२० प्रसादः

विंश-विलासः
प्रासादिकः
श्री-श्री-चैतन्य-चन्द्राय नमः ।
कथञ्चन स्मृते यस्मिन् दुष्करं सुकरं भवेत् ।
विस्मृते विपरीतं स्यात् श्री-चैतन्यं नमामि तम् ॥१॥

सिध्येत् प्रासादिको भक्ति-विलासो यत्-प्रसादतः ।

स मे प्रसन्न-वदनः श्री-चैतन्यः प्रसीदतु ॥

श्री-भगवतो मन्दिर-निर्माण-विधिं लिखिष्यन् तल्-लिखने चात्मनाऽशक्येऽपि तस्य स्मरण-प्रभावेण शक्तिं सम्भावयन् तं प्रणमति—कथञ्चनेति । येन केनापि प्रकारेण स्मृतोऽपि, दुष्करं वर्तुम् अशक्यम् अपि, विपरीतं सुकरम् अपि दुष्करं स्यात् । एवम् अन्वय-व्यतिरेकाभ्यां स्मरण-प्रभावो दर्शितः ॥१॥

श्री-मूर्तेः स्थापनायैकं वेश्मावश्यम् अपेक्ष्यते ।
अतो मन्दिर-निर्माण-विधिर् अत्र विलिख्यते ॥२॥

ननु वैष्णवानाम् आवश्यक-कर्म-लिखनमेव प्राक् प्रतिज्ञातं, तत् किं प्रासाद-लिखनेन ? तत्र लिखति—श्री-मूर्तेर् इति । पूजार्थम् अवश्यं श्री-भगवन्-मूर्तिर् अपेक्ष्यते, तद्-अर्थं चावश्यं गृहम् एकं तद्-योग्यम् अपेक्ष्यते, अतस् तन्-निर्माण-प्रकार-लिखनम् अप्य् उपयुक्तम् एवेति भावः ॥२॥

अथ श्री-भगवन्-मन्दिर-निर्माणम्
भवेद् बहु-विधं तच्च वेश्म तत्र स्व-शक्तितः ।
शास्त्रानुसारतः कुर्याद् एकं वासोचितं प्रभोः ॥३॥

प्रासाद-मण्डपादि-भेदेन बहु-विधं, तच्च न शास्त्रोक्त-व्यतिक्रमेण कार्यम् इति लिखति— शास्त्रेति । यतः प्रभोर् जगद्-ईश्वरस्य वासोचितम् ॥३॥

अथ मन्दिर-निर्माण-माहात्म्यम्

वामन-पुराणे—
यः कारयेन् मन्दिरं माधवस्य, पुण्यान् लोकान् स जयेच् छाश्वतान् वै ।
दत्त्वारामान् पुष्प-फलाभिपन्नान्, भोगान् भुङ्क्ते कामतः स्वर्ग-संस्थः ॥४॥

शाश्वतान् लोकानिति बहुत्वं श्री-वैकुण्ठ-लोकस्य गौरवाभिप्रायेण, तत्रत्य-बहुल-प्रदेश-विशेषापेक्षया वा ज्ञेयम्, अन्येषां सर्वेषाम् अशाश्वतत्वात् ॥४॥

पितामहस्य पुरतः कुलान्य् अष्टौ च यानि तु ।
तारयेद् आत्मना सार्धं विष्णोर् मन्दिर-कारकः ॥५॥

न च स एवैकः, किन्तु निज-पूर्वजैर् अप्यन्वित इत्याह—पितेति । तारयेद् दुष्कर्मभिः संसाराब्धौ नरकेषु वा पतितानपि श्री-वैकुण्ठ-लोक-प्रापणेनाशेष-दुःखपारं नयेद् इत्यर्थः ॥५॥

किञ्च पितृ-गाथायाम्—
अपि नः स्व-कुले कश्चिद् विष्णु-भक्तो भविष्यति ।
हरि-मन्दिर-कर्ता यो भविष्यति शुचिव्रतः ॥६॥

अत एव पितृभिर् गीयते—अपीति ॥६॥

अग्नि-पुराणे—
ये ध्यायन्ति सदा बुद्ध्या करिष्यामो हरेर् गृहम् ।
तेषां विलीयते पापं पूर्व-जन्म-शतोद्भवम् ॥७॥

करिष्याम इति बुद्ध्या ध्यायन्ति, दृढेच्छां कुर्वन्ति; यद्वा, बुद्ध्या भावनया करिष्याम इति सदा चिन्तयन्त्येव, न तु तादृशम् अपि कदापि कर्तुं शक्नुवन्ति, तेषामपि ॥७॥

किञ्च—
समतीतं भविष्यं च कुलानाम् अयुतं नरः ।
विष्णु-लोकं नयत्य् आशु कारयित्वा हरेर् गृहम् ॥८॥
किञ्च—
लक्षेणाथ सहस्रेण शतेनार्धेन चा हरेः ।
तुल्यं फलं समाख्यातम् इहेश्वर-दरिद्रयोः ॥९॥

लक्षेणेति—समर्थो बहु-वित्तव्ययेन हरेर् गृहं करोतु, दरिद्रो वाल्पव्ययेन करोतु, द्वयोर् अपि हरेः सकाशात् फलं समानम् एव कथितम् अभिज्ञैः , श्रद्धादि-साम्यात् परम-फल-वैकुण्ठैक-प्रापणाद् वेति दिक् ॥९॥

विष्णु-धर्मोत्तरे तृतीय-काण्डे—
कृत्वा वास-गृहं तस्य देवस्य परमेष्ठिनः ।
राजसूयाश्वमेधानां फलेन सह युज्यते ॥१०॥
सुर-वेश्मनि यावन्तो द्विजेन्द्राः परमाणवः ।
तावद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥११॥

हे द्विजेन्द्राः ॥११॥

प्रासादे मृन्मये पुण्यं मयैतत् कथितं द्विजाः ।
तस्माद् दारुमये पुण्यं कृते शतगुणं भवेत् ॥१२॥
ततो दश-गुणं पुण्यं तथा शैलमये भवेत् ।
ततो दश-गुणं लौहे ताने शत-गुणं ततः ॥१३॥
सहस्र-गुणितं रौप्ये तस्मात् फलम् उपाश्नुते ।
तत्तः शत-सहस्र वै सौवर्णे द्विज-सत्तमाः ।
अनन्त-फलम् आप्नोति रत्न-चित्रे मनोहरे ॥१४॥

रत्नैश् चित्रे खचिते ॥१४॥

स्कान्दे—
आरम्भे कृष्ण-धिष्ण्यस्य सप्त-जन्मनि यत् कृतम् ।
पापं विलयमाप्नोति नरकाद् उद्धरेत् पितॄन् ॥१५॥
प्रासाद-पादे कृष्णस्य यावत् तिष्ठन्ति रेणुकाः ।
तावद् वर्ष-सहस्राणि वसते विष्णु-सद्मनि ॥१६॥
प्रासादे कृष्णदेवस्य चित्र-कर्म करोति यः ।
वसते विष्णु-लोके तु यावत् तिष्ठन्ति सागराः ॥१७॥

कृष्णस्य प्रासादस् तस्य पादे मूले प्रदेशे वा यावद् यावत्यो रेणुकास् तिष्ठन्ति ॥१७॥

नारसिंहे—
यः कुर्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् ।
सर्व-पाप-विनिर्मक्तो विष्णु लोकम् अवाप्नुयात् ॥१८॥

भक्तिमत्त्वेनैव शोभन-वेश्म-करणाद् भक्तिमान् इत्य् उक्तं, न चाधिकारि-विशेषणत्वेनेति दिक् ॥१८॥

हयशीर्षे—
देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।
तस्य काय-गतं पापं तद्-अह्ना विप्र नश्यति ।
कृते तु किं पुनस् तस्य प्रासादे विधिनैव तु ॥१९॥

मनसा चिन्तयेत्, केवलम् इच्छामात्रं करोतीत्यर्थः ॥१९॥

अष्टेष्टकासमायुक्तं यः कुर्याद् वैष्णवं गृहम् ।
न तस्य फल-सम्पत्तिर् वक्तुं शक्येत केनचित् ।
अनेनैवानुमेयं तु फलं प्रासाद-विस्तरात् ॥२०॥
मरणं च व्रजेन् मर्त्यो यः कृत्वा प्रथमेष्टकाम् ।
स समाप्तस्य यज्ञस्य फलम् आप्नोत्य् असंशयम् ॥२१॥

प्रथमेष्टकान्यासार्थं प्रतिष्ठित-लिङ्गाद्यष्टेष्टका-मध्ये प्रथमामाद्यां कृत्वा विन्यस्यापि, यद्वा, प्रासादार्थं निर्मीयमाणा-सङ्ख्येष्टकामध्ये प्राग् एक-मात्रेष्टवां निर्माय; समाप्तस्य सम्पूर्ण-दक्षिणादिकस्य ॥२१॥

विष्णु-रहस्ये—
बाल्ये सङ्क्रीडमाना ये पांशुभिर् भवनं हरेः ।
वासुदेवस्य कुर्वन्ति तेऽपि तल्-लोक-गामिनः ॥२२॥

वासुदेवस्य—श्री-वसुदेव-नन्दनस्य हरेः ॥२२॥

आदिपुराणे—
लेपनाच्छादनं चैव यः करोति पुनर् नवम् ।
देवस्यायतनं कृत्वा न भवेत् कीटजं भयम् ॥२३॥

लेपनं सुधादि-लेपम्, आच्छादनं च चूर्णादिभिर् निश्छिद्रतापादनम्; कुत्र ? इत्यपेक्षायाम् आह—देवस्यायतनं प्रति कृत्वेति । यद्वा, एतद् दृष्टान्तत्वेनोह्यम् । कीटाः सर्पादयः क्षुद्र-लोका वा, तज्जम् ॥२३॥

अथ मन्दिर-निर्माण-कालः

मात्स्ये—
चैत्रे व्याधिम् अवाप्नोति यो गृहं कारयेन् नरः ।
वैशाखे धन-रत्नानि ज्येष्ठे मृत्युं तथैव च ॥२४॥
आषाढे भृत्य-रत्नानि पशु-वर्गम् अवाप्नुयात् ।
श्रावणे मित्र-लाभं तु हानि भाद्र-पदे तथा ॥२५॥
पत्नी-नाशं चाश्व-युजे कार्तिके धन-धान्यकम् ।
मार्गशीर्षे तथा भक्तं पौषे तस्करजं भयम् ॥२६॥
लाभन्तु बहुशो विद्यादीनां माघे विनिर्दिशेत् ।
काञ्चनं फाल्गुणे पुत्रानिति काल-बलं स्मृतम् ॥२७॥
अश्विनी रोहिणी मूलम् उत्तरात्रयम् ऐन्दवम् ।
स्वाती हस्तोऽनुराधा च गृहारम्भे प्रशस्यते ॥२८॥

ऐन्दवं—मृगशीर्षम् ॥२८॥

आदित्य-भौम-वर्जं च सर्वे वाराः शुभावहाः ।
वज्र-व्याघात-शूलानि व्यतीपाताति-गण्डके ।
विष्कुम्भ-गण्ड-परिघान् वर्ज्य योगेषु कारयेत् ॥२९॥

वर्ज्य—वर्जयित्वा ॥२९॥

श्वेते मैत्रे च माहेन्द्रे गान्धर्वाभिजिद्रौहिणे ।
तथा वैराज-सावित्रे मुहूर्ते गृहम् आरभेत् ॥३०॥

श्वेतादि-सञ्ज्ञकानां नव-मुहूर्तानाम् एकतमे ॥३०॥

चन्द्रादित्य-बलं लब्ध्वा लग्नं शुभ-निरीक्षितम् ।
स्तम्भोच्छ्रयादि कर्तव्यम् अन्यत्र परिवर्जयेत् ॥३१॥

अन्यत्र उक्तेतर-काले परिवर्जयेत्, न प्रारभेद् इत्यर्थः ॥३१॥

हयशीर्षे—
वास्तु-कर्म न चारभ्यं वर्षाकाले विजानता ।
कृष्ण-पक्षे त्रिभागान्ते शुक्लस्यादौ द्वितीयके ।
चतुर्थी नवमी वर्ज्या तिथिश्चापि चतुर्दशी ॥३२॥

त्रयाणां भागानाम् अन्ते सति एकादश्यादिषु न आरभ्यम्, तथा शुक्ल-पक्षस्य आदि-भागे द्वितीय-भागे च न चारभ्यम् । तत्रापि कृष्ण-पक्षस्य प्रथम-भागे चतुर्थी, तथा द्वितीये नवमी, शुक्लस्य चान्ते चतुर्दशी रिक्तात्वेन वर्जनीया ॥३२॥

भौमस्य तु दिनं वर्ज्यं करणं विष्टि-सञ्ज्ञितम् ।
क्षित्य्-अन्तरीक्ष-दिव्योत्थैर् उत्पातैर् भय-पीडितम् ।
उपसृष्टं ग्रहैर् भञ्च व्यतीपात-हतं तथा ॥३३॥

क्षित्युत्थ उत्पातः भूकम्पादिः, अन्तरीक्षोत्थ उल्कापातादिः, दिव्यश्च सूर्य-ग्रहणादिः, तैर् भय-रूपैः पीडितं बाधितं दिनं वर्ज्य̍म् । यद्वा, तैर् उत्पातैर् लक्षितम् । अन्यैर् भयैश्च बन्धु-वियोगादिभिः पीडितं दिनं वर्ज्य̍म् । उपसृष्टं पीडितं ग्रहैः शनैश्चरादिभिः ॥३३॥

चन्द्रतारानुकूले च कार्यं कर्म विजानता ।
ध्रुवाणि चात्र शस्तानि नैरृतं शक्र-दैवतम् ।
पुष्यं पौष्णं च सावित्र्यं वायव्यं वैष्णवं तथा ॥३४॥

ध्रुवाणि स्थिराणि, नैरृतं मूलं, शक्र-दैवतं ज्येष्ठा, पौष्णं रेवती, सावित्र्यं हस्तः, वायव्यं स्वाती, वैष्णवं श्रवणम् ॥३४॥

स्थिरांशे च स्थिरे लग्ने कर्तुश् चोपचयात्मके ।
केन्द्र सौम्य-ग्रहो यस्य त्रिकोणे तु सुरोत्तमः ।
पापाश्चोपचय-स्थाने तदा कार्यं समारभेत् ॥३५॥ इति ।

केन्द्रं लग्नं, ततश् चतुर्थं सप्तमं दशमं चेत्य् एवं स्थान-चतुष्कं, तस्मिन् । त्रिकोणे नव-पञ्चमे, उपचय-स्थानं तृतीयं षष्ठं दशमम् एकादशं च, तस्मिन् ॥३५॥

प्रासाद-रचना-स्थानं प्रतिष्ठा-स्थान-निर्णयात् ।
व्यक्तम् एवाभवत् कश्चिद् विशेषोऽन्योऽत्र लिख्यते ॥३६॥

श्री-मूर्ति-प्रतिष्ठा-स्थानं सिद्ध-क्षेत्रं सरः पुण्यम् इत्यादि-वचनेन, तथा नगर-ग्राम-मध्ये तु इत्यादि हयशीर्ष-पञ्चरात्र-वचनैश्च यो निर्णयः पूर्वं लिखितोऽस्ति, तस्माद् एव प्रासाद-रचनायाः स्थानम् अपि व्यक्तम् एवाभवत्, निर्णीतम् अभूद् एवेत्यर्थः । प्रासादान्तरे श्री-मूर्ति-स्थापनाद् अत्र प्रासाद-रचना-स्थान-निर्णये कश्चिद् अन्योऽपि विशेषो लिख्यते ॥३६॥

अथ प्रासाद-रचना-स्थानम्

हयशीर्षे—
पूर्व देव-कुलं पीड्य प्रासादं स्वल्पकं तथा ।
समं वाप्यधिकं वापि न कर्तव्यं विजानता ॥३७॥

पूर्वं प्राचीनं, देव-कूलं प्रासादमेव । पीड्य पीडयित्वा, तत्-सीमाम् आक्रम्येत्यर्थः ॥३७॥

उभयोर् द्विगुणां सीमां त्यक्त्वा चोच्छ्राय-सम्मिताम् ।
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः ॥३८॥

अथ स्थान-शोधनानि

देवीपुराणे—
देवो विष्णुस् तथा रुद्रो ब्रह्माद्याः सुरसत्तमाः ।
प्रतिष्ठाप्याः शुभे स्थाने अन्यथा ते भयावहाः ॥३९॥
गर्तादि-लक्षणा धात्री गन्धा-स्वादेन या भवेत् ।
वर्णेन च सुर-श्रेष्ठ सा मही सर्व-कामदा ॥४०॥

सुगन्धादि-लक्षिता च या भवेत् ॥४०॥

मात्स्ये—
पूर्वं भूमिं परीक्षेत पश्चाद् वास्तुं प्रकल्पयेत् ।
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः ।
विप्रादेः शस्यते भूमिर् अतः कार्य परीक्षणम् ॥४१॥

विप्र-क्षत्रिय-वैश्य-शूद्राणां क्रमेण श्वेतादि-भूमिः प्रशस्ता भवति ॥४१॥

विप्राणां मधुरास्वादा कषाया क्षत्रियस्य च ।
कषाय-कटुता तद्वद् वैश्य-शूद्रेषु शस्यते ॥४२॥
अरत्निमात्रे वै गर्ते स्वनुलिप्ते च सर्वतः ।
घृतमामशरावस्थं कृत्वा वर्ति-चतुष्टयम् ।
ज्वालयेद् भू-परीक्षार्थं पूर्णं तत् सर्व-दिङ्-मुखम् ॥४३॥

आमशरावस्थं घृतं कृत्वा तत्र च वर्ति-चतुष्टयं कृत्वा, तच्च वर्ति-चतुष्टयं सर्व-दिङ्-मुखं चतुर्-दिग्-अभिमुखं पूर्णं कृत्वा भू-परीक्षार्थं प्रज्वालयेत् । पूर्णमिति घृत-विशेषणं वा ॥४३॥

दीप्तां पूर्वादि गृह्णीयाद् वर्णानाम् अनुपूर्वशः ।
वास्तुः सामूहिको नाम दीप्यते सर्वतस् तु यः ।
शुभदः सर्व-वर्णानां प्रासादेषु गृहेषु च ॥४४॥

तत्र च प्रादक्षिण्येन सम्यग् दीप्ति-विशेषेण दीप्तां वर्तिं लक्षीकृत्य पूर्वादि-दिशम् आरभ्य क्रमेण विप्रादीनां शुभं जानीयाद् इत्यर्थः । तत्र यदि वर्ति-द्वयम् अधिकं दीप्यते, तदा द्वयोर् एव शुभं, तत्र च पूर्व-दक्षिणयोश् चेत् तर्हि विप्र-क्षत्रिययोः पूर्वोत्तरयोश् चेत् तर्हि विप्र-शूद्रयोर् इत्य् एवम् ऊह्यम् । यत्र च वर्ति-चतुष्टयं सर्वम् एवाधिकं दीप्यते, तत्र सर्वेषाम् एव शुभम् इत्याह—वास्तुरिति ॥४४॥

अरत्निमात्रकं गर्तं परीक्ष्यं खात-पूरणे ।
अधिके श्रियम् आप्नोति न्यूने हानि समे समम् ॥४५॥

कथं परीक्ष्यम् ? तदाह—खातस्य तद्-गर्तस्य तन्-मृत्तिकादिना पूरणे सति यदि तन्-मृत्तिकादिकम् अधिकम् उद्धृतं स्यात् तर्हि शुभं स्याद् इत्यर्थः । तथा चोक्तं हयशीर्ष-देवेन—सम्पूर्यमाणे खाते तु तथाधिक-मृदं शुभाम् इति । एवम्

अग्रेऽप्य् ऊह्यम् ॥४५॥

काल-कृष्टेऽथवा देशे सर्व-बीजानि रोपयेत् ।
त्रिपञ्च सप्त-रात्रेण यत्र रोहन्ति तान्यपि ।
ज्येष्ठोत्तम-कनिष्ठा भूर् वर्जनीयेतरा सदा ॥४६॥

त्रिरात्रेण यस्यां बीजानि रोहन्ति, सा ज्येष्ठा, पञ्चरात्रेण यस्यां सा मध्या, सप्त-रात्रेण च यस्यां सा कनिष्ठा भूर् ज्ञेया इत्यर्थः । तत्र चान्तिकां कनिष्ठां च वर्जयेत् । पाठान्तरेऽपि स एवार्थः ॥४६॥

हयशीर्षे—
सुरभीणां रतिर् यत्र सवत्सानां वृषैः सह ।
सुन्दरीणां रतिर् यत्र पुरुषैः सह सत्तम ॥४७॥
राज्ञां पूर्वं गृहं यस्याम् अग्नीनां यज्वनां तथा ।
काश्मीर-चन्दनामोदा कर्पूरागुरु-गन्धिनी ॥४८॥
कमलोत्पल-गन्धा च जाति-चम्पक-गन्धिनी ।
पाटला-मल्लिका-गन्धा नागकेशर-गन्धिनी ॥४९॥
दधिक्षीराज्य-गन्धा च मदिरासव-गन्धिनी ।
सुगन्धितीहि-गन्धा च शुभ-द्रव्यस्वना च या ।
सर्वेषां वर्णिनां भूमिः सर्व-साधारणी मता ॥५०॥
दुर्गन्धा दुःस्वना या च नानावर्णा च दुर्भगा ।
वृत्तार्ध-चन्द्र-सदृशी विस्ताराद् विगुणायता ॥५१॥
विवर्णा वर्ण-हीना च वक्रा सूचि-मुखा तथा ।
द्विवर्णा सूर्प-सदृशी गोमुखा च त्रिकोणिका ॥५२॥
षडस्रा शूल-सदृशी दन्ति-पृष्ठोपमा च या ।
सरीसृपसमा या च दिङ्-मूढा शकटाकृतिः ।
एवम् प्रकारा या भूमिर् वर्क्या यत्नेन देशिकैः ॥५३॥
किञ्च—
प्रासादस्य विशेषेण प्रोक्ता भूमिश् चतुर्विधा ।
सुपद्मा भद्रिका पूर्णा धूम्रा वेगिन्यथापि सा ॥५४॥
तिलकैर् नारिकेलैश् च वर्हिः काशैश्च शोभिता ।
पद्मेन्दीवर-संयुक्ता सा सुपद्मेति विश्रुता ॥५५॥

विवर्णा—दुर्वर्णा ॥५२॥

नदी-समुद्रायतन-तीर्थ-पर्यन्त-शोभिता ।
पुष्प-वृक्ष-समाकीर्णा क्षीर-वृक्षोप-शोभिता ॥५६॥
वनोद्यान-लता-गुल्म-फुल्ल-स्तम्ब-समावृता ।
यज्ञीय-वृक्ष-सुक्षेत्र-युक्ता भद्रेति कीर्तिता ॥५७॥
बकुलाशोक-बहुला तथा प्लक्षाम्र-लोहितैः ।
माधवी-वेष्टिता या च मुद्गनिष्पावकोद्रवैः ॥५८॥
शूकधान्यैश् च पुन्नागैर् गिरि-पार्श्व-गता च या ।
तोयं च स्वल्पकं यस्यां सा पूर्णा परिकीर्तिता ॥५९॥
बिल्वार्कस्नुहि-पीलूनां वनैर् या परितो वृता ।
सशर्करा च कठिना युक्ता कण्टकिभिर् द्रुमैः ॥६०॥

प्लक्षादिभिर् विशिष्टा, एवम् अग्रेऽपि ज्ञेयम् । स्नुहिः— शिजुः ॥५८-६०॥

गृध्र-गोमायुकाकानां श्येनानां या कुलाकुलैः ।
धूम्रेति कीर्तिता सा तु तां यत्नात् परिवर्जयेत् ॥६१॥
ततो भूमिं परीक्षेत पूर्वोदक् प्रवणां शुभाम् ।
असङ्कटां तथाच्छन्नाम् अल्पतोयां परिप्लुताम् ॥६२॥
सम्पूर्यमाणे खाते तु तथाधिक-मृदं लभेत् ।
कुसुम्भ-सदृशं वर्णं यस्यां न म्लानिमृच्छति ॥६३॥
न निर्वाति तथा दीपस् तोयं शीघ्रं न जीर्यते ।
श्वेतारुणा पीत-कृष्णा विप्रादीनां प्रशस्यते ॥६४॥
आज्यासृग्-गन्धमद्यानां तुल्य-गन्धा तु या भवेत् ।
मधुरा च कषाया च अम्ला च कटुका च या ॥६५॥

आज्यादिभिस् तुल्यो गन्धो यस्याः सा । तत्राज्यं घृतम्, असृक् रक्तं, गन्धः—अगुर्वादि-साधित-सुगन्धि-रस-विशेषः ॥६५॥

कुशैः शरैस् तथा काशैर् दूर्वाभिर् या च संवृता ।
तस्यां पुण्येऽथ नक्षत्रे कुर्याद् भूमि-परिग्रहम् ॥६६॥

अथ भूमि-परिग्रहः तत्रैव

तत्रैव—
प्राकार-सीमा-पर्यन्तं ततो भूत-वलिं हरेत् ॥६७॥
माषं हरिद्रा-चूर्णं च सलाजा दधि-शक्तवः ।
एभिर् भूत-वलिं दत्त्वा सूत्रम् अष्टाक्षरेण तु ।
पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् ॥६८॥
राक्षसाश्चापि भूताश्च येऽस्मिंस् तिष्ठन्ति भूतले ।
ते सर्वे व्यपगच्छन्तु स्थानं कुर्याम् अहं हरेः ।
इत्यनुज्ञाप्य भूतादीन् तां भूमिं परिशोधयेत् ॥६९॥
आदित्यादि-ग्रहाणां च लोकपालैः समङ्कृती ।
आज्येनेष्ट-विधानेन ततो वै होमम् आचरेत् ॥७०॥

लोकपालैर् इन्द्रादिभिः समं समन्वितानाम् आदित्यादि-ग्रहानां होमं कुर्यात् ॥७०॥

चरु-होमं ततः कुर्यान् मूल-मन्त्रेण देशिकः ।
दद्यात् पूर्णाहुतिं पश्चाद् वौषडन्तेन देशिकः ॥७१॥
वृषभौ कपिलौ गृह्य सवर्णौ वा विचक्षणः ।
योजनार्थं हलं चैव गृह्णीयाद् असनोद्भवम् ॥७२॥

गृह्य गृहीत्वा, असनः चारवृक्षः, तद्-भवम् । हलस्येति पाठे हलम् इति शेषः ॥७२॥

**
प्राङ्-मुखं योज्य मन्त्र-ज्ञो वस्त्रालङ्कार-भूषितः ।
आसनीं यष्टिमादाय द्वादशाक्षर-विद्यया ।
सम्मर्देन समीकृत्य शुभ-बीजानि वापयेत् ॥७३॥**

योज्य योजयित्वा । समीकृत्य तद्-भूतलम् ॥७३॥

सम्प्राप्ते शुभ-काले तु गोभिस्तत् खादयेद् बुधः ।
पुनस्तत् कर्षयित्वा तु समीकृत्य ग्रहं गुरुः ॥७४॥

तत् तत्र जातं शस्यादि, तं प्रदेशं, तदिति वा पाठः, गृहं प्रारभेद् इति शेषः ॥७४॥

मात्स्ये च—
हीनाधिकाङ्गतां वास्तोः सर्वतः परिवर्जयेत् ।
नगर-ग्राम-देशेषु सर्वत्रैव विवर्जयेत् ॥७५॥

भूमि-परिग्रहे च किञ्चिद् विशेषम् अन्यं लिखति— हीनेति । सर्वतः समन्ताद् भूतलं समं कुर्याद् इत्यर्थः ॥७५॥

अथ दिक्-साधनम्

हयशीर्षे—
वाह्यवास्तुं समं कृत्वा चतुरस्रं समन्ततः ।
भूमिं तोय-समां कृत्वा दर्पणोदर-सन्निभाम् ।
द्वादशाङ्गुलमानेन चाष्टौ वारांस् तु भ्रामयेत् ॥७६॥
मध्ये सुनिश्चलं शङ्कं स्थाप्य छायां निरीक्षयेत् ।
प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् ॥७७॥

स्थाप्य स्थापयित्वा, तस्यां भूमौ, छायायाः प्रवेशे निष्क्रमे च निर्गमे ॥७७॥

शङ्कु-च्छायाग्र-चिह्नाभ्यां प्राक् प्रतीच्यौ प्रसाधयेत् ।
प्राक् प्रतीचीं गते सूर्ये उदग्यामौ प्रसाधयेत् ॥७८॥
वैषुवे विमले व्योम्नि शङ्कुना साधयेद् दिशम् ।
शरद्-वसन्तयोर् एवम् आदित्यात् साधयेद् दिशम् ॥७९॥

न च शङ्कुना सदा दिक्-साधनं स्याद् इत्याह—वैषुवे इति । शङ्कु-लक्षणं चोक्तं श्री-हयशीष-देवेन—

प्रशस्तं दारुमादाय सारवत् खदिरादिकम् । चतुरस्रं तु तद्-दारु कारयित्वा तु शिल्पिना ॥ वृत्तं भूमि-समं कुर्यान् निब्रणं सुसमं तथा । द्वादशाङ्गुलमायाममग्रे चाङ्गुलम् उच्यते ॥ मूले षड्-अङ्गुलं चास्य परिणाहः स्वमानतः । ह्रस्वात् ह्रस्वतरं कार्यम् अग्रेऽस्य यवमात्रकम् । भूमि-च्छेद-समं कुर्यान् मूलम् अग्रं सुसम्मितम् ॥ इति ।

शरद्-वसन्तयोर् इति—प्रायस्तदानीं प्राचीदिङ्-मध्य एवादितोदयात् ॥७९॥

प्राचीं वा पुष्प-वेधेन चित्रास्वात्यन्तरेण वा ।
उदीचीं ध्रुव-वेधेन मध्य-योगेन चोन्नयेत् ॥८०॥
चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् ।
चतुर्दिक्षु निवेश्याथ सूत्र-चिह्नं तु कारयेत् ॥८१॥

मध्य-योगेन साधित-प्राची-प्रतीची-मध्य-प्रदेश-द्वारेणैवेत्यर्थः । गृह्य गृहीत्वा ॥८०-८१॥

एवं कृत्वा सूत्र-चिह्नं ब्राह्मणांस् तत्र भोजयेत् ।
वैष्णवान् पायसेनाग्र्यान् द्वादशैव समाहितः ॥८२॥

अथ शल्योद्धरणम्

मात्स्ये—
गृहारम्भेऽतिकण्डूतिः स्वाम्यङ्गे यत्र जयते ।
शल्यं त्व् अपनयेत् तत्र प्रासादे भवने तथा ।
सशल्यं भयदं यस्माद् अशल्यं भय-नाशनम् ॥८३॥

स्वामी गृहकर्ता, तस्याङ्गे गात्रे, यत्र यस्मिन् स्थाने ॥८३॥

हयशीर्षे—
आदिशेद् वास्तुनः शल्यं गृहिणोऽङ्गविकारतः ।
शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः ॥
कीर्त्य̍ते यस्य वै नाम शल्यं तस्य विनिर्दिशेत् ॥८४॥

अङ्ग-विकारः कण्डूयनादिः, तस्मात् । कीदृशं तच्छल्यम्? इत्यत्राह—शकुन इति । तस्य शकुनस्यास्थ्यादि-रूपं शल्यम् ॥८४॥

अथ वास्तु-मण्डलम्

मात्स्ये—
पञ्च-गव्यौषधि-जलैः परीक्षित्वावसेचयेत् ।
एकाशीतिपदं कुर्याद् रेखाभिः कनकेन तु ॥८५॥

परीक्षित्वा पूर्वं भूमिं परीक्षेत इत्यादिनोक्त-प्रकारं भूमि-परीक्षणं कृत्वा । ततः पञ्च-गव्यैर् ओषधि-जलैश्च भूमिम् अवसेचयेत् प्रोक्षेत । अत्र चायं ग्रन्थानुसारेण शिष्ट-सम्मतो विशेषो ज्ञेयः । प्रथमं यजमानो मातृकार्चन-पूर्वकं वृद्धि-श्राद्धमाभ्युदयिकं विधाय प्राङ्-मुखम् आसीन उदङ्-मुखांस्त्रीन् ब्राह्मणानुपवेश्य चन्दन-पुष्पाक्षत-ताम्बूलवासोहिरण्यैर् अभ्यर्च्य̍ । ओं पुण्याहं भवन्तो ब्रुवन्तु इति प्रथमं ब्राह्मण-वाचनम् । ओं ऋध्यताम् इति-वाचनं त्रिः कुर्यात् । ततो भगवत्-प्रीतये अमुकवास्तु-कर्माहं करिष्ये, तत्र त्वम् आचार्यो भव इति आचार्यं वृणुयात् । भवामि इत्याचार्येणाभिहिते तच्-छाखोक्त-विधिना तम् अर्चयेत् । तत आचार्यो गायत्र्या गो-मूत्रं—

गन्ध-द्वारां दुराधर्षां नित्य-पुष्टां करीषिणीम् । ईश्वरीं सर्व-भूतानां त्वाम् इहोपह्वये श्रियम् ॥

इति मन्त्रेण गो-मयम् । ओं आप्यायस्व समेतु ते विश्वतः इत्यादि-मन्त्रेण दुग्धम् ।

दधि-क्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिना । सुरभिनो मुखाकरत् प्राण-आयुंसि तारिषत् ॥

इत्यादि-मन्त्रेण दधि । तेजोऽसि, शुक्रम् असि, अमृतम् असि, धामनामासि, प्रियं देवानाम् अनाधृष्टं देव-यजनम् असि इति-मन्त्रेण घृतम् । ओं देवस्य त्वा सवितुः प्रसवेऽश्विनोर् बाहुभ्यां, पूष्णो हस्ताभ्यां, सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेः साम्राज्ये नाभिषिञ्चामि इति मन्त्रणोदकम् । एवं पृथक् पृथक् अभिमन्त्र्य सर्वम् एकीकृत्य तेन पञ्च-गव्येनोदकेन च तां भूमिं प्रोक्षेतेति । तन्-मध्ये च कनकेनेति । स्वर्ण-शलाकयेति ज्ञेयम् । तद्-अभावे रजत-फल-पुष्प-धान्यानामन्यतमेनापि रेखाः कृत्वा ताभिर् एकाशीतिपदं नाम वास्तु-मण्डलं कुर्याद् इत्यर्थः ॥८५॥

पश्चाल् लेपेन चलिप्य सूत्रेणालोड्य सर्वतः ।
दश पूर्वायता रेखा दश चैवोत्तरायत्ताः ।
सर्व-वास्तु-विभागेषु विज्ञेया नवका नव ॥८६॥

तत्-प्रकारम् एवाभिव्यञ्जयति—पश्चादिति द्वाभ्याम् । नवका नवेति एकाशीतिर् इत्यर्थः । अत्र चायं विशेषः—

शान्ता यशोवती कान्ता विशाला प्राणवाहिनी । सती सुमना नन्दा सुभद्रा सुरथा ॥

इति-सञ्ज्ञिका दश प्राक् पश्चिमायता दक्षिणोपक्रमा उदग्-अपवर्गा रेखाः कृत्वा तद्-उपरि हिरण्या सुव्रता लक्ष्मीर् विभूति-विमला प्रिया जया कला विशोका च ईडेति-सञ्ज्ञिका दश दक्षिणोत्तरायताः पश्चिमोपक्रमाः पूर्वापवर्गा रेखाः कुर्यात् । ततः शुक्ल-रङ्ग-सूत्रडोरेण ताः सम्यङ्-निर्माय नवभिर् नवकैर् एकाशीतिपदानीति मण्डलं कुर्याद् इति ॥८६॥

एकाशीतिपदं कृत्वा वास्तु-वित् सर्व-वास्तुषु ।
पद-स्थान् पूजयेद् देवान् त्रिंशत् पञ्च-दशैव च ॥८७॥

त्रिंशत् पञ्चदश चेति पञ्च-चत्वारिंशतम् इत्यर्थः ॥८७॥

द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश्चान्तस् त्रयोदश ।
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोध मे ॥८८॥

तत्रैव विशेषमाह—द्वात्रिशदिति । बाह्यतः मण्डलस्य चतुर्दिक्षु बाह्य-पङ्क्ति-द्वये, अन्तश्च तद्-अभ्यन्तरे ॥८८॥

ईशकोणादिषु सुरान् पूजयेच्च विधानतः ।
शिखी चैवाथ पर्जन्यो जयतः कुलिशायुधः ॥८९॥

ईशकोणादिषु पञ्च, ईशानकोणम् आरभ्य वक्ष्यमाण-विधिना शिख्यादि-पञ्च-चत्वारिंशद् देवान् पूजयेत् । तान् एव यथास्थानं विभज्य दर्शयन् आदौ क्रमेण द्वात्रिंशद् देवान् आह—शिखीति सार्ध-त्रयेण ॥८९॥

सूर्यः सत्यो भृशश् चैव आकाशो वायुर् एव च ।
पूषा च वितथश् चैव गृहक्षतयमाव् उभौ ॥९०॥
गन्धर्वो भृङ्ग-राजश्च मृगः पितृ-गणस् तथा ।
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥९१॥
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ।
भल्लाटः सोमसर्पौ च अदितिश्च दितिस् तथा ।
बहिर् द्वात्रिंशद् एते तु तदन्तश्च सुरान् शृणु ॥९२॥

एते शिखि-प्रभृतयो द्वात्रिंशद् देवा बहिर्-मण्डल-बाह्यपङ्क्ति-द्वयस्य द्विपञ्चाशत्-पदेषु पूज्या इत्यर्थः । तत्र च वक्ष्यमाण-वचनाद् एकपदा द्वादश, द्विपदाश्च विंशतिर् ज्ञेयाः । एतच्चाग्रे व्यक्तं भावि ॥९२॥

ईशानादि-चतुष्कोण-संस्थितान् पूजयेद् बुधः ।
आपश् चैवाथ सावित्रो जयो रुद्रस् तथैव च ॥९३॥

ईशानादि-चतुष्कोण-संस्थितानिति बहिष्कोण-चतुष्टयस्याधस्ताद् यद् द्वितीय पङ्क्तेः कोण-चतुष्टयं, तत्र ईशानादि-क्रमेण स्थितान् आपादीन् चतुरो देवान् पूजयेद् इत्यर्थः ॥९३॥

मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगाः ।
सर्वान् एकोत्तरान् विद्यात् पूवादीन् नामतः शृणु ॥९४॥

नवानि पदानि यस्य स नवपद-स्थितो ब्रह्मा पूज्य इत्यर्थः । तस्य ब्रह्मणः समीपगाः पार्श्वष्टिदिक्षु चाष्टौ पूज्या इत्यर्थः । आदौ सामान्यतस् तेषां संस्थापनम् आह—एको ब्रह्मा उत्तरो मध्य-वर्ती येषां तथाभूतान् सर्वानष्टाव् अपि जानीयात् । पाठान्तरे एकः सर्व एव अन्तरा मध्ये आविष्टः प्रविष्टो येषामिति तथैवार्थः । पूर्वादीनिति—पूर्वादि-क्रमेण स्थितान् इत्यर्थः ॥९४॥

अर्यमा सविता चैव विवस्वान् विबुधाधिपः ।
मित्रोऽथ राज-यक्ष्मा च तथा पृथ्वी-धरः क्रमात् ॥९५॥
अष्टमश् चापवत्सश्च परितो ब्रह्मणः स्मृताः ।
पापश् चैवापवत्सश्च पर्जन्योऽग्निर् दितिस् तथा ॥९६॥

तान् एवाह—आपश्चेति सार्ध-द्वयेन । आपादयः पञ्च ॥९६॥

पदिकानां च वर्गोऽयम् एवं कोणेष्व् अशेषतः ।
तन्-मध्ये तु बहिर्विंशद्विपदान्ते तु सर्वतः ॥९७॥
अर्यमा च विवस्वांश्च मित्रः पृथ्वी-धरस् तथा ।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः ॥९८॥

पदिकानां पदानां पदवतां वा मध्ये । एक एवायं ज्ञेयः । पार्वर्तित्वेन परस्परम् एकत्र मिलितत्वाद् एकपदत्वाच् चेति दिक् । एवम् अनेनोक्त-प्रकारेण कोणेषु अन्यस्मिन् कोण-त्रयेऽपि पूर्ववद् अन्योऽन्यमिलितैर् एव पदैः पञ्च-पञ्चभिर् एकैको वर्गो ज्ञेय इत्यर्थः । तत्र च मण्डलस्येशानकोणे शिखी, तस्य वामे दितिः, दक्षिणे पर्जन्यः, अधश्चापः, तद्-अधश्चापवत्स इति पञ्चभिर् एको वर्गः । आग्नेये च वायुः, तस्य वामे आकाशः, दक्षिणे पूषा, अधः सावित्र्यः, तद्-अधश्च सवितेति पञ्चभिर् अन्यः । नैरृते पितृ-गणः, तस्य वामे मृगः, दक्षिणे दौवारिकः, अधो जयः, तद्-अधस्ताच्च विबुधाधिप इति पञ्चभिर् अपरः । वायव्ये च रोगः, तस्य वामे पापः, दक्षिणे अहिः, अधो रुद्रस् तद्-अधस्ताच् च राज-यक्ष्मेति पञ्चभिः परः । अशेषत इत्यनेन चान्यत्रापि सर्वत्र वक्ष्यमाण-प्रकारेण वर्ग ऊह्यः । तथा हि—मण्डलस्य पूर्वस्मिन् भागे जयन्तादिभिर् द्विपदैः पञ्चभिर् एकः, दक्षिणे तथैव वितथादिभिर् एकः, पश्चिमे तथैव सुग्रीवादिभिर् एकः, उत्तरे च तथैव मुख्यादिभिर् एकः, मध्येऽपि ब्रह्मणा तच्चतुर्दिक्-स्थितैश् चार्यमादिभिश् चतुर्भिर् एवं पञ्चभिर् एवैक इत्येवं नव-वर्गाः, तैश्च पञ्च-चत्वारिंशद्-देवता भवन्तीति । इत्थम् एवाग्रे वक्ष्यमाण-वास्तु-पुरुषस्य मस्तकाद्य्-अङ्गेषु क्रमेण शिख्यादि-देवता-पूजा-विधिर् अपि सङ्गच्छत इति दिक् । तेषां कोण-स्थितानां मध्ये बहिश् चापवत्स्याद्य्-अधिष्ठित-पदपङ्क्तितो बाह्य-पङ्क्ति-द्वये एकस्यां दिशि द्विपदाः पञ्चेत्येव सर्वतः चतुर्दिक्षु विंशति-द्विपदा ज्ञेया इत्यर्थः । तत्र च पूर्वस्यां दिशि पर्जन्य-दक्षिणतो बहिरेकपदे तद्-अधश् चान्तरेकपदे, एवं पद-द्वये क्रमेण जयन्तादयः पञ्च, दक्षिणस्यां तथैव वितथादयः पञ्च, पश्चिमायां तथैव सुग्रीवादयः पञ्च, उत्तरस्यां तथैव मुख्यादयः पञ्चेत्य् एवं ज्ञेयम् । चत्वारश् चात्र पदा इत्याह—अर्यमेति । एवं सर्वे एकपदा विंशतिः, द्विपदाश्च विंशतिः, त्रिपदाश् चत्वारः, नव-पदश् चैको ब्रह्मा, तत्र च बहिरेकपदा द्वादश, द्विपदाश्च विंशतिरेव, बहिष्कोण-चतुष्टयाद् अधः कोण-चतुष्टये चत्वार एकपदाः, ब्रह्मणः पूर्वादि-दिक्षु त्रिपदाश् चत्वारः । तस्यैव चतुष्कोणेषु चत्वारश्चैकपदा एवेत्य् एवम् एकाशीति-पदेषु पञ्च-चत्वारिंशद् देवताः पूज्या इति वाराह्यादि-सम्मत्या शिष्टाचारतो ज्ञेयम् ॥९७-९८॥

वंशान् इदानीं वक्ष्यामि रज्जूर् अपि पृथक् पृथक् ।
वायुं यावत् तथा रोगात् पितृभ्यः शिखिनं तथा ॥९९॥

प्रसङ्गाद् वास्तु-मण्डले वंशानाह—वंशानीति द्वाभ्याम् । ऋजून् इति पाठे वंशानां विशेषणम् । रोग-पदाद् वायु-पदं यावद् एको वंशः । एवम् अन्येऽप्य् अग्रे ज्ञेयाः ॥९९॥

मुख्याद् भृशं तथा शोषाद् वितथं यावद् एव तु ।
सुग्रीवाद् अदितिं यावद् भृङ्गात् पर्जन्यम् एव च ॥१००॥
एते वंशाः समाख्याताः क्वचिद् ऋजव एव तु ॥१०१॥

एते—षड्-वंशाः ॥१०१॥

एतेषां यस् तु सम्पातः पद-मध्यं समं तथा ।
मर्म चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् ॥१०२॥

वंश-कथन प्रयोजनमाह—एतेषामिति द्वाभ्याम् । तत्र सम्पातः—द्वाभ्याम् एकत्र संश्लेषः ॥१०२॥

स्तम्ब-न्यासेषु वर्ज्यानि तुला वेधेषु सर्वदा ।
कीलोत्सृष्टोपघातादि वर्जयेद् यत्नतो नरः ।
सर्वत्र वास्तु-निर्दिष्टः पितृ-वंशोत्तरायतः ॥१०३॥

वास्तु-पुरुषस्याङ्गेषु तत्-तद्-देवता-पूजां विभज्य वक्ष्यन् आदौ तस्य देहेयत्तामाह—सर्वत्रेत्य् अर्धेन । शिखिनम् आरभ्य शिखिनं यावद् यो वंशस् तस्योत्तरमन्तं यावद् आयतो वास्तु-पुरुष इत्यर्थः ॥१०३॥

मूर्धन्यग्निः समाविष्टो मुखे चापः समास्थितः ।
पृथ्वी-धरोऽर्यमा चैव स्तनयोस् ताव् अधिष्ठितौ ॥१०४॥

अधो मुख-पतितस्य वास्तु-पुरुषस्य मूर्द्धनि समाविष्टः अधिष्ठितोऽग्निः पूजनीय इत्यर्थः । एवम् अग्रेऽपि ज्ञेयम् ॥१०४॥

वक्षःस्थले चापवत्सः पूजनीयः सदा बुधैः ।
नेत्रयोर् दिति-पर्जन्यौ श्रोत्रेऽदिति-जयन्तकौ ॥१०५॥

श्रोत्रे श्रोत्रयोः, अदिति-जयन्तौ ॥१०५॥

सर्पेन्द्रावंश-संस्थौ तु पूजनीयौ प्रयत्नतः ।
सूर्य-सोमादयस् तद्वद् बाह्वोः पञ्च च पञ्च च ॥१०६॥

सर्पः—अदितेर् उत्तरतो निरन्तर-स्थितो द्विपदः, इन्द्रश्च कुलिशधिपो जयन्तस्य दक्षिणतो निरन्तर-स्थितो द्विपदः, तौ स्कन्ध-स्थितौ पूज्यौ, सूर्यादयः पञ्च दक्षिणे बाहौ, आदि-शब्देन सूर्यस्य दक्षिणे निकट-वर्तिनः सत्य-भृशाकाश-वायवश् चत्वारः तथा सोमादयश्च पञ्च वाम-बाहौ पूज्या इत्यर्थः । अत्रादि-शब्देन सोमस्योत्तरे निकट-वर्तिनो भल्लाट-मुख्या हि रोगाश्चत्वारः ॥१०६॥

रुद्रश्च राज-यक्ष्मा च वाम-हस्तं समाश्रितौ ।
सावित्रः सविता तद्वद् धस्तं दक्षिणम् आश्रितौ ॥१०७॥
विवस्वान् अथ मित्रश्च जठरे संव्य-वस्थितौ ।
पूषा च पाप-यक्ष्मा च हस्तयोर् मणिबन्धने ॥१०८॥

हस्तयोरिति द्वित्वेन मणिबन्धस्यापि द्वित्वं ज्ञेयम् । मणिबन्धयोर् इति वा पाठः । तत्र दक्षिणे मणिबन्धे पूषा, वामे च पाप-यक्ष्मा पाप एव; अत एव बलि-दानेऽप्यग्रे वक्तव्यं, गोधा वै पाप-यक्ष्मणः इति । राजयक्ष्मेति पाठश् चिन्त्यः । रुद्रस्याधःकोण-स्थितस्य राजयक्ष्मणो रुद्रेण सह वाम-हस्ते च पूर्वं स्थित्य्-उक्तेः ॥१०८॥

तथैवासुर-शोषौ च वामं पार्श्वं समाश्रितौ ।
पार्श्वे तु दक्षिणे तद्वद् वितथः सगृह-क्षतः ॥१०९॥
ऊवोर् यमाम् बुपौ ज्ञेयौ जान्वोर् गन्धर्व-पुष्पकौ ।
जङ्घयोर् भृङ्ग-सुग्रीवौ स्फिक्-स्थौ दौवारिको मृगः ॥११०॥

अम्बुपो वरुणः, पुष्पकः पुष्प-दन्तः, भृङ्गो भृङ्ग-राजः, स्फिक्कटी ॥११०॥

जयः शक्रस् तथा मेढ्रे पादयोः पितरस् तथा ।
मध्ये नव-पदो ब्रह्मा हृदये तु स पूज्यते ॥१११॥

शक्रो विबुधाधिपः जयन्तस्याधःकोण-वर्ती । मेढ्रे मेढ्रयोः, एवं मूर्द्ध-मुख-वक्षःसु त्रिष्व् अङ्गेषु प्रत्येकम् एक इति त्रयः । स्तनादि-दश-युगलेषु च प्रतियुगलं द्वाविति विंशतिः । बाह्वोः पञ्च च पञ्च चेत्युक्तेस् तयोर् दश । हस्तयोः पार्श्वयोश्च प्रत्येकं द्वयोक्तेर् अष्टौ, जठरे चैकस्मिन् द्वौ, पादयोः पितरस् तथेत्युक्तेस् तयोः पितृ-गण एक एव । हृदये च मर्मणि ब्रह्मैक एवेति सर्वेष्व् अङ्गेषु पञ्च-चत्वारिंशद् देव-विभागो ज्ञेयः ॥१११॥

चतुः-षष्टि-पदो वास्तुः प्रासादे ब्रह्मणः स्मृतः ।
ब्रह्मा चतुष्-पदस् तद्वत् कोणेष्व् एकपदास् तथा ॥११२॥

चतुःषष्टि-पद-मण्डलमाह—चतुरिति द्वाभ्याम् । ब्रह्मणः प्रासादे, नान्यस्य । श्री-हयशीर्ष-मते च सर्वत्रैवेत्यग्रे व्यक्तं भावि । तद्वत् एकाशीतिपदवन् मध्ये ब्रह्मा, स चात्र चतुष्पद इत्यर्थः । ततो ब्रह्मणः कोणेषु येषु चतुर्षु पूर्वम् एव पदाः स्थिताः, तेषु चात्र कोणेषु रेखां दत्त्वाष्टाव् अर्ध-पदाः स्थिताः कार्या इत्यर्थः ॥११२॥

बहिष्कोणेषु चाष्टौ तु सार्धाश् चोभयतः स्मृताः ।
विंशति-द्विपदास् तेषां चतुःषष्टि-पदे स्मृताः ॥११३॥

किञ्च, मण्डलस्य बहिश्चतुष्कोणेषु च तथैवाष्टौ । किञ्च, मण्डल-बहिष्कोणानां तेषाम् उभयतः पार्श्व-द्वये अष्टौ देवाः सार्ध-पदाः कार्या इत्यर्थः । एवं बाह्याभ्यन्तराष्टकोणेष्व् अर्धपदाः षोडश । ते च ऐशान-दक्षिणकोणार्ध-क्रमेण बहिः शिख्याकाश-वायु-मृगपितृ-पापरोगा दितयोऽष्टावन्तश्च तथैव सावित्र-विबुधाधिप-जय-रुद्र-राजयक्ष्म-चापवत्स-सवितारोऽष्टौ ज्ञेयाः । अष्टौ च सार्धपदाः । ते च ईशान-दक्षिण-क्रमेणैव पर्जन्य-भृश-पूष-भृङ्गराज-दौवारिक-शोषा हि अदितयो ज्ञेयाः । द्विपदाश्च विंशतिः । तत्र चैकाशीतिपदवन्मण्डलस्य पूर्वस्यां जयन्तादयः क्रमेण चत्वारः । तथैव दक्षिणस्यां वितथादयः, पश्चिमायां सुग्रीवादयः, उत्तरस्यां च मुख्यादयः, ब्रह्मणः पूर्वादि-चतुर्दिक्षु चार्यमादयश् चत्वार इति विवेचनीयम् । मध्ये ब्रह्मा चैकश् चतुष्पद इत्येवं चतुःषष्टि-पदेषु पञ्च-चत्वारिंशद् देवा ज्ञेया इति । तथा च वाराह्याम्—

अष्टाष्टक-पदम् अथवा कृत्वा रेखास् तु कोणगास् तिर्यक् । ब्रह्मा चतुष्पदेऽस्मिन्न् अर्धपदा ब्रह्म-कोणस्थाः ॥ अष्टौ च बहिष्कोणेष्व् अप्यर्धपदास् तद् उभयतः स्थिताः सार्धाः ॥ उक्तेभ्यो ये शेषास् ते द्विपदा त्रिंशतिस् ते च ॥ इति ॥११३॥

हयशीर्षे—
वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बर-धरः शुचिः ।
श्वेत-गन्धानुलिप्ताङ्गः सर्वालङ्कार-भूषितः ।
चतुःषष्टिं तु प्रासादे एकाशीतिं गृहे सदा ॥११४॥
चतुरस्रीकृते क्षेत्रे ह्य् अष्टधोभय-भाजिते ।
कोण-रेखां ततो दत्त्वा सुरभागांस् तु कल्पयेत् ॥११५॥

चतुःषष्टिपद-विभागमाह—चतुरस्रीकृत इति । अष्टधा अष्टाष्टत्वेन, उभयतः तिर्यग् ऊर्ध्वम् अधो नव-रेखाभिर् भाजिते कृत-भागे क्षेत्रे , कोण-रेखां दत्त्वेति बहिश्चतुष्कोणेषु मध्ये मध्ये रेखयाऽर्धार्धत्वेनाष्टभागान् कल्पयित्वेत्यर्थः ॥११५॥

शिरः कोणार्धतो ज्ञेयः पर्जन्यः पद-संस्थितः ।
द्विपद-स्थो जयो ज्ञेयः सुरेशश् चैकपादिकः ॥११६॥
भास्करस् तु पदे ज्ञेयो द्विपदः सत्य इष्यते ।
भृशः पदस्थो विज्ञेयो व्योम चैव पदार्धगः ॥११७॥
हुताशनः पदार्धश् च पूषा च पद-संस्थितः ।
वितथो द्विपदश् चैव पदैकश्च गृहक्षतः ॥११८॥
वैवस्वतः पदैकस्थो गन्धर्वो द्विपद-स्थितः ।
भृङ्गश् चैकपदो ज्ञेयो मृगश् चार्धपदे स्थितः ॥११९॥
पितरश् चार्धतो ज्ञेयाः पदे दौवारिकस् तथा ।
सुग्रीवश्च पदौ ज्ञेयौ ह्य् एकस्थः पुष्प-दन्तकः ॥१२०॥
यादसां पतिर् एकस्थो ह्य् असुरस् तु द्विसंस्थितः ।
शोषश् चैकपदे ज्ञेयो ह्य् अर्धगः पाप इष्यते ॥१२१॥
रोगश् चार्धपदे ज्ञेयो नागश्चापि पदे स्थितः ।
मुख्यश्च द्विपदे ज्ञेयो भल्लाटः पद-संस्थितः ॥१२२॥
यज्ञेश्वरः पदे ज्ञेयो नागराड् द्विपदे स्थितः ।
पदस्था श्री-महादेवी अदितिश् चार्ध-संस्थिता ॥१२३॥
आपो ज्ञेयास् तु पदगापवली द्विपदा-स्थिता ।
चतुष्पदस्थो विज्ञेयस् त्व् अर्यमा पूर्वमध्य-गः ॥१२४॥

पदगा आपो ज्ञेयाः । विसर्ग-लोपेऽपि सन्धिर् आर्षः । आपवली द्विपद-स्थिता । एवम् अत्रार्ध-पदाश्चतुष्कोणेष्व् अष्टौ । तन्-मध्ये प्रतिदिशं षडित्येवं चतुर्दिक्षु चतुर्विंशतिर् एकपदा, एवञ्च बहिर्द्वात्रिंशत् । मध्ये ब्रह्मा चतुष्पदः । तस्य चतुर्दिक्षु चत्वारश्चतुष्पदाः। तच्चतुष्कोणीय-षोडश-पदेषु चाष्टौ द्विपदा इत्येवं चतुःषष्टि-पदेषु पञ्च-चत्वारिंशद् देवता-विभागाः । अत्र देवता-विभाग-क्रमश्च वक्ष्यमाण-पूजा-क्रमापेक्षयैवोक्तः, न च पद-क्रमापेक्षयेति ज्ञेयम् । किञ्च, मात्स्योक्तो देवतानाम-स्थान-विभागादि-भेदश्च प्रासादाधिष्ठातृ-देवादि-भेदतः कल्पनीय इति दिक् । एतच् छ्री-हयशीर्ष-देवोक्त-विभागानुसारेणैव श्री-कृष्ण-देवाचार्यपादैर् विभागो लिखितः । केवल-मत्स्योक्तानुसारेण तैर् देवता-नामानि लिखितानि, तच्च पूर्वं चल-मूर्ति-प्रतिष्ठायां लिखितम् एवास्ति ॥१२४॥

सविता तु पदे ज्ञेयः सावित्री च पदे स्थिता ।
ततो विवस्वान विज्ञेयश् चतुष्टय-पदे स्थितः ॥१२५॥
इन्द्रश् चन्द्रो जयश् चैव एकैके संव्यव-स्थितौ ।
मित्रश् चतुष्पद-स्थश् च पश्चिमे तु व्यवस्थितः ॥१२६॥
रुद्रः पदैकसंस्थो वै यक्ष्मा चैकपदे स्थितः ।
धराधरश्च विज्ञेयो ह्य् उत्तरे च चतुष्पदः ।
चतुर्मुखश् चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः ॥१२७॥

अथ वास्तु-पूजा

मात्स्ये—
अथातः सम्प्रवक्ष्यामि प्रासाद-विधि-निर्णयम् ।
वास्तौ परीक्षिते सम्यक् वास्तु-देह-विचक्षणाः ।
वास्तूपशमनं कुर्यात् पूर्वमेव विचक्षणः ॥१२८॥

हे विचक्षणा इति तत्रस्थ-श्रोतृणां सम्बोधनम् ॥१२८॥

एकाशीतिपदं लिख्य वास्तु-मध्ये तु पिष्टकैः ।
होमस् त्रिमेखले कार्यः कुण्डे हस्त-प्रमाणके ॥१२९॥

वास्तूपगमन-प्रकारमाह—एकशीति इत्यादिना । पिष्टकैर् लिख्य लिखित्वा । यद्वा , पिष्टकैर् इत्य् अस्य परेणैवान्वयः । कुण्ड-निर्माणादि-विधि-विशेषश्च पूर्वं दीक्षा-विधौ लिखित एवास्ति, होमादौ चायं विशेषो ग्रन्थान्तरानुसारेण शिष्ट-सम्मतो ज्ञेयः । तथा हि— ‘तस्मिन् कुण्डे गोमयोप-लिप्ते सिकतोपकीर्णे यथोक्त-होमोपकरणान्य् उपस्थाप्याचार्यो ब्रह्म-वरणं विधाय स्वगृह्योक्त-विधिनाग्निम् उपसमाधाय मण्डल-समीप गत्वा शिखि-प्रभृति-पञ्च-चत्वारिंशद् देवता ईशानकोणादिष्व् अष्टपदेषु षट्-पञ्चाशद् उत्तरशत-द्वय-सख्यैर् यजमानम् उष्टिपरिमितैस् तण्डुलैः स-प्रणव-महाव्याहृतिभिर् आवाह्य तैर् एव स्थापयित्वा प्रणवादि-नमोऽन्तेन स्व-स्व-नाम-मन्त्रेण प्रत्येकं पाद्यादि-ताम्बूलान्तैर् उपचारैर् अर्चयेत् । अथ कुण्ड-समीपम् एत्य स्व-गृह्योक्त-विधिना ब्रह्मोपवेशनाद्याज्य-भागान्तं कर्म निर्वर्त्यं शिख्यादि-पञ्च-चत्वारिंशिंशद् देवताभ्यः प्रण-व्याहृति-पूर्वेण महाव्याहृति-पूर्वेण च तत्-तन्-मन्त्रेण यवादिभिः पलाशादीनाम् अन्यतम-समिद्भिर् वा कुश-दूर्वादिभिर् वा प्रत्येकं दश-दशाहुतीर् जुहुयात् । केचित् तु शिख्यादि-देवताभ्यः प्रत्येकम् आहुति-दशकं प्रजेशायाहुति-शतम् इत्याहुः । तथा प्रजापतये उत्क-द्रव्याणाम् अन्यतमेन प्राजापत्येन मन्त्रेण शतम् आहुतीर् जुहुयात् । ओं वास्तोष्पते प्रतिजानीह्य् अस्मान् स्वावेशो अनमीवो भवानः, यत्त्वे महे प्रति तन्नो जुषस्व, शन्नो भव द्विपदे शं चतुष्पदे । ओं वास्तोष्पते प्रतरणो नो एधि गयस्फानो गोभिर् अश्वेभिर् इन्दो अजरासस् ते सख्ये स्याम पितेव पुत्रान् प्रति नो जुषस्व । ओं वास्तोष्पते शग्मया संसदा ते शक्षीम हिरण्मयागातुमत्या पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः । ओं अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् सखा सुशेव एधि नः । ओं वास्तोष्पते ध्रुवा स्थूणां सत्रं सौम्यानाम्, द्रप्सो भेत्ता पुरां शश्वतीनाम् इन्द्रो मुनीनां सखा स्वाहा । इति पञ्चभिर् मन्त्रैः प्रतिमन्त्रं पञ्च बिल्व-फलानि बिल्व-बीजानि वा एकैकशो जुहुयात् । वनवास्तौ तु वास्तोष्पतीयहोमात् पूर्वं वन-पालाय स्वाहा, शिखि-ध्वजाय स्वाहा, सोमाय स्वाहा, नागराजाय स्वाहा इत्य् एभिर् मन्त्रैः प्रत्येकदैवतं यवादि-होम-द्रव्याणाम् अन्यतमेन द्रव्येण अष्ट-सहस्राष्ट-शताष्ट-विशत्यन्यतम-सङ्ख्याका आहुतीर् जुहुयाद् इति । श्री-हयशीर्ष-मते चायं होमो विशेष-बलि-दानान्तरम् एव । तच्चाग्रे व्यक्तं भावि ॥१२९॥

यवैः कृष्ण-तिलस् तद्वत् समिद्भिः क्षीर-वृक्षजैः ।
पालाशैः खादिरैर्वापामार्गोडुम्बर-सम्भवैः ॥१३०॥
कुश-दूर्वामयैश् चापि मधु-सर्पिःसमन्वितैः ।
कार्यस् तु पञ्चभिर् बिल्वैर् बिल्व-बीजैर् अथापि वा ।
होमान्ते भक्ष्यभोज्यैश् च वास्तु-देवे बलिं हरेत् ॥१३१॥
तद्वद् विशेष-नैवेद्यम् इदं दद्यात् क्रमेण तु ॥१३२॥

अथ पूर्णाहुतिं दत्त्वा वास्तु-देवताभ्यस् तद्-अभीष्ट-बलिं प्रत्येकं दद्याद् इत्याह—तद्वद् इत्यादिना ॥१३२॥

ईशकोणे घृतान्नं तु शिखिने विनिवेदयेत् ।
ओदनं सोत्पलं दद्यात् पर्जन्याय घृतान्वितम् ॥१३३॥

तत्र तू ‘ओं शिखिने अयं घृतान्न-बलिर् नमः’ इत्यादि वाक्यम् ॥१३३॥

जयन्ताय ध्वजं पीतं पैष्टं कूर्मं च सन्त्यजेत् ।
इन्द्राय पञ्च-रत्नानि पैष्टं च कुलिशं तथा ॥१३४॥

पैष्टं—पिष्ट-निर्मितम् ॥१३४॥

वितानकञ्च सूर्याय धूम्र-रक्तं तथैव च ।
सत्याय घृत-गोधूमं मत्स्यान् दद्याद् भृशाय च ॥१३५॥

घृत-गोधूमं स-घृत-गोधूमान्नम् । मत्स्यान् मत्स्यान्नं केवल-मत्स्यान् वा ॥१३५॥

शष्कुलीञ्चान्तरीक्षाय दद्याच्छक्तूंश्च वायवे ।
पूष्णे लाजास् तु दातव्या वितथे चणकौदनम् ॥१३६॥
गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ।
गन्धौदनञ्च गन्धर्वे भृङ्ग मेषस्य शृङ्गकम् ॥१३७॥
मृगाय यावकं देयं पितृभ्यः कृशरा मता ।
दौवारिके दन्तकाष्ठं पैष्टं कृष्णं बलिं तथा ॥१३८॥

पैष्टं कृष्णं बलिं, कृष्ण-वर्ण-पिष्ट-बलिं च हिरण्मय-पिष्ट-बलिं च वरुणाय दद्यात् ॥१३८॥

सुग्रीवे पूपकं दद्यात् पुष्प-दन्ताय पायसम् ।
कुशस्तम् वेन सहितं दद्यात् पद्मश्च वारुणे ॥१३९॥
पैष्टं हिरण्मयं दद्याद् असुराय सुरा मता ।
घृतौदनं च शोषाय गोधां वै पाप-यक्ष्मणे ॥१४०॥
घृत-लड्डूंश् च रोगाय नागे पुष्प-फलान्वितम् ।
सर्पिर् मुख्याय दातव्यं मुद्गौदन-मतः परम् ॥१४१॥

नागे अहये, भल्लाटाय मुद्गौदनम् ॥१४१॥

भल्लाटाय ततो दद्यात् सोमाय घृतपायसम् ।
सर्पाय पैष्टं शालूकम् अदित्यै लोचिकास् तथा ।
दित्यै तु पूरिकां दद्याद् इत्य् एवं बाह्यतो बलिः ॥१४२॥
क्षीरमापाय दातव्यम् आपवत्साय वै दधि ।
सावित्रे लड्डुकान् दद्यात् समरीचान् कुशौदनम् ॥१४३॥
सवितुर् गुड-पूपांश्च जयाय धृत-चन्दनम् ।
विवस्वते तथा दद्याद् रक्त-चन्दन-पायसम् ॥१४४॥

गुडैर्ये पूपा अपूपास् तान्, घृतं चन्दनं च रक्त-चन्दनं पायसं च ॥१४४॥

हरितालौदनं दद्याद् इन्द्राय घृत-संयुतम् ।
घृतौदनं च मित्राय रुद्राय घृत-पायसम् ॥१४५॥

हरितालवद्-ओदनं पीत-वर्ण-भक्तम् इत्यर्थः । घृत-संयुतं हरितालौदनम् ॥१४५॥

आमं पक्वं तथा मांसं देयं स्याद् राज-यक्ष्मणे ।
पृथ्वी-धराय मांसानि कुष्माण्डाय च दापयेत् ॥१४६॥
शकारा-पायसं दद्याद् अर्य̍म्ने सर्वशः क्रमात् ।
नमस्कारान्त-युक्तेन पायसं पुनर् एव च ॥१४७॥
पञ्च-गव्यं यवांश्चैव तिलाक्षत-हविश्चरून् ।
भक्ष्यं भोज्यं च विविधं ब्रह्मणे विनिवेदयेत् ॥१४८॥
एवं सम्पूजिता देवाः शान्ति कुर्वन्ति ते सदा ।
सर्वेभ्यः काञ्चनं दद्यात् ब्रह्मणे गां पयस्विनीम् ॥१४९॥

एवं प्रत्येकं बलि-विशेषं दत्त्वा पश्चात् क्रमेण सर्वेभ्यः शिखि-प्रभृतिभ्यः काञ्चनं, ब्रह्मणे च धेनुं प्रणवादि-नमोऽन्त-चतुर्थ्यन्त-तत्-तन्-नाम-मन्त्रेण दद्यात् ॥१४९॥

राक्षसीनां बलिर् यो अपि यादृक् तथा शृणु ॥१५०॥

अथ मण्डलाद् बहिर् ऐशानादि-विदिक्-चतुष्टये क्रमेण राक्षसीभ्यश् चतसृभ्यो बलिदानम् आह—राक्षसीनामिति चतुर्भिः । हविषान्वितम् इति पाठे पद्म-केशरं च हविःसहितम् एवेत्यर्थः ॥१५०॥

मांसौदनं घृतं पद्म-केशरं हविषान्वितम् ।
ईशान-भागम् आश्रित्य चरक्यै विनिवेदयेत् ॥१५१॥
मांसौदनं सरुधिरं हरिद्रौदनम् एव च ।
आग्नेयीं दिशम् आश्रित्य विदार्यै विनिवेदयेत् ॥१५२॥
दध्योदनं सरुधिरम् अस्थि-खण्डेश्च संयुतम् ।
पीत-रक्त-बलिं दद्यात् पूतना या तु राक्षसी ।
वायव्ये पाप-राक्षस्यै मत्स्य-मांस-सुरासवम् ॥१५३॥

या पूतना, तस्यै नैरृते दध्योदनानि दद्यात् । सूरासवयोः पैष्टादि-भेदेन भेदः ॥१५३॥

पायसं वापि दातव्यं स्वनाम्ना सर्वतः क्रमात् ।
नमस्कारान्त-युक्तेन प्रणवाद्येन सर्वतः ॥१५४॥

वैष्णवैः कथं मत्स्य-मांसादिकं देयम् ? इत्याशङ्कय पक्षान्तरम् आह—पायसं वेति । सर्वतः सर्व-स्थानेषु सर्वेभ्योऽपि शिखि-प्रभृतिभ्यः । एवम् अपौनर् उक्त्यम् । नमस्कारान्तयुक्तेन नम इत्यन्तेनेत्यर्थः; चतुर्थ्यन्तेन चेति ज्ञेयम् ॥१५४॥

ततः सर्वौषधिस्नानं यजमानस्य कारयेत् ।
द्विजांस् तु पूजयेद् भक्तया ये चान्ये गृहम् आगताः ॥१५५॥

यजमानस्य सर्वौषधि-स्नपणं कारयेद् इत्य् अत्रायं विशेषो ज्ञेयः—आचार्यः प्रत्यङ्-मुखो भूत्वा प्राङ्-मुखं यजमानं शान्ति-कलसेन सुरास् त्व् आमभिषिञ्चन्तु इत्याद्य्-अभिषेक-मन्त्रैर् मङ्गलाभिषेकं कृत्वा पश्चात् सर्वौषधि-जलेन स्नापयेद् इति । अन्यश्चात्रापेक्ष्यो विशेषः शिष्टाचारतो विज्ञेयः ॥१५५॥

एतद् वास्तूपशमनं कृत्वा कर्म समारभेत् ॥१५६॥
प्रासाद-भवनोद्यान-प्रारम्भे परिवर्तने ।
परवेश्म-प्रवेशेषु सर्व-दोषापनुत्तये ॥१५७॥

परिवर्तने जीर्णोद्धरणादिना प्रासादादीनाम् एव परिवर्त्य संस्करणे ॥१५७॥

इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ।
रक्षोघ्न-पवमानेन सूक्तेन भवनादिकम् ।
नृत्य-मङ्गल-वाद्येन कुर्याद् ब्राह्मण-वाचनम् ॥१५८॥

रक्षोघ्नेन पवमानेन च सूक्तेन ॥१५८॥

अनेन विधिना यस् तु प्रतिसंवत्सरं बुधः ।
गृहे वायतने कुर्यान् न स दुःखम् अवाप्नुयात् ॥१५९॥
न च व्याधिभयं तस्य न च बन्धु-धन-क्षयः ।
जीवेद् वर्ष-शतं स्वर्गे कल्पम् एकं वसेन् नरः ॥१६०॥
हयशीर्ष-पञ्चरात्रे—
एवं प्रगृह्य कोष्ठानि रजसापूर्य देशिकः ।
एतेषाम् एव देवानां बलिं दद्यात् तु कामिकः ॥१६१॥

एवमिति—शिवः कोणार्धतो ज्ञेयः इत्यादिनोक्त-विभाग-प्रकारेण कोष्ठानि पदानि प्रगृह्य विभज्य ॥१६१॥

ईशानाय प्रदातव्यं पायसं मधुना सह ।
पर्जन्याय जलं देयं पुष्प-गन्धाधिवासितम् ॥१६२॥

ईशान ईशानकोण-स्थितः शिवस् तस्मै ॥१६२॥

जयन्ताय प्रदातव्या पताका पीतवार्णका ।
सुरेश्वराय रत्नानि भास्कराय घृतं तथा ॥१६३॥
धूम्रकं पीत-वर्णं वा सत्ये दद्याद् वितानकम् ।
दद्यान् मांसं भृशेऽपूपं व्योमाय श्रुवम् अग्नये ॥१६४॥

भृशे मांसं, व्योमाय च अपूपं पक्षि-मांसम् एव दद्याद् इति ज्ञेयम् । यद्वा, दद्यान् मांसं भृशेऽपूपं व्योमाय इति पाठः ॥१६४॥

पूष्णे धानाः सलाजास् तु सुवर्णं वितथे तथा ।
गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥१६५॥
गन्धं गन्धर्व-देवाय भृङ्गे दद्यात् तु शाकुनम् ।
मृगे तिल-यवांश्चैव पितृभ्यः कृशरं तथा ॥१६६॥

शाकुनं—पक्षि-मांसम् ॥१६६॥

दौवारिके दन्तकाष्ठं सुग्रीवे यावकं तथा ।
पुष्प-दन्ते कुशा देया वरुणे पद्मम् उत्पलम् ॥१६७॥
असुरायैक्षवं देयं रसं शोषे घृतौदनम् ।
यवास् तु देयाः पापाय रोगाय घृत-मण्डकम् ॥१६८॥
नागाय नाग-पुष्पाणि भक्ष्यान् मुख्याय दापयेत् ।
चित्रौदनं च भल्लाटे सोमाय मधु-पायसम् ॥१६९॥
सर्पाय चापि शालूकं श्रिये सरस-पायसम् ।
अदित्यै पूरिका देया क्षीराञ्चाद्भ्यो ददेद् बलिम् ॥१७०॥
दधि क्षीरं चापबल्यै अर्यम्ने लड्डुकं बलिम् ।
कुशोदकं सवित्रे च सावित्रे गुडपूपकम् ॥१७१॥
विवस्वते रक्त-पुष्पं रक्त-चन्दनम् एव च ।
हरिद्रान्नं तथेन्द्राय साज्यम् इन्द्र-जयाय च ॥१७२॥

साज्यम्—आज्य-सहितं हरिद्रा-वर्णान्नम् ॥१७२॥

घृत-पूरं तु मित्राय रुद्राय गुड-पायसम् ।
आम-पक्वानि मांसानि प्रदद्याद् राज-यक्ष्मणे ॥१७३॥
पृथ्वी-धरायाम-मांसं खड्गी-मांसं बलिं हरेत् ।
साक्षतं सतिलं चैव पञ्च-गव्यं तथा चरुम् ।
कुशान् गन्धं तथा पुष्पं ब्रह्म-स्थाने निवेशयेत् ॥१७४॥

आम-मांसम् इत्य् उक्तं, तच्च कस्येत्य् अपेक्षायामाह—खड्गी-मांसमिति । आम-माषान् इति वा पाठः ॥१७४॥

आम-मांसं पूर्व-भागे सर्व-स्कन्दे तु मोदकम् ।
सित-पद्मं घृतं मांसं विदार्यै चाग्निकोणके ॥१७५॥
कृशरापूपकं मांसमर्य̍म्नायै च दक्षिणे ।
पिण्डञ्चैव तथा रक्तं पूतन्यै नैरृते तथा ॥१७६॥
सासृङ्-मांसं प्रदातव्यं जम्भकायै च पश्चिमे ।
अस्थि-खण्डैश्च सहितं रक्त-पिण्डेन मिश्रितम् ॥१७७॥
प्रदेयं पाप-राक्षस्यै वायव्यां मांसम् एव च ।
उत्तरे पिलि-पिच्छायै सान्द्रं रक्तं बलिं हरेत् ।
वाराह्यै छाग-मांसानि ऐशान्यां दिशि दापयेत् ॥१७८॥

स्थाप्य-देवतानुचरा बाह्ये सर्व-स्कन्दादयः स्थिताः इति, ये मण्डलाद् बहिरष्टाव् उक्तास् तेषां क्रमेणाष्टदिक्षु बलि-दानमाह—आम-मांसमिति सार्ध-चतुर्भिः । तत्र क्वचिच् च स्कन्ध इति नाम, तथा अर्यम्ने जम्भकाय पिलि-पिच्छायेत्य् एवं चतुर्दिक्षु चतुर्णां पुंस्त्वेन निर्देशश्च ॥१७५-१७८॥

ततो भूत-गणानां तु राक्षसानां सुरोत्तम ।
पिशाचानां गणानां तु बलिर् देयस् तु कामिकः ।
एतान् वा पूजयेत् सर्वान् कुश-पुष्पाक्षतैर् बुधः ॥१७९॥

पश्चाद् अन्येभ्योऽपि भूत-गणादिभ्यो बलिं दद्याद् इत्याह—तत इति कामिकः तत्-तद्-अभीष्टः । पूर्ववत् पक्षान्तरम् आह—एतान् वेति ॥१७९॥

एवं सम्पूजिता देवाः शान्ति-पुष्टि-प्रदा नृणाम् ।
अपूजिता विहिंसन्ति कारकं स्थापकं तथा ॥१८०॥

स्थापकम्—आचार्यम् ॥१८०॥

तस्माद् एतांस् तु सम्पूज्य गन्ध-पुष्पैर् मनोहरैः ।
प्रासादं कारयेद् विद्वान् गृहं वा सुरसत्तम ॥१८१॥

अथ प्रासाद-मूलारम्भः

तत्रैव—
ब्रह्म-स्थाने ततः कुर्याद् वासुदेवस्य पूजनम् ।
श्रियः सम्पूजनं कुर्यात् हृषीकेश-गणस्य च ॥१८२॥

हृषीकेश-गणो—हृषीकेशादि-नव-व्यूहः ॥१८२॥

पूजनं तु ततः कुर्याद् वासुदेव-गणस्य च ।
गन्धार्घ्या-पुष्प-नैवेद्य-धूप-दीपैः सुरोत्तम ॥१८३॥

वासुदेव-गणः—चतुर्-व्यूहः ॥१८३॥

ततः सम्पूजयेत् तस्मिन् सर्व-लोक-धरां महीम् ।
सुरूपां प्रमदारूपां दिव्याभरण-भूषिताम् ॥१८४॥
ध्यात्वा समर्चयेद् देवीं परितुष्टां स्मिताननाम् ।
ततः प्रणम्य विज्ञाप्य तन्-मयत्वेन चिन्तयेत् ॥१८५॥
ततः स्व-नाम-मन्त्रेण सर्वामरमयं परम् ।
ध्यात्वा समर्चयेत् तत्र यत् तद् वास्तुमयं नरः ॥१८६॥

यत् तद् इत्य् अव्ययं प्रसिद्धौ ॥१८६॥

ब्रह्म-स्थाने ततो विद्वान् कुर्याद् आधारम् अक्षतैः ।
तस्मिन् संस्थापयेत् कुम्भं वर्धन्या सह पूजितम् ॥१८७॥
हैमं वा राजतं वापि मृन्-मयं वा दृढं नवम् ।
सर्व-बीजौषधी-युक्तं सुवर्ण-रजतान्वितम् ॥१८८॥
रत्न-गर्भं सुसम्पूर्णं वस्त्र-पूतेन वारिणा ।
प्रशस्त-पल्लवोपेतं श्वेत-चन्दन-चर्चितम् ॥१८९॥
पुष्पैः सुमानितं कृत्वा गन्ध-पुष्पैर् विधूपितम् ।
आहतेन तु शुक्लेन वस्त्र-युग्मेन वेष्टितम् ॥१९०॥
ब्रह्म-स्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् ।
तस्मिंश् चतुर्मुखं देवं प्रजेशं मन्त्र-विग्रहम् ।
गन्ध-पुष्पैश्च धूपैश्च नैवेद्यैः सुमनोहरैः ॥१९१॥

स्थाप्य स्थापयित्वा, कलस-स्थापनं चेदं विशेष-बलि-दानात् पूर्वम् एवेति केषाञ्चिन्मतम्; तथा होमश्च तदानीम् एवेति मत्स्य-पूराण-सम्मतं लिखितम् एव ॥१९१॥

ततो मण्डल-बाह्ये तु प्राच्यां वा प्राङ्-मुखः स्थितः ।
आचार्यो गृह्य सम्भारान् ग्रहादींस् तर्पयेत् सुरान् ॥१९२॥
घृतैस् तिलैर् यवैर् मन्त्री ब्रह्मादीस् तर्पयेत् ततः ।
प्रजेशं तर्पयेद् विद्वान् आहुतीनां शतेन च ॥१९३॥
इतरान् दशभिर् देवान् आहुतिभिः प्रतर्पयेत् ।
दद्यात् पूर्णाहुतिं पश्चाद् वौषडतेन मन्त्र-वित् ॥१९४॥
ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्ति-वाचनम् ।
प्रगृह्य कर्करीं सम्यग् मण्डलं तु प्रदक्षिणम् ।
सूत्र-मार्गेण दिव्येन तोयधारां तु भ्रामयेत् ॥१९५॥

प्रदक्षिणं यथा स्यात् तथा भ्रामयेत् ॥१९५॥

पूर्ववत् तेन मार्गेण सप्त-बीजानि भ्रामयेत् ।
सुशोभनं शुभं स्थानं तथा खातस्य कारयेत् ॥१९६॥

सप्तबीजानि—यव-गोधूम-धान्य-तिल-कङगु-श्यामाक-नीवारात्मक-सप्तधान्यानि ॥१९६॥

ततो गर्तं खनेन् मध्ये हस्त-मात्र-प्रमाणतः ।
चतुरङ्गुल-मात्रं तद्-अधः खन्यात् सु-सम्मितम् ।
गोमयेनोपलिप्याथ चन्दनेन विभूषयेत् ॥१९७॥

तद्-अनन्तरम् आचार्यो यजमानो वा उदङ्-मुखः, शक्तौ सुवर्णकुद्दालेन प्रारभ्य योग्यखनित्रेण हस्त-प्रमाणं गर्तं खनेत्; तस्य गर्तस्याधश् चतुरङ्गुल-प्रमितं खनेत् । तन्-मृदं च राजतौत्तौलिकया पूर्वादि-चतुर्दिक्षु प्रादक्षिण्येन निक्षिपेदिति शिष्टाचारतो ज्ञेयम् ॥१९७॥

मध्ये दत्त्वा तु पुष्पाणि शुक्लान्य् अक्षतमेव च ।
आचार्यः प्राङ्-मुखो भूत्वा ध्यायेद् देवं चतुर्भुजम् ॥१९८॥
तूर्य-मङ्गल-घोषेण ब्रह्म-घोष-रवेण वा ।
अर्घ्यं दद्यात् सुर-श्रेष्ठ कुम्भ-तोयेन मन्त्र-वित् ॥१९९॥

कुम्भ-तोयेनेति— ब्रह्म-स्थाने स्थापितं कुम्भं तूर्य-मङ्गल-घोषादि-नैवानीय तस्य जलेनार्घ्यं दद्याद् इत्यर्थः । मन्त्रविद् इति, मन्त्रश्चायम्—ओं नमो वरुणाय इति ॥१९९॥

प्रगृह्य कर्करीं तावत् तच्छ्वभ्रं पूरयेज् जलैः ।
सर्व-रत्न-समाकीर्णैर् विमलैः ससुगन्धिभिः ।
तस्मिन् शुक्लानि पुष्पाणि प्रक्षिपेदोमिति स्मरन् ॥२००॥

जलैस् तत्-कुम्भ-स्थैर् एव, तस्मिन् श्वभ्रे ॥२००॥

तदा वर्णं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् ।
शुभं स्याद् दक्षिणावर्तेऽशुभं वामे भवेत् ततः ॥२०१॥

कथम् आवर्तं परीक्षेतेति? तदाह—शुभमिति ॥२०१॥

बीजैः शालियवादीनां तं गर्तं पूरयेद् बुधः ।
क्षेत्रजाभिः पवित्राभिर् मृद्भिर् गर्तं प्रपूरयेत् ॥२०२॥

न च केवलं बीजैर् एव, किन्तु मृत्तिकाभिश् चेत्याह—क्षेत्रजाभिर् इति ॥२०२॥

एवं निष्पाद्य विधिना चार्घ्य-दानं सुरोत्तम ।
सुवर्णं गां वस्त्र-युग्मम् आचार्याय निवेदयेत् ॥२०३॥
कालज्ञ-स्थ-पती पूज्यौ वैष्णवान् शक्तितोऽर्चयेत् ।
ब्राह्मणान् भोजयित्वा च गेय-नृत्यादि कारयेत् ॥२०४॥
ततस् तं खातयेद् यत्नाजलान्तं यावदेव तु ॥२०५॥
पुरुषाधः-स्थितं शल्यं न गृहे दोष-दं भवेत् ।
प्रासादे दोष-दं शल्यं भवेद् यावज्-जलान्तिकम् ॥२०६॥
तस्मात् प्रासादिकी भूमिः शोध्या यावज्-जलान्तिकम् ।
शिलान्तं कर्करान्तं वा यावद् वा भूः कुमारिका ।
आकोट्य तां समीकृत्य ततो यागं समापयेत् ॥२०७॥

आकोट्य दृढ-मुद्गरादि-प्रहारैः कुट्टनं कृत्वा, याग-विधिर् अग्रे विज्ञाप्यः ॥२०७॥

किञ्च—
पूरयेत् खातकं यत्नात् पादं पादं यथाक्रमम् ।
अष्टाङ्गुलं मृत्तिकया स्वस्तिकं चेष्टकादिभिः ।
सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः ॥२०८॥

स्वस्तिकं सम्यग् यथा स्यात्, यद्वा, स्वस्तिक-मण्डलाकारेण अष्टाष्टाङ्गुल-क्रमेण, मृत्तिकया इष्टकाभिः, आदि-शब्दाच्छिलाकर्करादिभिश्च तत् खातं पूरयेत् ॥२०८॥

आकोटनं ततः कुर्यान् मुद्गरैर् ब्रह्म-वृक्षजैः ।
पादोनं पूरयेत् खातं सुसमं चैव कारयेत् ॥२०९॥
देशिकः पञ्च-गव्येन तां भूमिं प्रोक्षयेद् बुध ।
सु-वर्ण-व्रीहि-गर्भेण चूतपल्लव-शोभिना ।
तीर्थ-तोयसुपूर्णेन स्वर्णताम्रमयेन वा ॥२१०॥
सेचयेद् अभिजप्तेन वारिणा कलसेन तु ।
ततः शुद्धा भवेद् भुमिर् दोष-युक्तापि या भवेत् ॥२११॥

अथ शिला-लक्षणम्

मात्स्ये—
आदावेव समासेन शिला-लक्षणम् उत्तमम् ।
शिलान्यास-विधानं च प्रोच्यते तद्-अनन्तरम् ॥२१२॥
शिला वाथेष्टका वापि चतस्रो लक्षणान्विताः ।
प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः ।
चतुरस्राः समाः कृत्वा समन्ताद् अथ वेष्टकाः ॥२१३॥
शिला-रूपाः स्मृता विद्या नन्दाद्याश् चेष्टकान्विताः ।
सम्पूर्णाः सुतलाः स्निग्धाः सुषमा लक्षणान्विताः ।
कुश-दूर्वाङ्किता धन्याः स-ध्वज-च्छत्र-चामराः ॥२१४॥

सध्व्जेति—ध्वजादि-चिह्न-सहिता इत्यर्थः; एवम् अग्रेऽपि ज्ञेयम् ॥२१४॥

साङ्कुशास् तोरणोपेताः कूर्म-मत्स्य-फलान्विताः ।
दर्पण-हस्ति-वज्राङ्काः प्रशस्त-द्रव्यलाञ्छिताः ।
शस्त-पक्षि-मृगाङ्काश् च वृषाङ्काः सर्वदा हिताः ॥२१५॥
स्वस्तिका वेदिकाः शुक्ला नन्द्यावर्तकालाञ्छित्ः ।
पद्मादि-लक्षणोपेताः शिलाः सर्वार्थ-सिद्धिदाः ।
तथा गो-वाजि-पादाङ्काः शिला धन्याः सुखावहाः ॥२१६॥
क्रव्यादमृग-पादाङ्का न शस्ताः पक्षिणस् तथा ॥२१७॥

तथा पक्षिण इति दुष्ट-पक्षि-पादाङ्काश्च न शस्ता इत्यर्थः ॥२१७॥

दिङ्मूढा दिग्-विहीनाश्च दीर्घ-ह्रस्वाः क्षताविताः ।
विवर्णाः स्फुटिता भग्नाः सन्त्यज्या लक्षणच्युताः ॥२१८॥
प्रशस्त-प्राणि-रूपाङ्काः प्रशस्त-द्रव्यलाञ्छिताः ।
यथोक्त-लक्षणोपेताः शिला नित्यं हितावहाः ॥२१९॥

अथ इष्टका-लक्षणम्

तत्रैव—
इष्टकानां समासेन लक्षणं शृणु साम्प्रतम् ॥२२०॥
एकवर्णाः सुपक्वाश्च सुप्रमाणा मनोरमाः ।
नन्द्याद्याश् चेष्टकाः कार्याश् चतुरस्राः सु-सम्मिताः ॥२२१॥
अस्थ्य्-अङ्गारान्विता नेष्टाः कृष्ण-वर्णा स-शर्कराः ।
मन्दपक्वा विपक्वाश्च बहु-दिन्याश् च वर्जिताः ।
भग्नाश्च विषमा हीना वर्जनीयाः प्रयत्नतः ॥२२२॥

बहु-दिन्याश् चिरन्तन्यः, हीनाः—उक्त-लक्षण-रहिता अभिनवाः ॥२२२॥

हयशीर्ष-पञ्चरात्रे—
इष्टकानां प्रमाणं च लक्षणं साम्प्रतं शृणु ।
सुतला लक्षणोपेता द्वादशाङ्गुल-सम्मिताः ॥२२३॥

श्री-हयशीर्ष-देवेन शिला-लक्षणं श्री-मूर्ति-प्रादुर्भाव-प्रसङ्गे पूर्वम् एवोक्तम् अस्ति, अधुना इष्टका-लक्षणम् अत्रोच्यते—इष्टकानामिति सार्ध-चतुर्भिः ॥२२३॥

सुविस्तार-विभागेन नैपुण्येन च सम्मिताः ॥२२४॥
सुपक्वाः सुप्रमाणाश्च एक-वर्णा मनोहराः ।
विमला इष्टकाः कार्याश् चतुरस्राः सुसम्मिताः ।
छिन्न-कर्णाश् चाप्रशस्ताः पाणि-पाद-विवर्जिताः ॥२२५॥

पाणिपादैः उपर्य्-अधो-भागैर् विवर्जिताः ॥२२५॥

सशर्कराः कृष्ण-वर्णा अस्थ्य्-अङ्गारचिताश्च याः ।
विवर्णा मन्द-गन्धाश्च याः पीन-पिण्डिकास् तथा ।
हीनाश्च विषमा भग्ना जर्जराश्च विवर्जिताः ॥२२६॥

अथ शिलादि-न्यास-व्यवस्था

मात्स्ये—
शिला-न्यासस् तु कर्तव्यः प्रासादे तु शिलामये ।
इष्टकानां तु विन्यासः प्रासादे चेष्टकामये ॥२२७॥
शैलजे शैलजः पीठ ऐष्ट के चेष्टकः स्मृतः ।
शिला-न्यासादिको भद्रे मूल-पादे विधीयते ॥२२८॥
हयशीर्षे च—
कर्तव्यश् चेष्टकान्यासः प्रासादे चेष्टकामये ।
शैले शिलानां विन्यासः कार्करे कर्करं न्यसेत् ॥२२९॥ इति ।
कृत्वा शिला-दिन्यासं च प्राक् शिलाभ्यधिवासनम् ।
इष्टकानां प्रतिष्ठाश्च गर्भाधानं च कारयेत् ॥२३०॥

मत्स्य-पुरणानुक्तमपि शिलादिन्यासे शिलाधिवासनादिकं श्री-हयशीर्ष-पञ्चरात्र-दृष्ट्या लिखति—कृत्वेति द्वाभ्याम् ॥२३०॥

गुरुवे दक्षिणां दत्त्वा पीठ-बन्धं च साधयेत् ।
स्वयं श्री-हयशीर्ष्णैव प्रोक्तस् तत्-तद्-विधिः स्फुटम् ॥२३१॥

ननु शिलाधिवासनादि-विधिः कीदृशः ? इत्यपेक्षायां लिखति—स्वयमिति । स्फुटमिति— एकत्रैव व्यक्तं तत्र वर्तेमानत्वाद् अत्र न लिखित इति भावः । तथा च तत्र शिलाधिवासन-पटले—

नवैव परिगृह्णीयात् ताम्र-कुम्भान् सुशोभनान् । आहृत्य सर्व-सम्भारान् इष्टकामधिवास्येत् ॥ ऐशान्यां मण्डपं कृत्वा तद्वत् प्राच्यां च मण्डपम् । कुम्भानाम् इष्टकानां च ततः स्नपनम् आचरेत् ॥ अथ पञ्चकषायेण सर्वौषधि-जलेन च । गन्धतायेन च तथा कुम्भस् तोय-सुपूरितैः ॥ हिरण्य-व्रीहि-संयूक्तैर् गन्ध-चन्दन-चर्चितैः । आपो हिष्ठेति तिसृभिः शन्नो देवीति चाप्य् अथ ॥ तरत् समन्दीति तथा पावमानीभिर् एव च । उदुत्तमं वरुणेति इमम्मेति तथैव च ॥ वरुणस्येति मन्त्रेण हंसः शूचिषदित्यपि । श्री-सूक्तेन तथा कुम्भैः स्नापयेदिष्टकां तथा ॥ श्रावणीयं पठन् सूक्तं कुम्भांस्तान् स्नापयेद् बुधः । ततोऽनलेपनं कार्यं चन्दनेन सगन्धिना ॥ आच्छादनं ततः कुर्याद् वासाभिः कुसुमैस् ततः ॥ शय्यायां तु प्रकृष्टायां मण्डपे स्थाप्य पूजयेत् ॥ नानाप्रख्यौदनैश् चैव गन्धैः पुष्पैर् मनोहरैः । धूपं दीपं च नैवेद्यं तेषां यत् तानि वेदयेत् ॥ एवं कृत्वा ततः सम्यग् इष्टकाहोमम् आचरेत् । तस्मिंस् तु मण्डपे लिख्य वैष्णवं मण्डलं शुभम् ॥ विष्णुम् अभ्यर्चयेत् तत्र कुण्डेऽग्निं जुहुयात् ततः । वैष्णवाग्निं ज्वलित्वादौ यथाविधि समाहितः ॥ कुर्याच्च समिदाधानं द्वादशाक्षर-विद्यया । आघाराज्य-द्विभागौ तु प्रणवेनैव कारयेत् ॥ अष्टाक्षरैस् ततो व्यस्तैः कुर्याद् अष्टाहुतीः क्रमात् । आज्यं वाहृतिभिर् हुत्वा लोकेशानां क्रमेण तु ॥ अग्नये चैव सोमाय ग्रहेभ्य इति चैव हि । पुत्तषोत्तमायेति हुत्वा व्याहृतीर् जुहुयात् ततः ॥ प्रायश्चित्तं ततो हुत्वा दद्यात् पूर्णाहुतिं ततः । द्वादशाक्षर-मन्त्रेण वेदाद्यैर् अथवानघ । कुण्डेषु मूर्तिपाः सम्यक् जुहुयुः स-घृतांस् तिलान् ॥

अथ पाताल-याग-पटले च—

कुम्भ-न्यासं ततः कुर्याद् इष्टकान्यासमेव च । देशिकः प्राङ्-मुखो भूत्वा सर्वालङ्कार-भूषितः ॥ विलिप्य गोमयैर् भूमिं विन्यसेत् कलसान् नव । अष्टदिक्षु यथान्यायं मध्ये चैकं तथा न्यसेत् ॥ पञ्चरत्न-समायुक्तान् मङ्गलौषधिसंयुतान् । पारदेन समायुक्तान् कृत्वा वस्त्रेण भूषितान् ॥ शङ्खं चैव महापद्मं मकरं कच्छपं तथा । मुकुन्दं च तथा नन्दं नीलं शङ्खं च पद्मिनीम् । एतास् तु देवताः कुम्भे-न्यसनीया यथा-क्रमम् ॥ एवं विन्यस्य कलसान् पुननैर् तान् प्रचालयेत् । कुम्भस्योपरि विन्यस्य इष्टकाष्टौ यथा-क्रमम् । ईशाने च तथा कोणे इष्टकां प्रथमां न्यसेत् ॥ प्रदक्षिण-क्रमेणव इष्टका-न्यास इष्यते । शक्तयो विमलाद्यास्तु इष्टकानां तू देवताः ॥ न्यसनीया यथान्यायं मध्ये न्यस्यास् ततो ग्रहाः । अव्यङ्गे चाक्षते पूर्णे मुनेर् अङ्गिरसः सुते । इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्य् अहम् ॥ मन्त्रेणानेन विन्यस्य इष्टकां देशिकोत्तमः । गर्भाधानं ततः कुर्यान् मध्य-स्थाने समाहितः ॥ इत्यादि ।

अत्र केषाञ्चिच् छिष्टानां मतम् एवम्—प्रासादस्य चतुष्कोणेषु चतुरोगर्तान् विधाय, प्रतिगर्तोपरि वेदीं निर्माय, तद्-उपरि शुक्ल-तण्डुलान् निक्षिप्य तद्-उपर्य्-अग्नेयादि-कोणेषु प्रशस्ता नन्दाद्याः शिला इष्टका वा विधाय प्रतिवेदीसन्निधौ सुलक्षणं पञ्च-पल्लवादि-युतं निर्मल-जलपूरितं कलसं संस्थाप्याग्नेयादिषु स्व-स्व-वेद्युपरि नन्दाद्याः स्थापयेत् । ततः प्रशस्तेन केनापि वारिणा प्रत्येकं प्रणवेन संस्नाप्य अस्त्राय फडिति पूनरपि स्नापयेत्, वस्त्रेण तोयम् अपनयेच्च । एवं चतसृणामपि प्रत्येकं स्नपनं विधाय ओं नन्दायै नमः इति गन्ध-पूष्पादिभिर् उपचारैः प्रत्येकम् अर्चयेत् । ततो वक्ष्यमाण-मन्त्रैर् विज्ञाप्य गीत-वाद्य-वेद-निर्घोषैः स्व-स्व-दिक्ष्व् अवतारयेत् । प्रथम-शिलावतारणे प्रशस्त-शकुनादिकम् अपि निरूपणीयम् । शिलास् तु प्रागुत्तर-प्लवाः न्यस्तव्याः, न तु दक्षिण-पश्चिम-प्लवाः । अथोदकान्तरेणास्त्राय फडिति स्नापयित्वा मन्त्रवारिणा स्नापयेत् । ततो दिव्य-रूपां हेमाभां सुभूषितां स्मिताननां तां ध्यात्वा मन्त्रम् उच्चार्य ओं भगवति नन्दे इहागच्छ इह तिष्ठ इत्यावाह्य वैदिकैर् अपि मन्त्रैः प्रतिष्ठाप्य पूर्वदिक्स्थ-कुम्भोदकेन मन्त्रेण स्नापयित्वा अवशिष्ट-कुम्भोदकेन ओं नन्दायै नमः इति स्नापयेत् । ततो वस्त्रेण तोयम् अपनीय वस्त्र-गन्धादिभिर् उपचारैः प्रत्येकम् अर्चयेत् । ततो धूपयित्वा पुनर् अभ्यर्च्य सामान्य-मुद्रां बद्धा दधि-मांसादि-नैवेद्यं निवेद्य—ओं नन्दायै नमः, ओं नन्दे त्वं नन्दसे पुंसां रक्ष मां स्थापयाम्य् अहम् ।

अस्मिन् सन्तिष्ठ संहृष्टा यावदाचन्द्रतारकम् ॥ आयूष्कामं प्रियं नन्दे ददासि सर्वदा नृणाम् । अस्मिन् रक्षा त्वया कार्या प्रासादे जयतः सदा ॥

इति मन्त्रेण नन्दां स्थापयित्वा पूर्ववद् उपचारैर् भद्राम् अभ्यर्च्य ओं भद्रायै नमः, ओं भद्रे तं सर्वदा भद्रं पुंसां कुरु हितावहम् । आयुष्काम-प्रदा देवि श्री-पदा सर्वदा भव ॥ ततो जयां प्रति, ओं जयायै नमः, ओं जये त्वं सर्वदा भद्रे सन्तिष्ठ स्थापिता मया । नित्यं जयं जये देवि स्वामिनो जयदा भव ॥ ततः पूर्णां प्रति, ओं पूर्णायै नमः, ओं पूर्णे त्वं च महाविद्य सर्व-सन्दोह-लक्षणे । सर्वं सम्पूर्णम् एवात्र प्रसादं कुरु सम्पदा ॥ एवं प्रसादयेत् । ततः प्रभृति शिलानाम् इष्टकानां च चालनं न कर्तव्यम् । ततश्च—

यान्तु देवगणाः सर्वे पूजामादाय पार्थिवात् । इष्टकाम-प्रसिद्ध्यर्थं पुनरागमनाय च ॥

इति पठित्वा क्षमध्वम् इति चोक्त्वाचार्यो देवता विसर्जयेत् । ततो यजमानः प्राङ्मुखोपविष्टायाचार्याय दक्षिणां गां वस्त्रादिकं च दद्यात् । अथ स्वस्तिवाचकान् दैव-ज्ञस्थपति-वैष्णवांश्च सम्पूज्य शक्त्या ब्राह्मणान् भोजयेद् इति ॥२३१॥

अथ पीठ-बन्धनम्

हयशीर्षे—
पीठ-बन्धं ततः कुर्यान् महाप्रासादमानतः ।
पीठोत्तमं चोच्छ्रयेण प्रासादस्योर्ध्वमानतः ॥२३२॥

पीठ-बन्धो नाम प्रासादस्य मूलाद् भूम्य्-उपरितन-भागं यावत् ॥२३२॥

पाद-हीनं मध्यमं स्यात् कन्यसं चार्ध-मानतः ।
उत्तमं वासुदेवस्य कुर्यात् पीठं विचक्षणः ॥२३३॥

अथ प्रासादादि-लक्षणानि

मात्स्ये—
एवं वास्तुवलिं कृत्वा भजेत् षोडश-भागिकम् ।
तस्य मध्ये चतुर्भिस् तु भागैर् गर्भं च कारयेत् ॥२३४॥
भाग-द्वादशकं तत्र भित्त्यर्थं परिकल्पयेत् ।
चतुर्भागेन भित्तीनाम् उच्छ्रायः स्यात् प्रमाणतः ।

षोडश-भागिकं भजेत्, षोडश-भागान् कुर्याद् इत्यर्थः । तथा चोक्तं श्री-हयशीर्ष-देवेन— चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा पुनः इति । एवम् अग्रे लेख्य हयशीर्ष-पञ्चरात्र-वचनानुसारेणाग्रेऽन्यत्राप्यर्थो बोद्धव्यः ॥२३४॥

द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायात् प्रमाणतः ॥२३५॥
शिखरार्द्धस्य चार्धेन विधेया तु प्रदक्षिणा ।
चतुर्दिक्षु तदा ज्ञेयो निर्गमस् तु तथा बुधैः ॥२३६॥

प्रदक्षिणादयश्च प्रासादोपरितन-भाग-विशेषाः शिल्पि-शास्त्रतः स्थपतिषु प्रसिद्धा एव, तथेति प्रदक्षिणातुल्यमान इत्यर्थः ॥२३६॥

गर्भ-सूत्र-द्वयं भागो विस्तारो मण्डपस्य तु ।
आयतः स्यात् त्रिभिर् भागैर् भद्र-युक्तः सुशोभनः ॥२३७॥

त्रिभिर्-भाग-मण्डप आयतः स्यात् ॥२३७॥

पञ्च-भागेन सम्भज्य गर्भमानं विचक्षणः ।
भागम् एकं गृहीत्वा तु प्राग् ग्रीवं कल्पयेद् बुधः ॥२३८॥
गर्भ-सूत्र-समो भागाद् अग्रतो मुख-मण्डपः ।
एतत् सामान्यम् उद्दिष्टं प्रासादस्येह लक्षणम् ॥२३९॥
किञ्च—
मेरु-मन्दर-कैलास-कुम्भसिंहमृगास् तथा ।
विमान-च्छन्दकस् तद्वच् छ्री-वृक्षोऽथ मृगाधिपः ॥२४०॥

नामतो लक्षणतो मानतश्च विंशति-प्रासादान् आह—मेर्वित्यादिना शुभ-लक्षणा इत्यन्तेन ॥२४०॥

बलभीच्छन्दकस् तद्वद् वर्तुलः सर्व-भद्रकः ।
गजश्च नन्दनश्चैव नन्दिवर्धन एव च ॥२४१॥
हंसो वृषः सुपर्णश्च पद्मकोऽथ समुद्गकः ।
प्रासादा नामतः प्रोक्ता विभागं शृणुत द्विजाः ॥२४२॥
शत-शृङ्गश् चतुर्द्वारो भूमिका-षोडशोच्छ्रितः ।
नानाविचित्र-शिखरो मेरु-प्रासाद उच्यते ॥२४३॥
मन्दरो द्वादश प्रोक्तः कैलासो दश-भूमिकः ।
विमान-च्छन्दकस् तद्वद् अनेक-शिखराननः ॥२४४॥

द्वादशेति द्वादश-भूमिकः, एवम् अग्रेऽप्यूह्यम् ॥२४४॥

स चाष्ट-भूमिकस् तद्वत् सप्त-भिर् नन्दि-वर्धनः ।
विंशाण्डक-समायुक्तो नन्दनः समुदाहृतः ॥२४५॥
षोडशाण्डक-संयुक्तो नानारूप-समन्वितः ।
अनेक-शिखरस् तद्वत् सर्वतोभद्र उच्यते ॥२४६॥
चन्द्रशाला-समोपेतो विज्ञेयः पञ्च-भूमिकः ।
बलभीच्छन्दकस् तद्वच्छुकनासात्रयान्वितः ॥२४७॥
वृषस्योच्छ्रायतस् तुल्यो वर्तुलश् चास्र-वर्जितः ।
सिंहः सिंहाकृतिर् ज्ञेयो मृगो मृग-समस् तथा ।
कुम्भः कुम्भाकृतिस् तद्वद् भूमिकान-बकोच्छ्रयः ॥२४८॥
अङ्गुलीपुट-संस्थान-पञ्चाण्डक-विभूषितः ।
षोडशास्रः समन्तात् तु विज्ञेयः स समुद्गकः ।
पार्श्वयोश् चन्द्र-शालास्य उच्छ्रायो भूमिका-द्वयम् ॥२४९॥
हंसो हंस-समाकारो नातिदीर्घो न चोच्छ्रितः ।
षोडशास्रः स विज्ञेयो विचित्र-शिखरः शुभः ॥२५०॥
मृग-राजस्तु विख्यातश् चन्द्र-शाला-विभूषितः ।
प्राग् ग्रीवेण विशालेन भूमिकासु षड्-उन्नत्तः ॥२५१॥
अनेक-चन्द्रशालस् तु गज-प्रासाद उच्यते ।
पर्यस्त-गृहराजो वै गरुडो नाम नामतः ॥२५२॥
सप्तभूम्य्-उच्छ्रायस् तद्वच् चन्द्रशालात्रयान्वितः ।
भूमिकाषडशीतिस्तु बाह्यतः सर्वतो भवेत् ॥२५३॥
तथान्यो गरुडे तद्वद् उच्छ्रायो दश-भूमिकः ।
पद्मकः षोडशास्रस् तु भूमि-द्वय-समन्वितः ।
पद्म-तुल्य-प्रमाणेन श्री-वृक्षक इति स्मृतः ॥२५४॥
पञ्चाण्डकस् त्रिभूमिस् तु गर्भे हस्त-चतुष्टयम् ।
वृषो भवति नाम्ना यः प्रासादः सार्वकामिकः ॥२५५॥
सप्ताष्टौ पञ्चधा चैव प्रासादा ये मयोदिताः ।
सिंहस्य ते समा ज्ञेया ये चान्ये तत्-प्रमाणतः ॥२५६॥

वर्तुल एव मण्डल इत्युक्त-परिमाणं कार्यम् अन्यत्र चात्म-हस्तेनैवेत्यर्थः ॥२५६॥

चन्द्रशालैः समोपेताः सर्वे प्राग् ग्रीव-संयुताः ।
ऐष्टिका दारवाश्चैव शैला वा स्युः सतोरणाः ॥२५७॥
मेरुः पञ्चाशद्धस्तः स्यान् मन्दरः पञ्च-हीनकः ।
चत्वारिंशत् तु कैलासश् चतुस्त्रिंशद् विमानकः ॥२५८॥
नन्दि-वर्धनकस् तद्वद् द्वात्रिंशत् समुदाहृतः ।
त्रिंशता नन्दनः प्रोक्तः सर्वतोभद्रकस् तथा ।
वर्तुलः पद्मकश्चैव विंशद्धस्त उदाहृतः ॥२५९॥
मृगः सिंहश्च कुम्भश्च बलभीच्छन्दकस् तथा ।
एते षोडशहस्ताः स्युश् चत्वारो देववल्लभाः ॥२६०॥
श्री-वृक्षौ मृग-राजश्च समुद्गकगजौ तथा ।
एते द्वादश-हस्ताः स्युर् एतेषां हंसकः समः ॥२६१॥
गरुडोऽष्टकरो ज्ञेयो वृषा दश उदाहृताः ।
एवम् एते प्रमाणेन कर्तव्याः शुभ-लक्षणाः ॥२६२॥
यक्ष-राक्षस-नागानां मातृ-हस्तः प्रशस्यते ।
तथा मेर्वादयः सप्त ज्येष्ठ-लिङ्गे सुखावहाः ॥२६३॥
श्री-वृक्षकादयश्चाष्टौ मध्यमस्य उदाहृताः ।
तथा हंसादयः पञ्च कन्यसे शुभदा मताः ॥२६४॥

कन्यसे—कनिष्ठ-लिङ्गे ॥२६४॥

हयशीर्ष-पञ्चरात्रे च—
प्रासादं सम्प्रवक्ष्यामि सर्व-साधारणं शृणु ॥२६५॥
चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा पुनः ।
मध्ये तस्य चतुर्भिस् तु कुर्याद् द्वार-समन्वितम् ।
द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥२६६॥

भजेत्—विभजेत् ॥२६६॥

जङ्घोच्छ्रायं तु कुर्वीत चतुर्भागेन चायतम् ।
जङ्घयोर् द्विगुणोच्छ्रायं मञ्जर्याः कल्पयेद् बुधः ॥२६७॥
चतुर्भागेन मञ्जर्याः कार्या सम्यक् प्रदक्षिणा ।
तन्-मानं निर्गमं कार्यम् उभयोः पार्श्वयोः समम् ॥२६८॥
शिखरेण समं कार्यम् अग्रे जगति विस्तरम् ।
त्रिगुणेनापि कर्तव्यं यथा शोभानुरूपतः ॥२६९॥
विस्तारं मण्डपस्याग्रे गर्भ-सूत्र-द्वयेन तु ।
दैर्घ्यात् पादाधिकं कुर्यान् मध्ये स्तम्भैर् विभूषितम् ॥२७०॥
प्रासाद-गर्भमानं वा कुर्वीत मुख-मण्डपम् ।
एकाशीतिपदैर् वास्तुम् इष्ट्वा मण्डपम् आरभेत् ॥२७१॥
शुकाढ्य-द्वारि विन्यासे पदान्तस्थान् यजेत् सुरान् ॥
तथा प्राकार-विन्यासे यजेद् द्वात्रिंशद् अन्तगान् ॥२७२॥
सर्व-साधारणं चैतत् प्रासादस्य तु लक्षणम् ।
मानेन प्रतिमा या वा प्रासादम् अपरं शृणु ॥२७३॥
प्रतिमायाः प्रमाणेन कर्तव्या पिण्डिका शुभा ।
गर्भस्तु पिण्डिकार्धेन गर्भमानात् तु भित्तयः ॥२७४॥
भित्तेर् आयाममानेन उच्छ्रायं तु प्रकल्पयेत् ।
भित्त्य्-उच्छ्रायात् तु द्विगुणं शिखरं कल्पयेद् गुरुः ॥२७५॥
शिखरस्य तु तूर्येण भ्रमणं परिकल्पयेत् ।
शिखरस्य चतुर्थेन अग्रतो मुख-मण्डपम् ॥२७६॥
अष्टकांशेन गर्भस्य रथकानां तु निर्गमः ।
परिधेर् गुण-भागेन रथकांस् तत्र कल्पयेत् ॥२७७॥
तत्-तृतीयेन वा कुर्याद् रथकानां तु निर्गमम् ।
राम-त्रयं स्थापनीयं रथक-त्रितये सदा ॥२७८॥

भ्रमणं प्रदक्षिणां, रथकादि-लक्षणं च शिल्पि-मुखादेः सम्यग् ज्ञातं भवतीति तद्-विस्तारेणालम् । अन्यच्च स्पष्टम् एव ॥२७६-२७८॥

शिखरार्थं च सूत्राणि रत्नानि विनिपातयेत् ।
शिखरस्यार्ध-भाग-स्थं सिंहं तत्र च कारयेत् ॥२७९॥
शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत् ।
अपरे च तथा पार्श्वे तत्-तत् सूत्रं विधारयेत् ॥२८०॥
तद्-ऊर्ध्वं तु भवेद् अंशः कण्ठः श्यामल-सारवान् ।
स्कन्ध-भुग्नं तु कर्तव्यं विकरालं तथैव च ।
उद्धतं वेदिकामानात् कलसं परिकल्पयेत् ॥२८१॥
किञ्च—
गरुत्मन्तं तथा कुर्याद् उपरिष्टाच् चतुर्गुणम् ।
कुर्याद् दिक्-प्रतिमायामान् दिक्षु चाटसु चोपरि ॥२८२॥
महावराहम् ऐन्द्र्यां तु नरसिंहं तु दक्षिणे ।
प्रतीच्यां श्री-धरं देवम् उदीच्यां हयशीर्षकम् ॥२८३॥
आग्नेय्यां जामदग्न्यं च नैरृते रामम् एव च ।
वामनं चैव वायव्यां वासुदेव-मथापरे ॥२८४॥
किञ्च—
पूर्व-भूमौ तु शयनं द्वितीये चासनं भवेत् ।
स्थानमेव तृतीये तु चतुर्थे यानमेव च ॥२८५॥
पञ्चमे योग-निद्रा च षष्ठे योगासनं भवेत् ।
स्थानं योग-समायुक्तं सप्तमे परिकल्पयेत् ॥२८६॥
नानागवाक्षकैर् यत्नात् पत्र-वल्ल्यादि-भूषितम् ।
नानाप्रकार-पुष्पाद्यैर् यथा शोभं प्रकल्पयेत् ॥२८७॥
कनिष्ठ-मध्य-ज्येष्ठानां प्रासादानां यथा क्रमम् ।
वसुभार्गव-ऋत्विग्भिः प्रदेयाचरणा बुधैः ॥२८८॥
द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा ।
ललाटवेधो नैवं स्याद् आयामं शृणु साम्प्रतम् ॥२८९॥
यावद्धस्तैर् अभिप्रेतः प्रासादः कर्तृणानघ ।
तावद्भिर् अङ्गुलैर् आपो वसुभागेन वा भवेत् ॥२९०॥
एक-स्तम्भो ध्वजो ज्ञेयो द्वि-स्तम्भा वेदिका मता ।
दश-भूम्य्-अन्तरे नित्यं चतुःस्तम्भं प्रकल्पयेत् ॥२९१॥

अथ मण्डप-लक्षण-विशेषः

मात्स्ये—
अथातः सम्प्रवक्ष्यामि मण्डपानां तु लक्षणम् ।
मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥२९२॥
विविधा मण्डपाः कार्या ज्येष्ठ-मध्य-कनीयसः ।
नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥२९३॥
पुष्पकः पुष्प-भद्रश्च सुवृत्तौऽमृत-नन्दनः ।
कौशल्यो बुद्धि-सङ्कीर्णो राजभद्रो जयावहः ॥२९४॥
श्री-वृक्षो विजयश् चैव वास्तु-कीर्णः श्रुतिन्धरः ।
यज्ञ-भद्रो विशालश्च सम्म्लिष्टः शक्रु-मर्दनः ॥२९५॥
भाग-पञ्चो नन्दनश्च मानवो मान-भद्रकः ।
सुग्रीवो हर्षणश् चैव कर्णिकारः पदार्धकः ॥२९६॥
सिंहश्च श्याम-भद्रश्च सुभद्रश्च तथैव च ।
सप्त-विंशतिर् विख्याता लक्षणं शृणुत द्विजाः ॥२९७॥
स्तम्भा यत्र चतुःषष्टिः पुष्पकः स उदाहृतः ।
द्वाषष्टिः पुष्प-भद्रस् तु षष्टिः सुवृत्त उच्यते ॥२९८॥
अष्ट-पञ्चाशकः स्तम्भः कथ्यतेऽमृत-नन्दनः ।
कौशल्यः षट् च पञ्चाशच्-चतुःपञ्चाशता पुनः ।
नाम्ना तु बुद्धि-सङ्कीर्णो द्विहीनो राज-भद्रकः ॥२९९॥
जयावहस् तु पञ्चाशत् श्री-वृक्षस् तु द्विहीनकः ।
विजयस् तु द्विहीनः स्याद् वास्तु-सङ्कीर्णकस् तथा ।
द्वाभ्याम् एव प्रहीयेत ततः श्रुतिन्धरः परः ॥३००॥
चत्वारिंशद् यज्ञ-भद्रो द्विहीनोऽथ विशालकः ।
षट्-त्रिंशच्चैव सम्म्लिष्टो द्विहीनः शक्रु-मर्दनः ॥३०१॥
द्वात्रिंशद्-भाग-पञ्चस् तु त्रिंशता नन्दनः स्मृतः ।
अष्टाविंशो मानवस्तु मानभद्रो द्विहीनकः ॥३०२॥
चतुर्विंशस्तु सुग्रीवो द्वाविंशद्धर्षणो मतः ।
विंशतिः कर्णिकारः स्याद् अष्टादश-पदार्धकः ॥३०३॥
सिंहो भवेद् द्विहीनश्च श्याम-भद्रो द्विहीनकः ।
सुभद्रस् तु तथा प्रोक्तो द्वादश-स्तम्भ-संयुतः ।
मण्डपाः कथिता ह्य् एते यथावल्-लक्षणान्विताः ॥३०४॥
त्रिकोणं वृत्त-मध्यस्थम् अष्टकोणं द्विरष्टकम् ।
चतुष्कोणं च कर्तव्यं संस्थानं मण्डपस्य तु ॥३०५॥
राज्यञ्च विजयश्चैव आयुर्वर्धनमेव च ।
पुत्र-लाभः श्रियः पुष्टिस्त्र्यस्रादिषु भवेत् क्रमात् ।
एवं तु शुभदाः प्रोक्ता अन्यथा तु भयावहाः ॥३०६॥

अथ तत्र द्वार-निर्णयः

हयशीर्ष-पञ्चरात्रे—
ग्राम-मध्ये च पूर्वे च प्रत्यग् द्वारं प्रकल्पयेत् ।
विदिशासु च सर्वासु तथा प्रत्यङ्मुखं भवेत् ।
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखं भवेत् ॥३०७॥
किञ्च—
विस्ताराद् द्विगुणं द्वारं कर्तव्यं तु सुशोभनम् ।
जातरूपं सरजतं तद्वद् औडम्बरैर् वृतम् ॥३०८॥
उडुम्बरोर्ध्वतः स्वर्णं द्वादशाख्यं न्यसेद् बुधः ।
तूर्य-मङ्गल-घोषेण ब्राह्मणान् स्वस्ति वाच्य च ॥३०९॥
द्वारस्य तु चतुर्थांशे कार्यौ चण्ड-प्रचण्डकौ ।
दण्ड-हस्तौ च कर्तव्यो विष्वक्सेनोपमाव् उभौ ॥३१०॥
शाखोर्ध्वं न्यस्य रत्नानि न्यसेद् ऊर्ध्वम् उडम्बरम् ।
तस्य मध्ये स्थिता देवी साक्षाल् लक्ष्मीः सुरेश्वरी ॥३११॥
कर्तव्या दिग्-गजैः सा तु स्नाप्यमाना घटेन तु ।
शाखोडुम्बरको कार्यौ पत्र-वल्ल्यादि-भूषितौ ॥३१२॥
एकशाखं त्रिशाखं वा षट्-शाखं द्वारम् इष्यते ।
नव-शाखं च कुर्वीत अत्र ऊर्ध्वं न कारयेत् ।
विष्ण्व्-अवतार-रूपाद्यैः शाखां यत्नाद् विभूषयेत् ॥३१३॥
मात्स्ये च—
चतुःषष्टि-पदं कृत्वा मध्ये द्वार प्रकल्पयेत् ॥३१४॥
विस्ताराद् द्विगुणोच्छ्रायस् तन्त्रिभागा कटिर् भवेत् ।
विस्तारार्धाद् भवेद् गर्भो भित्तयोऽन्याः समन्ततः ॥३१५॥
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमायतम् ।
उच्छ्रायात् पादविस्तीर्णा शाखा तद्वद् उडुम्बरः ॥३१६॥
विस्तार-पाद-प्रतिमं बाहुल्यं शाखयोः स्मृतम् ।
त्रि-पञ्च-सप्त-नवभिः शाखाभिर् द्वारम् इष्यते ॥३१७॥
कनिष्ठं मध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत् ॥३१८॥
अङ्गुलीनां शतं सार्धं चत्वारिंशद्भिर् उत्तमम् ।
धन्यम् उत्तमम् आयुष्यं धन-धान्यदम् एव च ॥३१९॥
शतं चाशीति-सहितं वात-निर्गमनं भवेत् ।
अधिकं दशभिस् तद्वन् मध्यं षोडशभिः शतम् ।
विज्ञेयं वै तृतीयं तु भवत्यशीतिभिस् तथा ॥३२०॥
शुभ-द्वाराणि चैतानि कमेणोक्तानि सर्वदा ।
अन्यानि वर्जनीयानि मानसोद्वेगदानि तु ॥३२१॥
द्वारवेधं तु यत्नेन सर्ववास्तषु वर्जयेत् ॥३२२॥
वृक्षकोणाच्च भूहारात् स्तम्भ-कूप-ध्वजाद् अपि ।
कुल्याश्वभ्रेण वा विद्धं न द्वारं शुभदं भवेत् ॥३२३॥
क्षयश्च दुर्गतिश्चैव प्रवासः क्षुद्भयं तथा ।
दौभाग्यं बन्धनं रोगो दारिद्रयं कलहं तथा ।
विरोधश् चार्थनाशश् च सर्व-वेधे भवेत् क्रमात् ॥३२४॥

अथ प्रकारादि-निर्णयः

हयशीर्ष-पञ्चरात्रे—
प्रासादस्य चतुर्भागः प्राकारस्योच्छ्रयो भवेत् ।
पञ्च-हस्तस्य देवस्य एक-हस्ता तु पीटिका ॥३२५॥
तस्मात् तु द्विगुणः प्रोक्तस् तथा गरुड-मण्डपः ।
एक-हस्तादि कुर्वीत त्रिंशद्धस्तान्तमेव च ॥३२६॥

अथ वृक्षरोपण-निर्णयः

मात्स्ये—
पूर्वेण फलिनो वृक्षाः क्षीर-वृक्षास् तु दक्षिणे ।
पश्चिमेन जलं श्रेष्ठं पद्मोत्पल-विभूषितम् ।
उत्तरेण नलैस् तालैः शुभा स्यात् पुष्प-वटिका ॥३२७॥
सर्वतस् तु जलं श्रेष्ठं स्थिरम् अस्थिरम् एव च ।
सर्वतश्चापि कर्तव्यं परिखावलयादिकम् ॥३२८॥
याम्ये तपोवन-स्थानम् उत्तरे मातृका-गृहम् ।
महानसं तथाग्नेये नैरृते तु विनायकः ॥३२९॥
वारुणे श्रीनिवासश्च वायव्ये गृहमालिका ।
उत्तरे यज्ञशाला तु निर्माल्यस्थानमेव च ॥३३०॥
वारुणे सोम-दैवत्ये बलि-निर्वपणं स्मृतम् ।
पुरतो गरुड-स्थानं तथान्येषां यथोचितम् ।
एवम् आयतनं कुर्याच् छुभ-मण्डप-संयुतम् ॥३३१॥
घण्टावितानक-सतोरणचित्र-युक्तं, नित्योत्सव-प्रमुदितेन जनेन सार्धम् ।
यः कारयेत् सुर-गृहं विविध-ध्वजाढ्यं, श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥३३२॥

अथ जीर्णोद्धारः

विष्णु-धर्मोत्तरे तृतीय-काण्डे—
यस्य राज्ञस् तु विषये देव-वेश्म विशीर्यते ।
तस्य सीदति तद्-राज्यं देव-वेश्म यथा तथा ॥३३३॥
कृत्वा शीर्णस्य संस्कारं तथा देवेश-वेश्मनि ।
द्विगुणं फलम् आप्नोति नात्र कार्या विचारणा ॥३३४॥
विष्णु-रहस्ये—
पतितस्य च यः कर्ता पतमानस्य रक्षिता ।
विष्णोरायतनस्येह स नरो विष्णु-लोक-भाक् ॥३३५॥
अग्नि-पुराणे—
पतितं पतमानं तु तथार्ध-स्फुटितं नरः ।
समुद्धृत्य हरेर् धाम द्विगुणं फलम् आप्नुयात् ॥३३६॥
देवी-पुराणे—
मूलाच्छत-गुणं पुण्यं प्राप्नुयाज् जीर्ण-कारकः ।
तस्मात् सर्व-प्रयत्नेन जीर्णस्योद्धारम् आचरेत् ॥३३७॥
हयशीर्ष-पञ्चरात्रे च—
वापी-कूप-तडागानां सुरधाम्नां तथानघ ।
प्रतिमानां सभानां च संस्कर्ता यो नरो भुवि ।
पुण्यं शत-गुणं तस्य भवेन् मूलान् न संशयः ॥३३८॥
प्रतिष्ठाया विधिः कार्यस् तथा मन्दिर-निर्मिते ।
प्रायः श्री-हयशीर्षोक्तरनुसारेण वैष्णवैः ॥३३९॥
देवालय-प्रतिष्ठा च ख्याता तल्-लिखनेन किम् ?
श्री-मूर्ति-स्थापनेनैव सम्पूर्णा सा विशेषतः ॥३४०॥
यथोक्तं तत्रैव—
देव-गृहं देवतायाः प्रतिष्ठा-विधिना सदा ।
संस्कार्यं मनुजानां तु समुदायोक्त-कर्मणा ॥३४१॥
अथ श्री-तुलसीं धन्यां विवाह्य प्रभुणा समम् ।
सम्प्रतिष्ठापयेच्छक्त्या वैष्णवः कृष्ण-तुष्टि-कृत् ॥३४२॥

अथ तुलसी-विवाहः प्रतिष्ठा-विधिश् च

श्री-वशिष्ठ उवाच—
विवाहं सम्प्रवक्ष्यामि तुलस्यास् तु यथा-विधि ।
यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा ॥३४३॥
आदाव् एव वने वाप्य तुलसीं स्वगृहेऽपि वा ।
वर्ष-त्रयेण पूर्णेन ततो यजनम् आरभेत् ॥३४४॥
सौम्यायने प्रकर्तव्यं गुरु-शुक्रोदये तथा ।
अथवा कार्तिके मासि भीष्म-पञ्च-दिनेषु च ।
वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः ॥३४५॥
मण्डपं कारयेत् तत्र कुण्ड-वेदीं यथा पुनः ।
शान्तिकं च प्रकर्तव्यं मातॄणां स्थापनं तथा ।
मातृ-श्राद्धादिकं सर्वं विवाहवत् समाचरेत् ॥३४६॥
ब्राह्मणांश्च शुचि-स्नातान् वेद-वेदाङ्गपारगान् ।
ब्रह्मा वा देशिकश्चैव चत्वारश्च तथर्त्विजः ॥३४७॥
वैष्णवेन विधानेन वर्धनीकलसं यजेत् ।
मण्डपं कारयेत् तत्र लक्ष्मी-नारायणं शुभम् ॥३४८॥
गृह-यज्ञं पुरः कृत्वा मातॄणां यजनं तथा ।
कृत्वा नान्दी-मुखं श्राद्धं सौवर्णं स्थापयेद् धरिम् ॥३४९॥
कृत्वारोप्यां च तुलसीं लग्ने त्व् अस्तमिते रवौ ।
वासःशतेन मन्त्रेण वस्त्र-युग्मेन वेष्टयेत् ॥३५०॥
यदाबध्नेति मन्त्रेण कङ्कणं पाणि-पल्लवे ।
कोऽदादिति च मन्त्रेण करग्राहो विधीयते ॥३५१॥
ततः कुण्डे समागत्य आचार्यः सह ऋत्विजैः ।
आचार्यो वेदिका-कुण्डे जुहुयाच् च नवाहुतीः ॥३५२॥
विवाह-कर्मवत् सर्वं वैष्ण्वं देशिकोत्तमैः ।
कर्तव्यश्च ततो होमो विशेषाद् विधि-पूर्वकम् ॥३५३॥
ओं नमो भगवते केशवाय नमः स्वाहा, नारायणाय स्वाहा ।
माधवाय गोविन्दाय विष्णवे मधुसूदनाय त्रिविक्रमाय वामनाय श्रीधराय हृषीकेशाय पद्मनाभाय दामोदराय उपेन्द्राय प्रद्युम्नाय अनिरुद्धाय अच्युताय अनन्ताय गदिने चक्रिणे विष्वक्सेनाय वैकुण्ठाय जनार्दनाय मुकुन्दायाधोक्षजाय स्वाहा । इति होमः ॥३५४॥
यजमानः सपत्नीको अन्ये ये गोत्र-बान्धवाः ।
प्रदक्षिणाश् च कर्तव्याश्चत्वारो विष्णुना सह ॥३५५॥
तुलस्याः पाणि-ग्रहणे वेदिकायां विभाव् असौ ।
शतं कुम्भं जपेत् सूक्तं पावमानीं विशेषतः ॥३५६॥
तथैव शान्तिकाध्यायं नव-सूक्तं तथैव च ।
जीव-सूक्तं पुनर् जप्त्वा तथा वैष्णव-संहिताम् ॥३५७॥
शङ्ख-झल्लरि-निर्घोषैर् भेरी-तूर्यस्य निस्वनैः ।
गायन्ते मङ्गला नार्यो माङ्गल्यं विधिनाचरेत् ।
दद्यात् पूर्णाहुति पश्चाद् अभिषेक-विधिं ततः ॥३५८॥
ब्रह्मणे वृषभं दद्याद् आचार्य परिधाप्य च ।
गां पटं च तथा शय्याम् आचार्याय प्रदापयेत् ।
ऋत्विग्भ्यो दापयेद् वस्त्राण्येषां दद्याच् च दक्षिणाम् ॥३५९॥
एवं प्रतिष्ठितां देवीं विष्णुना च समर्चयेत् ।
आजन्मोपार्जितं पापं दर्शनेन प्रणश्यति ॥३६०॥
रोपयेत् तुलसीं यस्तु सेचयेच् च प्रयत्नतः ।
प्रतिष्ठाप्य यथोक्तेन विष्णुना सह मानवः ॥३६१॥
स मोक्षं लभते जन्तुर् विष्णुलोकं तथाक्षयम् ।
प्राप्नोति विपुलान् भोगान् विष्णुना सह मोदते ॥३६२॥
प्रतिष्ठा श्री-तुलस्यास् तु लिखिता विष्णु-यामले ॥३६३॥

अथोपसंहारः

यो यो विशेषोऽपेक्ष्यः स्याद् अन्योऽपि लिखितेष्व् इह ।
तत्-तच्-छास्त्रात् स स ज्ञेयो नितरां च गुरोर् मुखात् ॥३६४॥
सन्त्यन्येऽपि सदाचारा बहवः शास्त्र-दर्शिताः ।
न लिख्यन्तेऽत्र ते सर्वे ग्राहकाभावतोऽधुना ॥३६५॥
कृत्यान्येतानि तु प्रायो गृहिणां धनिनां सताम् ।
लिखितानि न तु त्यक्त-परिग्रह-महात्मनाम् ॥३६६॥
अवश्यं तानि सर्वाणि तेषां तादृक्त्व-सिद्धये ।
प्राग्-अपेक्ष्याणि भक्तिर् हि सदाचारैकसाधना ॥३६७॥
तेषां च पूर्व-लिखितात् कृत्यान्य् एकान्ति-लक्षणात् ।
व्यक्तिं यातान्यथाप्यन्ते लिख्यन्तेऽल्पानि कानिचित् ॥३६८॥

तथैकान्ति-कृत्यम्

प्राक्-प्रेम-भक्ति-सम्पत्तेश् चिह्नानि लिखितानि हि ।
तान्य् एवैकान्तिनां प्रायो ज्ञापकानि विदुर् बुधाः ॥३६९॥
सर्व-त्यागेऽप्य् अहेयायाः सर्वानर्थ-भुवश् च ते ।
कुर्युः प्रतिष्ठा-विष्ठाया यत्नम् अस्पर्शने वरम् ॥३७०॥
अत एवोक्तम् एकादशे श्री-भगवता (११.१८.२८)—
ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानप्रेक्षकः ।
स-लिङ्गानाश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥३७१॥ इति ।
(भा।पु। ११.२०.४६)
एकान्तितां गतानां तु श्री-कृष्ण-चरणाब्जयोः ।
भक्तिः स्वतः प्रवर्तेत तद्-विघ्नः किं व्रतादिभिः ? ॥३७२॥
न मय्येकान्त-भक्तानां गुण-दोषोद्भवा गुणाः ।
साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम् ॥३७३॥
तथा ब्रह्म-वैवर्ते—
यथा कथम् अपि श्रीमान् श्री-कान्तं समुपाश्रितः ।
कुरुतेऽखिल-पापानां प्रलयं किं पुनर् व्रतैः ? ॥३७४॥
विष्णु-रहस्ये ब्रह्म-नारद-संवादे मासोपवास-कथनान्ते—
इन्द्रियार्थेष्व् असक्तानां सदैव विमला मतिः ।
परितोषयतो विष्णु नोपवासो जितात्मनः ॥३७५॥
किं तस्य बहुभिस् तीर्थैः स्नान-होम-जप-व्रतैः ?
येनेन्द्रियगणो घोरो निर्जितोऽदुष्ट-चेतसा ? ॥३७६॥
जितेन्द्रियः सदा शान्तः सर्व-भूतहिते रतः ।
वासुदेव-परो नित्यं न क्लेशं कर्तुम् अर्हति ॥३७७॥
ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना ।
ते प्रयान्ति भयं त्यक्त्वा विष्णु-लोकमनामयम् ॥३७८॥
प्रभाते चार्ध-रात्रे च मध्याह्ने दिवसक्षये ।
कीर्तयन्ति हरिं ये वै ते तरन्ति भवार्णवम् ॥३७९॥
आनन्दितोऽथवा चार्तः क्रुद्धः शान्तोऽथवा हरिम् ।
योऽनुकीर्तयते भक्त्या स गच्छेद् वैष्णवीं पुरीम् ॥३८०॥
गर्भ-जन्म-जरा-रोग-दुःख-संसार-बन्धनैः ।
न बाध्यते नरो नित्यं वासुदेवम् अनुस्मरन् ॥३८१॥
एवम् एकान्तिनां प्रायः कीर्तनं स्मरणं प्रभोः ।
कुर्वतां परम-प्रीत्या कृत्यम् अन्यन् न रोचते ॥३८२॥
भावेन केनचित् प्रेष्ठ-श्री-मूर्तेर् अङ्घ्रि-सेवने ।
स्याद् इच्छैषां स्वमन्त्रेण स्वरसेनैव तद्-विधिः ॥३८३॥
विहितेष्वेव नित्येषु प्रवर्तन्ते स्वयं हि ते।
इत्याद्येकान्तिनां भाति माहात्म्यं लिखितं हि तत् ॥३८४॥
सदा सद्-आचार-परास् तु ये नरा, भवन्ति दामोदर-भक्त्यपेक्षया । तदीय-पादाम्बूज-धूलि-धूसरं, कदा भवेद् अस्य शिरोऽधमस्य मे ? ॥३८५॥
श्री-नन्द-सुन्दर-मुकुन्द-पदारविन्द-
प्रेमामृताब्धि-रस-तुन्दिल-मानसा ये ।
नानार्थ-वृन्दम् अनुसन्दधते न च स्वं
तेषां पदाब्ज-मकरन्द-मधुव्रतः स्याम् ॥३८६॥
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे प्रासादिको नाम विंशतितमो विलासः ।
समाप्तश्चायं श्री-भगवद्-भक्ति-विलासो ग्रन्थः ।
शकाब्दे पञ्च-षट्-शक्र-सङ्ख्ये सूर्ये तुलां गते ।
वृन्दावनान्तर्ग्रन्थोऽयं नन्दावासे समापितः ॥