।
ततः सेवायां मुख्योऽधिकारी पूजक-पाचकादि-सर्वांस् तथाकिञ्चनान् वैष्णवान्
आनीय तैर् मिलित्वा महा-प्रसादस्य महद्-भक्त्या च-
अनादि पुरतो न्यस्तं चक्षुषा गृह्यते मया ।
रसं दासस्य जिह्वायाम् अश्नामि कमलोद्भव ॥
भुक्तं यन् निखिलाघ-सङ्घ-शमनं सर्वेन्द्रियाह्लादिकं ।
संसाराद् विनिवर्तकं हरिपद-द्वन्द्वे पुनः प्रापकम् ।[*एन्द्नोते #४]
श्री-गोविन्दस् तत् प्रसादश् चरणामृतम् एव च ।
वस्त्र-चन्दन-माल्यादि तुलसी चैक-रूपकम् ॥
स च पुनर् मध्यमाधिकारि-गुणम् आश्रित्य तेषु वैष्णव-वर्गेषु यथोचित-
मर्यादा-मार्ग-रक्षणाय कृपापेक्षा इत्य् आदि-दिशा तत्र भगवद्-भक्ताय च
वस्त्रादि-वार्षिकं दत्त्वा स्नेह-युक्तेन श्री-श्री-सेवायां सावधानं कृतवान् ।
ततः सर्वे पूजकादयः स्व-स्व-देहादि-व्यापारं कृत्वा श्री-भगवत्-कथा-
श्रवणं कुर्युः । ततः सर्वे स्नानादिकं कृत्वा स्व-स्व-सेवायां सावधाना
भवन्ति ।
ततोऽपराह्ने विधिवद् द्वारोद्घाटनं कृत्वा श्री-भगवत्-प्रबोधनं ततः श्री-
मुख-प्रक्षालनादिकं तस्मात् पक्वान्न-भोजनं तस्माद् एला-लवङ्ग-कर्पूरादि-
संस्कृत-ताम्बूलादि-समर्पणम् । ततो धूप-दीपादि-समर्पणं च तद्-दर्शन-
फलं च -
उत्थापने धूप-दीपं ये पश्यन्ति नरा भुवि ।
ते यान्ति परमं विष्णोः पदं शाश्वतम् अव्ययम् ॥
कनक-निवह-शोभा इत्य् आदि । एवं श्रीमद्-ईश्वर्याश् च ।
अथ सन्ध्यारत्रिक-विधिर् लिख्यते । सन्ध्यायां पक्वान्न-निवेदनम्, ततः शीतल-
जल-सुसंस्कृत-ताम्बूलादिकं च । ततो नीराजनं महा-मङ्गलं च । ततः
पश्यतां देव-मुनीन्द्र-मनुष्यादीनां गीत-वाद्यैः सह जय-जय-शब्दः ।
तथा हि आनन्द-वृन्दावन-चम्प्वां (१३।१४१)-
गो-धूली धूम्र-कम्रालक-लसद्-अलिकस् तिर्यग्-उष्णीष-बन्धः
प्रेङ्खोलत् कैङ्करात-स्तवक-नव-कलो बर्हि-बर्हं दधानः ।
आबलात् कुण्डल-श्रीर् दिन-मणि-किरण-क्रान्त-कर्णोत्पलान्तो
निर्यन् किञ्जल्क-रेखाच्-छुरित-मृदुतर-स्विन्न-गण्डान्त-लक्ष्मीः ॥
श्री-भागवते (१०।३५।१५)-
सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः
कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥
ततो दर्शन-माहात्म्यम्-
सन्ध्यायां कृष्ण-देवस्य सारात्रिक-मुखं नराः ।
ये पश्यन्ति तु ते यान्ति तद्-धाम परम् अव्ययम् ॥
एवं श्रीमद्-ईश्वर्याश् च ।
ततः शयनारात्रिक-विधिर् लिख्यते । ततः पूजकः शृङ्गार-मणि-मण्डनादिकम्
उत्तार्य यथा-रहः युग्म-वस्त्रादि-परिधापनम् । एवं माल्य-लेपनादेश् च ।
ततः कियत्-क्षणं दर्शनार्थं विरामं च ।
कर्पूरावलि-निन्दि चारु-वसनं बिभ्रन्-नितम्बे वहन्न्
उष्णीषं वर-मूर्ध्नि कान्तम् अरुणं निद्रा-विमिश्रेक्षणम् ।
स्वीकुर्वन् सुखदं मनोरथ-करं माङ्गल्यारात्रिकं
गोविन्दः कुशलं करोति भवतो रात्र्य्-अन्त-काले सदा ॥
ततो भोजन-संस्करणं सुमिष्ट-सुस्वादु-दुर्दर्शनीय-लोक-प्रशंस्य-स्वात्म-
रोचक-भगवद्-रोचक-नाना-प्रकारान्न-व्यञ्जन-पक्वान्न-दुग्धान्न-
पिष्टकादि-समर्पणम् तत्र गोपनीय-धूप-दीपम् । ततो भोजन-निमित्तं
समयापेक्षणम् ।
यत्-सेवया वशः श्रीमद्-गोविन्दो नन्द-नन्दनः ।
पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥ इति पूर्वं दर्शितवान् ।
तस्माद् आचमनं मुख-मार्जनार्थं वस्त्र-समर्पणं । ततो महा-
प्रसादानयनम्, ततो मन्दिर-सेवकेन भोजन-स्थल-मार्जनं । तस्माद् एला-
लवङ्ग-जातिफल-कर्पूरादि-संस्कृत-ताम्बूलादि-समर्पणम् ।
ततो हैमन्ते फल्गुला-धारणम्-
कौशेय-वस्त्र-परिनिर्मित-फल्गुलाख्यं
प्रालेय-वारणकं बहु-मूल्य-लभ्यम् ।
सौवर्ण-चित्र-परिचित्रित-सर्व-देशम्
आ-मस्तकात् पद-युगावधि शोभमानम् ॥
गोविन्दम् आदि-पुरुषं व्रज-राज-पुत्रं
पश्यन्तम् अग्निम् अमलं भगवन्तम् ईडे ।
वर्णेनारुणम् अतुलं
बहु-रत्न-चित्र-विचित्रित-फल्गुलकम् ।
बिभ्राणं गोविन्दं
विहसद् वदनं कदा पश्ये ॥
अथ ग्रीष्मे तनिया-धारणम्-
सूक्ष्म-वस्त्र-निर्मितं त्रिभाग-रूप-खण्डितम् ।
सर्व-प्रान्त-देश-स्वर्ण-सूत्र-मौक्तिकाञ्चितम् ॥
कृष्ण-देव-मध्य-देश-राजितं विराजितम् ।
ग्रीष्म-ताप-शोषकं सुशीत-वस्त्रम् आश्रये ॥
मुकुलित-कञ्चुक-धारणम्-
उष्णीषं दधद् अरुणं धटीं
विचित्रां तद्-उपरि च बिभ्राणः ।
मुकुलित-कञ्चुक-बन्धः
श्री-गोविन्दो हृदि स्फुरतु ॥
एवं कर्पूर-परिवासित-शीतल-जलं यमुनाया नाना-विध-सुगन्ध-द्रव्यं
वीजनादिकं च ।
ततो दश-घटिकान्तरारात्रिकं तद्-दर्शन-फलम्-
ये पश्यन्ति जनाः श्रेष्ठं शयनारात्रिकं हरेः ।
ते तु गोविन्द-देवस्य कृपा-पूर्णा न संशयः ॥
तत्र रत्न-खट्टोपरि शय्यादि-निर्माणम् । तत्र खट्टाधो रात्रि-सेवनार्थं
सुवासित-शीतल-जल-पक्वान्न-ताम्बूलादि-स्थापनम् । ततो मन्दिरान् निष्कृष्य
भाव-युक्तेन मनसा शयन-समयापेक्षणम् । एवं श्रीमद्-ईश्वर्याश् च ।
ग्रन्थ-विस्तार-भिया विस्तार्य न लिख्यते । एवं पञ्च-विधारात्रिक-दर्शन-
फलम्-
मङ्गलारात्रिम् आरभ्य चान्ते च शयनावधि ।
एवम् आरात्रिकं पञ्च ये पश्यन्ति जना भुवि ॥
ते सर्वे वाञ्छितं प्राप्य पुत्रं पौत्रं धनं तथा ।
अन्ते गोविन्द-देवस्य कृपया यान्ति तत्-पदम् ॥
श्री-विजय-गोविन्दो, यथा-
श्री-राधिका-माधविका-तमालं
सखी-तती-वल्लि-वसन्त-वायुम् ।
राधा-सुपद्मालि-सरोज-बन्धुं
गोविन्दम् ईडे विजयादि-वर्णम् ॥
गर्भ-जन्मवतां तेषां कंसादीनां जयाज् जयः ।
मनो-जन्म-काम-जयाद् विजयः परिकीर्तितः ॥
त्वं गवाम् इन्द्र इत्य् आदेर् गोविन्द इति कथ्यते ।
तस्माद् विजय-गोविन्दं बुधा एवं वदन्ति हि ॥
अथवा यस्य भजनात् कामाद्य्-अरि-जयात् तु तम् ।
कृत्वा विजय-गोविन्दं प्रवदन्ति मनीषिणः ॥
वन्दे विजय-गोविन्दं गोविन्दाद्वैत-विग्रहम् ।
मनो लगति गोविन्दे यस्य सन्दर्शनाद् ध्रुवम् ॥
अथ श्री-महाप्रभोः श्री-वृन्दावनागमन-कथा प्राचीना-
श्रीमत्-काशीश्वरं वन्दे यत्-प्रीति-वशतः स्वयम् ।
चैतन्य-देवः कृपया पश्चिमं देशम् आगतः ॥
अथ श्री-महाप्रभु-पार्षद-श्रीमुख-श्रुत-कथा-एकदा श्री-महाप्रभुः
श्री-काशीश्वरं कथितवान् - भवान् श्री-वृन्दावनं गत्वा श्रील-रूप-सनातनयोर्
अन्तिकं निवसतु इति । स तु तच् छ्रुत्वा हर्ष-विस्मितोऽभूत् । सर्वज्ञ-शिरोमणिस् तद्-
धृदयं ज्ञात्वा पुनः कथितवान् - श्री-जगन्नाथ-पार्श्व-वर्तिनं श्री-कृष्ण-
विग्रहम् आनीय कथितवान् स्वयं भगवतानेन ममाभेदं जानीहि । अत एनं
सेवस्व । तच् छ्रुत्वा स तूष्णीं बभूव । ततो विग्रहस्य गौर-वपुषा श्री-कृष्णेन
महा-प्रभुना च एकत्र भोजनं कृतम् । ततः श्री-काशीश्वरो दण्डवत् प्रणम्य
गौर-गोविन्द-विग्रहं श्री-वृन्दाव्नअं प्रापितवान् । सोऽयं श्री-गोविन्द-पार्श्वर्ति-
श्री-महाप्रभुः । अतो यथा श्री-गोविन्दस्य सेवा-विधिः श्री-महाप्रभोर् अपि
तथा ग्रन्थ-विस्तार-भिया विस्तार्य न लिख्यते ।
पद-कान्त्या जित-मदनो
मुख-कान्त्या मण्डित-कमल-मणि-गर्वः ।
श्री-रूपाश्रित-चरणः
कृपयतु मयि गौर-गोविन्दः ॥
एवं श्री-महाप्रभोर् जन्म-यात्रादि कर्तव्यम् । तथा श्री-महाप्रभोः
पार्षदानां सेवा । मुख्याधिकारिणाम् अप्रकट-तिथि-पालनं च कर्तव्यम् ।
अथ श्री-वृन्दादेवी-माहात्म्यम् -
वृन्दा वन्दित-चरणा नेत्रादिभिर् वृन्दादिक-वने ।
यद् वाचा वृक्ष-लताः कालेऽकाले पुष्पिताः स्युः ॥
चूडायां चारु-रत्नाम्बर-मणि-मुकुटं बिभ्रतीं मूर्ध्नि देवीं
कर्ण-द्वन्द्वं च दीप्ते पुरट-विरचिते कुण्डले हारि-हीरे ।
निष्कं काञ्चीं सुहारान् भुज-कटक-तुलाकोटिकादींश् च वन्दे
वृन्दां वृन्दावनान्तः सुरुचिर-वसनां श्रील-गोविन्द-पार्श्वे ॥
श्री-वृन्दायाश् चरण-कमलं सर्व-लोकैक-वन्द्यं
भक्त्या संसेव्यमानं कलि-कलुष-हरं सर्व-वाञ्छाअ-प्रदं च ।
वक्तव्यं चात्र किं वा यद् अनुभजनतो दुर्लभे देव-लोकैः
श्रीमद्-वृन्दावनाख्ये निवसति मनुजः सर्व-दुःखैर् विमुक्तः ॥
अस्याः स्व-प्राज्ञा लिख्यते - एकदा रात्रौ सुप्तं श्रीमत्-प्रभुं श्री-हरिदास-
गोस्वामिनं प्रति वृन्दयादिदेशे - अये श्रीमद्-राधा-गोविन्द-सेवाधिकारिन् ! मत्-
प्रभोः श्रीमहा-प्रसादान्नं दातुम् अर्हसि । एवं सेवा-वस्त्र-भूषादिकं
श्रीमद्-ईश्वर्याश् च ।
अथ वार्षिका-यात्रा-विधिर् लिख्यते ।
भक्तानां व्यदधन् महोत्सवम् अयं नेत्रार्बुदानां परम्
स्वीकुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृतैः ॥[*एन्द्नोते #५]
दधि-मधु-खण्ड-धृतादीन् शिरसि दधतो देवस्य ।
किम् इन्द्र-नील-शैलोपरि शत-धारा जाह्नवी सरति ॥[*एन्द्नोते #६]
पञ्चम्यां प्रथमे वसन्त-समये गोविन्द-देवो हरिः ।
यं दृष्ट्वा भव-पद्म-जप-प्रभृतयः सद्यः कृतार्थं गताः
॥[*एन्द्नोते #७]
छलतो ब्रह्मादि-देवाश् चरणामृत-पानतो लोभात् ।
धृत-मनुज-रूप-वेशः पार्षद-भक्तान् संयाचते ॥[*एन्द्नोते #८]
पीतं कञ्चुकम् अतुलं चोष्णीषं चित्र-धटीं धृतं देवम् ।
दीव्यन्तं निज-प्रियया श्री-गोविन्दं सखे पश्य ॥
यद्यपि माघ-श्री-पञ्चमीतः फाल्गुनी-पौर्णमासी-पर्यन्तं वसन्तोत्सवः
प्रवर्तते । तथा हि, फाल्गुन-शुक्ल-दशमीतः चैत्र-कृष्ण-प्रतिपत्-पर्यन्तं
मुख्यो विधिः । तेषु पञ्च-दिनेषु प्रभुः प्रियया सहितः सदा विराजते ।
ब्रह्मादि-देवताः सर्वे परमानन्द-निर्वृताः ।
इन्द्रादिभिर् मिलित्वात्र वसन्ति व्रज-मण्डले ॥
सर्व-व्रज-मण्डल-मुख्यत्वे श्री-गोविन्द-स्थलं ज्ञेयम् । वसन्त-वस्त्रादिकं
च परिदधाति ।
दिव्यै रत्नैर् जटित-मुकुटं कुण्डले चारु-हारं
निष्कं काञ्चीं सुपद-कटकाव् अङ्गदे कङ्कणे च ।
पीतं वासश् चतुष्कं मणि-गण-घटिता मुद्रिकाश् चाङ्गुलिषु
बिभ्राणं वाम-पार्श्वे निज-प्रियतमया सेवितं देवम् ईडे ॥
तथा-
चूडा-रत्नं सुदिव्यं मणिमय-मुकुटं कुण्डले तार-हारान्
निष्कं काञ्ची-शलाका युग-वलय-घटा नूपुरान् मुद्रिकाश् च ।
श्रोणौ रक्तं दुकूलं तद्-उपरम-तुलं चारु-नीलं दधानां
दिव्यन्तीं वाम-पार्श्वे व्रज-कुमुद-विधो राधिकाम् आश्रयेऽहम् ॥
अथ वसन्तोत्सवः-
नाना-प्रकार-पट-वास-चयान् क्षिपन्तः
पौष्पादि-कन्दुक-गणान् मृदु-कूपिकाश् च ।
प्रेम्णा सुगन्ध-सलिलैर् जल-यन्त्र-मुक्तैः
श्री-पूजक-प्रभृतयः सिषिचुः स्व-देवम् ॥
नाना-वर्णैर् गन्ध-चूर्णैः प्रपूर्णैर्
आदौ भूर् द्यौ व्यानशे दिक् विदिक् च ।
गन्धाम्बूनां वृष्टि-सञ्छिन्न-मूलैर्
लेभे पश्चाच् चित्र-चन्द्रातपत्वम् ॥
अथ श्री-राम-नवमी-
उच्चस्थे ग्रह-पञ्चके सुरगुरो सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर् वसु-युते मेषं गते पूषणि ।
निर्गग्धुं निखिलाः पलाश-समिधो मेध्याद् अयोध्यारामे
आविर्भूतम् अभूद् अपूर्व-विभवं यत् किञ्चिद् एकं महः ॥
वन्दामहे महेशानं हर-कोदण्ड-खण्डनम् ।
जानकी-हृदयानन्द-चन्दनं रघुनन्दनम् ॥
अथ दोलोत्सवः-
श्रीमद्-वृन्दारण्य-कल्पाग-मूले
नाना-पुष्पैर् दिव्य-हिन्दोल-मध्ये ।
श्रीमद्-राधा-श्रील-गोविन्द-देवौ
भक्तालीभिः सेवितौ संस्मरामि ॥
पुष्पैश् चूडां मुकुटम् अतुलं कुण्डले चारु-हीरे
वक्षस्य् आरोहयन्तीर् विविध-सुकुसुमैर् वन्य-मालां वहन्तम् ।
जानुन्य् आरोहयन्तीं भ्रमर-कर्षिणीं बिभ्रतं कान्तयान्यां
नाम्ना तां वैजयन्तीं निज-प्रियतमया पश्य गोविन्द-देवम् ॥
पुष्पैः कुञ्जावलि-विरचना पुष्प-चन्द्रातपश् च
दोला नाना-कुसुम-रचिता पुष्प-वृन्दैश् च वेणुः ।
पुष्पारण्यं लसति परितः कृत्रिमं देव-सृष्टं
चेत्थं दोले प्रिय-परिजनैः सेव्यते देव-देवः ॥
अग्रतः पृष्ठतः पार्श्वे गोविन्दं प्रियया युतम् ।
हिन्दोले दोलयामासुस् तत्-सेवक-जना मुदा ॥
दोलायाम् अतिलोलायां सा कान्ता भय-वेपिता ।
कान्तम् आलिङ्ग्य हृष्टा तैः प्रेम-भक्तैस् तदोज्ज्वलैः ।
जय वृन्दावनाधीश जय वृन्दावनेश्वरि ।
जय नन्दानन्द-कन्द सर्वानन्द-विधायक ॥
इति ब्रह्मादयो देवा गायन्तो दिवि हर्षतः ।
पुष्प-वर्षं विकुर्वन्ति स्व-स्व-सेवन-तत्-परा ॥
गन्धर्व-विद्याधर-चरणादयो
मुनीन्द्र-देवेन्द्र-गणाः समाहिताः ।
तां दोलिकां दोलयितुं समुत्सुकाः
स्वायोग्यताम् एत्य ततोऽवतस्थिरे ॥
ये मानवा भाग्य-भाजो दिवि देवास् तथैव च ।
तैर् दृष्टः प्रियया युक्तो गोविन्दो दोलनोत्सवे ॥
अथ चन्दनोत्सवः (आर्या-च्छन्दः)-
मम कुरुते मुदम् अतुलं वैशाखी शुक्ल-तृतीया शुभदा ।
यस्यां श्री-गोविन्दश् चन्दन-पङ्कैः सेवितो भक्तैः ॥
दिव्यैश् चन्दन-पङ्कैः कुङ्कुम-घन-सार-मिश्रितैर् देवम् ।
सर्वाङ्गेषु विलिप्तं वन्दे श्री-गौर-गोविन्दम् ॥
मस्तकोपरि चोष्णीषे सर्वाङ्गे कञ्चुकोपरि
घन-साराञ्चि-घुसृण-चन्दन-द्रव-चर्वितः ।
अभितो भक्त-वृन्देन गीता-वादित्र-मङ्गलैः
सेवितो गौर-कृष्णोऽयं करोतु तव मङ्गलम् ॥
यथा-
वैशाखं तु समारभ्य चाश्विनावधि यत्नतः ।
सुवीजनं तु कर्तव्यं भक्तैर् यन्त्रादिना हरेः ॥
गन्ध-चन्दन-सम्मिश्रैर् जलैर् अत्यन्त-शीतलैः ।
निषेचनं प्रभोर् अग्रे जल-यन्त्र-विनिःसृतैः ॥
अथ श्री-नृसिंह-चतुर्दशी-
आयाति श्री-नृसिंहस्य शुभा ज्यैष्ठी चतुर्दशी ।
धिनोत् चान्तरं सा मे महोत्सव-विधानतः ॥
सर्वावतार-बीजस्य स्वयं भगवतो हरेः ।
श्रीमद्-गोविन्द-देवस्य नृसिंहादेर् अभेदतः ॥
तत्-तज्-जन्म-दिनेष्व् एव सर्वेषु विधि-पूर्वतः ।
उत्सवः क्रियते भक्तैर् गीति-वादित्र-निस्वनैः ॥
चतुर्दशीं समारभ्य दिव्यान्नम् अतियत्नतः ।
नाम्ना पर्युषितं यत् तु दध्यादिक-समायुतम् ॥
अथाषाढे रथारूढ-विधिः-
आषाढीया तिथिः शुक्ल-द्वितीया शुभ-दायिनी ।
उन्मादयति देवस्य रथारूड-परिष्क्रिया ॥
अत्र भोजन-सामग्री द्विगुणीकृत्य कर्तव्या । भूषावेशादिकं सर्वं महाराज-
कुमारत्वेन कर्तव्यम् ।
आयाता सखि राधे तव सुखदा श्रावण-तृतीयेयम् ।
कारय बहु-मणि-मण्डनम् अतुलं दोलां समारभ्य ॥
अतो व्रज-मण्डल-प्रसिद्धायां श्रावण-शुक्ल-तृतीयायां श्री-वृषभानु-
नन्दिन्याः श्रीमद्-ईश्वर्या दोलारूढ-महोत्सवो यत्नतः कर्तव्यः । एवं पवित्रा
द्वादशी सौभाग्य-पौर्णमासी च ।
अथ भाद्रे श्री-जन्माष्टमी-
यस्मिन् दिने प्रसूयेत देवकी त्वां जनार्दन ।
तद् दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् ॥[*एन्द्नोते #९]
स्फुरति कथं मम सततं वाम-नेत्रं विचारय सखि त्वम् ।
ज्ञातं चायतीदं जन्म-दिनं कृष्ण-चन्द्रस्य ॥
भद्रे तु भद्रदा चेयं श्री-हरेर् जन्मनस् तिथिः ।
लोकतो विधितस् तत्र चोत्सवः क्रियते बुधैः ॥
नर्दन्तो दधि-धृत-कर्दमेषु भक्ताः
कूर्दन्तः पुनर् अपि तत् क्षिपन्त आरात् ।
अन्योन्ऽन्यं शिरसि मुखे च पृष्ठ-देशे
आनन्दामृत-जलधौ लिपन्ति मग्नाः ॥
जन्म-वासरम् आज्ञाय व्रज-राज-सुतस्य हि ।
व्रज-मण्डलतः सर्वे आगता व्रज-वासिनः ॥
नाना-दिग्-देशतश् चैव गोविन्द-प्रिय-किङ्कराः ।
दिव्य-माल्याम्बर-धराः पुत्र-दार-समन्विताः ॥
वन्दिनो गायकाश् चैव नर्तका वादकाश् च ये ।
दिव्य-वेश-धरास् ते तु ननृतुः पपठुर् जगुः ॥
गायन्तो मृदु-मधुरं वन्दि-गणाः पठन्ति भृशम् उच्चैः ।
वृत्तिं विनापि ते ते याचन्ते पारितोषिकं तेभ्यः ॥
एवं जन्म-क्षणे प्राप्ते पञ्चामृत-जलैर् मुदा ।
जय-शब्दं प्रकुर्वन्तः स्नापयन्ति निजं प्रभुम् ॥
भक्तानां व्यदधन् महोत्सवमयं नेत्रार्बुदानां परं
स्वीकुर्वन् प्रथमं सुमङ्गलतरं स्नानं च पञ्चामृतैः ।
अष्टम्यां सुतिथौ निशार्ध-समये गोविन्द-देवो हरिर्
यं दृष्ट्वा भव-पद्मज-प्रभृतयः सद्यः कृतार्थं गताः ॥
छलतो ब्रह्मादि-देवाश् चरणामृत-पानतो लोभात् ।
धृत-मनुज-रूप-वेशाः पार्षद-भक्तान् संयाचन्ते ॥
इति ब्रह्मादयो देवा गायन्तो दिवि हर्षतः ।
पुष्प-वृष्टिं विकुर्वन्ति स्व-स्व-सेवन-तत्पराः ॥
दिवि देव-गणाः सर्वे आगतास् तद्-दिने शुभे ।
तद् ये पश्यन्ति तद्-रात्रौ ते कृतार्थास् तु भूतले ॥
चक्षुष्मन्तस् तु ते प्रोक्ताः प्रभोः पार्श्वं व्रजन्ति च ॥
आनन्द-वृन्दावन-चम्प्वां द्वितीय-स्तवके (१७-१९)-
एवं परिपूर्ण-मङ्गल-गुणतया दूषण-द्वापरान्ते द्वापरान्ते निरन्तराल-
भाद्रपदे भाद्रपदे मासि मासिते पक्षेऽपक्षेप-रहिते हिते रसमये गुण-गण-
रोहिणीं रोहिणीं सरति सुधाकरे सुधाकरे योगे योगेश्वरेश्वरो मध्ये
क्षणदायाः क्षणदायाः पूर्णानन्दतया जीववज्-जननी-जठर-
सम्बन्धाभावाद् बन्धाभावाच् च केवलं विलसत्-करुणयारुणया तथाविध-
लीलाली-लासिकया कयाचन पुरन्दर-दिग्-अङ्गनोत्सङ्ग इव रजनीकरः स्व-
प्रकाशतया प्रादुर्भावम् एव भावयन् अग्रे पूर्व-पूर्वजनि जनित-तपः
सौभाग्य-फलेनोपलब्धि-पितृ-मातृ-भावयोः श्री-वसुदेव-देवक्योर् वासुदेव-
स्वरूपेणाविर्भावं भावयित्वा स्तनन्धयत्वाभिमानम् एव क्षणं तयोः
प्रकटय्य पश्चान् नित्य-सिद्ध-पितृ-मातृ-भावयोः श्री-नन्द-यशोदयोर् अपि श्री-
गोविन्द-प्रिय-रमणी-गणेषु मुख्या राधेयं त्रिजगति राजते स्वयं श्रीः प्रियालि-
प्रेमोन्ना जनिमाप जनन्याः ।
अथ श्री-वामनाभिषेकादि ।
अथ शरत्-पौर्णमास्याम्, यथा-
घन-प्रणय-मेदुरौ शरद्-अमन्द-चन्द्राननौ
किरीट-मुकुटे धृतौ विधृत-नील-पीताम्बरौ ।
श्रत्-सुखद-कानने सरस-योग-पीठासने
पुरः कलय नागरो मधुर-राधिका-माधवौ ॥
शरच्-चन्द्रमसौ रात्रौ श्रीमन्तं नन्दनन्दनम् ।
श्रम-युक्तं रास-लास्यात् प्रियया च सखी-गणैः ॥
दिव्य-माल्याम्बर-धरं नट-वेशोचितं हरिम् ।
ध्यायेद् वृन्दावने रम्ये यमुना-पुलिने वने ॥
प्रपानकादि-शीतान्नं नाना-पक्वान्न-संयुतम् ।
साधको भोजयित्वा तं सन्तुष्टः स-सखी-गणम् ।
शेषान्नं चादरेणाथ गृह्णीयाद् वैष्णवैः सह ॥
अथामावस्या दीप-दानम्, यथा-
अमावास्या कार्त्तिकीयं विशेषात् शुभ-दायिनी ।
यत्र दीप-प्रदानेन तुष्टो भवति केशवः ॥
चल चल नय नय भो भो गोविन्दे चोपढौकनम् ।
दिव्यं पश्यामो मुख-पद्मं दास्यामो दीप-मालिकास् तत्र ॥
इति कृत्वा प्रगायन्ति प्रलपन्ति पुनः पुनः ।
पुरवासि-जनाः सर्वे विशेषाद् व्रज-वासिनः ॥
अग्रतः पृष्ठतः पार्श्वे मुण्डकोपरि वेश्मनि ।
दीप-मालाः प्रदास्यन्ति गोविन्द-प्रीति-दायिकाः ॥
यमुनायास् तटे केचित् तीर्थे केचिज् जले तथा ।
वृन्दावने प्रकुर्वन्ति दीपमाला-महोत्सवम् ॥
दिवि देव-गणाः सर्वे प्रभोर् आज्ञा-परायणाः ।
दास्यन्ति वाञ्छितान् तेषां दीप-मालां प्रकुर्वताम् ॥
वन्देऽहं श्रील-गोविन्दं भक्तानुग्रह-विग्रहम् ।
दर्शनाद् दीप-मालायाः प्रसन्नानन्द-लोचनम् ॥
[अथ अन्न-कूटम् -]
अन्न-कूटं समायान्तं कार्त्तिके परमोत्सवम् ।
ज्ञात्वा समुत्सुकाः सर्वे गोविन्द-प्रिय-पार्षदाः ॥
कर्तुं भोजन-सामग्रीं परमानन्द-दायिनीम् ।
श्रीमद्-गोविन्द-देवस्य गोवर्धन-धरस्य च ॥
नानान्न-व्यञ्जनं पूप-पिष्टकैर् बहुधा कृतम् ।
तत्-तद्-द्रव्यादि-भेदेन चतुरैः पाचकादिभिः ॥
तैर् अन्न-कूटं संस्थाप्य यथा गोवर्धनो गिरिः ।
तस्य पार्श्वे धृतं सर्वं व्यञ्जनादिकम् उत्तमम् ॥
पक्वान्नानि तथान्यानि बहु-यत्न-कृतानि च ।
गो-रसानां बहुविधं रसालादिक-भेदतः ॥
श्रीमद्-भगवतोऽग्रे तत् कूटं यत्न-कृतं कृतम् ।
यद् अन्न-कूटं संवीक्ष्य सन्तुष्टो भवति प्रभुः ॥
भुङ्क्ते बहु-प्रीत-मना देवानां जनयन् सुखम् ।
प्रभोर् अग्रे तु तत् कूटं ये पश्यन्ति नरा भुवि ॥
भाग्य-भाजस् तु ते लोके त्रिषु लोकेषु दुर्लभाः ।
दध्य्-आदिनान्न-पूपैस् तद् अन्न-कूटं शुभं महत् ॥
परिक्रमणकं कृत्वा ततो बन्धु-जनैः सह ।
महद्-आरात्रिकं नाम ये पश्यन्ति जना भुवि ॥
तेषां भाग्यं न वक्तव्यं सहस्र-वदनैर् अपि ।
धन-धान्यादि-संयुक्ताः पुत्र-दार-समन्विताः ॥
महद्-भोगं भुरि कृत्वा चान्ते वैकुण्ठम् आप्नुयुः ।
प्रसादम् अन्न-कूटस्य ये जनाः परम् आदरात् ।
वैष्णवान् भोजयन्तो वै भुञ्जेयुर् भक्ति-तत्-पराः ॥
तेषां व्रत-फलं देवि कोटि-कोटि-गुणं भवेत् ।
स्वलङ्कृतानां तु गवां पूजा कार्या ततः शुभा ॥
अथ गोपाष्टमी-दर्शनम्, यथा (१०।२१।५)-
बर्हापीडं नटवर-वपुः कर्णयोः कर्णिकारं
बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्
वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीतकीर्तिः ॥
तद्-दर्शन-फलम्-
गोपाष्ट्म्यां तु देवस्य ये पश्यन्ति हरेर् मुखम् ।
दूरान् नश्यन्ति पापानि तस्मिन् भक्तिश् च जायते ॥
ध्यायेद् गोविन्द-देवं नव-घन-मधुरं दिव्य-लीलां नटन्तम् इत्य् आदि
पूर्ववत् ।
प्रबोधन्यां युगल-दर्शनम्, यथा-
प्रबोधन्यास् तु गोविन्दं ये पश्यन्ति प्रियायुतम् ।
नराणां क्षीण-पापानां तद्-भक्तिर् अचला भवेत् ॥
यथा (प्रेमेन्दु १२)-
प्रबोधिनी निशानृत्य-माहात्म्य-भर-दर्शिनी ।
चन्द्रकान्ति-चरी सर्व-गान्धर्व-बकुल-पावनी ॥
द्वादश्यां कार्त्तिकादि-व्रत-महोत्सवः कर्तव्यः । मार्ग-शीर्षे पौषे
खेचडान्नम्, यथा-
पौषे तुषार-घोरेऽस्मिन् रसिकैः कृष्ण-पार्षदैः ।
सुविचार्य कृतं तत्र खेचडान्नं प्रभु-प्रियम् ॥
दिव्य-वासम् अतीधान्य-तण्डुलं मुद्गकं तथा ।
समभागं तु किञ्चिद् वा विषमं परिकल्पितम् ॥
हिमर्तौ विहितं युक्तं लोक-शास्त्र-विधानतः ।
हिङ्गुं त्रिजातं मरिचं लवणं चाद्रकं तथा ॥
लोक-प्रसिद्धं यच् चान्यद् विशेषाच् छुद्ध-गो-घृतम् ।
चतुरैः कर्मकारैश् च तथा चतुर-पाचकैः ॥
यथायोग्यं तु तैर् द्रव्यैः पच्यते बहु-यत्नतः ।
सुदर्शनीय सुखदं रोचकं पुष्टि-कारकम् ॥
सुमिष्टं दधिकं चैव तथान्यद् व्यञ्जनादिकम् ।
प्रीतितो लोक-पर्यायम् अति प्रणयकं हरेः ।
लवङ्गैलेन्दु-मरिचैः संयुतैः शर्करा-चयैः ।
नाना-देश-भवैर् नाना-फल-शस्य-चयैस् तथा ॥
कृतं लड्डु-वरं यत्नाद् बहु-प्रेम-भरेण च ।
यद् दृष्ट्वा भोजनात् कृष्णो जायते ह्य् अतिहर्षितः ॥
प्रभोर् हर्षात् तु भक्तानाम् अतिहर्षैः प्रजायते ।
कुर्वन्न् अनुदिनं तत् तु गोविन्द-प्रीति-दायकम् ॥
तुल्यान्तरीय-वस्त्रादि तथा चैवाग्नि-सेवनम् ॥
वन्देऽहं श्रील-गोविन्दं त्रिकाले नित्य-विग्रहम् ।
भजनाद् यस्य नित्यत्वं नित्यत्वे तस्य का कथा ॥
द्रष्टुं न योग्या वक्तुं वा त्रिषु लोकेषु तेऽधमाः ।
श्री-गोविन्द-पद-द्वन्द्वे विमुखा ये भवन्ति हि ॥
गोविन्द-पार्षदान् वन्दे तद्वत् काल-त्रये स्थितान् ।
येषां स्मरण-मात्रेण सर्वाभीष्ट-फलं लभेत् ॥
येषां गोविन्द-देवस्य नैत्यिकी वार्षिकी तथा ।
सेवा सङ्क्षेपतो मुख्या मयात्र परिकीर्तिता ॥
किं च (ब्र्स् २।१।४९)-
रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता
विस्तारस् त्रिषु खर्वता त्रिषु पुनर् गम्भीरता च त्रिषु ।
दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता
द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥
राग इति व्रजेश्वरं प्रति क्वचित् तत्-सम-वयसो गोपस्य वाक्यम् इदम् । सप्तसु
नेत्रान्त-पादक-रत-लताल्प-धरोष्ठ-जिह्वा-नखेषु । षट्सु वक्षः स्कन्ध-
नख-नासिका-कटि-मुखेषु । पञ्चसु नासा-भुज-नेत्र-हनू-जानुषु । पुनः
पञ्चसु त्वक्-केशाङ्गुलि-दन्ताङ्गुलि-पर्वसु । तथैव महा-पुरुष-लक्षणं
सामुद्रक-प्रसिद्धेः । द्वात्रिंशद् वराणि तल्-लक्षणेभ्योऽन्येभ्योऽपि श्रेष्ठानि
लक्षणानि यस्य सः । गोपेषु कथम् इति भगवद्-अवतारादिषु
एतादृशीअत्वाश्रवणाद् इति भावः ।
करयोः कमलं तथा रथाङ्गं
स्फुट-रेखामयम् आत्मजस्य पश्य ।
पद-पल्लवयोश् च वल्लवेन्द्र
ध्वज-वज्राङ्कुश-मीन-पङ्कजानि ॥ (ब्र्स् २।१।५१)
करयोर् इति कस्याश्चिद् वृद्ध-गोप्या वचनम् । उपलक्षणान्य् एवैतानि चिह्नानि
पद्म-पुराणादि-दृष्ट्यान्यान्य् अप्य् असाधारणानि ज्ञेयानि । तानि यथा पद्म-
पुराणे-
शृणु नारद वक्ष्यामि पदयोश् चिह्न-लक्षणम् ।
भगवन् कृष्ण-रूपस्य ह्य् आनन्दैक-सुखस्य च ॥
अवतारा ह्य् असङ्ख्याताः कथिता मे तवाग्रतः ।
परं सम्यक् प्रवक्ष्यामि कृष्णस् तु भगवान् स्वयम् ॥
देवानां कार्य-सिद्ध्य्-अर्थम् ऋषीणां च तथैव च ।
आविर्भूतस् तु भगवान् स्वानां पिर्य-चिकीर्षया ॥
यैर् एव ज्ञायते देवो भगवान् भक्त-वत्सलः ।
तान्य् अहं वेद नान्योऽपि सत्यम् एतन् मयोदितम् ॥
षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे ।
दक्षिणेनाष्ट-चिह्नानि इतरे सप्त एव च ॥
ध्वजाः पद्मं तथा वज्रम् अङ्कुशो यव एव च ।
स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणस् तथैव च ॥
सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।
इन्द्र-चापं त्रिकोणं च कलसं चार्ध-चन्द्रकम् ॥
अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् ।
अङ्कान्य् एतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥
कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ।
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥
दृश्यन्ते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥
षोडशं तु तथा चिह्नं शृणु देवर्षि-सप्तम् ।
जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥
शास्त्रान्तरे तु शङ्ख-चक्र-च्छत्राणि ज्ञेयानि ।
अथ कर-ध्यानम्-
शङ्खार्धेन्दु-यवाङ्कुशैर् अरि-गदा-छत्र-ध्वजैः स्वस्तिकैर्
यूपाब्ज-सिंहलैर् धनुः पविघटेः श्री-वृक्षमीनेषुभिः ।
नन्दावर्त-चयैस् तथाङ्गुलि-गतैर् एतैर् निजैर् लक्षणैः
भ्रातः श्री-पुरुषोत्तमत्व-गमकैर् जानीहि रेखाङ्कितैः ॥
अथ मन्द-हास्यं (कृष्ण-कर्णामृते ९९)-
अखण्ड-निर्वाण-रस-प्रवाहैर्
विखण्डिताशेष-रसान्तराणि ।
अयन्त्रितोद्वान्त-सुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥
पद्मादि-दिव्य-रमणी-कमनीय-गन्धं
गोपाङ्गना-नयन-भृङ्ग-निपीयमानम् ।
कृष्णस्य वेणु-निनदार्पित-माधुरीकम्
आस्याम्बुज-स्मित-मरन्दम् अहं स्मरामि ॥
(ब्रह्म-संहितायां ५।३१)-
आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
श्री-हरि-भक्ति-विलासे (१८।३१-३७)-
एवं पुराण-तन्त्रादि दृष्ट्वात्रेदं विलिख्यते ।
ललाटाच् चिवुकान्तं स्यात् श्रीमुखं द्वादशाङ्गुलम् ॥
तत्राननं भाग एकस् तत्रैव चतुरङ्गुलम् ।
ललाटं नासिका तद्वद् गुल्फम् अर्धाङ्गुलं भवेत् ॥
अर्धाङ्गुलोऽधरस् तूर्ध्वोऽपरश् चैकाङ्गुलो मतः ।
द्व्य्-अङ्गुलं चिबुकं चाथ ग्रीवा स्यात् चतुरङ्गुला ॥
वक्षो-भोगो भवेद् अन्यस् तस्मान् नाभ्य्-अवधिः परः ।
ततोऽपरश् च मेढ्रान्तस् तस्माद् उरु-विभागकौ ॥
तथा द्विभागिके जङ्घे जानुनी चतुरङ्गुले ।
पादौ च तत्-समाव् इत्थं दैर्घ्य-भागा नवोदिताः ॥
कुत्राप्य् उच्चात् ललाटस्योपरिष्टात्र्य्-अङ्गुलं शिरः ।
तद्वद् ग्रीवा जानु-पादास् तथापि स्युर् नवैव ते ॥
इति स्यात् सर्वतो दैर्घ्ये साष्टोत्तर-शताङ्गुलाः ॥
तद् यथा इदम् एव रहस्यम्-यद्यपि तिर्यङ्-नरादिषु भगवतो जन्म, तथापि
स्वेच्छया गौड-देशे तद्-देशीयान् ब्राह्मणान् सर्व-श्रेष्ठान् विज्ञाय तेषां कुले
श्री-कृष्ण-चैतन्य-नित्यानन्दाद्वैतादयो जन्म स्वीकुर्वन्तः । अतो
महाप्रभुणाङ्गीकृतेषु गौडोत्कल-दाक्षिणात्य-पाश्चात्येषु गौड-देश-निवासिन
एव बहवः पार्षदाः । ते खलु महत्-कुल-प्रसूतास् तेषां भोजनादि-व्यवहारः
सत्-कुल-प्रसूतान् गौडीयान् ब्राह्मणान् विना न सम्भवति । तथा हि-निजत्वे
गौडीयान् इति ज्ञात्वा सर्वज्ञ-शिरोमणिर् महाप्रभुः श्री-रूप-सनातनौ
निजान्तरङ्गौ विज्ञाप्य तयोः सर्व-शक्तिं सञ्चार्य पश्चिम-देशे स्वीय-वितरण-
भक्त-भूपत्वेन स्थापितवान् । तद्-द्वारा निज-प्रकटन-हेतु-भूतं वाञ्छा-
त्रय-समुल्लसित-परमान्तरङ्ग-रूपस्यातुल-भजन-रत्नस्य लुप्त-तीर्थादेश् च
प्रकटनात्, स्वयं प्रकाश-श्री-गोविन्दादि-स्वरूप-राज-सेवा प्रकाशाच् च ।
ताभ्यां च पुनः श्री-वृन्दावनं गत्वा श्री-श्री-सेवादिकं परिवारे तत् समर्पितम्
। न तु निज-पार्श्व-वर्तिषु श्री-गोपाल-भट्ट-श्री-रघुनाथ-दासादिषु स्वतो
भगवन्-मन्त्र-गृहीत-स्व-भ्रातुष्पुत्र-श्री-जीव-गोस्वामिषु च । अहो परम-
भागवतानां मर्यादा-रक्षण-स्वभावः स्वयं चैते सेवा-समये मन्दिरे न
प्रविशन्ति च । किम् उतान्यत् । एतत् तु श्री-चैतन्य-चरितामृतादौ प्रसिद्धं वर्तते
।
इति श्री-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामि-चरणानुजीवि-राधाकृष्ण-
दासोदीरिता साधन-दीपिका द्वितीया कक्षा
॥२॥
(३)
तृतीय-कक्षा
अथ धीर-ललितस्य श्रीमद्-गोविन्द-देवस्य (ब्र्स् २।१।६३)-
वयसो विविधत्वेऽपि सर्व-भक्ति-रसाश्रयः ।
धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥
तद् यथा (ब्र्स् २।१।३०८-३१२)-
वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आ-षोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥
औचित्यात् तत्र कौमारं वक्तव्यं वत्सले रसे ।
पौगण्डं प्रेयसि तत्-तत्-खेलादि-योगतः ॥
श्रैष्ठ्यम् उज्ज्वल एवास्य कैशोरस्य तथाप्य् अदः ।
प्रायः सर्व-रसौचित्याद् अत्रोदाह्रियते क्रमात् ॥
आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥
तत्र मध्यं यथा (ब्र्स् २।१।३२०-३२४)
ऊरु-द्वयस्य बाह्वोश् च कापि श्रीर् उरसस् तथा ।
मूर्तेर् माधुरिमाद्यं च कैशोरे सति मध्यमे ॥
यथा -
स्पृहयति करि-शुण्डा-दण्डनायोरु-युग्मं
गरुड-मणि-कवाटी-सख्यम् इच्छत्य् उरश् च ।
भुज-युगम् अपि धित्सत्य् अर्गलावर्ग-निन्दाम्
अभिनव-तरुणिम्नः प्रक्रमे केशवस्य ॥
मुखं स्मित-विलासाढ्यं विभ्रमोत्तरले दृशौ ।
त्रि-जगन्-मोहनं गीतम् इत्य् आदिर् इह माधुरी ॥
यथा -
अनङ्ग-नय-चातुरी-परिचयोत्तरङ्गे दृशौ
मुखाम्बुजम् उदञ्चित-स्मित-विलास-रम्याधरम् ।
अचञ्चल-कुलाङ्गना-व्रत-विडम्बि-सङ्गीतकं
हरेस् तरुणिमाङ्कुरे स्फुरति माधुरी काप्य् अभूत् ॥
वैदग्धी-सार-विस्तारः कुञ्ज-केलि-महोत्सवः ।
आरम्भो रास-लीलादेर् इह चेष्टादि-सौष्ठवम् ॥
टीका श्रीमज्-जीव-गोस्वामि-चरणानां मध्ये शेष-वयस-प्रायः सर्वत्र
समानत्वम् । इह मध्ये चेष्टादि-सौष्ठवम्, यथा (ब्र्स् २।१।३२५)-
व्यक्तालक्त-पदैः क्वचित् परिलुठत्-पिञ्छावतंसैः क्वचित्
तल्पैर् विच्युत-काञ्चिभिः क्वचिद् असौ व्याकीर्ण-कुञ्जोत्करा ।
प्रोद्यन्-मण्डल-बन्ध-ताण्डव-घटालक्ष्मोल्लसत्-सैकता
गोविन्दस्य विलास-वृन्दम् अधिकं वृन्दाटवी शंसति ॥
धीर-ललित-लक्षणम् (ब्र्स् २।१।२३०-२) -
विदग्धो नव-तारुण्यः परिहास-विशारदः ।
निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥
यथा –
वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां
व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।
तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः
कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥
गोविन्दे प्रकटं धीर-ललितत्वं प्रदर्श्यते ।
उदाहरन्ति नाट्य-ज्ञाः प्रायोऽत्र मकर-ध्वजम् ॥
अतएव धीर-ललित-लक्षणस्थायिक-श्री-गोविन्द-देवे मध्य-कैशोरं व्यकं
दृश्यते ।
अन्तःपुरस् तु देवस्य मध्ये पूर्या मनोहरम् ।
मणि-प्राकार-संयुक्तं वर-तोरण-शोभितम् ॥
विमानैर् गृहमुख्यैश् च प्रासादैर् बहुभिर् वृतम् ।
दिव्यापसरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥
मध्ये तु मण्डपं दिव्यं राजस्थानं महोत्सवम् ।
माणिक्य-स्तम्भ-सहस्र-जुष्टं रत्न-मयं शुभम् ॥
नित्य-मुक्तैः समाकीर्णं साम-गानोपशोभितम् ।
मध्ये सिंहासनं रम्यं सर्व-वेद-मयं शुभम् ॥
धर्मादि-दैवतैर् नित्यैर् वृतं वेदमयात्मकैः ।
धर्म-ज्ञान-महैश्वर्य-वैराग्यैः पाद-विग्रहैः ॥
वसन्ति मध्यमे तत्र वह्नि-सूर्य-सुधांशवः ।
कूर्मश् च नागराजश् च वैनतेयस् त्रयीश्वरः ॥
छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिताः ।
सर्वाक्षर-मयं दिव्यं योग-पीठम् इति स्मृतम् ॥
तन्-मध्येऽष्ट-दलं पद्मम् उदयार्क-सम-प्रभम् ।
तन्-मध्ये कर्णिकायां तु सावित्र्यां शुभ-दर्शने ॥
ईश्वर्या सह देवेशस् तत्रासीनः परः पुमान् ।
इन्दीवर-दल-श्यामं सूर्य-कोटि-सम-प्रभः ॥
इति तृतीय-कक्षा
॥३॥
(४)
चतुर्थ-कक्षा
अथ श्री-गोपाल-देव-मन्त्र-माहात्म्यम् ।
मन्त्रास् तु कृष्ण-देवस्य साक्षाद् भगवतो हरेः ।
सर्वावतार-बीजस्य सर्वतो वीर्यवत्तमा ॥
तथा च बृहद्-गौतमीये श्री-गोविन्द-वृन्दावनाख्ये-
सर्वेषां मन्त्र-वर्याणां श्रेष्ठो वैष्णव उच्यते ।
विशेषात् कृष्ण-मनवो भोग-मोक्षैक-साधनम् ॥
यस्य यस्य च मन्त्रस्य यो यो देवस् तथा पुनः ।
अभेदात् तन्-मनूनां च देवता सैव भाष्यते ॥
कृष्ण एव परं ब्रह्म सच्चिदानन्द-विग्रहः ।
स्मृति-मात्रेण तेषां वै भुक्ति-मुक्ति-फल-प्रदः ॥
तत्रापि भगवत्तां स्वां तन्वतो गोप-लीलया ।
तस्य श्रेष्ठतमा मन्त्रास् तेष्व् अप्य् अष्टादशाक्षरः ॥
अथाष्टादशाक्षर-माहात्म्यं तापनी-श्रुतिषु
ॐ मुनयो ह वै ब्रह्माणम् ऊचुः । कः परमो देवः । कुतो मृत्युर् बिभेति ।
कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तान् उ होवाच
ब्राह्मणः – कृष्णो वै परमं दैवतम् । गोविन्दान् मृत्युर् बिभेति । गोपी-जन-
वल्लभ-ज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तम् उ होचुः । कः
कृष्णो गोविन्दः कोऽसौ गोपी-जन-वल्लभः कः का स्वाहेति । तान् उवाच ब्राह्मणः
पाप-कर्षणो गो-भूमि-वेद-विदितो वेदिता गोपी-जनाविद्या-कला-प्रेरकस् तन्-माया
चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो
भवतीति । ते होचुः – किं तद्-रूपं किं रसनं कथं वाहो तद्-भजनं । तत्
सर्वं विविदिषताम् आख्याहीति । तद् उ होवाच हैरण्यः – गोप-वेशम् अभ्राभं
तरुणं कल्प-द्रुमाश्रितम् ॥ (ग्तु १।२-८)
किं च, तत्रैवाग्रे –
भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम्
। एतद् एव च नैष्कर्म्यम् ।
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाराधयन्ति ।
गोपीजन-वल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगद् एजय्जत् स्व-रेताः ॥१६१॥ (ग्तु १।१४-१५)
वायुर् यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्च-रूपो बभूव ।
कृष्णस् तथैकोऽपि जगद्-धितार्थं
शब्देनासौ पञ्च-पदो विभाति ॥१६२॥ इति । (ग्तु १।१६)
किं च तत्रैवोपासन-विधि-कथनानन्तरम् -
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन् बहुधा यो विभाति ।
तं पीठस्थं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥१६३॥ (ग्तु
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥१६४॥
एतद् विष्णोः परमं पदं ये
नित्य-मुक्ताः संयजन्ते न कामान् ।
तेषाम् असौ गोप-रूपः प्रयत्नात्
प्रकाशयेद् आत्म-पदं तदैव ॥१६५॥
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास् तस्मै गोपायति स्म कृष्णः ।
तं ह दैवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अनुव्रजेत ॥१६६॥
जप-सङ्ख्या यथा गौतमीय-तन्त्रे (१५।४)-अनेन लक्ष-जापेन कृष्णं पश्यति
चक्षुषा । अनेनेति प्रत्यक्षेण स्वरूपेण स्वप्नेन वा कृष्ण-साक्षात्कारो भवतीत्य्
अर्थः ।
पुरश्चरणादि-विधिस् तु श्री-ब्रह्म-संहिता-गोपाल-तापनी-हरि-भक्ति-विलास-
टीकायां द्रष्टव्यः । स तु विशेषतो योग-पीठे द्रष्टव्यः ।
ओङ्कारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषाम् असौ दर्शयेद् आत्म-रूपं
तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥१६७॥
तस्माद् अन्ये पञ्चपदाद् अभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास् तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूति-कामैर् यथावत् ॥१६८॥
किं च तत्रैव-
तद् उ होवाच ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत
। गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन
हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे
प्रादुरभूत् । तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो
। लात् पृथिवी । ईतोऽग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्लीं-काराद् असृजम् ।
कृष्णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात्
तद्-उत्तरात् स्त्री-पुमादि चेदं सकलम् इदं इति ॥१६९॥
तथा च गौतमीये-
क्लीं-काराद् असृजद् विश्वम् इति प्राह श्रुतेः शिरः ।
ल-कारात् पृथिवी जाता क-काराज् जल-सम्भवः ॥१७०॥
ई-काराद् वह्निर् उत्पन्नो नादाद् आयुर् अजायत ।
बिन्दोर् आकाश-सम्भूतिर् इति भूतात्मको मनुः ॥
स्वा-शब्देन च क्षेत्रज्ञो हेति चित्-प्रकृतिः परा ।
तयोर् ऐक्य-समुद्भूतिर् मुख-वेष्टन-वर्णकः ॥
अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥१७१॥
पुनश् च सा श्रुतिः –
एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदयित्वा ओङ्कारान्तरालकं
मनुम् आवर्तयत् सङ्ग-रहितोऽभ्यानयत् । तद् विष्णोः परमं पदं सदा पश्यन्ति
सूरयः । दिवीव चक्षुर् आततम् । तस्माद् एनं नित्यम् अभ्यसेत् ॥१७२॥ इत्य् आदि ।
तत्रैवाग्रे –
यस्य पूर्व-पदाद् भूमिर् द्वितीयात् सलिलोद्भवः ।
तृतीयात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः ॥१७३॥
पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् ।
चन्द्र-ध्वजोऽगमद् विष्णुः परमं पदम् अव्ययम् ॥१७४॥
ततो विशुद्धं विमलं
विशोकम् अशेष-लोभादि-निरस्त-सङ्गम् ।
यत् तत् पदं पञ्च-पदं तद् एव
स वासुदेवो न यतोऽन्यद् अस्ति ॥१७५॥
तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-
तलासीनं सततं स-मरुद्-गणोऽहं परमया स्तुत्या तोषयामि ॥१७६॥ इति ।
किं च स्तुत्य्-अनन्तरम् –
अमुं पञ्चपदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं तत् पदं तत्
। अनेजद् एकं मनसो जवीयो नैतद् देवा आप्नुवन् पूर्वम् अर्शात् ।
तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इति ॐ तत् सद् इति ।
त्रैलोक्य-सम्मोहन-तन्त्रे च, देवीं प्रति श्री-महादेवोक्ताष्टादशाक्षर-
प्रसङ्ग एव -
धर्मार्थ-काम-मोक्षाणाम् ईश्वरो जगद्-ईश्वरः ।
सन्ति तस्य महाभागा अवताराः सहस्रशः ॥
तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ।
अमानुषाणि कर्माणि तानि तानि कृतानि च ॥
शापानुग्रह-कर्तृत्वे येन सर्वं प्रतिष्ठितम् ।
तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गम् अनुत्तमम् ॥
यस्य विज्ञान-मात्रेण नरः सर्वज्ञताम् इयात् ।
पुत्रार्थी पुत्रम् आप्नोति धर्मार्थी लभते धनम् ॥
सर्व-शास्त्रार्थ-पारज्ञो भवत्य् एव न संशयः ।
त्रैलोक्यं च वशीकुर्यात् व्याकुलीकुरुते जगत् ॥
मोहयेत् सकलं सोऽपि मारयेत् सकलान् रिपून् ।
बहुना किम् इहोक्तेन मुमुक्षुर् मोक्षम् आप्नुयात् ॥
यथा चिन्तामणिः श्रेष्ठो यथा गौश् च यथा सती ।
यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥
यथावद् अखिल-श्रेष्ठं यथा शास्त्रं तु वैष्णवम् ।
यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥
किं च –
अतो मया सुरेशानि प्रत्यहं जप्यते मनुः ।
नैतेन सदृशः कश्चिद् जगत्य् अस्मिन् चरचरे ॥
सनत्कुमार-कल्पेऽपि -
गोपाल-विषया मन्त्रास् त्रयस्त्रिंशत् प्रभेदतः ।
तेषु सर्वेषु मन्त्रेषु मन्त्र-राजम् इमं शृणु ॥
सुप्रसन्नम् इमं मन्त्रं तन्त्रे सम्मोहनाह्वये ।
गोपनीयस् त्वया मन्त्रो यत्नेन मुनि-पुङ्गव ॥
अनेन मन्त्र-राजेन महेन्द्रत्वं पुरन्दरः ।
जगाम देव-देवेशो विष्णुना दत्तम् अञ्जसा ॥
दुर्वाससः पुरा शापाद् असौभाग्येन पीडितः ।
स एव सुभगवत्वं वै तेनैव पुनर् आप्तवान् ॥
बहुना किम् इहोक्तेन पुरश्चरण-साधनैः ।
विनापि जप-मात्रेण लभते सर्वम् ईप्सितम् ॥
प्रभुं श्री-कृष्ण-चैतन्यं तं नतोऽस्मि गुरूत्तमम् ।
कथञ्चिद् आश्रयाद् यस्य प्राकृतोऽप्य् उत्तमो भवेत् ॥
इति श्री-हरि-भक्ति-विलासे मन्त्र-माहात्म्य-कथने श्री-गोपाल-मन्त्र-माहात्म्य-
कथनम् । तत्र मन्त्रोद्धारणं च यथा ब्रह्म-संहितायां (५।२४) च-
कामः कृष्णाय गोविन्द ङे गोपी-जन इत्य् अपि ।
वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥
क-कारो लीला-शक्तिः । ल-कारो भू-शक्तिः । ई-कारः श्री-शक्तिः म-कारस् तत्त्व-
विशिष्टः । कृष्णायेति सर्व-चित्ताकर्षकायेति । अथवा-
कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः ।
सुख-रूपो भवेद् आत्मा भावानन्द-मयत्वतः ॥ इति ।
गोविन्दायेति पूर्ववत् । गाम् इन्द्रिय-कुलं विन्दतीति गोविन्दः । गां गोवर्धनम्
उद्धृत्य परमैश्वर्य-प्रदत्वेन रक्षति पालयतीति गोविन्दस् तस्मै । गोपी-जन-
वल्लभायेति-
गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः ।
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।
पूर्वार्थे स्वाहेत्य् अस्य तथा-तथाभूतायात्मानं समर्पयामि । तत्र क्रम-
दीपिकायाम् (१।१)-
कलात्त-माया-लवकात्त-मूर्तिः
कल-क्वणद्-वेणु-निनाद-रम्यः ।
श्रितो हृदि व्याकुलयंस् त्रिलोकी
श्रियेऽस्तु गोपी-जन-वल्लभो वः ॥
अथ सम्मोहन-तन्त्रोद्धारणम्-
वाग्-भवं मदन-शक्तिम् इन्दिरा-
संयुतः सकल-विद्ययाञ्चितः ।
मन्त्र एष भुवनार्ण ईरितो
व्यत्ययेन सकल इष्ट-साधकः ॥
अथ मन्त्र-सिद्धि-लक्षणम्-
आदाव् ऋष्य्-आदि-न्यासः स्यात् कर-शुद्धिस् ततः परम् ।
अङ्गुली-व्यापक-न्यासो हृदादि-न्यास एव च ॥
ताल-त्रयं च दिग्-बन्धः प्राणायामस् ततः परम् ।
ध्यान-पूजा जपश् चैव सर्व-तन्त्रेष्व् अयं विधिः ॥
न्यास-विधिः-श्री-व्रजाचार्य-श्रीमद्-रूप-गोस्वामि-भजनानुसारेण ।
अहङ्काराधिष्ठातृत्वाद् भूत-शुद्धेर् अधिदेवाय सङ्कर्षणाय नमः । हे
सङ्कर्षण-देव प्रसीद कृपां कुरु । अस्य जनस्य देह-रूपेण परिणतं भूत-
पञ्चकं यथा सद्यः शुध्येद् उपासनोपयुक्तं स्यात् तथा कृपां कुरु ।
अथ मातृका-ध्यानम्-
चिकुर-कलित-पिञ्छां पीन-तुङ्ग-स्तनाभ्यां
कर-जल-रुहि विद्यां दक्षिणे पद्म-रूपाम् ।
दधि-घटम् अपि सव्ये बिभ्रतीं तुङ्ग-विद्याम्
अमृत-किरण-कान्तिं मातृका-मूर्तिम् ईडे ॥
केशव-कीर्तिकादि-ध्यानम्-
कोणेनाक्ष्णोः पृथु-रुचिः मिथो हारिणा लिह्यमानाव्
एकैकेन प्रचुर-पुलकेनोपगुढौ भुजेन ।
गौरी-श्यामौ व सन-युगलं श्याम-गौरं वसानौ
राधा-कृष्णौ स्मर-विलसितोद्दाम-तृष्णौ स्मरामि ॥
तत्-तन्-मासस्य वासुदेवोऽधिष्ठाता । स स्तोक-कृष्णोऽत्र ज्ञेयः । तस्य ध्यानम्
उच्यते-
अभ्र-श्यामं विद्युद्-उद्यद्-दुकूलं
स्मेरं लीलाम्भोज-विभ्राजि-हस्तम् ।
पिञ्छोत्तंसं वासुदेव-स्वरूपं
कृष्ण-प्रेष्ठं स्तोक-कृष्णं नमामि ॥
आनन्द-घनं स्मरेन् मनस्वी । तत्र कुट्टिम-वरे स्फुट-दीप्त-योग-पीठं
विचिन्त्य-
तस्माज् ज्वलायाम् उरुकर्णिकायां
विराजितायां स्थिति-सौख्य-भाजो ।
नव्याम्बुद-स्वर्ण-विडम्बि-भासौ
कृष्णं च राधां च विचिन्तयामि ॥
मन्त्रार्थं मन्त्र-चैतन्यं योनि-मुद्रां न वेत्ति यः ।
शत-कोटि-जपेनापि तस्य सिद्धिर् न जायते ॥
पुनश् च मन्त्रोद्धारणे यथा दश-संस्काराः (सारदा-तिलके)-
जननं जीवनं चेति ताडनं रोधनं तथा ।
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर् दशैता मन्त्र-संस्क्रियाः ॥
पुनश् च-
उपायास् तत्र कर्तव्याः सप्त शङ्कर-भाषिताः ।
भ्रामणं रोधनं वश्यं पीडनं पोष-शोषणे ॥
दहनान्तं क्रमात् कुर्यात् ततः सिद्धो भवेन् मनुः ।
जपात् सिद्धिर् जपात् सिद्धिर् जपात् सिद्धिर् न संशयः ॥
अहर्निशं जपेद् यस् तु मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥
अथ खण्ड-पुरश्चरण-विधिः-
सूर्योदयात् समारभ्य यावत् सूर्योदयान्तरम् ।
तावत् कालं मनुं जप्त्वा सर्व-सिद्धीश्वरो भवेत् ॥
प्रथमम् उदयोदयम् । द्वितीये उदयास्तम् । तृतीये निष्कामाणां प्रति सतोदयम्
। चतुर्थे अस्तास्तम् । तत्र-
निष्कामाणाम् अनेनैव साक्षात्कारो भविष्यति ।
अर्थ-सिद्धिः सकामानां सर्वा वै भक्तिम् आलभेत् ॥
पञ्चाङ्गम् एतत् कुर्वीत यः पुरश्चरणं बुधः ।
स वै विजयते लोके विद्यैश्वर्य-सुतादिभिः ॥
एवं ग्रासाद् विमुक्ति-पर्यन्तम् इत्यादि-खण्ड-करोपरागादि-पुरश्चरणादि-
प्रयोगम् आह ।
वैशाख-कृत्यं बृहद्-गौतमीये-
अनेन लक्ष-जापेन कृष्णं पश्यति चक्षुषा ।
वैशाख-कृष्ण-प्रतिपद्य् आरभ्य पौर्णमासी-पर्यन्तम् ॥
अथ पञ्च-दिवसी-प्रयोगम् आह-
चैत्रेऽथवा वैशाखे शुक्लैकादश्याम्
आरभ्य पौर्णमासी-पर्यन्तम् ।
जप-नियमम् अयुत-द्वयं मनौ
तथा चत्वरिंशत् सहस्रं दशार्णे ॥ इति ।
पूर्व-सेवाख्य-पुरश्चरण-प्रयोगम् आह क्रम-दीपिकायां (५।४९-६९)-
सायाह्ने वासुदेवं यो नित्यम् एव यजेन् नरः ।
सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् ॥
रात्रौ चेन् मन्मथाक्रान्त-मानसं देवकी-सुतम् ।
यजेद् रास-परिश्रान्तं गोपी-मण्डल-मध्यगम् ॥
पृथुं सुवृत्तं मसृणं वितस्ति-
मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।
आक्रम्य पद्भ्याम् इतरेतरात्त-
हस्तैर् भ्रमोऽयं खलु रास-गोष्ठी ॥५१॥
स्थल-नीरज-सून-पराग-भृता
लहरी-कण-जाल-भरेण सता ।
मरुता परितापहृताध्युषिते
विपुले यमुना-पुलिने विमले ॥५२॥
अशरीर-निशान्त-शरोन्मथित-
प्रमदा-शत-कोटिभिर् आकुलिते ।
उडुनाथ-करिर् विशदीकृत-दिक्-
प्रसरे विचरद्-भ्रमरी-निकरे ॥५३॥
विद्याधर-किन्नर-सिद्ध-सुरैः
गन्धर्व-भुजङ्गम-चारणकैः ।
दारोपहितैः सुविमान-गतैः
स्वस्थैर् अभिवृष्ट-सुपुष्प-चयैः ॥५४॥
इतरेतर-बद्ध-कर-प्रमदा-
गण-कल्पित-रास-विहार-विधौ ।
मणि-शङ्कु-गम् अप्य् अमुनावपुषा
बहुधा विहित-स्वक-दिव्य-तनुम् ॥५५॥
सुदृशाम् उभयोः पृथग्-अन्तरगं
दयिता-गण-बद्ध-भुज-द्वितयम् ।
निज-सङ्ग-विजृम्भद्-अनङ्ग-शिखि-
ज्वलिताङ्ग-लसत्-पुलकालि-युजाम् ॥५६॥
विविध-श्रुति-भिन्न-मनोज्ञतर-
स्वरसप्तक-मूर्च्छन-ताल-गणैः ।
भ्रममाणम् अमूभिर् उदार-मणि-
स्फुट-मण्डन-शिञ्जित-चारुतरम् ॥५७॥
इति भिन्न-तनुं मणिभिर् मिलितं
तपनीय-मयिर् इव भारकतम् ।
मणि-निर्मित-मध्यग-शङ्कु-लसद्-
विपुलारुण-पङ्कज-मध्य-गतम् ॥५८॥
अतसी-कुसुमाभ-तनुं तरुणं
तरुणारुण-पद्म-पलाश-दृशम् ।
नव-पल्लव-चित्र-सुगुच्छ-लसच्-
छिखि-पिच्छ-पिनद्ध-कच-प्रचयम् ॥५९॥
चटुल-भ्रुवम् इन्दु-समान-मुखं
मणि-कुण्डल-मण्डित-गण्ड-युगम् ।
शश-रक्त-सदृक्-दशन-च्छदनं
मणि-राजद्-अनेक-विधाभरणम् ॥६०॥
असन-प्रसव-च्छदनोज्ज्वलसद्-
वसनं सुविलास-निवास-भुवम् ।
नव-विद्रुम-भद्र-कराङ्घ्रि-तलं
भ्रमराकुल-दाम-विराजि-तनुम् ॥६१॥
तरुणी-कुच-युक्-परिरम्भ-मिलद्-
घुसृणारुण-वक्षसम् उक्ष-गतिम् ।
शिव-वेणु-समीरित-गान-परं
स्मर-विह्वलितं भुवनैक-गुरुम् ॥६२॥
प्रथमोदित-पीठ-वरे विधिवत्
प्रयजेद् इति रूपम् अरूपम् अजम् ।
प्रथमं परिपूज्य तद्-अङ्ग-वृत्तिं
मिथुनानि यजेद् रसगानि ततः ॥६३॥
दल-षोडशके स्वरम् ऊति-गणं
सह-शक्तिकम् उत्तम-रास-गतम् ।
सरमा-मदनम् स्व-कला-सहित-
मिथुनाह्वम् अथेन्द्रप-विप्र-मुखान् ॥६४॥
इति सम्यग् अमुं परिपूज्य हरिं
चतुरावृति-संवृतम् आर्द्र-मतिः ।
रजतारचिते चषके स-सितं
सुशृतं सुपयोऽस्य निवेदयतु ॥६५॥
विभवे सति की᳡अंस्यमयेषु पृथक्
चषकेषु तु षोडशसु क्रमशः ।
मिथुनेषु निवेद्य पयः स-सितं
विदधीत पुरोवद् अथो सकलम् ॥६६॥
सकल-भुवन-मोह्नं विधिं यो
नियतम् अमुं निशि निश्य् उदार-चेताः ।
भजति स खलु सर्व-लोक-पूज्यः
श्रियम् अतुलां समवाप्य यात्य् अनन्तम् ॥६७॥
निशि वा दिनान्त-समये
प्रपूजयेन् नित्यशोऽच्युतं भक्त्या ।
समपहलम् उभयं हि ततः
संसाराब्धिं समुत्तितीर्षति यः ॥६८॥
इत्य् एवं मनु-विग्रहं मधु-रिपुं यो वा त्रिकालं यजेत्
तस्यैवाखिल-जन्तु-जात-दयितस्याम्भोधिजा-वेश्मनः ।
हस्ते धर्म-सुखार्थ-मोक्ष-तरवः सद्-वर्ग-सम्प्रार्थिताः
सान्द्रानन्द-महा-रस-द्रव-मुचो येषां फल-श्रेणयः ॥६९॥
नित्य-कृत्य-प्रयोगम् आह-
ॐ नमः श्री-कृष्णाय ।
ॐ अस्य श्री-भगवद्-गीता-माला-मत्रस्य भगवान् वेद-व्यास ऋषोर् अनुष्टुप्-
छन्दः श्री-कृष्णः परमात्मा देवता जपे विनियोगः ।
अशोच्यान् अन्वशोचस् त्वं प्रज्ञावादांश् च भाषसे (२।११) इति बीजम् ।
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज (१८।६६) इति शक्तिः ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (१८।६६) इति कीलकम् ।
ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थं प्राहुर् अव्ययम् (१५।१) इति कवचम्।
अमुक-कर्मणि विनियोगः ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः (२।२७) इत्य् अङ्गुष्टाभ्यां नमः
।
न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः (२।२७) इति तर्जनीभ्यां नमः ।
अच्छेद्योऽयम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च (२।२४) इति मध्यमाभ्यां नमः
।
नित्यः सर्वगतः स्थाणुर् अचलोऽयं सनातनः (२।२४) इति अनामिकाभ्यां नमः ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (११।५) इति कनिष्ठाभ्यां नमः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च (११।५) इति कर-तल-पृष्ठाभ्यां नमः
।
नैनं छिन्दन्ति शस्त्राणि इति हृदयाय नमः ।
न चैनं क्लेदयन्त्य् आपो इति शिरसे स्वाहा ।
अच्छेद्योऽयम् अदाह्योऽयम् इति शिखायै वषट् ।
नित्यः सर्वगतः स्थाणुः इति कवचाय हूं ।
पश्य मे पार्थ रूपाणि इति नेत्र-त्रयाय वौषट् ।
नानाविधानि दिव्यानि इत्य् अस्त्राय फट् । श्री-कृष्ण-प्रीत्य्-अर्थं जपे विनियोगः ।
(श्री-गीता-माहात्म्यम्)-
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराण-मुनिना मध्ये महाभारते ।
अद्वैतामृत-वर्षिणीं भगवतीम् अष्टादशाध्यायिनीं
अम्ब त्वाम् अनुसन्दधामि भगवद्-गीते भव-द्वेषिणीम् ॥
नमोऽस्तु ते व्यास विशाल-बुद्धे
फुल्लारविन्दायातपत्र-नेत्रे ।
येन त्वया भारत-तैल-पूर्णः
प्रज्वलितो ज्ञानमयः प्रदीपः ॥
प्रपन्न-परिजाताय तोत्र-वेत्रैक-पाणये ।
ज्ञान-मुद्राय कृष्णाय गीतामृत-दुहे नमः ॥
सर्वोपनिषदो गावो दोग्धा गोपाल-नन्दनः ।
पार्थो वत्सः सुधीर् भोक्ता दुग्धं गीतामृतं महत् ॥
वसुदेव-सुतं देवं कंस-चाणूर-मर्दनम् ।
देवकी-परमानन्दं कृष्णं वन्दे जगद्-गुरुम् ॥
भीष्म-द्रोण-तटा जयद्रथ-जला गान्धारी-नीलोत्पला
शल्य-ग्राहवती कृपेण वहिनी कर्णेन वेलाकुल ।
अश्वत्ताम-विकर्ण-घोर-मकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवार्णव-नदी कैवर्तकः केश्वः ॥
पाराशर्य-वचः सरोजम् अमलं गीतार्थ-गन्धोत्कटं
नानाख्यानक-केशरं हरि-कथा-सम्बोधनाबोधितम् ।
लोके सज्जन-षट्पदैर् अहरहः पेपीयमानं मुदा
भूयाद् भारत-पङ्कजं कलिमल-प्रध्वंसनं श्रेयसे ॥
मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् ।
यत्-कृपा तम् अहं वन्दे परमानन्द-माधवम् ॥
यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ (१२।१३।१)
इति न्यास-विधिः ।
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-सम्मूढ-चेताः ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे
शिष्यस् तेऽहं शाधि मां त्वां प्रपन्नम् ॥ (२।७)
जप-नियम-सङ्ख्या अष्टोत्तर-शतम् । अथवा सहस्रम् । प्रयोगम् आह-
(श्री-गोपाल-कवचम् ।)
पुलस्त्य उवाच-
भगवन् सर्व-धर्मज्ञ कवचं यत् प्रकाशितम् ।
त्रैलोक्य-मङ्गल नाम कृपया ब्रह्मणे पुरा ॥
ब्रह्मणा कथितं मह्यं परं स्नेहाद् वदामि ते ।
अतिगुह्यतमं तत्त्वं ब्रह्म मन्त्रोघ-विग्रहम् ॥
यद् धृत्वा पठनाद् ब्रह्मा सृष्टिं वितनुते सदा ।
यद् धृत्वा पठनाद् पाति महा-लक्ष्मीर् जगत् त्रयम् ॥
पठनाद् धारणाच् छम्भुः संहर्ता सर्व-तत्त्व-वित् ।
त्रैलोक्य-जननी दुर्गा महिषादि-महासुरान् ॥
वर-दृप्तान् जघानैव पठनाद् धारणाद् यतः ।
एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् अवाप्नुयुः ॥
शिष्याय भक्ति-युक्ताय साधकाय प्रकाशयेत् ।
शठाय पर-शिष्याय निन्दकाय तथैव हि ॥
हरिभक्ति-विहीनाय पर-दार-रताय च ।
कृपणाय कुशीलाय दत्त्वा मृत्युम् अवाप्नुयात् ॥
त्रैलोक्य-मङ्गलस्यापि कवचस्य प्रजापतिः ।
ऋषिश् छन्दश् च गायत्री देवो नारायणः स्वयम् ॥
धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः ।
ॐ प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं पायान् नेत्र-युग्मम् अष्टार्णो भक्ति-मुक्तिदः ॥
क्लीं पायाच् छ्रोत्र-युग्मं चैकाक्षरः सर्व-मोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ।
गोपी-जन-पदं वल्लभाय स्वाहाननं मम ॥
अष्टादशाक्षरो मन्त्रः कण्ठं पायाद् दशाक्षरः ।
गोपी-जन-पदं वल्लभाय स्वाहा भुज-द्वयम् ॥
क्लीं ग्लौं क्लीं करौ पायात् क्लीं कृष्णायाङ्गजोऽवतु ।
हृदयं श्री-भुवनेशः क्लीं कृष्णाय क्लीं स्तनौ मम ॥
गोपालायाग्निजायां तं कुक्षि-युग्मं सदावतु ।
क्लीं कृष्णाय सदा पातु पार्श्व-युग्मं मनूत्तमः ।
कृष्ण-गोविन्दकौ पातां स्मराद्यौ ङे-युतौ मनू ॥
अष्टादशाक्षरः पातु नाभिं कृष्णेति द्व्य्-अक्षरो मनुः ।
पृष्ठं क्लीं कृष्ण-कङ्कालं क्लीं कृष्णाय द्वि-ठान्तकः ।
सक्थिनी सततं पातु श्रीं ह्रीं क्लीं ठ-द्वयम् ॥
उरू सप्ताक्षरः पातु त्रयोदशाक्षरोऽवतु ॥
श्रीं ह्रीं क्लीं पदतो गोपी-जन-पदं ततः ।
वल्लभाय स्वाहेति पातु क्लीं ह्रीं श्रीं च दशार्णकः ॥
जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ।
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।
अष्टादशाक्षरो ह्रीं-श्रीं-पूर्वको विंशद्-अर्णकः ॥
सर्वाङ्गं मे सदा पातु द्वारका-नायको बली ।
नमो भगवते पश्चाद् वासुदेवाय तत्-परम् ॥
ताराद् यो द्वादशार्णोऽयं प्राच्यां मां सर्वदावतु ।
श्रीं ह्रीं क्लीं दशवर्णस् तु क्लीं ह्रीं श्रीं षोडशाक्षरः ॥
गदाद्यदायुधो विष्णुर् माम् अग्नेर् दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदावतु ॥
तारं नमो भगवते रुक्मिणी-वल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥
क्लीं पदं हृषीकेशाय नमो मां वारुण्ऽवतु ।
अष्टादशार्णः कामान्तो वायव्ये मां सदावतु ।
श्रीं माया काम-कृष्णाय ह्रीं गोविन्दाय द्वि-ठो मनुः ।
द्वादशार्णात्मको विष्णुर् उत्तरे मां सदावतु ॥
वाग् भवं काम-कृष्णाय ह्रीं गोविन्दाय ततः परम् ॥
श्रीं गोपी-जन-वल्लभाय स्वाहा इति ततः परम् ।
द्वात्रिंशद्-अक्षरो मन्त्रो माम् ऐशान्ये सदावतु ।
कालीयस्य फणा-मध्ये दिव्यं नृत्यं करोति तम् ।
नमामि देवकी-पुत्रं नित्य-राजानम् अच्युतम् ॥
द्वात्रिंशद्-अक्षरो मन्त्रोऽप्य् आद्योऽधो मां सर्वतोऽवतु ।
क्लीं काम-देवाय विद्महे पुष्प-बाणाय धीमहि ।
तन् नोऽनङ्गः प्रचोदयाद् एष मां पातु चोर्ध्वतः ॥
त्रैलोक्य-मङ्गलं नाम कवचं ब्रह्म-रूपिणम् ।
इति ते कथितं विप्र सर्व-मन्त्रौषध-विग्रहम् ।
ब्रह्मेश-प्रमुखाधीशैर् नारायण-मुखाच् छ्रुतम् ॥
तव स्नेहान् मयाख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुं प्रणम्य विधिवत् कवचं प्रपठेद् यदि ॥
सकृद्-दिस्-त्रिर्-यथा-ज्ञानं सोऽपि सर्व-तपोमयः ।
मन्त्रेषु सकलेष्व् एव देशिको नात्र संशयः ॥
शतम् अष्टोत्तरं सास्य पुरश्चर्या-विधिः स्मृतः ।
हवनादीन् दशांशेन कृत्वा तत् साधयेद् ध्रुवम् ।
यदि चेत् सिद्धि-कवचो विभुर् एव भवेत् स्वयम् ॥
मन्त्र-सिद्धिर् भवेत् तस्य पुरश्चर्या-विधानतः ।
श्रद्धा-शुद्ध-मतेस् तस्य लक्ष्मी-वाणी वसेन् मुखे ॥
पुष्पाञ्जल्य्-अष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ।
दश-वर्ष-सहस्राणां पूजायाः फलम् आप्नुयात् ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद् यदि
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर् न संशयः ॥
अश्वमेध-सहस्राणि वाजपेय-शतानि च ।
महा-दानानि यान्य् एव प्रादक्षिण्ये भवस् तथा ॥
कलां नार्हन्ति तान्य् एव सकृद् उच्चादणादतः ।
कवचस्य प्रसादेन जीवन्-मुक्तो भवेन् नरः ॥
त्रैलोक्यं क्षोभयत्य् एव त्रैलोक्य-विजयी भवेत् ।
इदं कवचम् अज्ञात्वा भजेद् यः पुरुषोत्तमम् ।
शत-लक्ष-प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥
इति सनत्-कुमार-तन्त्रे नवम-पटले श्री-नारद-पञ्चरात्रे (४।५)
त्रैलोक्य-मङ्गलं नाम श्री-गोपाल-कवचं समाप्तम् ।
अथ पुरश्चरण-सङ्कल्पादि-विधिः । श्री-विष्णुर् विष्णुर् नमोऽस्य अमुक-मासे
अमुक-पक्षे भास्करे अमुक-तिथौ अमुक-गोत्रोऽमुक-दासस् त्रैलोक्य-सम्मोहन-
तन्त्रोक्त-श्री-कृष्ण-देवतायास् त्रैलोक्य-सम्मोहन-कवच-सिद्धि-कामस् तत्
कवचस्याष्टोत्तर-शत-जप-तद्-दशांश-होम-तद्-दशांश-तर्पण-तद्-
दशांशाभिषेक-तद्-दशांश-ब्राह्मण-भोजन-रूप-पुरश्चरणम् अहं करिष्ये
। एक-दिवसे कार्य-सिद्धिः । प्रयोगः श्रीमद्-भागवतानुसारेण दशार्ण-मन्त्र-
प्रथमे श्री-भागवत-मङ्गलाचरणे ।
[थे फ़ोल्लोwइन्ग् सेच्तिओन् इस् पेर्हप्स् नोत् इन् अल्ल् मनुस्च्रिप्त्स्।]
अथ छाया-पुरुष-दर्शन-फलम् आह-
पूर्वाह्ने सूर्य-बिम्बार्कं पृष्ठे कृत्वा नरः शुचिः ।
अनिमिषो हि स्व-च्छायां गलाद् ऊर्ध्वं विलोकयेत् ॥
तत्र च्छाया-समुद्भूतं पुरुषं यदि पश्यति ।
सर्वावयव-संयुक्तं शुभं वर्षावधिं स्मृतम् ॥
अदृष्टे हस्त-कर्णस्य पारयां हृदये नरः ॥
जीवस्यार्काश्व-दिक्-चन्द्र-वह्नि-नेत्र-समाः क्रमात् ।
शिरस्य् आदृष्टे षण्मासं सरन्ध्रे हृदि सप्तकम् ॥
एतज्-ज्ञानं महा-दिव्यं दुष्ट-शिष्याय नो वदेत् ॥
इति श्री-कंसारि-मिश्र-यशोधर-विरचित-दैवज्ञ-चिन्तामणौ तृतीय-प्रकाशः
समाप्तः ।
गायत्री-मन्त्रो राधाया मन्त्रः कृष्णस्य तत्-परम् ।
महाप्रभोर् मन्त्र-वरो हरि-नाम तथैव च ।
मानसी वर-सेवा च पञ्च-संस्कार-सञ्ज्ञकः ॥
अहङ्काराधिष्ठातृत्वाद् भूत-शुद्धेर् अधिदेवाय सङ्कर्षणाय नमः हे
सङ्कर्षण सद्यः शुध्येद् उपासनोपयुक्तं स्यात् तथा कृपां कुरु ।
अथ मातृका-ध्यानम्-
चिकुर-कलित-पिञ्छां पीन-तुङ्ग-स्तनाभ्यां
कर-जल-रुहि विद्यां दक्षिणे पद्म-रूपाम् ।
दधि-घटम् अपि सव्ये बिभ्रतीं तुङ्ग-विद्याम्
अमृत-किरण-कान्तिं मातृका-मूर्तिम् ईडे ॥
केशव-कीर्तिकादि-ध्यानम्-
कोणेनाक्ष्णोः पृथु-रुचिः मिथो हारिणा लिह्यमानाव्
एकैकेन प्रचुर-पुलकेनोपगुढौ भुजेन ।
गौरी-श्यामौ वसन-युगलं श्याम-गौरं वसानौ
राधा-कृष्णौ स्मर-विलसितोद्दाम-तृष्णौ स्मरामि ॥
तत्र न्यासस्य वासुदेवोऽधिष्ठाता स स्तोक-कृष्णोऽत्र ज्ञेयस् तद्-ध्यानम् उच्यते
।
अभ्र-श्यामं विद्युद्-उद्यद्-दुकूलं
स्मेरं लीलाम्भोज-विभ्राजि-हस्तम् ।
पिञ्छोत्तंसं वासुदेव-स्वरूपं
कृष्ण-प्रेष्ठं स्तोक-कृष्णं नमामि ॥
प्राणायामे निजाभीष्ट-देवौ तौ परिचिन्तयेत् ।
अन्योऽन्य-स्कन्ध-वन्दीकृत-पुलकि-भुजौ हिङ्गुल-स्वर्ण-वर्णं
कौशेयानां चतुष्कं धृत-रुचि दधतौ फुल्ल-वक्त्रारविन्दौ ।
आचिन्वानौ विहारं परिजन-घटया सम्भृतारण्य-भूषौ
गौर-श्यामाङ्ग-भासौ स्मित-मधुर-मुखौ नौमि राधा-मुकुन्दौ ॥
कर-कच्छपिकां कृत्वा ततो ध्यायेत् स्व-देवते ।
इद्धैः सिद्ध-त्रिदश-मुनिभिः प्रष्टुम् अप्य् अप्रगल्ह्बैर्
दूरे स्वस्थैर् विहित-नतिभिः सम्भ्रमैः स्तूयमाना ।
वैकुण्ठाद्यैर् अपि परिजनैः सस्पृहं प्रेक्षित-श्रीर्
माधुर्येण तिर्भुवन-चमत्कार-विस्तार-दीक्षा ॥
नवीन-यवसाङ्कुर-प्रकर-सङ्कुल-द्रोणिभिः
परिस्फुरित-मेखलैर् अखिल-धातु-लेखा-श्रिया ।
उपस्कृत-गुहागृहैर् गिरिभिर् उच्चलन् निर्झरैः
क्वचित् क्वचिद् अलङ्कृतास्फुटम् अनुष्ठानीव स्थला ॥
विकच-कमल-षण्डोत्कूज-कारण्डवानां
निरवधि दधि-दुग्धोढाति-मुग्धाम्बु-भाजाम् ।
लघु-लहरि-भुजाग्रोन्मृष्टतीव द्रुमाणां
विघटित-घन-धर्मां निम्नगानां घटाभिः ॥
मद-वलित-वल्गु-सारसैः
सरसानां मुहुर् अञ्जसा रसैः ।
सरसी-रुह-रूढ-रोचिषां
सरसीनां विसरेण राजिता ॥
(लिने मिस्सिन्ग्?)
गन्धानन्दित-सिन्धुजा-सहचरी-वृन्दैः क्षणाद् वीक्षितैः ।
बालार्क-प्रतिम-प्रवाल-सुषमा-पूर्णैः सुधा-माधुरी
दर्प-ध्वंसि-फलैः पलाशिभिर् अतिस्फीतैर् निरुद्धातपा ॥
मधूलीभिर् माद्यन्-मधुकर-वधू-झङ्कृति-घटा-
कृतानन्ङ्गाराति-प्रमद-वन-भङ्गी-जडिमभिः ।
समन्ताद् उत्फुल्ल-स्तवक-भर-लब्धावनतिभिर्
लता-विञ्छोलीभिः पृथुभिर् अभितो लाञ्छित-तटा ॥
कपिञ्जल-वलाकिका-चटक-चातकोपयष्टिकैः
पिकैर् मदन-सारिका-शुक-कलिङ्ग-पारावतैः ।
शत-च्छद-शित-च्छदैः करट-खञ्जरीटादिभिः
शकुन्तिभिर् अकुण्ठित-ध्वनिभिर् अन्तर् उद्भाषिता ॥
आभीराणाम् आनन्द-वृन्दानि चकोरैश्
चन्द्रात्मत्वा लालसया हातुम् अशक्या ।
तासां लब्धं कुन्तल-साम्यं पिञ्छ-समूहैर्
यद्भिर् नृत्यानुच्चैर् मत्त-मयूर-प्रकरैः ।
किटि-किरीटिभिः शल्यैर् भल्ल-प्लवङ्ग-कुरङ्गमैः
सृमर-चमरैर् गोलाङ्गुलैः समूरुचमूरुभिर्
उरुभिर् उरुभिः पारीन्द्रोघैः सरारु-भयोज्झितैः
पशुभिर् अशुभोन्मुक्तैर् इव स्थगितान्तरा गड्डरैर्
जडिम-डामर-शृङ्गैः क्षीरिणीभिर् अपि च च्छगलीभिः ।
गण्ड-शैल-स्मृति-सङ्गमाभिः कासरी-ततिभिर् अप्य् अवरुद्धा ॥
स्थलैः क्वचन निस्थलैः स्फटिक-कुट्टिम-द्योतिभिर्
हरिन्-मणि-मयैर् इव क्वचन शाद्वलैर् उज्ज्वला ।
निज-प्रवल-माधुरी-मृदित-हर्म्य-श्रिया
प्रसून-भर-मञ्जुला वर-निकुञ्ज-पुञ्जेन च ॥
आराधिता किल कलिन्द-सुतारविन्द-
स्यन्दानुबन्ध-रसिकेन समीरणेन ।
आनन्द-तुन्दिल-चराचर-जीव-वृन्दा
वृन्दाटवी प्रथमम् उच्च-रुचिर् विचित्याम् ॥ कुलकम् ।
मुहुर् अविकल-कल-झङ्क्रिया-कलापैर्
अलि-निकरस्य करम्बितां स्मरेयम् ।
इह घन-मकरन्द-सिक्त-मूलां
परिमल-दिग्ध-दिशं प्रसून-वाटीम् ॥
इह विद्रुम-विद्रुमं हरिन्-मणि-पत्रं वर-हीर-कोरकम् ।
कुरुविन्द-फलं श्रवत्-सुधा-प्रसरं कल्प-तरुं स्मरेद् बुधः ॥
ऋतुभिर् महितस्य तस्य नित्यं प्रकटं हेम-तटी-मध्ये विचिन्त्य-
महीष्टम् अष्टपत्रम् उदयन्-मिहिराभं
चिन्तयेद् इह सरोरुह-वर्यम् ।
मणि-कुट्टिमम् अत्र विस्फुरन्तं
परमानन्द-घनं स्मरेन् मनस्वी ॥
तत्र कुट्टिम-वरे स्फुट-दीप्तौ योगपीठम् अपि विन्चिन्त्य-
तस्योज्ज्वलायाम् उरु-कर्णिकायां
विराजितायां स्थित-सौख्य-भाजौ ।
नव्याम्बुद-स्वर्ण-विडम्बि-भासौ
कृष्णं च राधां च विचिन्तयामि ॥
शिखर-बद्ध-शिखण्ड-विस्फुरत्-
कुटिल-कुन्तल-वेणु-कृत-श्रियौ ।
तिलकित-स्फुरद्-उज्ज्वल-कुङ्कुम-
मृगमदाचित-चारु-विशेषकौ ॥
मनोज्ञतर-सौरभ-प्रणय-नन्दद्-इन्दिन्दिरं
स्फुरत्-कुसुम-मञ्जरी-विरचितावतंस-त्विषौ ।
चलन्-मकर-कुण्डल-स्फुरित-फुल्ल-गण्ड-स्थलं
विचित्र-मणि-कर्णिका-द्युति-विलीढ-कर्णाञ्चलाम् ॥
शरद्-अभिमुदितार-विन्द-द्युति-
दमनायत-लोहिताञ्चलाङ्कम्
अलघु-चटुल-दीर्घ-दृष्टि-खेला-
मधुरिम-खर्वित-खञ्जरीट-युवाम्
वल-ललाट-कृतार्ध-शशि-प्रभुं
द्वि-कलसीति-कर-स्फुरितालिकाम् ।
कुसुम-कार्मुक-कार्मुक-विभ्रमो-
द्धति-विधूनन-धुर्य-तर-भ्रुवो
चित्र-पट्ट-घटिकोपम-स्फुरत्-
पाश-वर्य-परिवीत-मस्तकम्
नासिका-शिखर-लम्बि-वर्तुल-
स्थूल-मौक्तिक-रुचाञ्चिताननाम्
राका-शारद-शर्वरीश-सुषमा-जैत्रानन-श्री-युजौ
नव्य्दीर्ण-तिल-प्रसून-दमन-श्री-नासिका-रोचिशौ ।
राजद्-बिम्ब-विडम्बिकावर-रुचौ गण्डस्थली-न्यक्कृते
प्रोन्मीलन्-मणि-दर्पणोरु-महसौ सुस्मेरता-सम्पदौ ॥
दिव्य-दुन्दुभि-गभीर-निस्वनं स्निग्धकण्ठ-कल-कण्ठ-जल्पितां
फुल्लाभिनव-वल्लिभिर् वलयित-स्कन्धैः प्रसूनावली ।
सुष्ठु-लब्ध-परिपाक-दाडिमी-
बीज-राज-विजयि-द्विजार्चिषे ।
कम्बुकण्ठ-विलुठन्-मणि-रत्न-
रत्न-निष्क-परिशोभित-कण्ठाम् ।
उन्नति-प्रथिम-सुललितांसं
स्निग्धयोर् उचित-रामवनम्राम् ।
दीप्रान् युगेन भुजयोर् भुजगान् हसन्तं
केयूरिणा विलसता श्रियम् आक्षिपन्तीम् ।
रत्नोर्मिका-स्फुरित-चारु-तराङ्गुलिभिर्
विद्योत-कङ्कणक-रञ्जित-पाणि-भाजौ ॥
हरिन्मणि-कवाटिकोद्भट-कठोर-वक्ष-स्थली-
विलासि-वन-मालिका-मिलित-हार-गुञ्जावलिम् ।
स्फुरन्-निविड-दाडिमी-फल-विडम्बि-वक्षोरुह-
द्वय-शिखर-शेखरी-भवद्-अमन्द-मुक्ता-लताम् ॥
अलोल-मधुपावलि-विजयि-रोम-राजीवलद्-
वली-त्रितय-मण्डित-प्रतनु-मध्य-रम्याकृतिम् ।
यम-स्वसरि सम्पतत्-सुर-सरिद्-वरावर्त-जिद्-
गभीरतर-नाभि-भागम् उरु-तुन्द-लक्ष्मी-भृतौ ॥
घन-जघन-विडम्बित-रत्न-काञ्ची-
वलयित-पीत-दुकूल-मञ्जु-लाभम् ।
मणिमय-रसनाढ्य-शोण-पट्टा-
म्बर-परिरम्भि-नितम्ब-रम्याम् ॥
अतिनव-मद-भर-मन्थर-सिन्धुर-कर-बन्धुरोरु-विमानौ जङ्घाभ्यां
रचित-रुचौ सुवर्तुलाभ्यां गूढेनाप्य् अनुपम-गुल्फ-युग्मकेन पद्भ्याम् अप्य्
अरुण-नखोज्ज्वलाभ्यां मणिमय-नूपुराञ्चिताभ्यां ।
आमृष्ट-पृष्ठम् अभितो दयिता-भुजेन
तिष्ठन्तम् उत्फुलिकिना किल दक्षिणेन ।
कान्तस्य सव्य-भुज-मूल-कृतोत्तमाङ्गां
तद्-वक्त्र-पद्म-तट-वल्गद्-अपाङ्ग-युग्माम् ॥
तिरो-न्यस्त-ग्रीवं किम् अपि दयिता-वक्त्र-कमले
वलद्-दीर्घापाङ्गं स्फुरद्-अधर-कूजन्-मुरलिकम् ।
भयन्-मध्यं सव्योपरि परिमिलद्-दक्षिण-पदं
चलच्-चिल्ली-मालं भुज-तट-गतोत्तंस-कुसुमम् ॥
रूपे कंसहरस्य मुग्ध-नयनां स्पर्शेऽतिहृष्यत्-त्वचं
वाण्याम् उत्कलित-श्रुतिं परिमले संस्पृष्ट-नासा-पुटाम् ।
आरज्यद्-रसनां किलाधर-पुटे न्यञ्चन्-मुखाम्भोरुहां
दम्भोद्गीर्ण-महा-धृतिं बहिर् अपि प्रोद्यद्-विकाराकुलाम् ॥
मुख-स्तोकोद्गीर्णानिल-विलसितामृष्ट-मुरली-
विनिष्क्रामद्-ग्राम-ग्लपित-जगती-धैर्य-विभवम् ।
प्रिया-स्पर्शेनान्तः-परवशतया खण्डितम् अपि
स्वरालापं भङ्ग्या सपदि गमयन्तं स्व-समयम् ॥
नीवी-बन्धेऽप्य् अतिशिथिलिते स्वेद-सन्दोह-मैत्री-
रुद्ध-श्रोणी-पुलिन-रसनाम् उन्नता-रङ्ग-रङ्गाम् ।
आद्य-द्रव-द्रवद्-अभिहृदां विस्मृताशेष-भावां
गाढोत्कण्ठा-निचय-रचितोद्दाम-वैक्लव्य-विज्ञाम् ॥
पुलकित-वपुषौ श्रुताश्रु-धारा
स्नपित-मुखाम्बुरुहौ प्रकम्प-भाजौ ।
क्षणम् अतिगूढ-गद्गदाढ्य-वाचौ
मदन-मदोन्मद-चेतसौ स्मरामि ॥
नवभिः शुशिरैर् विराजिता
गुरवी-बीज-समान-वर्ष्मभिः ।
अरुणेन विभूषिताधर-
कर-भाजां सरलेन वेणुना ॥
सुश्लाघ्ययान्तर्-निज-मुष्टिमेयया
हस्त-त्रयी-मान-मनोज्ञ-रूपया ।
भूयिष्टया श्यामल-कान्ति-जुष्टया
यष्ट्याद्य्-अवष्टम्भित-दक्ष-कूर्परम् ॥
असितेन विभङ्गुरात्मना
पृथु-मूलेन कृतेन चाग्रतः ।
धटि-काञ्चल-बद्ध-मूर्तिना
वर-शृङ्गेन पूरो निषेवितम् ॥
भृङ्गान् सुहृद्-वदन-गन्ध-भरेण लोलान्
लीलाम्बुजेन मृदुलेन निवारयन्त्या ।
उद्वीक्ष्यमाण-मुख-चन्द्रमसौ रसौघ-
विस्तारिणा ललितया नयनाञ्चलेन ॥
चामरभ-नव-मञ्जु-मञ्जरी-
भ्राजमान-करया विशाखया ।
चित्रया च किल दक्ष-वामयोर्
वीज्यमान-वपुषौ विलासतः ॥
नाग-वल्लि-दल-बद्ध-वीटिका-
सम्पुट-स्फुरित-पाणि-पद्मया ।
चम्पकादिलतया सकम्पया
दृष्ट-पृष्ट-तट-रूप-सम्पदौ ॥
रम्येन्दुलेखा-कल-गीत-मिश्रितैर्
वंशी-विलासानु-गुणैर् गुण-ज्ञया ।
वीणा-निनाद-प्रसरैः पुरस्थया
प्रारब्ध-रङ्गौ किल तुङ्गविद्यया ॥
तरङ्गद्-अङ्ग्या किल रङ्ग-देव्या
सव्ये सुदेव्या च शनैर् असव्ये ।
श्लक्ष्णाभिमर्शन-विमृज्यमान-
स्वेदाश्रु-धारौ सिचयाञ्चलेन ॥
स्मरण-मङ्गल-स्तोत्रम्
श्री-राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेषाद्य्-अगम्या
या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या ।
सा स्यात् प्राप्ता यया तां प्रथयितुम् अधुना मानसीम् अस्य सेवां
भाव्यां रागाध्व-पान्थैर् व्रजम् अनुचरितं नैत्यिकं तस्य नौमि ॥१॥
कुञ्जाद् गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां
प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन् गाः ।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यह् स कृष्णोऽवतान् नः ॥ २ ॥
रात्र्यन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी-
पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः ।
दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्खटी-गीः-सशङ्कौ
राधा-कृष्णौ स-तृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥३॥
राधां स्नात-विभूषितां व्रज-पयाहूतां सखीभिः प्रगे
तद्-गेहे विहितान्न-पाक-रचनां कृष्णावशेषाशनाम् ।
कृष्णं बुद्धम् अवाप्त-धेनु-सदनं निर्व्यूढ-गो-दोहनं
सुस्नातं कृत-भोजनं सहचरैस् तां चाथ तं चाश्रये ॥ ४ ॥
पूर्वाह्ने धेनु-मित्रैर् विपिनम् अनुसृतं गोष्ठ-लोकानुयातं
कृष्णं राधाप्ति-लोलं तद्-अभिसृति-कृते प्राप्त-तत्-कुण्ड-तीरम् ।
राधां चालोक्य कृष्णं कृत-गृह-गमनार्ययार्कार्चनायै
दिष्टां कृष्ण-प्रवृत्त्यै प्रहित-निज-सखी-वर्त्म-नेत्रां स्मरामि ॥ ५ ॥
मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूषा-प्रमुग्धौ
वाम्योत्कण्ठातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ ।
दोलारण्याम्बु-वंशी-हृति-रति-मधु-पानार्क-पूजादि-लीलौ
राधा-कृष्णौ स-तृष्णौ परिजन-घटया सेव्यमानौ स्मरामि ॥ ६ ॥
श्रीराधां प्राप्तगेहां निजरमणकृते क्।ल्प्तनानोपहारां
सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम् ।
कृष्णञ्चैवापराह्णे व्रजमनुचलितं धेनुव्ण्दैर्वयस्यैः
श्रीराधालोकतृप्तं पितृमुखमिलितं मातृमृष्टं स्मरामि ॥ ७ ॥
सायं राधा स्व-सख्या निज-रमण-कृते प्रेषितानेक-भोज्यां
सख्यानीतेश-शेषाशन-मुदित-हृदं तां च तं च व्रजेन्दुम् ।
सुस्नातं रम्य-वेशं गृहम् अनु जननी लालितं प्राप्त-गोष्ठं
निर्व्यूढोस्रालि-दोहं स्व-गृहम् अनु पुनर् भुक्तवन्तं स्मरामि ॥ ८ ॥
राधां सालीगणान्तामसितसितनिशायोग्यवेशां प्रदोषे
दूत्या वृन्दोपदेशादभिसृतयमुनातीरकल्पागकुञ्जां ।
कृष्णं गोपैः सभायां विहितगुणिकलालोकनं स्निग्धमात्रा
यत्नादानीय संशायितमथ निभृतं प्राप्तकुञ्जं स्मरामि ॥ ९ ॥
ताव् उत्कौ लब्ध-सङ्घौ बहु-परिचरणैर् वृन्दयाराध्यमानौ
गानैर् नर्म-प्रहेली-सुलपन-नटनैः रास-लास्यादि-रङ्गैः ।
प्रेष्ठालीभिर् लसन्तौ रति-गत-मनसौ मृष्ट-माध्वीक-पानौ
क्रीडा-चार्यौ निकुञ्जे विविध-रति-रण उद्धत्य विस्तारितान्तौ ॥ १० ॥
ताम्बूलैर् गन्ध-माल्यैर् व्यजन-हिम-पयः-पाद-संवाहनाद्यैः
प्रेम्णा संसेव्यमानौ प्रणयि-सहचरी-सञ्चयेनाप्त-शातौ ।
वाचा कान्तैरणाभिर् निभृत-रति-रसैः कुञ्ज-सुप्तालि-सङ्घौ
राधा-कृष्णौ निशायां सु-कुसुम-शयने प्राप्त-निद्रौ स्मरामि ॥ ११ ॥
इति श्री-रूप-गोस्वामि-विरचिता स्मरण-पद्धतिः ।
श्री-रूपो जयति ।
इति स्मरण-मङ्गलं समाप्तम् ।
इति चतुर्थ-कक्षा
पञ्चम-कक्षा
अथ परमैश्वर्य-माधुर्य-पीयूषामृत-वारिधेः स्वयं भगवतः कतमं
तद्-धाम यत्रासौ भगवान् विहरति । इत्य् अपेक्षायाम् आहाकरे-
यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये ।
व्रजे मधुपुरे द्वारवत्यां गोलोक एव च ॥
तथा हि स्कान्दे-
या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।
तास् तथा सन्ति वैकुण्ठे तत्-तल्-लीलार्थम् आदृताः ॥ इत्य् आदि ।
तद्-व्यवस्थाम् आहाकारे (ल्भाग् १।४।४९७-८, ५०२)-
धामास्य द्विविधं प्रोक्तं माथुरं द्वार्वती तथा ।
माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च ॥
यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् ।
तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः ॥
अस्यार्थः-गोकुल-वैभवं गोइकुलैश्वर्यं प्रकाश-रूपम् । तस्य गोकुलस्य तद्-
आत्म-वैभवत्वं स गोलोक आत्मनः स्वस्य वैभवं यस्य । तन्-महिमोन्नतेस्
तस्माद् गोलोकान् महिमोन्नतेर् हेतोः । अन्यथा गोलोकस्य गोकुलाप्रकट-
प्रकाशत्वे स्थान-चतुष्टयता-सिद्धिः । यद्य् अप्रकटत्वेन स्थानत्वात् तदा
मधुपुरी-द्वारकयोर् अप्रकट-प्रकाशाभ्यां स्थान-षट्ता स्यात् । तर्हि गोलोकस्य
कुत्र स्थितिर् इत्य् आह । पर-व्योमोपरि सर्वोर्ध्व-भाग एव । श्री-ब्रह्म-
संहितायाम्-
गोलोक-नाम्नि निज-धाम्नि तले च तस्य
देवि महेश-हरि-धामसु तेषु तेषु ।
ते ते प्रभाव-निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् ५।४३] इति ।
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो । इत्य् आदि ।
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ इत्य् आदि ।
अतएव श्री-भागवते (१०।२।७) गच्छ देवि व्रजं भद्रे इति, श्री-चैतन्य-चरितामृते
(आदि ४।२९) मो-विषये गोपी-गण्र उपपति-भावे इत्य् आदि प्रकट-लीलानुसारेण श्री-
गोलोक-नाथ-वाक्यम् ।
अत्र गोलोके श्र्य्-आदयोऽनुवाद-रूपाः । कान्तादयो विधेय-रूपाः । परम् अपीति
गोलोके श्वेतद्वीप-वैकुण्ठादयोऽप्य् अनुवाद-रूपाः । वृन्दावन-गोकुलादयो
विधेय-रूपाः । ततः कृष्णोऽयं नारायणस्य विलासी गोलोक-पर-व्योमोपरि वर्तत
इति दृष्ट्या जनानां झटिति प्रवृत्ति-दुर्घटा स्यात् । अतएव तद्-गत परिकराणाम्
अयं सर्वेश्वरोऽस्माकं प्रभुर् इति सदा स्फूर्तिः ।
किं च, गोलोक-गत कैशोर-लीलाया ऐश्वर्य-मयत्वात् तल्-लीला-वलितस्य गोलोक-
नाथस्य बाल्य-पौगण्ड-धर्माभावात् कैशोर-गतत्वेन लीलाया एक-विधत्वम्
। तस्मिंश् च सति, अयं परम-पुरुषः शक्तिमान् वयम् अस्य शक्तयः इति स्फूर्तेः
पाणि-ग्रहणाभावाच् च दानाभिसारादयो लीला न सन्ति । तत्र निमेषार्धाख्यो वा
व्रजति न हि यत्रापि समयः इति ।
दिन-रात्रेर् अभावाद् रात्रि-विलासित्वाभावेन तल्-लीलानाम् अभावः । गौण-समञ्जस
रति-मतीभिस् तद्-गत-स्त्रीभिस् तद् अयोग्यत्वात् । तस्माद् द्वारकातोऽपि गोलोकस्य
न्यूनत्वम् । तथापि श्री-दास-गोस्वामिनः श्री-स्तवावल्यां (व्रज-विलासे ५)-
वैकुण्ठाद् अपि सोदरात्मज-वृता द्वारवती सा प्रिया
यत्र श्री-शत-निन्दि-पट्ट-महिषी-वृन्दैः प्रभुः खेलति ।
प्रेम-क्षेत्रम् असौ ततोऽपि मथुरा श्रेष्ठा हरेर् जन्मतो
यत्र श्री-व्रज एव राजतितरां ताम् एव नित्यं भजे ॥
एवं परस्पर-सम्बन्धत्वेन मथुरातोऽपि द्वारकाया न्यूनत्वम् । अथ श्रुति-
स्मृति-सम्मतं सर्वोत्कृष्टं तु माथुरम् । यथा पद्म-पुराणे-
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी ।
एवं सप्त-पुरीणां तु सर्वोत्कृष्टं तु माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठ-भुवनोत्तमः ॥ इति ।
अतएव श्री-बृहद्-भागवतामृते गोलोक-गत-गोप-कुमारस्य तद्-गत-परिकराणां
सञ्जायमानादर-गौरव-दर्शनेन स्व-मनो न तृप्येत् । तद् यथा (२।४।११०-११३)-
तम् एव सर्वज्ञ-शिरोमणिं प्रभुं
वैकुण्ठ-नाथं किल नन्द-नन्दनम् ।
लक्ष्म्यादि-कान्तं कलयामि राधिका-
मुखाश् च दासादि-गणान् व्रजार्भकान् ॥
तथाप्य् अस्यां व्रज-क्ष्मायां प्रभुं स-परिवारकम् ।
विहरन्तं तथा नेक्षे भिद्यते तेन मन्मथः ॥
कदापि तत्रोपवनेषु लीलया
तथा लसन्तं निचितेषु गो-गणैः ।
पश्याम्य् अमूं कर्ह्य् अपि स्थितं
निजासने स्व-प्रभुवच् च सर्वथा ॥
तथापि तस्मिन् परमेश-बुद्धेर्
वैकुण्ठ-नाथे किल नन्द-नन्दने ।
सञ्जायमानादर-गौरवेण
तत्-प्रेम-हान्या स्व-मनो न तृप्येत् ॥[*एन्द्नोते #१०]
श्री-स्तव-मालायां च (नन्दापहरणं १९)-
लोको रम्यः कोऽपि वृन्दाटवीतो
नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् ।
यो वैकुण्ठं सुष्ठु सन्दर्श्य भूयो
निन्ये गोष्ठं पातु स त्वां मुकुन्दः ॥
यथा श्री-दशमे (१०।२८।१०)-
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥
अथ टीका-विस्मितः परम-माधुर्याविष्टत्वेनैश्वर्यानुसन्धानाभावात् । अतः
परम-कारुणिकः श्री-कृष्णः स्व-बन्धु-वर्गं नन्दादिकं गोलोकं सन्दर्श्य
पुनर् गोकुलं नीतवान् । गोलोकं भू-वृन्दावनादिकं श्री-दशमे नन्दादीनां
वैकुण्ठ-दर्शनानन्तरं व्रजागमनं व्यक्तम् एवास्ति । अतएव स्वयं-प्रकाश-
भू-वृन्दावनस्य सदा प्रकटाप्रकटत्वे विराजमानत्वे सस्माद् गोकुलाख्याद्
वृन्दावनाद् गोलोकय पृथक्त्वं न्यूनत्वं च स्पष्टम् मधुरैश्वर्ययोर्
अभावात् । मधुरैश्वर्यं च-ये दैत्या दुःशका हन्तुं इत्य् आदेः । क्वचिद् ऐश्वर्य-
साम्येन धाम्नोर् गोलोक-गोष्ठयोर् ऐक्यं दर्शितम् इन्द्राद्यैर् माधुर्याणाम्
अकोविदैः । ऐक्यं तु गोलोकस्य गोकुल-वैभव-प्रकाश-रूपत्वात् । प्रकाशस् तु न
भेदेषु गण्यते स हि नो पृथक् (ल्भाग् १।१।२०), तत्र च करोति याः प्रकाशेषु
कोटिशोऽप्रकटेष्व् अपि (ल्भाग् १।५।४५१) ।
यद्यपि स्वयं-प्रकाश-प्रकाश्यानां मध्ये भेदो गण्यते तथापि चैतन्य-
चरितामृते (मध्य ८।८३) तटस्थ ह-इया विचारिले आछे तरतम । तत्र च महा-
रास-प्रसङ्गे तार मध्ये एक मूर्ति रहे राधा-पाश इति पूर्वे विचारितोऽस्ति । यद् वा
विशेषतो श्री-चरितामृते मध्य-लीलायां विंशति-परिच्छेदे श्री-सनातन-गोस्वामि-
शिक्षा-प्रसङ्गे विवृतम् अस्ति । अथवा अचिन्त्य-शक्ति-प्रभावेण समाधेयः ।
किं च-
यथा चतुर्भुजत्वेऽपि न त्यजेत् कृष्ण-रूपत्वम् ।
अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च ॥ (ल्भाग् १।१।२३)
इत्य्-आदि-न्यायात् ब्रह्म-मोहनादि-कर्तृत्वाभावात् मथुरा-द्वारका-गत-श्री-कृष्ण-
प्रकाशे श्री-गोकुल-गत-पूर्णतम-रूप-माधुर्याभावेऽपि प्रकाशत्वम्, तथा
गोलोकेऽपि श्री-वृन्दावन-गत-मधुरैश्वर्य-माधुर्ययोर् अभावेऽपि प्रकाशत्वम्
। अप्रपञ्च-प्रपञ्च-गोचरत्वम् अप्राकृत-प्राकृत इव श्री-गोकुल-
भूरूपोऽनुवादतया चिन्तामण्य्-आदि-रूपो विधेयतया, स तु माथुर-भू-रूपः
परिच्छिन्नोऽप्य् अथाद्भुतः इत्य् आदेः ।
माथुरो श्री-गोकुलः-
माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च (ल्भाग् १।५।४९७) इत्य् आदेः ।
अतेवास्य पाद्मे च श्रूयते नित्य-रूपता ।
नित्यं मे मथुरां विद्धि वनं वृन्दावनं तथा इति ।
अत्रैवाजाण्डमालापि पर्याप्तिम् उपगच्छति ।
वृन्दावन-प्रतीकेऽपि यानुभूतैव वेधसा ॥
इत्य् अतो रास-लीलायां पुलिने तत्र यामुने ।
प्रमदा-शत-कोट्योऽपि ममूर् यत् तत् किम् अद्भुतम् ॥
स्वैः स्वैर् लीला-परिकरैर् जनैर् दृश्यानि नापरैः ।
तत्-तल्-लीलाद्य्-अवसरे प्रादुर्भावोचितानि हि ॥
आश्चर्यम् एकदैकत्र वर्तमानान्य् अपि ध्रुवम् ।
परस्परम् असम्पृक्त-स्वरूपाण्य् एव सर्वथा ॥
कृष्ण-बाल्यादि-लीलाभिर् भूषितानि समन्ततः ।
शैल-गोष्ठ-वनादीनां सन्ति रूपाण्य् अनेकशः ॥
लीलाढ्योऽपि प्रदेशोऽस्य कदाचित् किल कैश्चन ।
शून्य एवेक्षते दृष्टि-योग्यैर् अप्य् अपरैर् अपि ॥
अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च ।
अविचिन्त्य-प्रभावत्वाद् अत्र किं च न दुर्घटम् ॥
(ल्भाग् १।५।५०६-७, ५०९-५१५)
चतुर्धा माधुरी तस्य व्रज एव विराजते ।
ऐश्वर्य-क्रीडयोर् वेणोस् तथा श्री-विग्रहस्य च ॥ (ल्भाग् १।५।५२६)
तस्मात् या यथा भुवि वर्तन्ते इत्यादि-दिशा द्वारका मथुरा-गोकुल-नामानि
स्वतन्वाण्य् एव भगवतो धामानि । गोकुल-तद्-वैभव-प्रकाशत्वेन प्रसिद्धो
गोलोक इति नाम पर-व्योमोपरीति शास्त्र-प्रसिद्धम्, यथा हरि-वंशे शक्र-
वचनम्-
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।
गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह्व् २।१९।२९-३५] इति ।
इन्द्रस् तु ब्रह्म-मोहनादौ गोकुल-परमैश्वर्यं ज्ञात्वापि परम-माधुर्य-
दर्शनेन ब्रह्मण इव पुनर् मोहितः सन् तस्यैवाश्चर्य-प्रकाशं गोलोकं
वर्णयित्वा तस्यापि गोकुलेन सहाभेदवन् निर्देशेनाह– स तु लोकस् त्वया कृष्ण इति
। अतः श्री-कृष्ण-वाक्यं श्री-भागवते (१०।२५।१८)-
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ इति ।
तस्माद् युक्तम् एव-यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये इति । किं च-
मच्-छरणं मन्-नाथं मत्-परिग्रहम् इति विशेषणाद् अत्र ब्रह्मादीनाम् अप्य्
अधिकारो नास्ति, का कथान्येषाम् ? दृश्यते चान्यत्र दश-योजनात्मके श्री-
पुरुषोत्तम-क्षेत्रे शङ्काकारे क्रोश-पञ्चके तद्-देशाधिपतेः
स्वतन्त्रेणाधिकारो नास्ति । किं बहुना, अतः स्वयं-प्रकाश-भू-वृन्दावनस्य
परम-प्राप्यत्वं परम-रहस्यत्वं परम-रमणीयत्वं च तथा श्री-
भागवते (१०।२१।१०)-
वृन्दावने सखि भुवो वितनोति कीर्तिं
यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि ।
पुनस् तत्रैव ब्रह्म-स्तवे (१०।१४।३४)-
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् ।
यज् जीवितं तु निखिलं भगवान् मुकुन्दस्
त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥
पुनस् तत्रैव श्रीमद्-उद्धवोक्तौ (१०।४७।६१)-
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् । इति ।
आदि-पुराणे-
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिका पार्थ यत्र राधाभिधा मम ॥
तथा हि-
व्रज न गोपिका भिन्ना मत्तः पश्यन्ति केवलम् ।
गोपा गावश् च तत्रत्या ममैवानन्द-विग्रहाः ॥
ये व्रजस्थान् अहो भिन्नान् मत् पश्यन्ति तु केचन ।
न तेषां मूढ-बुद्धीनां गतिर् नैव परत्र च ॥
ब्रह्म-संहितायाम् (५।५६)-
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
श्री-गोपाल-तापन्यां च (२।३६)-तासां मध्ये साक्षाद् ब्रह्म गोपाल-पुरी इति ।
बृहद्-गौतमीये-
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मे ऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥
वृन्दावनं द्वादशमं वृन्दया परिरक्षितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥
स्कान्दे-
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥
यथा लक्ष्मीः प्रियतमा यथा भक्ति-परा नराः ।
गोविन्दस्य प्रिअयतमं तथा वृन्दावनं भुवि ॥
तत्र श्री-वृन्दावने श्री-गोविन्द-स्थलाख्यं । यथा श्री-गोविन्द-लीलामृते (२१।२८)-
श्री-गोविन्द-स्थलाख्यं तटम् इदम् अमलं कृष्ण-संयोग-पीठं
वृन्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पीठ-स्थलाभम् ।
कुञ्ज-श्रेणी-दलाढ्यं मणिमय-गृह-सत्-कर्णिकं स्वर्ण-रम्भा-
श्रेणी-किञ्जल्कम् एषा दश-शत-दल-राजीव-तुल्यं ददर्श ॥
अतएव स्मरण-मङ्गले कुञ्जात् इत्य् अत्र कुञ्जाद् इति कुञ्ज-प्राधान्यात् श्री-गोविन्द-
स्थल-गतः कुञ्जो ज्ञेय इति ।
स्कान्दे मथुरा-खण्डे (मथुरा-माहात्म्ये ३९९-४०१)-
तस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम्
तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ।
भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥
वृन्दावने महा-सद्म यैर् दृष्टं पुरुषोत्तमैः ।
गोविन्दस्य मही-पाल ते कृतार्था महीतले ॥
तत्र योग-पीठे श्री-गोविन्द-देवस्य ध्यानम्, यथा क्रम-दीपिकायाम् (३।१-३६)-
अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्-
प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।
प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः
स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥१
विकाशि-सुमनो-रमास्वादन-मञ्जुलैः सञ्चरच्-
छिलिमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।
कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर्
विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥२
कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्
विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः ।
प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां
विलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥३
प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ-
क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् ।
स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं
तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥४
सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्
अधोऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः ।
प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां
स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥५
तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-
पीठेऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य ।
उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये
सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥६
सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज-
प्रत्यग्र-नील-जलजन्म-समान-भासम् ।
सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं
राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥७
आपूर्ण-शारद-गताङ्कुश-शाङ्क-बिम्ब-
कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।
रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-
गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥८
सिद्नूर-सुन्दरतराधरम् इन्दु-कुन्द-
मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।
वन्य-प्रवाल-कुसुम-प्रचयावक् प्त-
ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥९
मत्त-भ्रमर-जुष्ट-विलम्बमान-
सन्तान-कप्र-सव-दाम-परिष्कृतांसम् ।
हारावली-भगण-राजित-पीवरोरो-
व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥१०
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम्
आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।
आबन्धुरोदरम् उदार-गम्भीर-नाभिं
भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥११
नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-
ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।
द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम्
आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥१२
चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ-
कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।
माणिक्य-दर्पण-लसन्-नखराजि-राजद्-
रत्नाङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥१३
मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-
संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।
लावण्य-सार-समुदाय-विनिर्मिताङ्ग-
सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥१४
आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-
लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।
शश्वद्-द्रवी-जृत-विकृष्ट-समस्त-जन्तु-
सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥१५॥
अथ सुललित-गोप-सुन्दरीणां
पृथु-निविवीष-नितम्ब-मन्थराणाम् ।
गुरु-कुच-भर-भङ्गुरावलग्न-
त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥२३॥
तद्-अतिमधुर-चारु-वेणु-वाद्या-
मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् ।
मुकुल-विसर-रम्य-रूढ-रोमोद्-
गम-समलङ्कृत-गात्र-वल्लरीणाम् ॥२४॥
तद्-अतिरुचिर-मन्द-हास-चन्द्रा-
तप-परिजृम्भित-राग-वारिणाशेः ।
तरलतर-तरङ्ग-भङ्ग-विप्रुट्-
प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥२५॥
तद्-अतिललित-मन्द-चिल्लि-चाप
च्युत-निशितेक्षण-मार-वाण-वृष्ट्या ।
दलित-सकल-मर्म-विह्वलाङ्ग-
प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥२६॥
तद्-अतिरुचिर-कर्म-रूप-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् ।
प्रणय-सलिल-पूर-वाहिनीनाम्
अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥२७॥
विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्-
माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।
मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्-
नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् ॥२८॥
स्खलित-ललित-पादाम्भोज-मन्दाभिघात-
क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् ।
चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-
द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥२९॥
द्राघिष्ठ-श्वसन-समीरणाभि-ताप-
प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् ।
नानोपायन-विलसत्-कराम्बुजानाम्
आलीभिः सतत-निषेवितं समन्तात् ॥३०॥
तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज-
स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् ।
तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् ॥३१॥
गोपी-गोप-पशूनां बहिः
स्मरेद् अग्रतोऽस्य गीर्वाण-घटां ।
वित्तार्थिनीं विरिञ्चि-त्रिनयन-
शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥३२॥
तद्-दक्षिणतो मुनि-निकरं
दृढ-धर्म-वाञ्छम् आम्नाय-परम् ।
योगीन्द्रान् अथ पृष्ठे मुमुक्ष-
माणान् समाधिना सनकाद्यान् ॥३३॥
सव्ये सकान्तान् अथ यक्ष-सिद्ध-
गन्धर्व-विद्याधर-चारणांश् च ।
सकिन्नरान् अप्सरसश् च मुख्याः
कामार्थिनो नर्तन-गीत-वाद्यैः ॥३४॥
शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं
सौदामनी-तति-पिशङ्ग-जटा-कलापम् ।
तत्-पाद-पङ्कज-गताम् अचलाञ्च भक्तिं
वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥३५॥
नाना-विध-श्रुति-गणान्वित-सप्त-राग-
ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।
सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या
सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥३६॥
इह पद्म-पुराणीयश् चाध्यायो (५।६९।४-११८) लिख्यते क्रमात्-
पार्वत्य् उवाच -
अनन्त-कोटि-ब्रह्माण्ड-तद्-बाह्याभ्यन्तर-स्थितेः ।
विष्णोः स्थानं परं तेषां प्रधानं वरम् उत्तमम् ॥४॥
यत् परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् ।
तत् सर्वं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥५॥
ईश्वर उवाच -
गुह्याद् गुह्यतरं गुह्यं परमानन्द-कारकम् ।
अत्यद्भुतं रहः स्थानम् आनन्दं परमं परम् ॥६॥
दुर्लभानां च परमं दुर्लभं मोहनं परम् ।
सर्व-शक्ति-मयं देवि सर्व-स्थानेषु गोपितम् ॥७॥
सात्वतां स्थान-मूर्द्धन्यं विष्णोर् अत्यन्त-दुर्लभम् ।
नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि-संस्थितम् ॥८॥
पूर्ण-ब्रह्म सुखैश्वर्यं नित्यम् आनन्दम् अव्ययम् ।
वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि ॥९॥
गोलोकैश्वर्यं यत् किञ्चिद् गोकुले तत्-प्रतिष्ठितम् ।
वैकुण्ठ-वैभवं यद् वै द्वारिकायां प्रतिष्ठितम् ॥१०॥
यद् ब्रह्म परमैश्वर्यं नित्यं वृन्दावनाश्रयम् ।
कृष्ण-धाम परं तेषां वन–मध्ये विशेषतः ॥११॥
तस्मात् त्रैलोक्य-मध्ये तु पृथ्वी धन्येति विश्रुता ।
यस्मान् माथुरकं नाम विष्णोर् एकान्त-वल्लभम् ॥१२॥
स्व-स्थानम् अधिकं नाम-धेयं माथुर-मण्डलम् ।
निगूढं विविधं स्थानं पुर्य्-अभ्यन्तर-संस्थितम् ॥१३॥
सहस्र-पत्र-कमलाकारं माथुर-मण्डलम् ।
विष्णु-चक्र-परिभ्रामाद् धाम वैष्णवम् अद्भुतम् ॥१४॥
कर्णिका-पर्ण-विस्तारं रहस्य-द्रुमम् ईरितम् ।
प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥१५॥
भद्र-श्री-लोह-भाण्डीर-महा-ताल-खदीरकाः ।
बकुलं कुमुदं काम्यं मधु वृन्दा वनं तथा ॥१६॥
द्वादशैतावती सङ्ख्या कालिन्द्याः सप्त-पश्चिमे ।
पूर्वे पञ्च-वनं प्रोक्तं तत्रास्ति गुह्यम् उत्तमम् ॥१७॥
महारण्यं गोकुलाख्यं मधु वृन्दा-वनं तथा ।
अन्यच् चोपवनं प्रोक्तं कृष्ण-क्रीडा-रस-स्थलम् ॥१८॥
कदम्ब-खण्डनं नन्द-वनं नन्दीश्वरं तथा ।
नन्द-नन्दन-खण्डं च पलाशाशोक-केतकी ॥१९॥
सुगन्ध-मानसं कैलम् अमृतं भोजन-स्थलम् ।
सुख-प्रसाधनं वत्स-हरणं शेष-शायिकम् ॥२०॥
श्याम-पूर्वो दधि-ग्रामश् चक्र-भानु-पुरं तथा ।
सङ्केतं द्विपदं चैव बाल-क्रीडन-धूसरम् ॥२१॥
काम-द्रुमं सुललितम् उत्सुकं चापि काननम् ।
नाना-विध-रस-क्रीडा नाना-लीला-रस-स्थलम् ॥२२॥
नाग-विस्तार-विष्टम्भं रहस्य-द्रुमम् ईरितम् ।
सहस्र-पत्र-कमलं गोकुलाख्यं महत्-पदम् ॥२३॥
कर्णिका तन् महद् धाम गोविन्द-स्थानम् उत्तमम् ।
तत्रोपरि स्वर्ण-पीठे मणि-मण्डप-मण्डितम् ॥२४॥
कर्णिकायां क्रमाद् दिक्षु विदिक्षु दलम् ईरितम् ।
यद् दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥२५॥
तस्मिन् दले महा-पीठं निगमागम-दुर्गमम् ।
योगीन्द्रैर् अपि दुष्प्रापं सर्वात्मा यच् च गोकुलम् ॥२६॥
द्वितीयं दलम् आग्नेय्यां तद् रहस्य-दलं तथा ।
सङ्केतं द्विपदं चैव कुटी द्वौ तत्-कुले स्थितौ ॥२७॥
पूर्वं दलं तृतीयं च प्रधान-स्थानम् उत्तमम् ।
गङ्गादि-सर्व-तीर्थानां स्पर्शाच् छत-गुणं स्मृतम् ॥२८॥
चतुर्थं दलम् ऐशान्यां सिद्ध-पीठेऽपि तत्- पदम् ।
व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥२९॥
वस्त्रालङ्कारहरणं तद्दलेसमुदाहृतम् ।
उत्तरेपञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥३०॥
द्वादशादित्यमत्रैवदलं चकर्णिकासमम् ।
वायव्यां तु दलं षष्ठं तत्र काली-ह्रदः स्मृतः ॥३१॥
दलोत्तमोत्तमं चैव प्रधानं स्थानम् उच्यते ।
सर्वोत्तम-दलं चैव पश्चिमे सप्तमं स्मृतम् ॥३२॥
यज्ञ-पत्नी-गणानां च तद्-ईप्सित-वर-प्रदम् ।
अत्रासुरोऽपि निर्वाणं प्राप त्रिदश-दुर्लभम् ॥३३॥
ब्रह्म-मोहनम् अत्रैव दलं ब्रह्म-ह्रदावहम् ।
नैरृत्यां तु दलं प्रोक्तम् अष्टमं व्योम-घातनम् ॥३४॥
शङ्खचूड-वधस् तत्र नाना-केलि-रस-स्थलम् ।
श्रुतम् अष्ट-दलं प्रोक्तं वृन्दारण्यान्तर-स्थितम् ॥३५॥
श्रीमद्-वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम् ।
शिव-लिङ्गम् अधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥३६॥
तद्-बाह्ये षोडश-दलं श्रिया पूर्णं तम् ईश्वरम् ।
सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद् यथा क्रमम् ॥३७॥
महत्-पदं महद्-धाम स्व-धामाधाव-सञ्ज्ञकम् ।
प्रथमैक-दलं श्रेष्ठं माहात्म्यं कर्णिका-समम् ॥३८॥
तत्र गोवर्धन-गिरौ रम्ये नित्य-रसाश्रये ।
कर्णिकायां महा-लीला तल्-लीला-रस-गह्वरौ ॥३९॥
यत्र कृष्णो नित्य-वृन्दा-काननस्य पतिर् भवेत् ।
कृष्णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाषितैः ॥४०॥
दलं तृतीयम् आख्यातं सर्व-श्रेष्ठोत्तमोत्तमम् ।
चतुर्थं दलम् आख्यातं महाद्भुत-रस-स्थलम् ॥४१॥
नन्दीश्वर-वनं रम्यं तत्र नन्दालयः स्मृतः ।
कर्णिका-दल-माहात्म्यं पञ्चमं दलम् उच्यते ॥४२॥
अधिष्ठाताऽत्र गोपालो धेनु-पालन-तत्-परः ।
षष्ठं दलं यद् आख्यातं तत्र नन्द-वनं स्मृतम् ॥४३॥
सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् ।
तत्राष्टमं ताल-वनं तत्र धेनु-वधः स्मृतः ॥४४॥
नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् ।
कामारण्यं च दशमं पधानं सर्व-कारणम् ॥४५॥
ब्रह्म-प्रसाधनं तत्र विष्णु-च्छद्म-प्रदर्शनम् ।
कृष्ण-क्रीडा-रस-स्थानं प्रधानं दलम् उच्यते ॥४६॥
दलम् एकादशं प्रोक्तं भक्तानुग्रह-कारणम् ।
निर्माणं सेतु-बन्धस्य नाना-वन-मय-स्थलम् ॥४७॥
भाण्डीरं द्वादश-दलं वनं रम्यं मनोहरम् ।
कृष्णः क्रीडा-रतस् तत्र श्री-दामादिभिर् आवृतः ॥४८॥
त्रयोदशं दलं श्रेष्ठं तत्र भद्र-वरं स्मृतम् ।
चतुर्दश-दलं प्रोक्तं सर्व-सिद्धि-प्रद-स्थलम् ॥४९॥
श्री-वनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् ।
कृष्ण-क्रीडा-दल-मयं श्री-कान्ति-कीर्ति-वर्धनम् ॥५०॥
दलं पञ्चदशं श्रेष्ठं तत्र लोह-वनं स्मृतम् ।
कथितं षोडश-दलं माहात्म्यं कर्णिका-समम् ॥५१॥
महा-वनं तत्र गीतं तत्रास्ति गुह्यम् उत्तमम् ।
बाल-क्रीडा-रतस् तत्र वत्स-पालैः समावृतः ॥५२॥
पूतनादि-वधस् तत्र यमलार्जुन-भञ्जनम् ।
अधिष्ठाता तत्र बाल-गोपालः पञ्चमाब्दिकः ॥५३॥
नाम्ना दामोदरः प्रोक्तः प्रेमानन्द-रसार्णवः ।
दलं प्रसिद्धम् आख्यातं सर्व-श्रेष्ठ-दलोत्तमम् ॥५४॥
कृष्ण-क्रीडा च किञ्जल्की विहार-दलम् उच्यते ।
सिद्ध-प्रधान-किञ्जल्क-दलं च समुदाहृतम् ॥५५॥
पार्वत्य् उवाच -
वृन्दारण्यस्य माहात्म्यं रहस्यं वा किम् अद्भुतम् ।
तद् अहं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥५६॥
ईश्वर उवाच -
कथितं ते प्रियतमे गुह्याद् गुह्योत्तमोत्तमम् ।
रहस्यानां रहस्यं यद् दुर्लभानां च दुर्लभम् ॥५७॥
त्रैलोक्य-गोपितं देवि देवेश्वर-सुपूजितम् ।
ब्रह्मादि-वाञ्छितं स्थानं सुर-सिद्धादि-सेवितम् ॥५८॥
योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैक-तत्-पराः ।
अप्सरोभिश् च गन्धर्वैर् नृत्य-गीत-निरन्तरम् ॥५९॥
श्रीमद्-वृन्दावनं रम्यं पूर्णानन्द-रसाश्रयम् ।
भूरि-चिन्तामणिस् तोयम् अमृतं रस-पूरितम् ॥६०॥
वृक्षं गुरु-द्रुमं तत्र सुरभी-वृन्द-सेवितम् ।
स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्-दशांश-समुद्भवम् ॥६१॥
तत्र कैशोर-वयसं नित्यम् आनन्द-विग्रहम् ।
गति-नाट्यं कलालाप-स्मित-वक्त्रं निरन्तरम् ॥६२॥
शुद्ध-सत्त्वैः प्रेम-पूर्णैर् वैष्णवैस् तद्-वनाश्रितम् ।
पूर्ण-ब्रह्म सुखे मग्नं स्फुरत्-तन्-मूर्ति-तन्-मयम् ॥६३॥
मत्त-कोकिल-भृङ्गाद्यैः कूजत्-कल-मनोहरम् ।
कपोल-शुक-सङ्गीतम् उन्मत्तालि-सहस्रकम् ॥६४॥
भुजङ्ग-शत्रु-नृत्याढ्यं सकलामोद-विभ्रमम् ।
नाना-वर्णैश् च कुसुमैस् तद्-रेणु-परिपूरितम् ॥६५॥
पूर्णेन्दु-नित्याभ्युदयं सूर्यमन्दांशुसेवितम् ।
अदुःखं दुःख-विच्छेदं जरा-मरण-वर्जितम् ॥६६॥
अक्रोधं गत-मात्सर्यम् अभिन्नम् अनहङ्कृतम् ।
पूर्णानन्दामृत-रसम् पूर्ण-प्रेम-सुखार्णवम् ॥६७॥
गुणातीतं महद्-धाम पूर्ण-प्रेम-स्वरूपकम् ।
वृक्षादि-पुलकैर् यत्र प्रेमानन्दाश्रु-वर्षितम् ॥६८॥
किं पुनश् चेतना-युक्तैर् विष्णु-भक्तैः किम् उच्यते ।
गोविन्दाङ्घ्रि-रजः स्पर्शान् नित्यं वृन्दावनं भुवि ॥६९॥
सहस्र-दल-पद्मस्य वृन्दारण्यं वराटकम् ।
यस्य स्पर्शन-मात्रेण पृथ्वी धन्या जगत्-त्रये ॥७०॥
गुह्याद् गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि ।
अक्षरं परमानन्दं गोविन्द-स्थानम् अव्ययम् ॥७१॥
गोविन्द-देहतोऽभिन्नं पूर्ण-ब्रह्म सुखाश्रयम् ।
मुक्तिस् तत्र रजः स्पर्शात् तन्-माहात्म्यं किम् उच्यते ॥७२॥
तस्मात् सर्वात्मना देवि हृदि-स्थं तद् वनं कुरु ।
वृन्दावन-विहारेषु कृष्णं कैशोर-विग्रहम् ॥७३॥
कालिन्दी चाकरोद् यस्य कर्णिकायां प्रदक्षिणाम् ।
लीला-निर्वाण-गम्भीरं जलं सौरभ-मोहनम् ॥७४॥
आनन्दामृत-तन्-मिश्र-मकरन्द-घनालयम् ।
पद्मोत्पलाद्यैः कुसुमैर् नाना-वर्ण-समुज्जवलम् ॥७५॥
चक्रवाकादि-विहगैर् मञ्जु-नाना-कल-स्वनैः ।
शोभमानं जलं रम्यन्तरं गाति-मनोरमम् ॥७६॥
तस्योभय-तटी-रम्या शुद्ध-काञ्चन-निर्मिता ।
गङ्गा-कोटि-गुणा प्रोक्ता यत्र स्पर्श-वराटकः ॥७७॥
कर्णिकायां कोटि-गुणो यत्र क्रीडा-रतो हरिः ।
कालिन्दी-कर्णिका कृष्णम् अभिन्नम् एक-विग्रहम् ॥७८॥
पार्वत्य् उवाच
गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृत-विग्रह ।
तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥७९॥
ईश्वर उवाच
मध्ये वृन्दावने रम्ये-मञ्जु-मञ्जीर-शोभिते ।
योजनाश्रित-सद्-वृक्ष-शाखा-पल्लव-मण्डिते ॥८०॥
तन्-मध्ये मञ्जु-भवने योग-पीठं समुज्जवलम् ।
तद्-अष्ट-कोण-निर्माणं नाना-दीप्ति-मनोहरम् ॥८१॥
तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् ।
तस्मिन् नष्ट-दलं पद्मं कर्णिकायां सुखाश्रयम् ॥८२॥
गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते ।
श्रीमद्-गोविन्द-मन्त्र-स्थ-बल्लवी-वृन्द-सेवितम् ॥८३॥
दिव्य-व्रज-वयो-रूपं कृष्णं वृन्दावनेश्वरम् ।
व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम् ॥८४॥
यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् ।
अनादिम् आदिं सर्वेषां नन्द-गोप-प्रियात्मजम् ॥८५॥
श्रुति-मृग्यम् अजं नित्यं गोपी-जन-मनोहरम् ।
परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥८६॥
बल्लवी-नन्दनं ध्यायेन् निर्गुणस्यैक-कारणम् ।
सुश्रीमन्तं नवं स्वच्छं श्याम-धाम मनोहरम् ॥८७॥
नवीन-नीरद-श्रेणी-सुस्निग्धं मञ्जु-कुण्डलम् ।
फुल्लेन्दीवर-सत्-कान्ति-सुख-स्पर्शं सुखावहम् ॥८८॥
दलितां जन-पुञ्जाभ-चिक्कणं श्याम-मोहनम् ।
सुस्निग्ध-नील-कुटिलाशेष-सौरभ-कुन्तलम् ॥८९॥
तद्-ऊर्ध्वं दक्षिणे काले श्याम-चूडा-मनोहरम् ।
नाना-वर्णोज्ज्वलं राजच्-छिखण्डि-दल-मण्डितम् ॥९०॥
मन्दार-मञ्जु-गो-पुच्छा-चूडं चारु-विभूषणम् ।
क्वचिद् बृहद्-दल-श्रेणी-मुकुटेनाभिमण्डितम् ॥९१॥
अनेक-मणि-माणिक्य-किरीट-भूषणं क्वचित् ।
लोलालक-वृतं राजत्-कोटि-चन्द्र-समाननम् ॥९२॥
कस्तूरी-तिलकं भ्राजन्-मञ्जु-गो-रोचनान्वितम् ।
नीलेन्दीवर-सुस्निग्ध-सुदीर्घ-दल-लोचनम् ॥९३॥
आनृत्यद्-भ्रू-लताश्लेष-स्मितं साचि-निरीक्षणम् ।
सुचारून्नत-सौन्दर्य-नासाग्राति-मनोहरम् ॥९४॥
नासाग्र-गज-मुक्तांशु-मुग्धीकृत-जगत्-त्रयम् ।
सिन्दूरारुण-सुस्निग्धाधरौष्ठ-सुमनोहरम् ॥९५॥
नाना-वर्णोल्लसत्-स्वर्ण-मकराकृति-कुण्डलम् ।
तद्-रश्मि-पुञ्ज-सद्-गण्ड-मुकुराभ-लसद्-द्युतिम् ॥९६॥
कर्णोत्पल-सुमन्दार-मकरोत्तंस-भूषितम् ।
श्री-वत्स-कौस्तुभोरस्कं मुक्ता-हार-स्फुरद्-गलम् ॥९७॥
विलसद्-दिव्य-माणिक्यं मञ्जु-काञ्चन-मिश्रितम् ।
करे कङ्कण-केयूरं किङ्किणी-कटि-शोभितम् ॥९८॥
मञ्जु-मञ्जीर-सौन्दर्य-श्रीमद्-अङ्घ्रि-विराजितम् ।
कर्पूरागुरु-कस्तूरी-विलसच्-चन्दनादिकम् ॥९९॥
गोरोचनादि-सम्मिश्र-दिव्याङ्ग-राग-चित्रितम् ।
स्निग्ध-पीत-पटी-राजत्-प्रपदां दोलितां जनम् ॥१००॥
गम्भीर-नाभि-कमलं रोम-राजी-नत-स्रजम् ।
सुवृत्त-जानु-युगलं पाद-पद्म-मनोहरम् ॥१०१॥
ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रि-तल-शोभितम् ।
नखेन्दु-किरण-श्रेणी-पूर्ण-ब्रह्मैक-कारणम् ॥१०२॥
केचिद् वदन्ति तस्यांशं ब्रह्म चिद्-रूपम् अद्वयम् ।
तद्-दशांशं महा-विष्णुं प्रवदन्ति मनीषिणः ॥१०३॥
योगीन्द्रैः सनकाद्यैश् च तद् एव हृदि चिन्त्यते ।
त्रि-भङ्गं ललिताशेष-निर्माण-सार-निर्मितम् ॥१०४॥
तिर्यग्-ग्रीव-जितानन्त-कोटि-कन्दर्प-सुन्दरम् ।
वामांसार्पित-सद्-गण्ड-स्फुरत्-काञ्चन-कुण्डलम् ॥१०५॥
सहापाङ्गेक्षण-स्मेरं कोटि-मन्मथ-सुन्दरम् ।
कुञ्चिताधर-विन्यस्त-वंशी-मञ्जु-कल-स्वनैः ॥१०६॥
जगत्-त्रयं मोहयन्तं मग्नं प्रेम-सुधार्णवे ।
श्री-पार्वत्य् उवाच -
परमं कारणं कृष्णं गोविन्दाख्यं महत्-पदम् ॥१०७॥
वृन्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् ।
तत् तद् रहस्य-माहात्म्यं किम् आश्चर्यं च सुन्दरम् ॥१०८॥
तद् ब्रूहि देवदेवेश श्रोतुम् इच्छाम्य् अहं प्रभो ।
ईश्वर उवाच -
यद्-अङ्घ्रि-नख-चन्द्रांशु-महिमान्तो न गम्यते ॥१०९॥
तन्-माहात्म्यं कियद् देवि प्रोच्यते त्वं मुदा शृणु ।
अनन्त-कोटि-ब्रह्माण्डे अनन्त-त्रिगुणोच्छ्रये ॥११०॥
तत्-कला-कोटि-कोट्य्-अंशा ब्रह्म-विष्णु-महेश्वराः ।
सृष्टि-स्थित्य्-आदिना युक्तास् तिष्ठन्ति तस्य वैभवाः ॥१११॥
तद्-रूप-कोटि-कोट्य्-अंशाः कलाः कन्दर्प-विग्रहाः ।
जगन्-मोहं प्रकुर्वन्ति तद्-अण्डान्तर-संस्थिताः ॥११२॥
तद्-देह-विलसत्-कान्ति-कोटि-कोट्य्-अंशको विभुः ।
तत्-प्रकाशस्य कोट्य्-अंश-रश्मयो रवि-विग्रहाः ॥११३॥
तस्य स्व-देह-किरणैः परानन्द-रसामृतैः ।
परमामोद-चिद्-रूपैर् निर्गुणस्यैक-कारणैः ॥११४॥
तद्-अंश-कोटि-कोट्य्-अंशा जीवन्ति किरणात्मकाः ।
तद्-अङ्घ्रि-पङ्कज-द्वन्द्व-नख-चन्द्र-मणि-प्रभाः ॥११५॥
आहुः पूर्ण-ब्रह्मणोऽपि कारणं वेद-दुर्गमम् ।
तद्-अंश-सौरभानन्त-कोट्य्-अंशो विश्व-मोहनः ॥११६॥
तत्-स्पर्श-पुष्प-गन्धादि-नाना-सौरभ-सम्भवः ।
तत्-प्रिया प्रकृतिस् त्व् आद्या राधिका कृष्ण-वल्लभा ॥११७॥
तत्-कला-कोटि-कोट्य्-अंशा दुर्गाद्यास् त्रि-गुणात्मिकाः ।
तस्या अङ्घ्रि-रजसः स्पर्शात् कोटि-विष्णुः प्रजायते ॥११८॥
तत्-पाद-पङ्कज-स्पर्शाद् धन्यासि त्वं वरानने ॥
इति पद्म-पुराणे श्री-वृन्दावन-माहात्म्यम् ।
यथा बृहद्-गौतमीये-
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
तथा मात्स्य-स्कान्दाभ्याम्-
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥
[अथ पुरुष-बोधिनी श्रुतिः]
श्री-श्री-राधा-गोविन्दौ जयतः ।
प्रथमः प्रपाठकः
ॐ अथ सुषुप्तौ रामः सुबोधम् आधाय इव किं मे देवि क्वासौ कृष्णः, योऽयं
मम भ्रातेति । तस्य कान्ति-च्छाये ब्रूहीति ।
सा वैष्णव्य् उवाच-राम ! शृणु । भूर् भुवः स्वर् महः जनस् तपः सत्यम् अतलं
वितलं सुतलं रसातलं तलातलं महातलं पातालम् एव पञ्चाशत्-कोटि-योजन-
बहुलं स्वर्णाण्डं ब्रह्माण्डम् इति । अनन्त-कोटि-ब्रह्माण्डानाम् उपरि कारण-
जलोपरि महा-विष्णोर् नित्य-स्थलं वैकुण्ठम् ।
स पृच्छति-कथं शून्य-मण्डले निरालम्बनम् ।
साप्य् उक्ता-पद्मासनासीनः कृष्ण-ध्यान-परायणः शेष-देवोऽस्ति । तस्यानन्त-
रोम-कूपेषु अनन्त-कोटि-ब्रह्माण्डानि अनन्त-कोटि-कारण-जलानि । तस्य
मस्तकोपरि सहस्राश्रमिता फणानि । फणोपरि रुद्र-लोकं शिव-वैकुण्ठम् इति
दश-कोटि-योजन-विस्तीर्णं रुद्र-लोकम् । तद् उपरि विष्णुलोकम्, सप्त-कोटि-योजन-
विस्तीर्णं विष्णु-लोकम् । त्रद्-उपरि सुदर्शन-चक्रं त्रि-कोटि-योजन-विस्तीर्णम्, तद्-
उपरि गोकुलाख्यं मथुरा-मण्डलं सुधा-मय-समुद्रेणावेष्टितम् इति ।
तत्राष्ट-दल-केशर-मध्ये मणिमय-सप्तावरणकं किं रूपं स्थानम्, किं
पद्मं किं यन्त्रः किं सेवकाः किम् आवरणाः इत्य् उक्ते साप्य् उक्ता-गोकुलाख्ये
मथुरा-मण्डले वृन्दावन-मध्ये सहस्र-दल-पद्म-मध्ये कल्प-तरोर् मूले
अष्ट-दल-केशरे गोविन्दोऽपि श्यामः पीताम्बरो द्विभुजो मयूर-पिच्छ-शिरो वेणु-
वेत्र-हस्तो निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते इति ।
द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मी-दुर्गादिका शक्तिर् इति पश्चिमे
सम्मुखे ललिता, वायव्ये श्यामला, उत्तरे श्रीमति, ऐशन्यां हरिप्रिया, पूर्वे
विशाखा, चाग्नौ श्रद्धा, याम्यां पद्मा नैरृत्यां भद्रा । षोडश-दलाग्रे
चन्द्रावली, तद्-वामे चित्ररेखा, तत्-पार्श्वे श्री-शशिरेखा, तत्-पार्श्वे कृष्णप्रिया,
तत्-पार्श्वे कृष्ण-वल्लभा, तत्-पार्श्वे चन्द्रावती, तत्-पार्श्वे मनोहरा, तत्-पार्श्वे
योगानन्दा, तत्-पार्श्वे परानन्दा, तत्-पार्श्वे प्रेमानन्दा चित्र-करा, तत्-पार्श्वे
मदन-सुन्दरी नन्दा, तत्-पार्श्वे सत्यानन्दा, तत्-पार्श्वे चन्द्रा, तत्-पार्श्वे
किशोरीवल्लभा, करुणा, कुशला एवं विविधा गोप्यः कृष्ण-सेवां कुर्वन्तीति वेद-
वचनं भवतीति वेद-वचनं भवति ।
मानस-पूजया जपेन ध्यानेन कीर्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं
प्राप्नोति नान्येनेति नान्येनेति ।
इत्य् अथर्वणीय-पुरुष-बोधिन्यां प्रथमः प्रपाठकः ॥
॥१॥
द्वितीयः प्रपाठकः
साप्य् उक्ता-तस्य बाह्ये शत-दल-पत्रेषु योग-पीठेषु राम-क्रीडानुरक्ता गोप्यस्
तिष्ठन्ति । *** । एतच् चतुर्द्वारं लक्ष-सूर्य-समुज्ज्वलम् । तत्र समाकीऋणः । तत्र
प्रथमावरणे पश्चिमे सम्मुखे स्वर्ण-मण्डपे गोप-कन्या । द्वितीये
श्रीदामादिः । तृतीये किङ्किण्य्-आदिः । चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर् मूले
उषा-सहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्त-वर्णो विष्णुर् इति द्वारपालम्
। एतद् बाह्ये राधा-कुण्डम् । तत्र स्नात्वा राधाङ्गं भवति, ईश्वरस्य दर्शन-
योग्यं भवति । तत्र स्नात्वा नारद ईश्वरस्य नित्य-स्थल-समीप-योग्यो भवति
। राधा-कृष्णयोर् एकासने एक-बुद्धिर् एकं मन एकं ज्ञानम् एक आत्मा एक-
पद्मैकाकृतिर् एकं ब्रह्मतयासनं हेम-मुरलीं वादयन् हेम-स्वरूपाम्
अनुराग-संवलितां कल्प-तरोर् मूले सुरभि-विद्याम् अरक्षित-विमलाश्रुर् इव
परमा सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणातीत-स्नेह-भाव-रहिता । अतएव
द्वयोर् न भेदः काल-माया-गुणातीतं स्यात् ।
तद् एव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्री-वृन्दावन-मध्ये
ऋग्-यजुः-साम-स्वरूपं रूपात्मको म-कारः । यजुर्-आत्मक उ-कारः । श्री-राम-
रसात्मकोऽपि अ-कारः । श्री-कृष्णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः पर-
ब्रह्म-सच्चिदानन्द-राधा-कृष्णयोः परस्पर-सुखाभिलाष-रसास्वादन इव तत्
सच्चिदानन्दामृतं कथ्यते । एतल्-लक्षणं यत् प्रणवं ब्रह्म-विष्णुं
शिवात्मकं स्वेच्छाख्य-ज्ञान-शक्ति-निष्ठं कायिक-वाचिक-मानसिक-भावं
सत्त्व-रजस्-तमः-स्वरूपं सत्य-त्रेता-द्वापरानुगीतं तुरीयं गोकुल-मथुरा-
द्वारकाणां तुरीयम् एव तद् दिव्यं वृन्दावनम् इति पुरैवोक्तं सर्व-
सम्प्रदायानुगतं त्रयम् ।
इत्य् अथर्वणीय-पुरुष-बोधिन्यां द्वितीयः प्रपाठकः ॥
॥२॥
तृतीयः प्रपाठकः
अथानन्तरम्-
भद्र-श्री-लोह-भाण्डीर-महा-ताल-खदिरकाः ।
बहुला-कुमुदा-काम्यं मधु-वृन्दावनानि च ॥
द्वादश-वनानि । कालिन्द्याः पश्चिमे सप्त-वनानि पूर्वे पञ्च-वनानि । उत्तरे तु
गुह्यम् अस्तीति । महा-वनं गोकुलाख्यं मथुरा मधुवनम् इति । खदिरवनं
भाण्डीरवनं नन्दीश्वर-वनं नन्दनानन्द-खण्डेव वनं पलाशाशोक-
वनं केतद्रुम-भद्रवन-शेष-शायि-क्रीडा-वन उत्सव-वनान्य् एतेषु चतुरश्
चतुर्विम्श वनानि नाना-लीलया नित्य-स्थलानि कृष्णः क्रीडति ।
तस्य वसन्त-ऋतु-सेवितं नन्दाद्य्-उपवन-युक्तम् । तत्र दुःखं नास्ति, सुखं
नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधं नास्ति । तत्र पुर्णानन्द-मयः श्री-
कैशोरः कृष्णः शिखण्ड-दल-लम्बित-त्रियुग्म-गुञ्जावतंस-मणिमय-किरीटी-
शिरो गोरोचना-तिलकः कर्णयोर् मकर-कुण्डले वन्य-स्रग्वी मालती-दाम-भूषित-
शरीरः करे कङ्कणः केयूरं कट्यां किङ्किणी-पीताम्बर-धरो गम्भीर-
नाभि-कमलः सुवृत्त-नासा-युगलो ध्वज-वज्रादि-चिह्नित-पाद-पद्मस् तद्-
अंशांशेन कोटि-महा-विष्णुर् इति । एवं-रूपं कृष्ण-चन्द्रं चिन्तयेन् नित्यशः
सुधीर् इति ।
तस्य आद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कार-शोभिता प्रसन्ना अनेक-
लावण्य-सुन्दरी । एवं भूतस्य सिद्धि-महिम्ना सुख-सिन्धुर् अशोनोत्पन्न इति
मानस-पूजया जपेन ध्यानेन कीर्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं
प्राप्नोतीति नान्येनेति नान्येनेति वेद-वचनं भवतीति वेद-वचनं भवतीति वेद-
वचनं भवतीति ।
इत्य् अथर्वणीय-पुरुष-बोधिन्यां तृतीयः प्रपाठकः ॥
॥३॥
चतुर्थः प्रपाठकः
अथ पुरुषोत्तमस्यानिशं तुरीयं साक्षाद् ब्रह्म । यत्र परम-सन्न्यास-
स्वरूपः कृष्ण-न्यग्रोधः कल्प-पादपः । यत्र लक्ष्मीर् जाम्बवती-राधिका-
विमला-चन्द्रावली-सरस्वती-ललितादिभिर् इति साक्षाद् ब्रह्म-स्वरूपो जगन्नाथः ।
अहं सुभद्राशेषांशो ज्योतीरूपः सुदर्शनो भक्तश् च । एवं ब्रह्म पञ्चधा
विभूतिर् यत्र मथुरा-गोकुल-द्वारका-वैकुण्ठ-पुरी-श्वेतद्वीप-पुरी-रामपुरी
। एताः देवतास् तिष्ठन्ति । यत्र सुरसा-पाताल-गङ्गा-श्वेत-गङ्गा-रोहिणी-कुण्डम्
अमृत-कुण्डम् इत्य् आदि नानापुरी । यत्रान्नं सिद्धान्नं ब्रह्म-स्पर्शाद् दोष-
रहितं शूद्रादि-संस्कारापेक्षा-रहितम् । यत्र श्री-जगन्नाथस्य योग्यम् इत्य् अर्थः
। अन्य-वर्णोदीरित-नानाभ्यासी सीदति मन्त्रः । अन्नपात् तेऽन्नस्य इति मन्त्रः ।
अन्नाद्याय व्यूहध्वं सोमो राजाय मगमन् स मे सुखं प्रमायं तेजसा च
बलेन च इत्य् अनेन मन्त्रः । विश्व-कर्मणे स्वाहा इति मन्त्रेशायोज्यो रसोऽमृतं
ब्रह्मे भूर् भुवः स्वर् ॐ । पृथ्वी ते पात्रन्धोऽपिधानं ब्राह्मणस्य मुखे
अमितं अमृतं जुहोमि स्वाहा । इत्य् अनेन मन्त्रेण अन्न-ब्रह्मेति श्रुतिर् इति वैकल्पं
मुक्तिर् उच्यते ।
यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यं मुक्तिः सिद्धा भूर्
बुद्धिर् हि तत्त्वम् इत्य् आदि । यत्र भार्गवी यमुना समुद्रम् अमृत-मयं वासो
वृन्दावनानि नील-पर्वतो गोवर्धनं । सिंहासनं योग-पीठ-प्रासाद-मणि-
मण्डपं विमलादि-षोडश-चण्डिका गोपी । यत्र समुद्र-तीरे निरंशका
माघनोऽष्टेदं । यत्र नृसिंहादयो देवता आवरणानि । यत्र न जरा न मृत्युर्
न कालो न भङ्गो न यमो न विवादो न हिंसा न भ्रान्तिर् न स्वप्न एवं लीला-
काम-भरा स्वविनोदार्थं भक्ताः सोत्कण्ठिताः । अस्यां क्रीडति कृष्णः ।
एको देवो नित्य-लीलानुरक्तो
भक्त-व्यापी भक्त-हृदयान्तरात्मा ।
कर्माध्यक्षः सर्व-भूतादि-वासः
साक्षी चेताः केवलो निर्गुणश् च ॥
मानस-पूजया जपेन ध्यानेन कीर्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं
प्राप्नोतीति नान्येनेति नान्येनेति वेद-वचनं भवतीति वेद-वचनं भवतीति वेद-
वचनं भवतीति ।
इत्य् अथर्वणीय-पुरुष-बोधिन्यां चतुर्थः प्रपाठकः ॥
॥४॥
इति पञ्चम-कक्षा ।
षष्ठ-कक्षा
श्री-राधिकायै नमः
वन्देऽहं श्रील-राधायाः पद-चिन्तामणिं सदा ।
श्री-कीर्तिदा-गर्भ-खनि-प्रादुर्भूतं सुभास्वरम् ॥१॥
श्री-गोविन्द-प्रियतमा वरेयं वृषभानुजा ।
तत् सुखं नित्यम् इच्छन्ती वपुषा वचसा धिया ॥२॥
स यथा गोकुले साक्षाद् व्रजेन्द्र-सुत ईर्यते ।
तस्य कान्ता तथा साक्षाद् वृषभानु-सुता स्मृता ॥३॥
यदा यथेच्छा भवति निज-प्रियतमस्य हि ।
तदा तथैव कुर्वती तेनैव सह दीव्यति ॥४॥
मौन-मुद्रां धृते कृष्णे व्रजेऽस्मिन् प्रकटं गते ।
स्वया तन्-मौद्रया युक्ता तत् पूर्वं प्रकटं गता ॥५॥
अत्रापि श्रूयते काचित् कथा पौरातनी शुभा ।
विप्रो बृहद्-भानु-नामा दाक्षिणात्यः सु-वैष्णवः ॥६॥
ओड्र-देश-निवासी स राधा-नगर-ग्रामके ।
पुं-स्त्री-भावेन तेनेयं कति वर्षाणि सेविता ।
यद् इयं करुणा यस्यास् तत्र किञ्चिन् न दुर्घटम् ॥७॥
श्री-गोविन्द-स्थालावासी श्री-गोपालो दयाम्बुधिः ।
साक्ष्यं दातुं ब्राह्मणस्य स्वपदाभ्यां यतो गतः ॥८॥
अद्यापि राजते ओड्र-देशेऽसौ भक्त-वत्सलः ।
कर्तुं न कर्तुं तत् कर्तुं समर्थो हरिर् ईश्वरः ।
यथा हरिस् तथा सेयं तत्-प्रिया परमेश्वरी ॥९॥
ततः कियद् दिनान्तेऽस्मिन् ब्राह्मणेऽप्रकटं गते ।
तद्-ग्राम-वासिभिर् गूढं सेव्यते वृषभानुजा ॥१०॥
ततः श्री-रूप-गोस्वामि-द्वारास्मिन् वृन्दिका-वने ।
गोविन्दे प्रकटं गते साक्षाद् गोपेन्द्र-नन्दने ॥११॥
श्रीमत्-प्रतापरुद्रस्य पुत्रः परम-सुन्दरः ।
महा-भागवतो धीरः सम्मतं साधु-मण्डलैः ॥१२॥
श्रीमत्-पण्डित-गोस्वामि-शिष्यस् तत्राधिकारवान् ।
तस्मिन्न् आज्ञाभवद् रात्रौ श्री-गोविन्द-प्रिया-मणेः ॥१३॥
मत्-प्राणनाथो गोविन्दः साक्षाच् छ्री-नन्दनन्दनः ।
रूप-द्वारा व्रजे तस्मिन्न् इदानीं प्रकटं गतः ॥१४॥
शीघ्रं यास्यामि तत्राहं नोचितात्र स्थितिर् मम ।
नाम्ना गदाधरः ख्यातो मद्-रूपः पण्डितः सुधीः ॥१५॥
प्रस्थापयतु मां यत्र शिष्य-द्वारा त्वरान्वितः ।
सोऽपि तद्-वचनं श्रुत्वा राजा परम-विस्मितः ॥१६॥
तदानेनैव रूपेण श्रीश्वरी प्रापिता व्रजे ।
राधा-गदाधर-प्रिय-शिष्य-युग्मेन धीमता ॥१७॥
पथि संसेव्य संसेव्य सानीता परमेश्वरी ।
यदा मद्-ईश्वरी राधा गोविन्द-वाम-पार्श्वगा ।
भवेत् तदैवास्य शोभा-विशेषो हि विवर्धते ॥१८॥
अत्र प्रमाणं श्री-गोविन्द-लीलामृते (१३।३२)-
राधा-सङ्गे यदा भाति तदा मदन-मोहनः ।
अन्यथा विश्व-मोहोऽपि स्वयं मदन-मोहितः ॥
श्री-भागवते च तत्रातिशुशुभे ताभिः (१०।३३।६) इति ।
अस्याः सौन्दर्य-माधुर्य-सौशील्यादिकम् एव यत् ।
दर्शनाद् एव ज्ञातव्यं तस्मान् नात्र विलिख्यते ॥१९॥
यथा राधा तथा विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति पाद्मोक्तात् ।
सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल ।
त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा ॥
प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ।
इति बृहद्-गौतमीये श्री-कृष्ण-वचनात् ।
कऋष्णवन् नित्य-सौन्दर्य-वैदग्ध्यादि-गुणाश्रया ।
गोपी-गण-महिषी-गण-लक्ष्मी-गण-प्रकाशिका ॥
सदैव मध्यालक्षणाक्रान्ता, तथा कमलाष्ट-दल-भाग्भिः अर्व-सखी-वर्ग-
मुख्याभिः परमेष्टाभिः श्री-ललिताद्य्-अष्ट-सखीभिः सह विराजमाना श्री-
राधिकैव श्री-वृन्दावनेश्वरी महाराज्ञी, यथा बृहद्-गौतमीये-
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
यथा मात्स्य-स्कान्दाभ्याम्-
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।
श्री-वृन्दावनेश्वरी राधिका । तस्याम् एव पर्मोत्कर्ष-पराकाष्ठाया दर्शितत्वात्
। श्री-प्रीति-सन्दर्भे च-तत् प्रेम-वैशिष्ट्यं तद् एव मुख्यम् इति । प्रेम-
वैशिष्ट्यं यथा श्रीमद्-उज्ज्वले (५।९८)-
कर्तुं शर्म क्षणिकम् अपि मे साध्यम् उज्झत्य् अशेषं
चित्तोत्सङ्गे न भजति मया दत्त-खेदाप्य् असूयाम् ।
श्रुत्वा चान्तर्विदलति मृषाप्य् आर्ति-वार्ता-लवं मे
राधा मूर्धन्य् अखिल-सुदृशां राजते सद्-गुणेन ॥
श्री-भागवते च (१०।३०।२८)-
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । इति ।
यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने ।
सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् ॥ (१०।३०।३६)
तापनीभ्यश् च (२।१२)-
तासां मध्ये गान्धर्वा श्रेष्ठा इति च ।
केवलं यो भजेद् भक्तो माधवं राधिकां विना ।
माधवो नैव तुष्टः स्यात् साधनं तद् वृथा भवेत् ॥ इति ।
एवं दान-केलि-कौमुद्यां (७७)-
नान्दीमुखी: सहि चित्ते सुणाहि इमाए बुन्दाए गदुअ भअबदी बिण्णत्ता “हन्त
जोएसरि, बुन्दाबण-रज्जे अहिसिञ्चज्जौ राही । (सखि चित्रे शृणु अनया वृन्दया गत्वा
भगवती विज्ञप्ता “हन्त योगेश्वरि, वृन्दावन-राज्ये अभिषिच्यतां राधा ।”)
मत्तण्ड-महिसीए भणिदं भअबदि, अणदिक्क-मणिज्जं तुम्ह-सासणं णिच्चिदं
क्खु अम्हेहिं सिरे गहीदम्, किन्तु कहिं महिट्ठा एसा बच्छा राही, कहिं बा
सोलह-कोहमेत्तबित्थिण्णं एदं बुन्दाबण-रज्जं त्ति ण सुट्ठु पसीदै मे हिअअम्
। (ततः कनिष्ठया मार्तण्ड-महिष्या छायया भणितं भगवति
अनतिक्रमणीयं युष्मत्-शासनं निश्चितं खलु अस्माभिः शिरसि गृहीतं किन्तु क्व
महिष्ठा एषा राधा क्व वा षोडश-क्रोश-मात्र-विस्तीर्णम् इदं वृन्दावन-
राज्यम् इति । न सुष्ठु प्रसीदति मे हृदयं । तेन सर्व-ब्रह्माण्डाधिपत्य
एवाभिषिच्यताम् इति भावः ।)
(इति संस्कृतेन) सखि सवर्णे समाकर्णय-
आम्नायाध्वर-तीर्थ-मन्त्र-तपसां स्वर्गाखिल-स्वर्गिणां
सिद्धीनां महतां द्वयोर् अपि तयोश् चिच्छक्ति-वैकुण्ठयोः ।
वीर्यं यत् प्रथते ततोऽपि गहनं श्री-माथुरे मण्डले
दीव्यत् तत्र ततोऽपि तुन्दिलतरं वृन्दावने सुन्दरि ॥
किं च श्री-राधिका-मध्यायाम् एव (उज्ज्वले ५।४२)-
प्रायः सर्व-रसोत्कर्षो मध्यायाम् एव युज्यते ।
यद् अस्यां वर्तते व्यक्ता मौग्ध्य-प्रागल्भ्ययोर् युतिः ॥ इति ।
तथा हि (नरहरि-सरकारस्य राधिकाष्टके, ६)-
भक्तिं न कृष्ण-चरणे न करोमि चार्तिं
राधा-पदाम्बुज-रजः-कण-साहसेन ।
तस्या दृग्-अञ्चल-निपात-विशेष-वेत्ता
दैवाद् अयं मयि करिष्यति दास-बुद्धिम् ॥
पुनः श्री-कृष्ण-सन्दर्भे (२८९) च–वृन्दावने श्री-राधिकायाम् एव स्वयम्-
लक्ष्मीत्वम् । अतएव सतीष्व् अन्यास्व् अपि मुख्याभिप्रायेणैव तस्या एव
वृन्दावनाधिपत्येन नाम-ग्रहणम् ।
तथा श्री-लघु-गणोद्देशे (१३५)-
आभीर-सुभ्रुवां श्रेष्ठा राधा वृन्दावनेश्वरी ।
अस्याः सख्यश् च ललिता-विशाखाद्याः सुविश्रुताः ॥
तथा हि पाद्मे कार्त्तिक-माहात्म्ये (५।७७।३९) ब्रह्म-नारद-संवादे-
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ इति ।
अन्यत्र साधारण-देशे देव्य्-एवाधिकारिणी श्री-वृन्दावनाभिध-वने श्री-
राधिकैवेत्य् अर्थः ।
अथ श्री-ऊर्ध्वाम्नाये-
ईश्वर उवाच-
अथातः सम्प्रवक्ष्यामि राधिकाया मनून् शुभान् ।
येषां विज्ञान-मात्रेण वशीकुर्याद् व्रजाधिपम् ॥१॥
कामो रमा राधिका च णेता पावक-वल्लभा ।
अष्टाक्षरो महा-मन्त्रः सर्वज्ञत्व-प्रदायकः ॥२॥
अगस्त्यो मुनिर् एतस्य छन्दस् तु जगती स्मृतम् ।
देवता सुन्दरी प्रोक्ता राधिका परमेश्वरी ॥३॥
माया-बीजं परा शक्तिः स्वाहा शक्तिर् उदीरिता ।
कीलकं काम-बीजाख्यं षड्-दीर्थ-स्वर-भेदतः ॥४॥
श्री-बीजेन षड्-अङ्गानि कुर्यात् सर्वार्थ-सिद्धये ।
ध्यानम् अस्याः प्रवक्ष्यामि श्री-कृष्ण-प्रीति-कारकम् ॥५॥
अशोक-वन-मध्यस्थां सर्वावयव-सुन्दरीम् ।
गोपीं षोडश-वर्षीयां पीनोन्नत-पयोधराम् ॥६॥
दक्ष-हस्त-समाक्रान्त-कृष्ण-कण्ठावलम्बिनीम् ।
वाम-हस्तेन कमलं भ्रामयन्तीं सुलोचनाम् ॥७॥
नीलाम्बर-परीधानां तडित्-काञ्चन-विग्रहाम् ।
सङ्केत-वट-सुच्छाय-रत्न-वेदी-परिस्थिताम् ॥८॥
रहस्य-चेटिका-युग्म-पृष्ठ-देशानुसेविताम् ।
मिथश् चुम्बनम् आलाप-परीरम्भ-परायणाम् ॥९॥
सम्पूर्ण-चन्द्र-साहस्र-वदनां रुचिर-स्मिताम् ।
एवंविधां महेशानि भावयेद् वृषभानुजाम् ॥१०॥
शुक्ला-चतुर्दशीतः कृष्णाष्टमी-पर्यन्तं लक्ष-जप-विधिर् दश-दिवस-प्रयोगः
।
लक्ष-मात्रं जपेन् मन्त्रं शुभे देशे सुसंयुतः ।
राधा-कुण्डेऽथ सङ्केते श्रीमद्-गोवर्धनाचले ॥११॥
किं वा मानस-गङ्गायां यमुनायास् तटेऽथवा ।
वृन्दावने महा-कुञ्जे माधवी-मण्डपान्तरे ॥१२॥
वैशाखे कार्त्तिके वापि मासे चैवाग्रहायणे ।
सर्व एव शुभः कालः पुरश्चर्या-जपादिषु ॥१३॥
चम्पकै रक्त-पदमैर् वा दशांशं जुहूयात् ततः ।
यथोक्त-विहिते कुण्डे त्रि-मध्व्-आक्तैर् महेश्वरि ॥१४॥
बिल्वी-दलैः किंशुकैर् वा शर्करातिल-सर्पिषा ।
तत्-तत्-कामेन होतव्यं तैस् तैर् द्रव्यैर् विधानतः ॥१५॥
राज्य-कामेन होतव्यं पद्माक्षैः पायसेन च ।
विद्या-कामेन होतव्यं ब्रह्म-वृक्ष-प्रसूनकैः ॥१६॥
लक्ष्मी-कामेन होतव्यं विशेषात् तिल-सर्पिषा ।
स्तम्भनार्थी च जुहुयात् किंशुकैश् चम्पकैस् तथा ॥१७॥
वश्यार्थी जुहुयाद् देवि द्राक्षया सितया पुनः ।
उच्चाटे केतकी-पत्रैः सर्वत्र तिल-सर्पिषा ॥१८॥
भूति-कामेन होतव्यं मधुना सर्पिषा तथा ।
एवं सिद्ध-मनुर् मन्त्री साधयेत् सकलेप्सिताम् ॥१९॥
विशेषाद् अमुना नूनं कृष्ण-वश्यत्वम् आप्नुयात् ।
यो न जानाति राधाया मन्त्रं सर्वार्थ-साधकम् ॥२०॥
तस्य कोटि-प्रजप्तोऽपि गोपालो नात्र सिद्धिदः ।
तस्माद् यथोक्त-विधिना साधयेद् वृषभानुजाम् ॥२१॥
[राधिकाष्टोत्तर-शत-नाम-स्तोत्रम्]
अथैव सम्प्रवक्ष्यामि नाम्नाम् अष्टोत्तरं शतम् ।
यस्य सङ्कीर्तनाद् एव श्री-कृष्णं वशयेद् ध्रुवम् ॥१॥
राधिका सुन्दरी गोपी कृष्ण-सङ्गम-कारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥
वीणा-पाणिः स्मितमुखी रक्ताशोक-लतालया ।
गोवर्धन-चरी गोप्या गोपी-वेश-मनोहरा ॥३॥
चन्द्रावली-सपत्नी च दर्पणास्या कलावती ।
कृपावती उप्रतीका तरुणी हृदयङ्गमी ॥४॥
कृष्ण-प्रिया कृष्ण-सखी विपरीत-रति-प्रिया ।
प्रवीणा सुरत-प्रीता चन्द्रास्या चारु-विग्रहा ॥५॥
केकराक्षी हरेः कान्ता महा-लक्ष्मीः सुकेलिनी ।
सङ्केत-वट-संस्थाना कमनीया च कामिनी ॥६॥
वृषभानु-सुता राधा किशोरी ललिता-लता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्ध-वेशिनी ॥७॥
केशिनी केशव-सखी नवनीतैक-विक्रया ।
षोडशाब्दा कला-पूर्णा जारिणी जार-सङ्घिनी ॥८॥
हर्षिणी वर्षिणी वीरा धीराधीरा धराधृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥
वृषभानु-पुरावासा मान-लीला-विशारदा ।
दान-लीला-दान-दात्री दण्ड-हस्ता भ्रुवोन्नता ॥१०॥
सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चम-स्वरा ।
सङ्गीत-कुशला सेव्या कृष्ण-वश्यत्व-कारिणी ॥११॥
तारिणी हारिणी हीर्ला शीला-लीला-ललामिका ।
गोपाली दधि-विक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥
स्वाधीनपतिका चोक्ता खण्डिता चाभिसारिका ।
रसिका रसिनी रस्या रस-शास्त्रैक-शेवधिः ॥१३॥
पालिका लालिका लज्जा लालसा ललना-मणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥
मराल-गमना मत्ता मन्त्रिणी मन्त्र-नायिका ।
मन्त्र-राजैक-संसेव्या मन्त्र-राजैक-सिद्धिदा ॥१५॥
अष्टादशाक्षर-फला अष्टाक्षर-निषेविता ।
इत्य् एतद् राधिका देव्या नाम्नाम् अष्टोत्तरं शतम् ॥१६॥
कीर्तयेत् प्रातर् उत्थाय कृष्ण-वश्यत्व-सिद्धये ।
एकैक-नामोच्चारेण वशीभवति केशवः ॥१७॥
वदने चैव कण्ठे च बाह्वोर् उरसि चोदरे ।
पादयोश् च क्रमेणार्णान् न्यसेन् मन्त्रोद्भवान् पृथक् ॥
क्लीं श्रीं राधिकायै स्वाहा । अस्य श्री-राधिका-मन्त्रस्यागस्त्य-ऋषिर् जगती
छन्दः । श्री-राधिका परमेश्वरी देवता क्लीं बीजं स्वाहा शक्तिः क्लीं श्रीं
कीलकं श्री-कृष्णवश्यर्थ-जपे विनियोगः । अगस्त्य-ऋषये नमः (शिरसि) । जगती-
छन्दसे नमः (मुखे) । राधिका-देवतायै नमः (हृदये) । क्लीं बीजाय नमः
(गुह्ये) । श्रीं स्वाहा-शक्तये नमः (पादयोः) । क्लीं श्रीं कीलकाय नमः
(सर्वाङ्गेभ्यः) । क्लीं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । क्लीं
मध्यमाभ्यां नमः । क्लीं अनामिकाभ्यां नमः । क्लीं कनिष्ठाभ्यां
नमः । क्लीं श्री-राधिकायै स्वाहा कर-तल-पृष्ठाभ्यां नमः । क्लीं हृदयाय
नमः । श्रीं शिरसे स्वाहा । राधिकायै स्वाहा शिखायै वषट् । क्लीं कवचाय हूं
। श्रीं राधिकायै स्वाहा अस्त्राय फट् ।
ध्यात्वा जपेत् । लक्ष-मात्रं पुरश्चरणम् । कलौ चतुर्-लक्षं जप्त्वा च
कुशलीभवेत् ।
श्रीं राधिकायै विद्महे क्लीं वृषभानुजायै धीमहि तन् नो गोपी प्रचोदयात् ।
प्रिया गायत्र्या ब्रह्मा ऋषिर् गायत्री छन्दः श्री-राधिका देवता श्री-कृष्ण-प्रीतये
जपे विनियोगः । श्री-श्री-राधिकायै विद्महे अङ्गुष्ठाभ्यां नमः । क्लीं
वृषभानुजायै धीमहि तर्जनीभ्यां स्वाहा । तन् नो गोपी प्रचोदयात्
मध्यमाभ्यां वषट् । श्रीं राधिकायै विद्महे अनामिकाभ्यां हुं । क्लीं
वृषभानुजायै धीमहि कनिष्ठाभ्यां वषट् । तन् नो गोपी प्रचोदयात् कर-तल-
कर-पृष्ठाभ्यां फट् । एवं हृदयादिष्व् अपि ।
अथ ध्यानम् ।
सूर्य-मण्डल-मध्यस्थां ल्केहनी-पुस्तिकान्विताम् ।
श्री-कृष्ण-सहितां ध्यायेत् त्रि-सन्ध्यं राधिकेश्वरीम् ॥
अथाष्टादशाक्षर-महाराज-मन्त्र-प्रयोगः । ॐ अस्य श्री-अष्टादशाक्षर-श्री-
राधिका-मन्त्रस्य सम्मोहन-ऋषिर् अनुष्टुप्-छन्दः श्री-राधा देवता स्वाहा
शक्तिः क्लीं कीलकं श्री-कृष्ण-प्रीत्य्-अर्थे जपे विनियोगः । सम्मोहन-ऋषये नमः
(शिरसि) । अनुष्टुप्-छन्दसे नमः (मुखे) । श्री-राधा देवतायै नमः
(हृदये) । रां राधिके कवचाय हुं । कृष्ण-वल्लभे शिखायै वषट् । गायत्री
सर्वाङ्गे । श्री-राधिकायै विद्महे कृष्ण-वल्लभायै धीमहि तन् नो गोपी
प्रचोदयात् ।
अथ अङ्ग-न्यासः । श्रीं अङ्गुष्ठाभ्यां नमः । राधिकायै तर्जनीभ्यां नमः
। विद्महे मध्यमाभ्यां नमः । कृष्ण-वल्लभायै अनामिकाभ्यां नमः ।
धीमहि कनिष्ठाभ्यां नमः । तन् नो गोपी प्रचोदयात् कर-तल-कर-
पृष्ठिकाभ्यां नमः । श्रीं हृदयाय नमः । राधिकायै शिरसे स्वाहा । विद्महे
कवचाय हूं । कृष्ण-वल्लभायै धीमहि नेत्र-त्रयाय वौषट् । तन् नो गोपी
प्रचोदयात् अस्त्राय फट् ।
अथ ध्यानम्-
तप्त-हेम-प्रभां नील-कुञ्चिताबद्ध-मौलिकाम् ।
शरच्-चन्द्र-मुखीं नृत्यच् चकोरी-चारु-लोचनाम् ॥
सर्वावयव-सौन्दर्यां सर्वाभरण-भूषिताम् ।
नीलाम्बर-धरां कृष्ण-प्रियां किशोरीम् आश्रये ॥
ह्रीं श्रीं क्लीं रां राधिकायै कृष्ण-वल्लभायै गोप्यै स्वाहा । जप-नियमं
लक्ष-मात्रम् । पुरश्चरणं कलौ चतुर्गुणम् । साक्षात्काराय भवेद् इत्य् अर्थः
। माया-बीजम् अन्तरङ्गा-बहिरङ्गा-चिच्-छक्ति-स्वरूपम् । लक्ष्मी-बीजं पर-
ब्रह्मानन्द-सर्व-लक्ष्मी-सर्व-शक्ति-स्वरूपम् । काम-बीजं साक्षान्-मन्मथ-
मन्मथ-लीला-विलास-श्री-कृष्ण-स्वरूपम् । र-कारः शुक्ल-भास्कर-रूपः । आ-
कारः समस्तैश्वर्य-रूपः । बिन्दुः समस्त-माधुर्य-रूपः । कला समस्त-
संयोग-रूपः । तत्र-
कलाया नित्य-संयोगो बिन्दुर् माधुर्यम् इष्यते ।
नारायणोन् निजैश्वर्यं र-कारः शुक्ल-भास्करः ॥
किं च, प्राणायम-विधिः-एकेनापूरयेद् वामे चतुर्भिः । कुम्भयेद् अथ । ईडादि-
क्रमतो मन्त्री ततो द्वाभ्यां विरेचयेत् ।
अथ श्री-राधिकायाः प्रियतम-श्री-पञ्चाक्षरी-मन्त्र-विधानं पूर्ववत् ।
अथ श्री-गोपेश्वरी-साधनम्
अथास्याः साधनं वक्ष्ये गोपेश्वर्या विशेषतः ।
राकायां पूर्ण-चन्द्रे तु सायम् आरभ्य यत्नतः ॥१॥
नित्य-कृत्यं निर्वर्त्य जप-होमादिकं तथा ।
ततो मध्य-दिवं गते शीत-भानौ सुमण्डले ॥२॥
अधः संरोपयेत् पात्रं विशालं राजतादिकम् ।
तन्-मध्ये पूरयेत् तोयं यामुनं गाङ्गम् एव वा ॥३॥
द्विर्-आवृत्त्या मातृकया आरोहाद् अवरोहतः ।
अथवा पुष्करादौ च विमले तीर्थ-वारिणि ॥४॥
प्रपश्येत् सुमना भूत्वा सम्पूर्णं चन्द्र-मण्डलम् ।
बिम्बितं सुस्थिरीभूतं पीठ-बुद्ध्या विभावयेत् ॥५॥
दिग्-बन्धं विधिना कृत्वा विघ्नान् उत्सारयेत् सुधीः ।
पीठ-न्यासं ततः कुर्यात् सम्पूर्णे चन्द्र-मण्डले ॥६॥[*एन्द्नोते #११]
प्रकृतिं चैव कूर्मं च सुधा-सिन्धु-महोहरम् ।
मणि-दीपं तथा दिव्यं चिन्ता-मणि-गृहं तथा ॥७॥
पारिजातं तस्य मूले रत्न-वेदी सुविस्तराम् ।
रत्न-पीठं चतुर्दिक्षु गोप-कन्याः स्व्-अलङ्कृताः ॥८॥
कुरङ्ग-शावकांश् चापि रत्न-दण्डान् मनोहरान् ।
धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं चांसकोरुषु ॥९॥
अधर्मादीन् न्यसेद् वक्त्रे वाम-पार्श्वे च नाभितः ।
दक्ष-पार्श्वे तथा दिव्य-गोपी-र्”पान् विचिन्त्य च ॥१०॥
आनन्द-मय-कन्दं च नालं चैतन्य-रूपकम् ।
सर्वात्मकं तथा पाद्मं पर्णान् प्रकृति-रूपिणः ॥११॥
केशरांश् च विचाराख्यान् कर्णिकां मातृका-मयीम् ।
वह्न्य्-अर्क-चन्द्र-बिम्बानि उपर्य् उपरि विन्यसेत् ॥१२॥
सत्त्वं रजस् तमश् चैव नैर्गुण्याञ्चापि विन्यसेत् ।
आत्मानम् अन्तरात्मानं परमात्मानम् एव च ॥१३॥
लक्ष्मी-रति-सरस्वत्यः प्रीतिः कीर्तिश् च शान्तिका ।
तुष्टिः पुष्टिस् तथा चैता विन्यसेत् पीठ-मध्यतः ॥१४॥
मध्ये च विन्यसेच् छ्रीमद् वृषभानु-पुरालयम् ।
तत्र सङ्केत-कुञ्जान्तर् दिव्याशोक-लता वने ॥१५॥
भावयेन् नील-वसनां सर्वावयव-शोभिताम् ।
सर्वाभरण-शोभाढ्यां सहितां नन्द-सूनुना ॥१६॥
सामान्यार्धं ततः कृत्वा शुद्धेन तीर्थ-वारिणा ।
पाद्यार्घ्याचमनीयं च मधुपर्कातिषेचने ॥१७॥
मूल-मन्त्रेण संस्थाप्य विक्षेपार्घ्यं विधापयेत् ।
सीतोपल-जलेनापि पक्वेन पयसाथवा ॥१८॥
तन्-मध्ये निक्षिपेज् जाती-लवङ्ग-घुसृणादिकम् ।
एला-बीजानि कर्पूरं मूलेनैवाभिमन्त्रयेत् ॥१९॥
आधारे भोजने क्षीरे वह्न्य्-अर्क-शशि-मण्डलम् ।
पूजयित्वा चन्दनाद्यैस् तत आवाहयेत् प्रियाम् ॥२०॥
तुलसी-पुष्प-संयुक्त-पुष्पाञ्जलिम् उपाददत् ।
वहन् नासापुटां तेजो-रूपां श्री-वृषभानुजाम् ॥२१॥
आनीय पूजा-पीठान्तः पूजयेद् उपचारकैः ।
पाद्यादिं तु ततस् तत्-तन्-मुद्रयाप्य् आययेत्तराम् ॥२२॥
विशेषार्घ्य-स्थ-सुधया मूल-मन्त्रेण सप्तधा ।
गन्ध-पुष्पं तथा धूपं दीपं नविएद्य-भाजनम् ॥२३॥
कल्पयेत् परया भक्त्या तथा श्री-नन्द-सूनवे ।
अष्टादशार्ण-मन्त्रेण उपचारान् पृथक् पृथक् ॥२४॥
कीर्तिं च वृष्भानुं च यशोदां नन्दम् एव च ।
अन्याश् च मातृका गोपीस् तयोः पृष्ठे प्रपूजयेत् ॥२५॥
सङ्केतं पूजयेद् भक्त्या वृषभानुपुरं तथा ।
वरसानुं प्रपूज्याथ नन्दी-शैलं प्रपूजयेत् ॥२६॥
नन्द-ग्रामं च सम्पूज्य अशोक-वन-वल्लरीम् ।
पीयूष-वापिकां पूज्य पूजेत् मान-सरोवरम् ॥२७॥
ततो भानुसर इष्ट्वा पूजयेत् पुष्प-वाटिकाम् ।
राधायाः परितः पश्चात् पूजयेद् अष्ट ताः सखीः ॥२८॥
राधा कृष्णा च ललिता विशाखा चञ्चला तथा ।
चित्रा मित्रा च मुदिता इत्य् एताः पूजयेत् क्रमात् ॥२९॥
तद्-बाह्ये पूजयेद् गोपीं विशालां सुभगां तथा ।
रङ्गविद्यां रङ्गदेवीं गान्धर्वीं गायिकां तथा ॥३०॥
सुन्दरीं सुभगां शोभां पौर्णमासीं च चन्द्रिकाम् ।
वीरां वृन्दां च विदितां वन्दितां नन्दितां तथा ॥३१॥
तद्-बाह्ये पूजयेद् यत्नाद् गोपिकाः सर्व-सौख्यदाः ।
चन्द्रा चन्द्रप्रभा काम्या माधुरी मधुरा प्रिया ॥३२॥
प्रेयसी प्रेषिता प्रेष्या मोदिनी श्यामलामला ।
श्यामा कामा रमा रामा रमणी रत्न-मञ्जरी ॥३३॥
शृङ्गार-मञ्जरी शीला रत्नशाला रसा रुषाः ।
रङ्गिणी मानिनी मन्या धीरा धन्या धरा धृतिः ॥३४॥
भामा सुवर्ण-वल्ली च इत्य् एताः क्रमशो यजेत् ।
तद्-बाह्ये चम्पकलता-मालती-मल्लि-कारुणाः ॥३५॥
अशोक-ललिता लोला मीनाक्षी मदनामतिः ।
सुमतिः सुप्रतीका च सुखदा कलिका कला ॥३६॥
कादम्बिनी किशोरी च युग्मिका युगला युगा ।
वल्लभा वल्लिका वेला वेल्लिनी रत्न-वल्लरी ॥३७॥
कमला कोमला कुल्या कल्याणी वलयावला ।
धर्मा सुधर्मा सानन्दा सुनन्दा-सुमुखा-मुखाः ॥३८॥
सुश्रीः सुरूपा कुमुदा कौमुदी-सुस्मितामिताः ।
कोकिला कोकिलालापा भावनी सुप्रभा प्रभा ॥३९॥
मदनेशी मालिल्का च कनका कनकावती ।
नीला ललामा ललना माधवी मधु-विभ्रमा ॥४०॥
वासन्तिका च सुनसा प्रेमा प्रेमवती परा ।
शृङ्गारिणी शृङ्गनी च सुकचा मण्डनावली ॥४१॥
चतुःषष्ठि रमाः पूज्या विशेषार्घ्य-सुधा-युतैः ।
गन्धैः पुष्पैस् तथा धूपैर् दीपैर् नैवेद्यकैः पृथक् ॥४२॥
तद्-बाह्ये पूजयेद् भूरि श्रीमद्-वृन्दावनं महत् ।
गोवर्धनं रत्न-शैलं हेम-शैलं सुधाचलम् ॥४३॥
इन्द्रादीन् पूजयेत् पश्चाद् उत्तरोत्तरतः सुधीः ।
एवं पूजा-विधिं कृत्वा कुर्याद् आरात्रिकं महत् ॥४४॥
आत्मार्पणं ततः कृत्वा संहार-मुद्रया मुहुः ।
राधिकां नन्द-सूनुं च निजे हृदि विसर्जयेत् ॥४५॥
निजेष्ट-मन्त्र-जप-पूजया अर्ध-रात्रि-पर्यन्तं विधानम् ।
इति श्री-ऊर्ध्वाम्नाये महा-तन्त्रे श्रीमद्-गोपेश्वरी-विधानं समाप्तम् ।
अथ सम्मोहन-तन्त्रे पञ्च-बाणेश्वरी-विधानम् ।
वृषभानु-सुता सैव पञ्च-बाणेश्वरी स्वयम् ।
सङ्क्षोभणं द्रावणं च तथैवाकर्षणं प्रिये ॥१॥
वशीकरणम् एवापि उन्मादनम् अनुत्तमम् ।
एते पञ्च महा-बाणा नन्द-सूनोर् मनः स्पृशः ॥२॥
राधिकायाः कटाक्षेपे मन्मथस्य व्यवस्थितेः ।
अत्रीश-वह्नि-पाशैश् च सङ्क्षोभणम् उदाहृतम् ॥३॥
तद् एव वाम-नेत्राढ्यं द्रावणं नाम कीर्तनम् ।
आकर्षणं काम-बीजं वशीकरणम् उच्यते ॥४॥
प-वर्ग-तृतीयं पृथ्वी वाम-कर्णे सुभूषिताः ।
भृगुः सर्गी महेशानि उन्मादनम् उदाहृतम् ॥५॥
ॐ नमो राधिकायै च गोपेश्वर्यै शुचि-प्रिया ।
अष्टादशाक्षरो मन्त्रः सर्व-सिद्धि-प्रदायकः ॥६॥
दुर्वासा ऋषिर् एतस्य छन्दोऽनुष्टुप् प्रकीर्तितम् ।
प्रणवो बीजम् एतस्य स्वाहा शक्तिर् उदाहृता ।
ध्यान-पूजादिकं चास्य पूर्ववत् परिकीर्तितम् ॥७॥
अतिसित-वसनां विशाल-नेत्रां
विविध-विलास-परां प्रियेण साकम् ।
सुविपुल-मणि-पीठगां किशोरीं
हृदि वृषभानु-सुतां स्मरेत नित्यम् ॥८॥
खण्ड-त्रयेण मन्त्रस्य द्विर्-आवृत्त्या षड्-अङ्गकम् ।
इमां विद्यां समासाद्य व्यासाद्या ऋषि-पुङ्गवाः ॥९॥
ब्रह्माद्या देवताश् चापि इन्द्राद्याश् च दिग्-ईश्वराः ।
नारायणस् तथैवाहं लक्ष्मीः शेषस् तथा स्मरः ॥१०॥
अन्ये च सकला देवाः सकलैश्वर्यम् आप्नुवन् ।
तन्त्रेषु गोपिता पूर्वं मया तुभ्यं प्रकाशिता ॥११॥
न देया यस्य कस्यापि पुत्रेभ्योऽभिप्रगोपयेत् ।
देया विप्राय भक्ताय साधवे शुद्ध-चेतसे ॥१२॥
अलोलुपाय पुण्याय भक्ति-श्रद्धापराय च ।
अन्यथा सिद्धि-हानिः स्यात् तस्माद् यत्नेन गोपयेत् ॥१३॥
पाण्डित्यं सुकवित्वं च रणे वादे जयं तथा ।
वशीकारं विभूतिं च स्वर्गं चैवापवर्गकम् ।
अनायासेन देवेशि प्राप्नुवन्ति न संशयः ॥१५॥
तथा हि-
सङ्क्षोभ-द्रावणाकर्ष-वश्योन्मादन-रूपिणः ।
आम्ब्रं जम्बु च बकुलं चम्पकाशोक-पादपाः ॥१६॥
पुष्पवति वसन्ते च-इति बीजं प्रतिक्राम्य र-युतं तथा मूल-मन्त्र-लक्ष-जपेन
सिद्धिः स्यात् ।
इति सम्मोहन-तन्त्रे पञ्च-बाणेश्वरी-श्री-राधिका-मन्त्र-कथनम् ।
[ऊर्ध्वाम्नाय-तन्त्रे पञ्चाक्षरी-साधनम्]
अथाहं सम्प्रवक्ष्यामि राधां पञ्चाक्षरात्मिकाम् ।
यस्या विज्ञान-मात्रेण श्री-कृष्णं वशयेन् नरः ॥१॥
रमा-बीजं समुच्चार्य राधिके परम् उच्चरेत्
रसान्ता राधिका विद्या भक्तानां चिन्तितार्थदा ॥२॥
सनकोऽस्य ऋषिः प्रोक्तो जगती च्छन्द ईरितम् ।
श्री-राधा देवता प्रोक्ता विनियोगोऽखिलाप्तये ॥३॥
द्विर् आवृत्त्या तु मन्त्रस्य षड्-अङ्ग-न्यासम् आचरेत् ।
ध्यायेत् पद्मकरां गौरीं क्षीर-सागर-तीरगाम् ॥४॥
कृष्ण-कण्ठार्पित-करां स्मयमान-मुखाम्बुजाम् ।
मूर्ध्नि लोचनयोर् आस्ये हृदये च प्रविन्यसेत् ॥५॥
एकैक-क्रमतो वर्णान् पञ्चाक्षरम् अनूद्भवान् ।
मूलाधारे रमां न्यसेत् स्वाधिष्ठाने च राम् इति ॥६॥
मणिपूरे तृतीयं च न्यसेत् तूर्यम् अनाहते ।
विशुद्धे च रमां न्यस्येद् आज्ञायां सर्व-मन्त्रकम् ॥७॥
त्रि-कोणं बिन्दु-संयुक्तम्म् अष्ट-कोणं ततो लिखेत् ।
ततो भूपुरम् आलिख्य पीठ-पूजां समाचरेत् ॥८॥
बिन्दौ प्रपूजयेत् साक्षाद् वृषभानु-सुतां पराम् ।
त्रिकोणे पूजयेच् छ्यामां विशाखां ललिताम् अपि ॥९॥
कर्पूर-मञ्जरीं रूप-मञ्जरीं रस-मञ्जरीम् ।
लवङ्ग-मञ्जरीं प्रेम-मञ्जरीं रङ्ग-मञ्जरीम् ॥१०॥
आनन्द-मञ्जरीं चैव तथैव रति-मञ्जरीम् ।
अष्ट-कोणे समापूज्य भूपुरे च दिग्-ईश्वरान् ॥११॥
सिद्धाष्टक-समायुक्तांस् ततः पुष्पाञ्जलिं क्षिपेत् ।
एवं कृत्वार्चनं मन्त्री जपेद् अयुत-मात्रकम् ॥१२॥
यथोक्त-विहिते मन्त्रे पञ्च-वर्ण-प्रपूरिते ।
दीप-रजं तु संस्थाप्य सौरभेय-घृतान्वितम् ॥१३॥
दशभिः सूत्रकैर् वर्ति संयोज्याखण्ड-रूपिणीम् ।
सौवर्णं राजतं वापि ताम्रं कांस्य-मयं तथा ॥१४॥
अभावे मार्तिकं वापि दिव्यं दीपं प्रकल्पयेत् ।
साधारं स्थापयेद् यन्त्रं कूर्चिकां चापि तन्-मयीम् ॥१५॥
कन्या-कर्तित-सूत्रेण व्रतिकां परिकल्पयेत् ।
यावत् पञ्च-दिनं कुर्याद् एवं विधिम् अनुत्तमम् ॥१६॥
सर्वान् मनो-गतान् कामान् अवाप्नोति न संशयः ।
सङ्ग्रामे विषये चैव विवादेऽर्थ-साधने ॥१७॥
अमूं प्रयोगम् आचर्य सद्यः सिद्धिम् अवाप्नुयात् ।
अन्येष्व् अपि च कार्येषु कुर्याद् एवं विधिं नरः ॥१८॥
लं रं मं क्षं वं यं सं हं ह्रीं श्रीं एक-वर्णम् ।
लं इन्द्राय देवाधिपतये सायुधाय स-वाहनाय स-शक्तिकाय स-परिवाराय श्री-
राधिका-पार्षदाय नमः । इन्द्र-पादुकां पूजयामि नमस् तर्पयामि नमः ।
इत्य् ऊर्ध्वाम्नाये पञ्चाक्षरी-साधनं समाप्तम् ।
तत्र प्राणायामः-
आदाव् ऋषादि-न्यासः स्यात् कर-शुद्धिस् ततः परम् ।
अङ्गुलि-व्यापक-न्यासो हृद्-आदि-न्यास एव च ॥
ताल-त्रयं च दिग्-बन्धः प्राणायामस् ततः परम् ।
ध्यान-पूजा जपश् चैव सर्व-तन्त्रेष्व् अयं विधिः ॥
प्राणायामः-दक्षिण-नासा-पुटं निरुध्य वामनासा-पुटेन चतुर्वारं पूरके,
षोडश-वारं कुम्भके, द्वयं नासा-पुटं निरुध्याष्ट-वारं दक्ष-नासया
वायुं रेचयेत् ।
अथ सङ्कल्प-विधिः - श्री-विष्णुर् विष्णुर् नमोऽद्य अमुक-मासि अमुक-तिथौ
अमुक-गोत्रोऽमुक-दासः श्री-राधिका-देवता अमुक-मन्त्र-सिद्धि-कामोऽमुक-
पुरश्चरण-जपम् अहं करिष्ये । अस्य श्री-राधिका-पञ्चाक्षरी-मन्त्रस्य सनक-
ऋषिः जगती-च्छन्दः श्री-राधा देवता अखिलाप्तये विनियोगः । श्रीं
अङ्गुष्टाभ्यां नमः । रां तर्जनीभ्यां नमः । धीं मध्यमाभ्यां नमः
। कें अनामिकाभ्यां नमः । श्रीं कनिष्ठाभ्यां नमः । श्री-राधिके श्री-कर-
तल-कर-पृष्ठाभ्यां नमः । श्रीं हृदयाय नमः । रां शिरसे स्वाहा । धिं
शिखायै वषट् । कें कवचाय हूं । श्रीं नेत्र-त्रयाय वौषट् । श्रीं राधिके श्रीं
अत्राय फट् । इति षड्-अङ्ग-न्यासः ।
श्रीं मूर्ध्नि । रां दक्ष-नेत्रे । धिं वाम-नेत्रे । कें मुखे । श्रीं हृदये । इति
वर्ण-न्यासः ।
श्रीं चतुर्दल-मूलाधारे । वं शं षं सं । रां षड्-दले स्वाधिष्ठाने कं भं
मं यं रं लं । धिं दश-दले मणि-पूरे । डं ढं णं तं थं दं धं नं
पं फं । कें द्वादश-दले अनाहते । कं खं गं घं ङं चं छं जं झं
ञं टं ठं । श्रीं षोडश-दले विशुद्धे । अं आं इं ईं उं ऊं ऋं ॠं ं ं एं ऐं
ॐ औं अं अः । श्री-राधिके श्री-राधिके श्री-द्विदले । लक्षं । आज्ञायाम् इति षट्-
चक्रात्मक-तन्-न्यासः ।
ध्यानम्-
ध्यायेत् पद्म-करां गौरीं क्षीर-सागर-नीरगाम् ।
कृष्ण-कण्ठार्पित-करां स्मयमान-मुखाम्बुजाम् ॥ इति ध्यानम् ।
इति पूर्वं कृत्वा गुरु-मन्त्र-देवतानाम् ऐक्यं विभाव्य मन्त्र-जपं कुर्यात् ।
कृतैतत्-तन्-मन्त्र-जपस्य अमुक-सङ्ख्यात्मकस्य दशांश-होमं तद्-दशांशं
तर्पणं तद्-दशांशं मार्जनम् । तद्-दशांशम् अभिषेकम् । तद्-दशांशं
ब्राह्मण-भोजन-दानम् अहं करिष्ये । गन्धाक्षत-कुशोदकम् आदाय सर्व-
न्यास-जालं विधाय श्री-राधिका-देव्या वाम-हस्ते —
गुह्यातिगुह्य-गोप्त्री तं गृहाणास्मत् कृतं जपम् ।
सिद्धिर् भवतु मे देवि प्रसीद श्री-रमेश्वरी ॥
इति मन्त्रेण जपादि-दान-फलं समर्पयेत् ।
अथ दीप-दान-प्रयोगम् आह-
शिव उवाच-
शृणु देवि प्रवक्ष्यामि दीप-दान-विधिं शुभम् ।
यस्मिन् कृते भवेत् सिद्धिः पञ्चाक्षर-मनोर् ध्रुवम् ॥१॥
नययोन्यात्मकं चक्रं मध्ये बिन्दु-विभूषितम् ।
तद्-अग्रे विलिखेत् पद्मम् अष्ट-पत्रं मनोहरम् ॥२॥
धरणी-वलयोपेतं विदिक्ष्व् अस्र-विभूषितम् ।
ललितायै नमः प्रोच्य मण्डलेशीं प्रपूजयेत् ॥३॥ (४-७)
आवाहनं स्थापनं च सन्निधापनम् एव च ।
सन्निरोधनम् एवापि चक्र-देव्याः प्रकल्पयेत् ॥८॥
तत्-तन्-मुद्राभिर् आचर्य पुष्पाञ्जलिं विनिक्षिपेत् ।
अथ दीपं समानीय सौवर्णं राजतं तथा ॥९॥
ताम्रं कांस्यम् अयं चापि मृन्-मयं शुभ-लक्षणम् ।
पञ्च-तोल-मितं वश्ये आकर्षे दश-तोलकम् ॥१०॥
मोहने पञ्च-दशभिर् मारणे विंश-तोलकम् ।
पञ्च-विंशति-तोलैस् तु सर्व-कार्ये शुभावहम् ॥११॥
धर्मार्थ-काम-मोक्षेषु सङ्ग्रामे जय-वादयोः ।
कार्य-गौरवम् आलक्ष्य त्रिंशत्-तोलादि-मानकम् ॥१२॥
अस्त्र-मन्त्रेण सङ्क्षाल्य धूपयेन् मूल-मन्त्रतः ।
पूजयेद् गन्ध-पुष्पाद्यैर् मूलेनैवाभिमन्त्रयेत् ॥१३॥
सुरभी-घृत-धाराभिः पूरयेन् मूल-मन्त्रतः ।
उग्र-कार्ये महेशानि तैलेनापि प्रपूरयेत् ॥१४॥
सुगन्धिभिः प्रसूनाद्यैर् यथावद् उपकल्पयेत् ।
षोडशाङ्गुल-मानेन कुञ्चिकां तत्र धारयेत् ॥१५॥
यद्-द्रव्येण कृतो दीपः सापि तद्-द्रव्य-निर्मिता ।
दीपान्तरं विधायाथ षट्-कोण-मण्डलोपरि ॥१६॥
हृदयादिकम् अस्त्रान्तं पूजयेत् तत्र मण्डले ।
प्रदीपे पूजयेत् तस्मिन् स्वयं ज्योतिः सनातनम् ॥१७॥
सनातनाय स्वयं ज्योतिषे नम इत्य् अञ्जलिं क्षिपेत् ।
भूतले ज्वालयेद् दीपं पूजयेद् उपचारकैः ।
गन्धादिभिः षोडशभिस् ततो दीपं प्रदीपयेत् ॥१८॥
वाम-दक्ष-क्रमाद् दीप-वर्तिकां युगलात्मिकाम् ।
अखण्डाम् एव तां कुर्याद् यावत् पञ्च-दिनावधि ॥१९॥
वन-कार्पास-तूलोत्थां विशदां दृढ-विग्रहाम् ।
कन्या-कर्तित-सूत्रेण आखण्डेन्ह बलीयसा ॥२०॥
वामां पञ्चदशैः सूत्रैर् दक्षिणां षोडशैर् अपि ।
सर्व-कार्यं प्रसिद्ध्य्-अर्थं कर्तव्यैव तु वर्तिका ॥२१॥
वश्येऽष्टादशभिः सूत्रैर् दक्षिणा वर्तिका भवेत् ।
वामा चैकोनविंशैस् तैर् आकर्षे विंश-तारकैः ॥२२॥
दक्षिणैकाधिकैर् वामा मोहने चैकविंशकैः ।
दक्षिणैकाधिका वामा मारणे च द्वाविंशकैः ॥२३॥
दक्षिणैकाधिकैर् वामा इत्थं सर्वत्र कल्पयेत् ।
अत्याहिते गुरौ कार्ये वर्तिकां पञ्चविंशकैः ॥२४॥
त्रिंशैश् चत्वारिंश-सङ्ख्यैः पञ्चाशद्भिः शतावधि ।
कृत-मात्रे दीप-राजे सर्वं कार्यं प्रजायते ॥२५॥
यद् यद् हृदि स्थितं वापि नालभ्यं भुवन-त्रये ।
राधा-कृष्ण-वशीकारं तत्-क्षणात् कुरुते जनः ॥२६॥
अन्ते च महतीं पूजां कृत्वा दीपं विसर्जयेत् ।
पुत्रार्थी पुत्रम् आप्नोति धनार्थी लभते धनम् ॥२७॥ इत्य् आदि ।
अथ युगल-दीप-दान-प्रयोगम् आह-
श्री-सनत्-कुमार उवाच-
दीप-दान-विधिं ब्रह्मन् ब्रूहि विस्तरतो मम ।
यस्यानुष्ठान-मात्रेण राधा-कृष्णौ प्रसीदतः ॥१॥
ब्रह्मोवाच-
शृणु वत्स प्रवक्ष्यामि दीप-दानं विशेषतः ।
राधा-कृष्ण-प्रसादैक-साधनं नात्र संशयः ॥२॥
कार्त्तिके मार्गशीर्षे वा पौषे वा माघ-मासके ।
वैशाखे वा प्रकर्तव्यं नित्य-स्नान-पुरः सरम् ॥३॥
विशुद्धं स्थानम् आश्रित्य सिद्ध-क्षेत्रं मनोहरम् ।
नन्द-ग्रामं च सङ्केतं वर-सानुं गिरिं तथा ॥४॥
गोवर्धनं च विमलं यमुना-तीरम् अद्भुतम् ।
एषाम् अन्यतमं स्थानं समाश्रित्य विधिर् भवेत् ॥५॥
पूर्वाह्ने कृत-नित्यादिः सङ्कल्प्य विधिवन् नरः ।
मण्डलं विपुलं कुर्याद् दीप-दानोचितं मुने ॥६॥
बिन्दुं चतुरस्र-युतं ततोऽष्टारं प्रकल्प्य च ।
षोडशास्त्रं विधायाथ सर-द्वात्रिंशकं कुरु ॥७॥
चतुषष्ठि-मितास्रं च मण्डलं विपुलं कुरु ।
भू-बिम्बं च प्रविन्यस्य पञ्च-वर्णैर् विधानतः ॥८॥
तन्-मध्ये स्थापयेद् दीपं षोडशार्णेन वत्सक ।
सौवर्णं राजतं चैव युगात्मानं विधापयेत् ॥९॥
मार्तिकं चेद् विधातव्यं वरसानु-पुरोत्थया ।
नन्दग्रामोत्थया चैव मुदा दीपं प्रकल्पयेत् ॥१०॥
द्विधातु-सम्भवं दीपं धातु-जन्यं प्रकल्पयेत् ।
तत्राज्य-धारां सुरभी-द्वयोत्थां परिपातयेत् ॥११॥
कृष्णायाश् चैव शुक्लाया धेनोर् आज्यं निधापयेत् ।
अभिमन्त्र्यैव मूलेन क्रम-व्युत्क्रम-संस्थया ॥१२॥
कृत्वा मातृकया चाज्यं वर्तिकां तत्र विन्यसेत् ।
ग्रामोत्थं च तुलं वर्णौ कार्यारम्भे प्रकल्पयेत् ॥१३॥
स्थापयित्वा घृते सम्यक् कर्षणीं तत्र तन्-मयीम् ।
एवं दीपं विनिर्वर्त्य यन्त्र-राजं प्रपूजयेत् ॥१४॥
अष्टादशार्ण-मन्त्रेण नन्द-सूनुं प्रपूजयेत् ।
षोडशार्णेन विधिवद् राधिकां परिपूजयेत् ॥१५॥
सर्वावरण-पूजान्ते पुष्पाञ्जलिं प्रविन्यसेत् ।
अतह्वा मूर्ति-रूपेण राधा-कृष्णौ प्रपूजयेत् ॥१६॥
ततः प्रकाशयेद् दीपं दीपान्तर-विधानतः ।
युगलं दीप-मध्यस्थं पूजयेत् स्व-स्व-मन्त्रतः ॥१७॥
चतुरस्रेऽर्चयेन् नित्यं ललितां च विशाखिकाम् ।
राधां चैवानुराधां च विधिवद् गन्ध-पुष्पकैः ॥१८॥
गोपाली पालिका चैव ध्यान-निष्ठा तथैव च ।
सोमाभा तारका चैव शैव्या पद्मा च भद्रिका ॥१९॥
अष्टास्रे पूजयेद् अष्टौ विधिवद् गन्ध-पुष्पकैः ।
योनिमुद्रां ततो वध्वा प्रणमेत् सादरं मुने ॥२०॥
षोडशास्रेऽर्चयेच् छ्यामां माधवीं कमलां तथा ।
कलां चन्द्रकलां चन्द्रां तथा चपलतां पुनः ॥२१॥
प्रमोदां पद्मिनीं पूर्णां परमां सुभगां शुभाम् ।
चपलां विपुलां वामां क्रमतो गन्ध-पुष्पकैः ॥२२॥
द्वात्रिंशास्रेऽर्चयेद् वेणीं वशिनीं सुप्रभां प्रभाम् ।
मालिनीं शालिनीं शालां विशालां कनक-प्रभाम् ॥२३॥
मण्डिनीं मण्डला-मुख्यां ज्येष्ठां श्रेष्ठां च भामिनीम् ।
त्वरितां प्रारिजातेशीं सुकलां सुरसां रसाम् ॥२४॥
वेशिनीं केशिनीं केशां सुकेशां मञ्जघोषिणीम् ।
शुभावतीं कान्तिमतीं कान्तां भानुमतीं मुदाम् ॥२५॥
वसुधां वसुधामां च क्रमतो गन्ध-पुष्पकैः ।
चतुःषष्ठि-मितास्रे च पद्धी-पुष्टां च पोषिणीम् ॥२६॥
कञ्ज-प्रभां कञ्ज-हस्तां वर्षिणीं हर्षिणीं हराम् ।
हारिणीं कारिणीं धारां धारिणीं चित्र-लेपिनीम् ॥२७॥
ललामां लुलितां लोभदां च सुलोचनाम् ।
रोचिनीं सुरुचिं शोभां शुभ्रां शोभावतीं सभाम् ॥२८॥
रोहितां लोहितां लीलां शीलां चैव सशीलिकाम् ।
पत्रिणीं पल्लवाभासां विशुद्धां विशदां बलाम् ॥२९॥
सुदतीं सुमुखीं व्योमां सोमां सामां त्वरातुराम् ।
रत्नावलीं रत्ननिभां रत्नधामां दयावतीम् ॥३०॥
प्रभावतीं प्रेमगां च क्षेमां क्षेमावतीं क्षमाम् ।
मञ्जरीं खञ्जरीटां च लक्षणां च सुलक्षणाम् ॥३१॥
कामां कामवतीं वीणां हीनां वीणाकरां तलाम् ।
त्रियुगां शोणचरणां चारिणीं चारुदन्तिनीम् ॥३२॥
विचित्रभाषिणीं चैव क्रमतः परिपूजयेत् ।
गन्धैः पुष्पैस् तथा दूपैर् दीपैर् नैवेद्यकैस् तथा ॥३३॥
भू-बिम्बे पूजयेद् गोप-बालकान् क्रमतोऽष्ट च ।
सुबलं च सुबाहुं श्रीदामं श्री-मधुमङ्गलम् ।
माधवं चित्रलेखं च शारदं च विभावसुम् ॥३४॥
ततः प्रपूजयेच् चित्रां प्रथ्मावरणेश्वरीम् ।
द्वितीयावरणे वृन्दां वीरां च परिपूजयेत् ॥३५॥
तृतीयावरण्शीं च पौर्णमासीं प्रपूजयेत् ।
चतुर्थावरणे पालीं श्रीमद्-गान्धर्विका-सखीम् ॥३६॥
पञ्चमावरणेशीं च श्यामलां परिपूजयेत् ।
षष्ठावरण-राज्ञीं च पद्मा-देवीं प्रपूजयेत् ॥३७॥
सप्तमावरणेशीं च श्रीमज्-ज्योत्स्नावतीं शुभाम् ।
दीपस्य दक्ष-भागे तु नन्दं चैव यशोदिकां ॥३८॥
वामे सम्पूजयेत् कीर्तिं वृषभानुं च गोपकम् ।
मण्डलं परिपूज्याथ पुष्पाञ्जलिं परिक्षिपेत् ॥३९॥
दीपं पञ्च-दिनं वापि कुर्याद् दश-दिनं तथा ।
पक्षं वा रक्षयेद् दीपं मासं वापि मुनीश्वर ॥४०॥
ततो विसर्जयेद् दीपं कृत-नित्य-क्रियो बुधः ।
सम्पूज्य दीप-राजं तु पुष्पाञ्जलिम् उपक्षिपेत् ॥४१॥
यमुनादौ शुभे नीरे दीपराजं प्रवाहयेत् ।
एवं कृत्वा विधिं सद्यः सर्वान् कामान् अवाप्नुयात् ॥४२॥
साक्षात् करोति युगलं दीपराज-प्रभावतः ।
पूजनाद् एव दीपस्य नासाध्यं विद्यते क्वचित् ॥४३॥
इति सनत्-कुमार-संहितायां युगल-दीप-दान-विधिः ।
पञ्चम-पटलः ।
पञ्च-बाणैः पुटीकृत्य यो जपेद् राधिका-मनुम् ।
तस्य सर्वार्थ-सिद्धिः स्यात् कृष्णं पश्यति तत्-क्षणात् ॥
ह्रीं ह्रीं क्लीं ब्रूं सः कृष्ण-प्रिये ह्रां ह्रीं क्लीं स्वाहा । इति षोडशाक्षरो
मन्त्रः । चतुःषष्ठि-यन्त्र-दीप-दान-प्रयोगम् आह ।
अथ स्तवः ।
[श्री राधा-कृपा-कटाक्ष-स्तव-राजः]
मुनीन्द्र-वृन्द-वन्दिते त्रि-लोक-शोक-हारिणी
प्रसन्न-वक्त्र-पण्कजे निकुञ्ज-भू-विलासिनि
व्रजेन्द्र-भानु-नन्दिनि व्रजेन्द्र-सूनु-सङ्गते
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥१॥
अशोक-वृक्ष-वल्लरी-वितान-मण्डप-स्थिते
प्रवाल-वाल-पल्लव प्रभा रुणाङ्घ्रि-कोमले
वराभय-स्फुरत्-करे प्रभूत-सम्पदालये
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥२॥
अनङ्ग-रण्ग मङ्गल-प्रसङ्ग-भङ्गुर-भ्रुवां
सविभ्रमं-ससम्भ्रमं दृगन्त-बाण-पातनै
निरन्तरं वशी-कृत-प्रतीति-नन्द-नन्दने
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥३॥
तडित्-सुवर्ण-चम्पक-प्रदीप्त-गौर-विग्रहे
मुख-प्रभा-परास्त-कोटि-शारदेन्दु-मण्डले
विचित्र-चित्र-सञ्चरच्-चकोर-शाव-लोचने
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥४॥
मदोन्मदाति-यौवने प्रमोद-मान-मण्डिते
प्रियानुराग-रञ्जिते कला-विलास-पण्डिते
अनन्य-धन्य-कुञ्ज-राज्य-काम केलि-कोविदे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥५॥
अशेष-हाव-भाव-धीर-हीर-हार-भूषिते
प्रभूत-शात-कुम्भ-कुम्भ-कुम्भि कुम्भ-सुस्तनि
प्रशस्त-मन्द-हास्य-चूर्ण-पूर्ण-सौख्य-सागरे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥६॥
मृणाल-वाल-वल्लरी तरङ्ग-रङ्ग-दोर्-लते
लताग्र-लास्य-लोल-नील-लोचनावलोकने
ललल्-लुलन्-मिलन्-मनोज्ञ मुग्ध-मोहनाश्रिते
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥७॥
सुवर्ण-मालिकाञ्चित-त्रि-रेख-कम्बु-कण्ठगे
त्रि-सूत्र-मङ्गली-गुण-त्रि-रत्न-दीप्ति-दीधिति
सलोल-नील-कुन्तल प्रसून-गुच्छ-गुम्फिते
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥८॥
नितम्ब-बिम्ब-लम्बमान-पुष्प-मेखला-गुणे
प्रशस्त-रत्न-किङ्किणी-कलाप-मध्य मञ्जुले
करीन्द्र-शुण्ड-दण्डिका-वरोह-सौभगोरुके
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥९॥
अनेक-मन्त्र-नाद-मञ्जु-नूपुरा-रव-स्खलत्
समाज-राज-हंस-वंश-निक्वणाति-गौरवे
विलोल-हेम-वल्लरी-विडम्बि-चारु-चङ्क्रमे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥१०॥
अनन्त-कोटि-विष्णु-लोक-नम्र-पद्मजार्चिते
हिमाद्रिजा-पुलोमजा-विरिञ्चजा-वर-प्रदे
अपार-सिद्धि-ऋद्धि-दिग्ध-सत्-पदाङ्गुली-नखे
कदा करिष्यसीह मां कृपा-कटाक्ष-भाजनम् ॥११॥
मखेश्वरि! क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेद-भारतीश्वरि प्रमाण-शासनेश्वरि
रमेश्वरि! क्षमेश्वरि प्रमोद काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्री राधिके नमोऽस्तु ते ॥१२॥
इती मम् अद्भुतं-स्तवं निशम्य भानु-नन्दिनी
करोतु सन्ततं जनं कृपा-कटाक्ष-भाजनम्
भवेत् तदैव-सञ्चित-त्रि-रूप-कर्म-नाशनं
भवेत् तदा-व्रजेन्द्र-सूनु-मण्डल-प्रवेशनम् ॥१३॥
राकायां च सिताष्टम्यां दशम्यां च विशुद्ध-धीः ।
एकादश्यां त्रयोदश्यां यः पठेत् स स्वयं शिवः ॥१४॥
यं यं कामयते कामं तं तम् आप्नोति साधकः ।
राधा-कृपा-कटाक्षेण भुक्त्वान्ते मोक्षम् आप्नुयात् ॥१५॥
ऊरु-दघ्ने नाभि-दघ्ने हृद्-दघ्ने कण्ट-दघ्नके ।
राधा-कुण्ड-जले स्थिता यः पठेत् साधकः शतम् ॥१६॥
तस्य सर्वार्थ-सिद्धिः स्याद् वाक्-सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद् दृशा पश्यति राधिकाम् ॥१७॥
तेन स तत्-क्षणाद् एव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत्-प्रियं श्यामसुन्दरम् ॥१८॥
नित्य-लीला-प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥
इति श्रीमद्-ऊर्ध्वाम्नाये श्री-राधिकायाः कृपा-कटाक्ष-स्तोत्रं सम्पूर्णम् ।
अथ सम्मोहन-तन्त्रोक्तं त्रैलोक्य-विक्रम-कवचं लिख्यते-
श्री-पार्वत्य् उवाच-
यद् गोपितं त्वया पूर्वं तन्त्रादौ यामलादिषु ।
त्रैलोक्य-विक्रमं नाम राधा-कवचम् अद्भुतम् ॥१॥
तन् मह्यं ब्रूहि देवेश यद्य् अहं तव वल्लभा ।
सर्व-सिद्धि-प्रदं साक्षात् साधकाभीष्ट-दायकम् ॥२॥
श्री-महादेव उवाच-
शृणु प्रिये प्रवक्ष्यामि कवचं देव-दुर्लभम् ।
यच् च कस्मैचिद् आख्यातुं गोपितं भुवन-त्रये ॥३॥
यस्य प्रसादतो देवि सर्व-सिद्धीश्वरोऽस्म्य् अहम् ।
वागीशश् च हयग्रीवो देवर्षिश् चैव नारदः ॥४॥
यस्य प्रसादतो विष्णुस् त्रैलोक्य-स्थिति-कारकः ।
ब्रह्मा यस्य प्रसादेन त्रैलोक्यं रचयेत् क्षणात् ॥५॥
अहं संहार-सामर्थ्यं प्राप्तवान् नात्र संशयः ।
त्रैलोक्य-विक्रमं नाम कवचं मन्त्र-विग्रहम् ॥६॥
तच् छृणु त्वं महेशानि भक्ति-श्रद्धा-समन्विता ।
त्रैलोक्य-विक्रमस्यास्य कवचस्य ऋषिर् हरिः ॥७॥
छन्दोऽनुष्टुप् देवता च राधिका वृषभानुजा ।
श्री-कृष्ण-प्रीति-सिद्ध्य्-अर्थं विनियोगः प्रकीर्तितः ॥८॥
राधिका पातु मे शीर्षं वृषभानु-सुता शिखाम् ।
भालं पातु सदा गोपी नेत्रे गोविन्द-वल्लभा ॥९॥
नासां रक्षतु घोषेशी व्रजेशी पातु कर्णयोः ।
गण्डौ पातु रति-क्रीडा ओष्ठौ रक्षतु गोपिका ॥१०॥
दन्तान् रक्षतु गान्धर्वी जिह्वां रक्षतु भामिनी ।
ग्रीवां कीर्तिसुता पातु मुख-वृत्तं हरिप्रिया ॥११॥
बाहू मे पातु गोपेशी पादौ मे गोप-सुन्दरी ।
दक्ष-पार्श्वं सदा पातु कुञ्जेशी राधिकेश्वरी ॥१२॥
वाम-पार्श्वं सदा पातु रासकेलिविनोदिनी ।
सङ्केतस्था पातु पृष्ठं नाभिं वन-विहारिणी ॥१३॥
उदरं नव-तारुण्या वक्षो मे व्रज-सुन्दरी ।
अंस-द्वयं सदा पातु परकीय-रस-प्रदा ॥१४॥
ककुदं पातु गोपाली सर्वाङ्गं गोकुलेश्वरी ।
चन्द्रानना पातु गुह्यं राधा सर्वाङ्ग-सुन्दरी ॥१५॥
मूलाधारं सदा पातु श्रीं क्लीं सौभाग्य-वर्धिनी ।
ऐं क्लीं श्री-राधिके स्वाहा स्वाधिष्ठानं सदावतु ॥१६॥
क्लां क्लीं नमो राधिकायै मणिपूरं सदावतु ।
लक्ष्मी माया स्मरो राधा पातु चित्तम् अनाहतम् ॥१७॥
क्लां क्लीं कामकला राधा विशुद्धं सर्वदावतु ।
आज्ञां रक्षतु राधा मे हंसः क्लीं वह्नि-वल्लभा ॥१८॥
ॐ नमो राधिकायै स्वाहा सहस्रारं सदावतु ।
अष्टादशाक्षरी राधा सर्व-देशे तु पातु माम् ॥१९॥
नवार्णा पातु माम् ऊर्ध्वं दशार्णावतु संसदि ।
एकादशाक्षरी पातु द्यूते वाद-विवादयोः ॥२०॥
सर्व-काले सर्वदेशे द्वादशार्णा सदावतु ।
पञ्चाक्षरी राधिकेशी वासरे पातु सर्वदा ॥२१॥
अष्टाक्षरी च राधा मां रात्रौ रक्षतु सर्वदा ।
पूर्णा पञ्चदशी राधा पातु मां व्रज-मण्डले ॥२२॥
इत्य् एवं राधिकायास् ते कवदं कीर्तितं मया ।
गोपनीयं प्रयत्नेन स्व-योनिर् इव पार्वति ॥२३॥
न देयं यस्य कस्यापि महा-सिद्धि-प्रदायकम् ।
अभक्तायापि पुत्राय दत्त्वा मृत्युं लभेन् नरः ॥२४॥
नातः परतरं दिव्यं कवचं भुवि विद्यते ।
पठित्वा कवचं पश्चाद् युगलं पूजयेन् नरः ॥२५॥
पुष्पाञ्जलिं ततो दत्त्वा राधा-सायुज्यम् आप्नुयात् ।
अष्टोत्तर-शतं चास्य पुरश्चर्या प्रकीर्तिता ॥२६॥
अष्टोत्तर-शतं जप्त्वा साक्षाद् देवो भवेत् स्वयम् ।
कृष्ण-प्रेमाणम् अप्य् आशु दुर्लभं लभते ध्रुवम् ॥२७॥
इति श्री-सम्मोहन-तन्त्रे श्री-राधायास् त्रैलोक्य-विक्रमं नाम कवचं
सम्पूर्णम् ।
श्री-राधा-गोविन्दौ जयतः
तथा हि-
गोविन्द-सहितां भूरि-हाव-भाव-परायणाम् ।
योग-पीठेश्वरीं राधां प्रणमामि निरन्तरम् ॥
अथ चरण-ध्यानम्-(ग्ल ११।५१)
शङ्खार्धेन्दु-यवाब्ज-कुञ्जर-रथैः सीराङ्कुशेषु-ध्वजैश्
चाप-स्वस्तिक-मत्स्य-तोमर-मुखैः सल्-लक्षणैर् अङ्कितम् ।
लाक्षा-वर्मित-माहवोपकरणैर् एभिर् विजित्याखिलं
श्री-राधा-चरण-द्वयं सुकटकं साम्राज्य-लक्ष्म्या बभौ ॥
अथ कर-चिह्नम् -(ग्ल ११।६६)
भृङ्गाराम्भोज-माला-व्यजन-शशिकला-कुण्डल-च्छत्र-यूपैः
शङ्ख-श्री-वृक्ष-वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैः ।
सौभाग्याङ्कैर् अमीभिर् युत-कर-युगला राधिका राजतेऽसौ
मन्ये तत्-तन्-मिषात् स्व-प्रिय-परिचरणस्योपचारान् बिभर्ति ॥
अथ मद-हास्यम्-(ग्ल ११।८८)
हरेर् गुणाली-वर-कल्प-वल्ल्यो
राधा-हृदारामम् अनु प्रफुल्लाः ।
लसन्ति या याः कुसुमानि तासां
स्मित-च्छलात् किन्तु बहिः स्खलन्ति ॥
अथ शृङ्गारः-(उन् ४।९)
स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी
सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता ।
ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥
अथ आभरणम्-(उन् ४।१०)
दिव्यश् चूडा-मणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि-
निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च ।
हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-क् प्तास्
तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥
अन्यच् च- (विम् १।१०)
सोऽयम् वसन्त-समयः यस्मिन्
पुर्णं तम् इश्वरम् उपोढ-नवानुरागम् ।
गुढ-ग्रहा रुचिरया सह राधयासौ
रङ्गाय सङ्गमयिता निशि पौर्णमासि ॥
किं च-(उन् १५।४)
पूर्व-रागस् तथा मानः प्रेम-वैचित्त्यम् इत्य् अपि ।
प्रवासश् चेति कथितो विप्रलम्भश् चतुर्-विधः ॥
(१५।१९१)-
जातान् सङ्क्षिप्त-सङ्कीर्ण-सम्पन्न-र्द्धिमतो विदुः ॥
तत्र सङ्क्षिप्तः (१५।१९२)-
युवानौ यत्र सङ्क्षिप्तान् साध्वस-व्रीडितादिभिः ।
उपचारान् निषेवेते स सङ्क्षिप्त इतीरितः ॥
अथ सङ्कीर्णः (१५।१९५)-
यत्र सङ्कीर्यमाणाः स्युर् व्यलीक-स्मरणादिभिः ।
उपचाराः स सङ्कीर्णः किञ्चित् तप्तेक्षु-पेशलः ॥
अथ सम्पन्नः (१५।१९८)-
प्रवासात् सङ्गते कान्ते भोगः सम्पन्न ईरितः ।
द्विधा स्याद् आगतिः प्रादुर्भावश् चेति स सङ्गमः ॥
अथ समृद्धिमान् (१५।२०६)-
दुर्लभालोकयोर् यूनोः पारतन्त्र्याद् वियुक्तयोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥
यथा-
वन्दे श्री-राधिकादीनां भाव-काष्ठाम् अहं पराम् ।
विना वियोगं संयोगं या तूर्यम् उदगाद् यतः ॥
तत्र श्री-भागवते (१०।३१।१५)-
अटति यद् भवान् अह्नि काननं
त्रुटिर् युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥
इति श्रीमद्-राधा-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामी-चरणानुजीवि-
श्री-राधा-कृष्ण-दासोदीरिता भक्ति-साधन-दीपिकायां षष्ठ-कक्षा ।
॥६॥
(७)
सप्तम-कक्षा
अथ-
श्री-राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेषाद्य्-अगम्या
या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या ।
यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता इत्य् आदेः श्री-
कृष्ण-लीलायां श्री-राधाया अनुगत्वे श्रीमद्-राधा-गोविन्द-चरण-सेवनं
सर्वोत्कृष्टम् । तत् तु मधुर-रसं विना न सम्भवति । ततो मधुर-रसस्य
श्रेष्ठत्वम् । यथा भक्ति-रसामृत-सिन्धौ (२।५।३८)-
यथोत्तरम् असौ स्वाद-विशेषोल्लासमय्य् अपि ।
रतिर् वासनया स्वाद्वी भासते कापि कस्यचित् ॥
श्रीमद्-उज्ज्वल-नीलमणौ (१।२) च-
मुख्य-रसेषु पुरा यः सङ्क्षेपेणोदितो रहस्यत्वात् ।
पृथग् एव भक्ति-रस-राट् स विस्तरेणोच्यते मधुरः ॥
इति हेतोर् गौर-लीलायाम् अपि तथैव श्री-राधा-गदाधरस्यैवानुगत्ये श्री-गौर-
गोविन्दस्य भजनं सर्वोत्कृष्टम् ।
ननु श्री-गदाधरस्य राधात्वे श्री-गौरस्य गोविन्दत्वे किं प्रमाणम् इति चेत्
तत्राह-यथा स्वयं भगवतः श्री-कृष्णस्य पर-ब्रह्मत्वम्, गूढं परं
ब्रह्म मनुष्य-लिङ्गम् इत्य् आदेः, ततोऽपि गूढतरं शचीनन्दनस्य, ततो
गूढतमं प्रेयसीनाम् । परम-शक्तित्वं पार्षदानाम्, तथा श्री-शचीनन्दनस्य
श्री-कृष्णत्वे आर्ष-प्रमाणानि बहूनि सन्ति । यथा-कृष्ण-वर्णं त्विषाकृष्णं
साङ्गोपाङ्गास्त्र-पार्षदम्, श्री-भागवते सप्तम-स्कन्धे (७।९।७८)-
इत्थं नृ-तिर्यग्-ऋषि-देव-झषावतारैर्
लोकान् विभावयसि हंसि जगत् प्रतीपान् ।
धर्मं महा-पुरुष पासि युगानुवृत्तं
छन्नः कलौ यद् अभवस् त्रि-युगोऽथ स त्वम् ॥
कलौ प्रथम-सन्धायां लक्ष्मीकान्तो भविष्यति । तथा, सुवर्ण-वर्ण-हेमाङ्गो
वराङ्गश् चन्दनाङ्गदी । तथा, सन्न्यास-कृच् छमः शान्तो निष्ठा-शान्ति-
परायणः इति तु सङ्क्षेपतो लिखितम् । विशेषतस् तु स्मरण-मङ्गल-दश-श्लोकी-
भाष्ये विवृतम् अस्ति इत्य् आदीनि ।
प्रेयसीनां परम-शक्तित्वम् अतीव-गूढत्वात् मुनिना तत्र तत्र नोक्तं आप्तैः
खलु स्वान्तरङ्गान् प्रति तद्-द्वारातिधन्यान् प्रति कृपया प्रकटितम् एव । तद्
यथा प्राकृत-संस्कृतेषु च । तत्र श्री-कर्णपूर-गोस्वामिनो श्री-गौर-गणोद्देशे
(१४७)-
श्री राधा प्रेम-रूपा या पुरा वृन्दावनेश्वरी ।
सा श्री-गदाधरो गौर-वल्लभः पण्डिताख्यकः ॥
तस्यैव तस्यैव श्री-चैतन्य-चन्द्रोदय-नाटके (३।४४)-
इयम् एव ललितैव राधिकाली
न खलु गदाधर एष भूसुरेन्द्रः ।
हरिर् अयम् अथवा स्वयैव शक्त्या
त्रितयम् अभूत् स्व-सखी च राधिका च ॥
तत्रैव गणोद्देशे (१५२)-
ध्रुवानन्द-ब्रह्मचारी ललितेत्य् अपरे जगुः ।
स्व-प्रकाश-विभेदेन समीचीनं मतं तु तत् ॥
अथवा भगवान् गौरः स्वेच्छयागात्रि-रूपताम् ।
अतः श्री-राधिका-रूपः श्री-गदाधर-पण्डितः ॥
श्री-चैतन्य-चरितामृते (१।१।४१)-
गदाधर पण्डितादि प्रभुर निज शक्ति ।
ताङ् सबार चरणे मोर सहस्र प्रणति ॥
पुनस् तत्रैव (१।१२।९०)-
पण्डित गोसाञिर गण भागवत धन्य ।
प्राण-वल्लभ याङ्र श्री-क-चैतन्य ॥ इत्य् आदि ।
यद् उक्तं (१।१०।१५)-
तेङ्हो लक्ष्मी-रूपा ताङ्र सम केहो नाञि ॥
तत् तु मूल-लक्ष्म्य्-अभिप्रायेण, यथा बृहद्-गौतमीये-
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इति ।
श्री-ब्रह्म-संहितायाम् च-
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम् ।
कथा गानं नाट्यम् इति ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं इति ।
तत्रैव-
श्री-वासुदेव-रति-केलि-कथा-समेतम् एतं करोति इति ।
सन्दर्भे च (कृष्ण-सन्दर्भे १८९)-श्री-वृन्दावने श्री-राधिकायाम् एव स्वयम्-
लक्ष्मीत्वम् इति ।
श्री-जगन्नाथ-वल्लभ-नाटके श्री-रामानन्द-राय-चरणैः (१।२०)-यतो
गोपाङ्गना-शताधर-मधु-पान-निर्भर-केलि-क्लमालसापघनः क्वचित्
प्रौढ-वधूस् तत्नोपधानीय-मण्डित-हृदय-पर्यङ्क-शायी पीताम्बरो
नारायणः स्मारितः । इत्य् आदि ।
एवं श्री-विदग्ध-माधवे (४।५२)-सुन्दरि ! नाहम् केवलं तवाधीनः । किन्तु
मम दशावताराश् च । इत्य् आदि । एवं श्री-गोविन्द-लीलामृते च (१८।१०)-
गुण-मणि-खनिर् उद्यत्-प्रेम-सम्पत्-सुधाब्धिस्
त्रिभुवन-वर-साध्वी-वृन्द-वन्द्येहित-श्रीः ।
भुवन-महित-वृन्दारण्य-राजाधि-राज्ञी
विलसति किल सा श्री-राधिकेह स्वयं श्रीः ॥
सौन्दर्य-लक्ष्मीर् इहकाध्य लक्ष्मीः
सङ्गीत-लक्ष्मीश् च हरेर् मुदेऽस्ति ॥
स्व-नियम-दशके (१०) श्री-दास-गोस्वामिभिश् च-
स्फुरल्-लक्ष्मी-व्रज-विजयि-लक्ष्मी-भर-लसद्-
वपुः-श्री-गान्धर्वा-स्मर-निकर-दीव्यद्-गिरि-भृतोः ।
विधास्ये कुञ्जादौ विविध-वरिवस्याः सरभसं
रहः श्री-रूपाख्य-प्रियतम-जनस्यैव चरमः ॥
श्री-स्वरूप-गोस्वामि-कडचायाम्-
अवनि-सुर-वरः श्री-पण्डिताख्यो यतीन्द्रः
स खलु भवति राधा श्रील-गौरावतारे ।
नरहरि-सरकारस्यापि दामोदरस्य
प्रभु-निज-दयितानां तच् च सारं मतं मे ॥ इत्य् आदि ।
श्री-सार्वभौम-भट्टाचार्यैः शत-नाम-स्तोत्रे (१४)-
गदाधर-प्राणनाथ आर्तिहा शरण-प्रदः । इत्य् आदि ।
श्री-सरकार-ठक्कुरेण भजनामृते-इह मतं मे, यथा कलि-युग-
पावनावतार-करुणामय-श्री-श्री-चैतन्य-चन्द्रः व्रजराजकुमारस् ततहिव
निःसीम-शुद्ध-प्रणय-सार-घनीभूत-महाभाव-स्वरूप-रसमय-परम-
दयितः श्री-गदाधर एव राधा ।
वैष्णवाभिधाने (४) च-
गदाधर-प्राणनाथं लक्ष्मी-विष्णु-प्रिया-पतिम् इति ।
श्री-मधु-पण्डित-गोस्वामिनोक्त-परमानन्द-गोस्वामि-पादानाम् अष्टके च-
गोपीनाथ-पदाब्जे भ्रमति मनो यस्य भ्रमर-रूपतया ।
तं करुणामृत-जलधिं परमानन्दं प्रभुं वन्दे ॥
श्री-परमानन्द-गोस्वामि-पादैर् यथा-
कलिन्द-नग-नन्दिनी-तट-निकुञ्ज-पुञ्जेषु यस्
ततान वृषभानुजाकृतिर् अनल्प-लीला-रसम् ।
निपीय व्रज-मङ्गलोऽयम् इह गौर-रूपोऽभवत्
स मे दिशतु भावुकं प्रभु-गदाधरः श्री-गुरुः ॥
श्री-चैतन्य-चरित-काव्ये (६।१२-१४)-
श्रीमान् गदाधर-महामतिर् अत्युदार-
श्रीलः स्वभाव-मधुरो बहु-शान्त-मूर्तिः ।
उच्चे समीप-शयितः प्रभुणा रजन्यां
निर्माल्यम् एतद् उरसि प्रसार्यम् एभ्यः ॥
इत्थं स यद् यद् अददात् प्रमदेन यस्मै
यस्मै जनाय तद् इदं स गदाधरोऽपि ।
प्रातर् ददौ सततम् उल्लसिताय तस्मै
तस्मै महाप्रभु-विमुक्त-महा-प्रसादम् ॥
सङ्ग्रथ्य मालय-निचयं परिचर्य यत्नात्
सद्-गन्ध-सार-घनसार-वरादि-पङ्कम् ।
अङ्गेषु तस्य परितो जयति स्म नित्यं
सोत्कण्ठम् अत्र स गदाधर-पण्डिताग्रतः ॥
तत्र हि (५।५५)-
श्रीवासस् तद् अनु गदाधरं बभाषे
भट्टाद्यं सकलम् अमुत्र नीयतां तत् ।
इत्य् उक्तः स च सकलं निनाय तत्र
प्रेमार्द्रो निरवधि विस्मृतात्म-चेष्टः ॥
तत्र हि (५।१२८-९)-
स तु गदाधर-पण्डित-सत्तमः
सततम् अस्य समीप-सुसङ्गतः ।
अनुदिनं भजते निज-जीवत-प्रिय-
तमं तम् अतिस्पृहया युतम् ॥
निशि तदीय-समीप-गतः स्थिरः
शयनम् उत्सुक एव करोति सः ।
विहरणामृतम् अस्य निरन्तरं
सद्-उपभुक्तम् अनेन निरन्तरम् ॥
तत्र हि (११।२२-२४)-
निवृत्तेऽस्मिन् तैस् तैः कलित-ललना-भूमिक-रुचिर्
गदाधृक्-सञ्ज्ञोऽसौ धृत-वलय-शङ्खोज्ज्वल-करः ।
प्रविष्टो गायद्भिर् लघु लघु मृदङ्गे मुखरिते
तथा तालैर् मानैर् नटन-कलया तत्र विभवौ ॥
तदा नृत्यत्य् अस्मिन् धृत-मधुर-वेशोज्ज्वल-रुचौ
मृदङ्गाली-भङ्गीशत-मधुर-सङ्गीत-कलया ।
जनैर् भूयो भूयः सुख-जलधि-मग्नैर् विनिमिषैः
समन्ताद् आसेदे जडिम-जडिमाङ्गैः किम् अमृतम् ॥
वृषभानु-सुता राधा श्यामसुन्दर-वल्लभा
कलौ गदाधरः ख्यातो माधवानन्द-नन्दनः ।
माधवस्य गृहे जातो माधवस्य कुहू-तिथौ
श्री-राधाद्भुत-रूपेण पण्डितः श्री-गदाधरः ॥
अथ श्री-वासुदेव-घोष-ठक्कुरः-
अखिल ब्रह्म-पर वेद उपर, ना जाने पाषण्डी मति-भोरा ॥
नित्य नित्यानन्द चैतन्य गोविन्द पण्डित गदाधर राधे ।
चैतन्य युगल-रूप केवल रसेर कूप अवतार सदा-शिव साधे ॥
अन्तरे नव-घन बाहिरे गौर-तनु युगल-रूप परकाशे ।
कहे वासुदेव घोष युगल-भजन-रसे जनमे जनमे रहु आशे ॥
गौराङ्ग विहर-इ परम आनन्दे
नित्यानन्द करि सङ्गे गङ्गा-पुलिन-रङ्गे हरि हरि बोले निज-वृन्दे ।
काङ्चा काञ्चन-मणि गोरा-रूप ताहे जिनि डगमगि-प्रेम-तरङ्ग ।
ओ नव कुसुम-दाम गले दोले अनुपाम हेलन नरहरि अङ्ग ॥
भावे भरल तनु पुलक कदम्ब जनु गरह-इ यैछन सिंहे ।
प्रिय गदाधर धरिया से बाम कर निज-गुण-गान गोविन्दे ॥
अरुण-नयन-कोणे ईषत् हासिया खेने रोयत किबा अभिलाष ।
सोङरि से सब खेला श्री-वृन्दावन-रस-लीला कि बोलब वासुदेव घोषे ॥
अथ वासक-सज्जा-रसः (३५६)-
अरुण-नयने धारा बहे । अरुणित माल माथे गोर रहे ॥
कि भाव पडियाछे मने । भूमि गडि पडे क्षणे क्षणे ॥
कमल पल्लव बिछाइया । रहे गोरा धेयान करिया ॥
वासक-सज्जार भाव करि । विरले बसिया एकेश्वरी ॥
वासुदेव घोष ता देखिया । बोले किछु चरणे धरिया ॥
अथ दान-लीला (गौरपद)-
आजुर गोरा-चाङ्देर कि भाव पडिल ।
नदीयार बाटे गोरा दान सिरजिल ॥
कि रसेर दान चाहे गोरा द्विज-मणि ।
बेत दिया आगुलिया राखये तरुणी ॥
दान देह बलि घने घने डाके ।
नगर-नागरी यत पडिल विपाके ॥
कृष्ण-अवतार आमि साधियाछि दान ।
से भाव पडिल मने वासुदेव गान ॥
अथ जल-क्रीडा (२६४९)-
जल-क्रीडा गोराचाङ्देर मनेते पडिल ।
सङ्गे लैया परिषद जलेते नाम्बिल ॥
गोरा-अङ्गे केहो केहो जल फेलि मारे ।
गौराङ्ग फेलिया जल मारे गदाधरे ॥
जल-क्रीडा करे गोरा हरषित मने ।
हुलाहुलि तुलातुलि करि जने जने ॥
गौराङ्ग चाङ्देर लीला कहन ना याय ।
वासुदेव घोष ऐ गोरा-गुण गाय ॥
अथ पाशा-खेला (२६७१)-
पाशा-खेला गोराचाङ्देर मने त पडिल ।
पाशा लैया गोरा खेला सिरजिल ॥
प्रिय गदाधर सङ्गे गोरा खेले पाशा सारि ।
खेलिते लागिल पाशा हारि जिनि करि ॥
दुयाचारि बलि दान फेले गदाधर ।
पञ्च तिन बलिया डाके गौराङ्ग-सुन्दर ॥
दुइ जने मगन भेल नव पाशा रसे ।
जय जय दिया गाय वासुदेव घोषे ॥
अथ चन्दनम् (गौरपद)-
अगुरु चन्दन लेपिया गोरा गाय ।
प्रिय पारिषद गण गोरा गुण गाय ॥
आनि सलिल केह धरि निज करे ।
मनेर मानसे ढाले गोरार उपरे ॥
चाङ्द जिनिया मुख अधिक करि साजे ।
मालती-फुलेर माला गोरा-अङ्गे साजे ॥
अरुण वसन साजे नाना आभरणे ।
वासुदेव गोरा-रूप करे निरीक्षणे ॥
अथ फुल-लीला (१५२५)-
फुल-वन गोरा चाङ्द देखिया नयने ।
फुलेर समर गोरार पडि गेल मने ॥
प्रिय गदाधर सङ्गे आर नित्यानन्द ।
फुलेर समरे गोरार ह-इल आनन्द ॥
गदाधर सङ्गे पहुं करये विलास ।
वासुदेव कहे रस करल प्रकाश ॥
अथ होलिका-खेला -
सहचर मिलि फागु मारे गोरा गाय ।
चन्दन पिचका भरि केहो केहो धाय ॥
नाना यन्त्र सुमेलि करिया श्रीनिवास ।
गदाधर आदि सङ्गे करये विलास ॥
हरि बुलि भुज तुलि नाचे हरिदास ।
वासुदेव घोषे रस करिल प्रकाश ॥
आरे मोरे द्विज-मणि
राधा राधा बलि गौरा लोटाय धरणी ॥
राधा नाम जपे गोरा परम-यतने ।
सुललित धारा बहे अरुण नयने ।
क्षणे क्षणे गोरा चाङ्द भूमे गडि याय ।
राधिकार वदन हेरि क्षेणे मुरुछाय ॥
पुलक पूरल तनु गदगद बोल ।
कहे वासु गोरा मोर बड उतरोल ॥
गौराङ्ग विरह ज्वर हिया छट फट करे
जीवने ना बाङ्धये थेहा ।
ना हेरिया चाङ्द मुख विदरिते चाहे बुक
केमन करिते चाहे नेहा ॥
प्राणेर हरि हरि कह मोरे जीवन उपाय ।
ए दुखे दुखित ये ए दुख जानये से
आर आमि निवेदिब काय ॥
गौराङ्ग मुखेर हासि सुधा खसे राशि राशि
ताहा आमि ना पाइ देखिते ।
यत छिल बन्धु गण सभे भेल निकरुण
आमि जीये कि सुख खाइते ॥
गदाधर आदि करि ना देखिया प्राणे मरि
म-इल म-इलु मधुमती ना देखिया ।
ये मोरे करित दया से गेल निठुर हञा
वासु केने ना गेल मरिया ॥
यथा स्वयं भगवान् श्री-व्रजेन्द्र-नन्दनः स्वस्य काय-व्यूह-प्रकाश-विलास-
परावस्थ-प्राभव-वैभव-रूपैः श्री-बलदेव-श्री-मथुरा-द्वारका-गोलोक-
परव्योम-नाथ-नृसिंह-रघुनाथादिभिः स्वावतारावलीभिस् तत् तत् पार्षदैश् च
श्रीमन्-नित्यानन्दाद्वैत-श्रीवासं कृत्वा कलौ श्री-कृष्ण-चैतन्य-महाप्रभुः
सन् कृपया प्रकटोऽभूत् । तथा तेन रसिक-मण्डल-शेखरेण स्वस्य महा-शक्ति-
ह्लादिनी-सार-रूपा सर्व-लक्ष्मी स्वरूपा-श्री-वृषभानु-नन्दिनी श्रीमती राधैव
श्री-गोपी-गण-महिषी-गण-लक्ष्मी-गणैः स्वय्स काय-व्यूह-प्रकाश-रूपैः
सहिता श्री-गदाधर-पण्डित-रूपेणावतारिताभूत् । प्रभुत्वात् तस्यैव ।
शक्तिश् च अघटन-घटना-पटीयसी योगमाया वैभवेन यदा यद् इच्छां करोति
तत् किम् अपि दुर्घटं न भवति अवतीर्य सङ्कीर्तनानन्दावेशेन तत् तत् पूर्व-
भावं स्व-स्व-विलास-शक्ति-पार्षदं प्रति दर्शितवान् । एतत् तु श्री-कर्णपूर-श्री-
वृन्दावन-दास-श्री-वासुदेव-श्री-नरहरि-ठक्कुरादि-श्री-रूप-सनातन-श्री-
कृष्णदास-श्री-कविराज-श्री-लोचनदास-प्रभृतिभिः स्व-स्व-ग्रन्थे लिखित्वा
स्थापितम् अस्ति । तस्मात् सर्वेषां श्री-कृष्ण-चैतन्य-पार्षदानां मते श्री-
गदाधर-पण्डित एव श्री-वृषभानु-नन्दिनी श्री-राधा । किं बहु-विचारितेन ।
किं च, अद्यापि श्री-वृन्दावने उपासना-प्राप्ति-स्थाने श्रीमद्-राधा-गोविन्द-श्री-
राधा-मदन-गोपाल-सेवाधिकारी श्री-रूप-सनातनानुगत्ये राधा-गदाधर-
चरित्रम् एव दृश्यते । श्री-चैतन्य-भागवते श्री-ठक्कुर-वृन्दावन-वर्णने
मध्य-खण्डे (१८।१०१-११९)-
प्रथम प्रहरे एइ कौतुक विशेष ।
द्वितीय प्रहरे गदाधर परवेश ॥
सुप्रभा ताहान सखी करि निज-सङ्गे ।
ब्रह्मानन्द ताङ्हार बडाइ बुडी रङ्गे ॥
हाते लडि काङ्खे डालि नेत परिधान ।
ब्रह्मानन्द ये हेन बडाइ विद्यमान ॥
डाकि बोले हरिदास के सब तोमरा ।
ब्रह्मानन्द बोले याइ मथुरा आमरा ॥
श्रीनिवास बोले तुइ काहार बनिता ।
ब्रह्मानन्द बोले केने जिज्ञा वारता ॥
श्रीनिवास बोले जानिबारे ना जुयाय ।
हय बलि ब्रह्मानन्द मस्तक ढुलाय ॥
गङ्गादास बोले आजि कोथाय रहिबा ।
ब्रह्मानन्द बोले स्थानखानि तुमि दिबा ॥
गङ्गादास बोले तुमि जिज्ञासिले बड ।
जिज्ञासार काज नाहि झाट तुमि नड ॥
अद्वैत बोलये एत विचार कि काज ।
मातृ-समा पर-नारी केने देह लाज ॥
नृत्य गीते पीत बड आमार ठाकुर ।
एथाय नाचह धन पाइबे प्रचुर ॥
अद्वैतेर वाक्य शुनि परम हरिषे ।
गदाधर नृत्य करे प्रेम परकाशे ॥
रसावेशे गदाधर नाचे मनोहर ।
समय-उचित गीत गाय अनुचर ॥
गदाधर नृत्य देखि आछे कोन जन ।
विह्वल हैया नाहि करये क्रन्दन ॥
प्रेम-नदी बहे गदाधरेर नयने ।
पृथिवी ह-इया सिक्त धन्य हेन माने ॥
गदाधर हैला येन गङ्गा मूर्तिमती ।
सत्य सत्य गदाधर कृष्णेर प्रकृति ॥
आपने चैतन्य बलियाछेन बार बार ।
गदाधर मोर वैकुण्ठेर परिवार ॥
ये गाय ये देखे सभे भासिलेन प्रेम ।
चैतन्य प्रसादे केहो बाह्य नाहि जाने ॥
हरि हरि बोलि काङ्दे सब वैष्णव मण्डल ।
सर्व-गण ल-इया गोविन्द कोलाहल ॥
चौदिके शुनिये कृष्ण-प्रेमेर क्रन्दन ।
गोपिकार वेशे नाच माधव-नन्दन ॥
तथा हि-
एक दिन ताम्बूल ल-इया गदाधर ।
सन्तोष आइला प्रभु प्रभुर गोचर ॥
गदाधरे देखि प्रभु करेन जिज्ञासा ।
कोथा कृष्ण आछेन श्यामल पीत-वासा ॥
से आर्ति देखिते सर्व हृदय विदरे ।
के कि बलिबेक प्रभु बाध नाहि स्फुरे ॥
सम्भ्रमे बोलेन गदाधर महाशय ।
निरवधि आछेन कृष्ण तोमार हृदय ॥
हृदये आछेन कृष्ण वचन शुनिया ।
आपन हृदय प्रभु चिरे नक दिया ॥
आस्ते व्यस्ते गदाधर प्रभु-हस्त धरे ।
आर्ति देखि गदाधर मने त विचारे ॥
एइ आसिबेन कृष्ण स्थिर हओ खानि ।
गदाधर बोले आइ देखये आपनि ॥
बड तुष्ट हैला आइ गदाधर प्रति ।
एमत शिशुर बुद्धि नाहि आर कति ॥
मुञि भये नाहि पारो सम्मुख ह-इते ।
शिशु ह-इ केमने प्रबोधिला भाल मते ॥
आइ बोले बाप तुमि सर्वदा थाकिबा ।
छाडिया उहार सङ्ग कोथाह ना याबा ॥
तथा हि मध्य-खण्डे -
प्रभु बोले कोन् जन गृहेर भितर ।
ब्रह्मचारी बोलेन तोमार गदाधर ॥
हेङ्ट माथा करि काङ्देन गदाधर ।
देखिया सन्तोषे प्रभु बोले विश्वम्भर ॥
प्रभु बोले गदाधर तोमरा सुकृति ।
शिशु हैते कृष्णेते ह-इला दृढ-मति ॥
आमार से हेन जन्म गेल वृथा रसे ।
ना पाइल अमूल्य निधि दीन-हीन दोषे ॥
तथा हि मध्य-खण्डे -
एइ सब अद्भुत सेइ नवद्वीपे हये ।
तथापि ओ भक्त ब-इ अन्य ना जानये ॥
मध्य-खण्डेर परम अद्भुत सब कथा ।
मृत-देहे तत्त्व-ज्ञान कहिलेन कथा ॥
हेन मतए नवद्वीपे श्री-गौरसुन्दर ।
बिहरये सङ्कीर्तन सुखे निरन्तर ॥
प्रेम-रसे प्रभुर संसार नाहि स्फुरे ।
अन्येर कि दाय विष्णु पूजिते ना पारे ॥
स्नान करि बैसे प्रभु श्री-विष्णु पूजिते ।
प्रेम जले सकल श्री-अङ्ग वस्त्र तिते ॥
बाहिर ह-इया प्रभु से वस्त्र छाडिया ।
पुन अन्य वस्त्र परि विष्णु पूजे गिया ॥
पुन प्रेमानन्द जले तिते से वसन ।
पुन बाहिराइ अङ्ग करि प्रक्षालन ॥
एइ मत वस्त्र परिवर्त करे मात्र ।
प्रेमे विष्णु पूजिते ना पारे तिल मात्र ॥
शेषे गदाधर प्रति बलिलेन वाक्य ।
तुमि विष्णु पूज मोर नाहिक सौभाग्य ॥
एइ मत वैकुण्ठ नायक भक्ति-रसे ।
बिहर-इ नवद्वीप रात्रिते दिवसे ॥
तथा हि-
नित्यानन्द-स्वरूप सभारे करि कोले ।
सिञ्चिला सभार अङ्ग नयनेर जले ॥
तबे जगन्नाथ देखि हर्षे सर्व-गणे ।
आनन्दे चलिला गदाधर दरशने ॥
नित्यानन्द- गदाधरे ये प्रीति अन्तरे ।
इहा कहिबारे शक्ति ईश्वरे से धरे ॥
गदाधर-भवने मोहन गोपीनाथ ।
आछेन ये हेन नन्द-कुमार साक्षात् ।
आपने चैतन्य ताङ्रे करियाछेन कोले ।
अतिबड पाषण्डी से विग्रह देखि भुले ॥
देखि श्री-मुरली मुख अङ्गेर भङ्गिमा ।
नित्यानन्द आनन्द-अश्रुर नाहि सीमा ॥
नित्यानन्द विजय जानिया गदाधर ।
भागवत-पाठ छाडि आइला सत्वर ॥
दुङ्हे मात्र देखि दोङ्हार श्री-वदन ।
गला धरि लालिगेन करिते क्रन्दन ॥
अन्योन्य दुङ्हु प्रभु करेन नमस्कार ।
अन्योन्य दुःहे बोले महिमा दोङ्हार ॥
दुङ्हु बोले आजि हैल लोचन निर्मल ।
दुङ्हु बोले जन्म आजि आमार सफल ॥
बाह्य ज्ञान नाहि दुङ्हु प्रभुर शरीरे ।
दुङ्हु प्रभु भासे निज आनन्द सागरे ॥
हेन से हैल प्रेम-भक्तिर प्रकाश ।
देखि चतुर्दिके पडि काङ्दे सर्व-दास ॥
कि अद्भुत प्रीति नित्यानन्द-गदाधरे ।
एकेर अप्रिय आरे सम्भाषा ना करे ॥
गदाधर देवेर सङ्कल्प एइ रूप ।
नित्यानन्द निन्दकेर ना देखेन मुख ॥
नित्यानन्द स्वरूपेरे प्रीति यार नाइ ।
देखा जो ना देन तारे पण्डित गोसाञि ॥
तबे दुइ प्रभु स्थिर ह-इ एक-स्थाने ।
बसिलेन चैतन्य-मङ्गल-सङ्कीर्तने ॥
अथ शेष-खण्डे-
हेन मते सिन्धु-तीरे श्री-गौरसुन्दर ।
सर्व-रात्रि नृत्य करे अति मनोहर ॥
निरवधि गदाधर थाकेन संहति ।
प्रभु गदाधरेर बिच्छेद नाहि कति ॥
कि भोजने कि शयने किबा पर्यटने ।
गदाधर प्रभुरे सेवेन अनुक्षणे ॥
गदाधर सम्मुखे पडेन भागवत ।
शुनि हय प्रभु प्रेम-रसे महा-मत्त ॥
गदाधर वाक्ये मात्र प्रभु सुखी हय ।
भ्रमे गदाधर सङ्गे वैष्णव आलय ॥
तथा हि -
एइ मत प्रभु प्रिय गदाधर सङ्गे ।
तान् मुखे भागवत कथा शुने रङ्गे ॥
गदाधर पडेन स्वमुखे भागवत ।
प्रह्लाद-चरित आर ध्रुवेर चरित ॥
शतावृत्ति करिया शुनेन सावहित ।
पर-कार्य प्रभुर नाहिक कदाचित् ॥
भागवत-पाठ गदाधरेर विषय ।
दामोदर-स्वरूपेर कीर्तन सदाय ॥
एकेश्वर श्री-दामोदर-स्वरूप गाय ।
विह्वल हञा नाचे वैकुण्ठेर राय ॥
अश्रु कम्प हास्य मूर्च्छा पुलक हुङ्कार ।
यत किछु आछे प्रेम-भक्तिर विकार ॥
मूर्तिमन्त सभे थाके ईश्वरेर स्थाने ।
नाचेत चैतन्य-चन्द्र इहां सभ-सने ॥
दामोदर स्वरूपेर उच्च सङ्कीर्तने ।
शुनिले ना थाके बाह्य नाचे सेइ क्षणे ॥
तथा हि -
ये ना माने भागवत से यवन सम ।
तार शास्ता आछे प्रभु जन्मे जन्मे यम ॥
तथा हि तत्रैव -
सेइ रात्रि तथाह थाकि तबे आर दिने ।
गृहे आइलेन प्रभु लक्ष्मी देवी सने ॥
श्री-लक्ष्मी सहिते प्रभु चढिया दोलाय ।
नदीयार लोक सब देखिबारे धाय ॥
गन्ध-माला अलङ्कार मुकुटे चन्दन ।
कज्जले उज्ज्वल दोङ्हे लक्ष्मी नारायण ॥
तथा हि तत्रैव -
काशीनाथ देखि राज-पण्डित आपने ।
बसिते आसन आनि दिलेन सम्भ्रमे ॥
परम-गौरवे विधि करि यथोचित ।
कि कार्ये आइले जिज्ञासिलेन पण्डित ॥
काशीनाथ बोलेन आछये किछु कथा ।
चित्ते लय यदि तबे करह सर्वथा ॥
विश्वम्भर पण्डितेरे तोमार दुहिता ।
दान कर सम्बन्ध उचित सर्वथा ॥
तोमार कन्यार योग्य सेइ दिव्य पति ।
ताहाने उचित पत्नी एइ महासती ॥
येन कृष्ण रुक्मिणीये अन्योन्य उचित ।
सेइ मत विष्णु-प्रिया निमाइ पण्डित ॥
शुनि विप्र पत्नी आदि आप्त-वर्ग सहे ।
लागिल करिते युक्ति के बुधि कि कहे ॥
सभे बुलिलेन आर कि कार्य विचारे ।
सर्वथा ए कर्म गिया करह सत्वरे ॥
तथा तत्रैव-
भोजन करिया सुख-रात्रि सुमङ्गले ।
लक्ष्मी-कृष्ण एकत्र रहिला कुतूहले ॥
सनातन पण्डितेर गोष्ठीर सहिते ।
ये सुख पाइला ताहा के पारे बर्णिते ॥
नग्न-जित जनक भीष्मक जाम्बूवन्त ।
पूर्वे येन ताङ्रा ह-इला भाग्यवन्त ॥
सेइ भाग्य गोष्ठीर सहित सनातन ।
पाइलेन पूर्व-विष्णु-सेवार कारण ॥
तथा हि तत्रैव -
नृत्य-गीत वाद्य पुष्प वर्षिते वर्षिते ।
परम आनन्दे आइलेन सर्व पथे ॥
तबे शुभ क्षणे प्रभु सकल मङ्गले ।
पुत्र वधू गृहे आनिलेन हर्ष ह-इया ॥
गृहे आसि बसिलेन लक्ष्मी नारायण ।
जय जय महा-ध्वनि ह-इल तखन ॥
अथ श्री-चैतन्य-चरितामृते च-
भगवानेर भक्त यत श्रीवास प्रधान
ताङ्ऽ-सभार पाद-पद्मे सहस्र प्रणाम
अद्वैत आचार्य प्रभुर अंश-अवतार
ताङ्र पाद-पद्मे कोटि प्रणति आमार
नित्यानन्द-राय प्रभुर स्वरूप-प्रकाश
ताङ्र पाद-पद्म वन्दो याङ्र मुञि दास
गदाधर-पण्डितादि प्रभुर निज-शक्ति
ताङ्ऽ-सबार चरणे मोर सहस्र प्रणति
श्री-कृष्ण-चैतन्य प्रभु स्वयं-भगवान्
ताङ्हार पदारविन्दे अनन्त प्रणाम
तथा हि तत्रैव -
पञ्च-तत्त्वात्मकं कृष्णं
भक्त-रूप-स्वरूपकम्
भक्तावतारं भक्ताख्यं
नमामि भक्त-शक्तिकम्
तथा हि तत्रैव -
अन्तरङ्गा बहिरङ्गा तटस्था कहि यारे ।
अन्तरङ्गा स्वरूप-शक्ति सबार उपरे ॥
श्री-गदाधर-पण्डित गोसाञि शक्ति-अवतार ।
अन्तरङ्ग-स्वरूप शक्ति गणन याङ्हार ॥
तथा हि आदिखण्डे द्वादश-परिच्छेदे-
श्री-गदाधर पण्डित शाखाते महोत्तम
ताङ्र उपशाखा किछु करि ये गणन
पण्डितेर गण सब भागवत धन्य
प्राण-वल्लभ सबार श्री-कृष्ण-चैतन्य
एइ तिन स्कन्धेर कैलुङ् शाखार गणन
याङ्-सबा-स्मरणे भव-बन्ध-विमोचन
याङ्-सबा-स्मरणे पाइ चैतन्य-चरण
याङ्-सबा-स्मरणे हय वाञ्छित पूरण
अतएव ताङ्-सबार वन्दिये चरण
चैतन्य-मालीर कहि लीला-अनुक्रम
तथा हि मध्य-खण्डे -
चण्डी-दास विद्यापति रायेर नाटक गीति
कर्णामृत श्री गीत गोविन्द
महाप्रभु रात्रि दिने स्वरूप-रामानन्देर सने
नाचे गाय परम आनन्द
पुरी गोसाञिर वात्सल्य मुख्य रामानन्देर शुद्ध सख्य
गोविन्दाद्येर शुद्ध दास्य रसे
गदाधर जगदानन्द स्वरूपेर मुख्य रसानन्द
एइ चारि भावे प्रभु वश
अतः श्री-भगवत्-कृष्ण-चैतन्य-देवस्यान्तरङ्ग-शक्ति-वर्ग-मुख्यतमः श्री-
गदाधर-पण्डितः । अतः श्री-नीलाचले स्व-सेवाधि-कारित्वेन श्री-भागवत-कथा-
कथनाधिकारित्वेन च तेन स च निरूपितः । एवं गौड-देश-मुख्य-प्रदेश-स्व-
प्रकट-स्थल-नवद्वीपे तया सर्व-धाम-प्रवर-श्री-वृन्दावनेऽपि । इति तु श्री-
चैतन्य-भागवते श्री-चैतन्य-चरितामृतादौ प्रसिद्धं वर्तते । तत्र श्री-
चैतन्य-भागवते श्री-नवद्वीप-लीलायां श्रीमहाप्रभोर् आज्ञा -
शेषे गदाधर प्रति बुलिलेन वाक्य ।
तुमि विष्णु पूज मोर नाहिक से भाग्य ॥
तथा चात्र नीलाचले-
भागवत-पाठ गदाधरेर विषय ।
दामोदर स्वरूपेर कीर्तन सदाय ॥
तत्र च श्री-वृन्दावने श्री-श्री-सेवाधिकारस् तु पूर्वं लिखितोऽस्ति । तथा हि षोडश-
परिच्छेदे श्री-वृन्दावन-गमने (च्च् २।१६।१३०-१४४)-
गदाधर-पण्डित यबे सङ्गेते चलिला
क्षेत्र-सन्न्यास ना छाडिह प्रभु निषेधिला
पण्डित कहे याहाङ् तुमि सेइ नीलाचल
क्षेत्र-सन्न्यास मोर याउक रसातल
प्रभु कहे इङ्हा कर गोपीनाथ सेवन
पण्डित कहे कोटि-सेवा त्वत्-पाद-दर्शन
प्रभु कहे सेवा छाडिबे आमाय लागे दोष
इङ्हा रहि सेवा कर आमार सन्तोषऋ
पण्डित कहे सब दोष आमार उपर
तोमा-सङ्गे ना याइब याइब एकेश्वर
आइके देखिते याइब ना याइब तोमा लागि
प्रतिजा-सेवा-त्याग-दोष तार आमि भागीऋ
एत बलि पण्डित-गोसाइ पृथक् चलिला
कटक आसि प्रभु ताङ्रे सङ्गे आनाइला
पण्डितेर गौराङ्ग-प्रेम बुझन ना याय
प्रतिजा श्री-कृष्ण-सेवा छाडिल तृण-प्राय
ताङ्हार चरित्रे प्रभु अन्तरे सन्तोष
ताङ्हार हाते धरि कहे करि प्रणय-रोष
प्रतिजा सेवा छाडिबे ए तोमार उद्देश
से सिद्ध ह-इल छाडि आइला दूर देश
आमार सङ्गे रहिते चाह वाछ निज-सुख
तोमार दुइ धर्म याय आमार हय दुःख
मोर सुख चाह यदि नीलाचले चल
आमार शपथ यदि आर किछु बल
एत बलि महाप्रभु नौकाते चडिला
मूर्च्छित हञा पण्डित तथाइ पडिला
पण्डिते लआ याइते सार्वभौमे आजा दिला
भट्टाचार्य कहे उठ ऐछे प्रभुर लीला
तुमि जान कृष्ण निज-प्रतिजा छाडिला
भक्त कृपा-वशे भीष्मेर प्रतिजा राखिला
तथा हि स्व-निगमम् अपहाय मत्-प्रतिज्ञामृतम् अधिकर्तुम् (भ्प् १।९।३७) इत्य् आदि
। तथा हि सप्तम-परिच्छेदे (च्च् ३।७।१४८-१७३)-
वल्लभ-भट्टेर हय वात्सल्य-उपासन
बाल-गोपाल-मन्त्रे तेङ्हो करेन सेवन
पण्डितेर सने तार मन फिरिगेल
किशोर-गोपाल-उपासनाय मन दिल
पण्डितेर ठाञि चाहे मन्त्रादि शिखिते
पण्डित कहे एइ कर्म नहे आमा हैते
आमि परतन्त्र आमार प्रभु गौरचन्द्र
ताङ्र आज्ञा विना आमि ना ह-इ स्वतन्त्रऽ
तुमि ये आमार ठाञि कर आगमन
ताहातेइ प्रभु मोरे देन ओलाहनऋ
एइ-मत भट्टेर कथेक दिन गेल
शेषे यदि प्रभु तारे सुप्रसन्न हैल
निमन्त्रणेर दिने पण्डिते बोलाइला
स्वरूप जगदानन्द गोविन्दे पाठाइला
पथे पण्डितेरे स्वरूप कहेन वचन
परीक्षिते प्रभु तोमारे कैला उपेक्षण
तुमि केने आसिताङ्रे ना दिला ओलाहन
भीत-प्राय हञा काङ्हे करिला सहन
पण्डित कहेन प्रभु स्वतन्त्र सर्वज्ञ-शिरोमणि
ताङ्र सनेऽहठकरि भाल नाहि मानि
येइ कहे सेइ सहि निज-शिरे धरि
आपने करिबेन कृपा गुण-दोष विचारि
एत बलिपण्डित प्रभुर स्थाने आइला
रोदन करिया प्रभुर चरणे पडिला
ईषत् हासिया प्रभु कैला आलिङ्गन
सबारे शुनाञा कहेन मधुर वचन
ऋआमि चालाइलुङ् तोमा तुमि ना चलिला
क्रोधे किछु ना कहिला सकल सहिला
आमार भङ्गीते तोमार मन ना चलिला
सुदृढ सरल-भावे आमारे किनिलाऋ
पण्डितेर भाव-मुद्रा कहन ना याय
गदाधर-प्राण-नाथनाम हैल याय
पण्डिते प्रभुर प्रसाद कहन ना याय
गदाइर गौराङ्गबलियाङ्रे लोके गाय
चैतन्य-प्रभुर लीला के बुझिते पारे
एक-लीलाय वहे गङ्गार शत शत धारे
पण्डितेर सौजन्य ब्रह्मण्यता-गुण
दृढ प्रेम-मुद्रा लोके करिला ख्यापन
अभिमान-पङ्क धुञा भट्टेरे शोधिला
सेइ-द्वारा आर सब लोके शिखाइला
अन्तरे अनुग्रह बाह्ये उपेक्षार प्राय
बाह्यार्थ येइ लय सेइ नाश याय
निगूढ चैतन्य-लीला बुझिते काऽर शक्ति
सेइ बुझे गौरचन्द्रे याङ्र दृढ भक्ति
दिनान्तरे पण्डित कैल प्रभुर निमन्त्रण
प्रभु ताहाङ् भिक्षा कैल लञा निज-गण
ताहाङि वल्लभ-भट्ट प्रभुर आज्ञा लैल
पण्डित-ठाञि पूर्व-प्रार्थित सब सिद्धि हैल
एइ तकहिलुङ् वल्लभ-भट्टेर मिलन
याहार श्रवणे पाय गौर-प्रेम-धन
श्री-रूप-रघुनाथ-पदे यार आश
चैतन्य-चरितामृत कहे कृष्णदास
श्री-चैतन्य-मङ्गले मध्य-खण्डे- राग-बरोडी (धुला-खेला-जात)
आर अपरूप कथा शुन गोरा-गुण-गाथा
लोके वेदे अगोचर वाणी
अवेशेर वेशे कर भक्ति-योग परचारे
करुणा विग्रह गुण-मणि
शुन कथा मन दिया आन कथा पासरिया
अपरूप कहिबार बेला
निज जन सङ्गे करि श्री-विश्वम्भर हरि
श्री चन्द्रशेखर बाडि गेला
कथा परसङ्गे कथा गोपिकार गुण-गाथा
कहिते से गदगद भाष
अरुण वरुण भेल दु-नयने भरे जल
सेइ रसावेशेर विलास
कमला याहार पद सेवा करे अविरत
हेन पहुङ् भावे गोपिकारे
परसङ्गे हय भोरा हेन भक्ति कैल तारा
कथा मात्रे से आवेश धरे
तबे विश्वम्भर हरि गोपिकार वेश धरि
श्री चन्द्रशेखराचार्य घरे
नाचये आनन्दे भोरा श्रीनिवास हेन बेला
नारद आवेशे भेल तारे
प्रभुरे प्रणाम करे विनय वचने बोले
दास करि जानिह आमारे
ए बोल बोलिया वाणी तबे सेइ महा-मुनि
गदाधर पण्डितेरे बोले
शुनह गोपिका तुमि ये किछु कहिये आमि
आपना मरम किछु जान
अपूर्व कहिये आमि जगते दुर्लभ तुमि
तोर कथा शुन सावधाने
आमि तो सभार कथा कहि शुन गुण-गाथा
गोकुले जन्मिल जने जने
छाडि निज पति सुत सेवा कर अविरत
अभिमत पाञा वृन्दावने
ऐछन करिलि भक्ति केहो ना जानये युक्ति
परम निगूढ तिन लोके
ब्रह्मा महेश्वर किबा लखिमी अनन्त-देवा
ततोधिक परसाद तोके
प्रह्लाद नारद शुक सनातन स-सनक
केहो ना जानये भक्ति-लेश
त्रैलोक्य लखिमी पति तोरे मागे पिरीति
अङ्गे बरये वर-वेश
लखिमी जाहार दासी तोर प्रेम प्रति आशी
हृदये धरये अनुराग
सकल भुवन पति भुलाइलि पिरीति
धनि धनि भाव तो स्वभाव
तोरा से जानिलि तत्त्व प्रभुर मर्म महत्त्व
प्रिईते बाङ्धिलि भाल-मते
उद्धव अक्रूर आदि सब तोर पद साधि
अनुग्रह ना छाडिह चिते
एतेक कहिल वाणी श्रीनिवास द्विजमणि
शुनि आनन्दित सब जन
सकल वैष्णव मिलि करि करे कोलाकुलि
देखि विश्वम्भरेर चरण
आछये आनन्दे भोरा प्रेमे गरगर तारा
हेन बेले आइला हरिदास
दण्ड एक करि करे सम्मुखे दाण्डाया बोले
गुण गाय परम उल्लास
हरि गुण कीर्तन कर भाइ अनुक्षण
इहा बुलि अट्ट अट्ट हासे
हरि गुण गाने भोरा दु-नयने बहे धारा
आनन्दे फिरये चारि दिशे
शुनि हरिदास वाणी सकल वैष्णव मणि
अमृत सिञ्चिल येन गाय
हरषिते नाचे गाय माझे करि गोरा राय
काङ्दिया धरये राङ्गा पाय
तबे सर्व-गुण-धाम अद्वैत आचार्य नाम
आइला सर्व वैष्णवेर राजा
रूपे आलो करि मही सम्मुखे दाङ्डाइया रहि
प्रभु अंशे जन्म महा-तेजा
हरि हरि बलि डाके चमक पडिल लोके
आनन्दे नाचये प्रेम-भरे
पुलकित सब गाय आपाद मस्तक याय
प्रेम-वारि दु-नयने झरे
विश्वम्भर चरणे नेहरये घने घने
हुहुङ्कार मारे मालसाट
सकल वैष्णव मिलि प्रेमेर पसरा डालि
पसारिल अपरूप हाट
गौर-पद-
होलि खेलत गौर किशोर
रसवती नारी गदाधर कोर
स्वेद-बिन्दु मुखे पुलक शरीर
भाव भरे गलतहि लोचन नीर
व्रज रस गाओत नरहरि सङ्गे
मुकुन्द मुरारि वासु नाचत रङ्गे
क्षणे क्षणे मुरुच्छ-इ पण्डित कोर
हेर-इते सहचरी सुखे भेल भोर
निकुञ्ज मन्दिरे पहुङ् करल बिथार
भूमे पडि कहे काङ्हा मुरली हामार
काङ्हा गोवर्धन आर यमुनार कुल
निकुञ्ज माधवी युथी मालतीक फुल
शिवानन्द कहे पहुङ् शुनि रस वाणी
याङ्हा पहुङ् गदाधर ताङ्हा रस खानि
अथ ठक्कुर-वृन्दावनस्य-
गौराङ्ग नाचे आपनार सुखे
याङ्हार अनुभव से से जानये
कहने ना याय शत मुखे
गौराङ्ग अङ्गे शोभे कनया कदम्ब
ऐछन पुलक आभा
आनन्दे भुलल ठाकुर नित्यानन्द
द्केहिया भाइयार शोभा
के जाने केमन ओ चाङ्द वदन
निशि दिशि परकाशे
वामे रहल पण्डित गदाधर
डाहिने नरहरि दासे
हेन अवतारे ये जन वञ्चित
तारे कृपा करु नाथे
श्री-कृष्ण चैतन्य ठाकुर नित्यानन्द
गुण गान वृन्दावन दासे
प्रिय गदाधर सङ्गे करि कौतुके कौपीन परि
वेद निगूढ अवतार
ह-इल आकाश वाणी अवतार शिरोमणि
त्रिभुवने देय जय जयकार
प्रकाशिल षड्-भुज देखिल प्रतापरुद्र
ओ रसे वञ्चित सार्वभौमे
सङ्गे नित्यानन्द राय वृन्दावन दास गाय
मुञि से वञ्चित गोर-प्रेमे
तथा नरोत्तम-ठक्कुर-कृत-प्रार्थनायाम्-
धन मोर नित्यानन्द पति मोर गोरचन्द्र
देव मोर युगल किशोर
अद्वैत आचार्य बल गदाधर मोर कुल
नरहरि विलाअ ये मोर
परम कारुण्य धाम नित्य जप हरिनाम
श्री-गुरु वैष्णव करि ध्यान
श्री-वैष्णव पद-धुलि ताहे मोर स्नान केलि
तरपण ताङ् सभार नाम
हेन अनुमानि मने भक्ति रस आस्वादने
मध्यस्थ पुराण भागवत
वैष्णवेर उच्छिष्ट ताहे मोर ह-उ नीष्ठा
कुटुम्बिता ता सभार साथ
वृन्दावने च-उतरा ताङ्हा याङु नित्य त्वरा
मने रहुङ् सेवा अभिलाष
मुञि अतिहीन-जन मोर एइ निवेदन
कहे दीन नरोत्तम दास
अथ श्री-गोविन्द-कविराजस्य फागुया-वसन्त-आख्याने (१४६५)-
नीलाचले कनकाचल गोरा गोविन्द फागु-रङ्गे भेल भोरा
देव कुमारी नारी गण सङ्ग पुलक कदम्ब करम्बित अङ्ग
फागुया खेलत गौर तनु प्रेम सुधा सिन्धु मुरति जनु
फागु अरुण तनु अरुणहि चीर अरुण नयाने बहे अरुणहिङ् नीर
कण्ठहिङ् लोलत अरुणित माल अरुण भकत सब गाओये रसाल
कत कत भाव विथरल अङ्ग नयन ढुलाओत प्रेम तरङ्ग
हेरि गदाधर लहु लहु हास सो नाहि समुझल गोविन्द दास
अथ व्रजे यः स्वयं भगवतः श्री-नन्द-नन्दनस्य कायव्यूह्य [?] श्री-
बलरामः, यश् च जगत्-कर्ता महा-विष्णुः, सर्वे श्री-प्रभोः सङ्गिनः श्री-
नित्यानन्दाद्वैतादि-रूपेण जाता वर्तन्ते । तत्र प्रमाणं श्री-वृन्दावन-
दासादीनां श्री-चैतन्य-भागवते श्री-चैतन्य-चरितामृते च प्रसिद्धम् । तत्र
श्री-चैतन्य-भागवते-
एइ मत नित्यानन्द बालक जीवन
विह्वल करिते लागिलेन शिशु गण
मासे केओ शिशु गण ना करे आहार
देखिते लोकेर चित्ते लागे चमत्कार
ह-इलेन विह्वल सकल भक्त वृन्द
सभार रक्षक ह-इलेन नित्यानन्द
पुत्र प्राय करि प्रभु सभारे धरिया
करायेन भोजन आपने हस्त दिया
कारेओ वा बाङ्धिया राखेन निज पाशे
मारेन बाङ्धेन महा अट्ट अट्ट हासे
एक दिन गदाधर दासेर मन्दिरे
आइलेन ताङ्र प्रीति करिबार तरे
गोपी भावे गदाधर दास महाशय
ह-इयाछेन विह्वल परानन्द मय
मस्तके करिया गङ्गा जलेर कलस
निरवधि डाकेन कि किनिबे गो रस
श्री-बाल गोपालेर मूर्ति तान देवालय
सर्व गणे हरि ध्वनि विशाल करय
हुङ्कार करिया नित्यानन्द मल्ल राय
करिते लागिला नृत्य गोपाल लीलाय
दान खण्ड गायेन माधवानन्द घोष
शुनि अवधूत सिम्ह परम सन्तोष
भाग्यवन्त माधवेर हेन दिव्य ध्वनि
शुनिते आविष्ट हन अवधूत मणि
सुकृति श्री गदाधर दास करि सङ्गे
दान खण्ड नृत्य प्रभु करे निज रङ्गे
गोपी भावे बाह्य नाहि गदाधर दासे
निरवधि आपनारे गोपी हेन वासे
दान खण्ड लीला शुनि नित्यानन्द राय
ये नृत्य करेन ताहा वर्णन ना याय
प्रेम भक्ति विकारेर यत आछे नाम
सर्व प्रकाशिया नृत्य करे अनुपाम
विद्युतेर प्राय नृत्य गतिर भङ्गिमा
किबा से अद्भुत भुज चालन महिमा
किबा से नयन भङ्गी कि सुन्दर हास
किबा से अद्भुत सब केमन विलास
एके एके करि दुइ चरण सुन्दर
कि से जाडे जाडे लम्फ देन मनोहर
ये दिके चाहेन नित्यानन्द प्रेम रसे
सेइ दिके कृष्ण रसे स्त्री पुरुष भासे
हेन से करेन् कृपा दृष्टि अतिशय
परानन्दे देह स्मृति कारो ना थाकय
ये भक्ति वाञ्छये योगीन्द्रादि मुनि गणे
नित्यानन्द प्रसादे ताहा भुञ्जे जने जने
हस्ति सम जल ना खाइल तिन दिन
चलिते ना पारे देह हय अति क्षीण
एक मास एक शिशु ना करे आहार
तथापि सिंहेर प्राय सर्व व्यवहार
हेन शक्ति प्रकाशे श्री-नित्यानन्द राय
तथापि ना बुझे केहो चैतन्य मायाय
एइ मत कथो दिन प्रेमानन्द रसे
गदाधर दासेर मन्दिरे प्रभु बैसे
तथा हि श्री-चैतन्य-चरितामृते (१।१।७)-
सङ्कर्षणः कारण-तोय-शायी
गर्भोद-शायी च पयोब्धि-शायी ।
शेषश् च यस्यांश-कलाः स नित्या-
नन्दाख्य-रामः शरणं ममास्तु ॥
सेइ वीरभद्र-गोसाञिर ल-इनु शरण
याङ्हार प्रसादे हय अभीष्ट-पूरण
श्री-रामदास आर गदाधर दास
चैतन्य-गोसाञिर भक्त रहे ताङ्र पाश
नित्यानन्दे आज्ञा दिल यबे गौडे याइते
महाप्रभु एइ दुइ दिला ताङ्र साथे
अतएव दुइ-गणे दुङ्हार गणन
माधव-वासुदेव घोषेरओ एइ विवरण
गदाधर दास गोपीभावे पूर्णानन्द
याङ्र घरे दानकेलि कैल नित्यानन्द
तथा हि तत्रैव -
महा-विष्णुर् जगत्-कर्ता मायया यः सृजत्य् अदः ।
तस्यावतार एवायम् अद्वैताचार्य ईश्वरः ॥
तत्रैव -
अच्युतानन्द बड शाखा आचार्य-नन्दन
आजन्म सेविला तेङ्हो चैतन्य-चरण
येइ येइ भक्त-गण ल-इल अच्युतानन्देर मत
सेइ आचार्येर गण महा-भागवत
सेइ सेइ आचार्येर कृपार भाजन
अनायासे पाइल सेइ चैतन्य चरण
एवं श्री-चैतन्य-भागवते शेष-खण्डे (३।४।xx)
क्षणेके अच्युतानन्द अद्वैत कुमार
प्रभुर चरणे आसि हैल नमस्कार
प्रेम-जले धुइलेन ताङ्र कलेवर
अच्युतेरे प्रभु ना धाडेन वक्ष हैते
अच्युतो प्रविष्ट हैला चैतन्य देहेते
अच्युतेरे देखि देखि सर्व-भक्त-गण
प्रेमे सभे लागिलेन करिते क्रन्दन
चैतन्येर यत प्रिय पारिषद-गण
नित्यानन्द स्वरूपेर प्राणेर समान
गदाधर पण्डितेर शिष्येते प्रधान
इहाङ्रे से बलि योग्य अद्वैत नन्दन
येन पिता येन पुत्र उचित मिलन
किं च यथा व्रजे पञ्च-विध-सखी-वर्ग-मुख्याभिः श्री-ललिता-विशाखाद्याभिः
सिहितया श्री-राधया सह सुखम् आस्वाद्यते, तथा श्री-गौर-गोविन्द-देवः श्री-
स्वरूप-श्री-रामानन्द-राय-श्री-नरहरि-सरकार-प्रभृतिभिः सह तत् सुखम्
आस्वाद्यते । तत् तु श्री-चैतन्य-चरितामृतादौ प्रसिद्धम् एव । ततः केषाञ्चित्
पार्षदानां पूर्व-नामानि यथा-श्रुताभिप्रायेण प्रकाश्यते । तद् यथा-
प्राण-प्रेष्ठ-सखी-मध्ये या विशाखा पुरा व्रजे ।
साद्य स्वरूप-गोस्वामी श्री-चैतन्य-प्रियो वरः ॥
यथा श्री-गौर-गणोद्देशे (१६०)-
कलाम् अशिक्षयद् राधां या विशाखा व्रजे पुरा ।
साद्य स्वरूप-गोस्वामी तत्-तद्-भाव-विलासवान् ॥
तत्रैव (१२०, १२२)-
प्रिय-नर्म-सखा कश्चिद् अर्जुनो यः पुरा व्रजे ।
इदानीं समभूद् रामानन्द-रायः प्रभोः प्रियः ॥
ललितेत्य् आहुर् एके यत् तद् एके नानुमन्यन्ते ।
तत्रैव (१७७)-
पुरा मधुमती प्राण-सखी वृन्दावने स्थिता ।
अधुना नरहर्य्-आख्यः सरकारः प्रभोः प्रियः ॥
यथा श्री-रूप-कृत-पद्यम्-
श्री-वृन्दावन-वासिनी रसवती राधा-घन-श्यामयोः ।
रासोल्लास-रसात्मिका मधुमती सिद्धानुगा या पुरा ॥
सोऽयं श्री-सरकार-ठक्कुर इह प्रमार्तिथः प्रेमदः ।
प्रेमानन्द-महोदधिर् विजयते श्रीखण्ड-भूखण्डके ॥
यथा श्री-कर्णपूर-कृत-पद्यम्-
श्री-चैतन्य-महाप्रभोर् अतिकृपा-माध्वीक-सद्-भाजनं
सान्द्र-प्रेम-परम्पराअ-कवलितं वाचि प्रफुल्लं मुदा ।
श्रीखण्डे रचित-स्थितिं निरवधि श्रीखण्ड-चर्चार्चितं
वन्दे श्री-मधुमत्य्-उपाधि-वलितं कञ्चिन् महा-प्रेमजम् ॥
गदाधर-प्राण-तुल्यो नरहरिस् तस्य सोऽद्यतः ।
उभयोः प्राणनाथः श्री-कृष्ण-चैतन्य ईश्वरः ॥
इदम् एव रहस्यम्-
प्रेमामृतमय-स्तोत्रैः पण्डितः श्री-गदाधरः ।
स्वरूप-गुणम् उत्कीर्त्य व्रज-राज-सुतस्य हि ॥
पत्रे विलिह्य तद् धीमान् प्रभोः पार्श्वम् उपागतः ।
लज्जा-भय-युतं तं तु ज्ञात्वा सर्वज्ञ-शेखरः ॥
तद्-धस्तात् पत्रम् आनीय स्तवराजं विलोक्य सः ।
आश्वास-युक्तया वाण्या पण्डितं चावदत् प्रभुः ॥
त्वयि कृतो मया पूर्वं शक्तेः सञ्चार एव यत् ।
स्तवराजस् ततोऽयं ते मुख-द्वारा प्रकाशितः ॥
इत्य् उक्त्वा श्री-स्तवस्यान्ते स्व-नामाप्य् अलिखत् प्रभुः ॥ इति ।
[श्री-रघुनन्दन-ठक्कुरस्य-
गोपीनां कुच-कुङ्कुमेन निचितं वासः किम् अस्यारुणं
निन्दत्-काञ्चन-कान्ति-रास-रसिकाश्लेषेण गौरं वपुः ।
तासां गाढ-कराभिबन्धन-वशाल् लोमोद्गमो दृश्यते
आश्चर्यं सखि पश्य लम्पट-गुरोः सन्न्यास-वेषं क्षितौ ॥
तथा हि वायु-पुराणे-
पुरा योषिद्-गणः सर्व इदानीं पुरुषोऽभवत् ।
इति यस्मात् कलौ विष्णुस् तद्-अर्थे पुरुषं गतः ॥]
इति श्रीमद्-राधा-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामी-चरणानुजीवि-
श्री-राधा-कृष्ण-दासोदीरिता भक्ति-साधन-दीपिका-सप्तम-कक्षा सम्पूर्ण ।
॥७॥
(८)
अष्ट-कक्षा
श्री-श्री-राधा-कृष्णाभ्यां नमः
श्रीमद्-रूप-पदाम्भोज-द्वन्द्वं वन्दे मुहुर् मुहुः ।
यस्य प्रसादाद् अज्ञोऽपि तन्-मत-ज्ञान-भाग् भवेत् ॥
यस् तु श्री-कृष्ण-चैतन्यस्याज्ञया स्व-गृहं हरेः ।
त्यक्त्वा स्वर्गोपमं सद्य प्रयागे तं ददर्श ह ॥
तं दृष्ट्वा परम-प्रीतः श्री-शचीनन्दनो हरिः ।
स्नेहात् तं शिक्षयामास भक्ति-सिद्धान्त-माधुरीम् ॥
कृष्ण-तत्त्वं भक्ति-तत्त्वं रस-तत्त्वं पृथक् पृथक् ।
सञ्चार्य शक्तिं स्वां तस्मिन् कृपया करुणा-निधिः ॥
पुनस् तं कथयामास गच्छ त्वं वृन्दिका-वनम् ।
सेवां प्राकाशयस् तत्र श्री-गोविन्दस्य मोहिनीम् ॥
स्वयं बगवतस् तस्य मौन-मुद्रा-धरस्य तु ।
दर्शनादेर् जनादीनां प्रेम-भक्तिर् भविष्यति ॥
लुप्त-तीर्थ-प्रकटनं भक्ति-शास्त्रस्य तत् तथा ।
अकिञ्चनानां भक्तानां पालनं सर्वथापि च ॥
महाप्रभोर् वचः श्रुत्वा श्री-रूपो विरहातुरः ।
पतित्वा दण्डवद् भूमौ ननाम च पुनः पुनः ॥
प्रभोर् आज्ञा-पालनार्थं गत्वा वृन्दावनान्तरे ।
न दृष्ट्वा श्री-वपुस् तत्र चिन्तितः स्वान्तरे सुधीः ॥
व्रज-वासि-जनानां तु गृहेषु च वने वने ।
ग्रामे ग्रामे न दृष्ट्वा तु रोदितश् चिन्तितो बुधैः ॥
एकदा वसतस् तस्य यमुनायास् तटे शुचौ ।
व्रजवासि-जनाकारः सुन्दर कश्चिद् आगतः ॥
तं दृष्ट्वा कथितं तेन हे यते दुःखितो नु किम् ।
तच् छ्रुत्वा वचनं तस्य स्नेह-कर्षित-मानसः ॥
प्रेम-गम्भीरया वाचा दूरीकृत-मनः-क्लमः ।
कथयामास तं सर्वं निदेशं श्री-महाप्रभोः ॥
स श्रुत्वा सर्व-वृत्तान्तम् आगच्छेति ध्रुवन्न् अमुम् ।
गुमाटिला इति ख्याते तत्र नीत्वाब्रवीत् पुनः ॥
अत्र काचिद् गवां श्रेष्ठा पूर्वाह्ने समुपागता ।
दुग्ध-श्रावं विकुर्वाणाप्य् अहन्य् अहनि याति भोः ॥
स्व-मनसि विमृश्यैतद् उचितं कुरु याम्य् अहम् ।
श्री-रूपस् तद्-वचः श्रुत्वा रूपं दृष्ट्वा च मूर्च्छितः ॥
पुनः क्षणान्तरे धीरः धैर्यं धृत्वोपचिन्तयन् ।
ज्ञात-सर्व-रहस्योऽपि लोकानुकृत-चेष्टितः ॥
व्रज-वासि-जनान् आह श्री-गोविन्दोऽत्र विद्यते ।
एतच् छ्रुत्वा तु ते सर्वे प्रेम-सम्भिन्न-चेतसः ॥
मिलित्वा बाल-वृद्धैश् च तां भूमिं समशोधयत् ।
योग-पीठस्य मध्यस्थं पश्यन् तं कृष्णम् ईश्वरम् ॥
साक्षाद् व्रजेन्द्र-तनयं कोटि-मन्मथ-मोहनम् ।
रुरुधुस् तां धरां यत्नाद् रामस्याज्ञानुसारतः ॥
ब्रह्म-कुण्ड-तटोपान्ताद् वृन्दा-देवी प्रकाशिता ।
प्रभोर् आज्ञा-बलेनापि श्री-रूपेण कृपाब्धिना ।
गुरौ मे हरि-दासाख्ये श्री-श्री-सेवा समर्पिता ॥
तथा हि श्री-चैतन्य-चरितामृते -
पण्डित गोसाञिर शिष्य अनन्त आचार्य
कृष्ण-प्रेम-मय-तनु उदार महा आर्य
ताङ्हार अनन्त गुण के करु प्रकाश
ताङ्हार प्रिय शिष्य पण्डित हरिदास
तत्रैव -
सेवार अध्यक्ष श्री-पण्डित हरिदास
याङ्र यश गुण स्रव-जगते प्रकाश
तत्रैव हि -
पाञा याङ्र आज्ञा-धन व्रजेर वैष्णव-गण
वन्दो ताङ्र मुख्य हरिदास
श्रीमद्-रूप-पद-द्वन्द्वे हृदि मे स्फुरतां सदा ।
रागानुगाधिकारी स्याद् यत् कृपालव-मात्रतः ॥
श्री-रूप-मञ्जरी कुर्याद् अतुलां करुणां मयि ।
वृषभानु-सुता-पाद-पद्म-प्राप्तिर् यया भवेत् ॥
स्वरूपो हरिदासश् च रूपाद्यो रघुनाथकः ।
रूपः सनातनः श्रीमान् जन्म-जन्मनि मे गतिः ॥
तत्र अखिल-भगवद्-धामसु मुख्यतम-ब्रह्मादि-वन्द्य-लक्ष्म्याद्य्-अप्राप्य-
श्रुत्य्-आद्य्-अन्वेषणीय-श्रीमद्-राधा-गोविन्द-चरणैक-निलय-श्रीमद्-व्रज-
मण्डलाचार्यः श्री-रूप एव श्री-राधिकायाः प्रिय-नर्म-सखी-वर्गेषु श्री-रूप-
रति-मञ्जर्य्-आदिषु मुख्या श्री-रूप-मञ्जरी । अस्या एवानुगत्ये श्री-राधा-प्राण-
बन्धोश् चरण-कमलयोः केश-शेषाद्य्-अगम्या इति या प्रेम-सेवा सैव स्यात् । अत्र
प्रमाणानि श्री-रघुनाथ-दास-गोस्वामि-पादानां मनः-शिक्षायाम्-
मनः-शिक्षा-दैकादशक-वरम् एतन् मधुरया
गिरा गायत्य् उच्चैः समधिगत-सर्वार्थयति यः ।
स-यूथः श्री-रूपानुग इह भवन् गोकुल-वने
जनो राधा-कृष्णातुल-भजन-रत्नं स लभते ॥
श्री-वैष्णव-तोषण्याम् (१०।१)-
श्रीमच्-चैतन्य-रूपस् ते प्रीत्यै गुणवतोऽखिलम् ।
भूयाद् इदं यद् आदेश-बलेनैव विलिख्यते ॥
श्रीमद्-बृहद्-भागवतामृते (१।१।११)-
भगवद्-भक्ति-शास्त्राणाम् अहं सारस्य सङ्ग्रहः ।
अनुभूतस्य चैतन्य-देवे तत्-प्रिय-रूपतः ॥
तत्रैव पूर्व-खण्डे टीकायां (१।१।१)-
नमश् चैतन्य-देवाय स्व-नामामृत-सेविने ।
यद् रूपाश्रयणाद् यस्य भेजे भक्ति-मयं जनः ॥
तत्रैव टीकायां शेषे-
स्वयं प्रवर्तितैः कृत्स्नैर् ममैतल् लिखन-श्रमैः ।
श्रीमच्-चैतन्य-रूपोऽसौ भगवान् प्रीयतां सदा ॥
अस्य टीका-श्रीमान् चैतन्यश् चैतन्य-सञ्ज्ञया प्रसिद्धः श्री-शचीनन्दनस् तत्-
स्वरूपस् तन्-मूर्तिर् वा भगवान् श्री-कृष्ण-देवः । पक्षे श्रीमान् चैतन्यस्य
तस्यैव प्रिय-सेवको रूपस् तत्-सञ्ज्ञको वैष्णव-वरः । ततश् च भगवान् इति ।
आयतिं नियतिं चैव भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाचो भगवान् इति ॥ इत्य् अभिप्रायेणेति दिक् ।
यथा भ्रातृ-सम्बन्धे श्री-कृष्ण-लीलायां कृष्ण-बलदेवौ च गौर-लीलायां
चैतन्य-नित्यानन्दौ च विराजतः, तत्-तत्-परिकरत्वे तत्-तद्-अनुसारेण रूप-
सनातनौ प्रसिद्धाव् एव । यद्यपि तेषां मध्ये भेदः कोऽपि नास्ति, तथापि लीला-
शक्त्य्-अनुसारेण श्री-कृष्ण-चैतन्य-रूप-पादानां मुख्यं मतम् इदं ज्ञेयम्
। तथा हि चैतन्य-चरितामृते श्री-महाप्रभोर् आज्ञा-
आजि ह-इते नाम दुङ्हार रूप सनातन
दैन्य छाडि तोमार दैन्ये फाटे मोर मन
श्री-सन्दर्भाद्ये-
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥
श्री-दास-गोस्वामिनः स्व-नियम-दशके (१)-
गुरौ मन्त्रे नाम्नि प्रभु-वर-शची-गर्भज-पदे
स्वरूपे श्री-रूपे गण-युजि तदीय-प्रथमजे । इत्य् आदि ।
तथा हि, श्री-सन्दर्भ-शेषे-श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-
विश्व-वैष्णव-राज-सभाजन-भाजन-श्री-रूप-सनातनेत्य् आदि ।
तत्र श्री-कृष्ण-दास-कविराज-महानुभावानाम्-
हा राधे क्व नु कृष्ण क्व ललिते क्व त्वं विशाखेऽसि हा
हा चैतन्य-महाप्रभो क्व नु भवान् हा श्री-स्वरूप क्व वा ।
हा श्री-रूप-सनातनेत्य् अनुदिनम् इत्य् आदि ।
तत्र-
शिवानन्द सेनेर पुत्र कवि कर्णपूर
दुङ्हार मिलन ग्रन्थे लिखियाछेन प्रचुर
तस्य चैतन्य-चन्द्रोदय-नाटके द्वयोर् मिलनम्, यथा (९।३८)-
कालेन वृन्दावन-केलि-वार्ता
लुप्तेति तां ख्यापयितुं विशिष्य ।
कृपामृतेनाभिषिषेच देवस्
तत्रैव रूपं च सनातनं च ॥
तत्रैव श्री-रूपे विशेषतो, यथा (९।२९)-
यः प्राग् एव प्रिय-गुण-गणैर् गाढ-बद्धोऽपि मुक्तो
गेहाध्यासाद् रस इव परो मूर्त एवाप्य् अमूर्तः ।
प्रेमालापैर् दृढतर-परिष्वङ्ग-रङ्गैः प्रयागे
तं श्री-रूपं समम् अनुपमेनानुजग्राह देवः ॥९।२९॥
तत्रैव शक्ति-सञ्चारो, यथा (९।३०)-
प्रिय-स्वरूपे दयित-स्वरूपे
प्रेम-स्वरूपे सहजाभिरूपे ।
निजानुरूपे प्रभुर् एक-रूपे
ततान रूपे स्वविलास-रूपे ॥
तथा हि चैतन्य-चरितामृते च-
लोक-भिड-भये गोसाञि दशाश्वमेध याञा
रूप-गोसाञिके शिक्षा करान् शक्ति सञ्चारिया
कृष्ण-तत्त्व भक्ति-तत्त्व रस-तत्त्व प्रान्त
सब शिखाइला प्रभु भागवत-सिद्धान्त
पुनस् तत्रैव मध्य-लीलानुवाद-कथने -
तार मध्ये श्री-रूपेर शक्ति-सञ्चारण ।
विंशति-परिच्छेदे सनातनेर मिलन ॥
तत्रैव श्रील-रूप-पाद-कृत-श्लोकः-
प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्र-मिलितस्
तथाहं सा राधा तद् इदम् उभयोः सङ्गम-सुखम् ।
तथाप्य् अन्तः-खेलन्-मधुर-मुरली-पञ्चम-जुषे
मनो मे कालिन्दी-पुलिन-विपिनाय स्पृहयति ॥
मूढ मोर हृदय तुमि जानिला केमने
एत बुलि रूपे कैला प्रेमालिङ्गने
सेइ श्लोक प्रभु ल-इया स्वरूपे देखाइला
रूपेर परीक्षा लागि ताहारे पुछिला
मोर अन्तर वार्ता रूप जानिल केमने
स्वरूप कहे तुमि कृपा करियाछ आपने
अन्यथा ए अर्थ कारो नाहि हय ज्ञान
तुमि पूर्वे कृपा करियाछ करि अनुमाने
प्रभु कहे मोहे इहोङ् प्रयागे मिलिला
योग्य-पात्र जानि इहाङ्य मोर कृपा हैला
तबे शक्ति सञ्चारिया कैलुङ् उपदेश
तुमिह कहिय इहार रसेर विशेष
स्वरूप कहे यबे एइ श्लोक देखिल
तुमि कृपा करियाछ तवहिङ् जानिल इत्य् आदि ।
श्रीमज्-जीव-गोस्वामि-चरणैः (श्री-माधव-महोत्सवे २।१०६)-
निखिल-जन-कुपूयं मां कृपा-पूर्ण-चेता
निज-चरण-सरोज-प्रान्त-देशं निनीय ।
निज-भजन-पदव्यैर् वर्तयेद् भूरिशो यस्
तम् इह महित-रूपं कृष्ण-रूपं निषेवे ॥
श्री-वैष्णव-तोषण्याम् (१०।१९।१६)-
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने इति टीकायाम्-भाव-प्रेम-स्नेह-
प्रणय-मान-रागानुराग-महाभावाख्यतया सप्तम-कक्षाम् आरूढाया रतेः
प्रपाकः श्रीमद्-अनुज-वरैर् विरचितोज्ज्वल-नीलम् अनावलोकनीयः ।
तत्रैव कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः इति टीकायां एतच् च श्री-
ललित-माधवादौ मद्-अनुज-वरैः स्पष्टं लिखितम् । टिप्पणी च-सोऽसौ क्रम-
जन्मतोऽनुजः परमार्थतो वरः । तथा हि मनुः-
जन्मदः ब्रह्म-दाता च गरीयान् ब्रह्म-दः पिता ।
रुद्र-यामले च-
जन्मदश् च गुरुः प्रोक्तो ब्रह्मदः परमो गुरुः ।
परात्पर-गुरुस् तस्मात् परमेष्ठी ततः परम् ॥ इत्य् आदि ।
श्री-हरि-भक्ति-विलासे (१।२)-
भक्तेर् विलासांश् चिनुते प्रबोधा-
नन्दस्य शिष्यो भगवत्-प्रियस्य ।
गोपाल-भट्टो रघुनाथ-दासं
सन्तोषयन् रूप-सनातनौ च ॥
प्रामाणिकैर् अप्य् उक्तम्-
न राधां न च कृष्णं वा न गौराङ्गम् अहं भजे ।
श्रीमद्-रूप-पदाम्भोजे धूलिर् भूयां भवे भवे ॥
ये केचिद् वृषभानुजा-चरणयोः सेवा-पराः सज्जनाः
श्री-नन्दात्मज-सेवनेऽतिरसिकाश् चैतन्य-पादाश्रिताः ।
ते रूपानुगतिं सदा विदधतस् तिष्ठन्ति वृन्दावने
श्री-गोपाल-सनातन-प्रभृतयो हृष्यन्ति चास्याज्ञया ॥
संस्कार-पञ्चकैर् युक्तोऽन्य-देवान् न पूजयेत् ।
ज्ञान-कर्मादि-रहितः स हि रूपानुगः सुधीः ॥
गायत्री-मन्त्रो राधायां मन्त्रः कृष्णस्य तत्-परम् ।
महाप्रभोर् मन्त्र-वरो हरि-नाम तथैव च ।
मानसी वर-सेवा च पञ्च-संस्कार-सञ्ज्ञकः ॥
गोपाल-भट्टो रघुनाथ-दासः
श्री-लोकनाथो रघुनाथ-भट्टः ।
रूपानुगास् ते वृषभानु-पुत्री-
सेवा-पराः श्रील-सनातनाद्याः ॥
किं च-
श्री-सनातन-पादाब्ज-द्वन्द्वं वन्दे मुहुर् मुहुः ।
यत् प्रसाद-लवेनापि कृष्णे भक्ति-रसो भवेत् ॥
श्री-उज्ज्वल-नीलमणौ च (१।१)-
नामाकृष्ट-रसज्ञः शीलेनोद्दीपयन् सदानन्दम् ।
निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति ॥
तत्र भक्ति-रसामृत-सिन्धौ (१।१।३)-
विश्राम-मन्दिरत्या तस्य सनातन-तनोर् मद्-ईशस्य ।
भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय ॥
अन्यत्र-
गोविन्द-पाद-सर्वस्वं वन्दे गोपाल-भट्टकम् ।
श्रीमद्-रूपाज्ञया येन पृथक् सेवा प्रकाशिता ॥
श्री-राधा-रमणो देवः सेवाया विषयो मतः ।
कृतिना श्रील-रूपेण सोऽयं योऽसौ विनिर्मितः ॥
आज्ञायाः कारणं प्रामाणिक-मुखाच् छ्रुतम् । तत् तु प्रसिद्धम् एव ।
श्रीमत्-प्रबोधानन्दस्य भ्रातुष्पुत्रं कृपालयम् ।
श्रीमद्-गोपाल-भट्टं तं नौमि श्री-व्रज-वासिनम् ॥
श्री-रूप-चरण-द्वन्द्व-रागिनं व्रज-वासिनम् ।
श्री-जीवं सततं वन्दे मन्देष्व् आनन्द-दायिनम् ॥
राधा-दामोदरो देवः श्री-रूप-कर-निर्मितः ।
जीव-गोस्वामिने दत्तः श्री-रूपेण कृपाब्धिना ॥
श्रीमद्-भूगर्भ-गोस्वामि-पादा इह जयन्ति हि ।
लोकनाथेन स्व-भ्रातुष्पुत्रेण व्रज-मण्डले ॥
श्रीमद्-रूप-प्रियं श्रील-रघुनाथाख्य-भट्टकम् ।
येन वंशी-कुण्डलं च श्री-गोविन्दे समर्पितम् ॥
एतत् श्री-चैतन्य-चरितामृते वर्णितम् अस्ति-
रूपाद्वैत-तनुं वन्दे दास-गोस्वामिनं वरम् ।
यत् प्राणार्बुद-सर्वस्वं श्री-गोविन्द-पद-द्वयम् ॥
तथा-
वन्दे श्री-परमानन्दं भट्टाचार्यं रसाश्रयम् ।
रामभद्रं तथा वाणीविलासं चोपदेशकम् ॥
वृन्दावन-प्रियान् वन्दे श्री-गोविन्द-पदाश्रितान् ।
श्रीमत्-काशीश्वरं लोक-नाथं श्री-कृष्ण-दासकम् ॥ इति श्री-वैष्णव-तोषण्याम्
।
श्री-चैतन्य-प्रियतमः श्रीमद्-राधा-गदाधरः ।
तत्-परिवार-रूपस्य श्री-गोविन्द-प्रसेवनम् ॥
तयोः सत्-प्रेम-सत्-पात्रं श्री-रूपः करुणाम्बुधिः ।
तत्-पाद-कमल-द्वन्द्वे रतिर् मे स्याद् व्रजे सदा ॥
श्रीमद्-गौरी-दास-नामा पण्डितः पार्षदो हरेः ।
चैतन्यस्य प्रणयवान् पण्डिते श्री-गदाधरे ॥
अतः श्री-हृदयानन्द-चैतन्यं तस्य सेवकम् ।
याचित्वा तु स्वयं निन्ये तत्-सौहार्द-प्रकाशयन् ॥
स्वस्य सेवाधिकारं तं दत्तवान् करुणाम्बुधिः ।
यं श्रीमद्-गौरीदासं श्री-सुबलं प्रवदन्ति हि ॥
श्री-कर्णपूर-गोस्वामिनां (आर्य-शतके १)
श्रवसोः कुवलयम् अक्ष्णोर्
अञ्जनम् उरसो महेन्द्र-मणि-दाम ।
वृन्दावन-रमणीनाम्
अखिल-मण्डनं हरिर् जयति ॥
श्री-मुक्ता-चरिते (४)-
यस्य सङ्ग-बलतोऽद्भुता मया
मौक्तिकोत्तम-कथा प्रचारिता ।
तस्य कृष्ण-कवि-भूपतेर् व्रजे
सङ्गतिर् भवतु मे भवे भवे ॥
श्री-कर्णपूर-गोस्वामिनाम्-इह विलसति राधा-कृष्ण-कुण्डाधिकारी इत्य् आदि ।
श्री-प्रेमि-कृष्ण-दासाख्यम् अनन्तं परमं गुरुम् ।
यत्-कृपा-लव-मात्रेण श्री-गोविन्दे मतिर् भवेत् ॥
प्रभोर् आज्ञा-बलेनापि श्री-रूपेण कृपाब्धिना ।
गुरौ मे हरि-दासाख्ये श्री-श्री-सेवा समर्पिता ॥
यत्-सेवाया वशः श्रीमद्-गोविन्दो नन्द-नन्दनः ।
पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥
किं चास्मिन् कदाचिद् वसन्त-वासरावसरे रात्रौ रास-मण्डले भ्रमति सति
सञ्चारिण्याः श्री-वृषभानु-सुताया आश्चर्य-रूपं दृष्ट्वा तमालस्य मूले
मूर्च्छितवान् इति प्रसिद्धिः ।
तस्यैव कान्ता-परिचारकोऽसौ
तयोश् च दासः किल कोऽपि नाम्ना ।
स्वकीय-लोकस्य तदीय-दास्ये
मति-प्रवेशाय करोति यत्नम् ॥
श्रीमान् प्रतापी गोविन्द-पाद-भक्ति-परायणः ।
भक्तश् चैतन्य-पादाब्जे मान-सिंहो नराधिपः ॥
प्रतापरुद्रस् त्व् ऐश्वर्य-सेवा-लग्न-मना हरेः ।
अयं माधुर्य-सेवायां लोभाक्रान्त-मना नृपः ॥
महा-मन्दिर-निर्माणं कारितं येन यत्नतः ।
अद्यापि नृप-तद्-वंश्याः प्रभु-भक्ति-परायणाः ॥
श्री-रघुनाथ-गोस्वामि-पादानां (प्रार्थनामृते)-
श्री-रूप-रति-मञ्जर्योर् अङ्घ्रि-सेवैक-गृध्नुना ।
असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥
किं श्री-कर्णपूर-गोस्वामिनोक्त-गौर-गणोद्देशानुसारेण केषाञ्चित् पूर्व-नामानि
लिख्यन्ते (१८०-१८४)-
श्री-रूप-मञ्जरी ख्याता यासीद् वृन्दावने पुरा ।
साद्य रूपाख्य-गोस्वामी भूत्वा प्रकऋअताम् इयात् ॥
या रूप-मञ्जरी-प्रेष्ठा पुरासीद् रति-मञ्जरी ।
साद्य गौराभिन्न-तनुः सर्वाराध्यः सनातनः ।
तं श्री-लवङ्ग-मञ्जरीत्य् अब्रवीत् कश्चन पण्डितः ।
अनङ्ग-मञ्जरी यासीत् साद्य गोपाल-भट्टकः ।
भट्ट-गोस्वामिनं केचित् आहुः श्री-गुण-मञ्जरी ॥
रघुनाथाख्यको भट्टः पुरा या राग-मञ्जरी ।
कृत-श्री-राधिका-कुण्ड-कुटीर-वसतेः प्रभोः ॥
दास-रघुनाथस्य पार्वाख्या रस-मञ्जरी ।
भूगर्भ-ठक्कुरस्यासीत् पार्वाख्या प्रेम-मञ्जरी।।
लोकनाथाख्य-गोस्वामी श्री-लीला-मञ्जरी पुरा ॥
शिवानन्द-चक्रवर्ती लवङ्ग-मञ्जरी पुरा ॥
श्री-राधा-कृष्ण-गणोद्देशे-
कलावती रसोल्लासा गुणतुङ्गा व्रजस्थिताः ।
श्री-विशाखा-कृतं गीतं गायन्ति स्माद्यता मताः ॥
गोविन्द-माधवानन्द-वासुदेवा यथाक्रमम् ।
राग-लेखा कलाकेलौ राधा-दास्यौ पुरा स्थिते ॥
एताः खलु पूर्वापरैर् देहैर् अभिन्नाः श्री-वृषभानुजायाः प्रिय-नर्म-सख्योऽपि
पाद-मर्दन-पयोदानाभिसारादिकं परिचारिका इव कुर्वन्ति यथा स्तवावल्यां
(व्रज-विलास-स्तवे)-स्वाभिलषित-परिचरण-विशेष-लाभाय रङ्गण-वल्ली-रङ्गण-
माला-प्रभृतयः । एताः परम-प्रणयि-सख्योऽपि परिचारिका इव व्यवहरन्ति ।
श्री-गोविन्द-लीलामृते-(१।८६)
तल्प-प्रान्ताद् उपादाय कञ्चुलीं रूप-मञ्जरी ।
प्रिय-नर्म-सखी सख्यै निर्गत्य निभृतं ददौ ॥
यत् तु श्री-गणोद्देश-दीपिकादौ दासीत्वेनोक्तम् अस्ति । तत् तु स्वयं ग्रन्थ-कृतत्वाद्
दैन्येनोक्तिः स्मरण-मङ्गल-दश-श्लोकी-वैष्णव-रङ्ग-भाष्ये धृता । श्री-
गोविन्द-लीलामृते वर्णनं यथा (२३।८९-९१)-
श्री-रूप-रति-मञ्जर्यौ पाद-संवाहनं तयोः ।
चक्रतुश् चापरा धन्या व्यजनैस् ताव् अवीजयन् ॥
क्षणं तौ परिचर्येत्थं निर्गताः केलि-मन्दिरात् ।
सख्यस् ताः सुषुपुः स्वे स्वे कल्प-वृक्ष-लतालये ॥
श्री-रूप-मञ्जरी-मुख्याः सेवा-पर-सखी-जनाः ।
तल्-लीला-मन्दिर-बहिः कुट्टिमे शिश्यिरे सुखम् ॥
किं च-
श्री-राधा-प्राण-तुल्या प्रिय-सहचरी मञ्जरी रूप-पूर्वा
तस्याः प्राणाधिक-प्रियतया विश्रुतानङ्ग-पूर्वा ।
विख्याता या किल हरि-प्रिया-तत्-पादाब्जानुगात्वे
तत्-पादाब्जे स्पृहयतितरां मञ्जरी रास-पूर्वा ॥
श्री-रूप-मञ्जरी तस्या अनुगानङ्ग-मञ्जरी ।
हरिप्रियाश् च ताः सन्तु रास-मञ्जरिका हृदि ॥
अथ श्री-रूप-मञ्जर्य्-अष्टकम्
ऐश-बुद्धि-वासितात्म-लोक-वृन्द-दुर्लभा
व्यक्त-राग-वर्त्म-रत्न-दान-विज्ञ-वल्लभा ।
स-प्रियालि-गोष्ठ-पालि-केलि-कीर-पञ्जरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥१॥
भक्ति-हीन-मानुषेषु सानुकम्प-चिन्तया
शश्वद्-उन्नचित्तता-निसर्ग-विस्फुरद्-दया ।
गोष्ठ-चन्द्र-चेष्टितामृतावगालि-निर्झरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥२॥
शील-सीधु-सिक्त-वार्षभानवी-सखी-गणा
नित्य-तत्-तद्-आनुकूल्य-कृत्य उच्छलन्-मनाः ।
मादृशीषु मूढ-धीषु सर्वतः शुभङ्करी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥३॥
गौरचन्द्र-शासनाद् उपेत्य वृन्दिका-वनं
राग-मार्ग-पान्थ-साधु-मण्डलैक-जीवनम् ।
विश्व-वर्ति-भक्त-काम-पूर्ति-कल्प-वल्लरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥४॥
धीरता-गम्भीरतादि-सद्गुणैक-सत्-खनिः
स्वानुराग-रञ्जित-व्रजेन्द्र-सूनु-हृण्-मणिः ।
राधिका-गिरीन्द्र-धारि-नित्य-दासिका-चरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥५॥
स्वाङ्घ्रि-पङ्कजाशयात्र ये वसन्ति सज्जनास्
तन्-निजेष्ट-दान-काम-नित्य-विक्लवन्-मनाः ।
स्वासृ-तुल्यता-प्रतीत-सर्व-गोप-सुन्दरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥६॥
प्रौढ-भाव-भावितान्तर्-उद्भ्रमालि-कम्पिता
सर्वदा तथापि लोक-रीतिम् एत्य लज्जिता ।
कुन्द-वृन्द-निन्दि-कृष्ण-कीर्ति-वादि-झल्लरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥७॥
सर्व-गुह्य-रम्य-केलि-रूपणादि-सम्पदा
तुष्ट-सख्य-वैरि-गोपिकाभिर् आत्त-सम्पदा ।
ताभिर् इष्ट-कृष्ण-सङ्ग-नृत्य-रङ्ग-चर्चरी
माम् उरीकरोतु नित्यदेह रूप-मञ्जरी ॥८॥
रूप-मञ्जरी-गुणैक-लेश-मात्र-सूचकं
यः पठेद् इदं निजार्थ-सारवित् सद्-अष्टकम् ।
स-प्रियेण राधिका-सुवल्लभेन तुष्यता
दीयतेऽत्र स्वाङ्घ्रि-पद्म-सेवनेऽस्य योग्यता ॥९॥
किं च-
मताद् बहिष्कृता ये च श्री-रूपस्य कृपाम्बुधेः ।
तेषु सङ्गो न कर्तव्यो रागाध्व-पथिकैः खलु ॥
तेषाम् अन्नं फलं मूलम् अन्य-दानादिकं च यत् ।
नाशितव्यं न पातव्यं प्राणैः कण्ठ-गतैर् अपि ॥
निष्ठाभावात् स्वाधिकारे इतरेऽपि च केवलात् ।
येषां कापि गतिर् नास्ति श्री-भागवत-तत्परे ॥
रुपेति नाम वद भो रसने सदा त्वं
रूपं च संस्मर मनः करुणा-स्वरूपम् ।
रूपं नमस्कुरु शिरः सदयावलोकं
तस्याद्वितीय-सुतनुं रघुनाथ-दासम् ॥
यदि जन्म ह्य् अनेकं स्यात् श्री-रूप-चरणाशया ।
तच् च स्वीकृतम् अस्माभिर् नान्यत् शीघ्रम् इहापि च ॥
श्री-रूपानङ्ग-मञ्जर्योः कृपा-पूर्णा हरि-प्रिया ।
ममानन्य-गतेः स्वान्ते कृपया स्फुरतां सदा ॥
इति श्री-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामि-चरणानुजीवि-
राधाकृष्णदासोदीरिता साधन-दीपिका
इत्य् अष्ट-कक्षा
॥८॥
(९)
नवम-कक्षा
अथ मुख्यं तत्त्वं निरूप्यते । श्री-भागवते (१।२।११)-
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥
अत्र तत्-तत्त्व-त्रयेषु भगवान् एव मुख्यः । भगवान् स्वयं भगवान् । स तु
श्री-कृष्णो व्रजेन्द्र-नन्दनो गोविन्द एव । तत्र प्रमाणम्-
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥१॥
यत् तु ब्रह्म, तद् अस्यैव प्रभा-रूपम्, यथा-
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४०॥
तत्र भगवद्-गीता ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदि ।
यश् च परमात्मा स तु अस्य भगवतोऽंशांश-रूपः, यथा द्वितीये (२।२।८)-
केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ।
चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख-
गदा-धरं धारणया स्मरन्ति ॥
कृष्ण-ब्रह्मणोर् ऐक्यम् (ब्र्स् २।३।२१८) किरणारोकोपमाजुषोः इत्य् आदेः । अतस् तत्-
तत्त्व-त्रयेषु परम-तत्त्व-रूपस्य स्वयं-भगवतो मुख्यत्वं दृश्यते । तस्माद्
योग-त्रयेषु भक्ति-योग एव मुख्यः । स तु अन्याभिलाषिता-शून्यम् इत्य् आदुअ
उत्तमत्वेन गृहीतः । यथा श्री-भागवते (११।११।४८)-
प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव ।
नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥ इत्य् आदेः ।
[भक्ति-रसामृत-सिन्धौ १।२।१,५]-
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ।
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥
तत्र रागानुगाया मुख्यत्वम्, यथा (ब्र्स् १।२।२८१)-
राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥
वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति । इति (ब्र्स् २।५।१)
यथाविध-स्वरूपानुगत्य-लक्षणं श्रीमत्-प्रभु-चरणैः (ब्र्स् १।२।२७०)-
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥
इति पूर्वं विचारितम् अस्ति । श्रीभागवते च (१०।१४।३२)-
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥
अथ रागानुगा सा द्विधा सम्बन्धानुगा कामानुगा च । तत्र कामानुगा
मुख्या । सा द्विधा सम्भोगेच्छामयी तत्-तद्-भावेच्छामयी च ।
केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् ।
तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥ (ब्र्स् १।२।२९९)
तत्राधिकारी-
श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः । (ब्र्स् १।२।३)
मत्तोऽस्य सुखं भ् आद् इति सम्भोगेच्छामयी । मत्तोऽनयोः सुखं भूयाद् इति तत्-
तद्-भावेच्छामयीति द्वयोर् भेदः । यथा श्री-भागवते (१०।४४।१४)
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥
श्री-भक्ति-रसामृत-सिन्धौ (२।५।३८) च-यथोत्तरम् असौ इत्य् आदि, इत्य् उद्धवादयोऽप्य्
एतं वाञ्छति भगवत्-प्रियाः । (१।२।२८६) इति । तद् यथा (भ्प् १०।४७।६१)-
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥
ब्रह्म-स्तुतिः (१०।१४।३४)-
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । इत्य् आदि ।
अतो व्रज-वासि-जनादिषु विराजमानाया रागात्मिकाया मुख्यत्वेन रागानुगाया
मुख्यत्वम् । तद्-अनुसारत्वात् । अस्याम् एव रागानुगायां गृहस्थोदासीन-
भेदेनाधिकारिणो द्विविधा दृश्यन्ते । तत्र उदासीना मुख्याः । तद् यथा श्री-
नारद-वाक्ये (भ्प् १।५।५)-
तत् साधु मन्येऽसुर-वर्य देहिनां
सदा समुद्विग्न-धियाम् असद्-ग्रहात् ।
हित्वात्म-पातं गृहम् अन्ध-कूपं
वनं गतो यद् धरिम् आश्रयेत ॥ इत्य् आदि ।
किं वासनं ते गरुडासनाय
किं भूषणं कौस्तुभ-भूषणाय ।
लक्ष्मी-कलत्राय किम् अस्ति देयं
वागीश किं ते वचनीयम् आस्ते ॥ इत्य् आदेः ।
ऐश्वर्य-माधुर्यानुभवि-भक्तानां दिविव्धत्वेऽपि पुनश् चतुर्विधा भक्ताः
श्री-लघु-भागवतामृते (२।५।३९)-
यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये ।
व्रजे मधुपुरे द्वार-वत्यां गोलोक एव च ॥
तत्रैव (१।५।४८८-९)-
व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् ।
कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥
प्रेष्ठेभ्योऽपि प्रिअयतमैर् जनैर् गोकुल-वासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥
बृहद्-गणोद्देश-दीपिकायाम् (१२५)-सर्वा एवाखिलं कर्म जानन्ते इत्य् आदेः । तथा
हि लघु-भागवतामृते (१।५।४९८)-यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम्
इति । तथापि स्तव-मालायां (नन्दापहरणम्) च-वैकुण्ठं यः सुष्ठु
सन्दर्श्य इत्य् आदि ।
श्री-कृष्ण-सन्दर्भे (११६) श्री-वृन्दावने श्री-गोलोक-दर्शनं तु
तस्यैवापरिच्छिन्नस्य गोलोकाख्य-वृन्दावनाप्रकट-प्रकाश-विशेषः
पर्यवस्यतीति माहात्म्यावलम्बनेन भजतां स्फुरतीति ज्ञेयम् । तत् तु न
केवलम् उपासना-स्थानम् एवेदं प्राप्ति-स्थानम् इदम् एव ।
तत्रोपासकाश् चतुर्विधाः-केवलैश्वर्यानुभविनः, माधुर्य-
मिश्रैश्वर्यानुभविनः, ऐश्वर्य-मिश्र-माधुर्यानुभविनः, केवल-
माधुर्यानुभविनश् च । तत्र केवलैश्वर्यानुभविनां स्थानं वैकुण्ठं
माधुर्य-मिश्रैश्वर्यानुभविनां महा-वैकुण्ठ-पर-व्योम-गोलोकम् ।
ऐश्वर्य-मिश्र-माधुर्यानुभविनां पुर-द्वयम् । केवल-माधुर्यानुभविनां
तु श्री-वृन्दावनम् (ब्र्स् १।२।३०३)-
रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥
किं च स्वकीया-परकीययोर् मध्ये परकीयायाम् एव मुख्यो रसो जायते इति
पूर्वं विचारितोऽस्ति । अतो रतिस् त्रिधा-साधारणी समञ्जसा समर्था च । तत्र
साधारणी सम्भोगेच्छा-निदाना कुब्जादिषु । समञ्जसा तु पत्नीभावाभिमान-
मयी क्वचिद् भेदित-सम्भोगेच्छा-सान्द्रा रुकिम्ण्य्-आदिषु । समर्था खलु स्व-
स्वरूप-जाता श्री-कृष्ण-सुख-स्वरूपा सान्द्रतमा श्री-राधिकादिषु । यथा (उन्
१४।५३)-
स्व-स्वरूपात् तदीयाद् वा जाता यत्-किञ्चिद्-अन्वयात् ।
समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥
किं च मन्त्र-मयी स्वारसिक्योर् मध्ये स्वारसिकी श्रेष्ठा । स्वारसिकी चात्र श्री-
राधा-प्राण-बन्धोर् इत्य् अत्र मासयाम् अपि सेवायां सद्-भावात् । अतएव गीतायां
(१२।१०)-
अभ्यासेऽप्य् असमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥
अभ्यासो नाम मनो-योगो मत्-कर्म श्रवण-कीर्तनादि ।
श्री-हरि-भक्ति-विलासे (२०।३८२)-
एवम् एकान्तिनां प्रायः कीर्तनं स्मरणं प्रभोः ।
कुर्वतां परम-प्रीत्या इत्य् आदि ।
एवं भक्ति-सन्दर्भे[*एन्द्नोते #१२]–
सद्-धर्म-शासको नित्यं सदाचार-नियोजकः ।
सम्प्रदायी कृपा-पूर्णो विरागी गुरुर् उच्यते ॥
टीका-विरागी विशिष्ट-रागवान् । तस्माद् दोष-दृष्ट्या विषय-परित्यागः सुतरां
लभ्यते ।
तथा हि-
विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।
वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥[*एन्द्नोते #१३]
गृहारम्भो हि दुःखाय न सुखाय कदाचन । इति च ।
श्री-प्रह्लाद-वाक्ये (७।५।५) च-
तत् साधु मन्येऽसुर-वर्य देहिनां
सदा समुद्विग्न-ध्याम् असद्-ग्रहात् ।
हित्वात्म-पातं गृहम् अन्ध-कूपं
वनं गतो यद् धरिम् आश्रयेत ॥
श्री-भागवते भगवद्-उक्तौ (११।७।६)-
त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु ।
मय्य् आवेश्य मनः सम्यक् सम-दृग् विचरस्व गाम् ॥
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ इति ।
(गीता १८।६५)-
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
(गीता ९।३०)-
अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥
(गीता ९।२२)-
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥
इत्य् आदेः बहुशः ।
विशेषतो रागानुगाधिकारि-लक्षणं दर्शयति (ब्र्स् १।४।७)-
न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।
तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्य-भाषणम् ।
सङ्कल्पोऽध्यवसायश् च क्रिया-निर्वृतिर् एव च ॥
एतन्-मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यम् एतद् एवाष्ट-लक्षणम् ॥ इत्य् आदि ।
ये तु भगवत्-परिकराणां विषया दृश्यन्ते । ते तु सिद्धानां तेषां भव-
बन्धनाय न भवन्ति । नित्य-सिद्धा मुकुन्दवत् इत्य् आदेः । किं च श्री-स्वामि-
चरणैः गृह-स्थितस्य पुनर् आसक्ति-सम्भवात् इत्य् आदेः ।
प्रसङ्गात् शिष्य-लक्षणम् (ह्ब्व् १।५९-६२, मन्त्र-मुक्तावल्याम्)-
शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रिय-दर्शनः ।
सत्य-वाक् पुण्य-चरितोऽदभ्र-धीर् दम्भ-वर्जितः ॥
काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः ।
देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम् ॥
नीरुजो निर्जिताशेष-पातकः श्रद्ध्यान्वितः ।
द्विज-देव-पितॄणां च नित्यम् अर्चा-परायणः ॥
युवा विनियताशेष-करणः करुणालयः ।
इत्य् आदि-लक्षणैर् युक्तः शिष्यो दीक्षाधिकारवान् ॥ इत्य् आदि ।
नन्व् अनुकार्य-ज्ञानं विना कथम् अनुसरण-ज्ञानम् । इत्य् अत आह-
रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥ (ब्र्स् १।२।२७१)
टीका-अथ स्वरूप-लक्षण-तटस्थ-लक्षणाभ्यां ताम् एवोपपादयति ।
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ (ब्र्स् १।२।२७२)
टीका-इष्टे स्वाभीप्सित-प्रेम-विषये श्री-नन्द-नन्दने इति यावत् । स्वारसिकी
स्वाभाविकी परमाविष्टता कायिकी वाचिकी मानसी चेष्टा । सा रागो भवेत् । तन्-
मयी तन्-मात्र-प्रेरिता या भक्तिः सा रागातिङ्कोदितेति योजना । इष्टे प्रेममय-
गाढ-तृष्णेति स्वरूप-लक्षणम् । इष्टे स्वारसिकी परमाविष्टतेति तटस्थ-
लक्षणम् ।
अथ तस्या विभागम् आह (ब्र्स् १।२।२७३)-
सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥
यद्यपि काम-रूपायाम् अपि सम्बन्ध-विशेषोऽस्त्य् एव, तथापि पृथग्-उपादानं
वैशिष्ट्यापेक्षया ।
तत्र काम-रूपम् आह (ब्र्स् १।२।२८३)-
सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥
अथ सम्बन्ध-रूपा (ब्र्स् १।२।२८८)-
सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ॥
अत्र शुद्ध-सम्बन्ध-रूपायां सम्बन्धाद् वृष्णयः (७।१।२०) इत्य् अत्र वृष्णीनाम्
उपलक्षणतया ये वल्लवाः प्राप्तास् त एवात्र मताः । न तु महिम-ज्ञान-युक्ता
द्वारकादि-नित्य-सिद्ध-भक्ता इत्य् अर्थः । तद् वेत्तुम् एवोपपादयति (१।२।२८८)-
यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता ॥
अथ पूर्वोक्त-रागानुगा-भक्तेर् विभागम् आह (१।२।२९०)-
रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥
तत्र अधिकारि-लक्षणम् (१।२।२९१)-
रागात्मिकाइक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥
ननु रागानुगायां लुब्धश् चेद् अधिकारवान् तर्हि लोभ-ज्ञानं विना कथं
प्रवृत्तिर् इत्य् अत आह लोभ-स्वरूपम् (ब्र्स् १।२।२९२)-
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥
टीका-तत्-तद्-भावादि-माधुर्ये श्रुते श्री-कृष्ण-भक्त-मुखात् श्री-
भागवतादिषु श्रवण-द्वारा यत् किञ्चिद् अनुभूते सति धीर् यन्-माधुर्यादिकम्
अपेक्षते कदा मम तद्-भाव-माधुर्य-चेष्टा माधुर्यं च भवेत् इति तद् एव
लोभोत्पत्तेर् लक्षणं स्वरूपम् । अत आश्रयिष्यमाणे गुरौ तद्-भाव-माधुर्यम्
आयातम् । यतः (भ्प् ११।२।२१) तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् इत्य्
एकादश-स्कन्ध-पद्य-टीकायां श्री-श्रीधर-स्वामिभिर् अप्य् उक्तम् । अन्यथा
न्यायतो बोध-सञ्चाराभावात् ।
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ (भ्प् १०।३३।३९)
टीका–हृद्-रोगं कामादिकम् अपि शीघ्रम् एव त्यजति । अत्र सामान्यतोऽपि
परमत्व-सिद्धेस् तत्रापि परम-श्रेष्ठ-श्री-राधा-संवलित-लीला-मय-तद्-
भजनं तु परमतमम् एवेति स्वतः सिध्यति । किन्तु रहस्य-लीला तु पौरुष-
विकारवद् इन्द्रियैः पितृ-पुत्र-दास-भावैश् च नोपास्या स्वीय-भाव-विरोधात् ।
रहस्यत्वं च तस्याः क्वचिद् अल्पांशेन क्वचित् तु सर्वांशेनेति ज्ञेयम् । (भक्ति-
सन्दर्भे ३३८)
तत्रत्य-भक्ति-मार्गा दर्शिताः । तथा हि-स्व-पुंस्त्व-भावनायां तु नैव
रागानुगां गता श्री-दशमे श्रुत्य्-अध्याये स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-
विषक्त-धियो [भ्प् १०।८७।२३] इत्य् आदिः । श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते
मनः (भ्प् १०।९०।२६) । न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा (ब्र्स्
१।४।७) । एवं वेद-स्तुतौ (!०।८७।२१)-
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ (१०।८७।२१)
टीका-यानि कुलानि शिष्योपशिष्यतया तेषां सङ्गेन विसृष्ट-गृहाः ।
अथ रागानुगाङ्गान्य् आह (ब्र्स् १।२।२९४-५, ३०९, ३००-२, ३०७)-
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥
पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥
तथापि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।
नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धोऽभूद् वृद्ध-वर्धकिः ॥
टीका-सिद्धिऽभूद् इति बालवत्स-हरण-लीलायां तत्-पितॄणाम् एव सिद्धिर् ज्ञेया । एवं
च सति श्रुइत्-कन्या-चन्द्रकान्ति-प्रभृतीनां नित्य-सिद्ध-पर्करानुगत्याभावात्
श्री-नन्द-नन्दनस्य प्रकाश-रूपस्यैव प्राप्तिर् न तु तादृश-स्वरूपस्य । अतएव
प्रामाणिकैर् अप्य् उक्तम् धाम्नोऽभेदेऽपि परिकर-भेदे प्रकाशः । यथा तासां
मध्ये द्वयोर् द्वयोः (१०।७७।७) इति । नित्य-सिद्धानुगतानां तु श्री-नन्द-
नन्दनस्य तादृश-स्वरूपस्यैव प्राप्तिर् इत्य् आनुगत्यापेक्षावश्यकीति भूयान्
विशेषोऽस्तीति विभावनीयम् ।
अथ चन्द्रकान्ति-प्रभृतिषु रागानुगीय-गुरु-चरणावलम्बनस्यादृष्टत्वाद्
रागानुगायाम् एतस्य कारणता न सम्भवति चेन् न । सामान्यतस् तादृश-गुरु-
चरणावलम्बनस्य कारणतायाः साक्षात् परम्परया स्वीकारात् । यत्र
साक्षात्कारणता न सम्भवति तत्र जन्मान्तरीण-कारण-कल्पनम् फल-बलात् ।
अतएवालङ्कारिकैर् बालक्सय कवितायां तथैव कल्प्यते । अतः स्वयम् एव वक्ष्यते
(ब्र्स् १।३।५७)-
साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते ।
विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं ॥
अतएव गोपालोपासकाः पूर्वम् अप्राप्ताभीष्ट-सिद्धयः इत्य् आदिकं च ।
अथ भावः (ब्र्स् १।३।१)-
शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥
यथा तन्त्रे –
प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।
सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥
अथ प्रेमा (ब्र्स् १।४।१)-
सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥
यथा पञ्चरात्रे-
अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥
(ब्र्स् १।४।१५-१६)-
आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।
ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥
अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥
(ब्र्स् २।१।४-६, १०)
अथास्याः केशव-रतेर् लक्षिताया निगद्यते ।
सामग्री-परिपोषेन परमा रस-रूपता ॥
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः ।
एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥
प्राक्तन्य् आधुनिकी चास्ति यस्य सद्-भक्ति-वासना ।
एष भक्ति-रसास्वादस् तस्यैव हृदि जायते ॥
कृष्णादिभिर् विभावाद्यैर् गतैर् अनुभवाध्वनि ।
प्रौढानन्द-चमत्कार-काष्ठाम् आपद्यते पराम् ॥
तथा हि श्रुतिः-रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति ।
उपपतौ परकीयायाम् एव रसोत्कर्षः । अतएव उज्ज्वल-नीलमणौ (१।१९)
अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥
टीका-अत्रैव उपपतौ । तथा च भरतेन (उन् १।२०-२१)-
बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥
लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके ।
न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥
पुनस् तत्रैव (उन् ३।१९)-
कन्यकाश् च परोढाश् च परकीया द्विधा मताः ।
व्रजेश-व्रजवासिन्य एताः प्रायेण विश्रुताः ।
तथा हि रुद्रः (उन् ३।२०)-
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥
विष्णु-गुप्त-संहितायां च (उन् ३।२१)-
यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥
(उन् ३।२२)-
आः किं वान्यद् यतस् तस्याम् इदम् एव महामुनिः
जगौ पारमहंस्यां च संहितायां स्वयं शुकः ॥
यथा श्री-दशमे (१०।३३।१९)-
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामोऽपि लीलया ॥
टीका-गोपीनां योषित इति तासां स्पष्टम् एव परकीयत्वम् ।
ता वार्यमाणाः पतिभिः पितृभिर् भातृ-बन्धुभिः । (भ्प् १०।३३।१९)
यत् पत्यपत्यसुहृदाम् अनुवृत्तिर् अङ्ग
स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । (भ्प् १०।२९।३२)
तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ (१०।२९।२२)
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । (१०।२९।२४)
अस्वर्ग्यम् अयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥ (१०।२९।२६)
तत्रैव-
स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥ (१०।३३।२७)
तथा श्री-एकादशे (११।१२।१३)-
मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः ॥
पद्म-पुराणे च-
गोप-नारीभिर् अनिशं यत्र क्रीडति कंसहा ॥
क्रम-दीपिकायां च-
गो-गोप-गोप-वनिता-निकरैः परितम् इति ।
बृहद्-गौतमीय-तन्त्रे च-
अत्र या गोप-पत्न्यश् च निवसन्ति ममालये ।
श्री-गोपाल-स्तवे-
विचित्राम्बर-भूषाभिर् गोप-नारीभिर् आवृतम् ॥ इति ।
बृहद्-वामने च-
जार-धर्मेण सुस्नेहं सर्वतोऽधिकम् उत्तमम् ।
मयि सम्प्राप्य सर्वोऽपि कृतकृत्यो भविष्यति ॥ इति ।
अथ श्री-रास-पञ्चाध्यायी-श्री-बृहद्-वैष्णव-तोषण्यां श्री-सनातन-गोस्वामि-
चरणैर् उक्तम् (१०।२२।२१)-
याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः ।
यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः ॥
टीका-भर्जिताः क्वथिता धानाः प्रायो बीजाय फलान्तरोत्पादनाय नेशते । किन्तु
स्वयं भोग्यतापत्त्या सद्य एव परम-सुखाय समर्था भवन्तीत्य् अर्थः । इत्य्
एवं पतित्वेन प्रेम-विशेषासिद्धेर् उपपतित्वेनैव तत् संसिद्धेर् इति भावः । तद्
एवाह यातेति । हे अबला इत्य् आतिबाल्यं सूचयति । अतोऽधुना रत्य्-अयोग्या इति भावः ।
यद् वा पूर्वोक्त-न्यायेन सर्वतोऽधिक-शक्तिमत्य इत्य् अर्थः । प्रकार-विशेषेण
मद्-वशीकार-विशेषात् । यतः सिद्धाः सम्पन्न-कामित्वात् तद्-अतीत-फला इत्य्
अर्थः । इमा निकट एवैष्यच् छरत्कालीना इति तासां विदूरवर्तित्वेऽपि इमा इति
सन्निहिततया उक्तिः सान्त्वनार्था । अन्यत् समानम् ।
यद् वा, हेमन्तस्योत्तर-मास-सम्बन्धिनीर् आगमिनीः क्षपाः मया सह रमणं
प्राप्स्यथ इति ।
ननु अस्मत्-सङ्कल्पितं त्वयोद्वहन-सुखं सिध्यतु, तेन रास-क्रीडादिषु सुखं
च सम्पद्यताम् । तत्राह यद् इति । यद् उद्दिश्य आर्यायाश् चिच्-छक्तेः कात्यायन्या
अर्चनं व्रतं चेरुर् भवत्यः, तद् इदं मयोक्तम् औपपत्येन रास-क्रीडादि-
सुखम् एवेत्य् अर्थः । विवाहेन पतित्वे रास-क्रीडादि-सुख-विशेषो न सम्पद्यत
इति भावः । सतीः हे सत्य इति औपपत्येऽपि यूयं सर्वथा साध्व्य एव । मद्-एक-
मात्र-निष्ठत्वाद् इति भावः । तत्त्वतोऽनौपपयात् विवाहिताभ्योऽप्य् अधिक-प्रियत्वात्
।
यद् वा सतीर् इति क्षपा-विशेषणम् । उत्तमा रासानन्दाविर्भाविकाः शारदाः
शीतोष्णादि-रहिता ज्योत्स्नाश् चेत्य् अर्थः ।
यद् वा तत् क्रीडा-माहात्म्यम् एवाह यद् यस्मात् सत्यो लक्ष्मी-धरणादयः । इदं
रास-क्रीडादि-सुखम् उद्दिश्य आर्यार्चन-व्रतं चेरुर् एव, न तु तत् सुखं प्रापुर्
इत्य् अर्थः । यद् रमणम् इदं व्रतम् । अन्यत् समानम् ।
श्रीमज्-जीव-गोस्वामि-चरणैः-अथ व्रजे प्रकटायां च श्री-कृष्णस्यौपपत्यं
नित्यम् । श्री-राधिकादीनां च परकीयात्वं नित्यम् । तयोः स्वरूपेण द्वैविध्यं
नास्ति । किन्तु अप्राकृत-द्वापरे प्राकृत-द्वापरस्य मिलने स्वयं-रूपे श्री-नन्द-
नन्दने वसुदेव-नन्दनादिषु प्रकाशेषु मिलितेषु सत्सु लीलायाः प्राकट्यं
भवति । यथोक्तम् आकरे (ल्भाग् १।५।४३८)-
प्रपञ्च-गोचरत्वेन सा लीला प्रकटा स्मृता ।
अन्यास् त्व् अप्रकटा भान्ति तादृश्यस् तद्-अगोचराः ॥
किं च श्री-कृष्णस्यौपपत्याभावे रसोत्कर्षाभावः स्यात् । यथाकरे (उन् १।१९,२१)-
अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥
लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके ।
न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥
अतएव एकादशे (११।१२।१३)-
मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥
अस्य व्याख्या स्व-दश-श्लोकी-भाष्ये कृतैव । तत्रेदं बीजम् । यत्रौपपत्ये लोक-
विरुद्धं धर्म-विरुद्धं च । तत्रैव लघुत्वम् । यत्र तु तद्-उभयाभावस्
तत्र बहु-निवारणादि-हेतुभिः शृङ्गारस्य परमोत्कर्षता । तत्र लौकिकौपपत्ये-
परदारान् न गच्छेच् च मनसापि कदाचन इति शास्त्र-विरुद्धत्वेन पाप-
सम्भवात् । धर्म-विरुद्धम् अत एव निन्दासम्भवात् लज्जाकरत्वेन लोक-
विरुद्धत्वं च । अतः स्वयं श्री-कृष्णेनापि (भ्प् १०।२९।२६) ।
अस्वर्ग्यम् अयशस्यं च कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥
इत्य् अनेन तस्यैवास्वर्ग्यादिकम् उक्तम् । श्री-व्रज-देवीभिर् अपि निःस्वं त्यजन्ति
गणिका जारा भुक्त्वा रतां स्त्रियम् (१०।४७।७) इति तस्यैवोल्लेखः कृतः । श्री-कृष्णे तु
शास्त्र-विरोधाभावेन पापासम्भवान् न धर्म-विरुद्धत्वम् ।
अतएवानिन्द्यत्वेन लज्जाद्य्-असम्भवान् न लोक-विरुद्धं च । प्रत्युत लोके
सुष्ठूपादेयत्वम् एवेति बहु-निवारणादि-हेतुभिः शृङ्गारस्य परमोत्कर्षतेति
तासां परम-दुःसह-लोक-लज्जानादरेण तद्-एक-प्रीत्या प्रवृत्तेर् अवगमात् । तत्-
प्रीतेश् च सर्व-शास्त्र-फल-रूपत्वात् । तत्र (१०।३३।२९)-
धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥
इत्य् आदि । वचन-प्रामाण्यात् न धर्म-विरुद्धम् अपि, यथा-
गो-चारणायानुचरैश् चरद् वने
यद् गोपिकानां कुच-कुङ्कुमाङ्कितम्
इत्य् अत्र यद् अक्रूरेण श्री-कृष्णस्यौपपत्यस्योल्लेखः कृतः । तत् खलु पितृव्यत्वेन
दासत्वेन चेत्य् उभयथा न युज्यते । किन्तु उपादेयत्वेनैव । न च प्रीति-
विशेषोल्लेख एव कृत इति वक्तव्यम् । तद्-वाचक-शब्दयानुपादानात् । यत् खलु श्री-
भागवतादि-पुराणेषु नाना-जातीय-मुनि-राज-सभादिषु तद्-औपपत्य-
प्रतिपादिका रास-लीला गीयते तत् तु सुष्ठूपादेयत्वेनैव, नान्यथा । तासां तद्-
एक-सुखार्थ-प्रवृत्तिस् तु यत् ते सुजात इत्य् आदि-श्री-भागवतोक्तेः । तत्-प्रीतेः सर्व-
शास्त्र-फल-रूपत्वं यथा तत्रैव कुर्वन्ति हि त्वयि रतिं कुशलाः इति । कुशलाः
शास्त्र-निपुणाः इति टीका च ।
परकीयात्वं चोदाहरति चाकरे (उन् ३।१८)-
रागोल्लास-विलङ्घितार्य-पदवी-विश्रान्तयोऽप्य् उद्धुर-
श्रद्धा-रज्यद्-अरुन्धती-मुख-सती-वृन्देन वन्द्येहिताः ।
आरण्या अपि माधुरी-परिमल-व्याक्षिप्त-लक्ष्मी-श्रियस्
तास् त्रैलोक्य-विलक्षणा ददतु वः कृष्णस्य सख्यः सुखम् ॥ इति ।
कास् ता इत्य् अपेक्षायाम् आह (उन् ३।१९)-
कन्यकाश् च परोढाश् च परकीया द्विधा मताः ।
परमोत्कर्षम् आह (उन् ३।१९)-
प्रच्छन्न-कामता ह्य् अत्र गोकुएन्द्रस्य सौख्यता ॥
अत्र परकीयात्व-विशेषे इति । तस्मात् श्री-कृष्ण-तद्-धाम-समय-परिकर-
लीलादीनां सर्व-लौकिकातीतत्वेऽपि यथा लोकवल् लीलायां सच्-चिद्-आनन्द-मय-श्री-
विग्रहे मुत्र-पुरीषोत्सर्गादिकं स्वीक्रियते तथा तल्-लीला-परिकर-रूपाभिर्
मन्वादिभिः पाणि-ग्रहणे को दोषः । सङ्गमे तु दोष एव, स च नास्ति । यथा
(उन् ३।३२)–
न जातु व्रज-देवीनां पतिभिः सह सङ्गमः ॥
अतएव (भ्प् १०।३३।२७)-
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥
इति पार्श्वस्थान् न तु सङ्गमोचित-शय्या-स्थानानि । तथापि योगमायया विवाहोचितं
लौकिक-वैदिकं कर्म कारयित्वा पाणि-ग्रहणं प्रत्यायितम् ।
किं च गोकुलस्य प्रकटाप्रकट-रूपेण प्रकाश-द्वैविध्य-स्वीकारे सति लीलाया
द्वैविध्यं स्यात् । तयोः स्वरूपेण द्वैविध्यस्याभावः । अतः श्री-राधिकादिभिः
सार्धं प्रकट-विहारेऽपि श्री-कृष्णस्याधोक्षजत्वात् तत् परिवार-समय-
लीलादीनां तत्-स्वरूप-शक्तिविलासत्वेन तत्-समान-धर्मत्वाच् च तस्य तेषां च
प्रपञ्चेन्द्रियाविषयत्वम् अप्राकट्यम् । ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-
प्रकाशया सोऽभिव्यक्त्यो भवेन् नेत्रे न नेत्र-विषयस् त्व् अतः इति निर्धारणात् तस्य
तेषां च प्रपञ्चेन्द्रिय-विषयत्वं प्राकट्यम् । अतएव श्री-लघु-भागवतामृते
(१।५।३९१-२)-
यद् अद्यापि दिदृक्षेरन् उत्कण्ठार्ता निज-प्रियाः ।
तां तां लीलां ततः कृष्णो दर्शयेत् तान् कृपा-निधिः ॥
कैर् अपि प्रेम-वैवश्य-भाग्भिर् भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥
इत्य् अत्रैव वृन्दावने लीलायाः प्रपञ्चागोचरायाः साक्षाद्-दर्शनम् । अप्रकट-
वृन्दावन-सत्ता-पक्षे तु ब्र्हम-ह्रद-नीताः इतिवद् अत्र तस्य साक्षाद्-
दर्शनानुपपत्तिः ।
किं चाप्रकट-वृन्दावनस्य सत्त्वे (उत्कलिका-वल्लरी ६६)-
प्रपद्य भवदीयतां कलित-निर्मल-प्रेमभिर्
महद्भिर् अपि काम्यते किम् अपि यत्र तार्णं जनुः ।
कृतात्र कुजनेर् अपि व्रज-वने स्थितिर् मे यया
कृपां कृपण-गामिनीं सदसि नौमि ताम् एव वाम् ॥
तथा श्री-गान्धर्व-सम्प्रार्थनाष्टके (१) वृन्दावने विहरतोर् इह केलि-कुञ्जे इत्य्
आद्य्-अनुपपत्तिः । एवं च सति कल्प-वृक्षादि-रूपाणां निम्बादि-रूपेण यत् प्रतीतिः
। तत् तु (नैषधीय-चरिते ३।९४) पित्तेन दूने रसने सितापि तिक्तायते इतिवत् । नयन-
दोषात् शङ्खं पीतम् इव पश्यतीतिवत् । प्रकाशैक-रूपायाः सूर्य-कान्तेर् उलूकेषु
तमोऽभिव्यञ्जकता इतिवच् च सापराधेष्व् अयोग्येषु तेषु तस्य स्वरूपाप्रकाश-
प्रायिकत्वाच् च । अनेन श्री-कृष्णस्यौपपत्ये श्री-राधिकादीनां परकीयात्वे केचित्
पुनर् एवम् आहुः-यः खलूपपत्याद्य्-उत्कर्षो वर्णितः श्रीमद्भिर् ग्रन्थ-
कृद्भिः स तु परेच्छयैव न तु स्वाभिमतः । तन् न तेषां प्रार्थना-विरोधात्
। यथा ह्य् उत्कलिका-वल्लर्यां (४५)-
आलीभिः समम् अभुपेत्य शनकैर् गान्धर्विकायां मुदा
गोष्ठाधीश-कुमार हन्त कुसुम-श्रेणीं हरन्त्यां तव ।
प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढ-स्मितास्यं बलाद्
आच्छिन्दानम् इहोत्तरीयम् उरसस् त्वां भानुमत्याः कदा ॥
इत्य् अत्र हि स्वकीयत्वेन तया तया तस्य पुष्प-हरणम् । तेन च तत्-तत्-सख्या ।
उत्तरीयाकर्षणं न सम्भवतीति । तथा कार्पण्य-पञ्जिकायां (३५) च-
गवेषयन्ताव् अन्योऽन्यं कदा वृन्दावनान्तरे ।
सङ्गमय्य युवां लप्स्ये हारिणं पारितोषिकम् ॥
तथा (३४)-
गुर्वायत्ततया क्वापि दुर्लभान्योन्य-वीक्षणौ ।
मिथः सन्देश-सीधुभ्यां नन्दयिस्यामि वां कदा ॥
अत्रापि परस्परान्वेषणं दुल्रभान्योऽन्य-वीक्षणं च परकीयायाम् एव
सम्भवतीति । एवं श्रीमन्-महाप्रभोः परमान्तरङ्ग-भक्त-श्री-रघुनाथ-
दास-गोस्वामि-पादैर् यथा विलाप-कुसुमाञ्जल्याम् (८८)-
भ्रात्रा गोयुतम् अत्र मञ्जु-वदने स्नेहेन दत्त्वालयं
श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्य-राका-क्षणे ।
नीतायाः सुख-शोक-रोदन-भरैस् ते सन्द्रवन्त्याः परं
वात्सल्याज् जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥
इत्य् आदि बहुशः ।
किं च व्रजे श्री-कृष्णस्य नव-यौवने समृद्धिमान् शृङ्गारो ज्ञेयः । स च
महाभाव-स्वभावेन चिर-प्रवासं विना निकट-प्रवासेऽपि तत्-स्फूर्त्या
सम्भवति । त्रुटिर् युगायते त्वाम् अपश्यताम् इत्य् आदि न्यायेन ब्रह्म-रात्र-ततिवद्
विरहेऽभूत् इत्य् आदि न्यायेन शरज्-ज्योत्स्ना-रासे विधि-रजनि-रूपापि निमिषादि-न्यायेन
च । अतएव श्रीमद्-उज्ज्वज-नीलमणौ (१५।२०३) सम्पन्नस्योदाहरणे श्री-
हंसदूतस्य पद्यं दत्तम् । अतो विदग्ध-माधवे (१।३६) पौगण्डत्वेन
भासमानत्वं दर्शितम् । यथा दुद्ध-मुहस्स वच्छस्स दाणिं को क्खु
उव्वाहा-ओसरो । इत्य् आदौ ।
नव-यौवनस्यैव सदास्थायित्वेन ध्येयत्वम् । यथा स्तव-मालायां (उत्कलिका-
वल्लरी १७) श्यामयोर् नव-वयः-सुषमाभ्याम् इत्य् आदौ । अतः श्री-कृष्ण-दुग्ध-
मुखत्वस्य सदा स्फूर्त्या श्री-व्रजेश्वर्यादिभिस् तस्य परिणयोद्यमः क्वापि न
कृतः । किम् उत महा-भाव-प्रभेदाधिरूढ-विशेष-मादन-भाव-स्वभावे ।
स च तं विना सम्भवतीति वक्तव्यम् । यथा श्री-आर्ष-वचनम्-
वन्दे श्री-राधिकादीनां भाव-काष्ठाम् अहं परम् ।
विना वियोगं सम्भोगं या तुर्यम् उदपादयत् ॥
अत्र भाव-काष्ठां मादन-रूपाम् । मादनस्य लक्षणम् (उन् १४।२१९, २२६, २२९)-
सर्व-भावोद्गमोल्लासी मादनोऽयं परात् परः ।
राजते ह्लादिनी-सारो राधायाम् एव यः सदा ॥
न निर्वक्तुं भवेच् छक्या तेनासौ मुनिनाप्य् अलम् ॥।
स्फुरन्ति व्रज-देवीषु परा भाव-भिदाश् च याः ।
तास् तर्काय्गोचरत्या न सम्यग् इह वर्णिताः ॥
इत्य् आदेश् च चिर-निकट-प्रवासे चिर प्रवास स्फूर्त्या समृद्धिमान् सम्भोगो
भवतीति किम् आश्चर्यम् ।
ननु तर्हि कथं श्री-गोस्वामि-पादैः समृद्धिमान् सम्भोगो नव-वृन्दावने
उदाहृतः ? तत् तु स्पष्ट-लीलायां नन्दनन्दन-वसुदेव-नन्दनयोर्
एक्तवाभिमानात् । तद् यथा (११।१२।१३) मत् कामा रमणं जारम् अस्वरूप-
विदोऽबलाः । तथा (१०।४६।३) गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवहन्
इत्य् आदि । अतएव श्रीमद्-उज्ज्वल-नीलमणौ (१५।१८५-६)
हरेर् लीला-विशेषस्य प्रकटस्यानुसारतः ।
वर्णिता विरहावस्था गोष्ठ-वाम-भ्रुवाम् असौ ॥
वृन्दारण्ये विहरता सदा रासादि-विभ्रमैः ।
हरिणा व्रज-देवीनां विरहोऽस्ति न कर्हिचित् ॥
अतएव श्री-रसामृत-सिन्धौ (२।५।१२८) श्री-भागवतादि-गूढार्थः श्री-गोस्वामि-
पादैर् दर्शितः । यथा-
प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥
यथा हि यामल-वचनम्-
कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परम् ।
वृन्दावनं परित्यज्य स क्वचित् नैव गच्छति ॥ इति ।
स्पष्ट-ल्कीला श्री-नन्दनन्दन-वसुदेव-नन्दनयोर् एकात्म-व्यञ्जिकाः । अस्पष्ट-
लीला गूढ-लीला तयोर् भेद-व्यञ्जिका । अतएव श्री-नन्द-यशोदादीनां परिकरैः
सह द्वारवत्यादि-गमनं व्रजेशादेर् अंशभूता ये द्रोणाद्या इत्य् आदिवत् ज्ञेयम्
। श्री-ललित-माधवे (१०।३६) श्री-राधा-प्रार्थना–
या ते लीला-रस-परिमलोद्गारि-वन्यापरीता
धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः ।
तत्रास्माभिश् चटुल-पशुपी-भाव-मुग्धान्तराभिः
संवीतस् त्वं कलय वदनोल्लासि-वेणुर् विहारम् ॥ ३८ ॥
कृष्णः - प्रिये तथास्तु ।
राधिका - कधं बिअ ?
(कृष्णः स्थगितम् इवापसव्यतो विलोकते ।)
(प्रविश्य गार्ग्या सहापटीक्षेपेण एकानंशा ।)
एकानंशा-सखि राधे ! मात्र संशयं कृथाः । यतो भवत्यः श्रीमति गोकुले
तत्रैव वर्तन्ते किन्तु मयैव काल-क्षेपणार्थम् अन्यथा प्रपञ्चितम् । तद् एतन्
मनस्य् उअन्भूयताम् । कृष्णोऽप्य् एष तत्र गत एव प्रतीयताम् ।
गार्गी (स्वगतम्)-फलिदं मे तात-मुहादो सुदेन ।
श्री-भागवते यथा श्री-नन्दनन्दन-वसुदेव-नन्दनयोर् एकत्व-व्यञ्जिका
स्पष्टा । तथा श्री-ललित-माधवे विन्ध्यादार-प्रसूता-कीर्तिदा-प्रसूतयोर् एकत्व-
व्यञ्जिका लीला स्पष्टा । यथा गूढ-लीलायां श्री-कृष्णो वसुदेव-नन्दन-रूपेण
गतस् तथा श्री-राधा सत्यभामा-रूपेण गता । यथा स्पष्ट-लीलायां वसुदेव-
नन्दने नन्द-नन्दनावेशस् तथा श्री-सत्यभामायां श्री-राधावेश इति ।
नन्व् अप्रकट-लीलायां पूर्व-रागो नास्तीति प्रकट-लीला-विशेषोऽपेक्ष्यः । प्रकट-
लीलायां समृद्धिमान् सम्भोगो नास्तीत्य् अप्रकट-लीला-विशेषोऽपेक्ष्यः । अतएव
गोकुलस्य प्रकटाप्रकट-प्रकाशयोः स्वरूपेण द्वैविध्यं स्यात् । एवं लीलायाश्
च ? तत्राह समृद्धिमान् सम्भोगस् तत्र प्रकट-लीलायां न जातश् चेत्, तद् अर्थम्
अप्रकट-लीला-विशेषोऽपेक्ष्यः । स तत्र जात एव यथा दन्तवक्र-वधानन्तरं
रम्य-केलि-सुखेनात्र मास-द्वयम् उवास ह इति ।
किं च स्वकीयासु समञ्जसा रतिः, सा चानुरागान्ताः । तत्र जाति-भेदेन
समृद्धिमान् सम्भोगो रस-निर्यासत्वेन न कथ्यते । परकीयासु समर्था रतिः
। सा च भावान्ता । वैशिष्ट्यं पात्र-वैशिष्ट्याद् रतिर् एषोपगच्छति (ब्र्स् २।५।१) इति
समर्था-रति-स्थायिकः समृद्धिमान् सम्भोगो रस-निर्यासत्वेन कथ्यते । अतएव
प्रकट-लीलायां पूर्व-राग-समृद्धिमन्तौ जातौ । अ प्रकट-लीला-विशेष-
स्वीकारेण किं प्रयोजनम् ? किं च जात-प्राकट्याः पूर्व-रागादि-गता लीला
अप्रकटा अधुना वर्तन्ते तासां पुनः प्राकट्ये किं पुनः पूर्वरागादि-रूपं
निज-प्रयोजनं भवति । लीलायाः प्रकटायां समृद्धिमत आस्वादनम् अस्त्य् एव
। तद् अर्थं प्रकट-लीला-विशेष इत्य् असङ्गतिर् इति । किन्तु रस-शास्त्रे सम्भोगस्य
रात्रि-प्राधान्यत्वात् । स च समृद्धिमान् रात्राव् एव जायते यथा निकट-दूरेत्यादि-
पूर्ववत् ।
केचित् तु दन्तवक्र-वधानन्तरं प्रौढ-यौवने ##[*एन्द्नोते #१४] प्रौढ-
यौवनं विचार्यते । आनुक्रमिकी लीला नित्या । सा च जन्म कर्म च मे दिव्यम् इत्य्
आदेः । तस्यां श्री-नन्दनन्दनस्य वयो-गणनं श्री-वैष्णव-तोषण्याम् निर्णीतम्
एव । तत् तु पञ्चविंशत्य्-अधिक-शत-वर्ष-पर्यन्तम् । तद्-व्यवस्था । व्रजे
एकादश-समाः । तत्र सावित्र्य-जन्माभावेन धर्म-शास्त्र-विरोधाद् विवाहो नास्ति
। रास-क्रीडा-सुख-सम्भोगे परकीयात्वम् एवेत्य् अर्थः । मथुरायां
चतुर्विंशतिः वर्षाः । तत्रापि नास्ति विवाहः । ततः सम्भोगाद् अनन्तरं
सत्यभामादीनां । ततः षोडश-सहस्र-कन्यानाम् । ततः पुत्र-पौत्रादयो
बहवो जाताः । ततो दन्तवक्र-वधानन्तरं लीलावसाने व्रजागमनम् । तत्रापि
केषाञ्चिन् मते विवाहः श्री-राधादिभिः सम्मतः । तद् असङ्गतम् । श्री-भागवते
कुत्राप्य् अवर्णितत्वात् । बन्धु-वर्गाएर् निषेधाभावेन रसोत्कर्षाभावाच् च ।
अतएव गोचारणादि-जन्य-विरहाभावस् ततो रास-दान-मानादि-लीलादेर् अभावेन
दूती प्रेषणादेर् अभावः स्यात् । अतएव श्री-रूप-पादैर् नवयौवनस्य
सदाधेयत्वेन वर्णितत्वात् श्री-महाप्रभोः पार्षद-वृन्दैर् विवाहस्य कुत्राप्य्
अवर्णितत्वाच् च । श्री-पद्म-पुराण-मते ललित-माधवे विवाह-वर्णनं कल्प-
भेदेन समाधेयम् ।
तस्मात् सर्वेषां मते प्रकटाप्रकट-लीलायां परकीयैव नित्यत्वात् । विवाहं
स्वीकृत्य तेनैव लीलाया अपरकटत्वं मत्वा स्वकीयाया नित्यत्वं मन्यते । तद्
असङ्गतम् । पूर्व-हेतोः श्री-व्रजेश्वरादीनां श्री-कृष्णस्य सदा दुग्ध-
मुखत्व-स्फूर्त्या सावित्र-जन्याभावेन विवाहाभावात् । नव-यौवन-संवलित-
पूर्णतमत्वस्य श्री-रूप-गोस्वाम्य्-आदिभिः सदा ध्येयत्वाच् च । तत् तु श्री-
कृष्णस्य मथुरादि-गमनाभावात् । स च कृष्णोऽन्यो यदु-सम्भूतः इत्य् आदि ।
मथुरादि-गमने तु पूर्णतरत्वादिपातात् । नव-यौवनस्य सदा ध्येयत्वं यथा
स्तवमालायां (उत्कलिका-वल्लरी १७)-
श्यामयोर् नव-वयः-सुषमाभ्यां
गौरयोर् अमल-कान्ति-यशोभ्याम् ।
क्वापि वाम् अखिल-वल्गु-वतंसौ
माधुरी हृदि सदा स्फुरतान् मे ॥ इत्य् आदेश् च ।
अस्मन्-मते तु श्री-वसुदेव-नन्दन-रूपेण मथुरा-द्वारकादौ गत्वा
दन्तवक्र-वधानन्तरं पुनर् व्रजम् आगत्य तत्र तु स्वयं-प्रकाश-रूपेण श्री-
व्रजेन्द्र-नन्दनेन लीलायाः प्रकटनं कृतम् । तत् तु त्रिमास्याः परतस् तासां
साक्षात् कृष्णेन सङ्गतिः इति जातम् । अस्य तु प्रकटाप्रकटे जातत्वं पूर्वम् एव
लिखितम् । ततः श्रीमद्-व्रजेन्द्र-नन्दने पूर्णतरादि-प्रकाशे । न तु मथुरा-
द्वारकादौ च । अतः प्रकटाप्रकटे परकीयायाः सद्-भावेन नित्यत्वात् । तत् तु
जयति जननिवास इत्य् आदेर् वर्तमान-प्रयोगा बहवः सन्ति । अतः श्री-कृष्ण-
चैतन्य-महाप्रभोः परिवारेषु श्रीमन्-नित्यानन्दाद्वैतादिभिः श्री-
भागवतानुसारेण प्रकटाप्रकटे व्रज-लीलायां श्री-कृष्णस्यौपपत्यं
नित्यत्वेन स्वीकृत्य स्व-स्व-परिवारे प्रवर्तितं दृश्यते । तेषु च श्री-गदाधर-
स्वरूप-रूप-सनातन-भट्ट-रघुनाथ-दास-कर्णपूरादिभिस् तत्-तन्-
मतानुसारेण तत्र तत्रैव परकीयात्वं स्व-स्व-ग्रन्थ-गणे वर्णयित्वा
प्रवर्तितं दृश्यते । लीला-मात्रस्य नित्यत्वात् । तत् तु जयति जननिवासः इत्य् आदेः ।
तथा श्री-रामानुजाचार्य-मध्वाचार्य-प्रभृतिभिश् च लीला-मात्रस्य नित्यत्वं
स्थाप्यते । अतो लीला-मात्रस्य नित्यत्वेनानुक्रमिक्या लीलाया नित्यत्वे न दोषस् तस्मात्
प्रकटाप्रकटे परकीयाया नित्यत्वम् ।
तत् तु पुनः परिपाट्या विचार्यते । स्वयं भगवान् श्री-व्रजेन्द्र-नन्दनः श्री-
कृष्ण-चैतन्यः । स च सप्तोत्तर-चतुर्दश-शत-शकाब्दे प्रकटितः । जगद्-
गुरुत्वाद् आचार्यत्वम् अङ्गीकृतवान् । अवतारे तु मुख्य-कारणम् आह (च्च् १।१।६)-
श्री-राधायाः प्रणय-महिमा कीदृशो वानयैवा-
स्वाद्यो येनाद्भुत-मधुरिमा कीदृशो वा मदीयः ।
सौख्यं चास्या मद्-अनुभवतः कीदृशं वेति लोभात्
तद्-भावाढ्यः समजनि शची-गर्भ-सिन्धौ हरीन्दुः ॥ इत्य् आदि ।
गौण-कारणं तु भू-भार-रूप-महा-पापिनाम् असुर-स्वभावं दूरीकृत्य कलौ
मुख्य-धर्म-नाम-सङ्कीर्तन-प्रवर्तनम् । तस्य प्रमाणं अनुग्रहाय
भक्तानाम् (१०।३३।३६) इत्य् आदि । अतएव श्री-नित्यानदाद्वैत-गदाधर-स्वरूप-रूप-
सनातनादीन् निज-पार्षदान् प्रकटय्य तद्-द्वारेण युग-धर्मं प्रवर्तयित्वा
तैः सह पुनर् अष्ट-चत्वारिंशद्-वर्ष-पर्यन्तं प्रकट-मुख्य-कारणं
मुख्य-रसास्वादनं कृतवान् । आस्वादनं तु सर्व-वेदान्त-सार-श्री-भागवत-
सम्मतम् । तत् तु प्रकटाप्रकटे नित्यत्वात् । तत्र च (१०।३३।१९)-
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥
इत्य् आदि बहुशः । तस्माद् व्रजेन्द्र-नन्दनस्य गोप-स्त्रीषूपपतित्वं तासां तु
तस्मिन् परकीयात्वं क्रम-लीलावसाने प्रकटं नित्यम् एव । यतः श्रीमन्-
महाप्रभुः श्री-कृष्ण-चैतन्यः सर्व-भक्तान् तद् एवास्वादनं कारयित्वा
स्वयम् एवास्वादनं कृतवान् । तत्र स्वयम् आस्वादनं यथा श्री-चैतन्य-
चरितामृते (२।१।११)-
चण्डी-दास विद्यापति रायेर नाटक गीति
कर्णामृत श्री गीत गोविन्द
महाप्रभु रात्रि दिने स्वरूप-रामानन्देर सने
नाचे गाय परम आनन्द
एतद्-अभावे हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराक-रूपोऽपि इति वचनात् । श्री-
महाप्रभुना निज-प्राकट्यस्य प्रयोजनस्य श्रीमद्-रूप-गोस्वामि-कृत-श्रीमद्-
उज्ज्वल-नीलमण्य्-आदिभिः सम्पादितत्वात् । प्राकट्य-मुख्य-प्रयोजनस्य हान्या
श्री-महाप्रभोः प्राकट्यम् अप्रयोजकम् । तस्मात् श्री-महाप्रभोः
कृतास्वादनस्य परम-विज्ञ-सेव्यत्वम् । यथा तत्र श्री-दास-गोस्वामि-कृत-
स्तवावल्यां (श्री-चैतन्याष्टके ४)
अनावेद्यां पूर्वैर् अपि मुनि-गणैर् भक्ति-निपुणैः
श्रुतेर् गूढां प्रेमोज्ज्वल-रस-फलां भक्ति-लतिकाम् ।
कृपालुस् तां गौडे प्रभु अतिकृपाभिः प्रकटयन्
शची-सूनुः किं मे नयन-सरणीं यास्यति पदम् ॥
अतएव श्री-महाप्रभोः शक्ति-रूपैः श्री-रूप-गोस्वामि-चरणैः श्रीमद्-उज्ज्वल-
नीलमणि-श्री-विदग्ध-माधव-दान-केलि-कौमुद्य्-आदि-ग्रन्थानां समर्था-
रति-विलास-रूपाणां सूत्र-रूपे श्री-स्मरण-मङ्गले प्रतिज्ञातम्-श्री-राधा-प्राण-
बन्धोः इति । एवं लघु-भागवतामृते (१।५।४४८, ४५१)-
प्रपञ्चागोचरत्वेन सा लीला प्रकटा मता ॥ इति ।
अथ प्रकटतां लब्धे व्रजेन्द्र-विहिते महे ।
तत्र प्रकटयत्य् एष लीला बाल्यादिका क्रमात् ।
करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्व् अपि ॥
एवं स्तव-माला-स्तवावली-गणोद्देश-दीपिकादिषु प्रकटाप्रकटे वर्तमानाः
परकीया लीलाः प्रार्थनीया वर्तन्ते । एवं श्री-महाप्रभु-पार्षद-वर्गैः
कृतेषु संस्कृत-प्राकृत-मय-ग्रन्थ-निचयेषु बहु-विधानि प्रमाणानि वर्तन्ते।
तत्र श्री-महाप्रभु-परम-गुरु-श्री-माधवेन्द्र-पुरी-गोस्वामि-पादिअः श्री-
श्री-भगवत्-प्राप्ति-काले प्रार्थितवान्-
अयि दीनदयार्द्र नाथ हे,
मथुरानाथ कदावलोक्यसे ।
हृदयं त्वद्-अलोक-कातरं
दयित भ्राम्यति किं करोम्य् अहम् ॥ इत्य् आदि ।
तत् तु पार्षदाः श्री-कृष्ण-चैतन्यस्य प्रकटाप्रकटे सभासु स्वयम्
आस्वादितवन्तस् तेषां शिष्य-प्रशिष्यादयस् तद्-ग्रन्थ-द्वारेणेदानीम् अप्य्
आस्वादयन्ति - जयति जननिवास इत्य् आदि-वर्तमान-प्रयोगैर् लीला-मात्रस्य नित्यत्वात्
। तत्र प्रमाणानि यथा श्री-रामानन्द-राय-गोस्वामि-पादानां जगन्नाथ-
वल्लभाख्यं नाटकम्, श्री-स्वरूप-गोस्वामि-पादानां करचा, श्री-गदाधर-
पण्डित-गोस्वामि-पादानां प्रेमामृत-स्तोत्रादि, श्री-नरहरि-ठक्कुर-पादानां
श्री-कृष्ण-भजनामृतादि, श्री-वासुदेव-घोष-पादानां पदावल्य्-आदि, श्री-
राघव-पण्डित-गोस्वामि-पादानां श्री-भक्तिरत्न-प्रकाशादि, श्री-विष्णु-पुरी-
गोस्वामि-पादानां भक्ति-रत्नावल्य्-आदि, श्री-सार्वभौम-भट्टाचार्य-पादानां
श्रीमन्-महाप्रभोः शत-नाम-स्तोत्रादि, श्री-प्रबोधानन्द-सरस्वती-पादानां
पादानां श्री-वृन्दावन-शतकादि, श्री-सनातन-गोस्वामि-पादानां श्री-वैष्णव-
तोषण्य्-आदि, श्री-रूप-गोस्वामि-पादानां श्री-भक्ति-रसामृत-सिन्धुः, श्री-उज्ज्वल-
नीलमणिः, श्री-विदग्ध-माधवादि, श्री-गोपाल-भट्ट-गोस्वामि-पादानां श्री-
भागवत-सन्दर्भ-श्री-कृष्ण-कर्णामृत-टीकादिः, श्री-रघुनाथ-भट्ट-
गोस्वामि-पादानां तत्-शिष्य-द्वारेण श्रीभागवतादि-भक्ति-शास्त्र-पठन-
पाठनादिकम्, श्री-रघुनाथ-दास-गोस्वामि-पादानां मुक्ता-चरित-स्तव-मालादि,
श्री-कर्णपूर-गोस्वामि-पादानां श्री-आनन्द-वृन्दावन-चम्पू-श्री-कृष्णाह्निक-
कौमुदी-श्री-गौर-गणोद्देश-श्री-चैतन्य-चन्द्रोदय-नाटकादि, श्री-
भागवताचार्य-पादानां श्री-कृष्ण-प्रेम-तरङ्गिनी, तत्र श्रीमद्-अनन्ताचार्य-
पाद-श्री-नयनानन्द-पादादीनां पदावल्य्-आदि ।
एवं च श्री-महाप्रभोस् ताम्बूल-चर्वित-जन्म-श्री-नित्यानन्द-प्रभु-सेवक-श्री-
नारायणी-पुत्र-श्री-वृन्दावन-ठक्कुर-वर्णित-श्री-चैतन्य-भागवतादि । तत् तु
श्री-नित्यानन्द-प्रभुना साक्षात् प्रेरणया लिखितं भवति । तथा हि श्री-चैतन्य-
चरितामृते (१।८।) चैतन्य-लीलार व्यास वृन्दावन दास इत्य् आदि ।
एवं श्री-महाप्रभोर् मत-विरोधिनः श्रीमद्-अच्युतानन्दादि विना श्रीमद्-
अद्वैत-प्रभु-पुत्राः श्रीमद्-अद्वैताचार्य-पादैस् त्यक्ताः । तत् तु श्री-चैतन्य-
चरितामृतादौ प्रसिद्धम् । एवम् उपमहत्सु श्री-लोचन-दास-ठक्कुर-कृत-श्री-
चैतन्य-मङ्गल-दुर्लभ-सारादि, श्री-कृष्णदास-कविराज-महानुभाव-कृत-श्री-
गोविन्द-लीलामृत-श्री-चैतन्य-चरितामृत-श्री-कृष्ण-कर्णामृत-टीकादि ।
श्रीनिवासाचार्य-कृत-चतुः-श्लोकी-टीकादि, श्री-नरोत्तम-दास-ठक्कुर-श्री-
गोविन्द-कविराज-कृत-पदावल्य्-आदयः सर्वत्र प्रसिद्धाः । एवम् उत्कल-निवासि-
श्री-श्यामानन्दादीनां पदावली प्रसिद्धा ।
किं च श्रीमन्-महाप्रभोर् मन्त्र-सेवकः साक्षात् कोऽपि श्री-रूप-सनातनादीनां
च । तत्र शक्ति-सञ्चार-कृत-सेवकत्वे प्रमाणं मनः-शिक्षायां (७,१२) यदीच्छेर्
आवासं व्रज-भुवि स-रागं प्रतिजनुः इत्य् अत्रैव, स-यूथ-श्री-रूपानुग इह
भवन् गोकुल-वने इत्य् आदि । श्री-बृहद्-भागवतामृत-पूर्व-खण्डे (१।१।१)-
नमश् चैतन्य-देवाय स्व-नामामृत-सेविने ।
यद् रूपाश्रयणाद् यस्य इत्य् आदि ।
अथ श्री-जीव-गोस्वामि-पादः श्रीमद्-रूप-पादस्य भ्रातुष्पुत्रस् तस्मात् तं
मन्त्र-सेवकं कृतवान् । तस्य तु श्रीमन्-महाप्रभोर् दर्शनं नास्ति श्रीमद्-
रूपादीनाम् अप्रकटे परकीयात्वं स्वकीयात्वं च मतं स्व-ग्रन्थे लिखितं तेन
। तत्र स्वकीयात्वं श्रीमद्-रघुनाथ-दास-प्रभृतयः श्री-चैतन्य-पार्षदाः
श्री-रूपादि-सङ्गिनोऽनङ्गी-कृतवन्तः । श्री-जीव-पादस्य तत् तु स्वेच्छा-लिखनं न
भवति । किन्तु परेच्छा-लिखनम् । तत्-पाण्डित्य-बलात् लिखन-परिपाटी-दर्शनेन
पण्डित-जनास् तत् स्वीकुर्वन्ति । ये च लब्ध-श्री-महाप्रभु-कृपा लब्ध-श्री-
रूपादि-कृपास् ते तु सर्वथा नाङ्गीकुर्वन्ति । एतन्-मत-प्रवर्तनं तु काल-कृतम्
एव । तत् तु सर्वं काल-कृतम् मन्ये इत्य् आदि । श्रेयांसि बहु-विघ्नानि इत्य् आदि च ।
अतस् तु केचिद् एवं वदन्ति श्री-जीव-पादस् तु भ्रातुष्पुत्र एव शिष्यश् च । तन्-मतं
स्वकीयात्वम् एव । तस्मात् ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत (१।१।८)
इत्य्-आदि-न्यायेन श्रीमद्-रूप-पाद-मतं स्वकीयात्वम् एव । एवं चेत् श्रीमन्-
महाप्रभोः पार्षदेषु विरुद्धं जातम् । श्रीमन्-महाप्रभुणा तु श्रीमद्-
रूप-सनातनौ प्रति स्वकीयात्वम् उपदिष्टम् । अन्येषु तु परकीयात्वम्
उपदिष्टम् इति गुरुतरं विरुद्धं स्यात् । श्रीमद्-रूप-गोस्वामि-पादानां शक्ति-
सञ्चारोपदिष्ट-श्रीमज्-जीव-पादादि-शिष्याणां सर्वेषां परकीयैव । केवलं श्री-
जीव-गोस्वामि-पाद-गण-मध्ये क्वचित् क्वचिद् गुरु-विरुद्धम् आश्चर्यं दृश्यते
। यतोऽद्यापि तेषु सन्तानेषु एवं शिष्येषु स्व-स्व-ग्रन्थेषु प्रकटेऽप्रकटे च
परकीयात्वं दृश्यते । तस्मात् श्रीमन्-महाप्रभोस् तत्-पार्षदादीनां च
परकीयात्वम् एव मतम् । श्रीमज्-जीव-पादेन तु यत् स्वकीयात्वं लिखितम् तत्
परेच्छयैव । अतएव श्री-कृष्ण-सन्दर्भे स्वकीया-सिद्धान्तानन्तरं तद्-दोषः
प्रार्थनया स्वयम् एव क्षमापितः । तथा हि-
यद् एतत् तु मया क्षुद्रतरेण तरलायितं ।
क्षमतां तत् क्षमा-शीलः श्रीमान् गोकुल-वल्लभः ॥
तत्र शिष्य-परम्परा-श्रवणम् आह-गोपाल-दास-नामा कोऽपि वैश्यः श्री-जीव-
गोस्वामि-पादानां प्रिय-शिष्यः । तत्-प्रार्थना-परवशेन तेन स्वकीयात्वं
सिद्धान्तितम् । अतएव श्रीमद्-रूप-सनातन-पादादीनां ग्रन्थेषु कुत्र कुत्रापि
छेदनादिकं कृतम् । कृत्वापि तत्र तत्रापि स्व-दोष-क्षमापणं कृतम् । यथा
श्री-कृष्ण-सन्दर्भे यद् एतत् तु मया क्षुद्रतमेण तरलायितम् । श्री-लघु-
वैष्णव-तोषण्यां च (सर्वान्तिमे)-
लीला-स्तवष् टिप्पणी च सेयं वैष्णव-तोषणी ।
या सङ्क्षिप्ता मया क्षुद्रतरेणापि तद्-आज्ञया ॥
अबुद्ध्या बुद्ध्या वा यद् इह मयकालेखि सहसा
तथी᳡अ यद् वाच्छेदि द्वयम् अपि सहेरन् परम् अपि ।
अहो किं वा यद् यन् मनसि मम विस्फोरितम् अभूद्
अम्भोभिस् तन् मात्रं यदि बलम् अलं शङ्कित-कुलैः ॥
हरिनामामृते तन्-नाम स्पष्टम् एवोट्टङ्कितम् । तद् यथा-
हरिनामामृत-सञ्ज्ञं यद् अर्थम् एतत् प्रकाशयामासे ।
उभयत्र मम मित्रं स भवतु गोपाल-दासाख्यः ॥
श्री-गोपाल-चम्पू-मङ्गलाचरणे च (ग्च्प् १।५)-
श्री-गोपाल-गणानां गोपालानां प्रमोदाय ।
भवतु समन्ताद् एषा नाम्ना गोपाल-चम्पूर् या ॥
श्रीमद्-उज्ज्वल-नीलमणि-टीकायां च-
स्वेच्छया लिखितं किञ्चित् किञ्चिद् अत्र परेच्छया ।
यत् पूर्वापर-सम्बन्धं तत् पूर्वम् अपरं परम् ॥
श्री-भागवत-सन्दर्भे च-
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥
इत्य् आदिकं च ।
श्री-कृष्ण-दास-नामा ब्राह्मणो गौडीयः श्रीमज्-जीव-विद्याध्ययने शिष्यः, न
तु मन्त्र-शिष्यः । तेषां शिष्याकरणात् । शिष्य-करणे प्रवृत्तिश् चेत् तर्हि श्रीनिवास-
नरोत्तमादीनां शिष्यत्वं श्री-जीवेन कथम् अत्याजि । तस्मात् तेष्व् अप्रकटेषु
स्वाधिकारेच्छया तन्-मन्त्र-शिष्यत्व-प्रकटनं कृष्ण-दासेन स्वेनैव कृतम्
। तेषां ग्रन्थेषु छेदनादि कुत्र कृतम्, कुत्रापि पल्लवितम् ।
अतएव श्री-वैष्णव-तोषण्य्-आदिषु कुत्र कुत्रापि संशयास्पदत्वेन न सर्व-
सम्मतम् । तस्माद् एकस्याप्रामाण्येनान्य् अस्याप्रामाण्यम् इति न्यायात् स्वकीयात्व-
सिद्धान्ते सर्वेषां श्री-चैतन्य-पार्षदानाम् असम्मतत्वेन श्रीमज्-जीव-पादेन
तु परापेक्षा-कृतेन च परकीयात्वं सर्व-सम्मतं मतम् इति सङ्गतम् ।
इति श्रीमद्-राधा-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामी-चरणानुजीवि-
श्री-राधा-कृष्ण-दासोदीरिता भक्ति-साधन-दीपिका-नवम-कक्षा
॥९॥
(१०)
दशम-कक्षा
(ब्र्स् १।१।१०-१७)
तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥
तद् यथा-
अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥
यथा श्री-नारद-पञ्चरात्रे –
सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥
श्री-भागवतस्य तृतीय-स्कन्धे च (३।२९।११-१३) –
लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणं मद्-भावायोपपद्यते ॥
सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् ।
भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥
क्लेषघ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा ।
सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥
(ब्र्स् १।१।४४-४७)
अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् ।
द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥
किं च -
स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका ।
युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥
तत्र प्राचीनैर् अप्य् उक्तम् -
यत्नेनापादितोऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥
(ब्र्स् १।२।१-२)
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥
तत्र साधन-भक्तिः -
कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥
(ब्र्स् १।२।५-७)-
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥
तत्र वैधी –
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥
यथ, द्वितीये (२।१।६)-
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेछताभयम् ॥
तत्र अधिकारी (ब्र्स् १।२।१५-१६)–
यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने ।
नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥
यथैकादशे (११।२०।२८) –
यदृच्छया मत्-कथादौ जात-श्रद्धोऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्ति-योगोऽस्य सिद्धिदः ॥
अथ रागानुगा (ब्र्स् १।२।२७०)-
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥
टीका-अभिव्यक्तं सुव्यक्तं यथा स्यात् तथा व्रज-वासि-जनादिषु विराजन्तीं
रागात्मिकां भक्तिम् अनुसृता या भक्तिः । या रागानुगा उच्यते इति योजना । व्रज-
वासि-जनादिष्व् इत्य् अत्र जन-पदेन मनुष्य-मात्रं बोधितम् । आदि-पदेन पशु-
पक्ष्य्-आदयो गृह्यन्ते । अतएवोक्तम्-
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यत् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् । इति ।
विराजन्तीम् इति विशेषेण राजमानाम्, न तु धामान्तर-परिवार-भक्तिवद् ऐश्वर्य-
ज्ञानादिनाभिभूताम् । अनुसृतेत्य् अत्रानुसरणं नित्य-सिद्ध-व्रज-वासि-जन-भाव-
चेष्टानुगमनात्मकानुकरणम् । तच् च श्री-कृष्ण-प्रेष्ठानुगत-निष्ठं तद्
एवानुगत्यम् इति फलितार्थः । तच् च तद्-अनुगतत्वे सति तादृश-काय-वाङ्-
मानसीय-सेवा-कर्तृत्वं चेति ।
श्री-कृष्ण-प्रेष्ठाधीनत्वं यथैकादशे (११।३।२१)-
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥
टीका च-उत्तमं श्रेयो जिज्ञासुः । शाब्दे ब्रह्मणि वेदाख्ये निष्णातम्, अन्यथा
संशय-निरासकत्वायोग्यत्वाद् धेतोः । परे ब्रह्मणि अपरोक्षानुभवे च
निष्णातम् । अन्यथा यतो बोध-सञ्चाराभावात् । परे ब्रह्मणि निष्णातत्वे
द्योतकम् आह उपशमाश्रयम् इति ।
तत्रैव श्रीमद्-उद्धवं प्रति श्री-भगवान् (११।१०।१२)-
आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः ।
तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥
टीका-आद्योऽधरः । तत्-सन्धानं च तयोर् मध्यमं मन्थन-काष्ठां
प्रवचनम् उपदेशः । विद्या शास्त्रोत्थं ज्ञातम् । तत्र सन्धौ भवोऽग्निर् इव ।
तथा च श्रुतिः-आचार्यं पूर्व-रूपः अन्तेवास्य् उत्तर-रूपः इत्य् आदि । अतएव तद्-
विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इति । आचार्यवान् पुरुषो वेद इति । नैषा तर्केण
मतिर् आपनेया इत्य् आदि च ।
तथा श्री-कृष्ण-प्रेष्ठ-गुरु-संसर्गेणैव तद्-भावोत्पत्तिः स्यात् । नान्यथेति
भावः । अतएव श्री-भागवते (११।१७।२७)-
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता (ब्र्स् १।२।२) इति नित्य-सिद्धस्य
भावस्य साधक-भक्तानां हृदि स्वयं प्रकटनं साध्यता । तत्-तद्-भावादि-
माधुर्ये श्रुते धीर् यद् अपेक्षते (ब्र्स् १।२।२९२) इत्य् आश्रयिष्यमाणे गुरौ तद्-
भाव-माधुर्यं सुतरां दृश्यते । एतादृशे श्री-कृष्ण-रूप-गुरौ दृष्टे सति
लोभः स्वतः एव उत्पद्यते । यथा (ब्र्स् १।२।२४१)-
दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः
स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि ।
दृशोः कक्षां यावन् मम स पुरुषः कोऽप्य् उपययौ
न जाते किं तावन् मतिर् इह गृहे नाभिरमते ॥
अथ श्रवण-गुरु-भजन-शिक्षा-गुर्वोः प्रायिकम् एकत्वम् इति । यथा तथैवाह
श्री-भक्ति-सन्दर्भे (२०६)-
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ (भ्प् ११।२।२१) इति ।
तत्रैव भगवान् देवः ।
शिक्षा-गुरोर् अप्य् आवश्यकत्वम् आह श्री-दशमे (१०।८७।३३)-
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं
य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः ।
व्यसन-शतान्विताः समवहाय गुरोश् चरणं
वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥
टीका-ये गुरोश् चरणं समवहाआन् आश्रित्यातिलोल-मदान्तम् अदमितं मन एव
तुरगं दुर्गम-साम्याद् विजितैर् इन्द्रियैः प्राणैश् च यन्तुं भगवद्-
अन्तर्मुखीकर्तुं प्रयतन्ते । ते उपाय-खिदस् तेषु तेषूपायेषु खिद्यन्ते । अतो
व्यसन-शतान्विता भवन्ति । अतएव इह संसार-समुद्रे सन्ति तिष्ठन्ति दुःखम्
एव प्राप्नुवन्तीत्य् अर्थः । जलधौ अकृत-कर्णधरा अस्वीकृत-नाविका वणिजो यथा
तद्वत् ।
श्री-गुरु-प्रदर्शित-भगवद्-भक्ति-भजन-प्रकारेण भगवद्-धर्म-जी᳡इआने
सति तत्-कृपया व्यसनानभिभूतौ च सत्यां शीघ्रम् एव मनो निश्चलं भवतीति
भावः ।
अथ ब्रह्म-वैवर्ते-
गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः ।
मिलितोऽपि न लभ्यते जीवैर् अहमिका-परैः ॥
अतएव नारद-पञ्चरात्रे तत्-पूजनस्यावश्यकत्वम् उक्तम्, यथा-
वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् ।
पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष्णवः ॥
श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः ॥ इत्य् आदि ।
तस्मात् श्री-गुरोर् आवश्यकत्वम् । तच्-चरणावलम्बनं विना प्रेमोत्पत्तिर् न
भवतीति निष्कर्षार्थः ।
श्री-रघुनाथ-दास-गोस्वामि-पादेनोक्त-मनः-शिक्षायाम्, यथा-
शची-सूनुं नन्दीश्वर-पति-सुतत्वे गुरु-वरं
मुकुन्द-प्रेष्ठत्वे स्मर इत्य् आदि ।
कालिका-पुराणे श्यामा-रहस्ये-
मधु-लोभाद् यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञान-लोभात् तथा शिष्यो गुरोर् गुर्व्-अन्तरं व्रजेत् ॥
स्तवावल्यां च (मनः-शिक्षा ३,१२)-
यदीच्छेर् आवासं व्रज-भुवि स-रागं प्रतिजनुर्
युव-द्वन्द्वं तच् चेत् परिचर्तिउम् आराद् अभिलषेः ।
स्वरूपं श्री-रूपं स-गणम् इह तस्याग्रजम् अपि
स्फुटं प्रेम्णा नित्यं स्मर नम तदा त्वं शृणु मनः ॥
स-यूथः श्री-रूपानुग इह भवन् गोकुल-वने
जनो राधा-कृष्णातुल-भजन-रत्नं स लभते ॥
(विलाप-कुसुमाञ्जली, १४)-
यद्-अवधि मम काचिन् मञ्जरी रूप-पूर्वा
व्रज-भुवि बत नेत्र-द्वन्द्व-दीप्तिं चकार ।
तद्-अवधि तव वृन्दारण्य-राज्ञि प्रकामं
चरण-कमल-लाक्षा-सन्दिदृक्षा ममाभूत् ॥ इति ।
अत एतादृशानुगत्यं विना श्री-नन्दनन्दनस्य तथाविध-स्वरूप-प्राप्तिर् न
भवति तत्रापि श्री-रूपानुगत्यं विना श्री-राधा-कृष्णातुल-भजन-रत्नं न
लभत इति निष्कर्षार्थः ।
प्रसङ्गात् आचार्य-लक्षणम्, यथा वायु-पुराणे-
आचिनोति यः शास्त्रार्थान् स्वाचारैः स्थापयत्य् अपि ।
स्वयम् आचरते यस्मात् तस्माद् आचार्य उच्यते ॥
यथा विष्णु-स्मृतौ (ह्ब्व् १।४५-४६)-
परिचर्या-यशो-लाभ-लिप्सुः शिष्याद् गुरुर् नहि ।
कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः ॥
निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः ।
सर्व-संशय-सञ्छेत्ता नालसो गुरुर् आहृतः ॥
गौतमीये-
न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः ।
केवलं सततं कृष्ण-चरणाम्भोज-भाविनाम् ॥ इति ।
किं च-
नायिकानां च सर्वासां मध्या श्रेष्ठतमा मता ।
प्रायः सर्व-रसोत्कर्षो मध्यायाम् एव युज्यते ॥ इत्य् आदि ।
दर्शितम् एव । किं च-त्वदीयता-मदीयता-मध्ययोर् मध्ये मदीयता श्रेष्ठा
।
इयं श्री-कृष्ण-लीला च श्रेष्ठा सर्व-प्रदायिका ।
न दातव्या न प्रकाश्या जने त्व् अनधिकारिणि ॥
तथा हि (पाद्मे)-
मां च गोपय येन स्यात् सृष्टिर् एषोत्तरोत्तरा । इति ।
श्री-भागवते प्रथम-स्कन्धे (१।१।८) ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम्
अप्य् उत इति बृहद्-गौतमीये च ।
इति श्रीमद्-राधा-गोविन्द-देव-सेवाधिपति-श्री-हरिदास-गोस्वामी-चरणानुजीवि-
श्री-राधा-कृष्ण-दासोदीरिता भक्ति-साधन-दीपिका-दशम-कक्षा सम्पूर्ण ।
श्री-साधन्-दीपिका समाप्ता ।
श्री-श्रीमद्-गुरवे समर्पितम् अस्तु ।
[*एन्द्नोते #१] नोत् फ़ोउन्द् इन् म्य् एदितिओन्।
[*एन्द्नोते #२] विशाखे ! इदम् अपि अल्पम् एतत् तत् शृणु । स किल अश्रुत-चर-
साधर्मः सम्मोहन-माधुरी-भर-नव्यः सर्वोपरि-विराजमानो प्रिय-
वयस्यस्य सकल-गोकुल-पतित्वेन गोविन्दाभिषेक-महोत्सवः कस्य वा गर्वं न
खलु खर्वयति ? ॥३२६॥
[*एन्द्नोते #३] थे अच्तुअल् लिनेस् फ़्रोम् मुकुन्दाष्टकम् अरे प्रियम् इव किल
वर्णं राग-युक्तं प्रियायाः प्रणयतु मम नेत्राभीष्ट-पूर्तिं मुकुन्दः ॥
[*एन्द्नोते #४] थेसे अरे त्wओ लिनेस् ओफ़् अ शार्दूल-विक्रीडित वेर्से। थे रेस्त् इस् नोत्
फ़ोउन्द् इन् थे तेxत्। थे सोउर्चे ओफ़् थेसे वेर्सेस् इस् उन्क्नोwन् अत् थिस् तिमे।
[*एन्द्नोते #५] थिस् इस् अ हल्फ़्-शार्दूल॥
[*एन्द्नोते #६] ओब्स्चुरे मेतेर्।
[*एन्द्नोते #७] अनोथेर् हल्फ़्-शार्दूल।
[*एन्द्नोते #८] अगैन् अन् ओब्स्चुरे मेत्रे।
[*एन्द्नोते #९] ह्ब्व् १५।२५७, क़ुओतेद् फ़्रोम् भविष्योत्तर-पुराण।
[*एन्द्नोते #१०] थे रेअदिन्ग्स् ओन् थेसे वेर्सेस् अरे अत् क़ुइते ग्रेअत् वरिअन्चे फ़्रोम् थे
एदितिओन् ओफ़् बृहद्-भागवतामृतम् इ हवे इन् म्य् पोस्सेस्सिओन्।
[*एन्द्नोते #११] हरिदस् स्हस्त्रि चितेस् थे फ़ोल्लोwइन्ग् वेर्से इन्तेर्पोलतेद् हेरे:
उपवासं तीर्थ-यात्रां सन्न्यासं व्रत-धारणम् ।
वर्णाश्रमाचार-कर्म राधायां ष विवर्जयेत् ॥
[*एन्द्नोते #१२] थिस् वेर्से इस् नोत् फ़ोउन्द् इन् भक्तिस्। पद्म-पुराण ५।८२।८।
[*एन्द्नोते #१३] च्रेदितेद् इन् भक्तिसन्दर्भ १४७ तो विष्णु-पुराण।
[*एन्द्नोते #१४] तेxत् मिस्सिन्ग् हेरे?