१८ मुक्ति-प्रादुर्भावः

अष्टादश-विलासः

श्रीमूर्तिप्रादुर्भावः
यस्य प्रसादादज्ञोऽपि सद्यः सर्वज्ञतां व्रजेत् ।
स श्रीचैतन्यदेवो मे भगवान् सम्प्रसीदतु ॥१॥

श्री-गुरु-मुखैक-गम्यं श्री-मूर्ति-प्रादुर्भावण-विधिं लिखन् परम-दुर्ज्ञेयो ऽपि भगवत्-प्रसादात् सुज्ञेयो भवतीति तत्-प्रसादं प्रार्थयते—यस्येति ॥१॥

अपेक्ष्यन्तेऽर्चनेऽवश्यमधिष्ठानानि वैष्णवः ।
श्रीमूर्तयश्च तत्रापि साक्षात्कारसुखप्रदाः ॥२॥

अर्चने निमित्तानि अविष्ठानानि पूजा-स्थानानि । तत्र अधिष्ठानेष्व् अपि मध्ये श्री-मूर्तयो भगवत्-प्रति-कृतयो ऽवश्यम् अपेक्ष्यन्ते । कुतः ? भगवत्-साक्षात्-कारे यत् सुखं, तत् प्रकर्षेण ददतीति तथा ताः ॥२॥

श्रीमूर्तीनां लक्षणानि लिखितान्येव कानिचित् ।
प्रादुर्भूतेर्विधिस्तासां प्रतिष्ठायाश्च लिख्यते ॥३॥

लिखितानि पूर्वं बहिः पूजायां चतुर्-विंशति-मूर्त्य्-आदि-लिखने कानिचिद् इति, अधुना तान्य् अपि लेख्यानीति भावः । तासां श्री-मूर्तीनां प्रादुर्भूतेः प्रादुर्भावस्य प्रतिष्ठायाश् च विधिं लिख्यते ॥३॥

अथ श्रीमूर्तिप्रादुर्भावणम्
भक्त्यैव भगवन्मूर्तिप्रादुर्भावोऽपि चेद्भवेत् ।
कर्तव्योऽथाप्युपायोऽत्र पूर्वः सद्भिः प्रदर्शितः ॥४॥

निज-भक्तैक-साध्ये ऽपि श्री-मूर्ति-प्रादुर्भावणे शिष्टाचारानुसारेण यत्नः कार्य इति लिखति—भक्त्यैवेति । अपि चेत् यद्य् अपि भक्त्यैव, न च शिल्पादि-शक्त्या भवेत्, तथापि अत्र भगवन्-मूर्ति-प्रादुर्भावे उपायः साधनम् अनुष्ठेयः, स च न स्वकल्पितः, किन्तु शास्त्र-द्वारा साधु-परम्परयाभिव्यञ्जित इति लिखति—पूवैर् इति ॥४॥

अथ तत्रादौ श्रीमूर्त्याविर्भावणमाहात्म्यम् विष्णुधर्मोत्तरे—
प्रतिमां कारयित्वा तु देवदेवस्य चक्रिणः ।
न दुर्गतिमवाप्नोति विष्णुलोकं स गच्छति ॥५॥
देवस्य प्रतिमायान्तु यावन्तः परमाणवः ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥६॥
किञ्च—
प्रासादव तथा तस्याः फलं सम्यगुदाहृतम् ।
उत्तरोत्तरतो द्रव्यैर्विना पक्वेष्टकां द्विजाः ॥७॥

प्रासादवत् प्रासाद-निर्माणे यथा फलम् उक्तं, तथा तस्याः प्रतिमाया निमाणे ऽपीत्य् अर्थः । एतच् चाग्रे मन्दिर-निर्माणे लेख्यम् । तथा हि—

सुर-वेश्मनि यावन्तो द्विजेन्द्राः परमाणवः । तावद् वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥ प्रासादे मृण्मये पुण्यं मयैतत् कथितं द्विजाः । तस्माद् दश-गुणं पुण्यं कृते शैलमये भवेत् ॥ ततो दश-गुणं लौहे ताम्रे शत-गुणं ततः । सहस्र-गुणितं रौप्ये तस्मात् फलम् उपाश्नुते ॥ ततः शत-सहस्रं वै सौवर्णे द्विज-सत्तमाः । अनन्तं फलम् आप्नोति रत्न-चित्रे मनोहरे ॥ इति ।

सम्यग् इति प्रासादतो ऽप्य् अत्र विशिष्टं फलम् इत्य् अर्थः ॥७॥

नारसिंहे—
प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत् ।
सर्वपापानि सन्त्यज्य स तु विष्णुपुरे वसेत् ॥८॥

लक्षणैर् अग्रे लेख्यैर् युक्ताम् ॥८॥

श्रीमूर्त्याविर्भावणविधिः मात्स्ये—
विष्णोस्तावत् प्रवक्ष्यामि यादृक रूपं प्रशस्यते ।
शङ्खचक्रधरं शान्तं पद्महस्तं गदाधरम् ॥९॥
छत्राकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम् ।
तुङ्गनासं शूर्पकर्णं प्रशान्तोरुभुजद्वयम् ॥१०॥
क्वचिदष्टभुजं विद्याच्चतुर्भुजमथापि वा ।
द्विभुजश्चापि कर्तव्यो भवने स पुरोधसा ॥११॥

भवने गृह-पूजायाम् इत्य् अर्थः । स विष्णुः द्वि-भुजो ऽपि आचार्येण कार्यः ॥११॥

देयमष्टभुजस्यास्य यथास्थानं निबोधत ।
खड्गो गदा शरः पद्म देयं दक्षिणतो हरेः ॥
धनुश्च खेटकञ्चैव शङ्खचक्रञ्च वामतः ॥१२॥

खेटकं—चर्म ॥१२॥

चतुर्भुजस्य वक्ष्यामि यथैवायुधसंस्थितिः ।
दक्षिणे च गदां पद्मं वासुदेवस्य कारयेत् ।
वामतः शङ्खचक्रे च कर्तव्ये भूतिमिच्छता ॥१३॥
कृष्णावतारे तु गदा वामहस्ते प्रशस्यते ।
यथेच्छया शङ्खचक्रे उपरिष्टात् प्रकल्पयेत् ॥१४॥
अधस्तात् पृथिवी देवी कर्तव्या पदमध्यतः ।
दक्षिणे प्रणतं तद्वद्गरुत्मन्तं निवेशयत् ॥
वामतस्तु भवेल्लक्ष्मीः पद्महस्ता सुशोभना ॥१५॥
गरुत्मानग्रतो वापि संस्थाप्यो भूतिमिच्छता ।
श्रीश्च पुष्टिश्च कर्तव्ये पार्श्वयोः पद्मसंयुते ॥१६॥

सर्वेषां परिवार-परिच्छद-सन्निवेशम् आह—अधस्ताद् इति सार्धैश् चतुर्भिः । श्रीः, सर्व-सम्पद्-अधिष्ठात्री महालक्ष्म्य्-अंश-भूता ॥१५-१६॥

तोरणञ्चोपरिष्टाच्च विद्याधरसमन्वितम् ।
तथा कल्पलतोपेतं स्तुवद्भिरमरेश्वरैः ॥१७॥

अमरेश्वरैर् ब्रह्म-रुद्रादिभिर् उपेतम् । प्रणाम-स्तवन-मुद्रा च शिल्पिषु प्रसिद्धैव ॥१७॥

श्रीमूर्तिपरिमाणम् तत्रैव—
अङ्गुष्ठपर्वादारभ्य वितस्तिं यावदेव तु ।
गृहे वै प्रतिमा कार्या नाधिका शस्यते बुधैः ॥१८॥

गृहे स्वगृहान्तर्-अर्चने ॥१८॥

आषोडशात्तु प्रासादे कर्तव्या नाधिका ततः ।
मध्योत्तमकनिष्ठा तु कार्या वित्तानुसारतः ॥१९॥

आषोडशात् एक-हस्तम् आरभ्य षोडश-हस्त-पर्यन्तम् इत्यर्थः । अत्र च मध्यतोत्तमत्वादिकं पूर्वपूर्वोपेक्षयोत्तरोत्तरस्या उत्तमत्वेन, तत्रैव मध्यमत्वस्यापि कल्पनया ज्ञेयम् ॥१९॥

वाराह्याञ्च—
सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता ।
प्रतिमा क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणा च ॥२०॥

क्षेमाय त्रिहस्ता, सुभिक्षाय चतुर्-हस्तेति यथासङ्ख्यं ज्ञेयम् ॥२०॥

अथारम्भे कृत्यम् श्रीहयशीर्षपञ्चरात्रे—
प्रासादस्योत्तरे भागे शिलां नीत्वा च देशिकः ।
कृत्वा कर्मकूटीं रम्यां प्रतिमाकर्म कारयेत् ॥२१॥

प्रतिमायाः कर्म निर्माण-कृत्यम् ॥२१॥

चतुरस्रायतां कृत्वा शिलां संस्थाप्य चार्चयेत् ।
शिरो मुखञ्च पृष्ठे च अङ्कयित्वा तु बुद्धिमान् ॥२२॥
यजमानानुकूल्येन गुरुः कर्म समारभेत् ।
शिलां पूर्वाननां कृत्वा अथवा उत्तराननाम् ।
तोयेन ब्रह्मघोषाइः स्नाप्य पश्चालिं हरेत् ॥२३॥

स्नाप्य स्नापयित्वा ॥२३॥

दधि-दूर्वाक्षतैः पूजां नवारम्भे समाचरेत् ।
शुक्लैर्गन्धैश्च माल्यैश्च मन्त्रेणानेन देशिकः ॥२४॥
अथ तत्र मन्त्रः
ओं तत् सत् नमः ।
योऽसौ भगवान् सर्वजगतः प्रवीरः सङ्कर्षणो वासुदेवः प्रवरवराह जय सुप्रतिष्ठित कीर्तिं प्रवर्द्धयस्व ओं ओं फट् फट् नमः ॥२५॥
स्वस्ति वाच्य द्विजान् सम्यग्गुरुभक्त्या समर्चये ।
वस्त्रपुष्पादिदानेन अशाठ्येन तु पूजयेत् ॥२६॥

वाच्य वाचयित्वा ॥२६॥

मङ्गलैर्ब्रह्मघोषाधैः प्रतिमा संविभाजयेत् ।
मध्यसूत्रं समास्फाल्य तीक्ष्णशस्त्रेण चोत्किरेत् ॥२७॥

समास्फाल्य पातयित्वा, उत्किरेत् अङ्कयेत् ॥२७॥

अथाङ्गपरिमाणविशेषः मात्स्ये—
स्वकीयाङ्गुलिमानेन मुखं स्याद्द्वादशाङ्गुलम् ।
मुख-मानेन कर्तव्या सर्वावयवकल्पना ॥२८॥

स्वकीयं श्री-मूर्तेर् एव यद् अङ्ग्लं, तस्य मानेन । अङ्गुलिर् इति वक्तव्ये अङ्गुलम् इत्य् आर्षम् । एवम् अग्रेऽपि ॥२८॥

अथ अङ्गुलिपरिमाणम् श्रीहयशीर्षपञ्चरात्रे—
अभिप्रेतप्रमाणन्तु नवधा प्रविभाजयेत् ।
नवमे भास्करैर्भक्तै भागः स्वाङ्गुलमुच्यते ॥२९॥

स्वकीयाङ्गुलि-मानमेव लिखति—अभिप्रेतेत्यादि-स-पाद-द्वयेन । अभिप्रेतं निजाभीष्ट-प्रमाणं श्री-मूर्ति-परिमाणम्, भास्करैर् द्वादशभिर् भागैर् भक्ते विभक्ते सति तद्-एक-भागः स्वस्याः श्रीमूर्तेर् अङ्गुलम् ॥२९॥

श्रीनारदीये च—
विम्बमानन्तु नवधा प्रोच्छ्रयात् संविभज्य वै ।
भागं भागं ततो भूयो भवेद्द्वादशधा द्विज ॥३०॥

बिम्बं—प्रतिमा ॥३०॥

तदङ्गुलं स्याद्विम्बस्य ॥ इति ।
एवं पुराणतन्त्रादि दृष्ट्वात्रेदं विलिख्यते ।
ललाटच्चिवुकान्त स्यात् श्रीमुखं द्वादशाङ्गुलम् ॥३१॥

अधुना अवयव-मानं लिखति—एवम् इत्यादि । आदि-शब्दात् सङ्ग्रह-पुस्तकादि, इदम् अग्रे लेख्यं ललाटात् श्रीमल्-ललाटोपरिभागाद् आरभ्य । तथा च श्री-नारदीय-पञ्चरात्रे—चिबुकाच् च ललाटान्तम् इत्यादि । एतदादिकम् अग्रे सर्व्वं तत्र तत्र व्यक्तं भावीति सम्पूर्ण-वचनम् अत्र न सङ्ग्राह्यम् ॥३१॥

तत्राननं भाग एकस्तत्रैव चतुरङ्गुलम् ।
ललाटं नासिका तद्वद्गुल्फमर्द्धाङ्गुलं भवेत् ॥३२॥

तत्र तस्मिन्न् आनन एव ललाटं चतुरङ्गुलं, तद्वत् चतुर्-अङ्गुलेत्यर्थः ॥३२॥

अर्द्धाङ्गुलोऽधरस्तूद्ध्वोऽपरश्चैकाङ्गुलो मतः ।
द्व्यङ्गुलं चिबुकं चाथ ग्रीवा स्याच्चतुरङ्गुला ॥३३॥

अपरः अधस्तनः, श्री-मुख-निज-विभागं लिखित्वा तद्-अधः श्मश्र्वादि-लिखनेन भिन्नोपक्रमाद् अथ-शब्दः । एवम् अग्रेऽपि ज्ञेयम् ॥३३॥

वक्षोभागो भवेदन्यस्तस्मान्नाभ्यवधिः परः ।
ततोऽपरश्च मेढान्तस्तस्मादुरुविभागकौ ॥३४॥

अन्यः श्री-मुख-विभागाद् भिन्नः, तस्माद् वक्षसः ॥३४॥

तथा द्विभागिके जङ्घे जानुनी चतुरङ्गुले ।
पादौ च तत्समावित्थं दैर्घ्यभागा नवोदिताः ॥३५॥

तथेति समुच्चये, तत्-समौ चतुर्-अङ्गुलौ, तौ च गुल्फात् पार्ष्णिपर्यन्तौ ज्ञेयौ, दैर्घ्यस्य लिखनात् ॥३५॥

कुत्राप्युच्चात् ललाटस्योपरिष्ठात्त्र्यङ्गुलं शिरः ।
तद्वद्ग्रीवा जानुपावास्तथापि स्युर्नवैव ते ॥३६॥

तथेति समुच्चये, तत्-समौ चतुर्-अङ्गुलौ, तौ च गुल्फात् पार्ष्णिपर्यन्तौ ज्ञेयौ, दैर्घ्यस्य लिखनात् ॥३५॥

इति स्यात् सर्वतो दैर्घ्ये साष्टोत्तरशताङ्गुलाः ।
चतुर्दशाङ्गुलो मौलिः क्वचिच्च द्वादशाङ्गुलः ॥३७॥

तद्-दार्ढ्यार्थमेव लिखति- इतीति । सा श्री-मूर्तिः, मौलिस् तु ललाटोपरि श्री-मस्तके ज्ञेयः । क्वचित् श्री-हय-शीर्षीये, तथापि द्वादशाङ्गुलत्वं द्व्यङ्गुलालक-स्थल-त्यागाद् अविरुद्धम् एव । तथा च तत्रैव—परेण द्व्यङ्गुलौ शङ्खौ इत्यादि । अस्यार्थः—परेणेति ललाटात् परतः तदुपरीत्यर्थः । तत्-पार्श्वयोर् आधिक्यात् तथालकान्विताव् इत्य् उक्तेश् च ॥३७॥

अथ स्तिरः
विस्तारेऽष्टाङ्गुलं यस्या ललाटं त्वर्द्धचन्द्रवत् ।
ध्रुवौ नेत्रान्तपर्यन्ते प्रत्येकं चतुरङ्गुले ॥३८॥

एवं दैर्घ्यं लिखित्वाङ्गानां विस्तारं लिखति—विस्तार इत्यादिना । तस्याः श्री-मूर्तेः ॥३८॥

तयोर्मध्ये द्व्यङ्गुलं स्यात् क्वचिच्चैकाङ्गुलं मतम् ।
भ्रूलेखार्द्धाङ्गुला सा च मध्ये स्थूलाग्रतः कृशा ॥३९॥

क्वचित् श्री-नारदीये । उभयथाप्य् अलिखिते एव ते ॥३९॥

तीक्ष्णा नतधनुस्तुल्या कर्णौ तु चतुरङ्गुलौ ।
षडङ्गुलौ वा तावुच्चौ विद्धौ चेच्चिबुकावधि ॥४०॥

वा-शब्दो मत-भेदात् । स चात्र विद्धत्वापेक्षया घटत एव । उच्चैः दैर्घ्य इत्यर्थः । एवम् अग्रेऽपि, चिबुकावधीति विद्धयोर् अष्टाङ्गुलत्वेन तावत् प्रवेश-प्राप्तेः ॥४०॥

विततौ द्व्यङ्गुलौ प्रान्तेऽर्द्धाङ्गुलौ वैककाङ्गलौ ।
कर्णच्छिद्रन्तु नेत्रान्तसममेकाङ्गुलं भवेत् ॥४१॥

प्रान्ते अधस्तनान्त्यभागे, एककम् एकम्, एकाङ्गुलौ वा । ईदृक् मत-भेदः, स्व-स्व-रुच्य्-अनुसारेण सौन्दर्यस्य तत्-तत्-कालीन-श्रीमद्-अङ्गेषद्-भेदस्य वापेक्षया । नेत्रान्ताभ्यां समं, न ताभ्याम् उच्चं, न च नीच सम-रेखयोर् वर्तमानम् इत्यर्थः । यच् चोक्तं श्री-हयशीर्ष-देवेन—भ्रू-समा इत्यादि । तच् च भ्रुवोः प्रान्त-भागस्य प्रायो नेत्रान्त-व्यापकताभिप्रायेण ॥४१॥

कर्णोपरिष्टात् श्रीमरतमुच्चत्वे द्वादशाङ्गुलम् ।
त्रिगुणः परिधिस्तस्य द्विचत्वारिंषदङ्गुलः ॥४२॥

द्वादशाङ्गुलम् इति किरीटस्य द्व्यङ्गुलोच्चत्वात् मौलेर् द्वादशाङ्गुलता, पक्षं किरीटस्येव श्री-मस्तकस्य तावद् उच्चत्वात् । यजमानेच्छया मौल्यभावे च स्वत एव तावज् ज्ञेयम् । तस्य श्री-मस्तकस्य परिधिः परिणाहः, त्रिगुणः षट्-त्रिंशद्-अङ्गुल इत्यर्थ । एवम् अग्रेऽन्यत्रापि ॥४२॥

सकेशस्याथ नयने दैर्घ्ये तु द्व्यङ्गुले मते ।
कुत्रापि त्र्यङ्गुले ते हि विस्तारे चैकलाङ्गुले ॥४३॥

स-केशस्य च तस्य परिधिश् चत्वारिंशद्-अङ्गुल इत्यर्थः । केशपाशस् तु दीर्घः स्कन्धोपरि विन्यस्य । कुत्रापि श्री-नारदीये, एकलम् एकम् ॥४३॥

तारकात्र तृतीयांशा दृष्टिः स्यात् पञ्चमांशिका ।
क्वचित् तृतीयभार्गैव दृङ्मध्यं चतुरङ्गुलम् ॥४४॥

क्वचित् तत्रैव, तत्-प्रान्तौ चार्धाङ्गुलौ ज्ञेयौ, द्रोणी चार्धाङ्गुला मता इति श्री-हयशीर्ष-देवोक्तेः । दृशोर् द्वयोर् मध्यम् ॥४४॥

कुत्रचित् त्र्यङ्गुलं कर्णदृङ्मध्यं चतुरङ्गुलम् ।
सृक्कणीकर्णयोर्मूलात् षडङ्गुलविदूरतः ॥४५॥

कुत्रचित् श्री-नारदीय एव । कर्ण-दृशोर् मध्यम् । सृक्-कणी ओष्ठ-प्रान्त-भागौ, अत एव श्री-मुख-विवरस्याप्य् अन्तभागौ स्याताम् । तथा च श्री-दशम-स्कन्धे (१६.२५)—तं जिह्वया द्विशिखया परिलेलिहानं, द्वे सृक्कणी इति । किञ्च—प्रतिस्पर्द्धेते सृक्कभ्यां सव्यासव्ये नगोदरे इति । षड्-अङ्गुलैर् विदूरतो वर्तेते । यच्च श्री-नारदीये—सृक्कणी चतुर्-अङ्गुले इति । तत्र सृक्क-शब्देन सृक्क-द्वय-पर्यन्तं श्री-मुख-विवर-भाग एवाभिप्रेतः ॥४५॥

हनुके द्व्यङ्गुले स्यातां निर्गते कर्णमूलतः ।
कपोलौ दर्पणाकारौ हन्वग्रे चतुरङ्गुलौ ॥४६॥

कुत्रचित् श्री-नारदीय एव । कर्ण-दृशोर् मध्यम् । सृक्-कणी ओष्ठ-प्रान्त-भागौ, अत एव श्री-मुख-विवरस्याप्य् अन्तभागौ स्याताम् । तथा च श्री-दशम-स्कन्धे (१६.२५)—तं जिह्वया द्विशिखया परिलेलिहानं, द्वे सृक्कणी इति । किञ्च—प्रतिस्पर्द्धेते सृक्कभ्यां सव्यासव्ये नगोदरे इति । षड्-अङ्गुलैर् विदूरतो वर्तेते । यच्च श्री-नारदीये—सृक्कणी चतुर्-अङ्गुले इति । तत्र सृक्क-शब्देन सृक्क-द्वय-पर्यन्तं श्री-मुख-विवर-भाग एवाभिप्रेतः ॥४५॥

नासोच्चैकाङ्गुला मूले द्व्यङ्गुला चाग्रतो भवेत् ।
एकाङ्गुले पुटे तस्यास्तयोस्त्वर्द्धाङ्गुलं बिलम् ॥४७॥

पुटे च सर्वत एकाङ्गुले ज्ञेये, करवीर-सादृश्योक्तेः, क्वचित् तिल-पुष्प-तुल्यतोक्तेश् च । त्रयोः पुटयोर् विलं छिद्रम् ॥४७॥

दलञ्च निष्पावसमं सा ह्येवं करवीरवत् ।
विदारभागस्तृण्डस्य विस्तारे चतुरङ्गुलः ॥४८॥

दलं च तयोर् एव स्थौल्यं, निष्पावं द्वि-दलान्नविशेषः । एवम् अनेनोक्त-प्रकारेण सा नासा करवीर-पुष्प-सदृशी ॥४८॥

चिबुकं त्र्यङ्गुलं तारे ग्रीवा त्वष्टाङ्गुला भवेत् ।
परिधिस्त्रिगुणस्तस्याः स्कन्धावुच्चौ षडङ्गुलौ ॥४९॥

तारे विस्तारे, उच्चौ बाहु-मूलात् । अत एवोक्तं मात्स्ये—कक्षयोर् उपरिष्टाच् च इत्यादि ॥४९॥

विस्तारेऽष्टाङ्गुलौ पीनौ वृषस्कन्धोपमौ मतौ ।
भुजौ सुवृत्तौ तत्रोर्द्ध्वो बाहुः स्यात् षोडशाङ्गुलः ॥५०॥

विस्तारश् च तयोर् बाहुमूलाद् ग्रीवान्तम् । पीनाव् इत्य् अनेन तद्-उपरि-भाग-विस्तारश् चतुरङ्गुलो ज्ञेयः, वृष-स्कन्धोपमत्वात् । तत्र तयोर् भुजयोर् ऊर्ध्वो भागः, बाहुः बाहु-सञ्ज्ञः ॥५०॥

अष्टादशाङ्गुलोऽधस्तात् प्रबाहुः क्वचिदन्यथा ।
बाहोस्तु मध्ये परिधिर्भवेदष्टादशाङ्गुलः ॥५१॥

तद्-अधस्ताद् वर्तमानश् च प्रबाहु-सञ्ज्ञः । क्वचित् हय-शीर्षीयादौ त्व् अन्यथा तद्-विपरीतः । बाहुर् अष्टा-दशाङ्गुलः प्रबाहुः षोडशाङ्गुलः इति तच् च चिन्त्यम्; अधस्तात् स्कन्ध-शिखराबाहुः स्यात् षोडशाङ्गुलः इति श्री-नारदीयोक्तः, लोके तद्-दर्शनाच् च, किञ्च—

क्वचित् प्रबाहुः कृष्णस्य सप्त-दशाङ्गुलो मतः । अथ वाङ्गुलहीनस् तु द्वितीयं सर्वम् उच्यते ॥ इति मात्स्योक्तेः ॥५१॥

षोडशाङ्गुलकोऽन्यस्य तदग्रे द्वादशाङ्गुलः ।
दीर्घं पाणितलं सप्ताङ्गुलं पृथु षडङ्गुलम् ॥५२॥

अन्यस्य प्रबाहोः तस्य, प्रबाहोर् अग्रे, पृथु विस्तीर्णम् ॥५२॥

क्वापि पञ्चाङ्गुलं निम्नमध्यं सल्लक्षणान्वितम् ।
पञ्चाङ्गुला मध्यमान्ये सार्द्ध च चतुरङ्गुले ॥५३॥

क्वापि श्री-नारदीये, सल्-लक्षणः रेखात्मकैर् ध्वज-वज्रादिभिर् आरण्यादिभिश् चान्वितम् । मध्यम् आङ्गुलिः, अन्ये तर्जन्य-नामिके द्व ॥५३॥

कनिष्ठाङ्गुलिरङ्गुष्ठोऽप्युक्तौ द्वौ चतुरङ्गुलौ ।
सार्द्धत्र्यङ्गुलकोऽङ्गुष्ठः क्वाप्ययन्तु द्विपर्वकः ॥५४॥

क्वापि तत्रैव, अङ्गुष्ठः सार्ध-त्र्यङ्गुलः, अयम् अङ्गुष्ठस् तु ॥५४॥

अन्यस्त्रिपर्विकाः सर्वाः गोपुच्छाकृतिशोभनाः ।
समानि सर्वपर्वाणि स्वस्वमानानुरूपतः ॥५५॥

गो-पुच्छेति मूले स्थूलत्वात् क्रमशोऽग्रे कृशत्वाच् च । शोभना इत्य् अनेन ततोऽधिकं सौन्दर्यं बोधितम् एव । स्व-स्व-मानानुरूपत इति स्वकीयं यत् दैर्घ्य-परिमाणं, तत्-तृतीय-भागेनैकं पर्वेत्य् एवं सर्वासां पर्वाणीत्यर्थः ॥५५॥

क्वचिच्च मध्यमामध्यपर्वद्व्यङ्गुलकं मतम् ।
अन्यानि सर्वपर्वाणि न्यूनानि यवशः क्रमात् ॥५६॥

क्वचिन् मात्स्ये, सर्व-पर्वाणि पञ्चानाम् अपि सर्वाणि पर्वाणि, तथा च तत्रैव—यवो यवस् तु सर्वस्याः इत्यादि । क्रमाद् इति यस्या यावत् प्रमाणं पर्व, तद्-अनुसारेण न्यूनम् इत्यर्थः । एवम् अग्रेऽपि ज्ञेयम् ॥५६॥

अङ्गुष्ठस्योर्द्ध्वपर्वस्थः परिधिश्चतुरङ्गुलः ।
क्रमशः किञ्चिदूनाश्च सर्वे परिधयोऽपरे ॥५७॥

पर्वस्थः पर्ववर्ती, अपरे सर्व इति अङ्गुष्ठस्याधोवर्ती, तथैव पराणां च सर्वेषां सर्वे परिधयः ॥५७॥

कूर्मपृष्ठसमाः स्वस्वपर्वार्द्धप्रतिमा नखाः ।
चतुर्विंशत्यङ्गुलोऽथ विस्तारो वक्षसो भवेत् ॥५८॥
स्तनयोस्तु द्वयोर्मध्ये विस्तारो द्वादशाङ्गुलः ।
द्व्यङ्लः स्वस्वविस्तारे चुचुकौ यवमात्रकौ ॥५९॥

स्वस्य स्वस्य तस्य विस्तारः ॥५९॥

कक्षे षडङ्गुले तद्वद्बाहुमूलस्तनान्तरे ।
चतुर्दशाङ्गुलं चारु विस्तारे जठरं भवेत् ॥६०॥

अतः षड्-अङ्गुलस् तयोः परिणाहो ज्ञेयः, बाहु-मूल-स्तनयोर् अन्तरे मध्य-द्वयम् । चारु अश्वत्थ-पत्राकारात् तथा त्रिबलि-सूक्ष्म-रेखा-त्रयादिना च सुन्दरम् ॥६०॥

मध्ये चैकाङ्गुला नाभिर्निम्ना च वितता तथा ।
नाभिमध्ये तु परिधिर्द्विचत्वारिंशदङ्गुला ॥६१॥
विस्तारे पुरुषस्योक्ता कटिरष्टादशाङ्गुला ।
परिणाहो भवेत्तस्याश्चतुःपञ्चाशदङ्गुलः ॥६२॥

पुरुषस्येति स्त्रीणां तद्-आधिक्यात्, तच्चाग्रे व्यक्तं भावि ॥६२॥

ऊर्वोर्मूले तु विस्तारो द्वादशाङ्गुलो भवेत् ।
मध्येऽधिकः क्रमादूनः परिधिस्त्रिगुणोऽखिलः ॥६३॥

अधिको विस्तारस् तद्-अग्रे च क्रमेणोनः, हस्ति-हस्तक-दली-वृक्षाद्याकार-सादृश्यात् । अखिल इति मूल-मध्याग्रवर्ती सर्वोऽपि परिधिः स्व-स्व-मानानुसारेण त्रिगुणः ॥६३॥

चतुर्दशाङ्गुलः क्वापि परिणाहस्तु तादृशः ।
उच्चमेकाङ्गुलं जानुद्वयं त्र्यङ्गुलकं ततम् ॥६४॥

क्वापि वाराह्याम्, तादृशस् तु त्रिगुणः, ततं विस्तीर्णम् ॥६४॥

तन्मध्ये परिधिस्त्वेकविंशत्यङ्गुलको भवेत् ।
क्वाप्यष्टाङ्गुलविस्तारः परिधौ त्रिगुणं हि तत् ॥६५॥

क्वापि श्री-हयशीर्षीये, तत् जानु ॥६५॥

विस्तारो जङ्घयोः सप्ताङ्गुलो मध्येऽपि तादृशः ।
परिधिः क्वापि तन्मूले विस्तारस्तु षडङ्गुलः ॥६६॥

अपि-शब्दात् मध्य इत्य् अस्योभयतोऽप्य् अन्वयः, परिधिस् तादृशस् त्रिगुणः । क्वापि श्री-नारदीये ॥६६॥

परिधिस्त्रिगुणोऽग्रे तु चतुर्युक्तदशाङ्गुलः ।
क्वचित्त्वेकाधिकः सोऽङ्घ्री द्वौ च चतुर्दशाङ्गुलौ ॥६७॥

क्वचित् तत्रैव, सः अग्रयः परिधिः एकाधिकः पञ्च-दशाङ्गुल इत्यर्थः । अतस् तन्-मते तयोर् अग्रे विस्तारः पञ्चाङ्गुलो ज्ञेयः । तथा च तत्रैव—जङ्घावसान इत्यादि चतुर्दशाङ्गुलौ ज्ञेयौ दैर्घ्ये। तच्च पार्ष्णि-पृष्ठतोऽङ्गुष्ठाग्रान्तम् । तथा च तत्रैव—पार्ष्ण्योश् च पृष्ठतः इत्यादि ॥६७॥

द्वादशाङ्गुलकौ क्वापि विस्तारे तौ षडङ्गुलौ ।
कूर्मपृष्ठोन्नतौ गुल्फद्वयं द्व्यङ्गुलकं तयोः ॥६८॥

क्वापि श्री-हयशीर्षीये, दैर्घ्य द्वादशाङ्गुलौ, द्व्यङ्गूलकं दैर्घ्य विस्तारे च ज्ञेयं, तयोः पादयोः ॥६८॥

दैर्घ्य त्र्यङ्गुलकोऽङ्गुष्ठः क्वचिच्च चतुरङ्गुलः ।
प्रदेशिनी तु तत्तुल्या षोडशांशोनमध्यमा ॥६९॥

तच् चतुर्-अङ्गुलं वर्तुलं ज्ञेयम्, क्वचिच् च श्री-नारदीये प्रदेशिनी-षोडशांशेनोना मध्यमाङ्गुलिः ॥६९॥

अन्ये द्वे चाष्टमांशोने तादृश्यो वाखिलाः क्रमात् ।
क्वाप्यन्ये द्वे पादहीने उच्चश्चैकाङ्गुलेन सः ॥७०॥

अन्ये अनामिका-कनिष्ठे, क्रमाद् इति अनामिकाया अष्टमांशेनोना कनिष्ठा ज्ञेया । अखिला अङ्गुलयस् तादृश्यः अङ्गुष्ठाष्टमाष्टमांशोनाः । क्रमाद् इति पूर्वपूर्वत्र उत्तरोत्तरा अपि सर्वाः क्रमेणाष्टमांशोना इत्यर्थः । तथा च श्री-हयशीर्षीये—अष्टमांशाष्टमांशोना इत्यादि । मात्स्ये तु अङ्गुष्ठस्य समा तद्वत् इत्यादि । क्वापि श्री-नारदीये, अन्ये अनामिका-कनिष्ठे मध्यमातः पाद-हीने । अत्रापि क्रमाद् इत्य् अस्यानुवर्तनाद् अनामिका पादोना कनिष्ठा ज्ञेया । सः—अङ्गुष्ठः ॥७०॥

सपादाङ्गुलतः क्वापि पराः सर्वास्तदर्द्धतः ।
पञ्चाङ्गुलोऽस्य परिधिर्देशिन्यास्त्र्यङ्गुलो भवेत् ॥७१॥

क्वापि श्री-हयशीर्षीये, स-पादाङ्गुलेनोच्चं, पराः प्रदेशिन्याद्यास् तस्याङ्गुष्ठस्यार्धनोच्चास् तत्र च तत्-तत्-परिणाहानुसारेणैव ज्ञेयाः । अस्य अगुष्ठस्य देशिन्याः प्रदेशिन्याः ॥७१॥

अन्यासां त्वष्टमांशोनः परिधिः स्यात् क्रमेन हि ।
द्विपर्वको मतोऽङ्गुष्ठः पराः सर्वास्त्रिपर्विकाः ॥७२॥

हि एव, क्रमेणैव ॥७२॥

स्वस्वर्दैर्घ्ये तृतीयांशः पर्व तामाममुष्य च ।
अङ्गुष्ठस्य नखः पादोनाङ्गुलोऽर्द्धाङ्गुलोऽन्यतः ।७३॥

अमुष्य अङ्गुष्ठस्य च, अन्यतः सर्वासाम् अन्यासाम् इत्यर्थः ॥७३॥

क्रमेण किञ्चिहूनश्च कूर्मपृष्ठसमो हि सः ।
नितम्बौ करिकुम्भाभौ विस्तारे षोडशाङ्गु लौ ॥७४॥

स नखः, करिकुम्भाभाव् इत्य् अनेन सु-वर्तुलौ सु-विभक्तौ च ज्ञेयौ । षोडशाङ्गुल-विस्तारत्वेन तयोः परिधिस् तत्-त्रिगुणो ज्ञेय एवं ॥७४॥

षट्त्रिंशदङ्गुलं स्कन्धात् पृष्ठं निम्नं क्रमेण तत् ।
विंशत्यङ्गुलपर्यन्तं नातवंशञ्च तन्मतम् ॥७५॥

तत् पृष्ठं विंशत्य् अङ्गुल-पर्यन्तं क्रमेण निम्नं नत-पृष्ठ-वंशम् । यद्यप्य् अवष्टम्भाच्छादनादिना श्री-मूर्तेर् नितम्ब-पृष्ठे न दृश्येते, अत एवान्यत्र ते द्व नाक्ते, केवलं श्री-नारदीय एवोक्ते, तथापि क्वचिद् अवष्टम्भराहित्यादिना तद्-अपेक्षयात्र ते लिखिते ॥७५॥

मध्यदेशाच्च विततं मिलितं मत्स्ययुग्मवत् ।
अन्यच्चालिखितं कार्यं लोकदृष्ट्याऽखिलं बुधैः ॥७६॥

एवं प्रसिद्ध-प्रधान-प्रकट-सर्वाङ्ग-परिमाणं लिखित्वा अत्रालिखितान्य-विज्ञान-प्रकारं लिखति—अन्यच् चेति । लिङ्गादिकं कर्ण-च्छिद्र पार्श्व-द्वय-निम्नत्वं नखाग्रार्ध-चन्द्राकृतित्वं पार्श्व-द्वयादिकं च लोक-दृष्टया लोकेषु तत्-तद्-अङ्गसौष्ठवादि-दृष्टया, बुधैर् इति तत्र तत्रैव स्व-बुद्धया विचार्य । तत्रापि शास्त्रोक्त-ध्यान-ध्येय-श्री-भगवद्-अङ्ग-सौन्दर्याद्य्-अनुसारेणैव सर्वं कार्यम् इत्यर्थः ॥७६॥

हयशीर्षये—
एतत्ते लक्षणं प्रोक्तमुद्देशेन मयानघ ।
अनयैव दिशा कार्यं स्वयमप्यूह्य देशिकैः ॥७७॥

उद्देशेन सङ्क्षेपेणैव, न तु साकल्येनेत्यर्थः । दिशा उद्दिष्टैकांशेनेत्यर्थः । तत्राप्य् ऊह्य विचार्यैवेत्यर्थः, लिखितार्थम् एवैतत् ॥७७॥

लोकेषु लक्षणं दृष्ट्वा हसितादिनिरीक्षणम् ।
तथा तथैव कर्तव्यमूह्यंया नेन देशिकैः ॥७८॥

लक्षणम्—अङ्ग-सौष्ठव-प्रकारम्; यथा, श्री-मुखस्य पूर्ण-चन्द्राद्य्-आकारेण श्री-नेत्रयोश् च पद्म-पत्रेण सादृश्यम् इत्यादि । तत्-तद्-अङ्गं वा । किञ्च, निरीक्षणम् अवलोकनं, हसितादि च दृष्ट्वा, तथा तेन लोकोत्तर-विषयक-दृष्ट-लक्षण-प्रकारेण वीप्सा तद्-दार्ढ्यार्था, तत्-तल्-लक्षणं च सामुद्रकादाव् उक्तम् । साक्षात् कस्मिश्चित् सु-पुरुषे दृश्यमानं च ज्ञेयम् ॥७८॥

श्रीनारदीये—
मनोहराङ्गावयवाः सर्वे कार्याः सुलक्षणाः ।
केशैरलकजातं च ललाटोपरि शोभनम् ॥७९॥

मनोहराः अङ्गस्य श्री-मूर्तेर् अवयवाः, किंवा अङ्गं श्री-मूर्त्याद्याकारादिकम् अवयवाश् च, सु-शोभनं लक्षणं शास्त्रोक्तं महापुरुष-लक्षणं येषु ते । केशैः सह शोभनं भ्रमराकार-सादृश्यादिना विराजमानं, केशैः शोभनम् इति वा मौल्यधः किञ्चित् केश-पाश-मूल-दर्शनात् ॥७९॥

हारनूपुरकेयूरमेखलामौलिभूषितम् ।
शिष्टं ध्यानोदितं सर्वं मयानुक्तं प्रकल्पयेत् ॥८०॥

हारादिभिः सहजैर् भूषितम्, उपलक्षणम् एतत् वनमाला-कुण्डलादिभिर् अपि । यच् चात्रानुक्तं शिष्टम् अवशिष्टम् अङ्ग-सौष्ठवादिकं तत् ध्याने उदितम् अत्रान्यत्राप्य् उक्तं, प्रकर्षेण ततोऽप्य् उत्कृष्टतया कल्पयेत् रचयेत् ॥८०॥

वाराहे—
देशानुरूपभूषणवेशालङ्कारमूर्तिभिः कार्या ।
प्रतिमा लक्षणयुक्ता संविहिता बुद्धिदा भवति ॥८१॥

देशानुरूपं विभूषणं यथोढ्र-देशे चूडागर्-भकादि, मध्य-देशादौ चात्र कञ्चुकोष्णीषादि । वेशश् च केश-बन्ध-वस्त्रादि-परिधान-परिपाट्यादिना सज्जा, अलङ्कारः कुण्डलाङ्गदादिः, मूर्तिश् च सकेशादिः पार्षदादि-प्रतिमा वा, ताभिः, लक्षणैर् अत्रान्यत्राप्य् उक्तैर् अङ्ग-सौष्ठवादिभिर् युक्ता, एवं सम्यग् विहिता निर्मिता सती भक्तादेर् बुद्धिदा ॥८१॥

किञ्च हयशीर्षाये—
वासुदेवं प्रकुर्वीत चतुर्बाहुं सुरेश्वरम् ।
दक्षिणोपरि चक्रं तु पद्म चाधः प्रकल्पयेत् ॥८२॥
वामोपरि गदा कार्या शङ्खं चाधः सुशोभनम् ।
एतल्लक्षणसंयुक्ता प्रतिमा शुभदा भवेत् ॥८३॥
श्री-पूष्टी चापि कर्तव्ये पद्मवीणाकरान्विते ।
ऊरुमात्रोच्छ्रितायामे किञ्चिदावर्जिते तथा ॥८४॥
नानाविद्याधरौ कार्यौ प्रभामण्डलसंस्थितौ ।
प्रभां विभूषयेद्यत्नाद्गजव्यालादिभिर्बुधः ॥८५॥
पादाभ-पादपीठञ्च तथा शोभासमन्वितम् ।
देशवेशानुरूपेण कर्तव्यं देशकोत्तमैः ॥८६॥
अथ श्रीगोपालदेवस्य कश्चिद्विशेषः विष्णुधर्मोत्तरे—
गोपालप्रतिमां कुर्याद्वेणुवादनतत्पराम् ।
वर्हापीडां घनश्यामां द्विभुजामूर्ध्वसंस्थिताम् ॥८७॥

वेणुवादन-तत्-पराम् इति—श्रीमद्-अधर-न्यस्त-वेणुवादन-मन्द्र-शोभिताम् । श्री-हस्त-द्वय-धृत-सहज-संलग्नैव वंशी विधेयेत्यर्थः । ऊर्ध्व-संस्थितामिति त्रिभङ्ग-ललितत्वात् ॥८७॥

गौतमीयतन्त्रे—
प्रतिमां कृष्णदेवस्य यत्नतः कारयेत् सुधीः ।
शिल्पिना कृष्णभक्तेन विश्वकर्मोक्तजानता ॥८८॥
दशपञ्चाङ्गुला मुख्या मध्यमा द्वावशाङ्गुला ।
अष्टाङ्गुलाधमा सा तु न्यूनाधिक्यं न कारयेत् ॥८९॥
अज्ञानेनापि मोहेन यदि कुर्यान्नराधमः ।
प्रतिमा विफला तस्य पूजनान्न फलं लभेत् ॥९०॥
मानाङ्गुलिविहीना च प्रतिमा यत्र तिष्ठति ।
राजा निपीडयात्येव गृहस्थो नरकं व्रजेत् ॥९१॥
मानाङ्गुलेन सा कार्या नान्यथा मुनिसत्तम ।
काश्मीरी ज्ञानदा प्रोक्ता स्वर्णजापि न मुक्तिदा ॥९२॥
सम्पत्तिदा शिलाजा तु राजती बहुभक्तिदा ।
तेजोदा दारुजा या तु रैत्तिकी शत्रुनाशिनी ॥९३॥
ताम्री धनविवृद्धिञ्च करोति बहुसौख्यदा ।
सदैव मृण्मयी प्रोक्ता प्रतिमा शुभलक्षणा ॥९४॥
भोगवा मोक्षदा सा तु प्रतिमा कथिता तव ।
लेप्या लेख्या द्विधा चैव प्रतिमा परिकीर्तिता ॥९५॥
पवनाग्रे नदीतीरे चत्वरे गोष्ठभूमिषु ।
समुद्रकूलेऽरण्ये वा मानहीना न दूषणी ॥९६॥
कृष्णप्रतिकृतिं कुर्याद्दिव्यां केशसुचिह्निताम् ।
तान्तु संस्थापयेन्मन्त्री गृहे वा गोष्ठमध्यतः ॥९७॥
अथ स्त्रीप्रतिमाङ्गानि
चतुर्दशाङ्गुलं दैर्घ्ये जठरं वितता कटिः ।
द्वाविंशत्यङ्गुला स्त्रीणां स्तनौ च द्वादशाङ्गुलौ ॥९८॥

द्वाविंशत्य् अङ्गुला वितता, स्तनौ च विततौ ॥९८॥

किञ्चिद्ध्रस्वी भुजौ तासां किञ्चिद्दीर्घं मुख भवेत् ।
नासाग्रीवाललाटानि सार्द्धद्व्यङ्गुलकानि च ॥९९॥

किञ्चित् पुरुषाद् ईषत् ॥९९॥

विस्तारे किञ्चिदधिकार्द्धाङ्गुयोऽधरपल्लवः ।
नेत्रे चतुर्थभागोने परं श्रीवच्च पूर्ववत् ॥१००॥

पुरुष-नेत्राच् चतुर्थभागेनोने । श्रीवदिति अग्रे लेख्य-लक्ष्मीमूर्तिवत् । अत एवोक्त श्री-हयशीर्ष-देवेन—

सर्वेषाम् एव देवानां विष्णूक्तं मानम् उच्यते । देवीनाम् अपि सर्वासां लक्ष्म्य् उक्तं मानम् उच्यते ॥ इति ।

पूर्ववच् चेति पूर्वोक्त-पुरुषाङ्गमानादि-सदृशम् अपीति लक्ष्मी-मूर्तेः सवाङ्गमानानुक्तेर् इति ॥१००॥

तथा च मात्स्ये—
स्त्रियः कार्याश्च विद्वद्भिस्तनोरुजघनाधिकाः ।
नानाभरणसंयुक्ताः किञ्चिद्ध्रस्वभुजाः शुभाः ॥१०१॥

तथा च श्री-मत्स्य-पुराणे—

स्वकीयाङ्गुल-मानेन मुखं स्याद् द्वादशाङ्गुलम् । प्रतिभा-मुख-मानेन सम-भागान् प्रकल्पयेत् ॥ चतुरङ्गुला भवेद् ग्रीवा भागेन हृदयं पुनः । नाभिस् तस्माद् अधः कल्प्या भागेनैकेन शोभना ॥ निम्नत्वे विस्तरत्वे च अङ्गुलत्वं प्रकीर्तितम् । नाभेर् अधस् तान् मेढ्रं तु भागेनैकेन कल्पयेत् ॥ त्रिभागेनायताव् ऊरू जानुनी चतुरङ्गुले । जङ्घे द्विभागे विख्याते पादौ च चतुरङ्गुलौ ॥ चतुर्दशाङ्गुलस् तद्वन् मौलिर् अस्य प्रकीर्तितः । ऊर्ध्व मानम् इदं प्रोक्तं पृथूत्वं च निबोधत ॥ सर्वावयवमानेषु विस्तारं शृणुत द्विजाः । चतुर्-अङ्गुलं ललाटं स्याद् उर्ध्वं नासा तथैव च ॥ द्व्यङ्गुलं तु हनु ज्ञेयम् ओष्ठश् चाङ्गुल-सम्मितः । अष्टाङ्गुलं ललाटं तु तावन्-मात्रे भ्रुवौ मते । अर्धाङ्गुला भ्रुवोर् लेखा मध्ये धनुर् इवोन्नता । उन्नताग्रा भवेत् पार्श्वे श्लक्ष्णा तीक्ष्णा प्रशस्यते ॥ अक्षिणी द्व्यङ्गुलायामे तद्-अर्धं चैव विस्तरे । उन्नतोदर-मध्ये तु रक्तान्ते शुभ-लक्षणे ॥ तारका तत्-त्रिभागेन दृष्टिः स्यात् पञ्च-भागिका । द्व्यङ्गूलं तू भ्रुवोर् मध्यं नासामूल-मथाङ्गूलम् ॥ नासाग्र-विस्तरं तद्वत् सु-पुट-द्वयम् उत्तमम् । नासापुटविलं तद्वद् अर्धाङ्गुलम् उदाहृतम् ॥ कपोले द्व्यङ्गुले तद्वत् कर्णमूलाद् विनिःसृते । हन्व्-अग्र-मण्डलं तद्वद् विस्तारात् द्व्यङ्गुलं भवेत् ॥ अर्धाङ्गुला भ्रुवो राजी मृणाल-सदृशी मता । अर्धाङ्गूल-समस् तद्वद् उत्तरौष्ठस् तु विस्तरे ॥ निष्पाव-सदृशं तद्वन् नासापुटदलं भवेत् । सृक्कणी योनि-तूल्ये तू कर्ण-मूलात् षड्-अङ्गुले । कर्णौ तु भ्रू-समौ ज्ञेयाव् ऊर्ध्वं च चतुरङ्गुलम् ॥ द्व्यङ्गुले कर्ण-पार्श्वे तु मात्राम् एकान्तु विस्तरे । कर्णयोर् उपरिष्टाच्च मस्तकं द्वादशाङ्गुलम् ॥ ललाटं पृष्ठतोऽर्धेन प्रोक्तम् अष्टादशाङ्गुलम् । षट्-त्रिंशद्-अङ्गुलश् चापि परिणाहः शिरोगतः ॥ स-केश-निचयस्यास्य द्विचत्वारिंशद्-अङ्गुलः । केशान्ताद् धनुकात् तद्वदङ्गुलानि तु षोडश ॥ ग्रीवा-मध्ये परिणाहश् चतुर्विंशतिर् अङ्गुलः । अष्टाङ्गुला भवेद् ग्रीवा पृथुत्वेन विशिष्यते ॥ स्तन-ग्रीवान्तरं प्रोक्तम् एकतालं स्वयम्भुवा । स्तनयोर् अन्तरं तद्वद् द्वादशाङ्गुलम् इष्यते ॥ स्तनयोर् मण्डलं तद्वद् द्व्यङ्गुलं परिकीर्तितम् । चुचुकौ मण्डलस्यान्तर्यवमात्राव् उभौ स्मृतौ ॥ द्वितालं चापि विस्तारे वक्षःस्थलम् उदाहृतम् । कक्षे षडङ्गुले प्रोक्ते बाहु-मूल-स्तनान्तरे ॥ चतुर्दशाङ्गुलौ पादाव् अङ्गुष्ठस् तत्-त्रिर् अङ्गुलः ॥ पञ्चाङ्गुल-परीणाहमङ्गुष्ठाग्रं तथोन्नतम् ॥ अङ्गुष्ठस्य समा तद्वद् आयामे स्यात् प्रदेशिनी । तस्याः षोडश-भागेन हीयते मध्यमाङ्गुली ॥ अनामिकाष्ट-भागेन कनिष्ठा चापि हीयते । पर्व-त्रयेण चाङ्गुल्योर् गुल्फौ तु द्व्यङ्गुलौ स्मृतौ । पार्ष्णि-द्व्यङ्गुलमात्रा तु कलयोच्चा प्रकीर्तिता । द्विपर्वाङ्गुष्ठकः प्रोक्तः परीणाहश् च द्व्यङ्गुलः ॥ प्रदेशिनी-परीणाहस् त्र्यङ्गुलः समुदाहृतः । अन्यासाम् अष्ट-भागेन हीयते क्रमशो द्विजाः । अङ्गुलेनोच्छ्रयः कार्यो ह्य् अङ्गुष्ठस्य विशेषतः । तद् अर्धेन तु शेषाणाम् अङ्गुलीनां समुच्छ्रयः ॥ जङ्घाग्रे परिणाहस्तु अङ्गुलानि चतुर्दश । जङ्घामध्ये परीणाहस् तथैवाष्टादशाङ्गुलः ॥ जानु-मध्ये परीणाह एकविंशतिर् अङ्गुलः । जानूच्छ्रयोऽङ्गुलः प्रोक्तो मण्डलं तु त्रिअङ्गुलम् ॥ ऊरु-मध्ये परिणाहः अष्टाविंशतिकाङ्गुलः । एक-विंशोपरिष्टाच् च वृषणौ तु त्रिरङ्गुलौ ॥ त्र्यङ्गुलं च तथा मेढ्रं परिणाहे षडङ्गुलम् । मणिवेधात् समां विद्यात् कोशरेखां तथैव च ॥ मणिकोश-परीणाहश् चतुरङ्गुल इष्यते । विस्तारेण भवेत् तद्वत् व कटिर् अष्टादशाङ्गुला ॥ द्वाविंशतिस् तथा स्त्रीणां स्तनौ च द्वादशाङ्गुलौ । नाभि-मध्ये परीणाहो द्विचत्वारिंशद्-अङ्गुलः ॥ पुरतः पञ्चपञ्चाशत् कट्याश् चैव तु वेष्टनम् । कक्षयोर् उपरिष्टाच्च स्कन्धौ प्रोक्तौ षड्-अङ्गुलौ ॥ अष्टाङ्गुलां च विस्तारे ग्रीवाञ्चैव तु निर्दिशेत् । परिणाहे तथा ग्रीवा कला द्वादश निर्दिशेत् ॥ आयामो भूजयोस् तद्वद् द्विचत्वारिंशद्-अङ्गूलः । कार्यं तु बाहु-शिखरं प्रमाणे षोडशाङ्गुलम् ॥ ऊर्ध्वं यद् बाहु-पर्वं तु विद्याद् अष्टादशाङ्गुलम् । तथैवाङ्गुलहीनं तु द्वितीयं पर्वम् उच्यते । बाहु-मध्ये परीणाहो भवेद् अष्टादशाङगुलः । षोडशोक्त-प्रबाहुस् तु षट्कलोऽग्रकरो मतः ॥ सप्ताङ्गुलं करतलं मध्यम् आङ्गुल-पञ्चका । अनामिक मध्यमायाः सप्त-भागेन हीयते ॥ तस्यास् तु पञ्च-भागेन कनिष्ठा परिहीयते । मध्यमायास् तु हीना वै पञ्च-भागेन तर्जनी । अङ्गुष्ठस् तर्जनी-मूलाद् अधः प्रोक्तस् तु तत्-समः ॥ अङ्गुष्ठ-परिणाहस् तु विज्ञेयश् चतुरङ्गुलः । शेषाणाम् अङ्गुलीनां तु भागो भागेन हीयते ॥ मध्यमामध्यपर्वं तु अङ्गुल-द्वयम् आयतम् । यवो यवस् तु सर्वासां तस्यां तस्यां प्रहीयते । अङ्गुष्ठ-मध्य-पर्वं तु तर्जन्या सदृशं भवेत् । यव-द्वयाधिकं तद्वद् अग्रपर्वम् उदाहृतम् ॥ पर्वार्धेन नखान् विद्याद् अङ्गुलीषु समं ततः । स्निग्धं श्लक्ष्ण प्रकुर्वीत ईषद् रक्तं नख-व्रजम् ॥ निम्न-पृष्ठं भवेन् मध्ये पार्श्वतः कलयोच्छ्रितम् । चतुर्दशाङ्गुलायामम् उदरं तासु निर्दिशेत् । तथैव केशवल्लर्यः स्कन्धोपरि दशाङ्गुलाः ॥ स्त्रियः कार्याश् च विद्वद्भिः स्तनोर् उजघनाधिकाः । नानाभरण-सम्पन्नाः किञ्चिद् ध्रस्व भूजाः शुभाः ॥ किञ्चिद् दीर्घ भवेद् वक्त्रम् अलकावलिर् उत्तमा । नासा ग्रीवा ललाटं च सार्धमासान् त्रयङ्गुलम् । अध्यर्धां अङ्गुल-विस्तारः शस्यतेऽधर-पल्लवः । अधरात् नेत्र-युग्मं तु चतुर्-भागेन निर्दिशेत् ॥१०१॥

किञ्च—
ग्रीवावलिश्च कर्तव्या किञ्चिदूर्द्धाङ्गुलोच्छ्रया ॥१०२॥

ग्रीवावलिश् च कर्तव्या किञ्चिद् अर्धाङ्गुलोच्छ्रया ॥१०२॥

एवं नारीषु सर्वासु देवानां प्रतिमासु च ।
नवतालमिदं प्रोक्तं लक्षणं पापनाशनम् ॥१०३॥

एवं नारीषु सार्वासु देवानां प्रतिमासु च । नवतालम् इदं प्रोक्तं लक्षणं पापनाशनम् ॥

श्री-हयशीर्ष-पञ्चरात्रे श्री-भगवद्-ब्रह्म-संवादे—

अतः परं प्रवक्ष्यामि प्रतिमा-लक्षणं परम् । यन् न कस्यचिद् आख्यातं गुह्याद् गुह्यतरं पदम् ॥ अभिप्रेत-प्रमाणं तु नवधा प्रविभाजयेत् । नवमे भास्करैर् भक्ते भागं स्वाङ्गुलम् उच्यते ॥ द्व्यङ्गुलं गोलोकं नाम्ना कला नेत्रान्तम् उच्यते । भागम् एकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत् ॥ भागम् एकं तथा जानौ ग्रीवायां भागम् एव च । मुकुटं ताल-मात्रं स्यात् ताल-मात्रं तथा मुखम् ॥ ताल-मात्रेण कण्ठं तु तालेन हृदयं तथा । नाभि-मेढ्रान्तरं तालं द्वितालाव् ऊरुकौ तथा ॥ ताल-द्वयेन जङ्घा तु सूत्राणि शृणु साम्प्रतम् । कार्यं सूत्र-द्वयं पादे जङ्घा-मध्ये तथा परम् ॥ जानौ सूत्र-द्वयं कार्यम् ऊरु-मध्ये तथा परम् । मेढ्रे तथा परं कार्यं कट्यां सूत्रं तथा परम् ॥ मेखला-बन्ध-सिद्ध्यर्थं नाभ्यां चैव परं तथा । हृदये च तथा कार्यं कण्ठे सूत्र-द्वयं तथा ॥ ललाटे चापरं कार्यं मस्तके च तथा परम् । मुकुटोपरि कर्तव्यं सूत्रम् एकं विचक्षणैः ॥ सूत्राण्य् अर्धं प्रदेयानि सप्तैव सुरसत्तम । कक्षात् त्रिकान्तरेणैव कण्ठ-सूत्राणि दापयेत् ॥ मध्य-सूत्राणि सन्त्यज्य सूत्राण्य् एवं निवेशयेत् । ललाट-नासिवावक्त्रं कर्तव्यं चतुरङ्गुलम् ॥ ग्रीवा-कर्णं तु कर्तव्यम् आयामाच् चतुरङ्गुलम् । द्व्यङ्गुले हनुके कार्ये विस्ताराच् चिबुकं तथा ॥ अष्टाङ्गुलं ललाटं तु विस्तारेण प्रकीर्तितम् । परेण द्व्यङ्गुलौ शङ्खौ कर्तव्यावलकान्वितौ ॥ चतुरङ्गुलम् आख्यातम् अन्तरं कर्ण-नेत्रयोः । द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णार्धार्धं च पञ्चमे ॥ भ्रू-समेन तु सूत्रेण वर्ण-सूत्रं प्रकीर्तितम् । विद्धं षड्-अङ्गुलं कर्णम् अविद्धं चतुरङ्गुलम् ॥ चिबुकेन समं विद्धम् अविद्धं वा षड्-अङ्गुलम् । खड्ग-पात्रं तथा रक्तं शष्कुलीं कल्पयेत् तथा ॥ अङ्गुलेनाधरः कार्यस् तस्यार्धेनोत्तराधरः । अर्धाङ्गुलं तथा गुल्फं वक्त्रं तु चतुरङ्गुलम् ॥ आयामेन तु वैपुल्यं सार्धम् अङ्गुलम् उच्यते ॥ अव्यात्तम् एव स्याद् वक्त्रं व्यात्तं द्व्यङ्गुलम् उच्यते ॥ नासावंश-समुच्छ्रायं मूले त्व् एकाङ्गुलं मतम् । उच्छ्रिता द्व्यङ्गुलं चाग्रे करवीरोपमा स्मृता ॥ अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः । द्व्यङ्गुलं चाक्षिकोषं तद्द्व्यङ्गुलं चान्तरन्तयोः ॥ तारा नेत्र-त्रिभागेन दृक्तारा पञ्चमांशिका । अङ्गुलं नेत्रविस्तारं द्रोणी चार्धाङ्गुला मता । तत्-प्रमाणा भ्रुवोर् लेखा भ्रुवौ नेत्र-समे मते ॥ भ्रू-मध्यं द्व्यङ्गुलं कार्यं भ्रू-दैर्घ्यं चतुरङ्गुलम् ॥ षट्-त्रिंशद्-अङ्गुलायामं मस्तकस्य तु वेष्टनम् । मूर्तीनां केशवादीनां द्वात्रिंशद्-वेष्टनं भवेत् ॥ पञ्च-नेत्राद् अधोग्रीवाद् विस्ताराद् वेष्टनं पुनः । त्रिगुणं तु भवेद् ऊर्ध्वं विस्तृताष्टाङ्गुलं पुनः ॥ ग्रीवा त्रिगुणमायामं ग्रीवावक्षोऽन्तरं भवेत् । स्कन्धाव् अष्टाङ्गुलौ कार्यौ त्रिकला-वंशकौ शुभौ ॥ सप्त-नेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ । त्रिकलं विस्तृतौ बाहू प्रबाहू चापि तत्-समौ ॥ बाहु-दण्डार्धतो ज्ञेयः परीणाहः कला नव । सप्त-दशाङ्गुला मध्ये कूर्परोर्ध्वे च षोडशी ॥ कूर्परस्य भवेन् नाहस् त्रिगुणः सुरसत्तम । नाहः प्रबाहु-मध्ये तु षोडशाङ्गुल उच्यते । अग्र-हस्ते परीणाहो द्वादशाङ्गुल उच्यते ॥ विस्तारेण करतलं कीर्तितं तु षड्-अङ्गुलम् । दैर्घ्यात् साङ्गुलं कार्यं मध्ये पञ्चाङ्गुला मता । तर्जन्य्-अनामिका चापि तस्माद् अर्धाङ्गुलं विना ॥ कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुल-सम्मितौ । द्विपर्वाङ्गुष्ठकः कार्यः शेषाङ्गुल्यस् त्रिपर्विकाः ॥ सर्वासां पर्वणोऽर्धेन नख-मानं विधीयते । वक्षसो यत् प्रमाणं च जठरं तत्-प्रमाणकम् ॥ अङ्गुलैकं भवेन् नाभी वेधेन च प्रमाणतः । नाभी-मध्ये परीणाहो द्विचत्वारिंशदङ्गुलैः ॥ अन्तरं स्तनयोः कार्यं ताल-मात्रं प्रमाणतः । चुचुकौ यवमानौ तु द्वियवं मण्डलं भवेत् ॥ चतुःषष्ट्य्-अङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम् । चतुर्-मुखं तु तद्-अधावेष्टनं परिकीर्तितम् ॥ परीणाहस् तथा कट्यां चतुः-पञ्चाशद्-अङ्गुलैः । विस्तारश् चोरुमूले तु प्रोच्यते द्वादशाङ्गुलः ॥ तस्माद् अभ्यधिकं मध्ये ततो निम्नतरं क्रमात् । विस्तृतोऽष्टाङ्गुलं जानु त्रिगुणं परिणाहतः ॥ जङ्घा-मध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः । त्रिगुणः परिधिश् चास्य जङ्घाग्रं पञ्च-विस्तरात् ॥ त्रिगुणः परिधिश् चास्य पादौ ताल-प्रमाणकौ । आयामाद् उच्छ्रितौ पादौ चतुरङ्गुलम् एव च ॥ गुल्फ-पर्वं तु कर्तव्यं प्रमाणाच् चतुरङ्गुलम् । त्रिकलं विस्तृतौ पादौ द्व्यङ्गुलोऽङ्गुष्ठकः स्मृतः ॥ पञ्चाङ्गुलं तु नाहोऽस्य दीर्घत्वं तु प्रदेशिनी । अष्टमांशाष्टमांशोनाः शेषाङ्गुल्यः क्रमेण तु ॥ सपादाङ्गुलम् उत्सेधम् अङ्गुष्ठस्य प्रकीर्तितम् । पादोनम् अङ्गुलं कार्यम् अङ्गुष्ठस्य नखं सदा ॥ अर्धाङ्गुलं तथान्यासां क्रमाद् ऊनं तु कारयेत् । द्व्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम् ॥ परिणाहेन कोषाग्रं कर्तव्यं चतुरङ्गुलम् । षड्-अङ्गुल-परीणाहौ वृषणौ परिकीर्तितौ ॥ वृषणालङ्कृता कार्या प्रसन्न-वदनेक्षणा । प्रतिमा वासुदेवस्य मानेन सुरसत्तम ॥

श्री-नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे—

चिबुकाच् च ललाटान्तं स्याद् वक्त्रं द्वादशाङ्गुलम् । ललाटाद् ऊर्ध्वतो विप्र त्र्यङुगुलं चोन्नतं शिरः ॥ द्वादशाङ्गुल-विस्तीर्णं त्रिगुणं परिणाहतः । विस्ताराद् द्व्यङ्गुलौ कर्णौ तन्-मात्रात् त्रिगुणोच्छ्रितौ ॥ कन्यकाग्र-समं विद्धि रन्ध्रं श्रोत्रस्य चान्तरम् । कर्ण-बटावधश् चोर्ध्वौ मानेनार्धाङ्गुलौ स्मृतौ ॥ कर्ण-च्छिद्राद् अथो बाह्ये कर्ण-मध्येऽङ्गुलो वटः । अङ्गुलाः कर्ण-पाण्योश्च पार्श्वे स्याद् वा यदृच्छया । भ्रू-लते शशिरेखेव आयामाच् चतुरङ्गुला । अर्धाङ्गुलेन वै कार्या मध्य-स्थूलाग्रतः कृशा ॥ भ्रू-मध्यम् अङ्गुल-समं नासा तु चतुरङ्गुला । अस्थूला चाग्रतः कार्या तिल-पुष्पाकृतिस् तथा ॥ नेत्रयोर् अन्तरं ज्ञेयं त्र्यङ्गुलं नेत्रतस् तथा । दैर्घ्येण त्र्यङ्गुलं नेत्रं तद्-आयामेन चाङ्गुलम् । त्र्यंशेन तारकं मध्ये ज्योतिस् तु त्र्यंश-भागतः ॥ घ्राणाधश् चाङ्गुलेनैव पादहीनेन गोधिका । कल्प्यते मुनि-शार्दूल एकांशेन ततोऽधरः । उत्तराख्योऽप्य् अधःस्थश् च प्रमाणे नाङ्गुलं स्मृतम् ॥ द्व्यङ्गुलं चिबुकं विप्र उच्छ्रायेण प्रकीर्तितम् । विस्तारस् त्र्यङ्गुलो ज्ञेयः सृक्कणी चतुरङ्गुले ॥ ईषद् विहसितं तेन कर्णपाण्योः परस्परम् । कपोलम् अर्धशशिवत् तन्-मध्ये चतुरङ्गुलौ ॥ तौ च गण्डौ समौ कुर्यात् त्र्यंश-पूर्णौ मनोरमौ । कर्णोच्छ्रायस् त्र्यङ्गुलः स्याद् विस्तारेण तु नारद ॥ अष्टाङ्गुलोऽथ परिधिस् त्रिगुणः परिकीर्तितः । कण्ठावधि स्थितं वक्षो यावत् स्याद् अवधिर् मुने । उन्नतत्वेन विहितं सदैव द्वादशाङ्गुलम् । द्विगुणं तच्च विस्ताराद् द्व्यङ्गुलं स्तन-मण्डलम् ॥ एतयोश् चुचुकं कार्यम् अष्टमांशं स्वकाङ्गुलम् । परस्परं स्यात् स्तनयोर् अन्तरं द्वादशाङ्गुलम् ॥ अष्टाङ्गुलौ स्मृतावंसौ विस्तारेण महामते । प्रोन्नतत्वेन कुर्याच् च हस्त-मूलात् षड्-अङ्गुलम् ॥ उच्छ्रायेण तु नाभ्यन्तं कुर्याद् वै द्वादशाङ्गुलम् । कुर्यात् प्रदक्षिणावर्तनाभिं मेढ्रावधि द्विज ॥ उच्छ्रायेण च सम्पाद्यं सुसमं द्वादशाङ्गुलम् । नाभेर् अधस्ताद् उदरं सम्पाद्यं चतुरङ्गुलम् ॥ शेष स्यात् कटि-भूभागो विस्तारेणोदरं मुने । द्विसप्ताङ्गुलमानं स्यात् परिधिस् त्रिगुणः स्मृतः ॥ कुर्यात् प्रजननं विप्र उच्छ्रायेण षड्-अङ्गुलम् । त्रिगुणः परिमाणेन परिधिस् तु कटेः स्मृतः । त्रिषडङ्गुल-विस्तीर्णं कटिमानम् उदाहृतम् ॥ षड्-विंशद्-अङ्गुला विप्र परिधेस् तु कटिः स्मृता । ऊर्वोश् च जघनं विप्र उच्छ्रायेण षड्-अङ्गुलम् ॥ द्व्यङ्गुलेन च विस्तीर्णं वृषणौ चतुरङ्गुलौ । त्रिचतुष्कल-सम्पूर्णौ ऊरु-दण्डौ ततो द्विज ॥ उच्छ्रायेण च कर्तव्यं चतुर्विंशाङ्गुलं मुने । पृथु-मूलौ क्रम-क्षामौ संलग्नौ गजपाणिवत् । विस्तारेण तु कुर्वीत ऊरुमूलं षडङ्गुलम् ॥ षट्-त्रिंशद्-अङ्गुलं नाभाव् ऊरु-मध्यं नवाङ्गुलम् । ऊओर् अप्य् अवसाने तु वेष्टनं त्व् एकविंशतिः ॥ त्र्यङ्गुलं मुनिशार्दूल परितो जानु-मण्डलम् । विस्तारम् उन्नतिं चापि जानोर् अप्य् अधुना शृणु ॥ द्विर् द्वादशेनाङ्गुलेन जानोर् विस्तार उच्यते । षडङ्गुलेन विस्तीर्णं जङ्गामूलं प्रकीर्तितम् ॥ जङ्गामध्ये तथा नाभावष्टाव् अप्य् अथ विंशतिः । जङ्घावसाने विस्तारो ज्ञेयः पञ्चाङ्गुलो मुने ॥ तम् एव त्रिगुणी-कृत्य तस्यैव परिधिर् भवेत् । गुल्फाद् अधस् त्र्यङ्गुलः स्यात् पादोच्छ्रायस् तू नारद । पार्ष्ण्योश् च पृष्ठतो यावद् अङ्गुष्ठाग्रं द्विजोत्तम ॥ पादस्य तावद् दैर्घ्यं स्याद् अङ्गुलानां द्विसप्तकम् । षड्-अङ्गुलेन विततं कूर्म-पृष्ठोन्नतं क्रमात् ॥ चतुभिर् अङ्गुलैर् दीर्घम् अङ्गुष्ठं परिकीर्तितम् । त्रिगुणं वेष्टनं तस्य दैर्घ्यात् तस्य दशाधिका ॥ पाद-प्रदेशिनी कार्या तत्-समीप-स्थिताङ्गुलिः । अङ्गुष्ठस्य समा कार्या पाद-न्यूना त्व् अनामिका । अनामिकायाः पादेन हीना पादकनीयसी । त्र्यंशेन विद्धि सर्वासां पर्वमानं तु नारद ॥ पर्वार्धेन नखाः कार्या अर्धेन्दु-सदृशाः शुभाः । षट्-त्रिंशद्-अङ्गुलं विप्र स्कन्धात् पृष्ठ-समावधौ ॥ गोमुखं वा क्रमान् निम्नं यावद् अङ्गुल-विंशतिः । मध्य-प्रदेशाद् विततं पृष्ठ-वंशोन्नत-क्रमात् ॥ सुशुभं प्रविभक्तं च विभक्तं च तथा मुने । सुमीलितं मत्स्य-युग्मं क्षामं पञ्चाङ्गुलं मतम् ॥ सुवर्तुलौ स्फीतौ काय्यौ विस्तारात् षोडशाङ्गलौ । सुविभक्तौ च पीनौ च करिकुम्भोपमौ स्मृतौ ॥ अधस्तात् स्कन्ध-शिखराद् बाहुः स्यात् षोडशाङ्गुलः । अथो विंशाङ्गुलं विद्धि उपबाहुं द्विजोत्तम ॥ मणिबन्ध-प्रदेशस् तु तत्र त्र्यङ्गुल उच्यते । मध्यमाङ्गुलि-पर्यन्तं मणिबन्धावसानतः ॥ द्वादशाङ्गुलमानस् तु स्कन्धः स्यात् परिवर्तुलः । चतुरङ्गुल-विस्तीर्णः परिधिस् त्रिगुणो मतः ॥ मूलतश् चोपबाहुर् वै पञ्चाङ्गुल उदाहृतः । त्रिगुणश् च तद् उन्नाहस्तं क्रमात् क्षामयेच्छनैः ॥ गो-पुच्छ-सदृशं कृत्वा यथा स्यात् कलया मुने । मणिबन्ध-प्रदेशाद् धि विस्तारेणाथ वेष्टनात् । तथाङ्गुल-प्रमाणेन पाणेर् मानमतः शृणु ॥ मुने अङ्गुलमानात् तं विद्धि सप्ताङ्गुलं सदा । पञ्चाङ्गुल-प्रमाणेन त्रिकाद् विस्तार उच्यते ॥ निम्नं करतलं कुर्यात् शुभ-रेखा-विभूषितम् । तत्र मध्याङ्गुलिं विप्र विद्धि पञ्चाङ्गुलं सदा ॥ तस्या अप्य् अङ्गुलिः पाश्र्वे ऊना अर्धाङ्गुलेन वै । तत् पञ्चमांश-हीना च नित्यं कार्या कनीयसी । सार्ध-द्वयङ्गुलम् अङ्गुष्ठं द्विपर्व परिकीर्तितम् ॥ त्रिपर्वण्याश् चाङ्गुलयः पर्वार्धेन नखाः स्मृताः ॥ गो-पुच्छ-सदृशी कार्या अङ्गुल्योऽङ्गुल-धीमता । पाद-हीनाः कनीयस्याः सपादाश् चाङ्गुलौ क्रमात् ॥ स्व-प्रमाणस्य विस्तारात् त्रिगुणं विद्धि वेष्टनम् । कूर्म-पृष्ठ-नखाः सर्वे अग्रतश् चार्ध-चन्द्रवत् ॥ केशैर् अलकजातं तु ललाटोपरिशोभनम् । ललाटोर्ध्वाङ्गुलिच्छादि कुर्यात् त्रिवलिसंयुतम् ॥

वाराह्यां च—

स्वैर् अङ्गुल-परीमाणैर् द्वादश-विस्तीर्णम् आयतं च मुखम् । नग्नजिता तु चतुर्दशाङ्गुल-दैर्घ्येण विस्तारितं कथितम् ॥ नासा-ललाट-चिबुक-ग्रीवाश् चतुरङ्गुलास् तथा कर्णौ । द्वे द्वेऽङ्गुले च हनुके चिबुकं च द्व्यङ्गुलं प्रसृतम् ॥ अष्टाङ्गुलं ललाटं च विस्ताराद् द्व्यङ्गलौ परौ । सङ्ख्यौ चतुरङ्गलौ च शङ्खौ कर्णौ च द्व्यङ्गुलं पृथुलौ ॥ कर्णोपान्तः कार्योऽर्ध-पञ्चमे भ्रू-समेन सूत्रेण । कर्ण-स्रोतः सुकुमारकं च नयन-प्रबन्ध-समम् ॥ चतुरङ्गुलावशिष्टं कथयति नेत्रान्त-कर्णयोर् विवरम् । अधरोऽङ्गुल-प्रमाणस् तस्यार्धेनोत्तरौष्ठश् च ॥ अर्धाङ्गुला तु गुल्फा वक्त्रं च चतुरङ्गुलायतं कार्यम् । विपुलं तु सार्धम् अङ्गुलम् अध्यात्तं द्व्यङ्गुलं व्याप्तम् ॥ त्र्यङ्गुल-तुङ्गौ नासापुटौ नासापुटाग्रतो ज्ञेयौ । सा द्व्यङ्गुलम् उच्छ्राया चतुरङ् गुलम् अन्तरं चाक्ष्णोः । द्व्यङ्गुलमितोऽक्षिकोशो द्वे नेत्रे तत् त्रिभागिका तारा । दृअतारा पञ्चांशो नेत्र-विकाशोऽङ्गुलं भवति ॥ पर्यन्तात् पर्यन्ता दश भ्रुवोऽर्धाङ्गुला भ्रुवोर् लेखा । भ्रू-मध्ये द्व्यङ्गुलकं भ्रू-दैर्घ्येणाङ्गुल-चतुष्कं च ॥ कार्यो तु केश-रेखा भ्रू-मध्य-बन्ध-समाङ्गुलार्ध-विस्तीर्णा ॥ नेत्रान्ते करवीरकम् उपन्यसेद् अङ्गुल-प्रमितम् ॥ द्वात्रिंशत् परिणाहाच् चतुर्दशायामतोऽङ्गुलानि शिरः । द्वादश तु चित्र-कर्मणि दृश्यन्ते विंशतिर् अदृश्या ॥ आस्यांस-केश-निचयं षोडश दैर्घ्येण नग्नजित् प्रोक्ताः । ग्रीवा दश विस्तीर्णा परिणाहाद् विंशतिः सैका ॥ कण्ठाद् द्वादश हृदयं हृदयान् नाभिश्च तत्-प्रमाणेन । नाभेर् मध्यान् मेढ्रान्तरं च तत्-तुल्यम् एवोक्तम् ॥ ऊरू चाङ्गुलमानैश् चतुर्युक्ता विंशतिस् तथा जङ्घे । जानुकपित्थे चतुरङ्गुले च पादौ तत्-तुल्यौ ॥ द्वादश दीर्घौष्ठा पृथुतया च पादौ त्रिकलायताङ्गुष्ठौ । पञ्चाङ्गुल-परीणाहौ प्रदेशिनी त्र्यङ्गुलं दैर्घ्य̍म् ॥ अष्टांशाष्टांशोनाः शेषाङ्गुल्यः क्रमेण कर्तव्याः । स्याद् द्व्यङ्गुल-समुच्छ्रायं चतुर्थ-भागम् अङ्गुलम् उत्सेधोऽङ्गुष्ठ-कस्योक्तः ॥ अङ्गुष्ठ-नखः कथितश् चतुर्भागोनमङ्गुलस् तज्-ज्ञैः । शेष-नखानामर्धाङ्गुल-क्रमात् किञ्चिद् ऊनं च ॥ जङ्घाग्रे परीणाहश् चतुर्दशोक्तस् तु विस्तारात् पञ्च । मध्ये च सप्त-विपुलाः परिणाहात् त्रिगुणिताः सप्त ॥ अष्टौ तु जानु-मध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः । विपुला चतुर्दशोरु-मध्ये द्विगुणस् तु तत्-परिधिः ॥ कोटिर् अष्टादश विपुला चत्वारिंशच् चतुर्युता परिधौ । अङ्गुलम् एकं नाभिर् वेधेन तथा प्रमाणेन ॥ चत्वारिंशद् द्वियुता नाभी-मध्येन मध्य-परिणाहः । स्तनयोः षोडश चान्तरम् ऊर्ध्वं कक्षे षडङ्गुलके ॥ अष्टावंसौ द्वादश बाहु कार्यौ तथा प्रबाहू च ॥ बाहू षड्-विस्तीर्णौ प्रतिबाहू द्व्यङ्गुल-चतुष्कौ ॥ षोडश बाहु-मूले परिणाहो द्वादशाग्रहस्ते च । विस्तारेण करतलं षड्-अङ्गुलं सप्त दैर्घ्येण ॥ पञ्चाङ्गुलानि मध्य-प्रदेशिनी मध्य-पर्वदलहीना । अनया तुल्या चानामिका कनिष्ठा तु पर्वोना ॥ पर्व-द्वयम् अङ्गुष्ठः शेषाङ्गुल्यस् त्रिपर्विका ज्ञेयाः । नख-परिमाणं कार्यं सर्वासां पर्वणोऽर्धेन । देशानुरूप-भूषण-वेशालङ्कार-मूर्तिभिः कार्या । प्रतिमा लक्षण-युक्ता संविहिता बुद्धिदा भवति ॥ इति ।

अतः परं सुगमम् ॥१०३॥

इत्यष्टादशो विलासः ।

अथ मृण्मयेनां श्रीमूर्तिनां विशेषः श्रीहयशीर्षीये प्रतिमाप्रसङ्गे—
मृत्तिका वर्ण-पूर्वेण गृह्णीयुः सर्वर्णिनः ।
नदीतीरेऽथवा क्षेत्रे पुण्यस्थानेऽथवा पुनः ॥१०४॥

पाषाणकर्करालोहचूर्णानि समभागतः ।
मृत्तिकायां प्रयोज्याथ कषायेण प्रपीडयेत् ॥१०५॥
खादिरेणार्जुनेनाथ सर्जश्रीवेष्टकुङ्कुमैः ।
कोटजैरायसैः स्नेहैर्दधिक्षीरघृत्तादिभिः ॥१०६॥
आलोड्य मृत्तिका तैस्तैः स्थाने स्थाप्य पुनः पुनः ।
मासं पर्युषितं कृत्वा प्रतिमां परिकल्पयेत् ॥१०७॥
स्थापयेत् प्रतिमाशूलं रत्नण्यासस्य चोपरि ।
शूलञ्च खादिरादीनां यज्ञीयानां प्रकल्पयेत् ॥१०८॥
विंशोत्तरशतं शूलं कुर्याद्वा पञ्चविंशतिः ।
प्रतिमाङ्गुलमानेन कृत्वा संस्थापयेद्बुधः ॥१०९॥
चतुर्दशाङ्गुलं प्रोक्तं सपादं दलमेव वा ।
सप्तविंशति चाधस्तान्नाभ्युर्द्ध्वोऽर्द्धाङ्गुलं मुखम् ॥११०॥
पञ्चविंशाङ्गुलौ चोरू सार्द्धत्रिकलमस्तकम् ।
ऊरू स्मृते समे जङ्घेपादोच्छ्रायं सुसम्मितम् ॥१११॥
नेत्रद्वयं समुद्दिष्टमर्द्धाङ्गुलसमन्वितम् ।
द्विगोलोका भवेद्ग्रीवा चार्द्धाङ्गुल समन्विता ॥११२॥
भागस्य वृद्धिं वक्ष्यामि पञ्चविंशांशके तथा ।
अर्द्धार्द्धमङ्गुलं दद्यात् हृदयादिषु भागशः ॥११३॥
पञ्चविंशाङ्गुलं वक्षो विस्तारेण प्रकीर्तितम् ।
कटिर्विस्तारतः कार्या षोडशाष्टदशाङ्गुला ॥११४॥
पञ्चविंशाङ्गुलौ बाहू आयामेन प्रकीर्तितौ ।
तथा सप्तदश प्रोक्ता वायामेन प्रबाहुकौ । ११५॥
मणिबन्धः कलायामस्तस्मात्तं प्रतिमस्तकम् ।
आयामो मध्यमायास्तु षडङ्गुल इति स्मृतः ॥११६॥
एतत् सङ्क्षेपतः प्रोक्तं दशतालस्य लक्षणम् ।
प्रतिमायाश्चतुर्थेन कूर्मार्चा परिकीर्तिता ।
तत्त्रिभागेन तत्पीठं कुर्यात् सिद्ध्यर्थमुत्तमम् ॥११७॥
अथ श्रीमुर्तिविशेषेण परिमाणविशेषादिः मात्स्ये—
अतःपरं प्रवक्ष्यामि देवाकारान् विशेषतः ।
दशतालः स्मृतो रामो बलिर्वैरोचनिस्तथा ॥११८॥
वराहो नरसिंहश्च सप्ततालस्तु वामनः ।
मत्स्यकूर्मौ तु निर्दिष्टौ यथाशोभ स्वयम्भुवा ॥११९॥
अथ वराहमूर्तिः
किञ्च—
महावराहं वक्ष्यामि पद्महस्तं गदाधरम् । तीक्ष्णदंष्ट्राग्रघोरास्यं मेदिनीं वामकूर्परे ॥१२०॥
दंष्ट्राग्रेणोद्धृतां दीप्तां धरणीमुत्पलान्विताम् ।
विस्मयोत्फुल्लनयनामुपरिष्टात् प्रकल्पयेत् ॥१२१॥
दक्षिणं कटिसंस्थञ्च करं तस्य प्रकल्पयेत् ।
कूर्मोपरि तथा पादमेकं नागेन्द्रमूर्द्धनि ।
संस्तूयमानं लोकेशैः समन्तात् परिकल्पयेत् ॥१२२॥
अथ नरसिंहमूर्तिः
नारसिंहन्तु कुर्वीत भुजाष्टकसमन्वितम् ।
रौद्रं सिंहाननं तद्वद्विदारितमुखेक्षणम् ॥१२३॥
स्तब्धपानसटाकीर्णं दारयन्तं दितेः सुतम् ।
विनिर्गतान्त्रजालञ्च दानवं परिकल्पयेत् ॥१२४॥
वमन्तं रुधिरोद्गारं भ्रूकुटिवदनेक्षणम् ।
युध्यमानं च कुर्वीत क्वचित् करणबन्धनैः ॥१२५॥
परिश्रान्तेन दैत्येन तर्ज्यमानं मुहुर्मुहुः ।
दैत्यान् प्रदर्शयेत्तत्र खड्गखेटकधारिणः ।
स्तूयमानं तथा विष्णुं दर्शयेदमराधिपैः ॥१२६॥
अथ त्रिविक्रममूर्तिः
तथा त्रिविक्रमं वक्ष्ये ब्रह्माण्डाक्रमणोल्वणम् ।
पादपार्श्वे तथा बाहुमुपरिष्टात् प्रकल्पयेत् ॥१२७॥
अधस्ताद्वामनं तद्वत् कल्पयेत् सकमण्डलुम् ।
दक्षिणे छत्रिकां दद्यान्मुखं दीनं प्रदर्शयेत् ॥१२८॥
भृङ्गार-धारिणं तद्वद्बलिं तस्य च पार्श्वतः ।
बन्धनं चास्य कुर्वन्तं गरुडं तस्य दर्शयेत् ॥१२९॥
अथ मात्स्यमूर्तिः कूर्ममूर्तिश्च
मत्स्यरूपं तथा मात्स्यं कौर्मं कूमाकृतिं न्यसेत् ।
एवंरूपः स भगवान् कार्यो नारायणो हरिः ॥१३०॥
अथ महाविष्णमूर्तिः
विष्णुधर्मोत्तरे—
देवदेवं तथा विष्णुं कारयेद्गरुडस्थितम् ।
कौस्तुभोद्भासितौरस्कं सर्वाभरणधारिणम् ॥१३१॥
सजलाम्बुद-सच्छायं पीतदिच्याम्बरं तथा ।
मुखाश्च कार्याश्चत्वारो बाहवो द्विगुणास्तथा ॥१३२॥
सौम्येन्दुवदनं पूर्वं नारसिंहन्तु दक्षिणम् ।
कपिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम् ॥१३३॥
तस्य दक्षिणहस्तेषु वाणार्कमुषलादयः ।
चर्मशङ्खधराविन्दुचापे च वनमालिनः ।
कार्याणि विष्णुधर्मोक्त्या वामहस्तेष्वनुक्रमात् ॥१३४॥
इति ।
अथ लोकपालविष्णमूर्तिः
किञ्च—
एकवक्त्रो द्विबाहुश्च गदाचक्रधरः प्रभुः ॥१३५॥
अथ वासुदेवमूर्तिः
किञ्च—
एकवक्त्रश्चतुर्बाहुः सौम्यरूपी सुदर्शनः ।
सलिलाध्नातमेघाभः सर्वाभरणभूषितः ॥१३६॥
कण्ठेन शुभदेशेन कम्बुतुल्येन राजता ।
वराभरणयुक्तेन कुण्डलोत्तमभूषितः ॥१३७॥
अङ्गदी बद्धकेयूरो वनमालाविभूषितः ।
उरसा कौस्तुभं विभ्रत् किरीटं शिरसा तथा ॥१३८॥
शिरःपद्मस्तथैवास्य कर्तव्यश्वारुकर्णिकः । पुष्टाश्लिष्टायतभुजरतनुताम्रनखाङ्गुलिः ॥१३९॥
मध्येन त्रिबलीभङ्गशोभितेन सुचारुणा ।
स्त्रीरूपधारिणी कार्या क्षौणी तत्पदमध्यगा ॥१४०॥
तत्करस्थाङ्घ्रियुगलो देवः कार्यो जनार्दनः ।
सुचारुपदविन्यासः किञ्चिन्निष्क्रान्तदक्षिणः ॥१४१॥
अनुदृश्या मही कार्या देवदर्शनविस्मिता ।
देवश्च कटिवासेन कार्यो जान्ववलम्बिना ॥१४२॥
वनमाला च कर्तव्या देवजान्ववलम्बिनी ।
यज्ञोपवीतं वर्तव्यं नाभिदेशमुपागतम् ॥१४३॥
उत्फुल्लकमलं पाणौ कुर्याद्देवस्य दक्षिणे ।
वामपाणिगतं शेषं शङ्खाकारं तु कारयेत् ॥१४४॥
दक्षिणे तु गदा देवी तनुमध्या सुलोचना ।
स्त्रीरूपधारिणी मुग्धा सर्वाभरणभूषिता ॥१४५॥
पश्यन्ती देवदेवेशं कार्या चामरधारिणी ।
कार्यं तन्मूर्धिन विन्यस्तं देवहस्तं तु दक्षिणम् ॥१४६॥
वामभागगतश्चक्रः कार्यो लम्बोदरस्तथा ।
सर्वाभरणसंयुक्तो वृत्तविस्फारितेक्षणः ॥१४७॥
कर्तव्यश्चामरकरो देवचीक्षणतत्परः ।
कार्यो देवकरो वामो विन्यस्तस्तस्य मूर्धनि ॥१४८॥
अथ सङ्कर्षणमूर्तिः
वासुदेवस्वरूपेण कार्यः सङ्कर्षणः प्रभुः ।
स तु शुक्लवपुः कार्यो नीलवासा यदूत्तमः ॥१४९॥
गदास्थाने तु मुषलं चक्रस्थाने तु लाङ्गलम् ।
कर्तव्यौ तनुमध्यौ तौ नृरूपौ रूपसंस्थितौ ॥१५०॥
अथ प्रद्युम्नमूर्तिः
वासुदेवस्वरूपेण प्रद्युम्नश्च तथा भवेत् ।
स तु दूर्वाङ्कुरश्यामः श्वेतवासा विधीयते ॥१५१॥
चक्रस्थाने भवेच्चायं गदास्थाने तथा शरः ।
तथाविधौ तु कर्तव्यौ यथा मुषल-लाङ्गलौ ॥१५२॥
अथानिरुद्धमूर्तिः
एतदेव तथा रूपमनिरुद्धस्य कारयेत् ।
पद्मपत्राभ-वपुषो रक्ताम्बरधरस्य तु ॥१५३॥
चक्रस्थाने भवेच्चर्म यदास्थानेऽसिरेव च ।
चर्म स्याच्चक्ररूपेण प्रांशुः खड्गो विधीयते ॥१५४॥
अथ चक्रादीनां विविधमूर्तीनाञ्च स्वरूपनिर्णयः
चक्रादीनां स्वरूपाणि किञ्चित पूर्वं प्रदर्शयेत् ।
रम्याण्यायुधरूपाणि चक्रादीन्येव यादव ॥१५५॥
वामपार्श्वगताः कार्या देवानां प्रवरा ध्वजाः ।
सुपताकायुता राजन् यष्टिस्थास्ते यथोचितम् ॥१५६॥
किञ्च—
हंसो मत्स्यस्तथा कूर्मः कार्यास्तद्रूपधारिणः ।
शृङ्गी मत्स्यस्तु कर्तव्यो देवदेवो जनार्दनः ॥१५७॥
ऐश्वर्यमनिरुद्धस्तु वराहो भगवान् हरिः ।
ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ॥१५८॥
नृवराहोऽथवा कार्यः शेषोपरि गतः प्रभुः ।
शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ॥१५९॥
आश्चर्योत्फुल्लनयनो देववीक्षणतत्परः ।
कर्तव्यो सीरमुषलो करयोस्तस्य यादव ॥१६०॥
सर्पभोगश्च कर्तव्यस्तथैव रचिताङ्गुलिः ।
आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान् भवेत् ॥१६१॥
मूर्तिमन्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः ।
ऐश्वर्येणाविशेषेण स निरस्तोऽरिमर्दनः ॥१६२॥
नृवराहोऽथवा कार्यो ध्याने कपिलवत् स्थितः ।
द्विभुजस्त्वथवा कार्यः पिण्डनिर्वपणोद्यतः ॥१६३॥
समग्रक्रोडरूपो वा बहुदानवमध्यगः ।
नृवराहो वराहो वा कर्तव्यः क्ष्माविदारणः ॥१६४॥
ज्ञानवद्भिः स एवोक्तो ज्ञानं परमवर्द्धनः ।
पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः ॥१६५॥
सिंहाननो नृवेहश्च नीलवासाः प्रभान्वितः ।
आलीढस्थानसंस्थानः सर्वाभरणभूषितः ॥१६६॥
ज्वालामालाकुलमुखो ज्वलत्केशरमण्डलः ।
हिरण्यकशिपोर्वक्षः पाटयन्नखरैः खरैः ॥१६७॥
नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा । हिरण्यकशिपुर्दैत्यस्तमज्ञानं विदुर्बुधाः ॥१६५॥
अथ वामनमूर्तिः
कर्तव्यो वामनो देवः सङ्कटे भक्तिभावितैः ।
पीनगात्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः ।
दूर्वाश्यामस्तु कर्तव्यः कृष्णाजिनधरस्तथा ॥१६९॥
अथ त्रिविक्रममूर्तिः
सजलाम्बुदसङ्काशस्तथा कार्यस्त्रिविक्रमः ।
दण्डपाशधरः कार्यः शङ्खचक्रगदाधरः ॥१७०॥
शङ्खचक्रगदापद्माः कार्यास्तस्य स्वरूपिणः ।
निर्दहारते न कर्तव्याः शेषः कार्यश्च पूर्ववत् ।
एकोर्द्ध्वदनः कार्यो देवो विस्फारितेक्षणः ॥१७१॥
अथ भृगुराममूर्तिः
कार्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः ।
हस्तेऽस्य परशुः कार्यः कृष्णाजिनधरस्य तु ॥१७२॥
अथ दाशरथिमूर्तिः
रामो दाशरथिः कार्यो राजलक्षणलक्षितः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाशयः ।
तथैव सर्वे कर्तव्याः किन्तु मौलिविवर्जिताः ॥१७३॥
अथ कृष्णमूर्तिः
कृष्णश्चक्रधरः कार्यो नीलोत्पलदलच्छविः ।
इन्दीवरधरा कार्या तस्य साक्षाच्च रुक्मिणी ॥१७४॥
अथ बलदेवमूर्तिः
सीर-पाणिर्बलः कार्यो मुषली चैककुण्डली ।
श्वेतोऽतिनीलवसनो मदाधूर्णितलोचनः ॥१७५॥
अथ प्रद्युम्नमूर्तिः
चापवाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः ।
राजन् दूर्वादलश्यामः श्वेतवासा मदोत्कटः ॥१७६॥
अथ कामदेवमूर्तिः
कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि ।
अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ॥१७७॥
**
चापवाणधरश्चैव मदाकुञ्चितलोचनः ।
रतिः प्रीतिस्तथा शक्तिर्मन्दशक्तिस्तथोज्ज्वला ॥१७८॥
चतस्त्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः ।
चत्वारश्च करास्तस्य कार्यो भार्यास्तनोपगाः ।
केतुश्च मकरः कार्यः पञ्चवाणमुखो महान् ॥१७९॥
अथ अनिरुद्धमूर्तिः साम्बमूर्तिश्च
कर्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः ।
साम्बः कार्यो महाहस्तस्वरूपोऽसावशेषतः ।
सम्बानिरुद्धौ कर्तव्यौ पद्माभौ रक्तवाससौ ॥१८०॥
अथ गोपालमूर्तिः
गोपालप्रतिमां कुर्याद्वेणुवादनतत्पराम् ।
वर्हापीडां घनश्यामां द्विभुजामूर्द्ध्वसंस्थिताम् ॥१८१॥
अथ बुद्धमूर्तिः
काषारवस्त्रसंवीतः स्कन्धसंसक्तचीवरः ।
पद्मासनस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः ॥१८२॥
अथ नरनारायण-मूर्तिः
दूर्वाश्यामो नरः कार्यो द्विभुजश्च महाभुजः । नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ॥१८३॥
तयोर्मध्ये तु वदरी कार्या फलविभूषणा ।
नरनारायणौ देवावक्षमालाधरावुभौ ॥१८४॥
अष्टचक्रे स्थितौ जाले भूतयुक्ते मनोरमे ।
कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥१८५॥
अथ विविधर्मूर्तिभेदाः
पादेन चक्रेन रथस्थितेन पादेन चैकेन च जानुगेन ।
कार्यो हरिश्चात्र नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ॥१८६॥** मूर्तिमत्पृथिवीहस्तन्यस्तपादः सितच्छविः ।
नीलाम्बरधरः कार्यो देवो हयशिरोधरः ॥१८७॥
विद्धि सङ्कर्षणांशेन देवं हयशिरोधरम् ।
कर्तव्योऽष्टभुजो देवस्तत्करेषु चतुर्षु च ॥१८८॥
शङ्खचक्रगदापद्मान् सकारान् दर्शयेद्बुधः ।
चत्वारश्च कराः कार्या देवानां देहधारिणाम् ।
देवेन मूर्ध्नि विन्यस्ताः सर्वाभरणभूषिताः ॥१८९॥
प्रद्युम्नं विद्धि वैराग्यं कापिलीं तनुमाश्रितम् ।
मध्ये ऊरुकरः कार्यस्तस्योत्सङ्गतः परः ।
दोर्युगं चापरं तस्य शङ्खचक्रधरं भवेत् ॥१९०॥
पद्मासनोपविष्टश्च ध्यानसन्मीलितेक्षणः ।
कर्मण्यः कपिलो देवो जटामण्डलदुर्दृशः ॥१९१॥
वायुसंरोधपीनाङ्गः पद्माङ्कचरणद्वयः ।
मृगाजिनधरो राजन् शुभयज्ञोपवीतवान् ।
विभुर्मन्त्रमहापद्मकर्णिकामध्यमास्थितः ॥१९२॥
वैराग्यभावेन महानुभावो ध्याने स्थितः स्वं परम पदं तत् ।
ध्यायंस्तथा वै भुवनस्य गोप्ता साङ्ख्यप्रवक्ता पुरुषः पुराणः ॥१९३॥
श्यामवर्णस्तनूवासा पिङ्गलाक्षो जटाधरः ।
सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च ।
तस्य शिष्याश्च कर्तव्याश्चत्वारः पारिपार्श्विकाः ॥१९४॥
गौरस्तु कार्यो वाल्मीकिजटामटामण्डलदुर्दृशः ।
तपस्यभिरतः शान्तो न कृशो न च पीबरः ॥१९५॥
वाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत् ।
जलमध्यगतः कार्यः शेषः पान्नगदर्शनः ।
फणापुञ्जमहारत्नदुर्निरीक्ष्यशिरोधरः ॥१९६॥
देवदेवस्तु कर्तव्यः शेषभोगाङ्कसंस्थितः ।
एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारित्तः ॥१९७॥
कर्तव्यो नाभिदेशे तु तदा तस्य परः करः ।
तथैवान्यकरः कार्यो देवस्य सुशिरोधरः ॥१९८॥
स तानमञ्जरीधारी तथैवास्य परो भवेत् ।
नाभीसरसि सम्भूते कमले तस्य यादव ॥१९९॥
सर्वपृथ्वीमये देवः प्राग्वत् कार्यः पितामहः ।
नाललग्नौ च कर्तव्यौ पद्मस्य मधुकैटभौ ॥२००॥
नृरूपधारीणि भुजङ्गमध्ये कार्याण्यथास्त्राणि तथा समीपे ॥२०१॥
ताक्ष्योर्मरकतप्रख्यः कौशिकाकारनासिकः ।
चतुर्भुजश्च कर्तव्यो वृत्तनेत्रमुखस्तथा ॥२०२॥
ग्रीवोरुजानुचरणपक्षद्वयविभूषितः ।
प्रभासंस्थानसौवर्णकलायेन विराजितः ॥२०३॥
छत्रञ्च पूर्णकुम्भञ्च करयोस्तस्य कारयेत् ।
करद्वयञ्च कर्तव्यं तथा विरचिताञ्जलि ॥२०४॥
यदास्य भगवान् पृष्ठे छत्रकुम्भधरौ करौ ।
न कर्तव्यौ तु कर्तव्यौ देवपादधरावुभौ ॥२०५॥
किञ्चिल्लम्बोदरः कार्यः सर्वाभरणभूषितः ॥२०६॥
अथ लक्ष्मीनारायणमूर्तिः
विश्वकर्मशास्त्रे च—
लक्ष्मीनारायणौ कार्यौ संयुतौ दिव्यरूपिणौ ।
दक्षिणस्था विभोर्मूर्तिर्लक्ष्मीर्मूर्तिस्तु वामगा ॥२०७॥
दक्षिणः कण्ठलग्नोऽस्य वामहस्तसरोजधृक् ।
विभोर्वामकरो लक्ष्म्याः कूक्षिभागे स्थितः सदा ॥२०८॥
सर्वावयवसम्पूर्णा सर्वालङ्कारभूषिता ।
सुष्ठुनेत्रकपोलास्य-रूपयौवनसंयुता ॥२०९॥
सिद्धिः कार्या समीपस्था चामरग्राहिणो शुभा ।
कर्तव्यं वामनं सर्वं देवाधोभागगं सदा ॥२१०॥
शङ्खचक्रधरौ तस्य द्वौ कार्यौ पुरुषौ पूरः ।
वामनौ हारकेयूरकिरीटमणिभूषितौ ॥२११॥
उपासकौ समीपस्थौ प्रभोर्ब्रह्मशिवात्मकौ ।
रसनां योगपट्टञ्च शिखाञ्जलिमास्थितौ ॥२१२॥
अथ योगस्वामिमूर्तिः
पद्मासन-समासीनः किञ्चिन्मीलितलोचनः ।
घ्राणाग्रे दत्तदृष्टिश्च श्वेतपद्मोपरि स्थितः ॥२१३॥
वामदक्षिणगौ हस्तावुभावुत्सङ्गभागगौ ।
तत्करद्वयपार्श्वस्थे पङ्केरुह-महागदे ॥२१४॥
ऊर्ध्व करद्वये चास्य शङ्खश्चापि सूदर्शनम् ।
योगस्वामी स विज्ञेयः पूज्यो मोदार्थयोगिभिः ॥२१५॥
अथ दशावताराणां मूर्तय तत्र मत्स्यावतारमूर्तिः
श्रीहयशीर्षपञ्चरात्रे—
अतःपरं प्रवक्ष्यामि मत्स्यादीनान्तु लक्षणम् ।
षट्त्रिंशदङ्गुलायामं तदर्द्धेन तु विस्तृतम् ॥२१६॥
दैर्घ्याष्टमांशसंयुक्तं पुच्छवक्त्रं तु कारयत् ।
रोहितं विवृतास्यन्तु द्वादशाङ्गुलमानतः ।
कलैकं पृष्ठरोमन्तु तुच्छार्द्धं क्रोडगं तथा ॥२१७॥
कृतस्यैवंविधस्येह रोहितस्य मुखोद्गतम् ।
नारायणन्तु कुर्वीत आगुल्फं तान्मुखोद्गतम् ॥२१८॥
एवं नृमत्स्यं मत्स्यं वा स्थापयेद्यस्तु मानवः ।
सर्वज्ञत्वं भवेत्तस्य सर्वोपन्मुक्तिरेव च ॥२१९॥
अथ कूर्ममूर्तिलक्षणम्
दैर्घ्यात्रितालसंयुक्तं तदर्द्धं परिमण्डलम् ।
चतुश्चरणसंश्लिष्टं चतुरङ्गुलमात्रया ॥२२०॥
कपालद्वयमध्ये तु गोविन्दं तु समृद्गतम् ।
कृत्वा वा गुल्फपर्यन्तमुद्गच्छन्तं सुरोत्तमा ॥२२१॥
नुकूर्मं कारयित्वैनं कूर्म वा स्थापयीत यः ।
स्ववंशोद्धरणं तस्य जायते मुक्तिरेव च ॥२२२॥
अथ वराहमूर्तिलक्षणम्
वक्त्रं कलाष्टकायामं श्रोत्रमस्य द्विगोलकम् ।
हनू सप्ताङ्गुले तस्य सृक्कणी द्व्यङ्गुले मते ॥२२३॥
सप्ताङ्गुलं मुखं प्रोक्तं रदौ सार्द्धकलो द्विज ।
नासारन्ध्र भवेन्नेत्रं यवहीनेऽक्षिणी मते ॥२२४॥
किञ्चिद्वक्त्रे स्मिते श्रोत्रे द्विगोलकसमायते ।
चतुष्कलं कर्णमध्यं तदर्द्धेन तदुच्छ्रितम् ॥२२५॥
वस्वङ्गुला भवेद्ग्रीवा नेत्रैकं चोन्नता तु सा ।
शेष नृसिंहवत् कार्यं वराहस्य तु विग्रहम् ॥२२६॥
शेषाहि-विधृतं पादं बाहुना धारयन् धराम् ।
शङ्खं वामे तथा पद्मं पदाचक्रे तु दक्षिणे ॥२२७॥
एवं नरवराहञ्च कृत्वा यः स्थापयेन्नरः ।
भवोदधिसमुत्तारं राज्यञ्च हतकण्टकम् ।
प्राप्नुयान्नात्र सन्देहो ह्यमुत्रेहैव वा भुवि ॥२२८॥
अथ नृसिंहमूर्तिलक्षणम्
तिर्यङ्नृसिंहदेवस्य तथा विपुलमाननम् ।
वर्तुलेऽस्य तथा नेत्रे स्कन्धौ तालमितौ शुभौ ॥२२९॥
व्याकुञ्चिते भ्रुवौ वक्त्रं विवृतं चोग्रदंष्ट्रकम् ।
लेलिहाना तथा जिह्वा समुद्गतशटं शिरः ॥२३०॥
दंष्ट्रे द्व्यङ्गुलनिर्याते वक्राग्रे तु सिते तथा ।
त्रिकलाभ्यधिकं वक्षः पञ्चनेत्राधिका कटिः ॥२३१॥
द्विकलाभ्यधिकौ चोरू जानू चापि कलाधिकौ ।
जङ्घे सार्द्धकले मध्ये विस्तृताग्रे विभागतः ॥२३२॥
उर्द्ध्वौ किञ्चित् स्मृतौ पादौ बाहुमूले कलाधिके ।
किञ्चित् किञ्चित् तथा हीनौ पर्यन्ते चोपबाहुकौ ।
वपुरिस्थं नृसिंहस्य कुर्याद्देशिकसत्तमः ॥२३३॥
जान्वंशे तस्य संस्थाप्य विदारितमहासुरम् ।
भूषितं वैजयन्त्या तु मालया श्रीसमन्वितम् ॥२३४॥
खड्गचक्रधरं देवं नृसिंहं कारयेद्बुधः ।
स्थापयेत् पापनाशाय जयाय नरकेशरीम् ॥२३५॥
अथ वामनमूर्तिलक्षणम्
भुजं त्रिगोलकायामं वक्षोविस्तारशोभितम् ।
पाणीपादं तुरीयांश प्रवृद्धशिरसं तथा ॥२३६॥
ऊर्वङ्घ्रिद्वितयायामविहीनमुखयुग्मकम् ।
कटिस्फिक्पार्श्वनाभीषु तद्वृद्धं वामनं बुधः ।
कृत्वा संस्थापयेद्देवं मोहनार्थाय सर्वथा ॥२३७॥
अथ जामदग्न्यमूर्तिलक्षणम्
जामदग्न्यन्तु कुर्वीत जटामुकुटमण्डितम् ।
चतुर्बाहुं महाभागं सर्वक्षत्रान्तकं विभूम् ॥२३८॥
दक्षिणे परशुं हस्ते वामे दद्यात्तथा धनुः ।
खड्गं दक्षिणहरते तु वामहस्ते तु खेटकम् ॥२३९॥
कुठारहस्त द्विभुजं कुर्याद्वा रेणुकासुतम् ।
कृत्वैवं जामदग्न्यन्तु स्थापयेद्यस्तु मानवः ।
स वित्तं प्राप्नुयात् शीघ्रं कामांश्च मनसेप्सितान् ॥२४०॥
अथ राममूर्तिलक्षणम्
कुर्याद्दाशरथिं रामं सप्ततालं चतुर्भुजम् ।
शरकार्मुकहस्तं तु शङ्खचक्रधरं शुभम् ॥२४१॥
दक्षिणोर्द्ध्वं भवेच्चक्रं वामोर्द्ध्वं शङ्खमेव च ।
दक्षिणाधो भवेद्वाणो वामाधो धनुरेव च ।
द्विभुज शरहस्तं वा राम कुर्यात् सकार्मुकम् ॥२४२॥
कृत्वैवं राघवं रामं सर्वलक्षणसंयुतम् ।
क्रूरशत्रुविनाशाय स्थापयेत् सर्वकामदम् ॥२४३॥
अथ बलराममूर्तिलक्षणम्
तृतीयं तु यथा रामं चतुर्बाहुं शृणुष्व मे ।
वामोर्द्ध्वं लाङ्गलं दद्यादधः शङ्खं सुशोभनम् ।
गदां कृपाणं वा दद्यात् संस्थाने शक्तिचक्रयोः ॥२४४॥
कृत्वैवं बलदेवं तु यो नरः स्थापयेत् प्रभुन् ।
पुत्रं ददाति तस्याथ विपक्षांश्च जयत्यसौ ॥२४५॥
अथ बुद्धलक्षणम्
वशतालं तथा बुद्धं पद्मासनगतं हरिम् ।
प्रलम्बश्रवणं कुर्याच्चीवरालङ्कृतं तथा ॥२४६॥
मणिनाभं समाधिस्थं पद्मास्यं पद्मलोचनम् । समाधिस्थोत्तानपाणिं योगदृष्टिं समन्वितम् ।
स्थापयेद्रूपकामस्तु पितेव जगतः स्थितम् ॥२४७॥
अथ कल्किलक्षणम्
कल्किनं तु चतुर्बाहुं बद्धतूणं धनुर्द्धरम् ।
शङ्खचक्रधरं कुर्यात्तथा खड्गधरं प्रभुम् ॥२४८॥
द्विभुजं वा हयारूढं खड्गपाणिं सुरेश्वरम् ।
कल्किनं स्थापयित्वैवं शत्रुस्थानं लभेन्नरः ॥२४९॥
अथ नवव्यूहप्रतिमालक्षणम्
किञ्च—
आदिमूर्तिर्वासुदेवः पूर्वमेवोदित्तो मया ।
दक्षिणोर्द्ध्वे गदा यस्य वामोर्द्ध्वे चक्रमुल्वणम् ।
ब्रह्मेशौ पार्श्वगो नित्यं शेषमन्यच्च पूर्ववत् ॥२५०॥
द्वितीयो वासुदेवोऽयं द्वापरादौ स उच्यते ।
द्विभुजो वाथ कर्तव्यो वामे शङ्खधरः प्रभुः ॥
वरदो दक्षिणेनाथ वासुदेवो द्विधोदितः ॥२५१॥
बलदेवश्चतुर्बाहुः कुण्डलैकविभूषितः ।
लाङ्गली मुषली देवो गदापद्मधरो विभुः ।
शङ्खचक्रगदापाणिः कर्तव्यो वरदोऽथवा ॥२५२॥
प्राद्युम्नस्तु चतुर्बाहुः शङ्खचक्रधरः शुभः ।
चक्रं दक्षिणहस्ते च वामहरते धनुस्तथा ॥२५३॥
शङ्खश्च दक्षिणे दद्याद्गदां वामे प्रदर्शयेत् ।
प्रद्युम्नं कारयेद्देव सर्वलक्षणसंयुतम् ॥२५४॥
स्त्रियौ चैवास्य कर्तव्ये खड्गचर्मधरे शुभे ।
रतिप्रीत्योर्मध्यगत कम्बुग्रीवं सकार्मुकम् ।
द्विभुजं शरहस्तं वा प्रद्युम्नं कारयेद्बुधः ॥२५५॥
अनिरुद्धः कम्बुग्रीवश्चतुर्बाहुः प्रभूषितः ।
दक्षिणेऽस्य गदा देया चक्रशङ्खौ तु वामतः ।
दक्षिणे च तथा पद्मनिरुद्धस्य दापयेत् ॥२५६॥
नारायणश्चतुर्बाहुः कार्यस्तल्लक्षणं मया ।
मूर्तिद्वादशके सर्वं कीर्तितं ब्रह्मणः शृणु ॥२५७॥
चतुर्मुखश्चतुर्बाहुबृहज्जठरमण्डलः ।
ऊर्ध्वमूर्ध्वं जटाजूटः सधूमसममेखलः ॥२५८॥
शोभनं दक्षिणे हस्ते दद्यादस्याक्षसूत्रकम् ।
स्रुवञ्च दक्षिणे दद्याद्वामहस्ते तु कुण्डिकाम् ॥२५६॥
आज्यस्थाल्श्ं कुशोपेतां वामहस्ते नियोजयेत् ।
शङ्खचक्रगदापाणिः कार्यो वाथ चतुर्मुखः ॥ २६०॥
सरस्वती च सावित्री वामदक्षिणसंस्थिते ।
कर्तव्या मुनयो वाथ परिवार्य व्यवस्थिताः ॥ २६१॥
विनिविष्टः सदा ब्रह्मा कार्यो ह्यन्यस्ततोऽन्यथा ।
नृसिंहवत् स्वमात्रा तु किञ्चिदभ्यधिकः स्मृतः ॥२६२॥
विष्णुरष्टभुजः कार्यश्चतुर्बाहुरथापि वा ।
वैनतेयगतः सौम्यः सन्दष्टोष्टपुटोऽपि वा ॥२६३॥
खड्गं गदां शरं दद्यादृक्षिणे वरदोऽपरः ।
कार्मकं खेटकं चक्रं वामेऽस्य दापयेत् ॥२६४॥
चतुर्भुजे गदा देया दक्षिणे वरदोऽवरः ।
वामे शङ्खञ्च चक्रञ्च विष्णुरेवंविधो मतः ॥२६५॥
नरसिंहश्चतुर्बाहुः शङ्खचक्रगदाधरः ।
शङ्खचक्नधरो वापि विदारितमहासुरः ॥ २६६॥
चतुर्बाहुर्वराहस्तु शेषः पाणिपदे धृतः ।
धारयन् बाहुना पृथ्वीं व मेन कमलामथ ॥२६७॥
पादलग्ना धरा कार्या यदा लक्ष्मीर्भुजस्थिता ।
वराह कामयेद्देवं शङ्खचक्रगदाधरम् ॥२६८॥
सप्तालौ प्रशस्येते वराह नरकेशरी ।
नवतालावभ्यधिकौ पुरस्तात् कथितौ तव ॥२६९॥
अथ पुरुषोत्तममूर्तिलक्षणम्
किञ्च—
अष्टबाहुं बुधः कुर्यद्देव त्रैलोक्यमोहनम् ।
गरुडासनगं देवं प्रथमे वयसि स्थितम् ॥ २७०॥
चक्रं खड्गञ्च मुसलं साङ्कुशं दक्षिणे न्यसेत् ।
शङ्खं शार्ङ्गं गदां पाशं वामहस्तेषु विन्यसेत् ।
लक्ष्मीसरस्वती कार्ये पद्मवीणासमन्विते ॥२७१॥
किञ्च प्रतिष्ठाप्रसङ्गे—
अष्टबाहुः पूर्वमेव कथितः पुरुषोत्तमः ।
चतुर्बाहुं द्विबाहुञ्च सङ्क्षेपात् कथयामि ते ॥ २७२॥
दक्षिणं शान्तिदं हस्त कुर्यादयं दयान्वितम् ।
वामोर्द्ध्वं कारयेच्चक्रं पाञ्चजन्यं तथा ह्यधः ॥२७३॥
श्रीपुष्टिसहितं कुर्याच्चतुर्बाहुं सुरोत्तमम् ।
प्रसादे स्थापयेन्नित्यं गृहे वा मण्डपेऽपि वा ॥२७४॥
अथ द्विबाहुं तं देवं कुर्याद्भेदद्वयेन तु ।
एकं शान्तिकरं हस्तमपरं चक्रभूषितम् ।
श्रीसरस्वतीसंयुतमेकमायतने न्यसेत् ॥२७५॥
गदाचक्रधरं वापि द्विभुजं पुरुषोत्तमम् । सीरपाणिसमोपेतमेकानंशान्वितं विभुम् ।
चतुरस्रायते धाम्नि स्थापयेत् सर्वकामदम् ॥२७६॥
अतसीपुष्पसङ्काशं पीनवक्षःस्थलोरसम् ।
लावण्याम्बुजतोयेन सिञ्चन्तमिव सर्वतः ॥२७७॥
त्रैलोक्ये यस्य रूपेण न भूतो न भविष्यति ।
तं देवं कारयेत् सौम्यं पुरुषोत्तममुत्तमम् ॥२७८॥
बलदेवं द्विदोर्दण्डं मदविभ्रान्तलोचनम् ।
लाङ्गलासक्तपाणिन्त मुषलोद्यतदक्षिणम् ॥२७९॥
कुर्याद्वा तस्य बाह्वोस्तु शङ्खचक्रौ सुशोभनौ ।
शरचापधरौ वापि वरशान्तिप्रदौ तथा ॥२८०॥
कार्यौ भुजौ महाभाग बलदेवस्य सत्तम ।
भोगान् पञ्चायवा सप्त कुर्यादस्य त्वनन्तवत् ॥२८१॥
एकानंशान्तयोर्मध्ये कारयेत् सौम्यरूपिणीम् ।
वरदां पद्महस्तां वा दक्षिणेन भुजेन तु ॥२८२॥
श्रोणिस्थ-वामहस्तां तु कुर्याद्भद्रां सुरेश्वरीम् ।
एवं ते द्विभुजो विष्णुः कथितः सर्वकामदः ॥२८३॥
बलदेवेन सहितो भद्रया च समन्वितः ।
देवस्य दक्षिणे पार्श्व सुभद्रां विनिवेशयेत् ।
ततः परे मदाक्रान्तलोचनं स्थापयेद्बलम् ॥२८४॥
अथ विश्वरूपलक्षणम्
किञ्च—
विंशद्बाहुं विश्वरूपं कुर्यात्तल्लक्षणं शृणु ।
चक्रं खड्गञ्च मुषलमङ्कुशं पट्टिशं तथा ॥२८५॥
मुद्गरञ्च तथा पाशं शक्तिं शूलं शरं तथा ।
दक्षिणेषु प्रदद्याद्वै वामेषु शृणु साम्प्रतम् ॥२८६॥
शङ्ख शार्ङ्गं गदां पाशं तामर लाङ्गलं तथा ।
परशुं छुरिकां दण्डं चर्मप्रक्षेपणं तथा ॥२८७॥
नृसिंहोक्तं परं मानं विश्वरूपस्य कीर्तितम् ।
चतुर्मुखं दक्षिणेऽस्य त्रिनेत्रं वामतो न्यसेत् ।
स्तुवन्तो मुनयः कार्या विद्रवन्तो निशाचराः ॥२८८॥
अथ जलशायिमूर्तिलक्षणम्
वामपार्श्वेन शयितं कारयेज्जलशायिनम् ।
शेषपर्यङ्कगं देवं चतुर्बाहुं जनार्दनम् ॥२८९॥
श्रिया धृतैकचरणं सर्वालङ्कारभूषितम् ।
देवीभिर्विमलाद्यभिः सेव्यमानमियस्ततः ।
नाभ्युत्थपङ्कजारूढपितामहसमन्वितम् ॥२९०॥
अथ लक्ष्मीमूर्तिलक्षणम्
किञ्च—
अष्टताला तु कर्तव्या देवी लक्ष्मीः सुरेश्वरी ।
तत्क्रमं सौरकाण्डे तु कथयिष्ये तवानघ ॥२९१॥
नवतालिकक्षेत्रां तु कथ्यमानामितः शृणु ।
भ्रुवौ यवाधिके कार्य यवहीना तु नासिका ॥२९२॥
गोलोकेनाधिकं वक्त्रमूर्द्ध्वतिर्यग्विवर्जितम् ।
आयते नयने कार्य त्रिभागोनैर्यवैस्त्रिभिः ॥२९३॥
तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत् ।
कर्णपाशोऽधिकः कार्यः सृक्कण्या समसूत्रतः ॥२९४॥
नम्रं कलाविहीनं तु कुर्यादंसद्वयं सदा ।
ग्रीवा सार्द्धकला कार्या तद्विस्तारोपशोभिता ॥२९५॥
नेत्र विना तु विस्तारे ऊरू जानू च पिण्डिके ।
अङ्घ्रिपृष्ठे स्फिचे कट्यां यथायोग्यं प्रकल्पयेत् ॥२९६॥
सप्तांशोनास्तथाङ्गुल्यो दैर्घ्यं विष्कम्भनाहतम् ।
नेत्रैकर्वर्जितायामा जङ्घोरू च तथा कटिः ॥२९७॥
मध्यं पार्श्वं न तद्वृत्तं घनपीनं कुचद्वयम् ।
तालमात्रौ स्तनौ कार्यो कटिः सार्द्धकलाधिका ।
शेषमन्यद्यथोद्दिष्टं लक्ष्मीश्चेयं प्रकीर्तिता ॥२९८॥
सर्वाभरणसम्पन्ना मध्ये क्षामा स्तनोन्नता ।
श्रोणीतटसुविरतीर्णा कार्या देवी सुरेश्वरी ॥२९९॥
द्विभुजा कम्बुग्रीवा च विशालाक्षी सुलक्षणा ।
स्तनौ समुन्नती कार्यो कञ्चुकेनावगुण्ठितौ ॥३००॥
नागहस्तोपमौ बाहु ऊरू रम्भासमौ शुभौ ।
नानारत्नोज्ज्वलं पट्टं देव्याः शिरसि दापयेत् ॥३०१॥
नानारत्नोज्ज्वला देव्या मेखला श्रोणीसंयुता ।
युक्ता दिव्येन हारेण केयूरमुकुटोज्ज्वला ॥३०२॥
पद्मासना प्रकर्तव्या पद्मश्रीफलपाणिका ।
दक्षिणे पुण्डरीकन्तु वामहस्ते तु श्रीफलम् ॥३०३॥
स्थिता वा त्रिबलीभङ्गशोभिता च प्रशस्यते ।
स्त्रियौ पार्श्वद्वये कार्य समे चामरहस्तिके ॥३०४॥
भृङ्गारहस्तौ द्वौ नागौ स्नपयन्तौ श्रियं स्थितौ ।
श्रीरियं लक्षणोपेता स्थापिता सर्वकामदा ॥३०५॥
अथ श्रीगरुद्धमूर्तिलक्षणम्
खगेशस्य प्रवक्ष्यामि तव रूपं सुशोभनन् ।
नरतुल्यं भवेद्गात्रं नासिका कञ्चुकान्विता ॥३०६॥
षडङ्गुलोच्छ्रया सम्यक् चञ्चुरूपेण कल्पिता ।
मस्तके सुन्दरं केशं नेत्रे चैवास्य वर्तुले ॥३०७॥
आपतौ द्विभुजौ चास्य पक्षौ कार्यौ सुशोभनौ ।
स्कन्धप्रदेशसंलग्न-जलदग्नि-समप्रभौ ॥३०८॥
पादयोर्नखराः कार्यो सर्पमण्डलमण्डिताः ।
नूपुरौ तस्य द्वौ नागौ केयूरौ पद्मकम्बलौ ॥३०९॥
कटिदेशेऽस्य कुलिकः परिधानस्य वेष्ठनः ।
वृश्चिकैः कर्णिका कार्या गरुडस्य महात्मनः ॥३१०॥
देवस्य पुरतः स्याप्यो यष्ट्यां वा मण्डपेऽथवा ।
प्रासादस्य प्रमाणेन कार्यो गरुडमण्डपः ।
यष्ट्याः समुच्छ्रयः कार्यः प्रासादायामतोऽद्धतः ॥३११॥
किञ्च—
सर्वेषामेव देवानां विष्णुक्तं मानमुच्यते ।
देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते ।
किङ्कराद्याश्च कर्तव्याः सप्तसंस्थानसंयुताः ॥३१२॥
अथ श्रीमूर्त्यङ्गाधिक्यादिदोषाः
मत्स्ये—
नाधिकाङ्गी न हीनाङ्गी कर्तव्या देवता क्वचित् ।
स्वामिनं घातयत्युना करालवदना तथा ॥३१३॥
अधिका शिल्पिनं हन्यात् कृशा चैवार्थनाशिनी ।
कृशोदरी तु दुर्भिक्षं निर्मांसा धननाशिनी ॥३१४॥
वक्रनासा तु दुःखाय सङ्क्षिप्तानी भयङ्करी
चिपिटा दुःखशोकाय अनेत्रा नेत्रनाशिनी ॥३१५॥
दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा ।
हीनांशा हीनजङ्घा च भ्रमोन्मादकरी नृणाम् ॥३१६॥
शुष्कवक्त्रा तु राजानं कटिहीना च या भवेत् ।
पाणिपादविहीनाघां जायते नरको महान् ॥३१७॥
जङ्घाहीना तु या त्वर्चा शत्रुकल्याणकारिणी ।
पुत्रमित्रविनाशाय हीना वक्षःस्थले तु या ।
सम्पूर्णावयवा या तु आयर्लक्ष्मीप्रदा सदा ॥३१८॥
वाराह्याम्—
नृपभयमत्यङ्गायां हीनाङ्गायामल्पकता कर्तुः ।
शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ।
मरणं तु क्षतायां शस्त्र-निपातेन निर्दिशेत् कर्तुः ॥३१९॥
वामे विनता पत्नीं दक्षिणविनता हिनस्त्यायुः ।
अन्धत्वमूर्द्ध्वदृष्ट्यां करोति चिन्तामधोमुख दृष्टिः ॥३२०॥
किञ्च श्रीप्रह्लादोक्ते पुराणोद्वारेऽपि—
सुरार्चां लक्षणैर्हीनां यस्तु पूजयते नरः ।
तस्यान्नं नाभिगृह्णन्ति तस्मात्तां परिवर्जयेत् ॥३२१॥
अथ द्रव्यमेदेन श्रीमूर्तिभवः
मात्स्ये—
चित्रजा चैव लेप्या च शस्त्रोत्कीर्णा च पाकजा ।
पटे कुड्ये च पात्रे च चित्रजा प्रतिमा स्मृता ॥३२२॥
लेप्या तु पार्थिवी ज्ञेया लोहजा पाकजा मता ।
शैलजा वृक्षजा चैव शस्त्रोत्कीर्णा च कीर्तिता ॥३२३॥
चतुर्द्धा द्रव्यभेदेन प्रतिमा परिकीर्तिता ॥३२४॥
श्रीहयशीर्षपञ्चरात्रे—
मृन्मयी दारुघटिता लोहजा रत्नजा तथा ।
शैलजा गन्धजा चैव कौसुमी सप्तमी स्मृता ॥३२५॥
कौसुमी रत्नजा चैव मृन्मयी प्रतिमा हिता ।
तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः ॥३२६॥
किञ्च—
भाग्यदा शैलजा स्याच्च स्वर्णजा पुष्टिदा भवेत् ।
सुखप्रदा स्यान्मणिजा राजती कीर्तिदा भवेत् ॥३२७॥
ताम्रजा धनदा प्रोक्ता श्रीप्रदा वृक्षजा मता ।
कौसुमी सुखदा प्रोक्ता गन्धजा भोगदा मता ॥३२८॥
प्रत्यग्रस्थापिता वापि मृन्मयी सर्वसिद्धिदा ॥३२९॥
किञ्च तत्रैव चित्रजा-प्रतिष्ठा-प्रसङ्गे—
यावन्ति विष्णुरूपाणि सुरूपाणीह लेखयेत् ।
तावद्युगसहस्राणि विष्णुलोके महीयते ॥३३०॥
लेप्ये चित्रे हरिर्नित्यं सन्निधानमुपैति हि ।
तस्मात् सर्वप्रयत्नेन लेप्यचित्रगतं यजेत् ॥३३१॥
कान्तिभूषणभावाद्याश्चित्रे यस्मात् स्फूटं स्थिताः ।
अतः सान्निध्यमायाति चित्रजासु जनार्दनः ।
तस्माच्चित्रार्चने पुण्यं स्मृतं शतगुणं बुधैः ॥३३२॥
चित्रस्थं पुण्डरीकाक्षं सविलासं सविभ्रमम् ।
दृष्ट्वा विमुच्यते पापर्जन्मकोटिसुसञ्चितैः ॥३३३॥
तस्माच्छुभार्थिभिर्धोरैर्महापूण्यजिगीषया ।
पटस्थः पूजनीयस्तु वो नारायणः प्रभुः ॥३३४॥
इति ।
अथ शिलाग्रहणम्
त्रिकूटाद्रिषु गृह्णीयात् किंवा श्रीपर्वतादिषु ।
शिलां भूमिगतां वाथ ज्ञात्वा तल्लक्षणं बुधः ॥३३५॥
तथा च तत्रैव—
सुवारे सुतिथौ योगे स्वर्के सुकरणान्विते ।
आपूर्यमाणपक्षो तु सुग्रहे चोत्तरायणे ॥३३६॥
यजमानानुकूले तु प्रतिमार्थं व्रजेद्गुरुः ।
श्वेतवस्त्रपरीधानः श्वेतचन्दनचर्चितः ॥३३७॥
श्वेतपुष्पकृतापीडः शिल्पिभिः सहितो गुरुः ।
निपुणैः शिल्पिभिः सर्द्धं सहायैर्बलवत्तरैः ॥३३८॥
नृसिंहं पूज्य विज्ञाप्य पूज्य टङ्कादिकं ततः ।
ध्यात्वा हरिं हविः प्राश्य मन्त्राङ्गन्यस्तविग्रहः ॥३३९॥
ब्राह्मणान् वाचयित्वा तु भक्त्या मङ्गलदर्शनम् ।
दधिदूर्वा रोचनां वा आदर्शं कुसुमं सितम् ॥३४०॥
फल;च पूर्णकुम्भञ्च वन्दयित्वा वनं व्रजेत् ।
विध्यान्तरीक्षभौमानि निमित्तान्युपलक्षयेत् ॥३४१॥
यायाच्छुभनिमित्तेषु विपरीते निवर्तयेत् ।
त्रिराचम्य ततः प्राणान् ध्यायेत् सिंहतनुं हरिम् ॥३४२॥
पुनश्चाष्टोत्तरं जप्त्वा पातालमुषलं जपेत् ।
गीतवाद्यारवोद्घुष्टा यात्रा स्यात् सिद्धिदा नृणाम् ॥३४३॥
लक्ष्मीं ध्यायन् वनं यायात् सहायैः शिल्पिभिः सह । शङ्खकाहलशब्दैश्च पुण्याहजयमिश्रितैः ॥३४४॥
ऋग्यजुःसामसङ्घैश्च ध्यायन् सिंहं वनं व्रजेत् ।
प्राचीं दिशमथोदीचीमैशानीं वा व्रजेद्गुरुः ॥३४५॥
भूधराद्यास्तु ये पूर्वं संस्थाना कथिता मया ।
तत्र गत्वा समीपे त कृतरक्षो वनं विशेत् ॥३४६॥
प्रविशेत्तत्र यत्नेन शिल्पिभिः सहितो गुरुः ।
निरूपयेत् समन्तात्तु वृक्ष वाप्यथवा शिलाम् ॥३४७॥
लक्षणेन तु मन्त्रज्ञो यत् पूर्वं कथित मया ।
एकवर्णां शिलां दृष्ट्वा वाह्यदोषविवर्जिताम् ॥३४८॥
चतुर्दिक्षु समं कृत्वा भूमिभागं विशोधयेत् ।
प्लाव्य तोयेन पूतेन गोमयेन विलेपयेत् ॥३४९॥
तत्रैव मण्डपं कृत्वा वासुदेवं ततो जपेत् । पताकैस्तोरणैश्चित्रर्मण्डपं त विभूषयेत् ॥३५०॥
पूजयेदथ दिग्देवान् भूतक्रूरर्बालिं हरेत् ।
माषं हरिद्राचूर्णञ्च दधिशक्तुसमन्वितम् ॥३५१॥
सलाजमाषभक्तञ्च दद्यात् क्रूरबलिं बुधः ।
विष्णुं पूज्य विधानेन क्रमशस्तान् प्रपूजयेत् ॥३५२॥
वायव्यामस्त्रमन्त्रेण गन्धपुष्पैः प्रपूजयेत् ।
वह्निं प्रज्वाल्य विधिना मन्त्रान् सन्तर्प्य पूजयेत् ॥३५३॥
हुत्वा यथोक्तविधिना शान्तितोयं समारभेत् ।
शान्तितोयं ततो गृह्य अस्त्रेण प्रोक्षयेच्छिलाम् ॥३५४॥
दर्भैरुल्लेखयेत् पश्चादस्त्रमन्त्रेण तां शिलाम् ।
मन्त्रैरालभ्य तां यत्नात् शुक्लवस्त्रेण वेष्टयेत् ॥३५५॥
रक्षां कृत्वा नृसिंहेन दर्भैराच्छाद्य पूजयेत् ।
गन्धैः पुष्पैश्च नैवेद्यैर्धूपैः सम्पूज्य तां शिलाम् ॥३५६॥
ततस्तु मूलमन्त्रेण आज्यमष्टोत्तरं हुनेत् ।
ततः पूर्णाहुतिं दद्यान्मन्त्रराजेन वै गुरुः ॥३५७॥
एवं सन्तर्प्य सम्पूज्य विज्ञाप्य च बलिं हरेत् ।
गन्धैः पुष्पैस्तथा धूपैर्दद्याद्भूतबलिं बुधः ॥३५८॥
अत्र येऽवस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः ।
सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत् ॥३५९॥
अथ क्षमापणम्
विष्णुविम्वार्थमस्माकं यात्रैषा केशवाज्ञया ।
विष्ण्वर्थं यद्भवेत् कार्यं युष्माकमपि तद्भवेत् ॥३६०॥
अनेन बलिदानेन प्रीता भवथ सर्वथा ।
क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं पुनः ॥३६१॥
एवं प्रबोधिताः सत्त्वाः परितुष्टा यथासुखम् ।
आचम्य संविस्व ततः कृतरक्षापुरःसरः ॥३६२॥
चरुं प्राश्य निराहारः शिल्पिभिः सह देशिकः ।
हरिं विज्ञाप्य विधिवद्देवीञ्च कमलोद्भवाम् ॥३६३॥
पश्चिमे दर्भशयायां वसेत्तां रजनीं गुरुः ।
निराहारः स्थितो भूत्वा प्राणायामारम्भकं जपन् ॥३६४॥
अथ तत्र मन्त्रः
ओं नमः पर्वलोकपित्रे विष्णवे प्रभविष्णवे ।
विश्वाय विश्वरूपाय स्वर्गाधिपतये नमः ॥३६५॥
आगच्छ देवदेवेश प्रपन्नोऽस्मि तवान्तिकम् ।
स्वप्ने सर्वाणि कार्याणि हृदिस्थितानि यानि मे ।
ओं ह्रीं फट् विष्णवे स्वाहा ॥३६६॥
यदा स पश्यते वृक्षं ज्वलन्तं धूमवर्जितम् ।
फलितं पुष्पितं चैव तदा सिद्धिर्न दूरतः ॥३६७॥
प्रज्वलन्ती शिलां पश्येच्छ्रया वाधिष्ठितां शिलाम् ।
ब्रह्मणाधिष्ठितां वापि सा तदा सर्वकामदा ॥३६८॥
श्रिया जुष्टं प्रज्वयन्तमथ पश्यति पर्वतम् ।
ततः प्रवृद्धशिखरं काञ्चनद्रुममण्डितम् ॥३६९॥
युतं सर्वोद्भवैवृक्षैः फलपुष्पसमन्वितः ।
एवम्भूतेष दृष्टेष स्वप्ने अर्चा सुशोभना ॥३७०॥
अपरेऽहनि सम्प्राप्ते कृतरक्षः कृताह्निक ।
शस्त्रादि विधिवत् पूज्य शिलां पूज्य विधानतः ॥३७१॥
अर्घ्यं दत्त्वा शिलायान्तु शस्त्रमन्त्रेण पूजयेत् ।
मन्त्रयित्वा स्वमन्त्रेण प्रज्वलन्तं विभावयेत् ॥३७२॥
मध्वाज्याक्तमुखं कृत्वा आत्मानं चिन्तयेद्धरिम् ।
शिल्पिनं विश्वकर्माणं ध्यात्वोदवप्राङ्मुखोऽपि वा ॥३७३॥
शस्त्रं विष्ण्वात्मकं ध्यात्वा प्रदद्याच्छिल्पने गुरुः ।
मुखं पृष्ठं सलाङ्गुलं शिल्पिने दर्शयेद्गुरुः ॥३७४॥
शुक्लगन्धानुलिप्ताङ्गः शुक्लपुष्पाद्यलङ्कृतः ।
उदङ्मुखः प्राङ्मुखो वा स्थपतिः संयतः शुचिः ॥३७५॥
ध्यात्वात्मदेवतां शिल्पी टङ्कहस्तो जितेन्द्रियः ।
यथेष्टं शातयेत् पश्चाद्यच्छिलान्तच्छृणुष्व मे ॥३७६॥
उदक्शिरां प्राक्शिरां वा तथैवेशानदिग्गताम् ।
ऊर्ध्वभागं भवेत् पृष्ठमधोभागं भवेन्मुखम् ॥३७७॥
किञ्चिन्मानाधिकां कृत्वा कल्पयेत् प्रतिमाशिलाम् ।
किञ्चिन्मानाधिका त्याज्या विविधा या च पिण्डिका ।
छेदयित्वा समुद्धृत्य चतुरस्रां तु कारयेत् ॥३७८॥
अनेनैव विधानेन परोक्ष्य गुणदोषतः ।
वृक्षं यत्नेन गृह्णीयाद्विधिज्ञो देशिकोत्तमः ॥३७९॥
समानीय रथं श्रेष्ठं सुशीलैर्वृषभैर्युतम् ।
रथे स्थाप्य शिलां यत्नाच्छादयित्वा तु वाससा ।
हरिं ध्यात्वा स्मरम्मन्त्रमध्यं दद्यात्ततो गुरुः ॥३८०॥
आनीयमाने तु रथे रथाङ्गपरिचारकैः ।
वृषभे वा समुत्पन्ने अनिमित्ते च साधकः ॥३८१॥
वैष्णवाग्नौ नृसिंहेन तिलैर्घृतविमिश्रितैः ।
हुत्वा चाष्टशतं सम्यक् तद्दोषेण विमुच्यते ॥३८२॥
आनीय शङ्खनिर्घोषर्गीतमङ्गल-निस्वनैः ।
प्रासादस्योत्तरे भागे कृत्वा कर्मकुटीं गुरुः ॥३८३॥
शिलां संस्थाप्य तस्मिंस्तु अर्चयित्वा बलिं हरेत् ।
ततः प्रवर्तयेत् कर्म विद्वान् विज्ञैस्तु शिल्पिभिः ॥३८४॥
किञ्च—
यथोक्तायां दिशायां तु न लभ्येत यदा शिला ।
तदा विदिक्स्थिता ग्राह्या विधिना येन तच्छृणु ॥३८५॥
समानीय शिलां सम्यक् पूर्वोक्तलक्षणैर्युताम् ।
प्रासादस्योत्तरे भागे खात्वा भूमिं विधानवित् ॥३८६॥
शिलां संस्थाप्य तत्खाते मृदा सम्पूरयेद्गुरुः ।
समीकृत्याथ तां भूमिं मण्डपं तत्र कारयेत् ॥३८७॥
पताकाध्वजपत्र द्यैर्भूषयीत समन्ततः ।
तोरणैः कदलीस्तम्भैर्वितानेन च भूषयेत् ॥३८८॥
प्राच्यां तु भद्रकं लिख्य तत्र विष्णुं यजेद्गुरुः ।
प्रबालमुक्ताफलकैर्हेमपुष्पैः समुज्ज्वलैः ॥३८९॥
पूर्वोक्तं सकलं वापि विधानं समुपाचरेत् ।
भूतक्रूरबलिं दद्यात् पूर्वोक्तविधिनैव तु ॥३९०॥
प्रतीच्यां पूर्वविधिना होमं कुर्याद्यथोदितम् ।
दिग्दोषपरिशुद्ध्यर्थं विशेषाद्धोममाचरेत् ॥३९१॥
पातालनरसिंहेन सहस्रं वैष्णवानले ।
दिग्देवानामथाङ्गानां हुत्वा पूर्णां यजेद्गुरुः ॥३९२॥
तर्पिते मन्त्रराजे तु दिग्दोषैर्मुच्यते शिला ।
ततः पूर्वोक्तविधिना कृत्वा पुष्पादिकं गुरुः ॥३९३॥
पूर्वोक्तेन विधानेन शिरःपृष्ठादि कल्पयेत् ।
मन्त्रोदकेन सम्प्रोक्ष्य शिलां तां प्रोक्षयेद्गुरुः ॥३९४॥
दिग्दोषप्रशमनार्थं गृष्टिं भव्यां स्वलङ्कृताम् ।
सुवर्णशृङ्गसंयुक्तां कांस्यदोहां पयस्विनीम् ।
ताम्रपृष्ठीं सोपवीतां दद्याद्रौप्यखरां गुरोः ॥३९५॥
तोषयीत गुरुं यत्नाद्वस्त्रालङ्कारणादिभिः ।
शिल्पिनं तोषयेद्यत्नाद्वस्त्रालङ्कारचन्दनैः ॥३९६॥
आचार्ये तोषिते विष्णुस्तोषितः स्यान्न सशयः ॥३९७॥
शिल्पिनं तोषयेदेवं विश्वकमाथ पूजितः ।
ततः कर्माणि युञ्जीत सर्वकामप्रदो भवेत् ॥३९८॥
अथ शिलालक्षणम्
तत्रैव—
क्षाराम्लसेविता या च नदीतोरसमुद्भवा ।
पुरमध्ये स्थिता या च तथा पितृवने स्थिता ॥३९९॥
चतुष्पथे स्थिता या च मृच्छिला पक्वणे च या ।
ऊषरे च तथा मध्ये वल्मीके वापि या स्थिता ॥४००॥
सूर्यरश्मिप्रतप्ता या या च दग्धा दवाग्निना ।
अन्यकर्मोपयुक्ता या अन्यदेवार्थनिर्मिता ॥४०१॥
क्रव्यादाद्यैरुपहता वज्यो यत्नेन वै शिला ।
येन केनचिदानीता वर्जनीया तथा शिला ॥४०२॥
पुण्यसेतुद्भवा ग्राह्या पुण्यतीर्थोद्भवा तु या ।
नदीपर्वतसंलग्ना वृक्षच्छायाद्यनावृता ॥४०३॥
निमग्ना भूतले या च याऽस्पृष्टा सूर्यरश्मिभिः ।
अन्तर्जलोषिता नद्यामेकवर्णा मनोरमा ॥४०४॥
पाण्डुरा चारुणा पीता कृष्णा शस्ता च वर्णिनाम् ।
न यदा लभ्यते सम्यग्वर्णिनां वर्णतः शिला ॥४०५॥
वर्णस्यापादने तत्र जुहुयात् सिंहविद्यया ।
कृते वर्णस्य जनने तस्य वर्णस्य सा शुभा ॥४०६॥
श्रेष्ठवर्णा सुवर्णा च रेखा सर्वस्य शस्यते ।
अपरस्य तु वर्णस्य श्रेष्ठस्य न प्रशस्यते ॥४०७॥
वणिनामिह सर्वेषां कृष्णरेखा विधीयते ।
शिलानामिह सर्वासां शुक्लरेखा प्रशस्यते ॥४०८॥
रेखाणामिह सर्वासां व्यत्यये होममाचरेत् ।
पातालनरसिंहेन सहस्रं देशिकोत्तमः ॥४०९॥
तापते मन्त्रराजे तु ततः सा शुभदा नृणाम् ।
विपरीते तु विमले विन्दुके हीरके तथा ॥४१०॥
इममेव विधिं कुर्यादन्यस्मिन्नापि गर्हिते ।
युवा मध्या भवेद्ग्राह्या बाला वृद्धा च गर्हिता ॥४११॥
सुगन्धा निविडा स्निग्धा तथा गम्भीरनिस्वना ।
शीतला या च तेजाढ्या युवेति प्रोच्यते शिला ॥४१२॥
तद्रूपा शोच्यते मध्या किन्तु सा कठिना भवेत् ।
अतिमृद्वी भवेद्वाला वृद्धातिकठिना मता ॥४१३॥
टङ्काघाता मता बाला वृद्धा लोकक्षयङ्करी ।
स्त्रीपुन्नपुंसकञ्चैव लक्षणेनैव लक्षयेत् ॥४१४॥
उत्पाट्यमाने दृश्येत तिन्दुकालातवत् ज्वलन् ।
स्फुलिङ्गः श्रूयते नादः कांस्यघण्टानिनादवत् ॥४१५॥
मुले मध्ये तथाग्रे च पुंलिङ्गेति तु सा स्मृता ।
तदेव लक्षणं यद्वन्मन्दं मन्दं प्रतीयते ॥४१६॥
स्त्रीलिङ्गेति तदा सा च भिन्नकांस्यध्वनिस्तु या ।
नपुंसकेति सा ज्ञेया न यत्रैतद्वयं भवेत् ॥४१७॥
पुंलिङ्गैः प्रतिमा कार्या स्त्रीलिङ्गैः पादपीठिका ।
पिण्डिकार्थं तु सा ग्राह्या दृष्टा या षण्डलक्षणा ॥४१८॥
लिङ्गानां तु विपर्यासे पूर्वोक्तं होममाचरेत् ।
छेदने भेदने वापि शिलागर्भः समीक्ष्यते ॥४१९॥
दृश्यते मण्डलं यस्यां सगर्भां तां विनिर्दिशेत् ।
मण्डूको मण्डले तस्या लोहिते नात्र संशयः ॥४२०॥
हरिद्राभे भवेद्गोधा कृष्णसर्पस्तथा सिते ।
निस्त्रिंशसदृशे तोयं गृहगोधा तु कर्कशे ॥४२१॥
आखुर्हरिद्रावर्णे स्यादरुणे सरटस्तथा ।
पिङ्गवर्णे तु पाषाणः पद्माभे सिकता भवेत् ॥४२२॥
वृश्चिकः स्थाद्विचित्रे तु पोतनीले पतङ्गकः ।
पारावताभे खद्योतं मण्डले तु विनिर्दिशेत् ॥४२३॥
अकल्पना तु मण्डूके दौर्भाग्यं गोधया भवेत् ।
सर्प विषेण मरणमतिवृष्टिस्तथा जले ॥४२४॥
धनहानिस्तु गोधायाम खुनानिष्ठमुद्भवेत् ।
अल्पायुष्ट्वं तु सरटे पाषाणे विद्युतो बधः ॥४२५॥
बालुकायामनावृष्टिः कलहो वृश्चिके भवेत् ।
रष्ट्रोच्छित्तिस्तु शलभे खद्योते गात्रसङ्क्षयः ॥४२६॥
तस्मात् परीक्ष्य यत्नेन शिलां गृह्णीत देशिकः ।
सगर्भया तु शिलया रूपकः क्रियते यदि ॥४२७॥
तद्देशे म्रियते राजा यजमानोऽथ देशिकः ।
शिलायामपि वृक्षेषु यत्नाद्गर्भं समीक्षयेत् ॥४२८॥
अथ शिल्पि-कृत्यम्
मत्स्ये—
विविक्ते संवृते स्थाने स्थपतिः संयतेन्द्रियः ।
पूर्ववत् कालदेशज्ञः शास्त्रज्ञः शुक्लभूषणः ॥४२९॥
प्रयतो नियताहारो देवताध्यानतत्परः ।
यजमानानुकूल्येन विद्वान् कर्म समाचरेत् ॥३३०॥
धृत्वा पूर्वमुखं द्रव्यमथवा चोत्तरामुखम् ।
दधिदूर्वाक्षतैः पूज्य तदारम्भे बलिं हरेत् ॥४३१॥
पूर्ववद्ब्रह्मघोषाद्यैः स्थापयेद्द्रव्यमाचरेत् ॥४३२॥
शुक्लैर्गन्धैश्च पुष्पैश्च द्रव्यं सम्पूज्य भक्तितः ।
स्वस्तिवाचनकं कृत्वा प्रतिमां संविभाजयेत् ॥४३३॥
अथ पिण्डिकालक्षणम्
हयशीर्षपञ्चरात्रे—
अतःपरं प्रवक्ष्यामि पिण्डिकालक्षणं तव ॥४३४॥
उच्छ्राय प्रतिमार्द्धञ्च दैर्घ्येण प्रतिमा समा ।
चतुःषष्टिं पुटान् कृत्वा पिण्डिकां तन्त्र कल्पयेत् ॥४३५॥
त्यक्त्वा पङ्क्तिद्वय चाधस्तदूर्द्ध्वं यत्तु कोष्ठकम् ।
समस्तमुभयोः पार्श्वं अन्तस्थं परिमार्जयेत् ॥४३६॥
ऊर्ध्वपङ्क्तिद्वयं कृत्वा अवस्ताद्वर्णकोष्टकम् ।
अन्तः थं मार्जयेद्यत्नात् पार्श्वयं रुभयोः समम् ।
तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः ॥४३७॥
चतुर्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः ।
मेखलाभागमात्रं स्यात् खातं तस्यार्द्धमानतः ॥४३८॥
भागं भागं परित्यज्य पार्श्वयोरुभयोः समम् ।
दत्त्वा चैकं पदं बाह्ये प्रमाणं कारयेद्बुधः ॥४३९॥
त्रिभागेन च भागः स्यादग्रे स्यात्तोयदिगगतः ।
नानाप्रकारभेदेन भद्रेयं पिण्डिका शुभा ॥४४०॥
किञ्च तत्रैवाग्रे—
दैर्घ्येण प्रतिमा तुल्या तदर्द्धेन तु विस्तृता ।
उच्छ्रितायामतोऽर्द्धेन सुविस्तरार्द्धभागतः ॥४४१॥
त्रिभागेन तु बाहुल्यं तस्त्रिभागेन मेखला ।
खातं च तत् प्रमाणं तु किञ्चिदुत्तरतोन्नतम् ॥४४२॥
विस्तारस्य चतुर्थेन प्रमाणस्य विनिर्णयः ।
समं मूलस्य विस्तारमग्रे कुर्यात्तदर्द्धतः ॥४४३॥
विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत् ।
पिण्डिकार्द्धेन वा तुल्यं दैर्घ्यं कुशस्य कीर्तितम् ॥४४४॥
कुशबाहुल्यदैर्घ्येण ज्ञात्वा सूत्र प्रकल्पयेत् ।
उच्छ्रायं पूर्ववत् कुर्याद्भागशेषेण सङ्ख्यया ॥४४५॥
अधस्तस्य द्विभागन्तु कण्ठं कुर्यात्त्रिभागकम् ।
शेषा ह्येकैकशः कार्याःप्रतिष्ठा निर्गतास्तथा ॥४४६॥
षष्टिका पिण्डिका चेयं सामान्यप्रतिमासु च ।
प्रासाद-द्वारमानेन प्रतिमा-द्रव्यमुच्यते ॥४४७॥
गजबालकसयुक्ता प्रभा स्यात् प्रतिमासु च ।
पिण्डिकासु यथाशोभं कर्तव्या सततं हरेः ॥४४८॥
मात्स्ये—
पिण्डिकालक्षणं वक्ष्ये यथावदनुपूर्वशः ।
पीठोच्छ्रायं यथावच्च भागान् षोडशकारयेत् ॥४४९॥
भूमावेकः प्रतिष्ठः स्याच्चतुर्भिजङ्गती मता ।
वृत्तो भागस्तथैकः स्याद्वृत्तपट्टस्तु भागतः ॥४५०॥
भागैस्त्रिभिस्तथा कण्ठः कण्ठपट्टस्त्रिभागतः । भागाभ्यामूर्द्ध्वपट्टस्तु शेषभागेन पट्टिका ॥४५१॥
प्रविष्टं भागमेकैक जगती यावदेव तु ।
निर्गमस्तु पुनस्तस्माद्यावद्वै शेषपट्टिकाः ॥४५२॥
वारिनिर्गमनार्थन्तु तत्र कार्यः प्रणालकः ।
पोठिकानां तु सर्वासामेतत् सामान्यलक्षणम् ॥४५३॥
विशेषाद्देवताभेदात् शृणुध्वं द्विजसत्तमाः ।
स्थण्डिला वाथ वापी च यक्षी वेदी च मण्डला ॥४५४॥
पूर्णचन्द्रा च वज्रा च पद्मा चार्द्धशशीस्तथा ।
त्रिकोणा दशमी तासां संस्थानञ्च निबोधत ॥४५५॥
स्थण्डिला चतुरस्त्रा तु वर्जिता मेखलादिभिः ।
वापी द्विमेखला ज्ञेया यक्षी चैव त्रिमेखला ॥४५६॥
चतुरस्रायता वेदी न तां लिङ्गेषु योजयेत् ।
मण्डला वर्तुला या तु मेखला त्रिगुणा प्रिया ॥४५७॥
रक्ता द्विमेखला मध्ये पूर्णचन्द्रा प्रकीर्तिता ।
मेखलात्रयसंयुक्ता षडस्रा वज्रिका भवेत् ॥४५८॥
षोडशास्त्रा भवेत् पद्मा किञ्चित् ह्रस्वा च मूलतः ।
तथैव धनुराकारा सार्द्धचन्द्रा प्रशस्यते ॥४५९॥
त्रिशूलसदृशो तद्वत् त्रिकोणा ऊर्ध्वतो मता ।
प्रागुदक्प्रवणा तद्वत् प्रशस्ता लक्षणान्विता ॥४६०॥
परिवेषास्त्रिभागेन निर्देशं तत्र कारयेत् ।
विस्तार तत्प्रमाणं तु मूले चाग्रे तथोर्द्ध्वतः ॥४६१॥
जलमार्गस्तु कर्तव्यस्त्रिभागेन सुशोभनः ।
लिङ्गस्यार्द्धत्रिभागेन स्थौल्येन समधिष्ठितः ॥४६२॥
मेखला तु त्रिभागेन खातं वै तत्प्रमाणतः ।
अथवा पादहीनं तु शोभनं कारयेत् सदा ॥४६३॥
उत्तरस्थं प्रमाणन्तु प्रमाणादधिकं भवेत् ।
स्थण्डिलायामथारोग्यं धन-धान्यञ्च पुष्कलम् ॥४६४॥
गोप्रदा तु भवेद्यक्षी वेदी सम्पत्प्रदा भवेत् ।
मण्डलायां भवेत् कीर्तिर्वरदा पूर्णचन्द्रिका ॥४६५॥
अयुप्रदा भवेद्वज्री पद्मा सौभाग्यदायिनी ।
पुत्रदा त्वर्द्धचन्द्रा स्यात्त्रिकोणा शत्रुनाशिनी ॥४६६॥
देवस्य यजनार्थं तु पिण्डिका दश कीर्तिताः ।
शैले शैलमयीं पिण्डीं पार्थिवे पार्थिवीं तथा ॥४६७॥
दारुजे दारुजां कुर्यान्मिश्रे मिश्रां तथैव च ।
नान्ययोनिस्तु कार्या वै सदा शुभफलेप्सुभिः ॥४६८॥
अर्चायाम-समं दैर्घ्यं लिङ्गायाम-समं तथा ।
यस्य देवस्य या पत्नी तां पीठे परिकल्पयेत् ।
एवमेव समारख्यातं समासात् पीठलक्षणम् ॥४६९॥
किञ्च—
द्वारोच्छ्रायस्य यन्मानमष्टधा तत्तु कारयेत् ।
भागद्वयेन प्रतिमां त्रिभागीकृत्य तत् पुनः ।
पिण्डिका भागतः कार्या नातिनीचा न चोच्छुरिता ॥४७०॥
श्रीनारदपञ्चरात्रे च—
विम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु ।
चतुरस्त्रञ्च तद्विद्धि चतुरस्रायतं तु वा ॥४७१॥
विम्बोच्छ्राय-समं पीठं परितश्चैव विस्तृतम् ।
तदर्द्धनोन्नतं कुर्य देतत् सामान्यलक्षणम् ॥४७२॥
चतुरस्रस्य पीठस्य कथितं तु महामुने ।
चतुरस्र यतस्याथ प्रमाणमवधारय ॥४७३॥
विम्बाद्धीनन्तु विस्तीर्णं तत्प्रमाणेन चोन्नतम् ।
समं देवस्य दैर्घ्यं वा चतुरस्रायतं तु तत् ॥४७४॥
कार्य तुङ्गालयस्थानां देवतानां महामुने ।
चलानां वेश्मसंस्थानां विम्बानां पीठमन्यथा ॥४७५॥
कुर्याद्विम्बसमं दैर्घ्यं स्वेन मानेन वा पुनः ।
आपादजानुहुर्यन्त विस्तारेणोच्छ्रयेण च ॥४७६॥
ऊर्वर्द्धेनाथवा कुर्यात् सविस्तार द्विजोन्नतिम् ।
वक्षोऽन्तरे वा विम्बस्य तस्यार्द्धेन च विस्तृतम् ॥४७७॥
तच्चतुर्भागहीनं तु त्रिभागं चार्द्धमेव वा ।
अङ्ग त्वं विद्धि तत् पीठं चलविम्बस्य सर्वदा ॥४७८॥
धातुद्रव्यस्य चाभावात् स्थिराणामेकमेव च ।
कृत्वा तु तदधः कुर्यादुपपीठ प्रमानतः ॥४७९॥
त्रिभागेनाथ पीठस्य प्रमाणं मध्यतो भवेत् ।
तन्मानेन ततो दैर्घ्य स्वमानाग्रतः पुनः ॥४८०॥
त्र्यंशमानेन विस्तीर्णं तस्यापि त्र्यंशमन्तरा ।
निखनेदग्रतो मूलात् तत् कुर्यान्मकराननम् ॥४८१॥
इत्यादि ।
इति श्रीगोपालभट्ट-विलिखिते श्रीभगवद्भक्तिविलासे श्रीमूर्तिप्रादुर्भावो नामाष्टादशो विलासः ।