श्री-काम-बीज-काम-गायत्री-व्याख्यान-द्वयम्
श्री-प्रबोधानन्द-सरस्वती-विरचितम्
विस्तारः (द्रष्टुं नोद्यम्)
Taken from the appendix to Haridas Das’s edition of _Gīta-govinda, _with commentary attributed to Prabodhananda Saraswati. This text is given with critical apparatus, which is reproduced here in footnotes, as the text is short.
The following manuscripts were used—
(a) (_ka _in the printed edition) The first of two MSS in the Gauranga Grantha Mandir in Varahanagar.
(b) (kha) The second of these.
(c) (ga) A printed version found in the _Vaiṣṇavācāra-darpaṇa. _(Publishing details not given.)
Entered : Jan Brzezinski (2005-09-03)
–o)0(o–
श्री-काम-बीज-व्याख्यानम्
श्री-श्री-राधा-कृष्णाभ्यां नमः
पद्मजं तन्-मुखोपेतं शत्रु-सोपरि-संस्थितम् ।
सेन्दु-बिन्दु-शिखोपेतं प्रथमं सर्व-कामदम् ॥
॥ क्लीं ॥
अथ बीजस्यार्थो गौतमीय-तन्त्रे—
ल-कारात् पृथिवी-बीजं क-काराज् जल-सम्भवः ।
ई-काराद् वह्निर् उत्पन्नो नादाद् वायुर् अजायत ।
बिन्दोर् आकाश-सम्भूतिर् इति भावात्मको मनुः ॥
इति पञ्च-भूतो मूर्तिमान् पुरुषः ।
काद् आपो लात् पृथिवी ईतो वह्निर् नादाद् वायुर् बिन्दोर् आकाश-भूत इति । जल-रूप-पुरुषः कामः क-कारः1 । वायु-स्पर्श-जीवो नादः । आकाश-शब्दः अहङ्कारो बिन्दुः गोपाल-तथापिई-वेदे ।
रत्न-प्रिया रति-कला सुभगा भद्र-सौभगा2 क-कारः । सुमुखी कल-हंसी ल-कारः । मन्मथ-मोदा3 च ई-कारः । कलापिनी नाद-बिन्दुः ।
क-कारः कथ्यते कामो ल-कारो मूर्तिर् उच्यते ।
ई-कारः शक्ति-रूपा च नादो लिङ्गनम् उच्यते ॥4
बिन्दुश् चुम्बनम् उच्यते इति मुनयः ।
ई-कारान् नायिका-मुख्या ल-काराल् ललिता तथा5 ।
क-कारान् नायको मुख्यो6 नादालिङ्गनम् उक्तवत् ।
बिन्दुश् चुम्बनम् आकृतः इति आगमस्य ।
अत्र स्व-मतं—
क-कारान् नायक-श्रेष्ठ ई-कारान् नायिका वरा ।
ल-कारो ह्लाद-रूपा च नादालिङ्गनम् उच्यते ।
बिन्दुस् तु चुम्बनं तथा ॥
कैश्चित् तु एवं व्याख्याअते—गल-शिर-आस्यं च क-कारः । चक्षुः-कर्ण-बाहु ल-कारः । वक्षः-पृष्ठ-कटि-जङ्घा नादः । जानु-पादौ च बिन्दुः ।
इति प्रबोधानन्द-सरस्वती-कृत-काम-बीज-व्याख्यानम् ।
–ओ)०(ओ–
मन्त्रार्थः
क-कारः पुरुषः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
ई-कारः प्रयोजई राधा नित्य-वृन्दावनेश्वरी ॥
लश् चानन्दात्मकं प्रेम-सुखं च परिकीर्तितम् ।
चुम्बनाश्लेष-माधुर्यं बिन्दु-नाद-समीरितम् ॥
गोपीति गोपनाद् राधा जनस् तस्य सखी-जनः ।
अनयोर् वल्लभः कृष्णो नायकः काम-शेखरः ॥
स्वाहा-शब्देनात्म-समर्पणम् ।
–ओ)०(ओ–
श्री-काम-गायत्री-व्याख्यानम्
कामेन अभिलाषेण स्व-विषय-प्रीति-दार्ढ्येन दीव्यति क्रीडति दिवु क्रीडायां7, तस्मै काम-देवाय विद्महे, विदॢ लाभे विद् ज्ञाने वा । धीमहि ध्यायेम । काम-देवाय कथम्-भूताय ? पुष्प-बाणाय । पुष्पं कमलं तद् एव बाणः यस्य तस्मै8 । तन् नोऽनङ्गः9 कन्दर्पः नोऽस्मान् प्रचोदयात् प्रकर्षेण प्रकृष्ट-रूपेण उदयात् उदयं करोत्व् इत्य् अर्थः । च-कारः समुच्चये ।
अत्र क्लीम् इति पदेन मूर्तिमान् पुरुषः । काम-पदेन गण्ड-द्वयम् । देव-पदेनात्र आस्य-भाल उच्यते । अभिलाषेण स्व-विषय-प्रीति-दार्ढ्येन चन्द्र-मण्डलेन दीव्यति क्रीडति । ष-कारेणार्ध-चन्द्रः भाले तिलक-चन्द्रः, अर्ध-चन्द्र-चतुष्टयम् इति । अङ्घ्रि-शिरोऽवधि-क्रमात्10 क्रम-रूपेण विंशत्य्-अक्षरेण (?) विंशतिश् चन्द्रा उच्यन्ते ।
कामो गण्ड-द्वये स्नेहे विलासे छवि-तृष्टयोर् इति भास्वदिः । क-कारश् चन्द्रिमा चन्द्रे विलासान् अवसानयोर् इति11 काम-पालः । म-कारो मधुरे हास्य-विकाशे12 छवि-तृष्णयोर् इति ऋषभः । दे इति दा दाने औणादिकत्वात् ए-कारः दा-मा-स्मा-घ्रोः स्नायाम् इति ए-प्रत्ययः । देश् चन्द्र-विलासेऽभ्रेऽप्य् अर्हणे मण्डलेऽपि च इति देवद्युतिः । देश् चन्द्र-मण्डलेऽप्य् आस्ये हविर् दान-विलासयोर् इति व्याघ्र-भूतिः । व इति वन-षण सम्भक्तौ वन-धातोर् औणादिकत्वात् पञ्चम्य् अन्ताद् भावे ड-प्रत्ययः । व-कारो लास्य-लावण्ये इन्द्र-युगे शशधरे इति भास्वदिः। वि-कारान्त-ष-कारेण अर्ध-चन्द्रः प्रकीर्तितः, लक्षणानुरोधात् सं चन्द्रार्धं वैभवं च विलासो दारुणं भयम् इति व्याढिः ।
वि-शब्दादि-पञ्चाक्षरेण दक्षिणावर्त-क्रमेण पञ्च चन्द्रा उच्यन्ते । तद् यथा विद्महे पुष्प इत्य् आदि । बाणादि-पञ्चाक्षरेएण वामावर्तादि-क्रमेण पञ्च चन्द्रा उच्यन्ते । तद् यथा बाणाय धीमहि इत्य् आदि । तत्र कौस्तुभस्य मणेर् अधस्ताद् वाम-दक्षिण-रूपेण दशाक्षरेण दश चन्द्रा उच्यन्ते । तत्र दक्षिणादि-क्रमेण हि-शब्दादि-पञ्चाक्षरेण पञ्च-चन्द्रा उच्यन्ते । तद् यथा—प्रचोदयात् इति ।
वि-शब्दो विविधे प्राज्ञे अङ्गने13 च शशधरे इति विश्वः । डुधाञ् डुभृञ् धारण-पोषणयोः इति धा-धातोर् औणादिको म-प्रत्ययान्तो निपातः । धा-धातोर् म इति निपातश् च इति द्मः । द्म-कारो विविधे नृत्ये तेजो-राशौ शशधरे इति भास्वदिः । हे-शब्दो हेतुके विज्ञे इन्दौ पूर्ण-रसालये इति काम-तन्त्रे । पु-शब्दो रसना-ज्योत्स्ना-नृत्य-चन्द्राङ्कुशाम्बुजे इति देव-द्युतिः । ष्प-कारो विकले प्राज्ञे विधु-मुक्तोदयेषु14 च इति रत्न-हासः । वा-शब्दो विषमाधारे चन्द्र-ज्योत्स्नाववृद्धयोः15 इति वामन-पुराणे । ण-कारो विषमाविष्टे16 नृत्य-चन्द्र-रसायने इति स्व-भूतिः । य-कारश् चन्द्र-बिम्बे च विशालाक्षे रसाकरे इति व्याघ्र-भूतिः । धी-शब्दो बुद्धौ प्राज्ञे च विधौ चन्द्राभिवादयोः इति चन्द्र-गोमी17 । म-कारो मारुते व्रध्ने18 प्रभाकर-निशाकरे इति स्व-भूतिः । हि-शब्दो हि रसावेशे हिङ्गुले चन्द्र-मण्डले इति व्याघ्र-भूतिः । नो-शब्दो नौ स्त्रियां ना वा न-कारश् चन्द्र-मण्डले इति देव-द्यूतिः । अनङ्गो मदने विश्वेऽनङ्गश् चन्द्र-विभावने इति चन्द्र-गोमी19 । प्र-शब्दो विविधे नृत्ये प्रकृष्टे चन्द्र-मण्डले इति व्याघ्र-भूतिः । च-कारश् चालने चन्द्रे ज्योतिश् चन्द्रे विभावने इति स्वभूतिः20 । द-कारो विविधे नृत्ये चन्द्रे बिम्बाधरेऽपि च इति भास्वदिः । आसने च विधायां तु य-कारश् चन्द्र उच्यते21 इति चन्द्र-गोमी । स्तव-स्तोत्र-विकाशेषु त-कारश् चन्द्र उच्यते इति देवद्युतिः ।
इति श्री-प्रबोधानन्द-गोस्वामिना विरचितः काम-गायत्र्य्-अर्थः ।22
-
क-पुस्तके अतिरिक्तः पाठः—पृथिवी-गन्ध-प्रकृति-मूर्तिर् ल-कारः । तेजो-रूप-महद्-आधार ई-कारः ॥ ↩︎
-
रति-कला भद्रा सौरभा (क) ↩︎
-
मदोन्मदा चन्द्रा (क) ↩︎
-
नादो बिन्दुर् उदीरिता (क) ↩︎
-
परा (क) ↩︎
-
इतः परं क-पुस्तके—बिन्दुश् चुम्बनम् उच्यते । आश्लेषोऽप्य् अर्ध-चन्द्रश् च बीजार्थः परमाद्भुतम् । इति श्री-प्रबोधानन्द-सरस्वती-विरचितं काम-गायत्री-व्याख्या-पटलं समाप्तम् ॥ ↩︎
-
अत्र ख-पुस्तकेऽधिकः पाठः—नित्य-विषयत्वात् । ↩︎
-
पुष्पम् एक-रमणं स एव बाणो यस्य तस्मै (ख) ↩︎
-
अत्र ख-पुस्तकेऽधिकः—सोऽनङ्गः । ↩︎
-
इत्य् अपि शिरोऽधिपः (क) ↩︎
-
विलासासुकरसालयोर् इति (क) ↩︎
-
हास्ये विकाशे (ख) ↩︎
-
हिङ्गुले (ख) ↩︎
-
मुक्तादामसु (ग), मुक्ताद्दमषु (क) ↩︎
-
बुद्धौ प्राज्ञे च चन्द्राभिवादयोर् इति गौतमिः (ग) ↩︎
-
विषयाविष्टे (ग) ↩︎
-
गौतमिः (ग) ↩︎
-
बुद्धौ (ख) ↩︎
-
गौतमिः (ग) ↩︎
-
चश् चण्डेशः कच्छपश् च चन्द्र-चोरयोः इति मेदिनी (ग); सुरभिः (क) ↩︎
-
य आसन-विधाने च य-कारश् चन्द्र-मण्डले (ख) ↩︎
-
काम-बीजार्थः (क) ↩︎