१९ प्रतिष्ठा

एकोनविंश-विलासः
प्रातिष्ठिकः
श्रीश्रीकृष्णाय नमः

**श्रीचैतन्यं प्रविष्टोऽस्मि शरणं सुष्ठु येन हि । ** आविष्टो याति दुष्टोऽपि प्रतिष्ठां सदभिष्टुताम् ॥१॥

जीयाच् चैतन्य-देवोऽसौ यत् पादाब्ज-रसं स्पृशन् ।
नित्यं चित्रं फलत्य् एव मनोरथ-महाद्रुमः ॥

श्री-मूर्ति-प्रतिष्ठा-विधिंलिखन् तत्-सुसिद्धये पर-गुरु-रूपं भगवन्तं शरणं याति—श्री-चैतन्यम् इति । हि यस्माद् येन श्री-चैतन्येन आविष्टः हृद्याक्रान्तः सन् दुष्टोऽपि जनः सद्भिर् अभिष्टुतां प्रतिष्ठां याति । अतोऽत्ययोग्योऽपि हृदि तत्-प्रेरणया लिखन्न् अहं सम्यग् एतल् लिखितुम् अर्हामीति भावः ॥१॥

अथ श्रीमूर्तिप्रतिष्ठा

**प्रतिष्ठयैव भगवदाविर्भावो विशेषतः । ** **प्रतिमासु ततस्तासां प्रतिष्ठां विधिनाचरेत् ॥२॥ **

यद्यपि श्री-मूर्त्याविर्भावेणैव सर्व-लोकेषु साक्षाद् आकारादि-स्फूर्त्या भगवद्-आविर्भावो वृत्त एव, तथापि विधिना प्रतिष्ठयैव प्रतिमासु विशेषतो भगवत आविर्भावः स्यात्, ततस् तस्माद् धेतोस् तासां प्रतिमानां शास्त्रोक्त-प्रकारेण प्रतिष्ठाम् आचरेद् इत्यर्थः ॥२॥

तथा चोक्तमेकादशस्कन्धे श्रीभगवता (२७.१३)—

प्रतिष्ठा जीवमन्दिरम् ॥३॥

इति ।

एतद् एव श्री-भगवद्-उक्तया प्रमाणयति—प्रतिष्ठेति । प्रतिष्ठा या, यद्वा, प्रतिष्ठा भवति चेत् तर्हि जीवयति जगच् चेतयतीति जीवः परमात्माहं तस्य मन्दिरम् अधिष्ठानं भवति । एवं प्रतिष्ठाया नित्यत्वम् अभिप्रेतम् ॥३॥

अथ प्रतिष्ठालक्षणम्

श्रीहयशीर्षपञ्चरात्रे—

**परमात्मा हरिर्देवस्तच्छक्तिः श्रीरिहोदिता । ** श्रीर्देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ॥४॥ **न विष्णुना विना देवी न हरिः पद्मजां विना । ** अर्चामूर्तिः स्मृतः कृष्णः पिण्डिका कमलालया । तयोर्यो विधिना योगः सा प्रतिष्ठा प्रकीर्तिता ॥५॥

पिण्डिकोपरि श्रीमूर्तेः प्रकर्षेण स्थितेः प्रतिष्ठेति निरुक्तया तल्-लक्षणम् आह—परमात्मेति सार्ध-द्वयेन । अर्थ-विशेषस् तु श्री-वैष्णवानां हृदय-गम्य एवेति किं तद् विस्तारण-श्रमेण ? केवलम् अत्रोपयुक्तम् एव लेख्यम् ॥४-५॥

अथ श्रीमूर्तिप्रतिष्ठामाहात्म्यम्

मात्स्ये ऋषय ऊचुः—

**क्रियायोगः कथं सिध्येद्गृहस्थादिषु पर्वदा । ** ज्ञानयोगसहस्राद्धि कर्मयोगो विशिष्यते ॥६॥


श्रीसूत उवाच—

**क्रियायोगं प्रवक्ष्यामि देवतार्चानुकीर्तनम् । ** भुक्तिमुक्तिप्रदं यस्मान्नान्यलोकेषु विद्यते ॥७॥


देवतानां, यद्वा, देवतायाः परम-पूज्यस्य भगवतोऽर्चा पूजा प्रतिमा वा अनुकीर्तनं च, द्वन्द्वैक्यम्, तद्-रूपं क्रिया-योगं प्रवक्ष्यामि । तत्र हेतुः—यस्माद् देवतार्चानुकीर्तनाद् अन्यत् किञ्चिद् भुक्ति-मुक्ति-प्रदं नास्ति ॥७॥

**प्रतिष्ठायाः सुराणाञ्च देवतार्चानुकीर्तनात् । ** देवयज्ञोत्सवाच्चापि बन्धनेन विमुच्यते ॥८॥


सुराणाम् इति बहुत्वं श्री-शिवाद्य्-अपेक्षया, भगवतः परम-गौरवापेक्षया वा । प्रतिष्ठेत्यादि प्रथमान्त-पाठे सैव देवतार्चानुकीर्तनं, सैव देव-यज्ञोत्सवश् च, येन देवतार्चानुकीर्तनेन देव-यज्ञोत्सवेन च कर्म-बन्धाज् जनो मुक्तो भवति ॥८॥

विष्णुधर्मे—

स्थापितां प्रतिमां विष्णोः सम्यक् सम्पूज्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्यनुत्तमम् ॥९॥ **यथोक्तविधिना देवं प्रतिष्ठाप्य जनार्दनम् । ** अक्षयं लोकमाप्नोति विष्णोरमिततेजसः ॥१०॥


स्कान्दे—

**यावद्दिनानि लोकेऽस्मिन् स्थापयेत् प्रतिमां हरेः । ** तावद्युगसहस्राणि विष्णुलोके महीयते ॥११॥ **अक्षयो भवते तावद्यावदाहूतसम्प्लवम् । ** येनार्चा स्थापिता विष्णोः सप्तलोकस्य नायक ॥१२॥ **प्रतिष्ठा शङ्करादीनां देवानां ब्रह्मनन्दन । ** कृता तेन न सन्देहः सत्योक्त तव नारद ॥१३॥


वैष्णवानां विष्णु-परिवाराणां शङ्करादीनां, हे सप्त-लोकस्य नायक, नारद ! नारदेति वा पाठः, ततश् च सप्त-लोकस्य विशेषतः शङ्करादीनां च प्रतिष्ठा तेन कृतेत्य् अन्वयः ॥१२-१३॥

**पितृणामर्यमादीनां वासवादिदिवौकसाम् । ** कृता तेन महाप्रीतिः स्थापयित्वा जनार्दनम् ॥१४॥ **यः स्थापयति देवर्षे देवं मधुनिसूदनम् । ** तस्य सम्भाषणादेव पापं याति दशाब्दिकम् ॥१५॥


**ये निरीक्षन्ति नन्दन्ति प्रतिष्ठां केशवस्य हि । ** ते वसन्ति हरेर्लोके युगानामेकविंशतिम् ॥१६॥


**प्रयागे यत् फलं प्रोक्तं माघमासे तु स्नानतः । ** गयायां पिण्डदानेन पितृपक्षे च नारद ॥१७॥


**कार्त्तिके पुष्करे प्रोक्तं कुरुक्षेत्रे रविगृहे । ** द्वारकायां च वैशाखे प्रभासे च शशिग्रहे ॥१८॥


**सिद्धेश्वरे शिवरात्रौ क्षेत्र चैव तु हाटके । ** शुक्लतीर्थे तु रेवायां गङ्गासागरसङ्गमे ॥१९॥ अश्वमेधादिभिर्यज्ञैर्व्रतैर्द्वादशि-सञ्ज्ञकैः । कपिलाकोटिभिर्दत्तैर्हेमभारशतैरपि ॥२०॥


**चान्द्रायणैश्च पाराकैः कृतैर्यत्फलमाप्नुयात् । ** प्रतिष्ठाप्य हरेरर्चां पुण्यमाप्नोति नारद ॥२१॥


**तस्मात् कलियुगे घोरे विशेषेण नरोत्तमैः । ** स्थापनीया हरेरर्चां पितृणां मुक्तिमिच्छता ॥२२॥ **अन्यकृते च प्रासादे प्रतिमां स्थापयेत्तु यः । ** कुलायुतशतैर्युक्तो वसते विष्णुवेश्मनि ॥२३॥


**स धन्यः स कुलीनश्च पितृणां भवते सुतः । ** कारयित्वा हरेर्धिष्ण्यं यः स्थापयति केशवम् ॥२४॥ **हरस्य विष्णोर्भानोर्वा प्रासादे चापि नारद । ** स्थापयित्वा हरेरर्चां मुख्यं पुण्यमवाप्नुयात् ॥२५॥

मुख्यम् इति—प्रासादं स्वयं निर्माय तत्र हरेर् अर्चा-स्थापनेन यत् पुण्यं तद् इत्यर्थः ॥२५॥

श्रीहयशीर्षपञ्चरात्रे प्रतिष्ठाविध्यन्ते—

**यो विष्णुं स्थापयेद्देवं सर्वदेवनमस्कृतम् । ** स्थापितं तेन सर्वं स्याज्जगत् स्थावरजङ्गमम् ॥२६॥ **अतीतान् दशपूर्वंश्च तथैवानागतान् दश । ** आत्मानं सपरीवारं विष्णुलोकं नयेन्नरः ॥२७॥ कोटिजन्मगतं पापं स्वल्पकं यदि वा गुरु । तत् सर्वं भस्मसात् कुर्यात् संस्थाप्य मधुघातिनम् ॥२८॥


तथैव भविष्ये—

**एवं यः कुरुते राजन् प्रनिष्ठां देवचक्रिणः । ** सर्वपापविनिर्मुक्तः सर्व भूषणभूषितः ॥२९॥


**विमानेन विचित्रेण त्रिसप्तकुलजैः सह । ** पूजां सम्प्राप्य महतीमिन्द्रलोकादिषु क्रमात् । सबान्धवं सुखं प्राप्य विष्णुलोके महीयते ॥३०॥


नारसिंहे—

**प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि । ** निष्कामो नरशार्दूल देहबन्धात् प्रमुच्यते ॥३१॥


**सकामो नरसिंहस्य परं प्राप्य च मोदते । ** मन्वन्तराण्यनेकानि लब्धसौख्यो विमुच्यते ॥३२॥


**नरसिंहं प्रतिष्ठाप्य यः पूनामाचरेन्नरः । ** तस्य कामाः प्रसिध्यन्ति पुत्रपौत्रादयो भुवि । ३३॥


**विधिवत् स्थापयेद्यस्तु कारयित्वा जनार्दनम् । ** न जातु निर्गमस्तस्य विष्णुलोकात् कथञ्चन ॥३४॥

गौतमीये—

**गोष्ठे वा शैलशृङ्गे वा पुण्यारण्ये नदीनटे । ** प्रासादे स्थापयेत् कृष्णं तीर्थकोटिफलं लभेत् ॥३५॥ **कोटिकोमिहाज्ञानात् कोटितीर्थपरिज्भ्रामात् । ** तत् फलं लभते भक्त्या सम्प्रतिष्ठाप्य केशवम् ॥३६॥


सदा मन्त्रकोटिजपाद्यत् फलं पुरुषो लभेत् । तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमम् ॥३७॥


**कोटियज्ञेन यत् पुण्यं पुण्यारण्यनिषेवणात् । ** तत् फलं लभते मर्त्यस्तद्वत् संस्थाप्य केशवम् ॥३८॥ **यावज्जन्म हरेर्नामग्रहणे यत् फलं लभेत् । ** तत् फलं समवाप्नोति संस्थाप्य पुरुषोत्तमम् ॥३९॥
अथ प्रतिष्ठाकालः

मात्स्ये—

**चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा । ** माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥४०॥ **प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे । ** पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ॥४१॥


अतीते चोत्तरायण इति मकर-सङ्क्रान्तौ व्यतीतायाम् इत्यर्थः । दक्षिणायने प्रतिष्ठा-निषेधात् ॥४१॥

**दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी । ** आसु प्रतिष्ठा विधिवत् कृत्वा बहुफला भवेत् ॥४२॥ **आषाढे द्वे तथा मूलमुत्तरात्रयमेव च । ** ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदा तथा ॥४३॥


**हस्ताश्विनी रेवती च पुष्या मृगशिरस्तथा । ** अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ॥४४॥ **बुधो बृहस्पतिः शुक्रस्त्रय एते शुभाबहाः । ** एभिइनिरीक्षितं लग्नं नक्षत्रञ्च प्रशस्यते ॥४५॥


**ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च । ** निमित्तं शकुनं लब्ध्वा वर्जयित्वाद्भुतादिकम् ॥४६॥

अद्भुतं भूकम्पादि, आदि-शब्देन ग्रहणादि ॥४६॥

**शुभे योगे शुभे स्थाने क्रूरग्रहविवर्जिते । ** लग्ने ऋक्षे च कुर्वीत प्रतिष्ठादिकमुक्तवत् ॥४७॥


**अयने विषुवे तद्वत् षडशीतिमुखे तथा । ** एतेषु स्थापनं कार्यं विधिदृष्टेन कर्मणा ॥४८॥


**प्राजापत्ये तु शयनं श्वेते तूत्थापनं तथा । ** मुहूर्ते स्थापनं कुर्यात्तथा ब्राह्मे विचक्षणः ॥४९॥

हयशीर्षपञ्चरात्रे—

**उत्तराशाश्रिते भानौ शुक्लपक्षे सुरेश्वर । ** कृष्णपक्षान्तिम-त्र्यंशादृते सुरगणार्चित ॥५०॥


भानौ उत्तराशां दिशम् आश्रिते, उत्तरायणे सतीत्यर्थः । कृष्णपक्षेऽपि शुभ-योग-बाहुल्ये कारयेत्, किन्तु तत्र त्रयोदशी-चतुर्दश्य्-अमावस्या वर्ज्जयेद् इत्याह—कृष्णेति ॥५०॥

**शुक्लस्याद्यं परित्यज्य प्रतिष्ठां कारयेद्बुधः । ** माघे मासि फाल्गुने वा चैत्र-वैशाखयोरपि ॥५१॥ **ज्यैष्ठे मास्यथवाषाढे सुयोगकरणान्विते । ** प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा ॥५२॥


**सप्तमी दशमी चैव द्वादशी च त्रयोदशी । ** अष्टमी पौर्णमासी च प्रतिष्ठायां सुशोभनाः ॥५३॥


**गुरुः सोमो बुधः शक्रः प्रतिष्ठायां शुभावहाः । ** मेषो वृषोऽथ मिथुनः कर्कटो वृश्चिकस्तथा ॥५४॥


**सिंहः कन्या च सततं विज्ञेयाः शान्तिकारकाः । ** उत्तरासु तथा मूले रौद्रे पुष्येऽथ शस्यते ॥५५॥


**वैष्णवे चानराधे च रेवत्यां रोहिणीषु च । ** अश्विन्यामथ चित्रायां भरण्यां च पुनर्वसौ ॥५६॥


**प्रतिष्ठां कारयेद्विद्वान् नक्षत्रे मृगशीर्षके । ** अयने विषुवे चैव षडशीतिमुखे तथा ॥५७॥ **मित्रं परममित्रञ्च सम्पत्क्षेमञ्च साधकम् । ** तारापञ्चकमेतच्च प्रतिष्ठायां प्रशस्यते ॥५८॥


**गरं विष्टिञ्च किन्तुघ्नं शाकुनञ्च चतुष्पदम् । ** वर्जयेत् सुप्रयत्नेन प्रतिष्ठायां सुरेश्वर ॥५९॥


**विष्कुम्भमतिगण्डञ्च शूलं परिघमेव च । ** गण्ड व्याघातकं चैव वैधृतिं वज्रमेव च ॥६०॥


**व्यतीपातं हर्षणञ्च योगानेतान् विवर्जयेत् । ** न शस्तं ग्रहणे नित्यं तथा वै दक्षिणायणे ॥६१॥ **लग्ने तु सुस्थिरे कार्यं स्थिरांशे सुरसत्तम । ** कर्तुश्चोपचयोपेते मुहूर्ते शोभने द्विज ॥६२॥


**मैत्रे वैराज-सावित्रे श्वेते वा वासवे शिवे । ** अभिजिद्रोहिणीनाञ्च मुहूर्ते पद्मसम्भवे ॥६३॥ गान्धर्वे वा स्थापयीत हरिं सुरगणार्चितम् । आदित्यस्य बलं लब्ध्वा लग्नं शुभनिरीक्षितम् ॥६४॥


**चन्द्रताराबलं प्राप्य स्थापयेत् पुरुषोत्तमम् । ** सुग्रहे च सुनक्षत्रे कुर्यत्तत्राधिवासनम् ॥६५॥


भविष्ये—

**हरौ सुप्ते न कर्तव्यं देवार्चास्थापनं बुधः । ** कर्तव्यं तु विबुद्धे तु हंसे चाप्युत्तरं गते ॥६६॥ ** सर्वकामसमृद्ध्यर्थं स्थापयेदुत्तरायणे । ** वर्जयेत् सर्वयत्नेन मन्त्रविद्दक्षिणायनम् ॥६७॥


देवीपुराणे—

**सिंहसंस्थं गुरुं शुक्रं सर्वारम्भेषु वर्जयेत् । ** प्रारब्धं न च सिध्येत महाभयकरं भवेत् ॥६८॥


**पुत्रभ्रातृकलत्राणि हन्याच्छीघ्रं न संशयः । ** कारको व्रजते नाशं सन्तानं क्षीयतेऽचिरात् ॥६९॥


**देवारामतडागेषु प्रपोद्यान-ग्रहेषु च । ** सिंहस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् ॥७०॥
अथ प्रतिष्ठास्थानम्

तत्रैव—

**सिद्धक्षेत्रं सरः पुण्यवनं रम्यं नदीतटम् । ** प्रासादो निर्मितः शक्त्या मनोरमगृहादि च ॥७१॥


हयशीर्षपञ्चरात्रे—

अथ विङ्नियमोपेतं देवतास्थापनं शुभम् । पुरो दिशि यथा देवाः स्थाप्याः शृणु तथा मम ॥७२॥


**नगरग्राममध्ये तु ब्रह्मणः स्थानमुत्तमम् । ** आखण्डलस्य सूर्यस्य पूर्वेणायतनं शुभम् ॥७३॥


**स्वदिग्गतं कृशानोस्तु मातृणाञ्चैव दक्षिणे । ** भूतानामालयस्तस्मिन् धर्मराजाल्यः शुभः ॥७४॥ **चण्डिकायाः पितृणाञ्च दैत्यानां नैरृते भवेत् । ** प्रचेतसः समुद्रस्य सिन्धूनां पश्चिमे भवेत् ॥७५॥ **फणिनां चव वायव्यां वायोः स्थानन्तु तच्छुभम् । ** यक्षाधिपस्य स्कन्दस्य उदीच्यां स्थानमुच्यते ॥७६॥


विष्णोः स्थानं तु सर्वत्र कालभेदेन भिद्यते । नगराभिमुखाः सर्वे स्थापिताः शुभदा नृणाम् ॥७७॥


**अज्ञानाद्वा प्रमादाद्वा कृता यदि पराङ्मुखाः । ** तदा शास्त्रादिभिर्विद्वानुपायमिममाचरेत् ॥७८॥ **तद्वर्णभूषणोपेतं तद्रूपायुधलक्षणम् । ** पुरस्याभिमुखं भित्तौ त देवं तत्र संलिखेत् ॥७९॥


किञ्च—

**दिग्विशेषेण मे स्थानं शृणु मे सुरसत्तम । ** ग्राममध्येऽथवारण्ये नदीनां सङ्गमे तथा ॥८०॥


**नगरस्य समन्ताच्च सर्वत्राहं प्रतिष्ठितः । ** भुक्तिमुक्तिप्रदं पुंसां विशेषं शृणु चापरम् ॥८१॥ **ऐन्द्र्यां प्रशस्तं विज्ञेयमाग्नेयां परिवर्जितम् । ** याम्यां प्रशान्तये शस्तं नैरृत्यां भयदं भवेत ॥८२॥

काल-भेदेन भिद्यत इति यद्-उक्तं, तद् एव दर्शयति—ऐन्द्र्याम् इत्यादिना सार्ध-द्वयेन ॥८२॥

**द्रव्यादीनां प्रसिद्ध्यर्थं वारुण्यां राज्यसिद्धये । ** वायव्यां वर्जयेद्यत्नात् कौवेर्यां पुष्टिवर्धनम् । ऐशान्यां यजनं श्रेष्ठं सर्वसम्पत्करं नृणाम् ॥८३॥
अथ प्रतिष्ठाधिकारी

देवीपुराणे—

**वर्णाश्रमविभागेन देवाः स्थाप्या हि नान्यथा ॥८४॥ **

वर्णाश्रम-विभागेनैव देवाः स्थाप्याः, केनचिद् वर्णेन केनचिद् आश्रमादिना च कश्चिद् देवः स्थाप्यः, न च सर्वैर् एव सर्व इत्यर्थः । श्री-विष्णुस् तु सर्वैर् एव स्थाप्य इत्याह—चातुर्वर्णैर् इति ॥८४॥

किञ्च—

चातुर्वर्णैस्तथा विष्णुः प्रतिष्ठाप्यः सुखार्थिभिः ॥८५॥
अथ स्थापकादि-लक्षणं मूर्तिपानाञ्च लक्षणम्

तत्रैव—

**पञ्चरात्रार्थकुशलो मन्त्रतन्त्रावधारकः । ** स्थापने सर्वदा शस्तो ब्रह्मचारी च शान्तियुक् ॥८६॥

तन्त्रम् अनुष्ठान-प्रकारः ॥८६॥

**अन्यथा कलहोद्वेगं कुर्यान्नित्यं महाभयम् । ** यजमाने नृपे राष्ट्रे स्थापके च निरागमे ॥८७॥


स्थापके प्रतिष्ठाचार्ये, निरागमे शास्त्रानभिज्ञे सति, एतच् च अन्यथेत्यस्य विवरणम् । यद्वा, यजमानादिषु तादृशे स्थापके च कलहादि-महाभयं कुर्याद् इत्यर्थः ॥८७॥

किञ्च मात्स्ये—

**अतःपरं प्रवक्ष्यामि मूर्तिपानां तु लक्षणम् । ** स्थापकस्य समासेन लक्षणं शृणुत द्विजाः ॥८८॥


**सर्वावयवसम्पूर्णो वेदमन्त्रविशारदः। ** पुराणवेत्ता तत्त्वज्ञो दम्भलोभविवर्जितः ॥८९॥


**कृष्णसारवरे देशे य उत्पन्नः शुभाकृतिः । ** शौचाचारपरो नित्यं पाषण्डकुलनिष्पृहः ॥९०॥


कृष्ण-सारो हरिणस् तेन वरे श्रेष्ठे; चारेति पाठे कृष्णः कृष्ण-सारस् तस्य चारश् चरणं तेन वरे ॥९०॥

**समः शत्रौ च मित्रे च ब्रह्मोपेन्द्रहरप्रियः । ** ऊहापोहार्थतत्त्वज्ञो वास्तुशास्त्रस्य पारगः । आचार्यस्तु भवेन्नित्यं सर्वदोषविवर्जितः ॥९१॥


**मूर्तिपास्तद्विधाश्चैव कुलीना ऋजवस्तथा । ** द्वात्रिंशत् षोडशाथापि अष्टौ वा श्रुतिपारगाः । ज्येष्ठ-मध्य-कनिष्ठास्तु मूर्तिपाः परिकीर्तिताः ॥९२॥


श्रीहयशीर्षपञ्चरात्रे च—

**कर्तुमिच्छति यः पुण्यं मन मूर्तिप्रतिष्ठया । ** अन्वेषणीयस्त्वाचार्यस्तेन लक्षणसंयुतः ॥९३॥ **संशुद्धब्रह्मयोनिस्तु प्रलयोत्पत्तिसंस्थितिम् । ** यो वेत्ति कुलजो धीमानाचार्यत्वं हि सोऽर्हति ॥९४॥


कुलजः, पितृ-मातृ-कुल-द्वयस्य प्रलयं मरणम्, उत्पत्तिं जन्म, संस्थितिं च जीवनं यो वेत्ति; अन्यथा कुलाचाराज्ञानादि-दोष-प्रसक्तेः ॥९४॥

सम्मतः सर्ववर्णानां पञ्चरात्रविशारदः । क्रोधलोभविनिर्मुक्तो मात्सर्यदोष-वर्जितः ॥९५॥


**क्षयापस्माररहितः कुष्ठरोग-विवर्जितः । ** अन्यूनानतिरिक्ताङ्गो युवा लक्षणलक्षितः ॥९६॥


**अनन्यदेवताभक्तः शूद्रान्नपरिवर्जितः । ** ब्राह्मणानामलाभे तु क्षत्रियो वैश्यशूद्रयोः ॥९७॥


**क्षत्रियाणामलाभे तु वैश्यः शूद्रस्य कल्पितः । ** कदाचिदपि शूद्रस्तु नैवाचार्यत्वमर्हति ॥९८॥


क-काराष्टकं च कुष्ठी, कुनखी, कुण्डः, काक-स्वरः, क्लीबः, कातरः, क्रोधन, कुत्सित इति स्वयम् एवाभिव्यञ्जयितव्यम् ॥९८॥

**गृहस्थं ब्रह्मचर्यस्थं ककाराष्टकवर्जितम् । ** गुरुं कुर्वीत सततमुपवासव्रते रतम् । ऋजुस्वभावं मधुरस्मितपूर्वाभिभाषिणम् ॥९९॥

किञ्च—

**सर्वत्र व्यतिरिक्तन्तु आत्मानं वेत्ति यो द्विजः । ** सर्वलक्षणहीनोऽपि स गुरुर्नात्र संशयः ॥१००॥

अधुना स्थापकस्य लक्षण-विशेषम् आह—सर्वत्रेति चतुर्भिः । व्यतिरिक्तं देहादि-भिन्न, सर्वैर् उक्तैर् लक्षणैर् हीनोऽपि ॥१००॥

**अपि पापसमाचारः सर्वलक्षणवर्जितः । ** देशिकः स तु विज्ञेयः ससारार्णवतारकः ॥१०१॥


**पञ्चरात्रप्रबुद्धस्तु सिद्धान्तार्थस्य तत्त्ववित् । ** सर्वलक्षणहीनोऽपि आचार्यः स विशिष्यते ॥१०२॥

पञ्चरात्रे शास्त्रे प्रबुद्धः अभिज्ञः ॥१०२॥

**यस्य विष्णौ परा भक्तिर्यथा विष्णौ तथा गुरौ । ** स एव स्थापको ज्ञेयः सत्यमेतद्वदामि ते ॥१०३॥

किञ्च—

**येन तन्त्रेण प्रारब्धा प्रतिष्ठा गुरुणा भवेत् । ** तत्तन्त्रपारगाः शस्ताः मूर्तिपाश्छिन्नसंशया ॥१०४॥ **षडङ्गविदुषः सर्वे मन्त्रब्राह्मणपारगाः । ** एवंविधैर्वैष्णवैस्तु प्रतिष्ठामारभेद्गुरुः ॥१०५॥

मूर्तिपानां लक्षणम् आह—येनेति द्वाभ्याम् । षडङ्गेषु विदुषः विद्वांसः, ब्राह्मणं वेद-भाग-विशेषः ॥१०४-१०५॥

अथ स्थापकत्वे वर्जनीयाः

तत्रैव—

**शैवः सौरो नैष्ठिकश्च नग्नः सङ्करजोऽशुचिः । ** वृद्धः कुत्सितमूर्तिर्यो महापातकचिह्नितः ॥१०६॥

उक्त-लक्षणाचार्यालाभे तद्-अन्य-वरणेऽपि शैवादयोऽवश्यं वा इत्याह—शैव इत्यादिना देशिक इत्यन्तेन ॥१०६॥

कुष्ठी च कुनखी श्वित्री निष्ठीवी घर्घरस्वरः । अर्वुदी गण्डवी व्यङ्गी गर्वितो वधिरस्तथा ॥१०७॥


श्वित्रं श्वेत-कुष्ठं तद्वान्, निष्ठीवी निष्ठीवनशीलः, अर्बुदं मांस-ग्रन्थि-रूपो रोग-विशेषस् तद्वान्, गाण्डवश् च गल-रोग-विशेषः, तद्वान् ॥१०७॥

**तन्त्रविद्वेषिकश्चैव परद्रोहरतस्तथा । ** कुण्डः काकस्वरः क्लीवः कातरः क्रोधनस्तथा ॥१०८॥

अमृते भर्तरि जारजः कुण्डः ॥१०८॥

**पुनर्भूश्च स्वयम्भूश्च गोलको नास्तिकस्तथा । ** जडोऽतिगौरः खल्वीटो हीनाङ्गः स्थूल एव च ॥१०९॥


पुनर्भूः द्विरूढा स्त्रीः, अत्र तत्-सुतो ज्ञेयः; स्वयम्भूः कानीनः, मृते भर्तरि जारजो गोलकः, खल्वीटः केश-रहित-मस्तक-मध्यः ॥१०९॥

अतिकृष्णोऽधृणः पापी कृशो ह्रस्वोऽलसस्तथा । व्यापन्नोऽसंस्कृतश्चैव उद्विग्नो दीन एव च ॥११०॥


व्यापन्न आपद्-ग्रस्तः ॥११०॥

**व्रतोपवासहीनश्च वृषलीपतिरेव च । ** पण्यरङ्गोपजैवी च पण्यस्त्री-पारदारिकः ॥१११॥


**आचार्यपुत्रकादीनां विद्वेष्टा परसेवकः । ** भोजकः सुवकश्चैव व्यसनी पिशुनी गदी ॥११२॥


भोजकः देवान्नभोजी, सेवकः अन्न-मात्रार्थ-देव-सेवा-परः, गदी सदा रोग-युक्तः ॥११२॥

**अतिर्रोगी भिषक् चैव साहसी समयच्युतः । ** द्विजातिगुरुदेवानां निन्दकः पापकस्तथा ॥११३॥

तत्राप्यतिरोगी ॥११३॥

**पिङ्गाक्षो धूम्रवर्णाक्षो विडालाक्षस्तथैव च । ** मत्सरी गण्डमाली च वकवृत्तिरतस्तथा ॥११४॥ **उपायदेशहीनश्च कक्खटः कुत्सितव्रतः । ** निर्दयश्चैव निःसत्त्वो नैपुण्यपरिवर्जितः । प्रतिष्ठातन्त्रकिञ्चिज्ज्ञोऽवेदवेदाङ्गपारगः ॥११५॥


उपायो निज-वृत्तिः स्व-देशश् च ताभ्यां हीनः, प्रतिष्ठा-तन्त्रस्य किञ्चिद् एव, न च सामग्रयं जानातीति तथा, न वेद-वेदाङ्गानां पारगस् तेषाम् अपि किञ्चिद् एव जानातीत्यर्थः ॥११५॥

वर्जयीत प्रयत्नेन सर्वज्ञमपि नास्तिकम् ॥११६॥

नास्तिकं पाषण्डिनम् ॥११६॥

**परवाक्यप्रमाणज्ञो ब्राह्मणो वेदपारगः । ** रञ्जितः पशुशास्त्रेण नाचर्येत स देशिकः ॥११७॥

परेषां वाक्यस्य प्रमाणानि प्रामाण्यापादकानि वचनादीनि जानातीति तथा । तादृशोऽपि वेद-पारगोऽपि अधीत-वेद-चुतुष्टयोऽपि पशु-शास्त्रेण पाषण्ड-शास्त्रेण रञ्जितो यः, स आचार्यो न क्रियेत; यद्वा, पर-वाक्यम् एव नात्म-वाक्यम् अज्ञतया प्रमाणं जानातीति तथा सः, यतः अवेद-पारगः वेदार्थानभिज्ञः अनधीत-वेदो वा; अतः पशु-शास्त्रेण रञ्जितः । अन्यत् समानम् ॥११७॥

**यद्येतैर्वर्जितैर्विष्णोः स्थापन क्रियते क्वचित् । ** असाधकं भुक्तिमुक्त्योर्निष्फलं तन्न संशयः ॥११८॥
अथ प्रतिष्ठाविध्यभिज्ञस्य प्रतिष्ठानाचरणे दोषः

तत्रैव—

नाभिषेकं तु यः कुर्यात् प्रतिष्ठालोभमोहितः । स वाति नरकं घोरं सह शिष्यैर्न संशयः ॥११९॥


प्रतिष्ठा स्वयं पौरोहित्यादि-विद्यथा इत्यादि-रूपा लोके ख्यातिस् तस्यां लोभः, यद्वा, प्रतिष्ठाकर्मणि अधिक-प्राप्तौ यो लोभस् तेन मोहितः सन् । अभिषेक-प्रधानां प्रतिष्ठां यो न कुर्यात् ॥११९॥

**इदानीमचलायास्तु श्रीमूर्तेः प्राग्विलिख्यते । ** प्रतिष्ठाविधिराकृष्य शास्त्रतः साधुसम्मतः ॥१२०॥

प्रतिष्ठा च श्री-मूर्तेश् चलाचलत्व-भेदेन द्विविधा । तत्रेदानीम् अचलायाः प्रतिष्ठा-विधि-विस्तारेण लिख्यते—प्राग् इति । अचलाप्रतिष्ठाया मुख्यत्वात् तस्या विधि-ज्ञानेन चलाया अपि प्रायः प्रतिष्ठा-विधि-विज्ञानाच् च । शास्त्रतः पुराणागमादिभ्य आकृष्य तत्-तद्-वचनानि क्रमेणैकत्र सङ्गृह्य साधूनां सम्मत इति साम्प्रदायिक-तत्-तत्-पद्धतिकार-शिष्ट-गण-सम्मत्यैव लिख्यत इत्यर्थः ॥१२०॥

अथ स्थिरमूर्तिप्रतिष्ठारम्भः

**सुस्नातः शुक्लवस्त्रः सन् कृतकृत्यः शुभक्षणे । ** तिथ्यृक्षदैवते विघ्नेश्वरं मातृश्च पूजयेत् ॥१२१॥

कृतानि नित्य-कर्माणि येन सः, तिथिम् ऋक्षं च नक्षत्रं च तयोर् देवते । पूजनं च प्रणवादि-नमोऽन्तैश् चतुर्थ्यन्तैर् नाम-मन्त्रैरक्षत-गन्ध-पूष्पादि-द्रव्यैश् च । प्रयोगः—ओं गौर्यै नमः इत्यादि ॥१२१॥

अथ षोडश मातरः

गौरी पद्मा शची मेधा सावित्री विजया जया । ** देवसेना स्वधा स्वाहा मातरो लोकमातरः । धृतिः पुष्टिश्च तुष्टिश्च शान्तिः स्वकुलदेवता ॥१२२॥ ** इति ।
अथाचाप्यादिवरणम्
**वृद्धिश्राद्धं ततः कृत्वा विधिवद्वृणुयाद्बुधः । ** आचार्यं मधुपर्कादिदानेनाथ समर्चयेत् ॥१२३॥

वृद्धि-श्राद्धं नान्दी-श्राद्धं, तच्च प्रतिष्ठाङ्गम् । विधिवद् इति अमुकगोत्रः अमुक-नामाहम्,अमुक-गोत्रम् अमुक-नामानं त्वां भगवद्-भक्ति-कामो भगवन्-मूर्ति-प्रतिष्ठार्थम् आचार्यत्वेन वृणे, स च वृतोऽस्मीति प्रब्रूयाद् इति । एवम् आदि-विधि-युक्तं यत् स्यात् । आदि-शब्दात् यथा-शक्ति वस्त्रालङ्कारादि । अथ वरणानन्तरं मधु-पर्कादि-दानेनैव, किंवा पाद्यार्घ्याचमनीयादिभिः सम्यग् अर्चयेत् ॥१२३॥

**एवं ब्रह्मचतुष्कञ्च तथा होतृचतुष्टयम् । ** द्वारजापि-चतुष्कञ्च पञ्चमं गर्भजापिनम् ॥१२४॥


एवं लिखित-प्रकारेण ब्रह्मादींश् च वृणुयात् । एतैर् आचार्यादिभिस् तु पुण्याहं स्वस्त्यादिकं च वाचयेत् ॥१२४॥

**तथा मूर्तिधरं चैकं पुराणस्तुतिपाठकम् । ** सर्वान् सम्पूज्य पुण्याहं स्वस्त्याद्येतैस्तु वाचयेत् ॥१२५॥
अथ मण्डपादिनिर्माणम्
**मितं षोडशभिर्हस्तैः किंवा द्वादशभिश्च तैः । ** दशभिर्वा प्रकुर्वीत मण्डपं समलङ्कृतम् ॥१२६॥

किंवेत्यादि-विकल्पश् च शक्त्य्-अनुसारेण प्रासाद-प्रदेशानुसारेण वा । तच्च श्री-हयशीर्ष-पञ्चरात्र-वचनतो व्यक्तं भावि । यद्यपि—

दशाष्ट-हस्तं हीनं तु मध्यं द्वादश-षोडशम् । विंश-हस्तं चतुर्विंश-म् उत्तमस्योदितं द्विज ॥

इति हयशीर्ष-पञ्चरात्रोक्तं, तथा भविष्य-पुराणाद्य्-अनुसारेण शिष्टाचारतः साधु-पद्धतिकार-वर्ग-सम्मत्या लिखितम्—मितं षोडशभिः इत्यादि । एवम् अन्यत्राप्य् अग्रे बोद्धव्यम् । सम्यग् अलङ्कृतं पुष्पदामवितानपल्लवादिभिर् भूषितं, तद्-विशेषश्च भविष्य-पुराणादि-वचनतोऽग्रे व्यक्तो भावी ॥१२६॥

**सप्तधान्याङ्कुरोपेतं नदीमृद्वालुकाचितम् । ** तोरणादियुतं दिव्यं शङ्खभेर्यादिनादितम् ॥१२७॥


तथा च भविष्ये—

**प्रासादान्नातिदूरे तु कुर्यान्मण्डपमग्रतः । ** दशद्वादशहस्तं वा परिक्षिप्तं समन्ततः ॥१२८॥


स्वलिखितार्थं प्रमाणयन् भविष्य-पुराणादि-वचनानि सङ्गृह्णाति—प्रासादाद् इत्यादि । एवम् अग्रेऽपि सर्वत्र ज्ञेयम् । अग्रतः पूर्वादिशि आदौ वा समन्ततः सर्वतः परिक्षिप्तम् ॥१२८॥

**चतुर्भिस्तोरणैर्युक्त पुष्पदामाभिशोभितम् । ** प्लक्षोडुम्बरमश्वत्थं वटः पूर्वादितः क्रमात् ॥१२९॥


**हस्तं प्रवेशयेद्भूमौ दृश्य हस्तचतुष्टयम् । ** सूपलिप्तं सुसमृष्टं चतुर्द्वारेण संयुतम् ॥१३०॥


चतुस् तोरणान्य् एवाह—प्लक्षेति; प्लक्षादिकं तद्-भुमि-मध्ये हस्त-मात्रं प्रवेशयेत् । उपरि च हस्त-चतुष्टयं दृश्यं कुर्याद् इत्यर्थः । पुनः प्रस्तुतं मण्डपम् एव विशिनष्टि—सूपलिप्तम् इति सार्धेन । सूपलिप्त इत्यादि-सप्तम्य्-अन्त-पाठे च स्थण्डिलस्योपरि इत्यस्य विशेषणानि सप्तम्य्-अन्तानि ॥१२९-१३०॥

**स्थण्डिलस्योपरि क्षिप्त समन्ताटुपशोभितम् । ** नदीतीरमृदा युक्तं बालुकायाञ्च कारितम् ॥१३१॥

क्षिप्तं न्यस्तं विनिर्मितम् इत्यर्थः । स्थण्डिलेषु परिक्षिप्त इति वा पाठः । ततश् च स्थण्डिले कारितम् इत्यर्थः ॥१३१॥

मात्स्ये—

प्रासादस्योत्तरे वापि पूर्व वा मण्डपो भवेत् ॥१३२॥


**हस्तान् षोडश कुर्वीत दश द्वादश वा पुनः । ** मध्ये वेदिकया युक्तः परिक्षिप्तः समन्ततः ॥१३३॥


**सप्त पञ्च चतुर्वापि करान् कुर्वीत वेदिकाम् । ** चतुर्भिस्तोरणैर्युक्तो मण्डपः स्याच्चतुर्मुखः ॥१३४॥

चतुर्मुखश् चतुर्द्वारः ॥१३४॥

प्लक्षं द्वारं भवेत् पूर्वं याम्यमौडुम्बरं भवेत् । पश्चादश्वत्थघटितं नैयग्रोधं तथोत्तरम् ॥१३५॥ **भूमौ हस्तप्रविष्टानि चतुर्हस्तानि चोच्छ्रये । ** शोभनं भूतलं तत्र लिप्तञ्च गोमयाम्भसा । वस्त्रैर्नानाविधैस्तद्वत् पुष्पपल्लवशोभितम् ॥१३६॥

हयशीर्षपञ्चरात्रे च—

**प्रासादं वेष्टयित्वा तु कुर्यादगुप्ततरं बुधः । ** कृत्वा गुप्तं ततः पश्चाद्यागमण्डपमारभेत् ॥१३७॥ **गर्भसूत्रं तु निःसार्यं प्रासादस्याग्रतो गुरुः । ** कृत्वा भूमिं तु निःशल्यां मण्डपं सूत्रयेत्ततः ॥१३८॥ **हीनस्तु मण्डपः कार्यो हीने त्वायतने सदा । ** उत्तमे तूत्तमः कार्यो मध्यमे मध्यमस्तथा ॥१३९॥ **दशाष्टहस्तं हीनं तु मध्यं द्वादशषोडशम् । ** विंशहस्तं चतुर्विंशमुत्तमस्योत्तम द्विज ॥१४०॥


**चतुर्हस्तादिमानानां प्रासादनां यथाक्रमम् । ** मण्डपानष्टहस्तादीन् कल्पयेद्द्वेदवृद्धितः ॥१४१॥


वेद-वृद्धितः चतुर्हस्त-वृद्धि-क्रमेण, अष्ट-हस्ते प्रासादे द्वादश-हस्त-मण्डपं, द्वादश हस्ते च षोडश-हस्तम् इत्य् एवं कल्पयेद् इत्यर्थः ॥१४१॥

**समवृत्तं चतुर्द्वारं चतुस्तोरणभूषितम् । ** विचित्रस्तम्भविन्यासं रचनाचरितं शुभम् । धूपनिर्गमनोपेतं मण्डपं कारयेद्बुधः ॥१४२॥


किञ्च तत्रैव—

**मण्डपं मण्डयेदार्द्रशाखाभिस्तु समन्ततः । ** विमलेन वितानेन पताकाभिश्च भूषयेत् ॥१४३॥


दर्पणैश्चामरैर्घण्टैः स्तम्भाम् वस्त्रैर्विभूषयेत् । कलसैर्घण्टिकाभिश्च साधारैर्गण्डुकैस्तथा ॥१४४॥

घण्टैः बृहद्-घण्टाभिः, घण्टिकाभिः स्वल्प-घण्टाभिः ॥१४४॥

**मण्डपं भूषयित्वैवं जाह्नवोवालुकां शुभाम् । ** बाह्यदेशेषु विकिरेत पञ्चगव्येन प्रोक्षयेत् ॥१४५॥

किञ्च—

**अश्वत्थोडुम्बरौ चैव न्यग्रोधः प्लक्षः एव च । ** तोरणार्थेषु कथिताः पूर्वादिषु ययाक्रमम् ॥१४६॥ एकहस्तं खनेद्भूमौ चतुर्हस्तं तथोच्छ्रये । द्विहस्तान्तरमन्योऽन्यं तोरणं सम्प्रकल्पयेत् ॥१४७॥ तिर्यक् फलकमानं स्यात् स्तम्भानामर्द्धमानतः । शैलाः पृथिवीमन्त्रेण स्थाप्याः पूज्यास्तु तोरणाः ॥१४८॥ ** शुक्लवस्त्रयुगच्छन्नान् दर्भकिञ्जल्कसंयुतान् । ** पुष्पमालापरिक्षिप्तान् तोरणान् परिकल्पयेत् ॥१४९॥ वृत्तं वा चतुरस्रं वा द्विषट्काष्ठाङ्गुलं तु वा । षट्चतुर्वाङ्गुलं कार्यं तोरणं निर्व्रणं भवेत् ॥१५०॥

द्विषट् द्वादश, काष्ठा दश वा, वेष्टने अङ्गुलानि यस्य तत् । षट्-चत्वारि वा अङ्गुलानि यस्य तत् । वा-शब्द-व्यवधानेनापि समासादिकम् आर्षम् । विकल्पश् च पूर्वोक्त-मण्डपमानापेक्षया ॥१५०॥

**तोरणस्तम्भमूलेषु कलसान् मङ्गलाङ्कुरान् । ** प्रदद्यादुपरिष्टात्तु कुर्याचक्रं सुदर्शनम् । कलसं वर्द्धमानं वा वसुभागेन कल्पयेत् ॥१५१॥


उपरिष्टात् तोरणोपरि, तत्-तत्-प्रसङ्गाद् वर्धमानं स्वल्प-घटं, वसु-भागेन तोरणस्याष्टमांशेन ॥१५१॥

किञ्च—

**नवेन चित्रवर्णेन वितानं कारयेच्छुभम् । ** अथवा शुक्लवर्णेन मध्ये जलजभूषितम् ॥१५२॥


विमलेन वितानेन इत्युक्तं, तदेव विशिनष्टि—नवेनेति सार्ध-द्वाभ्याम्, वस्त्रेणेति शेषः ॥१५२॥

**उत्तमाधममध्यं तु प्रमाणं चास्य कीर्त्यते। ** मण्डपस्य प्रमाणन्तु ज्येष्ठं तस्य वितानकम् । मध्यमं वेदिकामात्रं कनिष्ठं मण्डलस्य तु ॥१५३॥
अथ तत्र वेद्यादिनिर्माणम्
**तन्मण्डपस्य मध्ये तु वेदीं हस्तोच्छुरितां समाम् । ** पञ्चहस्तमितां दिव्यां चतुरस्रां प्रकल्पयेत् ॥१५४॥


समां—पार्श्वादाव् एकरूपाम् ॥१५४॥

**ऐशान्यां हस्तमात्राञ्च ग्रहवेदीं समाचरेत् । ** तथा कुण्डचतुष्कञ्च वेद्याः प्राच्यादिदिक्षु हि ॥१५५॥ तच्च हस्तमितं योनिवक्त्राढ्यं सत्रिमेखलम् । चतुरस्रार्द्धशीतांशुवर्तुलाब्जाकृति क्रमात् ॥१५६॥

क्रमाद् इति प्राच्यां चतुरस्रं, दक्षिणस्याम् अर्ध-चन्द्राकारं, पश्चिमायां वर्तुलम्, उदीच्यां च पद्माकारम् इत्यर्थः ॥१५६॥

**दीक्षाविधौ पुरालेखि कुण्डलक्षणमत्र तु । ** चतुर्दिक्षु त्यजेद्वेदीमङ्गुलानि त्रयोदश ॥१५७॥


अत्र प्रतिष्ठाविधौ तु चतुर्दिक्षु त्रयोदशाङ्गुलानि वेदीं परित्यजेत्, तावत् प्रदेशं वेद्याः परितस् त्यक्त्वा कुण्डानि कूर्याद् इत्यर्थः । तथा च मात्स्ये—वेदी-भित्तिं परित्यज्य त्रयोदशभिर् अङ्गुलैः इति ॥१५७॥

**आचार्यकुण्डं कुर्याच्च ग्रहवेद्यास्तु दक्षिणे । ** हस्तमात्रावटं तच्च चतुरस्रं सुलक्षणम् ॥१५८॥


तथा च तवैव—

**त्रिभागेनार्द्धभागेन कुर्याद्वेदीं सुशोभनाम् । ** हस्तमात्रोच्छ्रिता कार्या मध्ये सम्यग्व्यवस्थिता ॥१५९॥

त्रिभागेन मण्डपस्य तृतीयांशेन, अर्ध-भागेन वा परिमिताम् ॥१५९ ॥

किञ्च—

चतुष्कोणं भवेत् कुण्डं पूर्वस्यां दिशि सर्वदा । ** अर्द्धचन्द्रं भवेद्याम्यां वारुण्यां वर्तुलं भवेत् । पद्माभमुत्तरे भागे कुण्डं स्याद्द्विजसत्तम ॥१६०॥ ** इति ।
अथ कुम्भस्थापनम्
**यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः । ** ऋत्विग्भिः सहितः पश्चाद्द्वारेण प्रविशेत्ततः ॥१६१॥

ततो यजमानः पत्न्यादि-सहितः पश्चिम-द्वारेण तं मण्डपं प्रविशेत् ॥१६१॥

**न्यसेत्तस्य चतुर्द्वार्षु द्वौ द्वौ कुम्भौ यवोपरि । ** जलपूर्णौ स्वर्णगौ पल्लवादियुतौ शुभौ ॥१६२॥

न्यसेद् यजमानो गुरुर् वा । तस्य—मण्डपस्य ॥१६२॥

तथा च मात्स्ये—

**कृत्वैवं मण्डपं पूर्णं चतुर्द्वारेषु विन्यसेत् । ** अव्रणान् कलसानष्टौ जलकाञ्चनगर्भितान् ॥१६३॥


**चूतपल्लवसञ्च्छन्नान् सितवस्त्रयुगान्वितान् । ** स्रक्चन्दनफलोपेतान् चन्दनोदकपूरितान् ॥१६४॥


भविष्ये—

**अकालान् कलसानष्टौ चतुर्द्वारेषु स्थापयेत् । ** अन्तःकाञ्चनसंयुक्तान् फलपुष्पैरलङ्कृतान् ॥१६५॥

अकालान्—कृष्ण-वर्णेतरान् ॥१६५॥

**अहतैर्युगलैर्वस्त्रैर्ग्रीवायां तु निवेशितैः । ** चन्दनागुरुतोयेन पूरयित्वा यथाक्रमम् ॥१६६॥


अहतैर् नवैः ॥१६६॥

किञ्च हयशीर्षपञ्चरात्रे—

**शातकुम्भमयान् कुर्याद्राजतान् शुक्लजानथ । ** जलाढकप्रपूरांश्च लोहजान् कारयेद्दृढान् ॥१६७॥ मृन्मयान् कलसान् वापि पक्वविम्बोपमान् शुभान् । अष्टत्रिंशाधिकशतपलपूर्वांस्तु मृन्मयान् ॥१६८॥


**आरक्तात् स्फोटरहितान् कालमण्डलवर्जितान् । ** आहृत्य कलसान् वस्त्रपूततोयेन पूरयेत् । सहिरण्यान् वस्त्रयुग्मबद्धकण्ठान्निवेशयेत् ॥१६९॥

अथेति विकल्पे, शुक्लजान्, ताम्रमयान्, स्फोट-रहितान् निश्छिद्रान्, कालेन श्यामेन मण्डलेन विन्दुना आवर्तेन वा वर्जितान् ॥१६७-१६९॥

अथ स्नानमण्डपादिनिर्माणम्

**कुर्यादुत्तरतस्तस्मादधिवासनमण्डपात् । ** चतुर्हस्तं चतुर्द्वारकोणं स्नपनमण्डपम् ॥१७०॥

चत्वारि द्वाराणि कोणाश्च यस्य तम् ॥१७०॥

तत्रेष्टकाभिः पक्वाभिः द्वित्रिहस्ताञ्च वेदिकाम् । विदध्याद्भूतलं वाथ सकलं बालुकामयम् ॥१७१॥


अथवा स्नान-मण्डपस्य भूतलं सकलम् एव बालुकामयं विदध्यात् । यद्यपि भविष्य-मत्स्य-पुराणयोर् ध्वज-पतकाधिरोहणानन्तरम् एव स्नान-मण्डप-निर्माणमेव लिखितं, तथापि हयशीर्ष-पञ्चरात्रोक्तानुसारेण निर्माण-प्रसङ्गेऽस्मिन् लिखितम् ॥१७१॥

तथा च भविष्ये—

**एवं सुशोभनं कृत्वा मण्डपं तु सुतोरणम् । ** तस्यैवोत्तरपार्श्वे च कर्तव्यः स्नानमण्डपः । सुशोभनं तु कर्तव्यं स्थण्डिलं वालुकामयम् ॥१७२॥


मात्स्ये—

**एवं सतोरणं कृत्वा अधिवासनमण्डपम् । ** तस्याप्युत्तरतः कुर्यात् स्नानमण्डपमुत्तमम् । तदर्द्धेन त्रिभागेन चतुर्भागेन वा पुनः ॥१७३॥


तस्य अधिवास-मण्डपस्य अर्धेन तृतीयेन भागेन वा चतुर्थेन वा परिमितम् ॥१७३॥

हयशीर्षपञ्चरात्रे—

स्नानार्थं कलसार्थञ्च स्नानद्रव्यार्थमेव च । जलनिर्गमनोपेतमर्द्धेन स्नानमण्डपम् ॥१७४॥


स्नानार्थम् एकं, स्नान-कलसार्थं चैकं, स्नान-द्रव्यार्थं चैकम् एवं मण्डप-त्रयं कुर्यात्, तदेव विविच्याह—जलेति सार्धेन ॥१७४॥

ऐशान्यां कलसार्थञ्च तस्माद्दक्षिणगोचरे । ** पूर्वस्यां मण्डपं कुर्याद्यागद्रव्यार्थमायतम् ॥१७५॥ ** इति ।

स्नान-द्रव्यम् एव याग-द्रव्यं, स्नानस्यैवात्र प्राधान्यात् ॥१७५॥

अथ ध्वजपताकास्थापनम्

**अथ वाद्यादिभिर्दिव्यैर्विचित्रैर्मङ्गलस्वनैः । ** कृत्वा महोत्सवं न्यसेत् पताका विधिवद्गुरुः ॥१७६॥
अथ तद्विशेषः

भविष्ये—

पूर्वणेन्द्रायुधाकारामाग्नेयामग्निसन्निभाम् । कृष्णाञ्चैव तु याम्यायां नैरृत्यां तु तथैव च ॥१७७॥ ** इन्द्रगोपनिभाकारां वारुण्यां चैव दापयेत् । ** शिरीषपुष्पप्रतिमां वायव्यां विनिवेशयेत् । कौवेर्यां पीतवर्णां तु ऐशान्यां पाण्डुरा भवेत् ॥१७८॥

मात्स्ये—

**ध्वजादिरोपणं कार्यं मण्डपस्य समन्ततः । ** ध्वजांश्च लोकपालानां सर्वदिक्षु निवेशयेत् । पताका जलदाकारा मध्ये स्यान्मण्डपस्य तु ॥१७९॥


मत्स्य-पुराणे ध्वज-पताकयोर् अभेदाभिप्रायेण ध्वजाभिरोपणम् इत्याद्य् उक्त्वा पश्चात् पताका जलदाकारेत्य् उक्तम् । तत्-तद्-विशेषश् च हयशीर्ष-पञ्चरात्रतो व्यक्तो भावी ॥१७९॥

हयशीर्षपञ्चरात्रे—

**पञ्चहस्तप्रमाणं तु ध्वजं कुर्याद्विचक्षणः । ** वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसम्मितम् । सप्तहस्तोच्छ्रितं चास्य दण्डं कुर्यात् सुरोत्तम ॥१८०॥


**सप्तहस्तास्ततो दीर्घा विस्तृता द्वादशाङ्गुलाः । ** द्विपञ्चहस्तदण्डेषु पताकास्तु निवेशयेत् ॥१८१॥

द्विपञ्चदश, यद्वा, द्वौ पञ्च चेत्येवं सप्त तावद् धस्त-प्रमाण-दण्डेषु, एवं पताकाया ध्वज-दण्ड-साम्यम् उक्तं स्यात् ॥१८१॥

**वाह्यदेशे मण्डपस्य तोरणाभ्यन्तरे तथा । ** अष्टौ ध्वजाः स्थापनीयाः पूर्वादिक्रमयोगतः ॥१८२॥ **अरुणोऽग्निनिभश्चैव कृष्णः शुक्लोऽथ पीतकः । ** रक्तवर्णस्तथा श्वेतः सर्ववर्णस्तथैव च ॥१८३॥
अथ ध्वजाद्यर्पणम् लोकपालपूजाविधिश्च

हयशीर्षपञ्चरात्रे—

**कुमुदः कुमुदाख्यश्च पुण्डरीकोऽथ वामनः । ** शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः । इत्यते विष्णुलोकस्य दिक्पालगणनायकाः ॥१८४॥

न्यसेत् पताका विधिवद् गुरुः इति लिखितम्; तद् एवाभिव्यञ्जयति—कुमुद इत्यादिना ॥१८४॥

कोटिसङ्ख्यगुणैर्युक्ता पूजनीया यथाविशि ॥१८५॥


यथादिशीति पूर्वाद्य्-अष्टदिक्षु क्रमेण कुमुदादयोऽष्ट पूजनीया इत्यर्थः ॥१८५॥

मात्स्ये—

**गन्धपुष्पादिकं कुर्यात् स्वैः स्वैर्मन्त्रैरनुक्रमात् । ** बलिञ्च लोकपालेभ्यः स्वस्वमात्रैर्निवेदयेत् । ऊर्ध्वे तु ब्रह्मणे देयस्त्वधस्ताच्छेषवासुकेः ॥१८६॥


वासुकेः अनन्तस्य, शेषवासुकेर् इति पाठेऽपि अर्थस् तु स एव ॥१८६॥

संहितायान्तु ये मन्त्रास्तद्दैवत्याः श्रुतौ स्मृताः । तैः पूजा लोकपालानां कर्तव्या हि समन्ततः ॥१८७॥


हयशीर्षपञ्चरात्रे—

ओं आयाहीन्द्र महाराजाधिराज वज्रहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ पूर्वद्वारमभिरक्ष रक्षेत्यावाह्य ओं त्रातारमिन्द्रमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१८८॥ **ओं आयाहि चित्रभानो महाराजाधिराज शक्तिहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ आग्नेयीं दिशं रक्ष रक्षेत्यावाह्य ** ओं अग्निर्मूर्द्धा दिव इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१८९॥ **ओं आयाहि यम महाराजाधिराज दण्डहस्त स्वबलवाहनावृत रक्तान्तायललोचन इहागच्छागच्छ तिष्ठ तिष्ठ दक्षिणद्वारमभिरक्ष रक्षेत्यावाह्य ** ओं वैवस्वतं संयमनमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१९०॥ ओं आयाहि नैरृत महाराजाधिराज स्वबलवाहनावृत खड्गहस्त महावल इहागच्छागच्छ तिष्ठ तिष्ठ नैरृतीं दिशमभिरक्ष रक्षेत्यावाह्य ओं एष ते निरृते इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१९१॥ ओं आयाहि वरुण महाराजाधिराज पाशहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ पश्चिमद्वारमभिरक्ष रक्षेत्यावाह्य ओं उरु हि राजा वरुणश्चकारेत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१९२॥ ओं आयाहि पवन महाराजाधिराज ध्वजहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ वायवीं दिशमभिरक्ष रक्षेत्यावाह्य ओं वात आ वातु भेषजमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१९३॥ **ओं आयाहि सोम महाराजाधिराज शङ्खहस्त स्वबलाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ उत्तरद्वारमभिरक्ष रक्षेत्यावाह्य ** ओं सोमं राजानमित्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् । ॥१९४॥ ओं आयाहीशान महाराजाधिराज शूलहस्त स्वबलवाहनावृत इहागच्छागच्म तिष्ठ तिष्ठ ऐशानीं दिशमभिरक्ष रक्षेत्यावाह्य ओं ईशानाय नमस्येत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् । ॥१९५॥ **ओं आयाहि चतुर्मुख सर्वलोकाधिपते स्रुक्स्रुवहस्त स्वबलवाहनावृत इहागच्छागच्छ तिष्ठ तिष्ठ ऊर्ध्वां विशमभिरक्ष रक्षेत्यावाह्य ** ओं हिरण्यगर्भः समवर्ततान इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१९६॥ ओं आयाहि अनन्त महाराजाधिराज स्वबलवाहनावृत लाङ्गलहस्त इहागच्छागच्छ तिष्ठ तिष्ठ अधोदिशमभिरक्ष रक्षेत्यावाह्य ओं नमोऽस्तु सर्पेभ्य इत्यनेनार्घ्यं दत्त्वा गन्धादिभिरर्चयेत् ॥१९७॥
अथ प्रतिष्ठाकर्मारम्भः
द्रव्याणि पर्वाण्याहृत्य कृत्वा कृष्णार्चनादिकम् । वेद्यामालिख्य चक्रादि शय्यादि रचयेत्ततः ॥१९८॥


द्रव्याणि पूजा-पकरणादीनि, वेद्याम् अधिवासन मण्ड-पान्तर् निर्मितायाम् । आदि-शब्दैर् गृहीतम् अग्रे व्यक्तं भविष्यति ॥१९८॥

तथा च तत्रैव—

**पाषण्डान् नास्तिकान् सर्वान् देवब्राह्मणदूषकान् । ** दीक्षावहिष्कृतान् सर्वान् हेतुवादरतांस्तथा । निवार्य प्रारभेत् कर्म वैष्णवैर्दीक्षितैः सह ॥१९९॥


**आहृत्य सर्वद्रव्याणि स्रुक्स्रुवां विष्टराणि च । ** यज्ञपात्राणि सर्वाणि जाप्य यत्नेन देशिकः ॥२००॥


**श्वेतवस्त्रपरीधानः सोडणीषश्चन्दनोक्षितः । ** अङ्गुलीयकहस्तश्च सर्वालङ्कारभूषितः ॥२०१॥ आत्मानं विष्णुवत् पूज्य गन्धपुष्पादिभिर्गुरुः । ध्यात्वा देवं विष्णुरूपं मन्त्रात्मकमयो शुचिः ॥२०२॥


**हरिआप्रणम्य विज्ञाप्य मूर्तिपानपि पूजयेत् । ** सितैः पुष्पैर्वस्त्रयुग्मैरङ्गुलीयैरथाङ्गदैः ॥२०३॥


**निपुणैः शिल्पिभिः सार्द्धं ततः कर्म समाचरेत् । ** पञ्चगव्येन सत्कृत्य शोध्य कुम्भान् विचक्षणः । स्नापयेन्मूर्तिपान् पश्चात् कुम्भे कुम्भे तु देशिकः ॥२०४॥

किञ्च—

**व्रीहीनाहृत्य देवेशं वासुदेवेन चार्चयेत् । ** क्षिपेच्च नारसिंहेन पातालमुषलेन तु ॥२०५॥ सिद्धार्थकान् क्षिपेध्यायन् सिंहमन्त्रेण मन्त्रयेत् । रक्षोघ्नान् पञ्चगव्येन प्रोक्षयेद्भूमिमादरात् ॥२०६॥


वासुदेवेनेत्यादयो मन्त्राः ॥२०५-२०६॥

**ततस्ताम्रमयं कुम्भं मृण्मयं वा नवं दृढम् । ** जलपूर्णं स्थापयित्वा सरङ्गकरकायुतम् । ऐशान्यामर्चयेत्तस्मिन् साङ्गं गन्धादिना हरिम् ॥२०७॥


**अस्त्रमन्त्रेण करकां शतवारांस्तमर्चयेत् । ** तद्धाराच्छिन्नया सिञ्चेन्मण्डपं तं प्रदक्षिणम् ॥२०८॥

तम् अधिवासार्थ-निर्मितं मण्डपम् ॥२०८॥

कुम्भं तं पृष्ठतो नीत्वा कुम्भमन्त्रेण देशिकः । व्रीहीन् संस्कृत्य सर्वांस्तु कुम्भं तत्रोपरि न्यसेत् ॥२०९॥


**पुनः सम्पूजयेद्विष्णुं कलसेषु समाहितः । ** वस्त्रयुग्मेन कलसमेकेन करकां बुधः । छादयित्वा ततो गृह्य करणीं मण्डलीं नयेत् ॥२१०॥


**चतुरस्रं चतुर्द्वारं चक्राब्जं षोडशारकम् । ** पञ्चवर्णेन चूर्णेन द्वादशारमथापि वा ॥२११॥


चक्राब्ज-सञ्ज्ञं मण्डपम्, तच्च षोडशारं द्वादशारं वा चक्रम् अष्टदल-पद्म-गर्भं तद्-बहिश्चतुरस्रं चतुर्द्वारं लिखेद् इति ज्ञेयम् ॥२११॥

**वेद्यामेवं लिखित्वा च मण्डपे पूर्वदक्षिणे । ** चतुर्हस्तं चतुष्कोणं मध्ये पङ्कजभूषितम् । चतुर्द्वारं तु चूर्णेन स्वस्तिकं मण्डलं लिखेत् ॥२१२॥


तस्योर्द्ध्वं न्यस्य पर्यङ्कं कुशान् संस्तारयेत्ततः । योगे योगेति मन्त्रेण गन्धतोयेन प्रोक्षयेत् ॥२१३॥


**तूलिकां विन्यसेत्तत्र दिव्यपट्टांशुकान्विताम् । ** उपाधानद्वयं कृत्वा पार्श्वे गेण्डुकमेव च । कपोलधारणं कृत्वा कुर्यादूर्द्ध्वं वितानकम् ॥२१४॥ **पुष्पमालापरिक्षिप्तं मुक्ताहारोपशोभितम् । ** कुर्यात् पुष्पगृहं हृद्यं मलयागुरुधूपितम् ॥२१५॥


**विद्याधिपास्तु सम्पूज्याः शक्त्या दिक्षु विदिक्षु च । ** विष्णुर्मधुनिहा चैव तथैव च त्रिविक्रमः । वामनश्चापि दिक्ष्वेते पूर्वाद्यासु व्यवस्थिताः ॥२१६॥


**श्रीधरः श्रीहृषीकेशः पद्मनाभस्तथैव च । ** दामोदरश्च सम्पूज्य आग्नेयादिव्यवस्थिताः ॥२१७॥ **एवमर्च्य ततः पश्चादैशान्यां स्नानमण्डपे । ** चतुःस्तम्भयुते रम्ये तन्मध्ये वेदिका शुभा ॥२१८॥ **चतुरस्रा चतुर्दिक्षु जलनिर्गमनान्विता । ** क्षीरिवृक्षोद्भवं पीठं मध्ये तत्र निवेशयेत् ॥२१९॥

तस्य स्नान-मण्डपस्य मध्ये या वेदिकास्ति, तत्र तस्यां पीठं निवेशयेत् ॥२१८-२१९॥

अथ कलसाधिवासनम्

तत्रैव—

**स्नानद्रव्याणि सर्वाणि समानीय विचक्षणः । ** निक्षिप्य स्नानकुम्भेषु कुम्भांस्तानधिवासयेत् ॥२२०॥


कलसाधिवासनादिकं मत्स्य-भविष्यानुक्तम् अपि भगवता श्री-हयशीर्षेणोक्तत्वाद् उपयुक्ततया अत्र लिख्यते—स्नानेत्यादिना । शात-कुम्भमयान् इत्यादिना कुम्भ-लक्षणं चोक्तम् एवास्ति । सिद्ध-द्रव्याणि चाग्रे स्वयमेव वक्तव्यानि वट्योडुम्बरे न्यस्येद् इत्यादिना ॥२२०॥

रत्नानि च चतुर्दिक्षु सिद्धद्रव्यान्विताः शुभाः । कलसाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥२२१॥


**वटोडुम्बरकाश्वत्थ-चम्पकाशोक-श्रीद्रुमान् । ** पलाशार्जुनप्लक्षांश्च कदम्बकुलाम्रजान् । पल्लवांस्तु समानीय पूर्वङ्कुम्भे विनिक्षिपेत् ॥२२२॥


**पद्मकं रोचनां दूर्वांई दर्भपिञ्जलमेव च । ** जातिपुष्पं कुन्दपुष्पं चन्दनं रक्तचन्दनं । तमालं तगरं चैव वञ्जुलं दक्षिणे न्यसेत् ॥२२३॥


**सुवर्णं रजतं चैव कूलद्वयमृदं तथा । ** नद्याः समुद्रगामिन्या विशेषाज्जाह्नवीजलम् । गोमयञ्च यवान् शालीन् तिलांश्चैव परे न्यसेत् ॥२२४॥


परे पश्चिम-कुम्भे ॥२२४॥

**विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीम् । ** गुडुचीं सहदेवीञ्च विन्यसेच्च महौषधीः ॥२२५॥


विष्णु-पर्ण्याद्याश् च उत्तरे न्यसेद् इति ज्ञेयम् ॥२२५॥

**फलान्युदकयुक्तानि आग्नेय्यां विन्यसेद्घटे । ** पञ्चगव्यन्तु नैरृत्यां कुम्भे कृत्वाभिमन्त्रितम् ॥२२६॥

फलानि बदरादीनि आम्र-रसादीनि वा ॥२२६॥

**वटाश्वत्थपलाशानां बिल्वस्योडुम्बरस्य च । ** कषायोदकसंयुक्तं वायव्यां कलसं न्यसेत् ॥२२७॥ **कुमारीममृताञ्चैव शतमूलीं शतावरीम् । ** सहदेवीं वचां सिंहीं बलां ब्राह्मीं सुलक्षणाम् । ऐशान्यामपरे कुम्भे मङ्गलाख्ये निवेशयेत् ॥२२८॥


**वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् । ** जाह्नवीबालुकातोयं विन्यसेदपरे घटे ॥२२९॥


**वराह-वृषनागेन्द्र-विषाणोद्धृतमृत्तिकाम् । ** कूलद्वयमृदं नद्यां विन्यसेदपरे घटे ॥२३०॥


**मृत्तिकां पद्ममूलस्य कुशस्याप्यपरे घटे । ** तीर्थपर्वतमृद्भिस्तु युक्तमप्यपरे घटे ॥२३१॥ **नागकेशरपुष्पञ्च काश्मीरमपरे घटे । ** चन्दनागुरुकर्पूरैः पूरितं चापरं न्यसेत् ॥२३२॥


**वैदूर्यं विद्रुमं मुक्तां स्फाटिकं वज्रमेव च । ** एतान्येकत्र निक्षिप्त्वा स्थापयेद्देवसत्तम ॥२३३॥


एकत्र एकस्मिन् घटे ॥२३३॥

**नदीनदतडागानां सलिलैरपरं न्यसेत् । ** एकाशीतिपदे चान्यान् मण्डपे कलसान्न्यसेत् ॥२३४॥ **पूरितान् गन्धतोयेन धान्यस्थांस्तास्तु मन्त्रयेत् । ** श्रीसूक्तेन समस्तेन सर्वानेव सकृत् सकृत् ॥२३५॥
अथार्घ्यद्रव्यादि-स्थापनम्

तत्रैव—

कलसानधिवास्यैवमर्घ्यादीन् विनिवेशयेत् ॥२३६॥


**यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा । ** तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् ॥२३७॥ **पद्मं श्यामलतां दूर्वां विष्णुपणीं तथा कुशान् । ** पाद्यार्थं दक्षिणे भागे स्थापयेद्देशिकोत्तमः ॥२३८॥ **स्थापयेत् पश्चिमे भागे मधुपर्कं सुसंवृतम् । ** कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभम् । उत्तरे स्थापयेद्भागे द्रव्यमाचमनाय तु ॥२३९॥


**आग्नेय्यां स्थापयेत् पात्रं पूर्णं दूर्वाक्षितैर्बुधः । ** नीराजनाथं देवेश देवदेवस्य सर्वदा ॥२४०॥


**नैरृत्यामुदकं गन्धयुक्तं स्नानाय विन्यसेत् । ** उद्वर्तनाय वायव्यां गन्धपिष्टं निवेशयेत् ॥२४१॥ **न्यसेदामलकं पात्रे मुरामांसीयुतं शुभम् । ** सहदेवीं सदाभद्रां कुशाग्रां रजनीं तथा ॥२४२॥ **ऐशान्यां विन्यसेत् पात्रे शिरीषं सूर्यवणिनीम् । ** निर्मञ्छनाय देवस्य स्थापकः सुसमाहितः ॥२४३॥ अष्टौ दिक्षु न्यसेद्विद्वान् लौहयष्टिप्रदीपकान् ॥२४४॥


**शङ्खैचक्रञ्च श्रीवत्सं कौस्तुभं पङ्कजादिकम् । ** हेमाद्रिपात्रे कृत्वाथ गोमयेनाथ वा पुनः ॥२४५॥ नीराजनाय देवस्य तथा वै पुष्पजातयः ।
स्थापनीयास्तथा चान्ये माङ्गल्याः स्नानचोदिताः ॥२४६॥
अथ श्रीमूर्तेः स्नानमण्डपे प्रवेशनम्
**शिल्पिशालां ततो गत्वा गीतवाद्यादिनिस्वनैः । ** आनयेद्भगवन्मूर्ति सह पिण्डिकया ततः ॥२४७॥

ततः शिल्पि-शालातः, श्री-मूर्तिं पिण्डिका-सहितामानयेत् ॥२४७॥

**अथ विंशतिकुम्भाद्भिः स्नानमण्डपतो वहिः । ** स्नापयित्वा परीक्षेत श्रीमूर्ति तां विचक्षणः ॥२४८॥


विंशति-कुम्भ-जलेन स्नान-मण्डपाद् बहिः स्नापयित्वेति केषाञ्चित् सतां मतं लिखितम् ॥२४८॥

अथवा शिल्पिशालायां स्नापयित्वा यथाविधि । प्रवेशयेत् पिण्डिकायां तां विप्रैः स्नानमण्डपम् ॥२४९॥


श्री-हयशीर्ष-भगवन्मतं लिखति— अथवेति । तच्च अग्रे तद्-वचनतो व्यक्तं भावि, विप्रैः कृत्वा तां भगवन्-मूर्तिं पिण्डिका-सहितां स्नान-मण्डपं प्रवेशयेत् ॥२४९॥

तथा च भविष्ये—

**आचार्यो मूर्तिपैश्चैव ऋत्विग्भिः सह संयुतैः । ** विष्णुव्रतधरैः शान्तैः विष्णुशास्त्रानुरञ्जितैः ॥२५०॥ ** अलोलुपैरहीनाङ्गैरार्यदेशसमुद्भवः । ** विष्णुभक्तिपरैर्धीरैर्विप्रैर्भागवतैः सह ॥२५१॥


**द्वात्रिंशद्भिः षोडशभिः अष्टाभिस्तु क्रमेण तु । ** आनयित्वा तु देवेशं स्थापयेत् स्नानमण्डपे ॥२५२॥

अष्टाभिस् त्व् इत्यत्र तु-शब्दो वार्थे । ततश्च विकल्पो मूख्य-कल्पाशक्ताव् अल्प-सङ्ख्य-ब्राह्मण-वरणानुसारेण श्री-मूर्त्य्-अनुसारेण वा ज्ञेयः । क्रमेणानीय, न तु हठाद् एकदैव वेगेनेत्यर्थः ॥२५२॥

हयशीर्षपञ्चरात्रे—

**अत्र सञ्ज्वालयेद्वह्निं वैष्णवं विधिना गुरुः । ** ऐशान्यां गुरुकुण्डे तु प्राङ्मुखोदङ्मुखोऽपि वा ॥२५३॥

वैष्णवं मण्डप-मध्ये शय्यायां श्री-विष्णु-लक्ष्म्योः सङ्गमाद्रेतोरूपोऽग्निर् उद्भूत इति भावनया जनितो यस् तं, एतद् विशेषश् च दीक्षा-विधौ पूर्वं लिखितोऽस्ति । प्राङ्-मुखः उदङ्-मुखो वा, विसर्ग-लोपेऽपि सन्धिर् आर्षः ॥२५३॥

**तत्रैव होमयेद्विष्णुं गायत्र्या धृतमादरात् । ** अष्टोत्तरशतं हुत्वा सम्पातविधिना सुधीः ॥२५४॥ **सम्पाताज्येन कलसान् प्रोक्ष्य देशिकसत्तमः । ** लिप्तायां कारुशालायामुपतिष्ठेत सयतः ॥२५५॥


कारुः—शिल्पी ॥२५५॥

**ब्राह्मणवैष्णवैः सार्द्धं मूर्तिपैः शिल्पिभिः सह । ** महता ब्रह्मघोषेण सहायैर्बलवत्तरैः ॥२५६॥ **काहलशङ्खशब्दैश्च भेरीमुरजनिस्वनैः । ** वीणावेणुस्वनैर्हृद्यदिव्ययन्त्रस्वनैस्तथा । आचार्यः प्राङ्मुखो भूत्वा कुर्यात् कौतुकबन्धनम् ॥२५७॥


कौतुकं—मङ्गल-सूत्रम् ॥२५७॥

**वैष्णवे सिपिविष्टेति गौरसिद्धार्थकेन तु । ** ऊर्णामयेन सूत्रेण निम्बादूर्वान्वितेन च । दुकूलवस्त्रैर्बद्ध्वा तु दक्षिणे बध्नीयात् करे ॥२५८॥


देशिकस्यापि कर्तव्यं करे कौतुकबन्धनम् ॥२५९॥


ततो विकल्प्य देवास्त्रं तण्डुलैः पञ्चरङ्गकैः । तन्मध्ये प्रतिमां स्थाप्य स्नाप्य चैव यथाविधि ॥२६०॥


देवास्त्रं चक्रं, विकल्प्य विरचय्य ॥२६०॥

**वस्त्रयुग्मेन सञ्छाद्य पूज्य गन्धादिना तु ताम् । ** चामरैस्तालवृत्तैश्च वीजयेन्मङ्गलान्विताम् ॥२६१॥

मङ्गलानि दधि-दूर्वादीनि, तैर् अन्वितां, तानि निवेद्येत्यर्थः । तथा च मात्स्ये—मङ्गलानि निवेद्यानि इत्यादि, तच्चाग्रे माङ्गल्ये लेख्यम् । मङ्गलान्वितम् इति क्लीबैक-वचनान्त-पाठोऽपि, ततश्च क्रिया-विशेषणम् , अर्थश्च स एव ॥२६१॥

एरकायां निवेश्याथ प्रतिमां संस्तवेत्ततः ॥२६२॥

एरका तृण-विशेषः, तन्-मयास् तरणे श्री-मूर्तिं स्थापयित्वा सम्यक् स्तवेत् स्तुवीत ॥२६२॥

अथ तत्र स्तवः

**नमस्तेऽर्चे सुरेशानि प्रणीते विश्वकर्मणा । ** प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ॥२६३॥ **त्वयि सम्पूजयामीशं नारायणमनामयम् । ** रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव । ** एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपम् ॥२६४॥ ** इति ।

स्तुतिमेवाह—नमस्ते इति द्वाभ्याम् । प्रकर्षेण भावितस्य स्वयम् एवोत्पादितस्य अशेष-जगतो धात्रि धारण-पोषण-कर्त्रि । यद्वा, प्रभावितं प्रभाव-युक्तं कृतम् अशेषं यया, सा चासौ जगद्-धात्री च, तत् सम्बोधनम् ॥२६३-६४॥

अथ शिल्पिपरितोषणम्

ततः सपरिवारांश्च श्रीमूर्त्याविर्विधायिनः । शिल्पिनोऽभ्यर्च्य विविधैर्द्रव्यैर्वावयैश्च तोषयेत् ॥२६५॥


वाक्यैश्च पश्चात् विविधैः क्षमध्वम् इत्यादि-रूपैः ॥२६५॥

तथा च भविष्ये—

**ततो विष्णुं समानीय सुधौतं सुपरीक्षितम् । ** शिल्पिनः पूजयेत् पश्चाद्वस्त्रालङ्करणादिभिः । अन्ये च पूजनीयाश्च ये चात्र परिचारकाः ॥२६६॥


मात्स्ये—

**आनीय लिङ्गमर्चां वा शिल्पिनः पूजयेद्बुधः । ** वस्त्राभरणरत्नैश्च ये च तत्परिचारकाः । क्षमध्वमिति तान् ब्रूयाद्यजमानो ह्यतःपरम् ॥२६७॥


हयशीर्षपञ्चरात्रे—

**पूजयित्वा तु प्रतिमां शिल्पिनं तोषयेत्ततः । ** गन्धपुष्पादिभिर्विप्रन्तोषयेत् कटकादिभिः ॥२६८॥

पूजयित्वेति शिल्पि-शालायां पूजानन्तरमेव शिल्पि-तोषणम् अभिप्रेतम् ॥२६८॥

सर्वेऽथ कर्मिणस्तस्यास्तस्मिन् काले पृथक् पृथक् । ** क्षमापयोत तान् सर्वान् प्रियप्रश्नेन सर्वथा ॥२६९॥ ** इति ।
अथ स्नपनम्
**कुशाद्यास्तरणे न्यस्य पीठे वा स्नापयेत्ततः । ** दिव्यवाद्यादिना पञ्चकाषायसलिलादिभिः ॥२७०॥

कुशैः, आदि-शब्दात् कोमल-वंश-दलादिभिर् यदास्तरणं शय्याविशेषस् तस्मिन् न्यस्य श्री-मूर्तिम् । एतच्च प्राग्-अग्रैर् दर्भ-वंशैस् तु राजन् दिव्य-जलैः शुभैः इत्यादिनाधिवासन-मण्डपान्तर् यत् शय्याविरचणं भविष्योक्तं, तद्-अनुसारेण केषाञ्चिच् छिष्टानां सम्मतं लिखितम् । भद्र-पीठे वेति च हयशीर्षोक्तानुसारेण । अत्र च यथात्म-सम्प्रदायमेव व्यवहर्तव्यम्, एवम् अन्यत्राप्य् ऊह्यम् । दिव्येन वाद्येन, आदि-शब्दाद् गीतेन नृत्येन वेद-घोष-नाम-सङ्कीर्तनादिना च । पञ्चकषायाश्च वटाश्वत्थ-पलाश-बिल्वोडुम्बरास्तैः संस्कृत-जलेन । आदि-शब्दात् पञ्च-गव्यादि । एतच् चाग्रे व्यक्तमेव भावि ॥२७०॥

तथा च भविष्ये—

स्नपनं तु ततः कार्यं दिव्यमङ्गलनादितम् । यथानुरूपैर्विविधैर्वादत्रानिनदैः शुभैः । काषायैः पञ्चगव्यैश्च तीर्थवल्मीकमृज्जलैः ॥२७१॥

काषायैः पञ्च-कषाय-जलैः, पञ्च-गव्यैस् तीर्थ-जलैर् वल्मीक-मृज्-जलैश् चेत्य् एवं चतुर्भिः ॥२७१॥

अथ तत्र मन्त्राः

समुद्रज्येष्ठा सलिलस्य मध्याद्-या आपो दिव्या उत वा श्रवन्ति । ** यासां राजा वरुणो याति मध्ये यासु राजा वरुणो यासु सोमः ॥२७२॥ ** इति ।

समुद्र-ज्येष्ठा इत्यादि-चतुर्मन्त्रैः क्रमेण स्नपनमिति ज्ञेयम् ॥२७२॥

मात्स्ये—

**ततो लिङ्गमथार्चां वा नीत्वा स्नपनमण्डपम् । ** गीतमङ्गलशब्देन स्नपनं तत्र कारयेत् ॥२७३॥ **पञ्चगव्यैः कषायेण मृद्भिर्भस्मोदकेन च । ** शौचं तत्र प्रकुर्वीत वेदमन्त्रचतुष्टयात् ॥२७४॥


पञ्च-गव्यः पञ्च-कषायैश् च तीर्थादि-मृद्भिः भस्मोदकेन चेत्य् एवं चतुर्भिः । समुद्र-ज्येष्ठा इत्यादि-वेद-मन्त्र-चतुष्टयात् क्रमेण स्नपनं कारयेत् ॥२७४॥

हयशीर्षपञ्चरात्रे—

**ध्रियमाण-वितानेन ब्रह्मघोषेण तां बुधः । ** तत्र पीठे समारोप्य भद्रं कर्णेति कीर्तयन् । स्नापयेच्छुद्धतोयेन शुद्धवत्या तु देशिकः ॥२७५॥


शुद्धवत्या मन्त्रेण ॥२७५॥

**स्नापिता गन्धतोयेन शिल्पिदोपैर्विमुच्यते । ** मन्त्रैर्गन्धादिनाभ्यर्च च्छादयेच्छुद्धवाससा ॥२७६॥
अथ नेत्रोन्मीलनम्
**ततश्वोन्मीलयेन्नेत्रे तन्मन्त्रेण विचक्षणः । ** तयोश्च ज्योतिरुत्कीर्य शुभां दृष्टिं प्रकल्पयेत् ॥२७७॥

उत्कीर्य उज्ज्वाल्य दृष्टि-भेदान् ज्ञात्वा दृष्टिं शुभां प्रकल्पयेद् इत्यर्थः ॥२७७॥

तथा च मात्स्ये—

देवं प्रस्तरणे कृत्वा नेत्रे ज्योतिः प्रकल्पयेत् ॥२७८॥

हयशीर्षपञ्चरात्रे च—

**यजमानस्ततो भक्त्या देशिकं परितोषयेत् । ** कांस्यदोहां वस्त्रकण्ठां ताम्रपृष्ठां पयस्विनीम् ॥२७९॥ **रौप्याङ्घ्रिं स्वर्णशृङ्गीं तां सुशीलां तरुणीं शुभाम् । ** प्रणम्य विधिना धेनुं दद्याद्वाग्भिः क्षमापयेत् ॥२८०॥


अवधार्य जगच्छान्तिं नेत्रे चोन्मीलयेद्बुधः । चित्रं देवेति मन्त्रेण ज्योतिर्देवस्य चोत्किरेत् ॥२८१॥


**अग्निज्योतीतिमन्त्रेण ज्ञात्वा दृष्टिं प्रकल्पयेत् । ** दृष्टिभेदांस्तु सकलान् वर्णयिष्ये तवोपरि ॥२८२॥ तथा च तत्रैव लेप्यार्चास्थापनप्रसङ्गे— चित्रं देवेति-मन्त्रेण सोम्यां दृष्टिं तु कारयेत् ॥२८३॥


**दृष्टयो बहुधा नाट्यशास्त्रेषु परिकीर्तिताः । ** किं त्वत्रोद्देशतो वक्ष्ये दृष्टीनां लक्षणं द्विज ॥२८४॥ **हसिता घूर्णिता क्षिप्ता तथान्तर्वेदनातुरा । ** विदिष्ट लज्जिता क्रूरा प्रसन्ना मदनातुरा ॥२८५॥

हसिताघूर्णितादीनाम् अवलोकन-भेदेनेषद् अवान्तर-भेदः कल्पयितव्यः ॥२८५॥

लज्जिता कम्पिता तृप्ता दीनान्तर्निहिता तथा । विशालान्तरविक्षिप्ता ऊर्ध्वक्षिप्ता सुवर्णिता ॥२८६॥


**पार्श्वावलोकिनी चाधःक्षिप्ता नासाग्रगोचरा । ** समावलोकिनी क्रान्ता योगदृष्टिस्तथा शुभा ॥२८७॥ **वीभत्सा करुणालोका ईषत्क्षिप्ता च केकरा । ** विभ्रान्ता लूलिता चान्तःकोपहर्षसमन्विता । ** एवं ज्ञात्वा दृष्टिभेदेन् प्रतिमासु प्रयोजयेत् ॥२८८॥ ** इति ।
अथ नेत्राभ्यञ्जनम्

तत्रैव—

**ततः शुक्लानि पुष्पाणि घृतसिद्धार्थकं तथा । ** दूर्वा कुशाग्रं देवस्य दद्याच्छिरसि देशिकः । पठन् रक्षोहनं सर्वमन्त्रमाथर्वणं तथा ॥२८९॥


**रौप्यं भाजनमादाय मधुरत्रयसंयुतम् । ** मधुवातेति मन्त्रेण मन्त्रयित्वाष्टधा पुनः ॥२९०॥


**शलाकया सुवर्णस्य नेत्रे चाभ्यञ्जयेद्गुरुः । ** हिरण्यगर्भमन्त्रेण इमं मे इति कीर्तयेत् ॥२९१॥
अथार्घ्यार्पणादि
**समर्प्य चार्घ्यं देवाय या दिव्या आप इत्यतः । ** इन्द्रादिभ्यो बलिं दद्यात् सिद्धार्थघृतपायसैः ॥२९२॥
अथार्घ्यद्रव्याणि

मात्स्ये—

दध्यक्षतकुशाग्राणि क्षीरं दूर्वां तथा मधु । ** यवाः सिद्धार्थकास्तद्वदष्टाङ्गोऽर्घ्यः फलैः सह ॥२९३॥ ** इति ।

अक्षताश्चात्र खण्ड-तण्डुलाः, भविष्योक्तार्घ्य-द्रव्याणि च पूर्वं नित्य-पूजायाम् अर्घ्य-प्रसङ्गे लिखितानि सन्ति । भविष्य-हयशीर्षोक्तार्घ्य-द्रव्य-भेदश् च फलादि-भेदं कल्पयित्वा सोढव्यः, एवम् अन्यत्रापि ॥२९३॥

अथ माङ्गल्याचरणामङ्गलनिवारणञ्च

देवं पुष्पैरलङ्कृत्य धूपयित्वा प्रणम्य च । परिधाप्य च वस्त्रे द्वे ब्राह्मणान् स्वस्ति वाचयेत् ॥२९४॥


**तेभ्योऽथ दक्षिणां दत्त्वा होमाचार्याय गामपि । ** आवाह्य मन्त्रयेद्देवं नमो भगवते इति ॥२९५॥ विलिखन् काच्चनेनाथ श्रीमूर्तिं मङ्गलानि तु । कारयेद्गीतवाद्यादौन्यमाङ्गल्यञ्च वारयेत् ॥२९६॥

तथा च भविष्ये—

**अर्घ्यं दत्त्वा नमस्कृत्य आर्चयित्वा यथाक्रमम् । ** दत्त्वा सगुग्गुलं धूपं देवदेवस्य धीमतः । प्रच्छाद्य वस्त्रयुग्मेन ततः कार्यं तु लक्षणम् ॥२९७॥


लक्षणं काञ्चनेन लिखनादि, तच्च श्रीवत्स-लक्षणादि ॥२९७॥

मात्स्ये—

**सर्वतस्तु बलिं दत्त्वा सिद्धार्थघृतपायसम् । ** शुक्लपुष्पैरलङ्कृत्य घृतगुग्गुलधूषितम् । विप्रेण वाचनं कुर्यात् दत्त्वा शक्त्या च दक्षिणाम् ॥२९८॥


**गामेकां कनकं तद्वत् स्थापकाय निवेदयेत् । ** लक्षणं कारयेद्भक्त्या मन्त्रेणानेन वै द्विजः ॥२९९॥
तत्र मन्त्रः
**ओं नमो भगवते तुभ्यं शिवाय हरये नमः । ** हिरण्यरेतसे विष्णो विष्णुरूपाय ते नमः ॥३००॥ **मग्त्रोऽयं सर्वदेवानां नेत्रज्योतिःस्वपि स्मृतः । ** एवमामन्त्र्य देवेशं काञ्चनेन विलेखयेत् ॥३०१॥


**मङ्गलानि निवेद्यानि ब्रह्मघोषञ्च गीतकम् । ** ऋद्ध्यर्थं कारयेद्विद्वानमाङ्गल्यनिवारणम् ॥३०२॥
अथ पुनर्विशेषतः स्नपनम्
**हस्तमात्रमिते भद्रपीठे क्षीरितरूद्भवे । ** विन्यस्य स्नापयेद्देवं पञ्चगव्यादिभिस्ततः ॥३०३॥


क्षीरितरवः क्षीर-युक्त-वृक्षा उडुम्बरादयस् तद्-उद्भवे ॥३०३॥

मात्स्ये—

**गजाश्वरथ्यावल्मीकवराहोत्खातमण्डलात् । ** अग्न्यागारात्तथा तीर्थाध्रदाद्गोमण्डलादपि । कुम्भेषु मृत्तिकां दद्यादुद्धृतासीति मन्त्रवित् ॥३०४॥


शन्नो देवीत्यपां मन्त्र आपो हिष्ठेति या ऋचः । सावित्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ॥३०५॥


मन्त्रविद् इत्युक्तम्; तन्-मन्त्रान् एवाभिव्यञ्जयति—शन्न इति । अपां मन्त्रो यः, याश् च आपो हिष्ठेत्य् ऋचः, त एव स्नाने मन्त्रा इत्यर्थः । अत्र पञ्च-गव्य-पञ्च-कषायेणेत्यादि-पूर्व-लिखित-मात्स्य-वचनात् पञ्च-गव्यादिभिश् चतुर्भिः समुद्र-ज्येष्ठा इत्यादि-मन्त्र-चतुष्टयेन यथाक्रमं पूर्ववदादौ स्नपनमिति केषाञ्चित् सतां मतम् । अन्यानपि दर्शयति—सावित्र्यादिना ॥३०४-३०५॥

**आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । ** तेजोऽसीति घृतं तद्वद्देवस्य त्वेति चोदकम् । कुशमिश्रं जपेद्विद्वान पञ्चगव्यं भवेत्ततः ॥३०६॥


कुश-मिश्रम् उदकं च देवस्य त्वेति जपेद् अभिमन्त्रयेत् ॥३०६॥

**स्नाप्याथ पञ्चगव्येन दध्ना शुद्धेन वै ततः । ** दधिक्राव्णेति मन्त्रेण कर्तव्यमभिमन्त्रणम् ॥३०७॥

अथ जपानन्तरं, पञ्च-गव्येन स्नापयित्वा पञ्चामृत-स्नपनम् आह—दध्नेत्यादि ॥३०७॥

**आप्यायस्वेति पयसा तेजोऽसीति घृतेन च । ** मधुवातेति मधुना ततः पुष्पोदकेन च । सरस्वत्यै भैषज्येन कार्यं तस्याभिमन्त्रणम् ॥३०८॥

अत्र च शर्करास्थाने पुष्पोदकं ज्ञेयम् । तत्र सरस्वत्यै भैषज्येनेति मन्त्रः । एव सर्वत्रोह्यम् ॥३०८॥

**हिरण्याक्षेति मन्त्रेण स्नापयेद्रत्नवारिणा । ** कूशाम्भसा ततः स्नानं देवस्य त्वेति कारयेत् ॥३०९॥ **फलोदकेन च स्नानमग्न आयाहि कारयेत् । ** ततस्तु गन्धतोयेन सावित्र्या चाभिमन्त्रयेत् ॥३१०॥ **ततो घटसहस्रेण सहस्रार्द्धेन वा पुन । ** तस्याप्यर्द्धेन वा कुर्यादथवाष्टशतेन वा ॥३११॥


अष्ट-शतेन—अष्टोत्तर-शतेनेत्यर्थः । क्रमेण सङ्ख्यानुक्तेः ॥३११॥

**चतुःषष्ट्या तदर्द्धेन तदर्द्धेनाथवा पुनः । ** चतुर्भिरथवा कुर्याद्घट नामपि वित्तवान् ॥३१२॥ सौवर्णै राजतैर्वापि ताम्रैर्वा रीतिकोद्भवैः । कांस्यैर्वा पार्थिवैर्वापि स्नपनं शक्तितो भवेत् ॥३१३॥


रीतिकं—पित्तलम् ॥३१३॥

**सहदेवी वचा व्याघ्री बला चातिबला तथा । ** शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्चला । महौषध्यष्टकं ह्येतन्महास्नानेषु योजयेत् ॥३१४॥

सहदेव्याद्य्-ओषध्य्-अष्टकं यवाद् व्रीह्य्-अष्टकं च तथा कुम्भेषु मृत्तिकादिकं दद्याद् इति पूर्वोक्त-गजस्थानादि-मृत्तिकाष्टकं चोक्तेषु कुम्भेषु निक्षिप्य सर्वत्र स्नाने नियोजयेद् इत्यर्थः । तत्र व्याघ्री क्षुद्र-वार्ताकुः, सिंही कण्टकारिका, शाटयः शालयः, प्रियङ्गवः कङ्गवः, व्रीहयः षष्टिकाः ॥३१४॥

**यवगोधूमनीवारतिलश्यामाक्शाटयः । ** प्रियङ्गवो ब्रीहयश्च स्नानेषु परिकल्पयेत् ॥३१५॥


भविष्ये—

**पञ्चगव्यं दधि क्षीरं तथा मधु धृतं नृप । ** रत्नवारि कुशाम्भश्च फलगन्धादिकं तथा ॥३१६॥


**उपस्नानैः कषायैश्च दिव्यौषधिभिरेव च । ** वल्मीकात् पर्वत ग्राच्च सरस्तीर्थाद्घ्रदाद्गजात् । अग्न्यागारात्तु गृह्णीयादष्टमीञ्च चतुष्पथात् ॥३१७॥


पञ्च-गव्यादिकं कषायादिभिः सह गृह्णीयाद् इत्य् उत्तरेणान्वयः । उपस्नानैः स्नानोपयुक्तैर् इत्यर्थः, अष्टमीं मृत्तिकामिति शेषः ॥३१६-३१७॥

**उद्धृतासीत मत्रेण मर्दयेत्तु समालभेत् । ** उपमानिकेति प्रथमं मन्त्रोणानेन लेपयेत् ॥३१८॥

लेपयेन् मृदैव ॥३१८॥

**स्नानमन्त्रांस्ततश्चान्यान् वक्ष्यामि ते महीपते । ** गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् ॥३१९॥


**आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । ** तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥३२०॥


**एभिस्तु पञ्चभिर्मन्त्रैः प्रथमं स्नापयेद्धरिम् । ** द्वितीये दधिक्राव्णेति दध्ना च स्नानमाचरेत् ॥३२१॥


आप्यायस्वेतिमन्त्रेण क्षीरेण स्नापयेद्बुधः । तेजोऽसीति ततः पश्चाद्धृतेन स्नानमाचरेत् ॥३२२॥


**तदन्ते मधुना स्नानं मधुवाता ऋतायते । ** रत्नवारि ततः पश्चाद्धरिण्याक्षेति मन्त्रयेत् ॥३२३॥ **कुशाम्भसा ततः स्नानं देवस्य त्वेति मन्त्रयेत् । ** फलोदकैस्ततः स्नानं अग्न आयाहि वीतये ॥३२४॥


दद्यातु गन्धतोयानि सावित्र्या त्वभिमन्त्रयेत् । कारयेच्च महास्नानं ततः स्नानादनन्तरम् ॥३२५॥


**कलसानां सहस्रेण कुर्यात् पञ्चशतेन वा । ** अथवा तस्य सार्द्धेन तथा चाष्टशतेन वा ॥३२६॥ **चतुःषष्ट्या तदर्द्धेन षोडशैरष्टभिस्तथा । ** यथालाभं यथाकालं यथाविभवमात्मनः ॥३२७॥


**अकालमूलैः कलसैः सुपक्वैः सुदृढैर्नवः । ** राजतैस्ताम्रसौवर्णैः कांस्यरैतिकपार्थिवैः ॥३२८॥


**बला चातिबला चैव शङ्खपुष्पी सुवर्चला । ** सहदेवी च सिंही व वचा व्याघ्री तथैव च । ** ओषधीनां गणेनैवं स्नापयेद्देवमच्युतम् ॥३२९॥ ** इति ।
अथ विशेषान्तरम्

तत्रैव—

फलोदस्नपनात् पश्चात् चूर्णैरुद्वर्त्य शोभनैः । स्नापयित्वा कदुष्णाद्भिः स्नापयेत् शीतवारिणा ॥३३०॥


शौभनैः यवादि-सम्भवैः सुगन्धि-द्रव्ययुतैः ॥३३०॥

**चन्दनाद्यैर्विलिप्याथ शुक्लमाल्याम्बरादिना । ** भूषयित्वोपवीतं च दन्तकाष्ठं तथार्पयेत् ॥३३१॥

चन्दनेन, आद्य-शब्दात् कुङ्कुमादिभिश् च मिश्रितैर् विलिप्य, यज्ञोपवीतञ्च शक्लमेवार्पयेत, तथेति समुच्चये ॥३३१॥

**ततश्च कारयेत् स्नान सुगन्धिसलिलादिना । ** इत्येवमत्र विज्ञेयो विशेषः शिष्टसम्मतः ॥३३२॥

ततः दन्तकाष्ठार्पणाद् अनन्तरं तु दद्यात् तु गन्धतोयानि इत्यादिना फलोदक-स्नानानन्तरं यत् सुगन्धि-सलिलादिना स्नानम् उक्तं, तत् कारयेद् इत्यर्थः । सुगन्धि-सलिलञ्च तगर-मुक्तक-ह्रीवेरागुरु-तुरुष्क-चन्दन-कर्पूर-कुङ्कुम-मृगमदैः परम-सुगन्धि-द्रव्यैः संस्कृतं जलम् ॥३३२॥

तथा च हयशीर्षपञ्चरात्रे—

घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं बुधः । मसूरचूर्णनोद्वर्तेदतो देवेति कीर्तयत् ॥३३३॥


पश्चात् नेत्राभ्यञ्जनाद् अनन्तरं, शलाकया सुवर्णस्य इत्यादि-श्लोकस्य घृतेनेत्यादि-पाठात् ॥३३३॥

**क्षालयेदुष्णतोयेन सप्त ते अग्नेति देशिकः । ** चन्दनेनानुलिप्येत द्रुपदादिव इतृयचा ॥३३४॥


**नादेयैः स्नापयेत्तोयैरापो हिष्ठेति देशिकः । ** स्नापयेद्रत्नतोयेन पावमानीभिरेव च ॥३३५॥


**समुद्रं गच्छ मन्त्रेण स्नापयेच्चन्दनोदकैः । ** नागकेशरतोयेन श्रीश्च तेत्यभिषेचयेत् ॥३३६॥


**गायत्त्र्या पद्मतोयेन पञ्चमृत्तिकया ततः । ** हिरण्यवर्णाः शुचय इति मन्त्रेण सेचयेत् ॥३३७॥


पद्म-तोयेन पद्म-मूल-मृज्-जलेन, एवम् अन्यत्रापि पूर्वोक्तानुसारेणोह्यम् । पञ्च-मृत्तिकाः तीर्थादि-स्थान-पञ्चक-मृदः, ताभिश्च हिरण्येत्यादि-मन्त्रेणाभिषेचयेत् । मृत्तिकयेत्य् एक-वचनान्तम् आर्षम् ॥३३७॥

**इमं मेति च मन्त्रेण स्नापयेत् सिकताजलैः । ** वल्मीकतोयन हरिं तद्विष्णोरिति स्नापयेत् ॥३३८॥ **या ओषधीति मन्त्रेण स्नानमोषधिमङ्गलम् । ** यज्ञयज्ञेति मन्त्रेण दद्यात् काषायजं जलम् ॥३३९॥

ओषधिभिर् मङ्गलं यत् तत् स्नानम् ॥३३९॥

**पयः पृथिव्या मन्त्रेण पञ्चगव्येन स्नापयेत् । ** याः फलिनीरिति हरिं फलतोयेन सेचयेत् ॥३४०॥


**विश्वतश्चक्षुरित्युक्त्वोत्तरकुम्भेन सेचयेन् । ** मूर्धानं दिवमन्त्रेण कुर्यादुद्वर्तनं हरेः ॥३४१॥


**धात्रीफलं मुरामांसीयुतं शिरसि स्नापयेत् । ** मानस्तोकेति मन्त्रेण ततो गन्धोदकै पुनः ॥३४२॥ **गन्धद्वारेति-मन्त्रेण ततः स्नपनमाचरेत् । ** एकाशीति-पदन्यरतैर्घटैर्मलयभूषितैः । इदमापेति मन्त्रेण सर्वैरेवाभिषेचयेत् ॥३४३॥ ** इति । ** **अथवा पञ्चकाषाय-जलादिस्नपनं सकृत् । ** कार्यमन्यच्च सकलं तथा लिखितमेव तत् ॥३४४॥

पूर्वं शिल्पि-परितोषणानन्तरं कुशाद्यास् तरणे न्यस्येत्यादिना स्नपनं लिखितं, पुनश् चाधूना विशेषतः स्नपनम् एतल्-लिखितम् इत्येवं वार-द्वयं स्नपनं केषाञ्चित् सतां पद्धतिकाराणां सम्मत्यालेखि । तत्र मात्स्ये—ततो लिङ्गम् अथार्चां वा इत्यादिना स्नपनम् एकम् एवोक्त्वा तद्-अनन्तरम् एव गन्ध-वस्त्रार्पणं, ततश्चोत्थापनादिकम् उक्तम् । अथातः सम्प्रवक्ष्यामि देव-स्नपनम् उत्तमम् इत्यादिना चान्ते केवल-स्नपन-विधिर् विवेच्य विस्तरेण दर्शितः । भविष्ये च— आनयित्वा तु देवेशम् इत्यादिना, तथान्ते च यथा कुर्यात् तच्च सङ्क्षेपतः शृणु इत्यादिना च प्रायस् तथैवोक्तम् एवम् एकम् एव स्नपनं गम्यते, तथा भगवता श्री-हयशीर्ष्णापि शिल्पि-शालायां शुद्ध-तोय-मात्र-स्नपनम् उक्त्वा नेत्राभ्यञ्जनाद् अनन्तरं घृतेनाभ्यञ्जयेत् पश्चात् इत्यादिना स्नपनम् एवमेव विवृत्योक्तम् इत्य् एवमादिकं प्रक्रिया-गौरवञ्च विचार्य पूर्व-लिखितं केषाञ्चित् पद्धतिकाराणां पक्षं निरस्यन्निव पक्षान्तरं लिखति—अथवेति । पञ्चकषाय-पञ्चगव्यादिभिः स्नपनं यत्, तत् सकृत् एकवारम् एव कार्यं, न तु पूर्व-स्नपनाभावेन तद्-अनन्तर-लिखित-कृत्यम् अपि न वार्यम्, अपि तु तत् सर्वं कर्तव्यम् एवेति लिखति—अन्यच्चेति । तत् पूर्व-लिखितं श्री-नेत्रोन्मीलनादिकम् ॥३४४॥

अथ स्नपनमाहात्म्यम्

तत्रैव—

**एष साधारणः प्रोक्तः स्नपनस्य विधिर्मया । ** य एवं विधिवत् कुर्यात्तस्य पुण्यफलं शृणु ॥३४५॥ **यावन्ति जलबिन्दूनि मम गात्रो निवेशयेत् । ** तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥३४६॥

स्वर्ग-लोके महीयते इति वैकण्ठ-लोकं गच्छन् पथि इन्द्रादिभिर् भक्तया विश्रमय्य चिरम् अभ्यर्च्यते इत्यर्थः ॥३४६॥

अथ श्रीमूर्त्युत्थापनम्

**ततश्च विधिवद्विद्वान् सम्पूज्य वाहनादिभिः । ** औत्थापनिक-मन्त्रेण देवमुत्थापयेच्छनैः ॥३४७॥

औत्थापनिकेन उत्थापन-सम्बन्धिना मन्त्रेण, एवम् अग्रेऽपि ॥३४७॥

मात्स्ये—

**एवं स्नाप्य ततो देवं पूज्य गन्धानुलेपनैः । ** प्रच्छाद्य वस्त्रयुग्मेन अभिवस्त्रेत्युदोहरन् । उत्थापयेत्ततो देवमुत्तिष्ठ ब्रह्मणस्पते ॥३४८॥


भविष्ये हयशीर्षे च—

**आवाहयेत्ततो विष्णुं शुक्लस्फटिकसन्निभम् । ** एह्येहि भगवन् विष्णो लोकानुग्रहकारक । यज्ञभागं गृहाणेमं वासुदेव नमो नमः ॥३४९॥


अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनम् । मुञ्चामि त्वेति मन्त्रेण देशिकस्यापि मोचयेत् ॥३५०॥


स्नपनानन्तरम् उत्थापन-पूर्व-कृत्यम् आह—आवाह्येत्यादिना उच्चरेद् इत्य् अन्तेन । सर्वं स्पष्टार्थमेव ॥३५०॥

**हिरण्मयेति मन्त्रेण अर्घ्यं देवाय दापयेत् । ** अतो देवेति-सूक्तेन पाद्यं कृष्णाय मन्त्रितम् । मधूवातेति मन्त्रेण मधुपर्कं निवेदयेत् ॥३५१॥


**मयि गृह्णाति मन्त्रेण दद्यादाचमनं बुधः । ** अक्षन्नमीमदन्तेति किरेद्दूर्वाक्षितं बुधः ॥३५२॥ निम्मञ्छनं ततः कुर्यात् काण्डात् काण्डेति देशिकः । गन्धं गन्धवतीत्येवमुन्नयामीति माल्यकम् ॥३५३॥


**इदं विष्ण्विति मन्त्रेण दद्याद्यज्ञोपवीतकम् । ** बृहस्पतेति-मन्त्रेण वस्त्रयुग्मे प्रदापयेत् ॥३५४॥ **वेदाहमेकं पुरुषमुत्तरीयं निवेदयेत् । ** सकलीकरणं कुर्यात् पठन् व्रतमहाव्रतम् ॥३५५॥


**ओषधयः संवदन्ते सपुष्पकरणं ततः । ** धूरसीति पठन् भक्त्या धूपं दद्यात् सगुग्गुलम् ॥३५६॥


**विभ्राडिति सूक्तेन अञ्जनं तु प्रदापयेत् । ** युञ्जन्तीति च मन्त्रेण रोचनातिलकं तथा ॥३५७॥ दद्यात् पुष्पाणि माल्यानि दीर्घायुष्ट्वेति मन्त्रवित् । इन्द्रच्छत्रेति मन्त्रेण श्वेतं छत्रं प्रदापयेत् ॥३५८॥


**आदर्शं तु विराजेन विकर्णेन तु चामरम् । ** रथान्तरेणाभरणं व्यजनं वायुदैवतैः ॥३५९॥ मुञ्चामि त्वेति सूक्तेन पुष्पमालार्चनं ततः । ततः स्तुवीत गोविन्दं मन्त्रैर्वेदादिभिर्विभुम् ॥३६०॥


**तथा पुरुषसूक्तेन बृहत्साम्ना सुरोत्तम । ** शशिकर्णीति नवभिः सूक्तैः सुरगणार्चितम् ॥३६१॥


**शान्तातीयेन च स्तूयाद्गुह्योपनिषदैस्तथा । ** सर्वमेतत् समं कुर्यात् पिण्डिकायामपि द्विज ॥३६२॥

पिण्डिकायामपीति च यथा भगवन्-मूर्तेः स्नपनावाहनादिकं कुर्यात् तथा पिण्डिकाया अपि स्नपनावाहनादिक कुर्याद् इत्यर्थः । एतच् चाग्रे पिण्डिकाशोधने लेख्यम् एव, उत्थापनं च उत्तिष्ठेति समुत्थाप्येत्य् अग्रे लेख्य-वाक्याद् उद्दिष्टमेव । तच्चैकपाद-मात्रत्वाद् अत्र न लिखितम् ॥३६२॥

देवस्योत्थानसमये सौपर्णं सर्वमुच्चरेत् ॥३६३॥
अथ अधिवासमण्डपे प्रवेशः
**महतानेकवाद्येन पताकादिविभूषितम् । ** यानमारोहयेद्देवमारोहणिक-मन्त्रतः ॥३६४॥


**आनीय तोरणाभ्यासमधिवासनमण्डपम् । ** प्रावेशनिक-मन्त्रेण सुख देवं प्रवेशयेत् ॥३६५॥


पश्चिम-द्वारेण देवं प्रवेशयेद् इति सतां मतम्, पिण्डिकामपि श्री-मूर्त्या सह रथम् आरोप्याधिवासन-मण्डपं प्रवेशयेद् इति, तथाविधे परे स्थाने इत्यादि श्री-हयशीर्षोक्तेः । अग्रे पिण्डिकाशोधने लेख्यानुसारेण द्रष्टव्यम् । तथा तत्रैवैकस्मिन् मण्डपान्तःप्रदेशे निवेश्य तस्या अधिवासादिकं च बोद्धव्यम् ॥३६५॥

तथा च तत्रैव—

**उत्तिष्ठेति समुत्थाप्य कुर्याद्ब्रह्मरथेशुभे । ** शाकुनेन तु सूक्तेन मण्डपे सन्निधापयेत् ॥३६६॥


ब्रह्मरथे ब्राह्मण-वाह्य-शिविकादियाने ॥३६६॥

भविष्ये—

**रथे तिष्ठेति मन्त्रेण रथमारोहयेत् प्रभुम् । ** शङ्खन्दुन्दुभिनिर्घोषैः पताकाभिरलङ्कृतम् ॥३६७॥ **आरोप्य सदृशे याने आनयेत्तोरणान्तिकम् । ** प्रवेशयेत्ततो देवं स्थापकः शंसितव्रतः ॥३६८॥


मात्स्ये—

**रथे ब्रह्मरथे वापि धृतं शिल्पिगणेन च । ** आरोप्य चालयेद्विद्वानाकृष्टेन प्रवेशयेत् ॥३६९॥
श्रीमूर्तिस्थापनप्रकारः

पद्मे—

**कृत्वा प्राग्लिखितैर्दर्भैः प्रागग्नेर्वंशपल्लवैः । ** पुष्पैर्वास्तरणं कृत्वा वस्त्रेणाच्छादयेद्गुरुः ॥३७०॥ **प्राङ्मुखं स्थापयित्वास्मिन् देवं कुर्यात् प्रदक्षिणम् । ** निद्राकुम्भं शिरोदेशे न्यसेद्दत्वोपधानकम् ॥३७१॥


अस्मिन् वस्त्राच्छादितास् तरणे ॥३७१॥

**मध्वाज्याक्तांश्च सिद्धार्थान् दत्त्वा गात्राणि संस्पृशन् । ** **गन्धपुष्पैः समभ्यर्च्य दद्यात् प्रतिसरं सितम् ॥३७२। **

गात्राणि संस्पृशन् देवस्य दक्षिण-पार्श्वे उपविष्टः अग्रे लेख्येन ओं आप्यायस्वेत्यादि-मन्त्र-द्वयेन देवस्याङ्गान्यालभमानः सन् देव-हस्ते प्रतिसरं सूत्र-विशेषं दद्यात् ॥३७२॥

**देवं चाच्छाद्य सद्वस्त्रैश्छत्रादीनि निधाय च । ** प्रज्वाल्य चतुरो दीपान् न्यसेत् कुम्भांश्च पादयोः ॥३७३॥

आदि-शब्दात् चामर-व्यजनादीनि, तानि चाग्रे व्यक्तानि भविष्यन्ति । शिष्टाचारतः सायं द्वारेषु च चतुरो दीपान् प्रदीपं च, पञ्च-गव्य-तीर्थोदक-पूर्ण-कुम्भांश्च चतुरः पादयोः देव-पादान्तिके न्यस्येत् धारयेत् ॥३७३॥

**क्षीरादिकं निवेद्याथ भक्ष्यपेयादिभिः शुभैः । ** मण्डपं तत् प्रपूर्याथ सर्वतो वितरेद्बलिम् ॥३७४॥

तथा क्षीरमादि-शब्देन घृतं मधु च, ओं अभि त्वा शूर नो नुमः इति-मन्त्रेण देव-पाद-निकट-स्थाने निवेद्य, तत् अधिवास-मण्डपं बलिं च सर्वतो भूवि दद्यात् । सन्ध्यायां मध्य-रात्रे उषसि च दश-दिक्षु शक्रादिभ्यः भगवान् प्रीयताम् इत्यभिधाय मातृ-विघ्नगणेभ्यश् च प्रत्येकं पुष्पाक्षत-मिश्र-बलिं दद्याद् इति शिष्टाचारतो ज्ञेयम् ॥३७४॥

हयशीर्षे—

**पुष्पोपशोभिते स्थाने चन्द्रातपविभूषिते । ** मुक्ताहारैर्लम्बमाने दीपमालोपशोभिते ॥३७५॥


मण्डपे सन्निधापयेद् इत्युक्तं, तद्-अनन्तर-कृत्यम् आह—पुष्पोपशोभित इत्यादिना स्थाने इति मण्डपान्तर-वेदिकायाम् इति बोद्धव्यम् ॥३७५॥

**भक्ष्यभोज्यैरनेकैश्च सान्द्रपल्लवशोभिते । ** दिव्यपर्यङ्कन्यस्तायां तूलिकायां सुरोत्तम । अतो देवेति मन्त्रेण शय्यायां स्थापयेद्धरिम् ॥३७६॥


**तथाविधे परे स्नाने पिण्डिकां सन्निवेशयेत् । ** श्रायन्तीयेन सूक्तेन श्रीसूक्तेन निवेशयेत् ॥३७७॥

पिण्डिकां सन्निवेशयेद् इत्युक्तं, तच्च केन मन्त्रेणेत्याह— श्रायन्तीयेनेति ॥३७७॥

**निद्राख्यं कलसं रत्नगर्भवस्त्रयुगान्वितम् । ** खण्डकाद्यैरनेकैश्च पूरयेच्च समन्ततः ॥३७८॥


भविष्ये—

**प्रागग्रैर्दर्भवंशैश्च राजन् दिव्यदलैः शुभैः । ** पुष्पैश्च रचयेच्छयां कोमलैर्दिव्यपल्लवैः ॥३७९॥


दर्भैर् वंशैश्च ॥३७९॥

**उपरिष्टाच्च शय्याया देयं प्रस्तरणं शुभम् । ** दुकूलं पट्टसञ्छन्नकार्पासं चाप्यसम्भवे ॥३८०॥

प्रस्तरणम् आच्छादनम् ॥३८०॥

प्रदक्षिणं ततः कुर्यात् स्थापकः प्रयतः शुचिः ॥३८१॥


**प्राङ्मुखन्तु ततः कृत्वा भद्रपीठे सुसंस्थिते । ** पूरयित्वाम्भसा स्वप्नकलसं चाप्यलङ्कृतम् ॥३८२॥

पूरयित्वा मण्डपम् ॥३८२॥

**सपुष्पं साक्षतं कृत्वा शिरोदेशे तु दापयेत् । ** शिरोदेवीति मन्त्रेण मातरः शुद्धयन्तु च ॥३८३॥


भद्र-पीठोपरि देवस्य शिरो-देशे निद्राकुम्भं दापयेत्, तत्र मन्त्र-द्वयं शिरोदेवीत्यादि ॥३८३॥

**ततः शिरोन्नते भूय उपधानसमन्विते । ** शयने कारयेद्देवं विधिदृष्टेन कर्मणा ॥३८४॥

शिर उन्नतं यस्मात् तस्मिन्, सन्धिर् आर्षः, तत्-प्रकारमेवाह—उपधानेन शुभं यथा स्यात् तथान्विते ॥३८४॥

मधुना सर्पिषाभ्यज्य दद्यात् सिद्धार्थकान् शुभान् । स्थित्वा च दक्षिणे पार्श्व मन्त्रं च समुदाहरेत् ॥३८५॥


शुभान् गौर-वर्णान् सिद्धार्थान् एव मधु-सर्पिभ्याम् अभ्यज्य अभ्युक्ष्य ॥३८५॥

**आप्यायस्वेति मन्त्रेण याते रुद्रे शिवेति च । ** सर्वाङ्गञ्च समालभ्य दद्यात् पुष्पं नराधिप । श्वेतान् प्रतिसरान् दद्यान्मन्त्रेणैव नराधिप ॥३८६॥


सर्वाङ्गं देवस्य गात्राणि, सम्यक् आलभ्य स्पृष्ट्वा ॥३८६॥

**बृहस्पतये त्वा मह्यं मन्त्रेण परिवेष्टयेत् । ** दुकूलपट्टकार्पासैस्तथा वल्कजरोमजैः । चित्रपट्टैर्विचित्रैश्च छादयेत समन्ततः ॥३८७॥


बृहस्पतये इति मन्त्रेण दुकूलपट्टादिभिर् देवम् आच्छादयेत् ॥३८७॥

**चामरं व्यजनं छत्रं वितानञ्च सुशोभनम् । ** दर्पणं पार्श्वतः स्थाप्य रत्नान्योषधयस्तथा । गृहोपकरणेश्चान्यैः समन्तात् परिवारयेत् ॥३८८॥


देवस्य पार्श्वतश् छत्रादिकं स्थापनीयम् ॥३८८॥

**भक्ष्यभोज्यान्नपानैश्च षड्विधैश्च विशेषतः । ** समन्तात् कारयैत्तत्र मण्डपञ्च सुशोभनम् ॥३८९॥ **प्रकीर्णश्चाप्रकीर्णश्च दातव्यो देवसन्निधौ । ** त्र्यम्बकं यजामहेति सर्वमेतद्धि कारयेत् ॥३९०॥

प्रकीर्य यो बलिर् दीयते, स प्रकीर्ण ओदनादिः, तद्-इतरश् चाप्रकीर्णः ॥३९०॥

मात्स्ये—

ततः प्रास्तीर्यं शय्यायां स्थापयेच्छनकैर्भुवि । कुशेष्वास्तीर्य पुष्पाणि दापयेत् प्राङ्मुखं ततः ॥३९१॥


**ततस्तु निद्राकलसं वस्त्रकाञ्चनसंयुतम् । ** शिरोभागे तु देवस्य जपन्नेव निधापयेत् । आपो देवीति-मन्त्रेण आपोऽस्मान्मातरोऽपि च ॥३९२॥


**ततो दुकूलपट्टैश्चाच्छाद्य नेत्रोपधानकम् । ** दद्याच्छिरसि देवस्य कौशेयं वा विचक्षणः ॥३९३॥ **मधुना सर्पिषाभ्यज्य देवं सिद्धार्थकैस्ततः । ** आप्यायरवेति मन्त्रेण यात रुद्रे शिवेति च ॥३९४॥ **उपविश्यार्चयेद्देवं गन्धपुष्पैः समन्ततः । ** सितं प्रतिसरं दद्याद्वार्हस्पत्येति मन्त्रतः ॥३९५॥


**दुकूलपट्टैः कार्पासैर्नानाचित्रैरथापि वा । ** आच्छाद्य देवं सर्वत्र छत्रं चामरदर्पणम् । पार्श्वं तु स्थापयेत्तत्र वितानं पुष्पसंयुतम् ॥३९६॥ ** रत्नान्योषधयस्तद्वद्गृहोपकरणानि च । ** भाजनानि विचित्राणि शयनान्यासनानि च । अभि त्वा शूर मन्त्रेण यथा विभवतो न्यसेत् ॥३९७॥


क्षीरं क्षौद्रं घृतं तद्वद्भक्ष्य भोज्यञ्च पायसम् । षड्विधैश्च रसैस्तद्वत् समन्तात् परिपूरयेत् ॥३९८॥


**बलिं दद्यात् प्रयत्नेन मन्त्रेणानेन भूरिशः । ** त्र्यम्बकं यजामह इति सर्वतः शनकैर्भुवि ॥३९९॥

बलिं सर्वतो भुवि शनकैर् दद्यात् ॥३९९॥

अथ श्रीमूर्त्यधिवासनम्

**भूतशुद्धिं ततः कृत्वा न्यासजातं विधाय च । ** ध्यात्वा तत्त्वं परं कुर्यात् सजीवकरणं बुधः ॥४००॥ **पूजयेच्च ततो देवं साङ्गं सपरिवारकम् । ** तत्तद्विशेषो विज्ञेयोऽश्वशिरःपञ्चरात्रतः ॥४०१॥

तस्य तस्य भूत-शुद्धिकरणादेर् विशेषश्च अश्व-शिर्सः श्री-हयशीर्षस्य पञ्चरात्रतो विस्तरेण ज्ञेयः । तत्रैकत्रैव व्यक्तत्वाद् अत्र च ग्रन्थ-विस्तर-भयान् न लिख्यत इति भावः । यद्यपि मात्स्य-भविष्ययोर् भूत-शुद्धयादिकम् एतद् अत्र विशिष्य नोक्तम् अस्ति, तथापि भगवच्-छ्री-हयशीर्षोक्ति-प्रामाण्येनात्र लिखितम् ॥४०१॥

अथ ब्राह्मणस्थापनम्

**आचार्यः स्थापयेद्विद्वान् मूर्तिपांस्तत्र मण्डपे । ** चतुरो ब्रह्मणो होतृनृत्विजो जापिनस्तथा ॥४०२॥

एवं श्री-हयशीर्षानुक्तम् अपि ब्राह्मण-स्थापनादि मात्स्य-भविष्योक्ति-प्रामाण्येन शिष्टाचारादृतत्वाद् अग्रे लेख्यम्, एवम् अन्यत्राप्य् ऊह्यम् । तथेति होत्रादींश् चतुर एवेत्यर्थः ॥४०२॥

**रक्षकांश्च चतुर्द्वार्षु चतुरः स्थापयेद्बुधः । ** एक पुरुषसूक्तस्य जापकं मण्डपान्तरे ॥४०३॥

पुरुष-सूक्त-जापकं चैकं मण्डपाभ्यन्तरे स्थापयेत् ॥४०३॥

आचार्येण समाविष्टाः स्वस्वस्थाने स्थिताश्च ते । स्वस्वप्रयोजनं कुर्यः शिष्टाचारानुसारतः ॥४०४॥


शिष्टाचारानुसारत इति जप-होमादौ मत्स्य-पुराणादि-वचनैर् मन्त्रादि-भेदतो विरोधे निज-सत्-सम्प्रदाय-व्यवहारोऽनुसर्तव्य इत्यर्थः । एवं सर्वत्रैव ज्ञेयम् ॥४०४॥

मात्स्ये—

**मूर्तिपान् स्थापयेत्तत्र सर्वदिक्षु विचक्षणः । ** चतुरो द्वारपालांश्च द्वारेषु विनिवेशयेत् ॥४०५॥

सर्वासु अष्टसु दिक्षु, तथा च भविष्ये—मूर्तिपान् स्थापयेत् पश्चाद् दिशासु विदिशासु च इति । समानार्थत्वात् तद् एतद् अर्ध-पद्यं न सङ्गृहीतम्; एवम् अन्यत्रापि ज्ञेयम् ॥४०५॥

अथ द्वारेषु जपनियमः

मात्स्ये—

**श्रीसूक्तं पावमानं तु सोमसूक्तं सुमङ्गलम् । ** तथा च शान्तिकाध्यायमिन्द्रसूक्तं तथैव च । रक्षोध्नञ्च तथा सूक्तं पूर्वतो बह्वृचो जपेत् ॥४०६॥

श्री-सूक्तादिकं पूर्वतः पूर्व-द्वारि बह्व्-ऋचो जपेद् इति सार्धेनान्वयः । तत्र श्री-सूक्तं—हिरण्य-वर्णां हरिणीम् इत्यादि, पावमानम्—आदिष्टयाम् आदिष्टया इत्यादि , सोम-सूक्तं— त्वं सोममह इत्यादि , सुमङ्गलं—कलि-ह्रद-जनुषाम् इत्यादि, शान्तिकाध्यायं—शक्रो, इन्द्राग्नी इत्यादि, इन्द्र-सूक्तं—यो जात एव इत्यादि, रक्षोघ्न-सूक्तं च—क्व नु अपाजः इत्यादि ॥४०६॥

**रुद्रान् पुरुषसूक्तञ्च श्लोकाध्यायं ससुक्रियम् । ** तथैव मण्डलाध्यायमध्वर्युर्दक्षिणे जपेत् ॥४०७॥


रुद्रान्—नमस्ते रुद्र इत्यादि, पुरुष-सूक्तं—सहस्र-शीर्षा इत्यादि, श्लोकाध्यायं देव सवितः इत्यादि, ससूक्रियं—ऋतं वाचं प्रपद्य इत्यादि, मण्डलाध्यायञ्च—आदित्यो वा एष एतन्मण्डलम् इत्यादि तत्तिरीयके प्रसिद्धम् ॥४०७॥

**वामदेव्य बृहत्साम ज्येष्ठं साम रथन्तरम् । ** तथा पुरुषसूक्तञ्च रुद्रसूक्त सशान्तिकम् । भारूण्डानि च सामानि छन्दोगः पश्चिमे जपेत् ॥४०८॥


वामदेव्यं कया नश्चित्रम् इत्यस्याम् ऋचि गीतं साम, बृहत्-सामे—त्वामिद्धि हवामहे इत्यस्यां गीतम्, ज्येष्ठ-साम—मूर्धानं दिवो अरतिम् इत्यस्यां गीतम्, रथन्तरं —अभि त्वा शूर नो नुम इत्यस्यां गीतम्, रुद्र-सूक्तं—संहिता आरोराजतत्त्वोवर्ग आज्यदोहानि देव-व्रतानि च इत्येतत् । सशान्तिकं शान्तिकाध्याय-सहितम् । भारूण्डानि सामानि च इलं स्तोमः इत्यादीनि ॥४०८॥

**अथर्वाङ्गिरसं तद्वन्नीलरुद्रं तथैव च । ** तथापराजितां देवीं मधुसूक्तं सरौद्रकम् । तथैव शान्तिकाध्यायमध्वर्युश्चोत्तरे जपेत् ॥४०९॥


आथर्वणं सूक्तं—दोषागायेत्यादि, आङ्गिरसं सूक्तम्— अङ्गिरसो जन्मानीत्यादि, नील-रुद्रं— जलेत्यादि, अपराजितां देवीं— परिवर्तमानेत्यादि , मधु-सूक्तं — मधुवाता ऋतायत इत्यादि , रुद्र-सूक्तं—भवा सर्वे मृडतमानियातम् इत्यादि ॥४०९॥

भविष्ये—

**श्रीसूक्तं पावमानञ्च ताम्यं दाम्यञ्च वाजिनम् । ** वृषाक पञ्च मैत्रञ्च बवृचः पश्चिमे जपेत् ॥४१०॥

ताम्य-सूक्तं—नासदासीद् इति सप्त-र्चम् । दाम्य-सूक्तं—सोमा रुद्रा इति चतुरृचं, वाजिसूक्तं—चतुस्त्रिंशद्वाजिन इति, वृषाकपि—विहिसोतोरसृक्षतेत्यादि, मैत्र-सूक्तं—मित्रोजनान् पाययतीति नवर्चम् ॥४१०॥

**देवव्रतं पुरुषगतिं ज्येष्ठसाम रथन्तरम् । ** भारूण्डानि च सामानि वामदेव्यं तथैव च । उत्तरां दिशमास्थाय छन्दोगस्तज्जपेत् सदा ॥४११॥


देव-व्रतम् — अधिकपतायीत्यादि पुरुष-गतिं — पुरुष-सूक्तम् ॥४११॥

रुद्रान् पुरुषसूक्तञ्च श्लोकाध्याय ससूक्रियाम् । ब्राह्मण मैत्रमैन्द्रञ्च अध्वर्युः पूर्वतो जपेत् ॥४१२॥

ब्रह्म-सूक्तं—आब्रह्मन्निति, मैत्र-सूक्तं—मित्रस्य चर्षणीघृत इति, इन्द्र-सूक्तम्—आशुः शिशान इत्यादि ॥४१२॥

**अथर्वाङ्गिरसञ्चैव शिवसूक्तं तथैव च । ** नीलरुद्रञ्च वै मन्त्रमथर्वा दक्षिणे जपेत् ॥४१३॥


अथर्वाङ्गिरसम् आथर्वण-सूक्तम् आङ्गिरस-सूक्तं च ॥४१३॥

**विष्णुकल्पं परिषदं पञ्चरात्रानुगामिनम् । ** स्तोत्रमन्त्रविश्वाथ पठेयुर्दक्षिणे सदा ॥४१४॥


पञ्चरात्रानुग–वैष्णव-स्तोत्रं मन्त्रं च विदन्तीति ते तथा ॥४१४॥

**मध्ये पुरुषसूक्तञ्च प्रजपेद्गर्भजापकः । ** जपेयुः शान्तिकाध्यायं द्वार्षु ते जापकाः पुनः ॥४१५॥

मध्ये प्रासादाभ्यन्तरे मण्डप-मध्ये वा । पुनरिति अथाचार्येण तु पुनश्च जपेतेत्यादिष्टाश् चत्वारस्ते द्वार-जापकाश् चतुर्द्वरेषु पुनः शान्तिकाध्यायं जपेयुर् इत्यर्थः ॥४१५॥

अथ होमः

**ब्रह्मादींस्तत्र चाचार्यो यथास्थानं निवेश्य तान् । ** होमं कुर्यान्निजे कुण्डे ते च कुर्युर्यथाविधि ॥४१६॥

तत्र मण्डपाभ्यन्तरे, ब्रह्मादीन् चतुरो ब्रह्मणो होतॄंश् च, यथा-स्थानं स्व-स्व-कुण्डे यथोचितं निवेश्य उपवेश्य । आचार्यश्च देवशिरः-स्थानवर्ति-निज-कुण्ड-समीप-स्थः तत्र होमं यथाविधि कुर्यात् । ते च ब्रह्मादयो यथाविधि होमं कुर्युः । विधिश्चायम्—सर्व एव स्व-स्व-गृह्य-विधिनाग्नि-स्थापन-ब्रह्मोपवेशनादि-कुशण्डिकां कृत्वा स्रुक्-स्रुव-पूर्ण-पात्र-प्रणीताज्य-स्थाली-समिदाज्य-तिल-यव-कुश-बर्हि-विध्यादिकं च कुण्डेषु कल्पयेयुः । ततः स्थापको ग्रह-वेद्यां ग्रह-यज्ञोक्त-विधिना तत्-तन्-मन्त्रेण सूर्यादि-द्वात्रिंशद्-देवताः संस्थाप्य यथा-विहितं पुष्पनैवेद्यादिभिः सम्पूज्य निज-कुण्डेऽग्निस्थापनादि-कुशण्डिकां कृत्वा आघारावाज्य-भागादिकं हुत्वा पलाशोडुम्बराश्वत्थापा-मार्गशमी-समिधां प्रत्येकं प्रथमं महाव्याहृतिभिर् आहुति-चतुष्टयम् । ततः शन्न इन्द्राग्नी भवतामरोभिर् इत्यादिभिः शान्तिकैस् त्रिभिर् आहुति-त्रयम् । ततः ओं पुष्टिर् नव त्वा ओं मयस्कानौ अमीवहा इति, ओं त्र्यम्बकं यजामह इत्येतैस् त्रिभिः पौष्टिकराहुति-त्रयम् । एवम् आवृत्ति-क्रमेणैकैकं सहस्रं हुत्वा यथा-क्रमं देवस्य पादयोर् नाभौ मध्ये वक्षसि शिरसि च स्पृशेत् । तथा होतारोऽपि स्व-स्व-गृह्योक्त-विधिना आघारावाज्य-भागादिकं च हुत्वा नव-ग्रह-समिधाम् अष्टोत्तर-शतम् अष्टाविंशतिम् अष्टौ वा ग्रहेभ्यो हुत्वा अथ इन्द्रादि-लोकपालेभ्यो हुत्वा तथा वसुधाद्य्-अष्टमूर्तिभ्यो मूर्त्य्-अधिदेवेभ्यश्च सार्वादिभ्यस् तत्-तद्-वैदिक-मन्त्रैर् होमं कुर्युर् इत्यादि । एष चाग्रे भविष्यादि-वचनतो व्यक्तो भावी ॥४१६॥

अथ तद्विशेषः

भविष्ये—

**शिरःस्थाने तु कृष्णस्य आचार्यो होममाचरेत् । ** शान्तिकैः पौष्टिकैश्चापि मन्त्रैर्याहृतिभिस्तथा ॥४१७॥ **पलाशोडुम्बराश्वत्थमपामार्गं शमीं तथा । ** सहस्रमेकं हुत्वा च विष्णुपादौ स्पृशेत्ततः ॥४१८॥


**द्वितीय तु ततो हुत्वा समिद्भिस्तावदेव तु । ** मध्ये तु संस्पृशेद्देवं मूर्ध्न चैवं क्रमेण तु ॥४१९॥ ** होमयेयुस्ततः सर्वे मूर्तिपाः स्वदिगाश्रिताः । ** अनन्तादि-शिवान्ताश्च अष्टौ ये चक्रवर्तिनः । तेषां मन्त्रैश्च होतव्या जप्तव्याश्च यथाक्रमम् ॥४२०॥


अनन्त आदिर् येषां शिवश् चान्ते येषां ते चामी च ते, अनन्तः सूक्ष्मोऽपराजित एक-नेत्र एक-मूर्तिस् त्रिमूर्तिः श्री-कण्ठः शिवश् चेति । ते स्व-स्व-मन्त्रैर् नामभिर् वा होतव्याः, तेषां मन्त्राश्च जप्तव्याः ॥४२०॥

मात्स्ये—

शिरःस्थाने तु देवस्य स्थापको होममाचरेत् । शान्तिकैः पौष्टिकस्तद्वन्मन्त्रैर्व्याहृतिपूर्वकैः ॥४२१॥ ** पलाशोडुम्बराश्वत्थमपामार्गं शमीं तथा । ** हुत्वा सहस्रमेकैकं देवं पादे तु संस्पृशेत् ॥४२२॥ **ततो होमसहस्रेण हुत्वा हुत्वा ततस्ततः । ** नाभिमध्यं तथा वक्षः शिरश्चाप्यालभेत् पुनः ॥४२३॥

किञ्च—

**मूर्तिपा लोकपालेभ्यो मूर्तिभ्यः क्रमशस्ततः । ** तथा मूर्त्यधिदेवेभ्यो होमं कुर्युः समन्ततः ॥४२४॥
अथ मूर्तिसञ्ज्ञकदेवाः
**वसुधा वसुरेताश्च यजमानो दिवाकरः । ** जलं वायुस्तथा सोम आकाशं चाष्टमं मतम् । देवस्य मूर्तयो ह्यष्टावेताः कुण्डेषु संस्मरेत् ॥४२५॥
तत्र मूर्तीनामधिपाः
**एतासामधिपान् वक्ष्ये यैर्विप्रा मूर्तिपा मताः । ** पृथिवीं पात्ति सर्वस्तु पशुपश्चाग्निमेव तु । यजमानं तथैवोग्रो रुद्रश्चादित्यमेव च ॥४२६॥


**भवो जलं सदा पाति वायुमीशान एव च । ** महादेवस्तथा चन्द्रं भीमश्चाकाशमेव च ॥४२७॥ **सर्वदेवप्रतिष्ठासु मूर्तिपा ह्येत एव तु । ** एतेभ्यो वैदिकैर्मन्त्रैर्यथास्वं होममाचरेत् ॥४२८॥


यथा-स्वं यथा-क्रमं, यथा-स्वं होमम् आचरेद् इत्यनेनाचार्योऽपि तत्-तद्-धोमं कुर्याद् इत्यर्थः ॥४२८॥

हयशीर्षे च—

कृत्वाग्निं वैष्णवैर्मन्त्रैः कुर्याच्छान्त्युदकं बुधः । तत् सिक्त्वा प्रतिमामूर्ध्न वह्निप्रणयनं कुरु ॥४२९॥


**दक्षिणेऽग्निभूतमिति कुण्डेऽग्निं प्रणयेद्बुधः । ** अग्निमयी तु पूर्वे तु कुण्डेऽग्निं प्रणयेद्बुधः ॥४३०॥

अग्निभूतम् इति-मन्त्रेण दक्षिणे कुण्डे अग्निं प्रणयेत्, अग्निमयीति मन्त्रेण ॥४३०॥

**उत्तरे प्रणयेदग्निं अग्निमग्निं तु धीमहि । ** अग्निप्रणयने मन्त्रस्त्वमग्ने त्विति पश्चिमे ॥४३१॥

‘अग्निम् अग्निं तु धीमहि’ इति मन्त्रेण ॥४३१॥

**पलाशसमिधानां तु वृताक्तानां महानले । ** अष्टोत्तरसहस्रं तु कुण्डे कुण्डे तु होमयेत् ॥४३२॥


**वेदादिमन्त्रैर्देवेश ततो ब्रीहींस्तु होमयेत् । ** तिलानां घृतयुक्तानां कुण्डे कुण्डे तु मूर्तिपाः ॥४३३॥ **सहस्रैकं व्याहृतिभिर्जुहुयुः साज्यमक्षतम् । ** मूलमन्त्रेण जुहुयुः स्वाहान्तेन सुरोत्तम । अष्टोत्तरसहस्रं तु कुण्डे कुण्डे यथाविधि ॥४३४॥


**घृतहोममिदं प्रोक्तं शान्तिहोममतः शृणु । ** मधुरत्रितयेनाथ जुहुयाद्द्वादशक्षरैः । पादौ नाभिं हृच्छिरश्च स्पृशेद्बुद्ध्वा यथाक्रमम् ॥४३५॥ **घृतं दधि पयश्चैव माक्षिकं देशिकः स्वयम् । ** प्रतिलोमं स्पृशेच्चापि हुत्वा तु मधुरत्रयम् ॥४३६॥

प्रतिलोमं शिर-आदिक्रमेणेत्यर्थः ॥४३६॥

**शतमष्टोत्तरं हुत्वा विष्णुं शिरसि संस्पृशेत् । ** तथैव हुत्वा पञ्चाशत् हृदये संस्पृशेद्धरिम् ॥४३७॥

तदेवाभिव्यञ्जयन् तत्र तत्र होम-सङ्ख्याम् आह—शतमिति द्वाभ्याम् ॥४३७॥

**ततोऽष्टाविंशति हुत्वा नाभिदेशे हरिं स्पृशेत् । ** अष्टावष्टौ ततो हुत्वा पादाङ्गुष्ठौ तु संस्पृशेत् ॥४३८॥
अथ शान्तिघटोदकस्वानादि
**देवं शान्तिघटस्थेन सम्पाताहुतिपाथवा । ** संस्नाप्य दत्त्वा वस्त्रादीनधिवासं समापयेत् ॥४३९॥


सम्पाताहुतेर् यत् पाथो जलं तेन, तत्-साधन-प्रकारश् चाग्रे मात्स्य-वचनतो व्यक्तो भावी । सम्पाताहुति-जलं च शान्ति-घटे देवस्य स्थापनानन्तरं स्नानार्थं किञ्चिद् अवशिष्टं कार्यम् इति, तस्यान्ते स्नापयेत् तेन सम्पाताहुति-वारिणा इति स्नापनानन्तरम् अग्रे लेख्य-भविष्यानुसारेण ज्ञेयम् ॥४३९॥

तथा च भविष्ये—

**शान्तितोयघटं गृह्य सम्पाताहुतिजं तथा । ** तेन पादौ तु देवस्य शिरः प्रक्षाल्य यत्नतः ॥४४०॥ **स्थितञ्च स्नापयेत्तत्र सम्पाताहुतिवारिणा । ** पुनः प्रच्छादयेच्चैवं धूपं दद्यात् सगुग्गुलुम् ॥४४१॥ निवेद्य च हविष्यान्न तथा मोदकसंयुतम् । ब्राह्मणान् पूजयेत् पूर्वं शेषानन्यांश्च कामतः ॥४४२॥


**रात्रौ महोत्सवः कार्यः शःखभेर्यादिनिस्वनैः । ** गायनैर्नर्तनैश्चैव ब्रह्मघोषैस्तथैव च ॥४४३॥ **पुरतो वैष्णवान् धर्मान् श्रावयेद्वाचकस्तथा । ** त्रिरात्रमेकरात्रं वा कुर्यात्तत्राधिवासनम् ॥४४४॥

मात्स्ये—

**ततः शान्तिघटं कुर्यात् प्रतिकूण्डेषु सर्वतः । ** शतान्ते वा सहस्रान्ते स्त्रुक्पूर्णाहुतिरिष्यते ॥४४५॥


समाप्याहुतिर्मूर्द्ध्वस्थः प्रशान्तात्मा विनिक्षिपेत् । आहुतीनां तु सम्पातं पूर्णकुम्भेषु विन्यसेत् ॥४४६॥ ** मूलमध्योत्तमाङ्गेषु देवं तेनावसेचयेत् । ** स्थितञ्च स्नापयेत्तेन सम्पाताहुतिवारिणा ॥४४७॥


**प्रतियामेषु धूपं च नैवेद्यं चन्दनोदकम् । ** पुनः पुनः प्रकुर्वीत होमः कार्यः पुनः पुनः ॥४४८॥


**पुनः पुनश्च दातव्या यजमानेन दक्षिणा । ** सितवस्त्रैश्च ते सर्वे पूजनीयाः समन्ततः ॥४४९॥


ऋत्विग्भ्यो दक्षिणा दातव्या, ते चाचार्यादयः सर्वे पुनः पुनः पूजनीयाः ॥४४९॥

**विचित्रहेमकटकैर्मसूत्राङ्गुरीयकैः । ** वासोभिः शयनीयैश्च प्रतियामेषु शक्तितः ॥४५०॥

इत्येवं प्रतियामं यथोक्तं होमादि-देव-पूजान्तो विधिरावर्तनीय इत्यर्थः ॥४५०॥

**भोजनं चापि दातव्यं यावत् स्यादधिवासनम् । ** त्रिसन्ध्यं बलयो देया भूतेभ्यः सर्वतो दिशम् ॥४५१॥


**ब्राह्मणान् भोजयेत् पूर्वं शेषान् वर्णास्तु कामतः । ** रात्रौ महोत्सवः कार्यो नृत्यगीतकमङ्गलैः ॥४५२॥


**त्रिरात्रमेकरात्रं वा पञ्चरात्रमथापि वा । ** सप्तरात्रमथो कुर्यात् क्वचित् सद्योऽधिवासनम् ॥४५३॥

क्वचित् सद्योऽधिवासनमिति चल-मूर्त्य्-अभिप्रायेण देश-कालाद्य्-अपेक्षया ॥४५३॥

हयशीर्षपञ्चरात्रे च—

**यागमण्डपमासाद्य दक्षिणद्वारगोचरे । ** उत्तराभिमुखाः स्थाप्याश्चतस्रो धेनवोऽनघ ॥४५४॥


हयशीर्ष-देवेन च शान्ति-घट-तोय-स्नपनादिकं होम-प्रसङ्गत एव निर्दिष्टम् । अधिवासन-शेष-कृत्यम् अन्यच् च केचिद् आहुः—यागेत्यादिना । अन्यत् स्पष्टार्थम् एव ॥४५४॥

**गङ्गेति प्रथमा ख्याता द्वितीया यमुनेति च । ** गोदावरी तृतीया च चतुर्थी तु सरस्वती ॥४५५॥ दोहनं विष्णुगायत्र्या कृत्वा पश्चाच्चरुं श्रपेत् । गायत्र्या होमयेच्चैव गायत्र्यैव बलिं हरेत् ॥४५६॥


**भोजयेद्ब्राह्मणं चैव मण्डपादुत्तरे द्विज । ** पायसेनाज्ययुक्तेन शर्करामिश्रितेन च ॥४५७॥


**मासाधिपानां तुष्ट्यर्थं दद्यात् कनकदक्षिणाम् । ** गाश्च तांस्तान् समुद्दिश्य एकैकाय निवेदयेत् । देवासुरादीनुद्दिश्य कुर्याद्वलिनिवेदनम् ॥४५८॥


**अधिवास्यैव देवेशं कुर्याज्जागरमादरात् । ** मङ्गलेर्ब्रह्मघोषैश्च जयशब्दरवैस्तथा ॥४५९॥ **पुण्याहशब्दैर्विपुलैर्गीतवादित्रनिस्वनैः । ** शङ्खघोःएन महता वीणावेणुरवेण च । ** कोलाहलैश्च भेर्याद्यैः कुर्याज्जागरणं हरेः ॥४६०॥ ** इत्यधिवासनम् ।
अथ अधिवासन-माहात्म्यम्

तत्रैव—

**यस्त्वेवं विधिना भक्त्या कुर्याद्देवाधिवासनम् । ** स सर्वतीर्थयज्ञानां दानानां तपसां तथा ॥४६१॥ **फलं शतगुणं प्राप्य विष्णोर्लोके महीयते । ** आहूतसप्लवं यावद्देववत्तत्र मोदते ॥४६२॥
अथ प्रासादादेर्गर्तनिर्माणादि
**प्रातः प्रासादगर्तं तु पुष्पाद्भिः प्रोक्ष्य सर्वतः । ** निश्चित्य मध्यमैशान्यां गर्तं कृत्वार्पयेच्छिलाम् ॥४६३॥

गर्तस्याधो ब्रह्म-शिलां न्यसेत् ॥४६३॥

तथा च भविष्ये—

अधिवास्य ततो विष्णुं श्वभ्रं कुर्यात् समाहितः । प्रासादस्यानुरूपेण प्रतिमायाश्च भारत ॥४६४॥


**प्रासादं प्रोक्ष्य सर्वत्र मन्त्रपूतेन वारिणा । ** पातयेत् पक्षसूत्राणि द्वारसूत्रं तथैव च ॥४६५॥


मन्त्रेण ओं सरस्वत्यै भैषज्येन तु इति मन्त्रेण पूतं यत् तेन । पक्ष-सूत्राणि पार्श्व-सूत्राणि ॥४६५॥

**ततो मध्यं समं गृह्य कर्तव्यं स्थिरमादरात् । ** कुर्यात् श्वम्र-प्रमाणेन कृष्णस्याद्भुतकर्मणः । श्वभ्राधस्तान्न्यसेत् पूर्वं शिलां ब्रह्मात्मिकां शुभाम् ॥४६६॥


मात्स्ये—

कृत्वाधिवासं देवानां श्वभ्रं कुर्यात् समाहितः । प्रासादार्चानुरूपेण मानाल्लिङ्गस्य वा पुनः ॥४६७॥


**पुष्पोदकेण प्रासादं प्रोक्ष्य मन्त्रयुतेन तु । ** पातयेत् पक्षसूत्राणि द्वारसूत्रं तथैव च ॥४६८॥


**आश्रयेत् किञ्चिदैशानी मध्यं कृत्वा दिशं बुधः । ** ऐशानीमाश्रितं देवं पूजयन्ति दिवौकसः ॥४६९॥ **आयुरारोग्यफलदमथवोत्तरमाश्रितम् । ** शुभं स्यादशुभं प्रोक्तमन्यथा स्थापनं बुधैः । अधः कूर्मशिला प्रोक्ता सदा ब्रह्मशिलाधिका ॥४७०॥


शुभमपि स्थापनमन् यथा उक्त-प्रकार-व्यतिरेकेणाशुभं स्याद् इति बुधैः प्रोक्तम् ॥४७०॥

हयशीर्षपञ्चरात्रे—

**अधिवास्य विधानेन देवदेवं हरिं प्रभुम् । ** पिण्डिकास्थापनार्थाय गर्तागारं विशेद्गुरुः ॥४७१॥ **यादृशं गर्तङ्गेहं तु कृतं सुरगणार्चितम् । ** संविभज्य प्रकूर्वीत सप्तभागं विचक्षणः । पुनश्च सप्तधा कृत्वा स्थानभागं प्रकल्पयेत् ॥४७२॥


**ब्रह्मभागं भवेन्मध्यं देवं स्यात्तदनन्तरम् । ** तृतीयं मानुषं भागं पैशाचं तु चतुर्थकम् ॥४७३॥ द्विभुजं ध्यानयोगस्थं निविष्टं स्थितमेव च । चतुर्भुजं वा ब्राह्मे तु भागे संस्थापयेद्धरिम् ॥४७४॥ **ब्राह्मभागं परित्यज्य किञ्चिदाश्रित्य वा द्विजः । ** सदैव स्थापयेद्देवं देवमानुषभागयोः ॥४७५॥ **देवमानुषभागाभ्यां शयनं परिकल्पयेत् । ** दारवीं मृन्मयीं मूर्तिं देवस्थाने निवेशयेत् ॥४७६॥


**मानुषं किञ्चिदाश्रित्य आसीनं स्थापयेद्धरिम् । ** नरसिंहं वराहञ्च देवभागे नियोजयेत् ॥४७७॥


**विघ्नेशमम्बिकां देवीं मातृर्भूतगणं तथा । ** आदित्यादीन् हरेरन्यानेवमादींस्तथा परान् । पैशाचे स्थापयेन् स्थाने नात्र कार्या विचारणा ॥४७८॥


**स्वस्थानवर्जिताः सर्वे भयदुःखामयप्रदाः । ** तस्मात् सर्वेण यत्नेन स्वस्थाने विनिवेशयेत् ॥४७९॥
अथ पिण्डिकाशोधनम्
श्रीमूर्त्या सह पिण्डीं च स्थापयित्वाभिपूज्य । रथेन मण्डपं नीत्वा संस्थाप्य पुनरर्चयेत् ॥४८०॥


पूर्वं साक्षाद् अलिखितं पिण्डिका-स्थापनादिकं पिण्डिका-शोधन-प्रसङ्गेऽत्र लिखति—श्री-मूर्त्या सहेति । रथेन श्री-मूर्त्य्-अधिरोहितयानेन, असम्भवे अन्येन वा ॥४८०॥

मात्स्ये—

**ततः प्रक्षालितां कृत्वा पञ्चगव्येन पिण्डिकाम् । ** कषायतोयेन पूनर्मन्त्रयूक्तेन सर्वतः । देवभार्यांश्रयं मन्त्रं पिण्डिकासु नियोजयोत् ॥४८१॥

हयशीर्षे—

श्रियः सूक्तेनार्चयीत प्रत्यूचं पिण्डिकामपि ॥४८२॥
अथ प्रासादे श्रीमूर्तिविजयः

प्राग्वत् श्रीमूर्तिमुत्थाप्य याने चारोप्य मण्डपात् । प्रादक्षिण्येन सानन्दं नयेत् प्रासादमण्डपम् ॥४८३॥


प्रादक्षिण्येन नगरस्य ग्रामादेर् वा प्रदक्षिण-क्रमेण, सानन्दं गीत-वाद्यादि-महोत्सवेनेत्यर्थः, प्रासदे तद्-अग्रतो यन्-मण्डपं तत् ॥४८३॥

तथा च मात्स्ये—

**तत उत्थाप्य देवेशं उत्तिष्ठ ब्रह्मणस्पते । ** आनीय गर्भभवनं पीठान्ते स्थापयेद्बुधः ॥४८४॥


भविष्ये—

**ततश्चोत्थापयेद्देवं मन्त्रेणानेन भूमिप । ** उत्तिष्ठ ब्रह्मणस्पते ब्रह्मघोषैश्च पुष्कलैः । पुण्याहजयघोषश्च शङ्खभेर्यादिनिस्वनैः ॥४८५॥


**रथं चालङ्कृतं कृत्वा तस्मिंश्चारोपयेच्छनैः । ** रथे तिष्ठेति मन्त्रेण रथस्थं कारयेद्धरिम् ॥४८६॥ ग्रामं वा नगरं वापि शनैः कुर्यात् प्रदक्षिणम् । पुष्पैर्गन्धैस्तथान्नाद्यैः शकटं पूरयेच्छुभैः ॥४८७॥

शकटं तद्-रथमेव ॥४८७॥

**शङ्खभेरीनिनादैश्च पताकाभिर्ध्वजैस्तथा । ** चामरैश्च वितानैश्च कलसैः पद्मशोभितैः ॥४८५॥


**दीपदर्पणसंयुक्तैर्गीतमङ्गलनादितैः । ** बलिं प्रक्षिप्यमाणन्तु शनैर्गच्छेत् प्रदक्षिणम् ॥४८९॥
अथ रत्नादिन्यासः
**अर्घ्यपाद्यादिकं दत्त्वा तत्र विश्रम्य च क्षणम् । ** तस्यां ब्रह्मशिलायां तु न्यसेद्रत्नादि मन्त्रतः ॥४९०॥

तत्र मण्डपे क्षणं विश्रम्य, तस्यां गर्ताधोन्यस्तायां, मन्त्रतस् तत्-तन्-मन्त्रैः, रत्न-न्यास-विधि-क्रमश्च मत्स्य-पुराणादि-वचनतोऽग्रे व्यक्तो भवत्येव ॥४९०॥

भविष्ये—

**आनीय मण्डपे पश्चादर्घ्यं पाद्यं च दापयेत् । ** तस्मिन् मुहूर्ते विश्रम्य रत्नन्यासं तु कारयेत् ॥४९१॥ **सर्ववीजानि धातूंश्च रत्नान्योषधयस्तथा । ** काञ्चनं पद्मरागञ्च पारदेन समन्वितम् ॥४९२॥


**पद्मः कूर्मश्च पृथिवी गरुडश्चानुपूर्वशः । ** ब्रह्मस्थाने तु दातव्या मन्त्रपूता यथाविधि ॥४९३॥

पद्मादयश्च स्वर्ण-निर्मिताः अग्रे लेख्य-श्री-हयशीर्षोक्तया ज्ञेयाः ॥४९३॥

**बीजं गाढं न कुर्वीत समूलांस्तान् प्रपातयेत् । ** बीजे गाढे महादोषो व्याधिदोषभयं भवेत् । बीजकानामलाभे तु स्वर्णं सर्वत्र विन्यसेत् ॥४९४॥


बीजं गाढं कठिनम् इत्यर्थः जाताव् एकत्वम् ॥४९४॥

मात्स्ये—

अर्घ्यपाद्यादिकं तत्र मधुपर्कं प्रयोजयेत् । ततो मुहूर्तं विश्रम्य रत्नन्यासं समाचरेत् ॥४९५॥


तत्र—गर्भ-भवने, प्रयोजयेत् — समर्पयेत् ॥४९५॥

वज्रं मौक्तिकवैदूर्यं शङ्खं स्फटिकमेव च । पुष्परागेन्द्रनीलञ्च नीलं पूर्वादितः क्रमात् ॥४९६॥

वज्राद्य्-अष्टकम् अष्टदिक्षु पूर्व-दिशम् आरभ्य क्रमेण अग्रे लेख्य-तत्-तन्-मन्त्रैर् विन्यसेत् । एवम् अग्रेऽपि ज्ञेयम् । तत्र प्रयोगः—

इन्द्रस् तु महसा दीप्तः सर्व-देवाधिपो महान् । दम्भोलि-हस्तः सत्त्वाढयस् तस्मै नित्यं नमो नमः ॥

ओं इन्द्राय नमः इत्यादि । पञ्चरात्रानुसारेण चाग्रे लेख्य-तन्त्रोक्त मन्त्रैरेव । तत्र वज्रं हीरकम् ॥४९६॥

**तालकञ्च शिला-वज्रमञ्जनं श्याममेव च । ** काक्षीं काशीसमाक्षिकं गैरिकञ्चादितः क्रमात् ॥४९७॥

तालकं हरितालकं, शिला मनःशिला, वज्रं वज्राभ्रकं, श्याम-मञ्जनं सौवीराञ्जनम्, काक्षीं सौराष्ट्र-मृत्तिकाम्, काशीसं सीसं, माक्षिकं सुवर्ण-माक्षिकम् ॥४९७॥

**गोधूमञ्च यवं तद्वत्तिलमुद्गं तथैव च । ** नीवारमथ श्यामाकं सर्षपं ब्रीहिमेव च ॥४९८॥


**न्यसेत् क्रमेण पूर्वादौ चन्दनं रक्तचन्दनम् । ** अगुरुं चाञ्जनं चैव उशीरञ्च ततः परम् । वैष्णवीं सहदेवीञ्च लक्षणाञ्च ततः परम् ॥४९९॥

व्रीहिं धान्यम्, अञ्जनं कृष्णागुरुं, वैष्णवीं विष्णु-क्रान्ताम् ॥४९८-४९९॥

स्वलोकपालनाम्ना तु न्यसेदोङ्कारपूर्वकम् ॥५००॥


**सर्वबीजानि धातुंश्च रत्नान्योषधयस्तथा । ** ब्रह्मस्थाने तु दातव्याः संहताः स्युः परस्परम् ॥५०१॥

एवं सर्वाणि बीजानि, सर्वान् धातून्, सर्वाणि रत्नानि, सर्वा ओषधीश्च क्रमेण न्यसेत् । ब्रह्म-स्थाने च मध्ये बीजादयः परस्परं संहता मिलिता दातव्याः ॥५०१॥

**काञ्चनं पद्मरागञ्च पारदं पद्ममेव च । ** कूर्मं धरां वृषं तद्वन्यस्येत् पूर्वादितः क्रमात् ॥५०२॥

पूनः काञ्चनम् अयस्कान्त-लोहम् इति यावत् ॥५०२॥

**मूलकं विद्रुमं ताम्रं कांस्यं चैवारकूटकम् । ** रजतं विमलं पुष्पं लोहं चानुक्रमेण तु ॥५०३॥


विमलं त्रिविधं—हेम-विमलं, तार-विमलं, कांस्य-विमलमिति प्रसिद्धम्; पुष्पं लोह-विशेषं, यत्र पङ्कजाकारा विन्दवो वर्तन्ते । लोहाभावे काञ्चन धातुम्, ओषध्यभावे सह-देवीं दद्यादिति ज्ञेयम् । एतच्च सर्वम् अग्रे हयशीर्ष-पञ्चरात्र-वचनतो विवृतं भावि । तत्र क्वचिद् विरोधश्च फल-भेदादि कल्पनया परिहरणीय इति लिखितमेवेति दिक् । अन्यत् सुगमम् ॥५०३॥

**काञ्चनं हरितालञ्च सर्वाभावे विनिक्षिपेत् । ** दद्याद्वीजौषधिस्थाने सहदेवीं यवानपि ॥५०४॥


हयशीर्षपञ्चरात्रे—

**नपुंसकशिलायान्तु रत्नन्यासं समाचरेत् । ** वस्त्राभरणगन्धाद्यैः पूर्ववद्भूषितो गुरुः ॥५०५॥


**हुत्वाहुतिशतं विप्र नारसिंहेन वा पुनः । ** तेनैवामन्त्र्य रत्नादीन् पिण्डिकां श्वभ्रके न्यसेत् । गुग्गुलं द्रावयित्वाथ गर्भे तु विनिवेशयेत् ॥५०६॥


**रत्नादीनां तु न्यस्तानां निश्चलीकरणाय तु । ** ततो निवेशयेत्तांस्तु दिशासु विदिशासु च ॥५०७॥ **प्रथमावरणे ब्रीहीन् रत्नान्यपि द्वितीयके । ** तृतीये विन्यसेद्धातून् लोहञ्चापि चतुर्थके ॥५०८॥


**प्रत्यावरणगर्भे तु पञ्चमावरणे द्विज । ** चन्दनादींश्च विप्रेन्द्रश्चाष्टदिक्षु निवेशयेत् । एकैकं दिक्षु विन्यस्य मध्ये चैवापरं न्यसेत् ॥५०९॥


ऐन्द्र्याञ्च चन्दनं न्यस्यमाग्नेयां रक्तचन्दनम् । कृत्णागुरुं दक्षिणस्यां निरृत्यामपरागुरुम् ॥५१०॥


उशीरं पश्चिमे भागे विष्णुक्रान्तामथापरे । ** सहदेवीमूदीच्यां तु लक्षणामीशगोचरे । ब्राह्मीं सुवर्चलां मध्ये वृद्धिं ब्राह्मे निवेशयैत् ॥५११॥ ** धान्यमैन्द्र्यां निवेश्याथ आग्नेयां तु कुलत्थकम् । यवान् दक्षिणभागे तु गोधूमं नैरृते न्यसेत् ॥५१२॥


**तिलांस्तु पश्चिमे दद्यान्नीवारं वायुगोचरे । ** मुद्गमुत्तरतो दद्यान्निष्पावमीशगोचरे । मध्ये सिद्धार्थकं दद्याद्रत्नन्यासं समाचरेत् ॥५१३॥


वज्रं तु पूर्वतो दद्यादाग्नेयां मौक्तिकं तथा । वैदूर्यं दक्षिणे दद्याच्छङ्खं निरृतिगोचरे ॥५१४॥


**स्फटिकं वारुणे दद्यात् पद्मरागं तु वायवे । ** उत्तरे चन्द्रकान्तं तु ऐशान्यामिन्द्रनीलकम् । पद्मरागं न्यसेन्मध्ये यथावद्द्विजसत्तम ॥५१५॥


**हरितालं न्यसेत् पूर्वे आग्नेयां तु मनःशिलाम् । ** अञ्जनं दक्षिणे दद्यान्माक्षिकं ब्रह्मगोचरे ॥५१६॥


**सौराष्ट्रीं वारुणे द्रद्याद्वायव्या गैरिकं तथा । ** **सीसं चैवोत्तरे दद्यादेशान्यां गन्धकं तथा । ** पारदं तु न्यसेन्मध्ये यथावत्त्रिदशेश्वर ॥५१७॥ **हिरण्यं पूर्वतो दद्यादाग्नेयां तारमुत्तमम् । ** आयसं दक्षिणे न्यस्य नैरृत्यां त्रपुषं तथा ॥५१८॥ **पश्चिमे विन्यसेद्घोषं नारं वायव्यगोचरे । ** सिह्लकं चोत्तरे न्यस्य शुल्वमीशानगोचरे ॥५१९॥ **पद्मं कूर्मं तथानन्तं पृथ्वीं मध्ये निवेशयेत् । ** सुमेरुञ्च सुरश्रेष्ठ सर्वमेतद्धिरण्मयम् ॥५२०॥


**एषामेकतमं मध्ये न्यसेत् सर्वाण्यथापि वा । ** नमो हिरण्यमन्त्रेण ब्रह्मस्थाने निवेशयेत् ॥५२१॥

किञ्च—

**ओषधीनामलाभे तु विष्णुक्रान्तां विशाम्पते । ** बीजानामप्यलाभे तु यवं सर्वत्र दापयेत् ॥५२२॥ **अलाभे सर्वरत्नानां मुक्ता सर्वत्र शस्यते । ** **अलाभे सर्वधातुनां हरितालं विनिक्षिपेत् । ** अलाभे सर्वलोहानां काञ्चनानि प्रदापयेत् ॥ ५२३॥
अथ रत्नन्यासमन्त्रः

भविष्ये—

**इन्द्रस्तु महसा दीप्तः सर्वदेवाधिपो महान् । ** दम्भोलिहस्तः सत्त्वाट्यस्तस्मै नित्यं नमो नमः ॥५२४॥ ** इति पूर्वदिशि । ** आग्नेयः पुरुषो दीप्तः सर्वदेवमन्योऽव्ययः । धूमकेतुरनाधृष्यस्तस्मै नित्यं नमो नमः ॥५२५॥ ** इति आग्नेयाम् । ** **यमश्चोत्पलवर्णाभः पुरुषो दण्डधृङ्महान् । ** धर्मसाक्षी विशुद्धात्मा तस्मै नित्यं नमो नमः ॥५२६॥ ** इति दक्षिणस्याम् । ** नैरृतः पुरुषः कृष्णः सर्वरक्षोऽधिपो महान् । ** खड्गहस्तो महासत्त्वस्तस्मै नित्यं नमो नमः ॥५२७॥ ** इति नैरृत्याम् । **वरुणः सबल धीमान् पुरुषो निम्नगाधिपः । ** पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः ॥५२८॥ ** इति पश्चिमदिशि । ** **वायुर्वै श्यामवर्णोऽयं सर्वगन्धवहः शुचिः । ** पुरुषो ध्वजहस्तश्च तस्मै नित्यं नमो नमः ॥५२९॥ ** इति वायव्याम् । ** **आत्रेयः पुरुषः सौम्यः सर्वौषधिसमन्वितः । ** नक्षत्राधिपतिः सोमस्तस्मै नित्यं नमो नमः ॥५३०॥ ** इति उदीच्याम् । ** **ईशानः पुरुषः शुक्रः सर्वविद्याधिपस्तथा । ** शूलहस्तो विरूपाक्षस्तस्मै नित्यं नमो नमः ॥५३१॥ ** इति ऐशान्याम् । ** **पद्मयोनिश्च तन्मूर्तिर्वेदव्यासः पितामहः । ** यज्ञाध्यक्षश्च सततं तस्मै नित्यं नमो नमः ॥५३२॥ ** इति ऊर्ध्वे । ** योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् । ** पुष्पवद्धारयेन्मूर्धिन् तस्मै नित्यं नमो नमः । ५३३॥ ** इति अधः ।
मात्स्ये च प्रायः सर्वमेवमेव ।

किञ्च—

**ओङ्कारपूर्विका ह्येते न्यासे बलिनिवेदने । ** मन्त्राः स्युः सर्वदेवानां वृद्धिपुत्रफलप्रदाः । ५३४॥


हयशीर्षपञ्चरात्रे च—

दिगीशानां तु मन्त्रेण रत्नादीन् विनिवेशयेत् ॥५३५॥

तद्यथा—

**ओं शक्रः सुरपतिः श्रीमान् सहस्रनयनोज्ज्वलः । ** यष्टा यः क्रतुमुख्यानां नमस्तस्मै महात्मने । ओं त्रातारमिति मन्त्रेण सान्निध्यं तत्र कारयेत् ॥५३६॥ ** इति पूर्वस्याम् । ** **ओं अजः सर्वगतः शक्तिर्यस्य छायेव राजते । ** हव्यकव्यवहो यो वै नमस्तस्मै महात्मने । ओं अग्न आयाहि मन्त्रेण सान्निध्यं तस्य कारयेत् ॥५३७॥ ** इति आग्नेयाम् । ** **ओं कृष्णाञ्जननिभो रौद्रा दण्डपाणिः स्रगुज्ज्वलः । ** सर्वप्रेताधिपो देवो नमस्तस्मै महात्मने । सान्निध्यकरणे तस्य मन्त्रस्त्वसि यमः स्मृतः ॥५३८॥ ** इति दक्षिणस्याम् । ** **ओं घोरदंष्ट्राकरालस्तु खड्गपाणिः सुभैरवः । ** राक्षसाधिपतिर्देवो नमस्तस्मै महात्मने । सान्निध्यार्थं तस्य मन्त्र एष ते निरृते स्मृतः ॥५३९॥ ** इति नैरृत्याम् । ** **ओं सप्तसागरदेहस्तु पाशपाणिर्भहाद्युतिः । ** यादसां पतिरेको यो नमस्तस्मै महात्मने । तस्यालभनमन्त्रस्तु पद्मनद्यः सरस्वती ॥५४०॥ ** इति पश्चिमायाम् । ** **ओं सप्तसुरानुगा यस्य योनिर्गीता मनीषिभिः । ** अशरीरेति विख्यातो नमस्तस्मै महात्मने । मन्त्रस्तस्यापि सान्निध्ये वात आवातु भेषजम् ॥५४१॥ ** इति वायव्याम् । ** **ओं धनाधिपो ह्रस्वमूर्तिर्गदाहस्तो नृवाहनः । ** उत्तराशाधिपः श्रीमान् नमस्तस्मै महात्मने । सोमं राजेति मन्त्रोऽयं तस्य सान्निध्यकारकः ॥५४२॥ ** इति उदीच्याम् । ** ओं विद्याधिपो वृषारूढ शूलपाणिर्महाबलः । ** त्रैलोक्यवन्दितः श्रीमान् नमस्तस्मै महात्मने । ईशावास्येति मन्त्रेण तत्सान्निध्यं प्रकल्पयेत् ॥५४३॥ ** इति ऐशान्याम् । **ओं य इमां सकलां पृथ्वीं सप्तसागरभूषिताम् । ** विभर्ति माला-प्रतिमां नमस्तस्मै महात्मने । नमोऽस्तु सर्पमन्त्रेण सान्निध्यं तस्य कल्पयेत् ॥५४४॥ ** इति अधः । ** **ओं ब्रह्मा चतुर्मुखः स्वामी सर्वलोकपितामहः । ** कमण्डलुधरः श्रीमान्नमस्तस्मै महात्मने । ** ब्रह्मा देवेति मन्त्रेण सान्निध्यं तस्य कल्पयेत् ॥५४५॥ ** इति ऊर्ध्वे ।
अथ कामविशेषेण द्रव्यविशेषन्यासः

भविष्ये—

**क्षीरवृक्षत्वचं पुष्पमष्टमङ्गलसंयुतम् । ** श्रीकामस्तु न्यसेत् सम्यग्देशवृद्धिकरं शुभम् ॥५४६॥


**पारदं घृतगोधूमान् दूर्वां रोचनया सह । ** गोशृङ्गमृत्तिकाञ्चैव कूर्चेन सह निक्षिपेत् । स्थितस्य तस्य देवस्य श्रियो वृद्धिः सदा भवेत् ॥५४७॥


स्थितस्य तत्-तद्-रव्योपर्यवस्थिते सतीत्यर्थः ॥५४७॥

**कृशरं काञ्चनं चैव पद्मेन सह विन्यसेत् । ** स्थितस्य तस्य देवस्य चातुर्वर्ण्यहितं भवेत् । चतुष्पादाश्च वर्धन्ते दौभाग्यञ्च प्रणश्यति ॥५४८॥


**लाक्षा मधु घृतञ्चैव शमी चाश्वत्थमेव च । ** वेद्या सह च दातव्या यज्ञोत्सवकरास्तथा ॥५४९॥ **मृत्तिका पर्वतस्याथ ह्रदादादाय मृत्तथा । ** यथाक्रमेण दातव्या राष्ट्रवृद्धिकरी नृप ॥५५०॥ काञ्चनं सर्वबीजानि मेदिन्या सह विन्यसेत् । स्थितस्य तस्य कृष्णस्य राजा प्रजा च वर्धते ॥५५१॥


**ब्रह्मस्थाने च विन्यस्य सर्वकामार्थदं शुभम् । ** न भयं न च दुर्भिक्षं तत्तद्द्रव्ये व्यवस्थिते ॥५५२॥ ** इति । **

श्रीहयशीर्षदेवेन रत्नान्यासादनन्तरम्—

वृत्ते शान्त्यम्बुसेके तु प्रासादे विजयो मतः ॥५५३॥

यथा हयशीर्षे—

रत्नान्यासविधिं कृत्वा प्रतिष्ठामारभेद्गुरुः ॥५५४॥


एवं मत्स्य-भविष्य-पुराणोक्तयनुसारिणां सतां मते प्रथमं प्रासादे श्री-मूर्तेर् विजयस् ततो रत्नादि-न्यास इति लिखितम् । श्री-हयशीर्ष-मते च तद्-विपरीतम् इत्युल्लिखन् तत्रैव परमपि कृत्य-विशेषं लिखति—रत्न-न्यासम् इत्यादिना निवेदयेद् इत्यन्तेन ॥५५४॥

**सशलाकैर्दर्भपिञ्जैः सहदेवीसमन्वितैः । ** महाक्षतैस्तु सत्कृत्य पञ्चगव्येन शोधयेत् । प्रोक्षयेद्गन्धतोयेन नदीतीर्थोदकेन च ॥५५५॥


होमार्थे स्थण्डिलं कुर्यात् सिकताभिः समन्ततः । सार्द्धं हस्तप्रमाणन्तु चतुरस्रं सुशोभनम् ॥५५६॥


**अष्टदिक्षु यथान्यायं कलसानपि पूजयेत् । ** मन्त्रेणाष्टाक्षरेणैव पूजादिक्रमयोगतः ॥५५७॥


**आनीय संस्कृतं वह्निं त्वमग्ने प्रयतेत्युचा । ** पलाशसमिधानां तु घृताक्तानां सुरेश्वर ॥५५८॥


**शतं वाथ सहस्रां वा गायत्र्या विष्णुसञ्ज्ञया । ** जुहुयाच्च शतं दद्यादाज्यमष्टाक्षरेण तु ॥५५९॥


**पूर्णाहुतिं शान्तितोयं कुर्यात्तत्र विचक्षणः । ** कलसेषूदकं गृह्य ताम्रपात्रे निवेशयेत् ॥५६०॥


**मन्त्रयेच्छतवारांस्तु मूलमन्त्रेण देशिकः । ** सेचयेद्देचतामूर्ध्नि श्रीश्च तेत्यनयाऽनघ ॥५६१॥


**ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते । ** त्वं विष्णोरितिमन्त्रेण प्रासादाभिमुखं नयेत् ॥५६२॥ **शिविकायां हरिं स्थाप्य रथे वाथ सुयन्त्रितम् । ** भ्रामयीत पुरं सर्वमथवायतनं स्वकम् ॥५६३॥

सुयन्त्रितं सावधानं रथेन सह संयोजितम् इत्यर्थः । अन्यत् सुगमम् ॥५६३॥

**प्रदक्षिशेन देवेशं सर्वशोभासमन्वितम् । ** ततो मङ्गलघोषैश्च गीतैर्मधुरनिस्वनैः ॥५६४॥


**स्तुवद्भिर्मागधैः सूतैर्वाद्यैर्नानाविधैः शुभैः । ** गायद्भ्र्ब्राह्मणैः साम शङ्खाकारेण सर्वशः ॥५६५॥ ** पताकाभिर्विचित्राभिर्ध्वजैर्नानाविधैः शुभैः । ** देवदेवं महादेवं हरिं सर्वजगद्गुरुम् ॥५६६॥ ** संसारार्णवसन्तारपोतभूतं सुरेश्वरम् । ** कर्तृणां स्थपतीनाञ्च शिल्पिनां पुरवासिनाम् ॥५६७॥ स्थापकानाञ्च भृत्यानां पावकं पुण्यवर्द्धकम् । ** भ्राम्य प्रासादाभिमुखं कृत्वा देवं निवेशयेत् ॥५६८॥
अथ तत्र मङ्गलस्नपनम्
एरकायां तु संस्थाप्य स्नपयेन्मङ्गलान्वितम् ॥५६९॥ ** चतस्रोऽविधवास्तत्र दिव्यमन्त्राभिमन्त्रिताः ।
सव्यापसव्यसूत्रेण वेष्ट्य स्पृश्य कुशेन तु ॥५७०॥


**आचार्येणाभ्यनुज्ञाता घटैर्मलयभूषितः । ** स्नपयन्ति हरिं भक्त्या अष्टमङ्गलसंयुतम् ॥५७१॥ ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः । शुक्लवस्त्रेण सञ्छाद्य अष्टाङ्गार्घ्यां निवेदयेत् ॥५७२॥


**एवं क्रमो बहुविधः कृत्यञ्च विविधं भवेत् । ** प्रतिमायां बुधैश्चात्र कार्यं स्वगुरुसम्मतम् ॥५७३॥

नन्वेवं कृत्ये क्रमे च पुराणागमादि-वचनतो विरोधापत्त्या कथं व्यवहर्तव्यम् ? अत्र लिखति— एवमिति । निज-गुरु-सम्प्रदायाचारानुसारेण तत्र तत्र व्यवहारः कर्तव्य इत्यर्थः । एवं सर्वत्रैवोह्यम् । सर्वत्र विविध-विरोध-दर्शनात् पुनः पुनरेव लिख्यते इत्य् उन्नेयम् ॥५७३॥

अथ गर्तलेपनादि

पायसेनोपलिप्यादौ गर्तमाच्छाद्य वाससा । अग्न्यादिभ्यस्तु जुहुयात् सिद्ध्यर्थं तस्य दक्षिणे ॥५७४॥


तथा च मात्स्ये—

**न्यासं कृत्वा तु रत्नानां पायसेनानुलेपितम् । ** पटेनाच्छादयेच्छ्वभ्रां शुबलेनोपरि धारयन् ॥५७५॥

भविष्ये च—

**रत्नन्यासे कृते पश्चात् पायसेनोपलेपयेत् । ** पटेन महता पश्चाच्छ्क्लेनोपरि छादयेत् ॥५७६॥


किञ्च—

**श्वभ्रस्य दक्षिणे पार्श्वे सर्षपान् जुहुयाद्बुधः । ** **अग्नये ब्रह्मणे चैव रुद्राय चैव विष्णवे । ** स्कन्दाय गणराजाय गणमातृभ्य एव च ॥५७७॥

केभ्यो जुहुयात् ? तानेव निर्दिशति । अत्र प्रयोगः—ओं अग्नये स्वाहा, ओं ब्रह्मणे स्वाहेत्यादि ॥५७७॥

अयेन्द्रादिबलिदानम्

**दद्यात् श्रीमूर्तिमुत्थाप्य शक्रादिभ्यो बलिं बुधः । ** तत्तन्नाम्ना चतुर्थ्यन्तनमोऽन्तप्रणवादिना ॥५७८॥

इन्द्रादिभ्यश् च पायसवलिं तत्-तन्-नाम-मन्त्रेण दद्यात्; तत्र प्रयोगः—ओं इन्द्राय नम इत्यादि ॥५७८॥

तथा च तत्रैव—

**इन्द्रादीन् लोकपालांश्च आदित्यांश्च वसुंस्तथा । ** **विश्वेदेवांस्तथा सर्वान् स्वनाम्ना चोपलक्षितान् । ** ओङ्काराद्यान्नमोऽन्तांश्च कृत्वोत्थाप्य बलिं हरेत् ॥५७९॥
अथ प्रासादान्तः श्रीमूर्तिप्रवेशनम्
**देवं गोबालरज्वाऽभिवेष्ट्य स्वस्त्यभिवाचयेत् । ** आचार्यो विधिवत्तञ्च प्रासादान्तः प्रवेशयेत् ॥५८०॥
अथ तद्विधिविशेषः

तत्रैव—

**उत्थितं तत्र देवेशं बालरज्वा हि दण्डवत् । ** ततः सुयन्त्रितं कृत्वा ब्राह्मणान् स्वस्ति वाच्य च । जीवदानं ततः कृत्वा देवदेवं समुत्क्षिपेत् ॥५८१॥


दण्डवद्-वालरज्वा सुयन्त्रितं कृत्वा ‘यत् तु’ इत्यादि-जीव-सूक्तेन जीव-दानं कृत्वा ॥५८१॥

**स्थापकः स्थापयेद्देवं मूर्तिपैर्बलवत्तरैः । ** पुण्याह-जयशब्दैश्च ब्रह्मघोषैश्च पुष्कलैः ॥५८२॥


**आचार्यस्त्वग्रतो गच्छेदर्घ्यहस्तः समाहितः । ** पृष्ठतो यजमानस्तु भक्त्या देवन्तु संस्पृशन् । पुत्रभ्रातृकलत्रैश्च बन्धुभिः परिवेष्टितः ॥५८३॥ **सर्वेऽन्योऽन्यमसंलग्ना ध्यायमाना जनार्दनम् । ** द्वारदेशे समानीय अर्घ्यं तस्मै निवेदयेत् ॥५८४॥

सर्वेऽन्योऽन्यम् असंलग्नाः सन्तो गच्छेयुर् इति शेषः । द्वारदेशे च सर्व-गन्ध-जलैः द्वारि सन्तिष्ठते नमः इति देवं स्नापयेत्, ततोऽर्घ्यं निवेदयेद् इति केषाञ्चिन् मतम् ॥५८४॥

ततः प्रवेशयेद्देवं न द्रुतं न विलम्बितम् । तिर्यगूर्द्ध्वमधश्चैवमस्पृशन्तं प्रवेशयेत् ॥५८५॥


हयशीर्षपञ्चरात्रे च—

**पाशेन यन्त्रितं कृत्वा ततो देवेति चालयेत् । ** अद्वारबन्धे प्रासादे द्वारेणैव प्रवेशयेत् ॥५८६॥


**द्वारबन्धे कृते देवमाकाशेन प्रवेशयेत् । ** **द्वारबन्धे कृते चापि अस्पृशन्तं प्रवेशयेत् । ** देवस्य त्वेति मन्त्रेण तिर्यगूर्द्ध्वमधस्तथा ॥५८७॥
अथ पिण्डिकान्यासादि
पाद्यं दत्त्वा पिण्डिकाञ्च विन्यस्य विधिना च ताम् । प्रक्षाल्याभ्यर्च्य तद्गर्तं पायसेनोपलेपयेत् ॥५८८॥


विधिनेति—प्रतिपदसीति मन्त्रेण पिण्डिकां विन्यस्य पञ्च-गव्येन कषायोदकेन च प्रक्षाल्य, लक्ष्मी-मन्त्रेणाभ्यर्च्येति । पूर्वम् अधिवासे प्रक्षालनादिकम् अस्यापि लिखितं, इदानीं च प्रासादान्तःस्थापन इति भेदः ॥५८८॥

भविष्ये—

विष्णुपीठं न्यसेत् पश्चादर्घ्यं दत्त्वा समाहितः । कपिलाक्षीरसंस्निग्धं परमान्नं तु संस्कृतम् । कपिलाज्येन सम्मिश्रं तैः श्वभ्रमुपलेपयेत् ॥५८९॥


हयशीर्षे—

**रत्नन्यासमिमं कृत्वा नपुंसकशिलातले । ** न्यसेत् पादशिलां तत्र स्त्रीलिङ्गैरुपलक्षिताम् ॥५९०॥ **तत्र सम्पूजयेद्विद्वान् पिण्डिकां शक्तिरूपिणीम् । ** सह रङ्गेण वस्त्रेणाच्छाद्य गन्धादिनार्चयेत् ॥५९१॥


**पुष्पैर्मूलैः फलैर्हृद्यैः सितया चार्द्रकेण च । ** अभ्यर्च्य विन्यसेद्विद्वान् लक्ष्मीबीजं समाहितः ॥५९२॥


**कृत्वैव पिण्डिकाकर्म तदुर्द्ध्वं प्रतिमां न्यसेत् । ** प्रासादानां तु सर्वेषां प्रतिमाबीज उच्यते ॥५९३॥


**प्रतिमानां तु सर्वासां पादपीठः शिलामयः । ** तस्मात् सर्वप्रयत्नेन पीठोर्द्ध्वं प्रतिमां न्यसेत् ॥५९४॥

पीठस्योर्ध्वम् उपरि ॥५९४॥

अथ श्रीमूर्तिस्थापनम्

गन्धपुष्पादिनाभ्यर्च्य विविधैर्मङ्गलस्वनैः । गीतादिभिश्च तां मूर्ति स्थापयेत् पिण्डिकोपरि ॥५९५॥


मात्स्ये—

**तत उत्थाप्य देवेशमिष्टांशे तु शुभाजने । ** ध्रुवा द्यौरिति मन्त्रेण श्वभ्रोपरि निवेशयेत् ॥५९६॥


इष्टे स्थापन-योग्ये अंशे प्रदेश-भागे, तत्र च सुभाजने सत्-पात्रे पिण्डिकोपरीत्यर्थः ॥५९६॥

भविष्ये च—

**स्थापयेत्तमसंलग्नमद्रुतञ्चाविलम्बितम् । ** पुण्याह-जयशब्दैश्च ब्रह्मघोषैश्च पुष्कलैः ।
शङ्खभेरीनिनादैश्च गीतवादित्रनिस्वनैः ॥५९७॥


हयशीर्षपञ्चरात्रे—

पिण्डिकोर्द्ध्वं ततो देवं यन्त्रितो धारयेत् क्षणम् । ततः शङ्खघटीतोयैर्देवज्ञान् लग्नमादिशेत् ॥५९८॥


आदिशेत् पृच्छेद् इत्यर्थः ॥५९८॥

**ज्ञात्वा सम्यक्स्थिरं लग्नमलग्नं वा निवेशयेत् । ** पिण्डिकायां सुरश्रेष्ठ मन्त्रेणानेन देशिकः । ओं त्रैलोक्यविक्रान्ताय त्रिविक्रमाय नमो नमः ॥५९९॥ ** इति । ** संस्थाप्य पिण्डिकायान्तु स्थिरं कुर्याद्विचक्षणः । ** ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि ॥६००॥ ** इति ।
अथ श्रीमूर्तिस्थापनानन्तरकृत्यामि
**ततः स्वार्णादिना देवं संस्थाप्यार्घ्यं प्रदाय च । ** धूपादि दत्त्वावहितो महामन्त्रं जपेद्गुरुः ॥६०१॥

आदि-शब्दात् मधुसर्पिषा, तथा पुरा शान्ति-घटन्यस्तावशिष्टम्पाताहुति-जलेन च, अवहितः निःशब्दताद्यापादनेन सावधानः सन् महामन्त्रं द्वादशाक्षरं जपेत् ॥६०१॥

भविष्ये—

**स्थितमात्रं सुवर्णेन स्नापयेदथ सर्पिषा । ** तस्यान्ते स्नापयेत्तेन सम्पाताहुतिवारिणा ॥६०२॥


तेन पूर्वं शान्ति-घटन्यस्तेन ॥६०२॥

**अर्घ्यं दत्त्वा नमस्कृत्य अर्चयित्वा यथाविधि । ** सकृतं गुग्गुलं दद्यान्निःशब्दं कारयेत्ततः ॥६०३॥

अर्पयित्वेति पाठे आदौ मन्त्रेणाऱ्घ्यं विसृज्य पश्चात् तेन अर्घ्यं कृत्वा, यद्वा, अर्पयित्वा अर्चयित्वेत्येवार्थः ॥६०३॥

**ऐशाने तु दिशाभागे स्थितस्तूष्णीं सुसंयतः । ** उच्चारयेन्महामन्त्रं द्वादशाक्षरमद्रुतम् । तेन वै जप्यमानेन विधेरच्छिद्रता भवेत् ॥६०४॥


विधेः—कर्मणः ॥६०४॥

**मन्त्रहीनो विधिर्यश्च अङ्गहीनश्च यो भवेत् । ** हीनो वै दक्षिणाभिश्च न प्रशस्तः कदाचन । एष गुह्यविधिः प्रोक्तः संहितोक्तो मया तव ॥६०५॥

छिद्रतामेव दर्शयति—मन्त्र-हीन इति ॥६०५॥

अथ मन्त्रै श्रीमदङ्गालभनम्

ओं यज्जाग्रत इत्याद्यैर्मन्त्रैः षड्भिः क्रमात् स्पृशेत् । देवस्य दक्षिणं पार्स्वं वामं पृष्ठं शिरः पदौ ॥६०६॥


अग्रे लेख्यैः षड्भिर् मन्त्रः क्रमेण देवस्य दक्षिणपार्श्वादि-स्थान-षट्कं स्पृशेत् ॥६०६॥

भविष्ये—

अधुना वैदिकं वक्ष्ये विधिं सामान्ययोगतः । एताभिरृग्भिः षड्भिश्च विष्णुं सर्वत्र संस्पृशेत् ॥६०७॥


दक्षिणं पश्चिमं चैव उत्तरं पूर्वमेव च । ** मूर्ध्नि मुले च यत्नेन संस्पृशेत् प्रयतो बुधः ॥६०८॥
अथ मन्त्राः
ओं यज्जाग्रतो दूरमुदैति दैवम् ॥६०९॥ ** इति । ** ओं येन कर्मण्यपसो मनीषिणे यज्ञ ॥६१०॥ ** इति । ** ओं यत् प्रज्ञानामृतचेतो धृतिश्च ॥६११॥ ** इति । ** ओं येनेदम्भूतं भुवनं भविष्यत् ॥६१२॥ ** इति । ** ओं यस्मिन्नृचः सामयजुंषि यस्मिन् ॥६१३॥ ** इति ।
ओं सुखारथिरश्चातिवयन्मनुष्यान् ॥६१४॥ ** इति । **

मात्स्ये—

देवध्यानैकचेतास्तु मन्त्रानेतानुदीरयेत् ॥६१५॥


**ओं यज्जाग्रतो दूरमुदैति इति ततो विराडजायत इति सहस्रशीर्षा पुरुष इति अभि त्वाशूर नो नुम इति । ** ओं पुरुष एवेदं सर्वमिति ओं येनेदं भूतं भुवनमिति ओं न त्वा वा अन्य इति ॥६१६॥ सर्वस्वेनान् प्रतिष्ठासु जप्त्वा मन्त्रान् पुनः पुनः । ** चतुष्कृत्वः स्पृशेदद्भिर्मूले मध्ये शिरस्यपि ॥६१७॥ ** इति ।
अथ जपविधिविशेषः
देवमूर्ध्नि करं न्यस्य देवं ध्यायन् जपेद्गुरुः । सूक्तान्यथात्मतत्त्वञ्च भावयित्वा पठेन्मनून् ॥६१८॥

सूक्तानि देव-व्रतादीनि जपेत्, आत्म-तत्त्वं ‘भगवद्-दासोऽस्मि’ इत्येवं ध्यात्वा ॥६१८॥

तत्रैव—

**ततः स्थिरीकृतस्यास्य हस्तं दत्त्वा तु मस्तके । ** ध्यात्वा परमसद्भावं देवदेवन्तु निष्कलम् ॥६१९॥ **देवव्रतं तथा साम रुद्रसूक्तं तथा पठेत् । ** आत्मानमीश्वरं ध्यात्वा नानाभरणभूषितम् । यस्य देवस्य यद्रुपं तद्ध्याने संस्मरेत् सदा ॥६२०॥

आत्मानं सर्वान्तर्यामिणम् ॥६२०॥

अथ मन्त्राश्च

तत्रैव—

**अतसीपुष्पसङ्काशं शङ्खचक्रगदाधरं । ** संस्थापयामि देवेशं देवो भूत्वा जनार्दनम् ॥६२१॥


देवः देवस्याधीनो दास इत्यर्थः ॥६२१॥

किञ्च—

वेदमन्त्रांस्तथा मन्त्रान् रुद्रस्य स्थापने जपेत् । विष्णोस्तु वैष्णवांस्तद्वद्ब्राह्मांश्च ब्राह्मणो बुधः ॥६२२॥


**सौराः सूर्यस्य जप्तव्यास्तथान्येषु तदाश्रयाः । ** वेदमन्त्रप्रतिष्ठा तु यस्मादानन्ददायिनी ॥६२३॥

वेद-मन्त्र-जपे हेतुम् आह—वेदेति । अतो वैदिक-मन्त्र-प्रधानैर् एव प्रतिष्ठा कार्येति भावः ॥६२२-६२३॥

किञ्च—

**स्थापयेद्यस्तु देवेशं प्रधानन्तं प्रकल्पयेत् । ** तस्य पार्श्वे स्थितानन्यान् स्मरेत्तत्परिवारवत् ॥६२४॥

परिवारवत् स्मरेत्, परिवारान् जानीयात् ॥६२४॥

हयशीर्षपञ्चरात्रे—

**पञ्चगव्येन तं स्नाप्य क्षाल्य गन्धोदकेन तु । ** पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम् ॥६२५॥

श्री-हयशीर्ष-देवेन च संस्थाप्य पिण्डिकायां तु इति पद्येन पिण्डिकायां स्थिरीकरणम् उक्त्वा तद्-अनन्तरकृत्यं यद्-उक्तं, तल्-लिखति—पञ्च-गव्येत्यादिना । अन्यत् सुगमम् । तत्र ध्यानादाव् अर्थ-विशेषश्च श्री-भागवतानां हृदय-वेद्य एव ॥६२५॥

ध्यायेत्त परमात्मानं निष्कलं निर्मलं विभुम् ॥६२६॥


**गगनं तस्य मूर्तिस्तु पृथिवी तस्य पिण्डिका । ** कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः ॥६२७॥


**तेजोमयं ततो ध्यायेच्छङ्खचक्रगदाधरम् । ** मन्त्रमूर्तिं ततः कुर्यान्मूलमन्त्रेण वै हरिम् ॥६२८॥


**स्थिते सति स्थितिन्यासमासीने सृष्टिसञ्ज्ञितम् । ** शयिते संहृतिन्यासं यानस्थे सर्वमेव च ॥६२९॥ **एवं न्यासविधिं कृत्वा ध्यायेद्विष्णुं सुरेश्वरम् । ** हृत्तामरस-मध्यस्थं सर्वकर्मैर्कसाक्षिणम् । क्षेत्रज्ञं चित्स्वभावन्तमणीयांसमणोरपि ॥६३०॥


**अदोषपरमर्ष्यादीन् प्रतिमायां निवेशयेत् । ** सजीवकरणं कृत्वा प्रणवेन निरोधयेत् ॥६३१॥


**सान्निध्यकरणार्थाय हृदयं स्पृश्य देशिकः । ** पौरुषन्तु जपेत् सूक्तं ध्यायेद्देवं सुरेश्वरम् ॥६३२॥ जपेत्तथापरं मन्त्रमिमं गुह्यं सनातनम् ॥६३३॥


**ओं नमस्तुभ्यं सुरेशाय सन्तोषविभवात्मने । ** ज्ञानविज्ञानरूपाय ब्रह्मातेजोऽनुशालिने ॥६३४॥


**गुणानुक्रान्तवेशाय पुरुषाय महात्मने । ** अक्षयाय पुराणाय विष्णो सन्निहितो भव ॥६३५॥


**यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः । ** तत् सर्वमेकतो लीनमस्मिन् देहे विबुध्यताम् ॥६३६॥ **अनेन सन्निधोकृत्य देवं देवारिसूदनम् । ** ब्रह्मादिपरिवारांस्तु स्वनाम्ना स्थापयेत्ततः ॥६३७॥ **आयुधान्यस्य मन्त्रैस्तु नमोऽन्तैः स्थापयेद्बुधः । ** **ततः सन्दर्शयेत् पश्चात् स्वकां मुद्रां पृथक् पृथक् । ** सान्निध्यन्तु पृथक् कुर्यात् प्रणवेन प्लुतेन तु ॥६३८॥
अथ महापूजा
**कृष्णे न्यस्य गुरुश्चित्तं मन्त्रैरावाहनादिकम् । ** कृत्वा तु स्नापयेद्गीतादिना पञ्चामृतादिभिः ॥६३९॥

मन्त्रैर् अग्रे लेख्यैः—ओं आगच्छेत्यादिभिः, अन्यैश् चोपयुक्तैर् आवाहनम्, आदि-शब्देन ध्यानादि च कृत्वा गीतेन, आदि-शब्दात् गीत-नृत्य-वेद-घोषादिना च । इत्यादि सर्वम् अग्रे व्यक्तं भाव्येव ॥६३९॥

तथा च भविष्ये—

**पश्चादावाहनं कुर्याद्देवदेवस्ण शार्ङ्गिणः । ** ध्यात्वा परमसद्भावं चतुर्बृहं चतुर्भुजम् ॥६४०॥


**तत्र सन्धाय चित्तं तु निश्चलं कुरुनन्दन । ** आवाहनं ततः कुर्यान्मुनिभिर्मन्त्रसंयुतैः ॥६४१॥
तत्र मन्त्रः
ओं आगच्छागच्छ भगवन्ननुग्राहय जनार्दन । शाश्वतः पुरुषः पूजां प्रतिगृह्णातु नमो नमः ॥६४२॥


**ओं स्वागतं भगवते सगणाय सपरिवाराय । ** प्रतिगृह्णातु भगवान् मन्त्रपूतमिदमर्घ्यं पाद्यमाचमनीयं चैतदासनं ब्रह्मणा विहितं स्वयम् ॥६४३॥


मात्स्ये—

**ततः पुण्याहघोषेण ब्रह्मघोषैश्च पुष्कलैः । ** स्नापयीत ततो देवं दधिक्षीरघृतेन च । मधुशर्करया तद्वत् पुण्यगन्धोदकेन तु ॥६४४॥


ततः स्थापनानन्तरम्, अत्र च स्नपनानन्तरं केषाञ्चिन् मतम् इदम्—ओं यज्-जाग्रतो दूरम् इत्यादि-मन्त्रान् जप्त्वा त्रिकृत्वो मूले मध्ये शिरसि पुनर् देवम् अभिस्पृशेत्, सर्वासु प्रतिष्ठासु एतान् मन्त्रान् जप्त्वा पुनः पुनरिति पूर्व-लिखित-मात्स्य-वचनात् । ततो देवाग्रेऽग्निम् आधाय परिस्तीर्य गायत्र्या वैष्णवेन च मन्त्रेण चतसृभिर् आहुतिभिर् एकैकं जातकर्म-नामकरण-निष्क्रामणान्नप्राशन-चूडाकरणोपनयनादिकां क्रियां कुर्यात् । ततश् चतुर्दिक्षु ओं त्रातारम् इत्यादि-चतुर्मन्त्रः क्रमेणाज्याहुतिं दत्त्वा विधिवत् यागं कृत्वा स्विष्टिकृतं जुहुयात् ॥६४४॥

**कृत्वाथोद्वर्तनं दत्त्वा वस्त्रादि विधिवद्बुधः । ** नत्वा प्रदक्षिणीकृत्य स्तुत्वा चाभ्यर्थयेत् प्रभुम् ॥६४५॥

अथ पञ्चामृतादि-स्नपनानन्तरं देवस्योद्वर्तनं सुगन्धि-चूर्णैः कृत्वा, वस्त्रम्, आदि-शब्दात् गन्ध-पुष्पादि । विधिवद्-बुध इति—यथा येन मन्त्रेण यद्-दातुम् उपयुज्यते, तथा तेन तद्-दत्त्वेत्यर्थः । एवमग्रेऽपि बोद्धव्यम् । स्तुत्य्-अर्चनयोः प्रकार-विशेषश् चाग्रे व्यक्तो भावी ॥६४५॥

भविष्ये—

ततः पूजां प्रकुर्वीत संहितोक्तान्तु मन्त्रवित् । चन्दनागुरुकर्पूरकुङ्कुमाद्यैश्च लेपयेद् ॥६४६॥


**नारायणेति मन्त्रेण वस्त्रैर्धूपैश्च योजयेत् । ** एवं सुपूजितं कृत्वा देवदेवं जनार्दनम् । प्रणम्य दण्डवद्भूमौ शनैर्गच्छेत् प्रदक्षिणम् ॥६४७॥


**पुनरागत्य पुरतो विज्ञप्तव्यो जनार्दनः । ** सुकृतं दुष्कृतं वापि ज्ञानतोऽज्ञानतोऽपि वा । तत् सर्वमात्मना सार्द्धं मया तुभ्यं निवेदितम् ॥६४८॥

किञ्च—

शान्तिं भवन् कुर्वथ लोकनाथो राज्ञश्च राष्ट्रस्य च ब्राह्मणानाम् । सबालवृद्धस्य गवाञ्च शान्तिं कन्यासु सर्वासु पतिव्रतासु ॥६४९॥ ** नश्यन्तु रोगा अथ ईतयश्च भवन्तु सर्वे सुखिताश्च भूताः ।** शाकेषु ब्रीहिष्वथ कर्षकाणां सुभिक्षकालं कुरु पद्मनाभ ॥६५०॥


हयशीर्षे—

**कृत्वाष्टाङ्ग-नमस्कारं प्रणम्याञ्जलिमुद्रया । ** सान्निध्यकरणाच्चाथ ऋत्विग्भिः सहितो गुरुः ॥६५१॥

श्री-हयशीर्ष-देवेन च पिण्डिकायां देवस्य स्थापनानन्तरं पञ्च-गव्यादि-स्नपनं ध्यानादिक सन्निधीकरणं चोक्तवा परिवार-स्थापनानन्तरं भगवत्-सान्निध्य-लक्षणान्य् उक्त्वा ततः प्रणामादिकम् उक्तम् । तत्र च स्नपनादि-सन्निधीकरणान्तं पूर्वं लिखितमेव, इदानीं चात्र प्रणामादि-प्रसङ्गे सान्निध्य-लक्षणान्य्-अलिखित्वा तद्-उक्तं प्रणामादिकम् एवादौ लिखति—कृत्वेत्यादिना, सान्निध्यकरणाद् अथ अनन्तरञ्च ॥६५१॥

**स्तूयादुपनिषन्मन्त्रैरृग्यजुःसामसम्भवैः । ** आवश्यकं पठेत् सर्वं पञ्चोपनिषदस्तथा । स्तुत्वा स्तोत्रैश्च पौराणैर्जपेदष्टाक्षरं ततः ॥६५२॥

आवश्यकं नित्य-पाठ्यं, प्रतिष्ठायाम् अवश्यं पठनीयं वा पुरुष-सूक्तादि । अन्यत् सुगमम् ॥६५२॥

**जप्त्वाष्टाक्षरमन्त्रं तु निर्गत्य द्वारसस्थितौ । ** चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः ॥६५३॥ **अग्रमण्डपमासाद्य गरुड स्थाप्य पूजयेत् । ** दिगीशानथ दिग्देवान् स्थाप्य सम्पूज्य देशिकः ॥६५४॥ **विष्वक्सेनन्तु संस्थाप्य मूलमन्त्रेण पूजयेत । ** तथा शङ्खञ्च चक्रञ्च पूजयेन्मन्त्रवित्तमः । विष्णुपार्षददेवांश्च सर्वेभ्यो बलि हिरेत् ॥६५५॥


**एवं कृत्वा गुरुः सम्यक् शुक्लाम्बरधरः शुचिः । ** शतमष्टोत्तरं जप्त्वा देवं तमभिवादयेत् ॥६५६॥ प्रणाममुद्रया पश्चादष्टाङ्गं प्रणिपत्य च । नृत्यं गीतञ्च वाद्यञ्च नाट्यञ्चापि प्रकारयेत् ॥६५७॥ ** इति । ** **यद्वा स्थापनतः पश्चाद्वर्णादिस्नपन प्रभोः । ** ध्यानं जपाङ्गालभनं पूजाथावरणार्चनम् ॥६५८॥

एवञ्च स्थापनानन्तरमादौ द्वादशाक्षर-जपः, ततो मन्त्रैः श्रीमद्-अङ्गालभनं, तत्रैव किञ्चिद् ध्यानं, तन्-मन्त्र-जप-विशेषः, तत्रैव ध्यान-विशेषश्च, ततो हयशीर्ष-देवोक्त-पूजादि च, ततः पुनर् महापूजायां ध्यानाद्य्-आवाहनादि, पञ्चामृतादि-स्नपनं, वस्त्रादि-समर्पणं, ततः प्रणामादि च लिखितम् । इत्थं वारं वारं जप-ध्यान-पूजादिकं प्राप्तम् । तत्र च मात्स्ये—ततः स्थिरीकृतस्यास्य इत्यादिना स्थानानन्तरं देव-मूर्ध्नि हस्त-न्यास-पूर्वकं ध्यानम् उक्तं, ततो देव-व्रतादि-सूक्तानां मन्त्राणां च पाठः, ततः पञ्चामृतादि-स्नपनं, ततो मन्त्रैः श्रीमद्-अङ्गालभनम् । भविष्ये च—स्थित-मात्रं सुवर्ण इत्यादिना स्थापनानन्तरं सुवर्णादि-स्नानं, ततो द्वादशाक्षर-जपः, ततो वैदिक-षड्-मन्त्रैः श्रीमद्-अङ्गालभनम्, आवाहनादिना पूजनं तु स्थापनात् पूर्वम् एवोक्तम् । केवलम् अन्ते स्नपन-विध्युक्तानन्तरं, ततः पूजां प्रकुर्वीत इत्यादिना पूजा-नमस्कारादिकम् उक्तम् । श्री-हयशीर्ष-पञ्चरात्रे च—पञ्च-गव्येन तं स्नाप्य इत्यादिना स्थापनानन्तरं स्नपनं, सकलीकरण-पूर्वकं पूजनं, ध्यानं, न्यास-जपादिना सन्निधीकरणञ्चोक्तम् । एवं जप-ध्यान-पूजादौ पौनःपुन्यं क्रियालाघवं चालोच्य पूर्व-लिखितं केषाञ्चित् पद्धतिकाराणां सम्मतं पक्षं निरस्य पक्षान्तरं लिखति—यद्वेति । अथ देव-पूजानन्तरम्, आवरणानां ब्रह्मादि-परिवाराणाम् अर्चनम् । तत्र च भविष्योक्तानुसारेण स्थापनानन्तरं स्वर्णादि-स्नपनम् । ततो मात्स्योत्तानुसारेण ध्यानं, ततश्च तद्-द्वयोक्तानुसारेण मन्त्र-जपः, मन्त्रैः श्रीमद्-अङ्गालभञ्च । ततश्च भविष्ये स्नपन-विध्यन्तोक्तानुसारेण श्री-हयशीर्ष-देवोक्तानुसारेण च आवाहनादिना सकलीकरणादिना च पूजनम् । ततो मात्स्य-हयशीर्षोक्तानुसारेण परिवार-पूजनम् इत्य् एवम् अपौनःपुन्यं ज्ञेयम् ॥६५८॥

**यद्वाऽङ्गालभनात् पश्चात् सकलीकरणादिकम् । ** कुर्याच्छीहयशीर्षोक्तं परिवारार्चनं ततः ॥६५९॥

एवं श्रीमदङ्गालभनानन्तरं पूजा लिखिता । तत्र च मात्स्ये, भविष्ये च स्नपनानन्तरं श्रीमद्-अङ्गालभनम् एवोक्तं, न च पूजनम् । श्रीमदङ्गालभनानन्तरं च मात्स्ये आचार्यादि-पूजनम् उक्त्वा ततस्तु मधुना देव प्रथमेऽहनि लेपयेत् इत्यादिना दिनान्तरकृत्यम् एवोक्तम्, भविष्ये च दिनान्तरकृत्यम् एव । हयशीर्ष-पञ्चरात्रेऽपि पूजनं धूप-दीप-नैवेद्यादि-समर्पणेन विशेषतो विविच्य नोक्तं, किन्तु केवलं पूजयेद् इत्येवोक्तं, पश्चाच् च सकलीकरणादि-सन्निधीकरणान्त-मात्रकृत्यम् उक्तम् । सान्निध्य-लक्षणोक्त्यनन्तरं च प्रणामादिकम् एव, इत्येवं विचार्य महा-पूजा-शब्दोल्लिखितं पूजा-विशेषं त्याजयन्निव पूर्व-लिखित-पक्ष एव पक्षान्तरं लिखति—यद्वेति । सकलीकरणम्, आदि-शब्दात् ध्यायेत् तं परमात्मानम् इत्यादिना पञ्चरात्रोक्तानि ध्यान-न्यास-जप-सन्निधीकरणानि च । ननु मात्स्य-भविष्य-पुराणयोः श्रीमदङ्गालभनानन्तरं तत् किञ्चिन्नास्ति, तत्र लिखति—हयशीर्षोक्तम् इति । अतो मात्स्य-भविष्योक्तम् अतिक्रम्य श्री-हयशीर्ष-देवोक्तानुसारेण, एवं सर्वत्र प्रायो व्यवहर्तव्यमिति भावः । मात्स्ये श्री-रुद्रस्य प्रतिष्ठा-प्राधान्यात्, भविष्ये सङ्क्षेपोक्तरिति दिक् । एतच् चाग्रे स्वयमेव व्यक्तं लेख्यम् । ततः सन्निधीकरणानन्तरमेव परिवाराणाम् अर्चनम् इति समानम् एव ॥६५९॥

अथ तत्र श्रीभगवत्सान्निध्यलक्षणानि

हयशीर्षे—

**तस्मिन्नेव मुहूर्ते तु हर्षो वाभयमेव च । ** चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥६६०॥

अभयं भयाभावः, चक्षुषो भ्रमः, अन्यस्मिन्न् अन्यदर्शनं, विभ्रमो भ्रान्ति-विशेषः ॥६६०॥ \

**व्यामोहः परमोहो वा स्तनितं परमं तथा । ** अश्रतानां श्रुतिर्वा स्याद्गात्राणां वाथ वेपथुः ॥६६१॥


व्यामोहो मौढय-विशेषः, परमोहो मूर्च्छा ॥६६१॥

वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा । परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥६६२॥


नेत्रयोर् वैराग्यं वैवर्ण्य-दशने निर्वेदो वा ॥६६२॥

**दिव्यवादित्रघोषो वा गन्धर्वनगरस्य वा । ** दर्शनं जायते काले तस्मिन् सुरगणार्चिते ॥६६३॥

तस्मिन् काले स्थापन-समये ॥६६३॥

**नरा नायर्योऽथ दृश्यन्ते गायन्त्योऽप्यथ हर्षिताः । ** नन्दितूर्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥६६४॥


**दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि । ** लिङ्गैरेतैर्विजानीयात्तत्र सन्निहितं हरिम् ॥६६५॥

एकस्यैव द्रव्यस्य दिव्या बहवो गन्धा रसा वा भवन्ति यदि । तत्र प्रासादे, तस्यां वा प्रतिमायाम् । अन्यत् सुगमम् ॥६६५॥

**प्रभावैरविशेषेण ज्वलन्तीव च दृश्यते । ** स्फूरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥६६६॥


**स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् । ** वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते । एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः ॥६६७॥


**विशेषादथवा पश्येच्चक्रचापोपमं क्वचित् । ** छविं वज्रप्रभां पश्येत् पद्मरागप्रभां तथा ॥६६८॥ सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि । एतैर्ल्ङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥६६९॥


**बधिरा इव केचित्तु मूका इव तथापरे । ** विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥६७०॥


**धावन्त इव केचित्तु पतन्त इव चापरे । ** नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि ॥६७१॥


**चित्रस्था इव केचित्तु विवशा इव केचन । ** **भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे । ** लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥६७२॥
अथाचार्यादिसम्माननम्
सन्मानयेदथाचार्यं शक्त्या वस्त्रादिना ततः । मूर्तिपंश्चापरान् विप्रान् वैष्णवांश्चापरानपि ॥६७३॥


शक्त्या स्वशक्तयानुसारेण यथाविभवम् इत्यर्थः । अपरान् दीनान्धादीनपि तत्रागतान् ॥६७३॥

मात्स्ये—

**स्थापिते तु ततो देवे यजमानः समूर्तिपम् । ** आचार्यं पूजयेद्भक्त्या वस्त्रालङ्कारभूषणैः । दीनान्धकृपणांस्तद्वद्ये चान्ये समुपस्थिताः ॥६७४॥

दीना दरिद्राः, कृपणा रागादि-दुःखिताः, ये चान्येऽन्त्यजादयस् तान् अपि ॥६७४॥

भविष्ये—

**ततः सम्पूजयेद्भक्त्या स्थापकं विधिवन्नृप । ** भूमिदानादिभिर्दानैर्गोदानैश्च महीपते । यथा स तुष्यते राजंस्तथा कार्यं प्रयत्नतः ॥६७५॥


भविष्ये च सर्वान्ते प्रोक्तम् अप्य् अचार्यादि-सम्माननं यथा-प्रसङ्गम् अत्र लिखति—तत इति त्रिभिः ॥६७५॥

**यथाशक्त्यानुसारेण पूज्याश्चापि द्विजातयः । ** दीनान्धकृपणानाञ्च पूजा कार्या प्रयत्नतः । गणांश्च नर्तकांश्चैव यथाशक्ति प्रपूजयेत् ॥६७६॥


हयशीर्षे—

**मण्डले कमले वापि स्थापयित्वा गुरुं यजेत् । ** प्रियप्राश्नैः क्षमाप्यैनं विष्णुवत् पूजयेद्बुधः । पादयोः प्रणिपत्याथ दक्षिणाञ्च निवेदयेत् ॥६७७॥


मण्डले—सर्वतोभद्रादौ । यद्यपि यागोपयोगि-द्रव्याणि सर्वाण्यस्मै निवेदयेत् इत्यादिना दानानन्तरम् एवाशेष-यागोपकरण-द्रव्यार्पणम् अपि श्री-हयशीर्ष-देवेन प्रसङ्गाद् एकत्रैवोक्तं, तथापि तत्र पृथक्कृत्य मात्स्योक्तानुसारेण पुनर् आचार्य-सम्माननेऽग्रे लेख्यम्, चतुर्थीकर्मादि-शेषकृत्य समाप्ति-पदेन याग-द्रव्य-सामग्रयाः सिद्धेः ॥६७७॥

**आचार्य-दक्षिणां दद्यान्नगरं ग्राममेव च । ** सुवर्णं रजतं वस्त्रं गाञ्चैव समलङ्कृताम् । दक्षिणां विधिवद्दत्त्वा दद्यादाभरणादिकम् ॥६७८॥


**आचार्यदक्षिणार्द्धन्तु प्रदद्याद्ब्रह्मदक्षिणाम् । ** मूर्तिपान् पूजयेत् पश्चाद्गोवस्त्राभरणैर्द्विज ॥६७९॥


सर्वांस्तु पूजयेत्तत्र वैष्णवानागतान् द्विजान् । भोजयेद्ब्राह्मणान् भक्त्या अत्यादरमतन्द्रितः ॥६८०॥

वैष्णवान् विप्रान् सम्पूजयेत्, अन्यांश्च ब्राह्मणान्, तद्-अनन्तरमेव तान् भोजयेद् इत्यर्थः ॥६८०॥

किञ्च—

**यज्ञः सुपुष्कलः सर्वः कर्तव्यो धर्मलिप्सया । ** मन्त्रहीनो गुरुं हन्याद्राष्टमन्येन वर्जितः । धर्मञ्च यजमानञ्च हन्याद्दक्षिणया विना ॥६८१॥ ** इति । **

दक्षिणादिकं चावश्यमेव देयम् इत्याह—यज्ञ इति सार्धेन । सर्वो यज्ञः सुपुष्कलः सम्पूर्ण एव कर्तव्यः, अन्यथा च परमानर्थ एवेत्याह—मन्त्रेति ॥६८१॥

अथवा स्थापनात् पश्चाद्ध्यानाद्यावाहनादि च । पञ्चामृतादिना स्वार्णादिनान्यस्नपनं ततः ॥६८२॥


**वस्त्रादिदानैर्विधिवत् पूजा-मन्त्रजपादिकम् । ** नतिः प्रदक्षिणा याच्ञा गुर्वाद्यर्चेत्ययं क्रमः ॥६८३॥

एवं लिखितस्यास्य प्रतिष्ठा-विधि-क्रमस्य पूर्व-लिखित-नित्य-पूजा-विधि-क्रमेण विरोधाशङ्क्य पूर्व-सूचित-क्रमे पक्षान्तरं लिखति—अथवेति । आदि-शब्दैर् गृहीतानि पूर्व-लिखितानुसारेणोन्नयानि । एवं क्रम-लिखनेन विधिरपि दर्शित एव । ततश्च पूर्व-लिखिते द्वितीय-पक्षे परित्यक्तम् अपि पूजनं प्रासादान्तः पिण्डिकोपरि स्थापन-रूपे मुख्य-कृत्ये अस्मिन्न् अवश्यम् एवापेक्ष्यम् इति तद् अत्र लिखितम् इति ज्ञेयम् । एतच् चाखिलं पूर्व-लिखित-मात्स्यादि-वचनार्थ-विचारणे प्रायः पर्यवस्यत्य् एव । यत्र च यत्र च विरुध्येत, तत्र च तत्र च ग्रन्थान्तरेण सहैकवाक्यतार्थं वचन-पौर्वापर्यादि-विचारेणाभिज्ञैर् विरोधः परिहरणीय एव । सर्वत्रैव तथात्वाद् इति दिक् ॥६८२-६८३॥

अथ श्रीमूर्तिस्थिरतापादनम्

मूर्तिं च चालयेज्जातु यत्नात् सुस्थिरतां नयेत् । तस्यां प्रचलितायाञ्च कुर्यात् स्वस्त्यनादिकम् ॥६८४॥


मूर्तिम् इत्यादि, ततः परम् इत्यन्तं सुगमम् एव ॥६८४॥

तथा च मात्स्ये—

**स्थिरं न चालयेद्देवमन्यथा पापभाग्भवेत् । ** पूजयेत् सिकताभिश्च निश्छिद्रं सर्वतो भवेत् ॥६८५॥ **लोकपालस्य दिग्भागे यस्य सञ्चलते विभुः । ** तस्य लोकपतेः शान्तिर्देयाश्चेमाश्च दक्षिणाः ॥६८६॥ **इन्द्राय वारणं दद्यात् काञ्चनं वाल्पवित्तवान् । ** अग्नेः सुवर्णमेषञ्च यमस्य महिषं तथा ॥६८७॥ **अजं सकाञ्चनं दद्यान्निरृतिं राक्षसं प्रति । ** वरणं प्रति मुक्तानि सशुक्तीनि प्रदापयेत् ॥६८८॥


**रीतिकां वायवे दद्याद्वस्त्रयुग्मेन संयुताम् । ** सोमाय धेनुर्दातव्या राजतस्तु वृषः शिवे ॥६८९॥


**यस्यां यस्यान्तु चलते शान्तिः स्यात्तत्र तत्र तु । ** अन्यथा तु भवेद्घोरं भयं कुलविनाशनम् । अचलं कारयेत्तस्मात् सिकताभिः सुरेश्वरम् ॥६९०॥


भविष्ये—

स्थिरं न चालयेद्देवं कदाचिदपि पिण्डतः । हन्याद्विचालितोऽज्ञानात्तस्मात्तं न विचालयेत् ॥६९१॥


यां यां दिशं चलेद्देवस्तां तां शान्तिन्तु कारयेत् । अन्यथा तु भवेद्घोरं भयं कुलविनाशनम् ॥६९२॥


**यथा न चलते देवस्तथा वध्नीत पिण्डिकाम् । ** **शीघ्रमेव तु कर्तव्यं न विलम्बेत् कदाचन । ** प्रतिमां सुस्थिरां कुर्यान्नोर्द्ध्वदृष्टिं कदाचन ॥६९३॥
अथ दिनान्तरोत्सवः
रात्रौ गीतादिकं कुर्वन् दिवसे च महार्चनम् । महोत्सवेनाहरेकं शक्त्या वा कतिचिन्नयेत् ॥६९४॥


भविष्ये—

**त्रिरात्रं सप्तरात्रं वा दशरात्रमथापि वा । ** पुण्याह-जयघोषैश्च कुर्याद्देवमहोत्सवम् ॥६९५॥

किञ्च—

**रात्रौ महोत्सवं कुर्याच्छङ्खभेर्यादिनिस्वनैः । ** एकरात्रं त्रिरात्रं वा सप्तरात्रमथापि वा । तस्माद्विष्णुः सदायाति इत्येषा फलसम्प्रदा ॥६९६॥


मात्स्ये—

**रात्रौ दिने च गीताद्यैः पुण्याह-जयमङ्गलैः । ** त्रि पञ्च सप्त दश वा दिनानि स्थानमहोत्सवः ॥६९७॥
अथ तत्र कृत्यविशेषेण फलविशेषः

मात्स्ये—

**ततस्तु मधुना देवं प्रथमेऽहनि स्नपयेत् । ** हरिद्रयाथ सिद्धार्थैर्द्वितीयेऽहनि तत्त्वतः ॥६९८॥


**चन्दनेन यवैस्तद्वत् तृतीयेऽहनि लेपयेत् । ** मनःशिलाप्रियङ्गुभ्यां चतुर्थेऽहनि लेपयेत् ॥६९९॥


**सौभाग्यं शुभदं यस्मात् लेपनं व्याधिनाशनम् । ** मनःप्रीतिकरं नृणामेतद्वेदविदो विदुः ॥७००॥


**कृष्णजिनं तिलांस्तद्वत् पञ्चमेऽह्नि निवेदयेत् । ** षष्ठे तु सघृतं दद्याच्चन्दनं पद्मकेशरम् ॥७०१॥


**रोचनां नागपुष्पञ्च सप्तमेऽहनि दापयेत् । ** यत्र सद्योऽधिवासश्च तत्र सर्वं निवेदयेत् ॥७०२॥

भविष्ये—

**मधूवातेति मधुना अभ्यङ्गं प्रथमेऽहनि । ** पुण्यदं सर्वरोगाणां सर्वनाशाय तत् प्रभोः ॥७०३॥ ** हरिद्रासर्षपैश्चैव द्वितीयेऽहनि लेपयेत् । ** पित्तरोगभयञ्चैव न भवेत्तु कदाचन ॥७०४॥


**तण्डुलेन यवैश्चैव तृतीयेऽहनि लेपयेत् । ** शिरोऽर्तिमक्षिरोगञ्च कर्णशूलञ्च नाशयेत् ॥७०५॥


**मनःशिलां प्रियङ्गुञ्च चतुर्थेऽहनि लेपयेत् । ** सौभाग्यं येन सततं यजमानस्य वर्धते ॥७०६॥


**कृष्णाजिनं तिलांश्चैव पञ्चमेऽहनि दापयेत् । ** पितरस्तस्य तृप्यन्ति यावज्जीवं सुखप्रदाः ॥७०७॥ **सुरभिं चन्दनञ्चैव सघृतं पद्मकेशरम् । ** षष्ठेऽहनि च दातव्यं शत्रुदोषविनाशनम् ॥७०८॥


**रोचनां नागपुष्पञ्च सप्तमेऽहनि दापयेत् । ** क्षेमं गोबहुलं चापि धनधान्यं विवर्धते ॥७०९॥


**एवं सप्ताहमभ्यङ्गं कापिलेन घृतेन तु । ** दद्याद्विभवतः शक्त्या यदीच्छेच्छ्रियमात्मनः ॥७१०॥


**दीपा घृतेन दातव्याश्चत्वारश्च प्रदक्षिणाः । ** सप्ताहं मन्त्रयुक्ताश्च विभवेन ततः परम् ॥७११॥
अथ चतुर्थीकर्म
**चतुर्थे च दिने प्राप्ते चतुर्थीकर्म कारयन् । ** अर्घ्यं समर्प्य देवेशं प्राग्वत् स्नपनमाचरेत् ॥७१२॥

प्राग्वद् इति—स्नपन-मण्डपे लिखित-स्नान-विध्य्-अनुसारेण इत्यर्थः । तथा हि—गीतवाद्यादि-महोत्सवे वल्मीकादि-मृत्तिकादिभिर् उद्धृतासीति मन्त्रेण देवं विलिप्य पञ्च-गव्यादिना तत्-तन्-मन्त्रेण स्नापयित्वा यथाशक्ति सम्पादितैर् निक्षिप्ताष्टमूर्तिकौषधि-व्रीहिकैः कलसैस् तत्-तन्-मन्त्रेण स्नापयेद् इति ॥७१२॥

**पुनश्च दत्त्वाष्टाङ्गार्घ्यं गोमयस्वस्तिकादिभिः । ** देवं नीराज्य गन्धादिभर्दद्यादाचमनं बुधः ॥७१३॥

गोमयकृतैः स्वस्तिकादिभिर् देवं नीराज्य, आदि-शब्देन गोमयकृत-पद्मकादि-सप्तपञ्च-वर्णौदनादि च । एतच्चाग्रे विशेषतो व्यक्तं भावि ॥७१३॥

**ततो वस्त्रयुषं दत्त्वा दिव्यं दत्त्वानुलेपनम् । ** पुष्पादि धूपदीपादि तत्तन्मन्त्रेण चार्पयेत् ॥७१४॥

तत्-तन्-मन्त्रेण वस्त्राद्य्-अर्पण-मन्त्रेण, स चाग्रे व्यक्तो भावी ॥७१४॥

**इत्थं सम्पूज्य विधिवद्दण्डवत्तं प्रणम्य च । ** विज्ञापयन् मुहुर्भक्त्या तत्तत् पद्यं प्रकीर्तयेत् ॥७१५॥

तत्-तत्-पूर्व-लिखितं ‘सुकृतं दुष्कृत वापि’ इत्यादि प्रकीर्तयेत्, भक्त्या बद्धाञ्जलिः सन् पठेत् ॥७१५॥

मात्स्ये—

**चतुर्थऽह्नि महास्नानं चतुर्थीकर्म कारयेत् । ** दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः ॥७१६॥

किञ्च—

**स्वस्तिकं पद्मकं शङ्कमुत्पलं कमलं तथा । ** श्रीवत्सं दर्पणं तद्वन्नन्द्यावर्तमथाष्टकम् । एतानि गोमयैः कुर्यन्मृदा वा शुभया ततः ॥७१७॥


चतुर्थी-कर्मणि मात्स्योक्तं स्नपन-विधिं पूर्व-लिखितत्वात् ततोऽन्यं विशेषमेव लिखति—स्वस्तिकम् इत्यादिना ॥७१७॥

**पञ्चवर्णौदनं तद्वत् पञ्चवर्णरजस्तथा । ** दूर्वा कृष्णतिलं तद्वन्नीराजनविधिर्मतः ॥७१८॥


‘नीराजन-विधिर् मतः’ इति गोमयेन मृदा वा विरचितैः स्वस्तिकादिभिस् तथा पञ्च-वर्णौदनैः पञ्च-वर्ण-तण्डुल-चूर्णादिभिश्च देवं नीराजयेद् इत्यर्थः ॥७१८॥

**एवं नीराजनं कृत्वा दद्यादाचमनं बुधः । ** मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ॥७१९॥ **ततो वस्त्रयुगं दद्यान्मन्त्रेणानेन यत्नतः । ** देवसूत्रसमायुक्ते यजमानसमन्विते । सर्ववर्णैः शुभे देव वाससी नवनिर्मिते ॥७२०॥


मन्त्रम् एवाह—देवसूत्रेति । यजमान इति वस्त्रार्पणादौ स एव कर्तेति शिष्ट-सम्मत्या ज्ञेयम् । एवमग्रेऽपि ॥७२०॥

ततश्च चन्दनं दद्यात् समं कर्पूरकुङ्कुमैः । इममुच्चारयेन्मन्त्रं दर्भपाणिः प्रयत्नतः ॥७२१॥ शरीरन्ते न जानामि चेष्टां नैव च नैव च । मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् ॥७२२॥


किञ्च—

**चत्वारिंशत्ततो दीपान् दद्याच्चैव प्रदक्षिणाम् । ** **त्वं सूर्यचन्द्रज्योतीष विद्युदग्निस्तथैव च । ** त्वमेव सर्वज्योतीषि दीपोऽयं प्रतिगृह्यताम् ॥७२३॥

दीपापर्णे मन्त्रश्च—त्वं सूर्येत्यादि, पूष्प-धूपाद्य्-अर्पण-मन्त्रेषु च पूर्वतो विशेषाभावात् केवलम् इमम् इत्याद्य्-अवलिखितम् ॥७२३॥

अथावबृथस्नानम्

हयशिर्षे—

अतःपरं प्रवक्ष्यामि देवस्यावभृथं तव ॥७२४॥

श्री-मात्स्योक्त-चतुर्थीकर्मैव प्रतिष्ठा-कर्म-समाप्तौ क्रियमाणत्वाद् अवभृथमिति श्री-हयशीर्ष-देवेन यद्-उक्तं, तच्चतुर्थी-कर्म-प्रसङ्गत एव लिखति— अतःपरम् इत्यादि ॥७२४॥

**शोधयेद्गोमयैर्विप्र यागस्थानं तु सर्वतः । ** सिक्त्वा गन्धोदकेनाथ पञ्चगव्येन शोधयेत् ॥७२५॥ **विकिरैः शोध्येद्भूमिं वितानेन विभूषयेत् । ** पुष्पदामैरधश्चोर्द्ध्वं पार्श्वतश्चापि शोधयेत् ॥७२६॥

विकिरैः— अङ्कूरादिभिः ॥७२६॥

**जुहुयाद्वैष्णवे वह्नौ घृतमष्टोत्तर शतम् । ** विष्णोर्नुकेति मन्त्रेण समिधौऽष्ठशतं तथा ॥७२७॥ **विद्यामालिख्य विधिना एकाशीतिपदं बुधः । ** वैष्णवं कलसं मध्ये आजिघ्रेति निवेशयेत् ॥७२८॥

एकाशीतिपद-लिखन-विधिश्चाग्रे प्रासादादि-निर्माण-प्रसङ्गे सुव्यक्तो भावी । मध्यम् एकाशीतिपदान्तः ॥७२८॥

**एकाशीतिपदे कुम्भान् श्रीसूक्तेन निवेशयेत् । ** शन्नो देवीति मन्त्रेण कलसानभिमन्त्रयेत् ॥७२९॥ **कलसे विन्यसेत् पञ्चगव्यं मन्त्रर्विशेषतः । ** फलं पुष्पं न्यसेत्तत्र द्रावितं कदलीजलम् । मन्त्रयीत द्वयं चैतद्याः फलिनीति सत्तमः ॥७३०॥


तत्रेति, कलसे एकस्मिन् फल-पुष्प-जल-मन्यस्मिंश्च कदली-फल-जलमिति बोद्धव्यम् । अग्रे स्नपने तयोः पृथग् उक्तेः । एतन्-न्यस्त-फल-पुष्प-जलं न्यस्त-कदली-फल-जलञ्चेति कलस-द्वयम् ॥७३०॥

**ऐक्षवञ्च रसं विद्वान् या दिव्यति निवेशयेत् । ** मन्त्रतोयं न्यसेन्मध्ये नवकानां सुरोत्तम ॥७३१॥

नवकानां पदानां मध्ये ॥७३१॥

**तरत् स इत्युचा विद्वान् वस्त्रपूत समाहितः । ** नदीनदतडागोत्थैः शेषस्तोयैः प्रपूरयेत् ॥७३२॥

शेषान् — कलसान् ॥७३२॥

**अपराजितेन मन्त्रेण सर्वानेवाभिमन्त्रयेत् । ** नवेन शुक्लवस्त्रेण सर्वानेवाभिमन्त्रयेत् ॥७३३॥ गायत्रीं वैष्णवीं जप्त्वा मूलमन्त्रं शतं जपेत् । **जप्त्वा ध्यायन् हरि सम्यक् प्रविश्याभ्यन्तरं शुचिः । ** कृष्णोऽसीति च निर्माल्यं विष्ववसेनाय निक्षिपेत् ॥७३४॥ अर्घ्यं दत्त्वा शुद्धवत्या शुद्धतोयेन सेचयेत् । अग्निर्मूर्धेत्युष्णजलैः स्नाप्य स्नानं समाचरेत् ॥७३५॥ **गोमूत्रेण हरिं क्षाल्य गोमयेन विलेपयेत् । ** क्षीरेण स्नापयेत् पश्चाद्दधिना तदनन्तरम् ॥७३६॥


घृतेन स्नाप्य विधिना धूपं दद्यात् स गुग्गुलम् । प्रक्षाल्य कोष्णतोयेन फलतोयेन सेचयेत् ॥७३७॥


**स्नापयेत् कदलीतोयैस्ततस्त्विक्षुरसेन च । ** यैर्मन्त्रैर्मन्त्र्येत्तोयं तैर्मन्त्रैः स्नापयेद्धरिम् ॥७३८॥


उक्त-गोमूत्रादि-स्नान-मन्त्रानुद्दिशति—यैर् इति ॥७३८॥

**पञ्चनद्येत्यूचा पश्चान्नदीनदतडागजैः । ** स्नापयित्वा विधानेन वस्त्रयुग्ममुपाहरेत् ॥७३९॥


**कार्पासं पट्टसूत्रं वा कौशेयं वाथ भूषितम् । ** बृहस्पतेति मन्त्रेण परिधाप्यार्चयेत् क्रमात् ॥७४०॥

भूषितं गन्ध-पूष्पादिभिर् अलङ्कृतं सन्तम् अर्चयेत् ॥७४०॥

**गन्धादिभिः समभ्यर्च्य पार्षदान् पूजयेत्ततः । ** निवेदयीत नैवेद्यं भक्ष्यभोज्यं सुपुष्कलम् ॥७४१॥

ततो भगवद्-अर्चनानन्तरं गन्धादिभिः क्रमेण पार्षदान् समभ्यर्च्य विधिवत् पूजयेत् ॥७४१॥

**पेयं चूष्य तथा लेह्यं प्रभूतं द्विजसत्तम । ** बलिं विनिक्षिपेत् पश्चाद्दिशासु विदिशासु च ॥७४२॥

प्रभूतं—प्रचुरम् ॥७४२॥

ओं नमः पार्षदेभ्योऽथ बलिं पीठे विनिक्षिपेत् ॥७४३॥


**ततः प्रदक्षिणीकृत्य मण्डलं ब्राह्मणेन तु । ** प्रविश्य भवनं भूयः सर्वमावश्यकं पठेत् ॥७४४॥


**पौराणैश्च स्तवैः स्तुत्वा महापुरुषपूर्वकैः । ** दण्डवत् प्रणमेत् पश्चान्नृत्यगीतादि कारयेत् ॥७४५॥ **
दद्यात् सुवर्णं गां वस्त्रं दक्षिणां देशिकाय तु । ** वैष्णवान् पूज्य शक्त्या तु ब्राह्मणेभ्यश्च दक्षिणाम् । आचार्यं तोष्य यत्नेन सन्ध्यायां बलिमाहरेत् ॥७४६॥ ** बलिकर्मविधिश्चायं हयशीर्षे च विस्तरात् । ** उक्तोऽतिव्यक्तमेकत्र ज्ञेयस्तत् पञ्चरात्रतः ॥७४७॥

बलिम् आहरेद् इति, बलि-दान-विधिर् अपेक्षितस् तत्र लिखति— बलीति । तस्य हयशीर्ष-पञ्चरात्रतो विस्तरेण सुव्यक्तम् एकत्रैवोक्तया सुज्ञेयत्वाद् अत्र च ग्रन्थ-विस्तार-भयान् न लिखतीति भावः ॥७४६-७४७॥

अथ होमसमाधानम्

**स्वस्वगृह्योक्तविधिना समुपाधाय पावकम् । ** पर्युक्ष्य त्रियाहृतिभिर्दद्यादाहुतिकं बुधः ॥७४८॥

मात्स्याद्य्-अनुक्तमपि होम-समाधानं युक्तत्वाच् छिष्ट-सम्मत्या लिखति—स्वस्वेति । पावकमेव पर्युक्ष्य ॥७४८॥

तारेणाथाग्निमभ्युक्ष्य गायत्र्याहुतिपञ्चकम् । हुत्वैकवैष्णवेनैव जुहुयाद्वारपञ्चकम् ॥७४९॥


एवं लिखित-प्रकारेण एकेन वैदिक-वैष्णवेन वार-पञ्चकं जुहुयात् ॥७४९॥

**ततो व्याहृतिभिर्हुत्वा द्वादशाक्षरमन्त्रतः । ** हुत्वा पूर्ण हुतिं विद्वान् कुशकुण्डीं समापयेत् ॥७५०॥

तद्-अनन्तरं व्याहृतिभिः सकृत् हुत्वा द्वादशाक्षर-मन्त्रेण पूर्णाहुतिं हुत्वा ॥७५०॥

अथ यजमानाभिषेकः

आभिषेचनिकैर्मन्त्रैः शान्तिकुम्भाम्भसा ततः । आचार्य द्या द्विजाः कुर्युर्यजमानाभिषेचनम् ॥७५१॥


भविष्ये चाभिषेक-मन्त्राश्चाग्रे व्यक्ता भविष्यन्ति ॥७५१॥

मात्स्ये—

**अनेन विधिना कृत्वा सप्तरात्रमहोत्सवम् । ** देवकुम्भैस्ततः कुर्याद्यजमानाभिषेचनम् ॥७५२॥

देवस्य कुम्भः, देवो यैः स्नापितः, तैरेव प्रसाद-रूपैः कलसैर् इत्यर्थः ॥७५२॥

**चतुर्भिरष्टभिर्वापि द्वाभ्यामेकेन वा पुनः । ** सपञ्चरत्नकनकैः सितवस्त्राववेष्टितैः ॥७५३॥


**देवस्य त्वेति मन्त्रेण साम्ना चाथर्वणेन च । ** अभिषेके इमे मन्त्रा नवग्रहमखे स्मृताः ॥७५४॥

आभिषेचनिक-साम्नाथर्वणेन च मन्त्रेण । नव-ग्रह-मखे मन्त्राश्च–सुरास्त्वाम् अभिषिञ्चन्तु इत्यादयः । तैश्च यजमानाभिषेचनं कुर्याद् इति पूर्वेणैवान्वयः ॥७५४॥

हयशीर्षपञ्चरात्रे च—

**प्राङ्मुखं यजमानन्तु स्नापयित्वा यथाविधि । ** फलं समर्पयेत्तस्मै परितुष्टमना गुरुः ॥७५५॥

फलं किञ्चिन् मङ्गलात्मकं फलं पुण्यं वा प्रतिष्ठित-देवं वा ॥७५५॥

अथ पुनराचार्यादिसम्माननम्

यजमानोऽभिषिक्तः सन् देवमभ्यर्च्य शक्तितः । आचार्यं पूजयित्वास्मै प्रतिष्ठाद्रव्यमर्पयेत् ॥७५६॥


शक्तितः निज-शक्त्य्-अनुसारेणाचार्यं पूजयित्वा वस्त्र-भूषण-दानादिना सम्मान्य, अस्मै चाचार्याय ॥७५६॥

मात्स्ये—

**सिताम्बरधरः स्नात्वा देवं सम्पूज्य यत्नतः । ** स्थापकं पूजयेद्भक्त्या वस्त्रालङ्कारभूषणैः ॥७५७॥ **यज्ञभाण्डानि सर्वाणि मण्डपोपस्करादिकम् । ** यच्चास्य दयितं गेहे तदाचार्याय दापयेत् । सुप्रसन्ने गुरौ यस्मात्तृप्यन्ति सर्वदेवताः ॥७५८॥


यच्चाचार्यस्य दयितं स्व-गृहे तिष्ठेत् तदपि दद्यात् ॥७५८॥

हयशीर्से—

**यागोपयोगिद्रव्याणि सर्वाण्यस्मै निवेदयेत् । ** स्नानीयमण्डपोपेतं सर्वोपस्करणादिकम् । मूलयज्ञगृहं दद्यादाचार्याय तथापरम् ॥७५९॥


तथापरं परम् अपि कलसादि-मण्डपम् ॥७५९॥

**ततः प्रतिष्ठां कुर्वीत द्वारप्रासादयोर्बुधः । ** विज्ञाय श्रीहयग्रीवपञ्चरात्राच्च तद्विधिम् ॥७६०॥

श्री-हयशीर्ष-देवेन प्रतिष्ठा-पञ्चकाख्याने बलि-दान-पटलानन्तरं द्वार-प्रासादयोः प्रतिष्ठा-प्रकारश्चोक्तोऽस्ति । स च बलि-दान-विधिस् तेनैव सुव्यक्तम् एकत्रैव विस्तरेण दर्शितोऽस्तीति सुज्ञेयत्वाद् ग्रन्थ-विस्तरभयाच् च तं पूर्ववद्-अलिखित्वा समासेन दर्शयति—तत इति । कुर्वीतेति द्वारस्य प्रासादस्य च प्रतिष्ठाया आवश्यकत्वं दर्शितम् । ननु तर्हि तत्-तद्-विधि-लिख्यतां, तत्र लिखति—विज्ञायेति । तस्या द्वार-प्रासाद-प्रतिष्ठाया विधिं, तत्र द्वार-प्रतिष्ठा प्रथमम् एकेन पटलेनैवोक्ताऽस्ति । प्रासाद-प्रतिष्ठा च हृत्-प्रतिष्ठा-पटले, यतः प्रासाद-प्रतिष्ठैव हृत्-प्रतिष्ठेति । तथा च तत्रैव—

अतःपरं प्रवक्ष्यामि प्रतिष्ठां वेद-निर्मिताम् । प्रासादस्य महाभाग हृत्-प्रतिष्ठेति विश्रुताम् ॥ इति ॥७६०॥

तत्रैव—

**अतःपरं प्रवक्ष्यामि ध्वजारोपणमुत्तमम् । ** यत् कृत्वा पुरुषः सम्यक् समग्रं फलमाप्नुयात् ॥७६१॥

यद्यपि ध्वजारोपणस्य विधिरपि तेनैकत्रैव विस्तारेण सुव्यक्तम् उक्तोऽस्ति, तथापि तस्य माहात्म्य-विशेषात् परम-नित्यत्वाच्च तं विशेषतो लिखति—अतःपरम् इत्यादिना । समग्रं सम्पूर्णं, प्रतिष्ठा-प्रासाद-निर्माणादि-फलं सम्यक् प्राप्नुयात् ॥७६१॥

**यातुधाना गुह्यकाश्च कुष्माण्डाः खेचरास्तथा । ** विघ्नयन्त्यमरश्रेष्ठ ध्वजहीनं सुरालयम् ॥७६२॥ ध्वजेन रहिते विप्रे प्रासादे तु वृथा भवेत् । पूजाहोमादिकं सर्वं जपाद्यं यत् कृतं बुधैः ॥७६३॥


**रक्षणेन विना यद्वत् क्षेत्रं नश्येत क्षेत्रिणाम् । ** ध्वजं विना देवगृह तथा नश्येत सर्वथा ॥७६४॥


**रुद्रस्य पार्षदाः क्रूराः कुष्माण्डाद्याश्च ये स्मृताः । ** पूजादिकन्तु गृह्णन्ति दैवं दृष्ट्वा न रक्षितम् ॥७६५॥

दैवं देव-गृहं न रक्षितं, ध्वजारोपणेनारक्षितं दृष्ट्वा । यद्वा, दैवं देवोद्देशेन कृतमपि पूजादिकं गृह्णन्ति, बलाद् आच्छिद्य भुञ्जते । विघ्नन्ति इति पाठे विघ्नयन्ति, न गृह्णन्तीति वा पाठः । ततश्च ये विष्णुपार्षदाः, ये च कुष्माण्डाद्याः क्रूरास्तेऽपि न स्वीकुर्वन्ति । अन्यत् समानम् । द्वितीय-पाठश्चायं चिन्त्यः ॥७६५॥

**दृष्ट्वा ध्वजं तु देवस्य ज्वलज्ज्वलनवर्चसम् । ** नश्यन्ति तद्भियैवार्करश्मिक्षिप्तं तमो यथा ॥७६६॥ **प्रासादविम्बद्रव्याणां यावन्तः परमाणवः । ** तावद्वर्षसहस्राणि तत्कर्ता विष्णुलोकभाक् । एतत् पुण्यं कोटिगुणं भवेदारोपिते ध्वजे ॥७६७॥


बिम्बं श्री-मूर्तिं, प्रासाद-बिम्बयोः शिलादि-द्रव्याणाम् ॥७६७॥

**कूष्माण्डवेदीविम्बानां भ्रमणाद्वायुनानघ । ** कण्ठस्य वेष्टनाज्ज्ञेयं फलं कोटिगुणं भवेत् ॥७६८॥


**ध्वजं निवेशयेद्दण्डे दिशासु विदिशासु च । ** सूत्रात्मानं विजानीहि ध्वजदण्डं व्यवस्थितम् । चिच्छक्तिं विद्धि तस्यैव ध्वजरूपां चलाननाम् ॥७६९॥


दण्डं प्रासादोपरितन-भाग-विशेषस् तस्मिन् ॥७६९॥

**पताकां प्रकृतिं विद्धि दण्डं पुरुषविग्रहम् । ** प्रासादं वासुदेवस्य मूर्तिभूतं निबोध मे ॥७७०॥


मूर्ति-भूतं विग्रह-स्वरूपम्, यद्वा, पुरुष-रूपं मे मत्तो निबोध शृणु ॥७७०॥

**धारणाद्धरणीं विद्धि आकाशं शुषिरात्मकम् । ** तेजस्तत्पादनं विद्धि वायुस्पर्शगतं तथा ॥७७१॥

एतदेव पञ्च-भूतमयत्वादि विविच्य दर्शयति—धारणादिति सार्धैः षड्भिः ॥७७१॥

पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणम् । प्रतिशब्दोत्तरं शब्दं स्पर्श स्यात् कर्कशात्मकम् ॥७७२॥


**शुक्लादिकं भवेद्रूपं रसमात्मनिदर्शनम् । ** धूपादिगन्धो गन्धस्तु वाग्गीतादिषु संस्थिता ॥७७३॥


**शुकनासा स्मृता नासा बाहू भद्रकरौ स्मृतौ । ** शिरस्त्वण्डं निगदितं कलसं मूर्धजं स्मृतम् ॥७७४॥ **कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्यते । ** पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्तिता ॥७७५॥ **मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते । ** तच्छक्तिं पिण्डिकां विद्धि प्रकृतिञ्च तदाकृतिम् ॥७७६॥ **निश्चलत्वं तु गर्भोऽस्य अधिष्ठातास्य केशवः । ** एवमेष हरिः साक्षात् प्रासादत्वेन संस्थितः ॥७७७॥ जङ्घान्तेऽस्य शिवो ज्ञेयस्त्वं स्कन्धान्ते व्यवस्थितः । ऊर्ध्वभागे स्थितो विष्णुरेवमेतदवस्थितम् ॥७७८॥


त्वं—ब्रह्मा ॥७७८॥

**एवं स्थितस्य चैतस्य प्रासादस्य यथाविधि । ** प्रतिष्ठां ध्वजरूपेण शृणु मे साम्प्रतं स्फुटम् ॥७७९॥ **पूर्वे देवासुरे युद्धे विजयार्थं तदामरैः । ** कृत्वा लक्ष्माणि ह्युपरि वाहनान्यायुधानि च । जितं दैत्यबलं सर्वं तदादौ ध्वजसंस्थितिः ॥७८०॥


तदादौ तत आरभ्येत्यर्थः । ध्वजस्य संस्थितिः प्रवृत्तिः ॥७८०॥

अण्डोर्द्ध्वं कलसं न्यस्य तदूर्द्ध्वं विन्यसेद्ध्वजम् । विम्बार्द्धमानं चक्रं तु त्रिभागेनाथ कारयेत् ॥७८१॥

अथेति विकल्पे, बिम्ब-तृतीय-भागेन कारयेत् । अन्यत् सुगमम् ॥७८१॥

**द्वात्रिंशदङ्गुलं ज्येष्ठं कनिष्ठं त्वष्टहानितः । ** प्रतिमातुर्यभागेन कारयेद्वा सुदर्शनम् ॥७८२॥


**लोहजं शैलजं वापि कारयेच्चिह्नपूर्वकम् । ** अष्टारं द्वादशारं वा मध्ये मूर्तिसमन्वितम् । नारसिंहेन रौद्रेण विश्वरूपेण वा पुनः ॥७८३॥ द्वारस्य दैर्घ्याद्विगुणं दण्डं वा परिकल्पयेत् ॥७८४॥ ** ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः । ** वायव्ये स्थापनीया वा साम्प्रतं ध्वज उच्यते ॥७८५॥ ** पट्टकार्पासक्षौमाद्यैर्ध्वज कुर्यात् सुशोभनम् । ** एकवर्णं विचित्रं वा घण्टाचामरभूषितम् ॥७८६॥ **किङ्किणीजालिकोपेतं वर्हिपत्रविभूषितम् । ** शुक्लादिवर्णैर्विप्रादिः क्रमाद्वा कारयेद्ध्वजम् ॥७८७॥ **दण्डाग्रात् धरणीं यावद्धस्तैकं विस्तरेण तु । ** महाध्वजन्तु विख्यातं सर्वकामप्रदं शुभम् ॥७८८॥ **तूर्यांशहीना विख्याता ध्वजासुरगणार्चिता । ** ध्वजिकार्द्धेन विज्ञया पताका मानवर्जिता ॥७८९॥ विस्तारेण ध्वजा कार्या विशत्यङ्गुलसम्मिता । षोडशाङ्गुलमानेन ध्वजिका विस्तरात् स्मृता ॥७९०॥


**अधिवास्य विधानेन चक्रं दण्डं ध्वजं तथा । ** देववत् सकलं कृत्वा मण्डपस्नपनादिकम् ॥७९१॥ **नेत्रोन्मीलनकं कृत्वा पूर्वोक्तं सर्वमाचरेत् । ** अधिवासयेत विधिना शय्यायां स्थाप्य देशिकः ॥७९२॥ **ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद्बुधः । ** तथा सौदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत् ॥७९३॥ ** मनोऽनुरूपेणास्यैव सजीवकरणं स्मृतम् । ** अरेषु मूर्तयो न्यस्याः केशवाद्याः सुरोत्तम ॥७९४॥


**नाभ्यक्ष-प्रधिनेमीषु न्यसेत्तत्त्वानि देशिकः । ** नारसिंह विश्वरूपमक्षमध्ये निवेशयेत् ॥७९५॥


**सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम् । ** निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम् । तच्छक्तिव्यापिनीं ध्यायेद्ध्वजारूपाञ्चलाननाम् ॥७९६॥


**ततो मण्डपमध्ये तु स्नाप्य पुज्य यथाविधि । ** पूर्वोक्तेन विधानेन होमं कुण्डेषु कारयेत् ॥७९७॥ **ततः प्रभातसमये मूर्तिपैः सह देशिकः । ** कलसे स्वर्णसकलं न्यस्त्वा रत्नानि पञ्च च ॥७९८॥ ** स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः । ** पारदेन तु सम्प्लाव्य नेत्रपट्टेन स्थापयेत् ॥७९९॥


**ततो निवेशयेच्चक्रं द्वादशारं सुदर्शनम् । ** दुर्निरीक्ष्यं सुरैर्दैत्यैर्भ्रमद्वाह्निस्फुलिङ्गकम् ॥८००॥ तन्मध्ये चिन्तयेद्देवं नृसिंहं दैत्यनिर्दलम् । स्फूरत्सौदामिनीजिह्वं ज्वलज्ज्वलनकेसरम् ॥८०१॥ **दीप्ताकनयनं चन्द्रकोटिभास्वरदंष्ट्रिणम् । ** तप्तस्य तपनीयस्य सदृशं पुरुषाननम् । सर्वदुष्टहरं देवं दुष्प्रेक्ष्यं देवदानवैः ॥५०२॥


**सर्ववर्णान्तवीजेन चतुर्दशयुतेन च । ** बिन्दुनालङ्कृतेनादौ प्रणवेनाप्लुतेन च । अन्ते प्रणतियुक्तेन स्थापयेद्दुष्टनाशनम् ॥८०३॥


**ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः । ** प्रदक्षिणं तु कुर्वीत तूर्यमङ्गलनिस्वनैः ॥८०४॥ **ततो निवेशयेद्दण्डं मन्त्रेणाष्टाक्षरेण तु । ** मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः ॥८०५॥


**दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत् । ** ध्रुवाद्येन फडन्तेन ध्वज मन्त्रेण पूजयेत् ॥८०६॥


**शिरस्याधाय तत् पात्रं नारायणमनुस्मरन् । ** मुक्तमात्रे ध्वजे दद्याज्जीवमाचार्यसत्तमः ॥८०७॥ **प्रभिन्नं कुञ्जरं दद्यावश्वं वा लक्षणान्वितम् । ** दासं वा पेशलं वापि दासीं बालसवर्जिताम् । महाशृङ्गीं प्रदद्यात्तु ग्रामञ्च गुरुतुष्टये ॥८०८॥


**आचार्यं भोजयित्वा तु मूर्तिपान् पूजयेद्बुधः । ** सुवर्णवस्त्रदानेन वैष्णवानपि पूजयेत् ॥८०९॥ **अनिवारितमन्नादं सर्ववणेषु कारयेत् । ** ततो नृत्यञ्च वाद्यञ्च बलिं दद्यात्तथा पुनः ॥८१०॥


**कुर्याद्यो देवसदने ध्वजं विधिविधानतः । ** तस्य स्यादक्षयो लोको वैष्णवो नात्र संशय ॥८११॥ **कदाचिद्यदि मानुष्यलोकमायाति स्वेच्छया । ** तथा सर्वेषु भूतेषु ध्वजीभूतः प्रकाशते ॥८१२॥ **आधारभूतं सर्वेषां बन्धूनां धनिनां तथा । ** तस्मात् सर्वप्रयत्नेन ध्वजं कुर्यात् सुरालये ॥८१३॥ ध्वजे यष्टिप्रदानेन वपुष्मान् जायते नरः । ध्वजमानेन चाप्नोति लोकं शक्रस्य दुर्लभम् ॥८१४॥ ** इति । ** **अथ लक्ष्म्याः सुपर्णादि-परिवारगणस्य च । ** प्रतिष्ठां हयशीर्षोक्तसुव्यक्तविधिनाचरेत् ॥८१५॥

हयशीर्षोक्तेन सुव्यक्तेन विधिनेति, तद्-उक्तं पञ्चरात्रे तद्-विधिर् अत्यन्त-स्फुटतया वर्तत इति तल्-लिखन-विस्तरेणालमिति पूर्ववद्-अभिप्रायः ॥८१५॥

**सर्वामेतां प्रतिष्ठाञ्च विप्रेण विदुषा सता । ** गृहिणा वैष्णवेनैव कारयेन्नेतरेण तु ॥८१६॥


विदुषा प्रतिष्ठाविध्य्-अभिज्ञेन, सता सुशीलेन, न तु इतरेण लिखिताद् अन्येन कारयेत् । यद्यपि पूर्वम् आचार्य-लक्षण-लिखनेनैतद् बोधितमेवास्ति, तथापि तद्-अन्यथात्वे महान् दोष-सञ्चयः स्याद् इति तद्-दार्ढयार्थिमेव लिखितम् इति दिक् ॥८१६॥

तथा च मात्स्ये—

**नैतद्विशीलेन न दाम्भिकेन न लिङ्गिना स्थापनमत्र कार्याम् । ** विप्रेण कार्यं श्रुतिपारगेण गृहस्थधर्माभिरतेन नित्यम् ॥८१७॥ **पाषण्डिनं यस्तु करोतु बुद्ध्या विहाय विप्रान् श्रुतिधर्मयुक्तान् । ** गुरुं प्रतिष्ठादिषु तच्च नूनं कुलक्षयः स्यादचिराय पूर्वम् ॥८१८॥

पाषण्डि-लक्षणञ्च पाद्मोत्तर-खण्डे श्रीमहादेवेनोक्तम्—

येऽन्य-देवं परत्वेन वदन्त्य-ज्ञान-मोहिताः । नारायणाज् जगन्नाथत्वे वै पाषण्डिनः स्मृताः ॥ शङ्ख-चक्रोर्ध्वपुण्ड्रादि-चिह्नैः प्रियतमैर् हरेः । रहिता ये द्विजा देवि ते वै पाषण्डिनः स्मृताः ॥

इत्यादि । पूर्वम् अचिरेण कुलक्षयः स्यात् ॥८१८॥

स्थानं पिशाचैः परिगृह्यते तदपूज्यतां यात्यचिरेण लोके । ** विप्रैः कृतं यच्छुभदं कुले स्थात्तत पूज्यतां याति चिरञ्च कालम् ॥८१९॥ ** इति ।

तत् श्री-मूर्ति-स्थापन-सम्बन्धि-स्थानम् । स्थापित-श्री-मूर्तिः स्थापको वा लोके अपूज्यतां याति । यत् स्थापनं विप्रैः कृत्वा कृतम् ॥८१९॥

अथ चलश्रीमूर्तिप्रतिष्ठा

**चलमूर्तेश्च विविधाः प्रतिष्ठाविधयः स्मृताः । ** तेष्वादौ श्रीहयग्रीवदेवोक्तो लिख्यते विधि ॥८२०॥

अप्यर्थे चकारः, यथा स्थिर-मूर्तेः प्रतिष्ठाविधयो बहु-प्रकारास् तथा चल-मूर्तेर् अपि स्मृता अभिज्ञैः । आदाविति पश्चाद् अन्योऽपि लेख्य इत्यर्थः ॥८२०॥

हयशीर्षे च—

**अचलश्च चलश्चैव द्विविधो विष्णुरुच्यते । ** अचलो ह्यादिपुरुषः प्रादुर्भावगतञ्चलः ॥८२१॥


आदि-पुरुषः परमात्मा परमेश्वरो भगवान् श्री-वासुदेवः अचलः, सर्व-व्यापकत्वात् । प्रादुर्भाव-गता लीलया स्वीकृत-जन्मा, चलः भक्त-वात्सल्यादि-लीलया इतस्ततः परिभ्रमणात् ॥८२१॥

**प्रासादे ह्यचलस्तद्वद्गृहेषु च चलाचलः । ** सभामठस्थो ह्यचलो गृहस्थानां मठे चलः ॥८२२॥


एवं यथासौ द्विविधः, तथा तत्-प्रतिमापि द्विविधा इत्याह—प्रासाद इति ॥८२२॥

**चले रत्नादिविन्यासः पिण्डिकायोजनादिकम् । ** यतो न विद्यते तस्मात् पिण्डिका तस्य नेदृशी । अतो विशेषाद्वक्ष्यामि चलानां यादृशो विधिः ॥८२३॥


**प्रतिविम्बाहतं शस्त्रैरुत्कीर्णं पाकजं तथा । ** त्रिविधञ्च समुद्दिष्टं विष्णुरूपं विचक्षणैः ॥८२४॥ **प्रतिविम्बाहतं पूज्यं तावत्कालं तु पार्थिवम् । ** न तत्र कश्चित् संस्कारः केवलं तत्त्वयोजनम् । पूजनान्ते विसर्गश्च पुनर्नेष्टं तदर्चनम् ॥८२५॥


पार्थिवं प्रतिबिम्बाहतं छायावत् स्थण्डिलेऽङ्किता श्री-मूर्तिः । तावत् कालं सद्य एव, न तु कालान्तरेण पुनः पूज्यम् ॥८२५॥

**शस्त्रोत्कीर्णं बहुविधं शिलारत्नादिभेदतः । ** दारवं शैलजं रूपं प्रासादे स्थापयेत् परम् ॥८२६॥ **रत्नजं निर्मितं शस्त्रैः पिण्डिकासहितं शुभम् । ** पिण्डिकारहितं वापि तदेवं द्विविधं पुनः ॥८२७॥ **रत्नजस्य तु रूपस्य पिण्डिका धातवी स्मृता । ** शैली तु शैलजस्येष्टा रत्नजस्य तु नेष्यते ॥८२८॥

पिण्डिका-महितं पिण्डिका-रहितं वेति तत्, रत्नजमेव तद्-विविधम् । रूपस्य श्री-मूर्तेः ॥८२७-८२८॥

**पिण्डिकासहितं कार्यं चलं रत्नादिनिर्मितम् । ** पाकजं धातुजं विम्बं पिण्डिकासहितं तु तत् ॥८२९॥


तेषां प्रतिष्ठां वक्ष्यामि सङ्क्षेपाद्वेदनिर्मिताम् ॥८३०॥ **दशहस्तपरीमाणं मण्डपं कारयेच्छुभम् । ** कुर्यात् पञ्चकरां वेदीं तद्वत् कुण्डानि कारयेत् ॥८३१॥

तद्वत् पूर्ववत् ॥८३१॥

**तोरणध्वजकुम्भानाई स्थापनं पूर्ववत् स्मृतम् । ** विष्णुकुम्भं तथा स्थाप्य लोकपान् पूर्ववद्यजेत् ॥८३२॥ सर्वतोभद्रकं वेद्यां लिखेदुज्ज्वलवर्णकैः । वैष्णवाग्निं तथा कुर्याद्याम्ये शय्यां तु पातयेत् ॥६३३॥


**ऐशान्यां भद्रपीठं तु न्यस्य कुम्भं तु विन्यसेत् । ** सर्वौषधियुतान् सर्वानष्टाशीतिपदे तथा ॥८३४॥ **अथोत्तरे मण्डपस्य स्नानवेद्यां तु पश्चिमे । ** भूमिं प्रलिप्य तत्रादौ तण्डुलैः पञ्चवर्णकैः ॥८३५॥ **चतुरस्रं विलिख्यादौ स्वस्तिकं कल्पयेद्गुरुः । ** तन्मध्ये पीठकं न्यस्य प्रतिमां तत्र विन्यसेत् ॥८३६॥ **शङ्खतूर्यरवैस्तद्वत् पञ्चगव्यादिना स्नपेत् । ** पुष्पगन्धादिभिः पूज्य च्छादयेच्छुक्लवाससा ॥८३७॥

स्नपेत् स्नापयेत्, आदि-शब्देन पञ्चामृत-पञ्चकषायाष्ट-मृत्तिका-जलादि ॥८३७॥

उत्थाप्य त्वभिषेकार्थं निनयेत् स्नानमण्डपम् । शङ्खपुण्याहघोषेण स्नानपीठे निवेशयेत् ॥८३८॥ **अवधार्य जगच्छान्तिं तोषयेत् कर्मिणस्तथा । ** देशिकस्य तदा दद्यात् पूर्ववत्तरुणीं शुभाम् । सपुत्रां वस्त्रसंयुक्तां हेमशृङ्गीं सदक्षिणाम् ॥८३९॥


जगच्छान्तिम् अवधार्येति स्वस्ति-वाचनादिकं कृत्वेत्यर्थः ॥८३९॥

**ततो वेदादिमन्त्रैस्तामालभेद्देशिकोत्तमः । ** पौरुषेण तु सूक्तेन मूलबीजेन चालयेत् ॥८४०॥


तां प्रतिमाम् आलभेत् स्पृशेत् ॥८४०॥

**कौतुकं मूलबीजेन तत्करे त्वधिरोपयेत् । ** चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेद्गुरुः ॥८४१॥ **हैमयाभ्यञ्जयेन्नेत्रे श्लक्ष्णया तु शलाकया । ** घृतेन मधुना तन्मधुवातेति देशिकः ॥८४२॥


**ततः शुद्धेन तोयेन स्नाप्य मन्त्रैः समालभेत् । ** वेदाद्येन च सूक्तेन चतुर्भिर्मूर्तिपैः सह ॥८४३॥


**अतो देवेति चावाह्य वासुदेवं जगद्गुरुम् । ** विशुद्धस्फटिकाभासं हिमकुन्देन्दुसन्निभम् ॥८४४॥


**किरणैः शीतलैः सौम्यैः प्रीणयन्तञ्चराचरम् । ** लावण्यामृततोयेन सिञ्चन्तमिव सर्वतः ॥८४५॥ **सुनाभं वारिजं पद्मं धारयन्तं गदां शुभाम् । ** भूषितं मालया तद्वद्दीपितं मणिकाञ्चनैः । श्री-पुष्टि-गरुडाद्यैस्तु समन्तात् परिवारितम् ॥८४६॥


एवं ध्यात्वा ततः कुम्भैरभिषिञ्चेत् समन्ततः । आपो हिष्ठेति मन्त्रेण कुम्भेनासेचयेद्गुरुः ॥८४७॥


**समुद्रं गच्छ मन्त्रेण दक्षिणेनाभिषेचयेत् । ** सोमराजेति मन्त्रेण उत्तरेणाभिषेचयेत् ॥८४८॥


**घृतेनाभ्यञ्जयेद्देवं तेजोऽसीति ततो गुरुः । ** द्रुपदेति समुद्वर्त्य दद्यादामलकं शुभम् ॥८४९॥ याः फणिनीति मन्त्रेण फलैर्नीराजयेत् प्रभुम् । काण्डात् काण्डेति मन्त्रेण हरिं निर्माञ्छयेत् पुनः ॥८५०॥


**फलतोयेन सिञ्चेत गायत्र्या देशिकोत्तमः । ** तद्विष्णोरिति मन्त्रेण पञ्चगव्येन सेचयेत् ॥८५१॥ **काषायेण तु तोयेन वरुणस्येति सेचयेत् । ** सुमङ्गलीति मन्त्रेण विद्वानोषधिवारिणा ॥८५२॥


**मूर्धानं दिवमन्त्रेण वल्मीकेनाभिषेचयेत् । ** इमं मेति च मन्त्रेण स्नापयेत् सिकताजलैः ॥८५३॥ **देवो वराह मन्त्रेण मृत्तोयेनाभिषेचयेत् । ** सेचयेत् पद्ममृत्तोयैः शन्नो देवीति देशिकः ॥८५४॥ **ऋतं चेत्यादि-सूक्तेन तीर्थमृत्कुम्भवारिणा । ** नागकेशरतोयेन श्रीश्च तेत्यभिषेचयेत् ॥८५५॥


**चन्दनोदककुम्भेन पावमान्याभिषेचयेत् । ** प्लवसाम्ना ततः पञ्चरत्नतौयेन सेचयेत् ॥८५६॥


**पञ्च नद्येत्युचा देवं नदीनदतडागजैः । ** यासां राजेति मन्त्रेण एकाशीतिघटैर्हरिम् । स्नापयेदर्चयेद्धक्त्या प्रतिद्रव्यं समाहितः ॥८५७॥


**अग्न आयेति मन्त्रेण देवमुञ्चोदकेन तु । ** शुद्धतोयेन देवेशं शुद्धवत्याभिषेचयेत् ॥८५८॥ अतोऽर्चयेत् सुरेशानं जितन्त इति देशिकः ॥८५९॥


**पाद्यन्तु मूलमन्त्रेण मधुपर्कन्तथैव च । ** स्नानीयमथवाचामं गायत्र्या विनिवेदयेत् ॥८६०॥


**सुरासुरेति युग्मं तु दद्यात्तद्वत् पवित्रकम् । ** वेदाहमित्युत्तरीयं रोचनां प्रणवेन तु ॥८६१॥


युग्मं— परिधानोत्तरीय-वस्त्र-द्वयम् । पवित्रकं— यज्ञोपवीतम् । रोचनां— गोरोचनातिलकम् ॥८६१॥

**अञ्जनमञ्जतेत्येवं गन्धं गन्धवतीति च । ** पुष्पवत्या तथा पुष्पं धूपं धूरसि चेत्यूचा ॥८६२॥


**तेजोऽसीति तथा दीपमग्निर्मूर्धेति प्रापणम् । ** इन्द्रच्छत्रेति वै च्छत्रं विकर्णेन तु चामरम् ॥८६३॥

प्रापणं—नैवेद्यम् ॥८६३॥

आज्यदोहेन चादर्शं बात आवेति वीजयेत् । त्वमिन्द्रेति ध्वजं दद्यात् पताकामोमिति स्मरन् ॥८६४॥


**देवव्रतेन साम्ना तु दद्यादाभरणादिकम् । ** स्तूयात् पुरुषसूक्तेन साकल्येन जनार्दनम् ॥८६५॥


**दीर्घायुष्येति सम्पूज्य किरेद्दूर्वाक्षतं बुधः । ** वा ओषधीति मन्त्रेण पुष्पाणि विकिरेद्गुरुः ॥८६६॥ **पुनर्बृहद्रथैः स्तुत्वा चक्रसाम्ना जनार्दनम् । ** शिवसङ्कल्पसूक्तेन शाकुनेन जनार्दनम् । उत्तिष्ठेति समुत्थाप्य शय्यायां विनिवेशयेत् ॥८६७॥

शाकुनेन सूक्तेन ॥८६७॥

अपराजित-मन्त्रेण ध्यायेत् सकलनिष्कलम् । व्यापिनन्तु पुनर्घ्यात्वा तत्त्वानि विनियोजयेत् ॥८६८॥


सकलः सगुणश्चासौ निष्कलो निर्गुणश्च, तम् ॥८६८॥

**सकलीकरणं कृत्वा पूर्वोक्तविधिना हरेः । ** ततः सहस्रशीर्षेति प्रत्यूचं पूजयेद्बुधः ॥८६९॥


**गन्धपुष्पादिभिः सम्यङ्नैवेद्यादि निवेदयेत् । ** अतो देवेति सूक्तेन गृहोपकरणानि च ॥८७०॥


**निद्राकलसविन्यासं कृत्वा पूज्यस्तु मण्डले । ** सर्वतोभद्रके देवो गन्धपुष्पादिभिः क्रमात् ॥८७१॥

सर्वतोभद्र-मण्डले देवः पूज्यः ॥८७१॥

**प्रभूतैर्याज्ञिकैर्द्रव्यैर्हेमपुष्पैः समुज्ज्वलैः । ** वैष्णवे मण्डले पश्चाज्ज्वालयेद्वैष्णवानलम् ॥८७२॥


**नयन्मन्त्रैस्तु तं पश्चात् कुम्भेषु द्विजसत्तमः । ** जुहुयाच्च शतं साष्टं पलाशसमिधा द्विज ॥८७३॥

तम्—अनलम् ॥८७३॥

**तिलांश्च जुहुयादाज्यैर्वैष्णवं प्रपचेच्चरुम् । ** तिलतण्डुलदुग्धैस्तु घृतेनाघार्य साधयेत् ॥८७४॥ अवतार्याभिघार्यव मन्त्रैरेभिस्तु होमयेत् ॥८७५॥


**विष्णवे शिपिविष्ठाय विष्णवे निर्गुणेति च । ** इदं विष्ण्विति मन्त्रेण तद्विष्णोरिति देशिकः ॥८७६॥ **इरावतीति मन्त्रेण त्वं विष्णोरिति चैव हि । ** प्रतद्विष्ण्विति मन्त्रेण विष्णोर्नुकेति चैव हि ॥८७७॥ **तथा पुरुषसूक्तेन सम्यक् षोडश आहुतीः । ** चरुं हुत्वा पुनः पश्चान्मन्त्रैरेभिस्तु होमयेत् ॥८७८॥
तत्र होममन्त्राः
ओं विष्णवे स्वाहा । ओं पुरुषोत्तमाय स्वाहा । ओं त्रैलोक्यमोहनाय स्वाहा । ओं वैकुण्ठाय स्वाहा । ओं लक्ष्मीपतये स्वाहा । ओं लक्ष्मीनिवासाय स्वाहा । ओं हृषीकेशाय स्वाहा । ओं नमो नारायणाय स्वाहा । ओं ब्रह्मणे स्वाहा ॥८७९॥


**हुत्वा व्याहृतिभिः पूर्वं गायत्र्या होमयेद्गुरुः । ** एवं हुत्वा तु जुहुयाच्चक्रादीनां यथाक्रमम् ॥८८०॥ लक्ष्म्यादीनां ततो हुत्वा ग्रहाणां होमयेत्ततः । लोकेशानां तु नागानां होमयेत्तदनन्तरम् ॥८८१॥


**नारायणाय हुत्वा तु दद्यात् पूर्णहुतिं बुधः । ** ततो विभज्य विद्वांस्तु दद्यात् कनकदक्षिणाम् ॥८८२॥ **ब्रह्मघोषादिना देवं समुत्थाप्य विचक्षणः । ** ततो मण्डलमध्ये तु स्थापयित्वार्चयेत् पुनः । प्रत्यूचं निजसूक्तेन गन्धपुष्पादिभिः क्रमात् ॥८८३॥


निज-सूक्तेन सहस्र-शीर्षादिना ॥८८३॥

**सान्निध्यं पूर्ववत् कृत्वा सजीवकरणं गुरुः । ** प्रणवेन निरुध्याथ ध्यायेत् सकल-निष्कलम् ॥८८४॥ पिण्डिकायोजनीयादि मनसैव विचिन्तयेत् । न्यासं कृत्वार्चयेत् पश्चात् पूर्ववद्विधिना गुरुः ॥८८५॥


मनसैव चिन्तयेत्, न तु पूर्ववत् साक्षाद् ब्रह्म-शिलादि-न्यासेनेत्यर्थः ॥८८५॥

**बलिं दद्यात्तु भूतेभ्यः पार्षदेभ्यञ्च देशिकः । ** प्रणिपत्य ततो दद्याद्दक्षिणां गुरुवे सुधीः ॥८८६॥


**सुवर्णसहितं पात्रं तिलैः पूर्णं सयुग्मकम् । ** धेनुं स्वलङ्कृतां दद्याद्धेमशृङ्गीं तु दक्षिणाम् । ब्रह्मणे कनकं दद्यान्मूर्तिपेभ्यस्तथैव च ॥८८७॥


सयुग्मकं—वस्त्र-द्वयम् हितम् ॥८८७॥

**अश्वत्थपत्रे कृत्वा तु देशिकं कारुकन्तथा । ** चरुं सम्प्राशयेद्दन्तैरस्पृशन् प्रणवेन तु ॥८८८॥ तां रात्रिं वैष्णवैः सार्द्धं जाग्रत्तिष्ठेदतन्द्रितः ॥८८९॥ **प्रभातसमये स्नात्वा देवमुत्थाप्य यत्नतः । ** भद्रपीठे समारोप्य स्नापयेदच्छवारिणा ॥८९०॥


यत्नतः ब्रह्मघोषादिना, अच्छेन—निर्मलेन ॥८९०॥

**एकाशीतिघटैर्देवं मूलमन्त्रेण सेचयेत् । ** वैष्णवेन तु कुम्भेन ऐन्द्रादिकलसैस्तथा ॥८९१॥


**सेचयेत् फलतोयेन पञ्चगव्यादिना तथा । ** सुगन्धेन तथाज्येन स्नाप्य गन्धादिनार्चयेत् । पौरुषेण तु सूक्तेन प्रत्यूचं चन्दनादिभिः ॥८९२॥


**सितयुग्मेन संवेष्ट्य धूपयित्वा गृहं नयेत् । ** ब्रह्मघोषादिना सम्यग्विनिवेश्यार्चयेत् सुधीः ॥८९३॥

सित-युग्मेन—शुक्ल-वस्त्र-द्वयेन ॥८९३॥

**दक्षिणां देशिके दद्यात् कनक्रं छत्रमेव च । ** ब्राह्मणान् भोजयित्वाथ स्वयं भुञ्जीत वाग्यतः ॥८९४॥ सभृत्यबन्धुवर्गं तु दीनानाथांस्तु भोजयेत् ॥८९५॥
अथ चलश्रीमूर्तिप्रतिष्ठामाहात्म्यम्

तत्रैव—

यस्य गेहे सदा तिष्ठेत् मूर्तिर्देवस्य चक्रिणणः । न तत्र मारी दौर्भाग्यं न वालक्ष्मीर्न दुष्कृतम् ॥८९६॥


**अनेनैव विधानेन संस्कृत्य प्रतिमां हरेः । ** विष्णुलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥८९७॥ ** इति । **

यद्यपि मूर्तिरिति प्रतिमामिति च सामान्यतो निर्देशः, तथापि चल-मूर्ति-प्रतिष्ठाया उक्तत्वाद् अत्रैव लिखितम् ॥८९६-८९७॥

**अधुना चलमूर्तेर्हि प्रतिष्ठायाः परो विधिः । ** लिख्यते पद्धतिश्रेणी-दृष्टितः सम्मतः सताम् ॥८९८॥

एवं हयशीर्षोक्तञ्चल-श्री-मूर्ति-प्रतिष्ठाविधिं लिखित्वा इदानीं ततः सङ्क्षिप्तं बौधायनादि-शिष्ट-वर्ग-सम्मतं सत्-साम्प्रदायिक-बहुल-पद्धत्यनुसारेण परमपि लिखति— अधुनेति । एवार्थे हि-शब्दः , चल-मूर्तेर् एवान्योऽपि प्रतिष्ठा-विधिः श्री-कृष्णदेवाचार्य-सम्मतः । तथा च श्री-कृष्णदेवाचार्य-पद्धतौ—

बौधायनादि-सन्मूलास् त्रैविक्रम्यादिपद्धतीः । वीक्ष्य वक्ष्यामि विष्ण्वादि-चलार्चा-स्थापने विधिम् ॥ इति ॥८९८॥

अथ बौधायनाद्युक्तचलश्रीमूर्तिप्रतिष्ठाविधिः

**स्थिरमूर्तिप्रतिष्ठानुसारेणात्रापि वैष्णवैः । ** प्रतिष्ठाविधिरुन्नेयो विंशेषोऽन्यश्च लिख्यते ॥८९९॥

तत्र च मण्डप-निर्माणादि-प्रकार-विशेषः स्नपनादौ मन्त्रादिकञ्च प्रायः पूर्व-लिखित-स्थिर-मूर्ति-प्रतिष्ठा-विधिवद्-विज्ञेयमिति लिखति—स्थिरेति ॥८९९॥

अथ तत्र मण्डपादिनिर्माणविधिः

प्रासादतो दिशि प्राच्यामुदीच्यां वाथ मण्डपम् । ऐशान्यां वाचरेत् स्थानेऽदूरेऽङ्गारादिवर्जिते ॥९००॥


प्रासादोऽत्र भगवद्-आवासालयः, तस्मात्, अङ्गारेण आदि-शब्दात् तृषास्थ्यादिना च रहिते, अदूरेऽनतिदूरे अनति-निकटे चेत्यर्थः । मण्डपम् आचरेत् रचयेत् ॥९००॥

दशहस्तं चतुर्द्वारं चतुरस्रं समं शुभम् । चतुस्तोरणसंयुक्तं सपताकञ्च पूर्ववत् ॥९०१॥

पूर्ववद् इति स्थिर-मूर्ति-प्रतिष्ठायां तोरण-पताका-स्थापनादि-विधिर् यथा पूर्वं लिखितोऽस्ति तथैवेत्यर्थः । यद्यपि मण्डप-पारिमाणादिकमपि पूर्व-लिखनाद् विज्ञातं स्यादेव, तथापि तदेव स्मारयतात्र लिखितमशक्तावन्त्यपक्षं चाङ्गीकुर्वता किञ्चिद् विशेषं दर्शयता तल्-लिखितम् । एवमग्रेऽप्य् ऊह्यम् ॥९०१॥

**तस्मिंश्च विधिवत् कुर्यात् सयोन्यास्यस्त्रिमेखलम् । ** आग्नेयां कुण्डमाशायां चतुरस्रं करोन्मितम् ॥९०२॥


तस्मिन् मण्डपे योनिरास्यञ्च वक्त्रं तिस्रो मेखलाश्च तैः सहितम् आग्नेय्याम् आशायां दिशि विधि-युक्तं यथा स्यात् तथा कूर्यात् । तद्-विधिश्च पूर्वं दीक्षा-विधौ विस्तार्य लिखितोऽस्ति। करोन्मितम् एक-हस्त-परिमितम् ॥९०२॥

**प्राच्यां वेदीं करोच्छायविस्तारां चतुरस्रिकाम् । ** ऐशान्यां स्थानमेकञ्च देवस्य स्नपनोचितम् ॥९०३॥

करः एक-हस्त-प्रमाण उच्छ्रायो विस्तारश्च यस्यास्ताम् । स्नपनोचितम् इति देव-स्नपनस्य तद्-उपकरण-स्थापनस्य चोपयुक्तम् इत्यर्थः ॥९०३॥

अथ तत्र मण्डलविधिः

**मण्डपस्य च नैरृत्यां विधिवद्वास्तु मण्डलम् । ** मध्ये च देवतार्चार्थं सर्वतोभद्रमालिखेत् ॥९०४॥

वास्तु-मण्डलं चैवं पूर्वोत्तरगाभिर् नवनवभी रेखाभिश् चतुःषष्टिपदं मण्डलं विधाय तत्र बहिश्चतुष्कोणेषु कोणात् तिर्यग् रेखा दत्त्वाष्टाबद्धपदानि चतुर्दिक्षु चतुर्विंशतिपदानि मध्ये रेखाद्वय-मार्ज्जनेन चतुष्पदम् एकम्, तथा तत्-प्राच्यादि-चतुर्दिक्षु चत्वारि चतुष्य चतुष्पदानि, तच्चतुष्कोणेषु मध्यवर्ति-रेखा-द्वयमार्जनेनाष्टौ द्विपदानि कुर्यात् । एवं पञ्च-चत्वारिंशद्-देवता-स्थानानि भवन्ति । देवताश्चैताः—मध्यम-चतुष्पदे ब्रह्मा, तत्-प्रागादि-चतुष्पदेषु क्रमेण आप-सावित्र-जयरुद्राः, कोण-स्थेष्वष्टसु द्विपदेषु ईशान-कोणादि-क्रमेण अर्यम-सवितृ-विवस्वद्विबुधाधिप-मित्रराजयक्ष्म-पृथ्वी-धराप-वत्सकाः । तथा च मात्स्ये— ‘द्वात्रिंशद् बाह्यतः पूज्याः पूज्याश्चान्तस् त्रयोदश’, तथा—ईशान-कोणादिषु सुरान् पूजयेच्च विधानतः, तथा—

ईशानादि-चतुष्कोण-संस्थितान् पूजयेद् बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस् तथैव च ॥ मध्ये चतुष्पदे ब्रह्मा तस्याष्टौ च समीपगाः । अर्यमा सविता चैव विवस्वान् विबुधाधिपः ॥ मित्रोऽथ राजयक्ष्मा च तथा पृथ्वी-धरः क्रमात् । अष्टमश्चापवत्सस् तु परितो ब्रह्मणः स्मृताः ॥ इति ।

बाह्य-द्वात्रिंशत्-पदेषु च ईशानादि-क्रमेणैव द्वितीयर्ध-पदतः शिख्यादयो द्वात्रिंशद् देवताः । तथा च तत्रैव—

शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः । सूर्य सत्यो वृषश्चैव आकाशो वायुरेव च ॥ पूषा च वितथश्चैव गृहक्षतयमाव् उभौ । गन्धर्वो भृङ्ग-राजश्च मृगः पितृगणस् तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च । भल्लाटः सोमसर्पौ च अदितिश्च दितिस् तथा ॥ इति ।

एवं सर्वाः पञ्च-चत्वारिंशद्-देवता वास्तु-मण्डले । तद्-बहिर्-ईशानादि-क्रमेण तु बकी स्कन्दा विदारी अर्यमा पूतना जम्भका पाप-राक्षसी लिपिच्छा चेत्यष्टौ देवताः इति । एवम् अयं चतुः-षष्टि-पद-मण्डल-देवता-स्थान-विभागो हयशीर्ष-पञ्चरात्रस्यानुसारी, न तु मात्स्य-पुराणस्य । एतच्च सर्वम् अग्रे प्रासाद-निर्माणेऽवश्य-लेख्यत्वाद् अत्र विस्तार्य न लिखितं, तत्रैव विशेषतो व्यक्तं भावि । एतच्च वास्तु-मण्डल विविध-रङ्ग-शालि-पिष्ट-पूरितं कार्यम् । मण्डप-मध्ये च मण्डल-देवता-पूजार्थं सर्वतोभद्राख्यं मण्डलं कुर्यात् । तच्च सुप्रसिद्धमेव ॥९०४॥

**सकर्णिकञ्च तन्मध्ये पद्मं विरचयेत्तथा । ** स्वस्तिकं चोत्तरे कृत्वा तत्र शय्यां निवेशयेत् ॥९०५॥

तस्य सर्वतोभद्रस्य मध्ये च कर्णिका-सहितं पद्मं तथेति विधिवद् विरचयेत् । तन्-मण्डल-देवताश्चैताः—मध्ये ब्रह्मा, मण्डल-प्रान्ते पूर्वाद्य्-अष्टदिक्षु क्रमेण इन्द्रादयोऽष्टलोक-पालाः, ईशेन्द्राद्य्-अन्तरालाष्टके च वसवो रुद्रा आदित्या अश्विनौ पितरो नागाः स्कन्दो वृषश्चेत्यष्टौ । ईशानादि-पद्म-दलेष्व् अष्टसु क्रमेण दक्षो विष्णुर् दुर्गा स्वधाकारो मृत्यु-रोगः स-समुद्राः सरितो मरुतो गण-पतिश्चेत्यष्टौ । पद्म-कर्णिकायाश्चाधः पृथिवी, उपरि मेरुः, तद्-उपरि स्थाप्य-देवताः । मण्डलस्य बाह्यतः प्रागादि-दिक्पालानाम् आयुधानि वाहनानि च, तद्-बाह्ये च गौतम-भरद्वाज-विश्वामित्र-कश्यप-जमदग्नि-वशिष्ठादयः सप्तर्षयः । ततो बहिर्-नवग्रहाः, ततश्च वह्न्याद्य्-अष्टसु क्रमेण ऐन्द्री, कौमारी, ब्राह्मी, वाराही, चामुण्डा, वैष्णवी, माहेश्वरी, वैनायकी चेत्यष्टौ शक्तय इति । उत्तरे तत्-सर्वतोभद्र-मण्डलाद् उत्तरतः स्वस्तिकं मण्डलं च कृत्वा तद्-उपरि शय्यां स्थापयेत् ॥९०५॥

अथ ब्राह्मणवरणादिविधिः

**यजमानश्च पूर्वेद्युः प्रतिष्ठायाः समाचरेत् । ** पुण्याहवाचनं विप्रैमण्डपस्थापनं तथा ॥९०६॥

एवं मण्डप-रचनादिकं लिखित्वा पुण्याहवाचनादि-पूर्वकम् आचार्यादिवरणं यजमानस्य कृत्य-विशेषं लिखति—यजमानश्चेति पञ्चभिः । प्रतिष्ठा-समयात् पूर्वेद्युः पूर्व-दिवसे विप्रैः कृत्वा पुण्याहवाचनं मण्डप-प्रतिष्ठां च सम्यग् आचरेत् ॥९०६॥

**मण्डपस्य च वायव्यां मातृर्गन्धादिनार्चयेत् । ** प्रणवादिनमोऽन्तैश्च नामभिर्विधिवद्बुधः ॥९०७॥

गन्धेन, आदि-शब्दात् अक्षत-पुष्पादिभिश्च मातॄः पूजयेत् । मातृ-पूजने मन्त्रान् लिखति—प्रणवादीति । मातरश् च षोडश पूर्वम् अचल-मूर्ति-प्रतिष्ठारम्भे लिखिता एव । प्रयोगः— ‘ओं गौर्यै नमः’ इत्यादि । विधिवद् इति, सर्वत्रैवाग्रेऽप्य् अनुवर्तनीयम् ॥९०७॥

नान्दीश्राद्धं ततः कृत्वा सद्विप्रं वृणुयाद्गुरुम् । मधुपर्कादिनाभ्यर्च्यं दत्त्वा वस्त्रादि शक्तितः ॥९०८॥


**तदर्द्धदानाद्ब्रह्माणं पुराणस्तुतिपाठकम् । ** सूक्तजापकमप्येवं त्रीन् विप्रान् वृणुयात् परान् ॥९०९॥

सद्-विप्रं पूर्व-लिखित-लक्षणं ब्राह्मणम् । मधु-पर्केण, आदि-शब्दात् आसन-पाद्यार्घ्यादिना च सम्पूज्य शक्तितः यथाविभवं वस्त्रादिकं दत्त्वा, आदि-शब्देन भूषणादि । गुरु-वरण-विधिश्च पूर्वमेव लिखितोऽस्ति । अमुकगोत्रः अमुकशर्माहम् अमुक-गोत्रामुक-शर्माणं त्वां प्रतिष्ठाचार्यत्वेन वृणे । स च वृतोऽस्मीति प्रब्रूयाद् इत्यादि-रूपः । तथा मधुपर्कादि-पूजापुरःसरं गुरु-सम्प्रदानक-वस्त्राद्य्-अर्धदानेन ब्रह्माणं वृणुयात् । पुराण-स्तुति-पाठक-सूक्त-जापकौ च मधुपर्कादिना तथैवाभ्यर्च्य तद्-अर्ध-दानेन यथाविभवं वा वस्त्रादि-दानेन वृणुयाद् इत्यादि-रूपश्च ॥९०८-९०९॥

**तोरणानि ततोऽभ्यर्च्य द्वाराण्युत्तरतस्तथा । ** पूर्ववद्वृप्रांश्चतुरो द्वारजापकान् ॥९१०॥

तद्-अनन्तरं च उत्तरत उत्तरमारभ्य ‘तोरणाय नमः’ इति क्रमेण तोरणानि, तथा द्वाराणि चत्वारि ‘श्रियै नमः’ इत्यभ्यर्च्य । पूर्ववद् यथाशक्ति मधुपर्कवासोऽलङ्कारादि-दानेनेत्यर्थः ॥९१०॥

अथ वास्तुदेवपूजादिविधिः

**आचार्यो मण्डपेऽभ्येत्य प्राणायामान् विधाय च । ** आपोहिष्ठेति दर्भोदैर्यागस्याभ्युक्षयेद्भुवम् ॥९११॥


प्रतिष्ठा-मण्डपे अभ्येत्य आगत्य, यागस्य भुवं देव-पूजा-स्थलम् ॥९११॥

**विकीर्य सर्षपान् शुक्लान् रक्षां कृत्वा च मन्त्रतः । ** विधिवत् पूजयेद्वास्तुदेवता वास्तुमण्डले ॥९१२॥

विधिवद् इति, प्रणवादि-नमोऽन्त-नाम-मन्त्रैः षोडशोपचारैः प्रत्येकं पूजयेद् इत्यर्थः ॥९१२॥

अथ तत्र मन्त्रः
देवा आयान्तु जातुधानास्त्वपयान्तु विष्णो देवयजनं रक्षस्व ॥९१३॥

**इति । **

मन्त्रत इति लिखितं, तम् एव मन्त्रं लिखति—देवा इत्यादि ॥९१३॥

**ईशानादिक्रमेणाथ कुशपुष्पयुताक्षतैः । ** शिख्यादिदेवताभ्यश्च विशेषवलिमर्पयेत् ॥९१४॥

शिखी वास्तु-मण्डपस्येशानकोणार्ध-पदवर्ती । तद्-आदि सर्व-देवताभ्योऽग्रे लेख्य-तत्-तद्-विहित-द्रव्यासम्भवे पुष्पादिभिर् विशेषवलिं दद्यात् ॥९१४॥

**आगत्य कुण्डपार्श्वे तु होमं कुर्याद्यथाविधि । ** तत्रावश्यं प्रतिद्रव्यं होमान्ते प्रतिमां स्पृशेत् ॥९१५॥

यथाविधीति अग्निं प्रतिष्ठाप्यान्वाधाय गोक्षीरे नीरसे चरुं स्थाप्य-देवताकं स्रपयित्वाज्य-भागान्ते पलाशोडुम्बराश्वत्थ-न्यग्रोधापामार्ग-समिद्भिः प्रत्येकम् अष्टोत्तर-शतम् अष्टोत्तर-सहस्रम् अष्टाविंशतिं वा लोकपालानुद्दिश्य तत्-तन्-मन्त्र-व्याहृतिभिर् वा जूहयात् । तावत् सङ्ख्यकमाज्यहोमं स्थाप्य-देवता-लिङ्गकेन मन्त्रेण कृत्वा समित्तिलाज्यानां प्रतिद्रव्यं तेनैव मन्त्रेण दश दशहुतीर् दत्त्वा अग्निर् यजुर्भिर् इत्यनुवाकं जप्त्वा स्थाप्य-देवता-मन्त्रेणैव चरोर् दश-प्राधानाहुतीर् दत्त्वा चरु-शेषेण यदस्य कर्मण इति स्विष्ट-कृते जुहुयात् । ‘यथाशक्ति स्थाप्य-देवता-मन्त्रम् आवर्त्य ब्रह्म-विसर्जनान्तं कुर्यात्’ इति विधिर् ज्ञेयः ॥९१५॥

अथ स्नपनविधिः

**आचार्याय वरं दत्त्वा निजशक्त्यनुसारतः । ** विप्रान् गन्धादिनाभ्यर्च्य पुण्याहं वाचयेत् पुनः ॥९१६॥


यजमान-कृत्यं लिखति—वरम् आचार्यापेक्षितं वस्त्रालङ्कारादि निज-शक्त्य्-अनुसारेण दत्त्वा ॥९१६॥

ततश्च यजमानानुमोदितोऽर्चां विशोधयन् । आचार्यः प्रणिपत्यादौ देवं सम्प्रार्थयेदिदम् ॥९१७॥


तदुक्तम्—

स्वागतं देवदेवेश विश्वरूप नमोऽस्तु ते । शुद्धेऽपि त्वदधिष्ठाने शुद्धिं कुर्मः क्षमस्व माम् ॥९१८॥ ** इति । ** **ततश्च नवपीठोपवेशितां प्रतिमां गुरुः । ** मृद्भिर्द्वादशकृत्वस्तां संशोध्य क्षालयेज्जलैः ॥९१९॥


**पञ्चगव्यैस्तथा पञ्चामृतैस्तन्मन्त्रतो बुधः । ** संस्नाप्य हविषाभ्यज्य चूर्णैरुद्वर्तयेच्छुभैः ॥९२०॥
अथ तन्मन्त्राः
पञ्चगव्यस्नपने पयः पृथिव्यामिति क्षीरादिचतुःस्नपने पूर्वदेव शर्करास्नपने च आयं गौरिति ॥९२१॥ कोष्णोदकेन प्रक्षाल्य सुगन्धेनानुलिप्य च । ततः संस्रवकुम्भाद्भिः संस्नाप्य प्रणमेच्च ताम् ॥९२२॥

सम्यक् स्रवति जलानि बहुल-च्छिद्रतयेति संस्रवः, तादृश कुम्भस्य जलेन ‘शन्नो देवीः’ इति मन्त्रेण संस्नाप्य तां प्रतिमां प्रणमेत् ॥९२२॥

**अभिषिञ्चेदर्चितैस्तु चतुष्कुम्भैः सपल्लवैः । ** समुद्रज्येष्ठा इत्यादि चतुर्मन्त्रैः परैरपि ॥९२३॥


अर्चितैर् गन्धाक्षतादिभिः पूजितैः, परैः आकलसेषु धावतीत्यादिभिर् अन्यैश्च कलस-लिङ्गेतिमन्त्रैस् ताम् अभिषिञ्चेत् ॥९२३॥

**पद्मान्तः स्वस्तिकप्रान्ते पीठे चोडुम्बरे शुभे । ** अन्यक्षीरद्रुमीये वा श्रीमूर्तिमुपवेशयेत् ॥९२४॥

शुभे त्रिहस्त-दैर्घ्य-तद्-अर्ध-विस्तारेण यथासम्भवं परिमाणादिना वा सुन्दरे ॥९२४॥

अथाष्टौ स्थापयेत् कुम्भान् अष्टदिक्ष्वम्बुपूरितान् ॥९२५॥


अष्टदिक्षु श्री-मूर्तेः प्राच्यादिषु ॥९२५॥

**तेष्वाद्ये सङ्गमक्रोडोत्खातवल्मीकमृत्तिकाम् । ** अश्वहस्तिनदीतीरद्वयमृत्स्नाञ्च निक्षिपेत् ॥९२६॥

तेषु कुम्भेषु मध्ये य आद्यः प्राची-स्थापित-कुम्भस् तस्मिन् सङ्गमादि-स्थान-सप्तक-मृत्तिकां निक्षिपेत् ॥९२६॥

**द्वितीयेऽश्वत्थचूतादिपल्लवाश्मन्तकत्वचम् । ** अन्येषु च क्रमात् षट्सु परित्रान् प्रस्त्रवोदकम् । शान्तिवार्यथ गन्धोदमक्षतान् कुसुमानि च ॥९२७॥


अश्वत्थचूतयोः, आदि-शब्दाद् अर्जुनादीनाञ्च पल्लवान् अश्मन्तकत्वचञ्च निक्षिपेत् । अन्येषु षट्सु कुम्भेषु पवित्रादि-षड्-द्रव्याणि क्रमेण निक्षिपेत् ॥९२७॥

**स्थापयेत् सर्त्विगाचार्यस्तैः कुम्भैरष्टमन्त्रतः । ** **आपो हिष्ठेति त्रितयं हिरण्येति चतुष्टयम् । ** तथैव पवमानेत्याद्यनुवाकं परो मनुः ॥९२८॥

तैर् अष्टभिः कुम्भैः । अष्ट मन्त्रान् एव लिखति—आप इति । हिरण्येति—हिरण्य-वर्णाः शुचयः पावका इति ऋक्-चतुष्टयम् । पवमानं सुवर्जन इत्यनुवाकञ्च ॥९२८॥

अथ वस्त्राद्यर्पणविधिः

**अभिवस्त्रेति वस्त्रे द्वे आहते परिधाप्य च । ** दत्त्वोपवीतं गन्धाद्यैरुपचारैश्च पूजयेत् ॥९२९॥


यज्ञोपवीतं च अभिवस्त्रेत्यनेनैव मन्त्रेण दत्त्वा ॥९२९॥

**हिरण्यगर्भ इत्यादीनष्टौ मन्त्रान् जपन् शुभैः । ** कुर्यान्नीराजनं पिष्टमयैर्दीपैरथाष्टभिः ॥९३०॥


**गन्धेन चित्रं देवानामित्यर्द्धर्चेन लोचने । ** देवस्योन्मीलयेत् पार्श्वे स्थित्वा स्वर्णशलाकया । देवस्य पुरतस्तिष्ठेत्तदानीञ्च न कश्चन ॥९३१॥


**अञ्जनेनाञ्जयेन्नेत्रे अञ्जन्ति त्वामिति स्फुटम् । ** **देवस्य त्वेति मध्वाज्यसिताभिः पुनरञ्जयेत् । ** अथादर्शं प्रदर्श्याथ विविधं भोज्यमर्पयेत् ॥९३२॥

सितो शर्करा, मध्वादिभिर् देवस्य त्वेति मन्त्रेण पुनर् अभ्यञ्जयेत् ॥९३२॥

अथ स्तुतिवलिदानादि

**अथाचार्यः कुशासीनः संस्तूयाद्धारयन् कुशान् । ** देवं पुरुषसूक्तेन प्रत्युचं प्रणवं पठन् ॥९३३॥ **पञ्चवर्णकधान्यान्नं पात्रे संस्थाप्य वैणवे । ** तेन नीराजयेद्देवं विगताचारविप्रतः ॥९३४॥


पञ्चवर्ण-धान्य-निष्पन्नं क्षिप्रौदनं वैणवे पात्रे निधाय तेनान्नेन देवं निराचार-विप्र-हस्तेन नीराजयेत् ॥९३४॥

**तद्धस्तेन बलिं दद्याद्रुद्राय च चतुष्पथे । ** नमो रुद्रायेति मन्त्रं सघ्रुवञ्च स्वयं जपेत् ॥९३५॥


स-ध्रुवं प्रणव-सहितम्, तथाहि—ओं नमो रुद्राय सर्वभूताधिपतये दीप्त-शूल-धरायोमादयिताय विश्वाधिपतये रुद्राय वै नमः, शिवमगर्हितं कर्मास्तु स्वाहा इति ॥९३५॥

**ब्रह्माणञ्च प्रतिष्ठाध्य तन्मन्त्रेण तदादिकाः । ** उपचारैः षोडशभिर्यजे मण्डलदेवताः ॥९३६॥


तन्मन्त्रेण ब्रह्म-प्रतिष्ठा-मन्त्रेण ब्रह्मज-ज्ञानम् इत्यादिना ब्रह्माणं प्रतिष्ठाप्य ॥९३६॥

**स्थाप्यदेवमथावाह्यार्चायां तल्लिङ्गमन्त्रतः । ** कर्णिकायां मण्डलस्य तामर्चामुपवेशयेत् ॥९३७॥


तल्-लिङ्ग-मन्त्रतः स्थाप्य-देव-लिङ्ग-मन्त्रेण स्थाप्य-देवम् अर्चायां प्रतिमायाम् आवाह्य ॥९३७॥

**सुप्रतिष्ठो भवेत्येतां सम्प्रतिष्ठाप्य तत्र च । ** पुनः समर्चयेद्गन्धाद्युपचारैस्तु पञ्चभिः ॥९३८॥

तत्र कर्णिकायाम् ॥९३८॥

**कुण्डातिकमथायत्य तिलाज्यैर्जुहुयात् कृती । ** तद्देवतानां प्रत्येक नासमन्त्रैर्दशाहुतीः ॥९३९॥

तासां मण्डल-देवतानां नाम-मन्त्रैः—ओं ब्रह्मणे नमः इत्यादि-रूपैः प्रत्येकं तिलाज्यैर् दशाहतीर् जुहुयात् ॥९३९॥

अथाधिवासनविधि

अथ स्वस्तिकवर्तिन्यां शय्यायां ब्राह्मणैः सह । श्रीमूर्तिं प्राङ्मुखं दिव्यास्तरणेषु निवेशयेत् ॥९४०॥


**ततः पुरुषसूक्तेनोत्तरनारायणेन च । ** उपस्थाप्य ततोऽर्चायां न्यसेत्तत्त्वानि तत्त्वतः ॥९४१॥


तत्त्वतः यथा-विधीत्यर्थः । तच्चैवम्— पुरुषात्मने नमः, प्राणात्मने नम इति शिरसि; प्रकृति-तत्त्वाय नमः, बुद्धि-तत्त्वाय नमः, अहङ्कार-तत्त्वाय नमः, मनस्-तत्त्वाय नम इति हृदि; तथा शब्द-तत्त्वाय नम इति शिरसि; स्पर्श-तत्त्वाय नम इति त्वचि; रूप-तत्त्वाय नम इति हृदि । एवं रस-गन्ध-श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राण-वाक्-पाणि-पाद-पायूपस्थ-पृथिव्य्-अप्-तेजो-वाय्व्-आकाशाख्यानि तत्त्वानि वस्ति-पाद-कर्ण-त्वक्-चक्षुर्-जिह्वा-घ्राण-शिखासु यथासम्भवं विन्यस्य देहे विन्यसेद् इति ॥९४१॥

**न्यसेत् पुरुषसूक्तञ्च गन्धाद्यैरर्चयेत्ततः । ** शय्यायां स्वापयेद्देव सुखशायी भवेति तम् ॥९४२॥

पुरुष-सूक्त-न्यासश् चैवम्—अस्य पुरुष-सूक्त-मन्त्रस्य नारायण-ऋषिः पुरुषो देवता देवस्याङ्ग-न्यासे विनियोगः इति सहस्र-शीर्षादि स्मृत्वा, आद्य-मृग्-द्वयम् अग्रकरयोः, उपरितनं जानुनोः, तद्-उपरितनं कटयोः, स-भूम्याद्यास् तिस्रो नाभि-हृदय-कण्ठेषु । तद्-उपरितनम् ऋग्-द्वयं बाह्वोस्-तद्-उपरितनम् अक्ष्णोः, अन्त्याम् ऋचं मस्तके न्यसेद् इति ॥९४२॥

अन्तराले न गन्तव्यं कैश्चिन्मण्डलशय्ययोः ॥ निषिध्यैर्व देवताभ्यो बलिं विधिवदर्षयेत् ॥९४३॥


मण्डल-शय्ययोर् अन्तराले मध्ये कैश्चिन्न गन्तव्यम् इत्येवं निषेधं कृत्वा, विधिवदिति क्षीरौदनं ब्रह्मणे, घृतान्नम् उदकाभि-घारितम् इन्द्राय, आज्यौदन-मग्नये, माषान्नं यमाय, कृष्ण-व्रीह्य्-अन्नं पुराणेन घृतेन निरृतये, नवनीतौदनं वरुणाय, यवौदनं वायवे, प्रैयङ्गवं सोमाय, गामीशाय बलिं दद्याद् इति ज्ञेयम् ॥९४३॥

**नैवारिकचरुस्थालीमानीय शयनस्थले । ** दिग्बलिं चरुशेषेण वितरेद्विधिवद्बुधः ॥९४४॥ **कृत्वाधिवासनं त्वेवं गीतवाद्यादिभिः शुभैः । ** सोत्साहं सोत्सवन्ताञ्च रजनीमतिवाहायेत् ॥९४५॥
अथोत्थापन-विधिः
**अरुणोदयकाले सत्युत्तिष्ठ ब्रह्मणस्पते । ** मन्त्रेणानेन वाद्याद्यैर्देवमुत्थापयेत्ततः ॥९४६॥


‘उत्तिष्ठ ब्रह्मणस् पते’ इत्यनेन मन्त्रेण ॥९४६॥

**स्तुत्वा पुरुषसूक्तेनोत्तरनारायणेन च । ** सधृतब्रीहिणा कुण्डे विधिवच्छ्रपयेच्चरुम् ॥९४७॥


**ततश्चाज्येनाभिघार्य जुहुयान्नाममन्त्रतः । ** दशाहुतीः स्थाप्यदेवमन्त्रतो हविषा दश ॥९४८॥


नाम-मन्त्रेण दशाहुतीः स्थाप्य-देव-मन्त्रेण च घृतेन दशाहुतीर् जुहुयात् ॥९४८॥

**अवदानानि हुत्वा च चरुशेषेण मन्त्रतः । ** पूर्णाहुतिञ्च जुहुयात्तन्मन्त्रद्वयतो बुधः ॥९४९॥

चरु-शेषेण मन्तोऽवदानानि कृत्वा । तन्-मन्त्रश्चायम्—अग्नये स्वाहा, सोमाय स्वाहा, धन्वन्तरये कुह्वै अनुमत्यै प्रजापतये विश्वेभ्यो देवेभ्यः, ओं सर्वेभ्यो देवेभ्यः, ओं भुर्भुवः स्वः अग्नये स्विष्टकृते स्वाहा इति । तन्-मन्त्र-द्वयतः पूर्णाहुति-हवन-मन्त्राभ्यां सप्त ते अग्ने पुनस् त्वाम् इत्य् एताभ्यां, बुध इति तत्-तत्-प्रकारं तत्-तन्-मन्त्रांश्च जानातीति तद्-विशेष-लिखन-परिश्रमेण किमिति भावः । एवं सर्वत्रैव बोद्धव्यम् ॥९४९॥

ततो दत्त्वा धेनुमुख्यां शक्त्याचार्य य दक्षिणाम् । मेरोरभिमुखं वेद्यां देवं कुर्याद्दिनोदये ॥९५०॥


दिनोदये सूर्ये उदिते सति ॥९५०॥

**ओषधीरिति मन्त्रेण ततो देवाय दर्शयेत् । ** सर्वौषधिपुष्पमुलफलानि विविधानि च ॥९५१॥


**ताम्रपात्रेऽथ मूलेन शतवाराभिमन्त्रितम् । ** शान्त्यम्बु गुरुरादाय सिञ्चेद्देवस्य मस्तके ॥९५२॥

अथानन्तरं ताम्र-पात्रे स्थाय-देवता-मूल-मन्त्रेण शतवारान् अभिमन्त्रितं शान्ति-कलस-तोयमादायाचार्यो मूल-मन्त्रेणैवाभिषेकं कुर्यात् ॥९५२॥

विश्वतश्चक्षुरित्येतमुपस्थाप्य प्रकल्पयेत् । देवाधो ध्यानतो ब्रह्मशिलां रत्नाष्टकान्विताम् ॥९५३॥


एत देवम् उपस्थाय, वज्र-मौक्तिक-वैदूर्य-शङ्ख-स्फटिक-पूष्प-रागेन्द्र-नील-महानीलेति रत्नाष्टकोपेतां ब्रह्म-शिलां ध्यानेन देवस्याधस्तात् प्रकल्पयेत् ॥९५३॥

**अथ दर्भेपूपविष्टो धृतद्रर्भः कृताञ्जलिः । ** ब्रह्मणे नम इत्यादि मन्त्रं सप्रणवं जपेत् ॥९५४॥

ओं ब्रह्मणे नमो विष्णवे नमो रुद्राय नमः । एवम् इन्द्राय अग्नये यमाय निरृतये वरुणाय वायवे सोमाय ईशानाय वसुभ्यो रुद्रेभ्य आदित्येभ्येऽश्विभ्याम्, मरुद्भयः कूवेराय गङ्गादिभ्यो महानदीभ्योऽग्नी-सोमाभ्याम् इन्द्राग्नीभ्यां, द्यावा-पृथिवीभ्यां धन्वन्तरये सर्वेशाय विश्वेभ्यो देवेभ्यो ब्रह्मणे नमः इति मन्त्रं जपेत् ॥९५४॥

**ततोऽम्भापूरितं कुम्भं क्षिप्तसर्वौषधिं नवम् । ** अभ्यर्च्य यजमानस्य पुरतः स्थापयेद्गुरुः ॥९५५॥


अभ्यर्च्य कुम्भमेव गन्धाक्षतादिना सम्पूज्य ॥९५५॥

हस्तं कुम्भमुखे न्यस्य वारानष्टो च विंशतिम् । तत्तोयमभिमन्त्र्यास्मिंस्तीर्थान्यावाहयेत्ततः ॥९५६॥


**तेनाभिषिञ्चेद्देवाग्रे यजमानं सहर्त्विजैः । ** इमा आपः शिवतमा इत्यादि मनुभिर्गुरुः ॥९५७॥


**सुमुहूर्ते कृतन्यासो जप्त्वा मूलमनुं ततः । ** भगवन् प्रतितिष्ठेति मनस्युच्चारयन् मुहुः ॥९५८॥


**कुसुमाञ्जलिना गीतवाद्यमङ्गलघोषतः । ** देवं मूर्तीं प्रतिष्ठाप्य तां च स्पृष्ट्वा जपेदृचम् ॥९५९॥

तां च मूर्तिं स्पृष्ट्वा ध्रुवा दौः इत्य् ऋचं जपेत् । अथ तं च देवं पुरुष-सूक्तेनोपतिष्ठेत्, भक्त्या स्तुवीत ॥९५९॥

**ध्रुवा दौरिति तं चोपतिष्ठेत् पुरुषसूक्ततः । ** यजमानः सभार्योऽथ वितरेत् कुसुमाञ्जलिम् ॥९६०॥
तत्र मन्त्रः
**स्वागतं देवदेवेश मद्भाग्यात्त्वमिहागतः । ** प्राकृतत्वगद्र्ष्ट्वा मां बालवत् प्रतिपालय ॥९६१॥ ** इति । ** **शान्तिकुम्भाम्भसा देवं गुरुः पञ्चामृतैरपि । ** अभिषिच्य स्नापयेत्तं रत्नपुष्पकुशाम्बुना ॥९६२॥ **सच्चिदानन्दमित्यादि-मत्रेण कुसुमाञ्जलौ । ** परिभाव्यागतं देवं न्यसेत् प्रतिकृतौ ततः ॥९६३॥


सच्-चिद्-आनन्दं ब्रह्म व भक्तानुग्रहाय गृहीत-विग्रहं कर-चरणाद्य्-अवयविनं शङ्ख-चक्र-गदाद्य्-आयुधान्तं निज-वाहनाद्य्-उपेतं निज-हस्त-कमल-मध्येऽवस्थितं सर्व-लोक-साक्षिणमणीयांसं परमेष्ठ्यसि परमां मां श्रियं गमय इति मन्त्रेण कुसुम-युक्ताञ्जलावागतं परिभाव्य प्रतिकृतौ श्री-मूर्तौ विन्यसेत् ॥९६३॥

**निरुध्य प्रणवेनाथ प्रादुर्भूतं विचिन्त्य तम् । ** स्पृष्ट्वाङ्घ्रिनाभिमस्तेषु इहैवैषीति त्रिजपेत् ॥९६४॥

अर्चासू तत्-तत्-प्रतिमासु प्रतिष्ठापयेत् तद्-अभावे च श्री-मूर्तौ मुख्य-भगवत्-प्रतिमायाम् एव ताः सर्वाः विचिन्तयेत् ॥९६४॥

**स्वस्वमन्त्रैः परीवारदेवताः पूर्ववद्बुधः । ** प्रतिष्ठापर्येदर्चासु श्रीमूर्ती वा विचिन्तयेत् ॥९६५॥ **सकलोकृत्य देवञ्च मूलमन्त्रेण पूजयेत् । ** उपचारैः षोडशभिः परिवारान्वितं ततः ॥९६६॥


**अष्टोत्तरशतं मूलमन्त्रमावर्त्य शक्तितः । ** प्रणम्य दण्डवद्देवं ब्राह्मणान् स्वस्ति वाचयेत् ॥९६७॥

शक्तितः यथाशक्ति देवं दण्डवत् प्रणम्य यजमानार्थं स्वस्ति वाचयेत् ॥९६७॥

अथाचार्यादिसम्माननम्

**यजमानस्ततो दद्यादाचार्याय तु दक्षिणाम् । ** गवां शतं तदर्द्धं वा गामेकां वात्यशक्तितः ॥९६८॥

दक्षिणामेव लिखति— गवामिति । अत्यशक्तित इति, पञ्चाशत्-स्वशक्तौ पञ्चविंशतिं, तत्र चाशक्तौ द्वादश, अत्राप्यशक्तौ तिस्रः, अत्यन्ताशक्तौ चैकामेवेत्यर्थः ॥९६८॥

**दद्यात्तदर्द्धमृत्विग्भ्यो जापिभ्यश्च तदर्द्धकम् । ** अन्येभ्यश्च यथाशक्ति विविधं दानमाचरेत् ॥९६९॥ **ततो गुरुर्हृष्टमनाः सर्वकामितलब्धये । ** सुक्षणे यजमानाङ्के श्रीमूर्तिं तां समर्पयेत् ॥९७०॥

तां प्रतिष्ठितां चलां श्री-मूर्ति यजमानस्य अङ्के क्रोडे समर्पयेद् इति प्रायश् चल-श्री-मूर्तेर् गृह-स्थापनेन अल्प-परिमाणाद्य्-अपेक्षया, किंवा यजमानस्य भाव-विशेष-जननाभिप्रायेणेति दिक् ॥९७०॥

**ततः सर्वं पताकादि-मण्डपस्थं समर्प्य च । ** आचार्याय नमस्कृत्य शक्त्या विप्रांश्च भोजयेत् ॥९७१॥
अथ प्रतिष्ठाफलम्

उक्तञ्च बौधायनेन—

एवं कुर्वन् प्रतिष्ठाञ्च यज्ञानां फलमाप्नुयात् । दीर्घायुर्लब्धलक्ष्मीको वसेत् स्वर्गे चिरं सुखी ॥९७२॥


**मर्त्यलोके च जायेत सर्वकामसमृद्धिमान् । ** ततोऽक्षयसुखे लोके वैकुण्ठे रमते सदा ॥९७३॥


**अथैकाध्वरमार्गेण चलार्चास्थापने विधिः । ** सङ्क्षिप्तो लिख्यते बौधायनाद्युक्तानुसारतः ॥९७४॥
अर्थकाध्वरप्रतिष्ठाविधिः
कूण्डमण्डपवेदीनां नात्रापेक्षास्ति तादृशी ॥९७५॥


**यजमानः पुण्यकाले पुण्यदेशे कृतक्रियः । ** स्वस्तिवाचनपूर्वन्तु नान्दीश्राद्धं समाचरेत् ॥९७६॥

तादृशी पूर्ववद् अत्रापेक्षा नास्ति, ताः कृता अकृता वेत्याग्रहो नास्तीत्यर्थः । कृताः क्रिया नित्य-कर्माणि येन ॥९७५-९७६॥

आचार्यमेकं वृणुयान्नर्त्विगादींश्च काश्चन । विदध्यात् सर्वमाचार्य इत्येकाध्वरिको विधिः ॥९७७॥


आचार्यम् एवैकं वृणुयात, न त्वन्यान् कांश्चन वृणुयात् ॥९७७॥

**आचार्यो यजमानानुज्ञया सङ्कल्पमाचरेत् । ** स्थण्डिलेऽग्निं प्रतिष्ठाप्य ब्रीहिना श्रपयेच्चरुम् ॥९७८॥ आज्यभागान्तमाचार्यो मूर्तिं वाराष्टकं मृदा । स्नापयेत् पूर्ववत् पञ्चगव्यैः पञ्चामृतैरपि ॥९७९॥ **अष्टभिश्चाभिषिञ्चेत्तामापो हिष्ठेति मन्त्रतः । ** कुम्भैः सदूर्वासिद्धार्थपञ्चपल्लवतोयकैः ॥९८०॥

दूर्वादि-सहितैर् अष्टाभिः कुम्भैस् तां श्री-मूर्तिम् अभिषिञ्चेत् स्नापयेत् ॥९८०॥

अभ्यर्च्य वस्त्रगन्धाद्यैरर्चान्तां नाममन्त्रतः । सर्वतोभद्रमध्यस्थ-भद्रपीठे निवेशयेत् ॥९८१॥

नाम-मन्त्रेणाभ्यर्च्य सर्वतोभद्र-मण्डलम् अध्यवर्तिनि भद्र-पीठे स्थापयेत् ॥९८१॥

**तत्प्रागाद्यष्टदिक्ष्वष्टौ सगन्धाक्षतपल्लवान् । ** कुम्भान् जलभृतान्न्यसेद्दीपान् प्रज्वालयेत्तथा ॥९८२॥

अथैवाष्टौ दीपान् प्रज्वालयेत् ॥९८२॥

नेत्रे च प्राग्वदुन्मील्य मधुनाक्तं प्रदाय च । चित्रान्नवलिमात्मेष्टदेवमाहात्म्यकं स्मरेत् ॥९८३॥

चित्रान्न् अवलिं प्रदाय च ॥९८३॥

**स्तुत्वा पुरुषसूक्तेन परिपूज्याङ्गदेवताः । ** प्रत्येकं जुहुयात् साष्टशतन्तु समिदादिभिः ॥९८४॥


समिदादिभिः — समिदाज्यचरुतिलैः ॥९८४॥

**एकैकद्रव्यहोमान्ते स्पृशेद्देवञ्च पूर्ववत् । ** क्षिपेदाहुतिसङ्घातं न्यस्तेऽग्न्युत्तरतो घटे ॥९८५॥


अग्नेर् उत्तरतो न्यस्ते पुरा स्थापिते, आहुति-सङ्घातं पूर्व-देव निक्षिपेत् ॥९८५॥

**ततः पूर्णाहुतिं हुत्वा होमशेषं समापयेत् । ** ततः कृताङ्गन्यासः सन् देवं हृदि विचिन्तयेत् ॥९८६॥ **मूलमुच्चारयन्मन्त्रं देवं हृत्स्थञ्च सुक्षणे । ** कुसुमेन प्रतिष्ठाप्य श्रीमूर्तीं स्थापयेदथ ॥९८७॥


**ध्रुववसूक्तैः प्रतिष्ठाप्य सुप्रतिष्ठो भवेति तम् । ** प्रणवेन निरुध्येष्टं सम्प्रार्थ्य स्तुतिमाचररेत् ॥९८८॥

इष्टं निज-वाञ्छितं सम्यक् प्रार्थ्य पुरुष-सूक्तादिना स्तुवीत ॥९८८॥

अथाग्रोदककुम्भस्याभिमन्त्रणपुरःसरम् । मूलेनाचमनीयान्तानासनादीन् समर्पयेत् ॥९८९॥


आसनम्, आदि-शब्देन आवाहन-पाद्यार्घ्य̍-मधुपर्काचमनीयानि ॥९८९॥

**संस्नाप्याथ कृतन्यासं देवं पञ्चामृतैः सुखम् । ** सम्पातकलसोदेन विशुद्धान्नोदकेन च ॥९९०॥


शङ्खार्पितेन संस्नाप्य तन्मन्त्रैर्वारसप्तकम् । वस्त्रालङ्कारगन्धादीनुपचारान् प्रकल्पयेत् ॥९९१॥


तन्-मन्त्रैर् इति, इमा आपः शिवतमाः इति, सम्पातकलसोदकेन तन्-मूल-मन्त्रेण च शुद्धानोदकेन वार-सप्तकं सप्त-कृत्वः संस्नाप्य ॥९९१॥

**नैवेद्यानि विचित्राणि पुरुषाहारसम्मितम् । ** सघृतं शर्करोपेतं पायसं वा निवेदयेत् ॥९९२॥ **महानीराजनं कृत्वा प्रक्षिप्य कुसुमाञ्जलिम् । ** आचार्यो यजमानाढ्यः शक्त्या वन्देत दण्डवत् ॥९९३॥


प्रक्षिप्य देवस्य पादयोर् विकीर्य ॥९९३॥

दत्त्वा पुष्पाञ्जलिं कृत्वा न्यासं प्रार्थ्याप्यनेकशः । पुनः पुष्पाञ्जलिं दत्त्वा स्वस्मिन्न्यासं समाचरेत् ॥९९४॥

अनेकशः बहुधा, शरणागतोऽयमस्य यजमानस्य कूले सर्वदा सानुग्रह-दृष्टिर् भवेत्यादिकं प्रार्थ्य । अपि-शब्दः समुच्चये, न्यासं स्वस्मिन् कुर्याद् इत्यनेन पूर्वं तु देवे न्यासं कृत्वेति ज्ञेयम् ॥९९४॥

**देवपार्श्वस्थकलसैरद्भिः सेचनमन्त्रतः । ** कुर्वीत यजमानस्य विप्रोपेतोऽभिषेचनम् ॥९९५॥


**आचार्याय ततो दद्याद्यजमानस्तु दक्षिणाम् । ** वस्त्रालङ्कारगोभूमि-स्वर्णाद्यां निजशक्तितः ॥९९६॥

विप्रोपेतः—ब्राह्मणैः सहितः ॥९९६॥

**यदि वा यजमानः स्यादाचार्यः स्वयमेव सः । ** तदा चाचार्यावरणं दक्षिणादानमस्ति न ॥९९७॥

परमपि सङ्क्षिप्तमेव च श्री-मूर्ति-प्रतिष्ठा-विधिं लिखति— यदि वेति द्वाभ्याम् ॥९९७॥

यजमानः समं विप्रैः पुण्याहं वाचयेत् स्वयम् । ** अभिषेकञ्च कुर्वीत तांस्तु सम्पूज्य भोजयेत् ॥९९८॥ ** इति ।

आचार्य-वरण-तद्-दक्षिणा-दान-व्यतिरेकेन परञ्च कृत्यं पूर्ववद् एव सर्वं कुर्याद् इति समासेन लिखति—यजमान इति ॥९९८॥

अर्थतत्प्रतिष्ठाफलम्

प्रतिष्ठानेत्रे—

**इत्यनेन विधानेन प्रतिष्ठां विदधाति यः । ** तस्य पुण्यफलावाप्तिः सुखं चात्यन्तिकं क्रमात् ॥९९९॥

क्रमादिति—क्रमेण यथेच्छं स्वर्गादि-भोगानन्तरम् आत्यन्तिकं सुखं श्री-वैकुण्ठ-प्राप्ति-लक्षणं भवतीत्यर्थः ॥९९९॥

अथ वैगुण्ये पुनः संस्कारः

कदाचिच्च कथञ्चिच्चेत् किञ्चिद्वैगुण्यमापयेत् । संस्कारादि पुनः कुर्यात् सच्छास्त्रोक्तानुसारतः ॥१०००॥


हयशीर्षपञ्चरात्रे—

चालितोत्पाटिता ह्यर्चा केनचित् पापकर्मणा । चण्डालमद्यसंस्पर्शदूषिता वह्निना च या ॥१००१॥


वह्निना च दूषिता दग्धेत्यर्थः । एवं दूषितेत्यस्य समास-गतस्याकर्ष आर्षत्वाद् अदोषः । संस्पृष्टेति पाठो वा ॥१००१॥

स्वयं वा पतिता जीर्णा नदीवेगादिपातिता । अपुण्यजनसंस्पृष्टाऽविप्रक्षतजदूषिता ॥१००२॥

जीर्णा सती स्वयं पतिता, यद्वा, जीर्णा चेति पृथग् दूषणं चिर-कालेन जात-क्षतादि-शिवैर् गुण्यादि प्राप्नोतीत्यर्थः ॥१००२॥

**अचलां दूषितामेवं स्थापयेद्विधिनोद्धृताम् । ** पूर्वपीठं परित्यज्य यदन्यदपि तद्गतम् । ततो यथोक्तविधिना प्रासादे सन्निवेशयेत् ॥१००३॥


एवं नवधा दूषिताम् अचलां स्थिर-प्रतिमां विधिना उद्धृतां सती स्थापयेत् । कथम् ? पूर्व पीठं पिण्डिकाम्, अन्यद् अपि यत् पीठं गतं प्राप्तं, तदपि परित्यज्य अन्य-स्थाने स्थापयेद् इत्यर्थः ॥१००३॥

अतिजीर्णां तथा व्यङ्गां दारवीं शैलजां तथा । परित्यज्य न्यसेदन्यां पूर्वोक्तविधिना गुरुः ॥१००४॥


तत्र चात्यन्तजीर्णादिकां विहाय तत्-परिवर्तेनान्यां स्थापयेद् इत्याह—अतिजीर्णामिति ॥१००४॥

**संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः । ** सहस्रं नारसिंहेन हुत्वा तामुद्धरेद्बुधः ॥१००५॥


उद्धृताम् इत्युक्तं, तत्-प्रकारम् एवाह—संहारेति । तत्त्वान् पूर्वं प्रतिमायां न्यस्तानि तत्त्वानि ॥१००५॥

**वृषभं योजयित्वा तु मन्त्रेणोत्पाट्य देशिकः । ** दारवीं वाहयेद्वह्नौ शैलजां प्रक्षिपेज्जले ॥१००६॥ **धातुजां रत्नजां वापि प्रक्षिपेन्मकरालये । ** अगाधे चान्यत्तोये वा क्षिपेन्नद्यां महावने ॥१००७॥

नद्याद्य्-अभावतो महावने वा क्षिपेत् ॥१००७॥

यानमारोप्य जीर्णार्चीं छाद्य वस्त्रादिना गुरुः । शङ्खदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥१००८॥

तत्-कारमेव विशिष्याह— यानमिति द्वाभ्याम् ॥१००८॥

**नीत्वागाधजलं रम्यं भागीरथ्यां महार्णवे । ** विष्वक्सेनात्मवीजेन प्रक्षिपेत्तां तदा गुरुः ॥१००९॥ रत्नानि क्षिप्तान्यादाय स्वयं दद्यात्तु दक्षिणाम् ॥१०१०॥


क्षिप्तानि पिण्डिकाधः पूर्वं न्यस्तानि, ब्राह्मणेभ्यो दक्षिणां दद्यात् ॥१०१०॥

**धेनवो दश वा पञ्च स्वर्णवस्त्राद्यलङ्कृताः । ** जीर्णोद्धारे प्रदातव्या गुरवे विष्णुतुष्टये ॥१०११॥ **भोजनीया विष्णुभक्ता देयमन्नमवारितम् । ** **त्रिरात्रमुत्सव कार्यं पञ्च वा सप्त वा तथा । ** बलिश्च विधिना देयो यथोक्तेन सूरोत्तम ॥१०१२॥

अवारितं यथा स्यात् तथा योग्यायोग्याद्य्-अविचारेण सर्वेभ्य एव देयम् इत्यर्थः ॥१०१२॥

**ततो निवेशयेदन्यां प्रतिमां लक्षणान्विताम् । ** तत्क्षणादेव राजेन्द्र तस्य दोषप्रशान्तये ॥१०१३॥

तस्य—देवाज् जातस्य पूर्वोक्तस्य दोषस्य प्रशान्तये, स्वस्येति वा ॥१०१३॥

**सम्पत्तिर्वा विपत्तिर्वा नोपेक्षां तत्र कारयेत् । ** अपास्य पिण्डिकां पूर्वामन्यां तत्र निवेशयेत् ॥१०१४॥


यद्द्रव्या यत्प्रमाणा वा या मूर्तिश्चोद्घृता हरेः । तद्द्रव्या तत्प्रमाणा च सा मूर्तिस्तत्र कीर्त्यते ॥१०१५॥


**यत्प्रमाणं यदाकारं यन्मयं विम्बमुद्धरेत् । ** तत्प्रमाणं तदाकारं तन्मयं तत्र विन्यसेत् ॥१०१६॥

दार्ढ्यार्थम् उक्त-पोष-न्यायेनाह—यत्-प्रमाणं, बिम्बं—श्री-मूर्तिम् ॥१०१६॥

**विहाय पिण्डिकां पूर्वांई तद्दिने चापरां न्यसेत् । ** द्वितीये वा तृतीये वा दिवसे स्थापयेद्धरिम् । अत ऊर्ध्वं भवेद्दोषो विधिनापि निवेशिते ॥१०१७॥


**अनेनैव विधानेन लेप्यादीश्च विसर्जयेत् । ** अन्यां प्रकल्पयेत्तत्र तत्प्रमाणां तदाकृतिम् ॥१०१८॥

किञ्च—

**भ्रष्टायां तु हृतायां तु नष्टायां तु प्रमादतः । ** सकूटं नारसिंहं वा लक्षं गुह्यं जपेद्बुधः ॥१०१९॥

कूटं—बीजम् ॥१०१९॥

पतितायां तथा भूमौ यत्र कुत्रापि वा तथा । कुर्यादयुतजप्यन्तु गुरुञ्चापि प्रपूजयेत् ॥१०२०॥ हस्तमात्रच्युतायां तु जपेत् सार्द्धायुतद्वयम् ॥१०२१॥ ** द्विहस्तमात्रपातस्तु प्रमादाद्यदि जायते । ** तदा लक्षं जपेन्मन्त्रं वैष्णवानपि पूजयेत् ॥१०२२॥ **पुरुषप्रमाणपातेन व्यङ्गा तु प्रतिमा यदा । ** पूर्ववत् सर्वकर्माणि कुर्यान्नास्त्यत्र संशयः ॥१०२३॥


यावन्मन्त्रस्य जप्यन्तु कृतं तस्य चतुर्थकम् । आज्याक्तैश्च तिलैर्होमः कार्यो न्यूनादिपूरणे ॥१०२४॥


ब्रह्मपुराणे—

**खण्डिते स्फुटिते दग्धे भ्रष्टे मानविवर्जिते । ** यागहीने पशुस्पृष्टे पतिते दुष्टभूमिषु । अन्यमन्त्रार्चिते चैव पतितस्पर्शदूषिते ॥१०२५॥


खण्डिते जात-क्षते, स्फुटिते भग्नाङ्गे, दग्धे वर्णान्तरापादक-दाहदूषिते, भ्रष्टे निज-स्थानाच् चलिते पतिते वा, मानेन उक्त-परिमाणेन विवर्जिते, याग-हीने अप्रतिष्ठिते पूजा-रहिते वा, पशु-स्पृष्टे अस्पृश्य-पशु-स्पर्श-दूषिते, दुष्ट-भूमिषु अशुचि-स्थानेषु कथञ्चित् पतिते, अन्यद् एवमन्त्रेणार्चिते ॥१०२५॥

दशस्वेतेषु नो चक्रुः सन्निधानं दिवौकसः । इति सर्वगतो विष्णुः परिभाषाञ्चकारह ॥१०२६॥


एतेषु अधिष्ठानेषु, एतच्च सत्यमेवेत्याह— इतीति ॥१०२६॥

तत्र च शैवागमे—

**खण्डिता स्फुटिता भग्ना यस्मादर्चा भयावहा । ** तस्मात् समुद्धरेत्ताञ्च पूर्वोक्तविधिना बुधः ॥१०२७॥


तत्र कथं व्यवहर्तव्यम् इत्यपेक्षायां शैवागमोक्तं लिखति—खण्डितेत्यादि ॥१०२७॥

**देवताप्रतिमापूजा स्वतन्त्रैरेव चोदितैः । ** विज्ञाप्य देवतां मन्त्री पूर्ववत् मन्त्रमुच्चरन् ॥१०२८॥ **स्वस्थानादुधरेदर्चां किन्तु तां वृषभादिना । ** चालयेच्छिल्पिभिः सार्द्धं सहायैर्बलवत्तरैः ॥१०२९॥


चालितोत्पाटिता वार्चा केनचित् पापकारिणा । स्वस्थानपतिता भ्रष्टा निर्व्रणा लक्षणान्विता ॥१०३०॥

भ्रष्टा दुष्ट-स्थाने पतिता च, निर्व्रणा चेत् तर्हि पुनः संस्कार्येत्याह—चालितेति चतुर्भिः । लक्षणान्वितेत्यनेन मान-हीना त्याज्येत्यर्थः ॥१०३०॥

**मन्त्रतन्त्रप्रदेशज्ञः प्रतिष्ठातन्त्रनिर्मलः । ** स्थापयेत्तां प्रयत्नेन पूर्ववद्विधिना गुरुः ॥१०३१॥ **अर्चां समुद्धृता यत्र निर्व्रणा लक्ष्मणान्विता । ** तत्र तां स्थापयेन्मन्त्री पूर्ववद्ब्रह्मणः शिलाम् ॥१०३२॥


**संशोध्य मन्त्रसंस्कारैः कृत्वा चैवाधिवासनम् । ** पूर्वोक्तेन विधानेन स्थापयेच्छास्त्रवित्तमः ॥१०३३॥


**खण्डितां स्फुटितां जीर्णामवलीढाञ्च वह्निना । ** प्रतिमां वर्जयेद्यत्नाद्भग्नां स्वैर्लक्षणैर्युताम् ॥१०३४॥


तथा खण्डितादिकापि हेयैव इत्याह—खण्डितामिति ॥१०३४॥

**विधिवत् पाटितामर्चां दारुजां शैलजादिकाम् । ** निक्षिपेद्दारुजामग्नौ तथान्यामप्सु निक्षिपेत् ॥१०३५॥

वर्जन-प्रकारमेवाह—विधिवदिति । पाटितां उत्पाटितां सतीम् । तद्-विधिः श्री-हयशीर्ष-देवोक्तो लिखित एव ॥१०३५॥

**यद्रूपा यत्प्रमाणा च यस्मिन्नर्चा समुद्धृता । ** तद्रूपां तत्प्रमाणाञ्च तस्मिन्नर्चां निवेशयेत् ॥१०३६॥


स्थापन-प्रकारञ्चाह—यद्-रूपेति ॥१०३६॥

**प्रतिमा यस्य देवस्य स्व-शास्त्रे सम्प्रकीर्तिता । ** तस्य देवस्य तैर्मन्त्रैरर्चां सस्थापयेत्बुधः ॥१०३७॥ **एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् । ** विरात्रे तु महापूजां सम्प्रोक्षणमतःपरम् ॥१०३८॥

सम्प्रोक्षणं—महा-स्नानम् ॥१०३८॥

मासादूर्द्ध्वमनेकाहं पूजा यदि विहन्यते । प्रतिष्ठवेष्यते कैश्चित् कैश्चित् सम्प्रोक्षणक्रमः ॥१०३९॥


याग-हीनायां कृत्यमाह—मासादिति । एवं पशु-स्पृष्टान्य-मन्त्रार्चितान्त्यजादि-स्पर्श-दूषितासु महा-स्नानमेव ज्ञेयम् ॥१०३९॥

किञ्च—

**सम्प्रोक्षणन्तु देवस्य देवमुद्वास्य पूर्ववत् । ** अष्टपञ्चक्रमेणैव स्नापयित्वा मृदम्भसा ॥१०४०॥

सम्प्रोक्षण-प्रकारमेवाह— सम्प्रोक्षणम् इति चतुर्भिः । अष्ट-पञ्च-क्रमेणेति आदौ वल्मीकाद्य्-अष्ट-स्थान-मृत्तिका-जलेन, ततस् तीर्थादि-पञ्च-स्थान-मृत्तिका-जलेन पञ्च-कषायादि-जलेन वा इत्यर्थः ॥१०४०॥

गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च । प्रोक्षयेत् प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम् ॥१०४१॥


**सपुष्पं सकुशं पाणिं न्यस्य देवस्य मस्तके । ** पञ्चावरं जपेन्मूलमष्टोत्तरशतोत्तरम् ॥१०४२॥


पञ्च अवरा यत्र, अष्ठोत्तर-शतम् उत्तराणि यत्र । पञ्चवारतोऽष्टोत्तर-शतवार-पर्यन्त-जपे यथाशक्ति मूल-मन्त्रं जपेद् इत्यर्थः ॥१०४२॥

**ततो मूलेन मूर्धादि पीठान्त संस्पृशेदपि । ** पूजाञ्च महतीं कुर्याद्देवमावाह्य पूर्ववत् ॥१०४३॥

मूर्द्धादि देवस्य श्री-मस्तकम् आरभ्य, पूर्ववद् इति प्रथमं प्रतिष्ठायां यथा कृतास्ति, तथैव कुर्याद् इत्यर्थः ॥१०४३॥

देवीपुराणे—

देवार्चा नैव सञ्चाल्या मृन्मयपि भयावहा । हैमादिर्दोषदा वत्स पूर्वामुद्धृत्य स्थापिता ॥१०४४॥


पूर्वां पूर्व-स्थापितां मृन्-मयीम् उद्धृत्य तत्-परिवर्तेन हैमादिः हेमादि-निर्मिता तत्-स्थाने स्थापितापि दोषदा अशुभकरी ॥१०४४॥

**महादुर्भिक्षजननी मरकारिष्टदा भवेत् । ** कर्तुर्गोत्रस्य भयदा रिपुवंशविवर्द्धिनी ॥१०४५॥

दोषम् एवाह—महेति ॥१०४५॥

अथ पुनः संस्कारमाहात्म्यम्

तत्रैव—

शीर्णो देवोऽथ प्रासादो यैः पुनः संस्कृतो द्विज । अशोच्यास्ते महात्मानो धूतपापा महाधियः ॥१०४६॥


देवः तत्-प्रतिमेत्यर्थः । अथ-शब्दो विकल्पे, प्रामादो वा । महात्मानो निरभिमानाः, महाधियश्च परम-विवेकिनः, स्वकीर्त्य्-अनपेक्षणेन परकीर्ति-संरक्षणेन च पुण्य-विशेष-सिद्धेः ॥१०४६॥

हयशीर्षे—

यो जीर्णं विधिना देवं संस्कुर्यान्मनवो भुवि । फलं दशगुणं तस्य मूलान्नास्त्यत्र संशयः ॥१०४७॥

मूलात्—प्रथम-स्थापकात् ॥१०४७॥

इत्यूनविंशो विलासः ।

**मूलाद्दशगुणं पुण्यं कूपादेः परिकीर्तितम् । ** प्रतिमादौ शतगुणं जीर्णसंस्करणाद्भवेत् ॥१०४८॥
इति श्रीगोपाल-भट्ट-विलिखिते श्रीभगवद्भक्तिविलासे प्रातिष्ठिको नामैकोनविंशो विलासः ।