सप्तदशो विलासः
पौरश्चरणिकः
नमो भगवते वासुदेवाय
कस्माच्चिद्-आश्रयाद्यस्य प्रोद्यद्-भक्ति-विलासतः ।
दीनो’पि रञ्जयेद् विश्वं तं श्री-चैतन्यम् आश्रये ॥१॥
इदानीं पुरश्चरणं लिखिष्यन् तत्र सर्व-शक्ति-विहीनस्याप्य् आत्मनो भगवति भक्ति-प्रयन्ताभासेनापि जगद्-रञ्जकताम् अपि सम्भाव्य तं शरणं याति—कस्माच्चिद् इति । यस्य श्री-चैतन्यस्य कस्माच्चिद् अप्य् आश्रयात् प्रपत्तेर् यः प्रकर्षेण उद्यन् उदयं प्राप्नुवन् भक्तेर् विलासस् तेन दीनः सर्व-शक्ति-रहितो’पि जनो विश्वं जगद् अपि रञ्जयेत् । तम् आश्रये शरणत्वेन प्रपद्ये ॥१॥
प्रत्यहं प्रतिपक्षं च प्रतिमासम् अपि क्रमात् ।
विलिख्य कृत्यम् अधुना कादाचित्कं विलिख्यते ॥२॥
एवम् अभीष्ट-सुसिद्धये परम-गुरुं भगवन्तम् आश्रित्य इदानीं विलास-चतुष्केण लेख्यं प्रतिजानीते—प्रत्यहम् इति । प्रत्यहं यत् कृत्यं प्रतिपक्षं च यत् कृत्यं, प्रतिमासम् अपि यत् कृत्यं, तत् क्रमात् यथाक्रमं विलिख्याधुना कादाचित्कं कदाचित् करणीयं कृत्यं कर्म लिख्यते ॥२॥
अथ पुरश्चरणम्
श्री-गुरोर् मन्त्रम् आसाद्य पुरश्चरण-कर्मणि ।
दीक्षां कृत्वा पुनस् तेनानुज्ञातः प्रारभेत तत् ॥३॥
श्री-गुरोः सकाशात् पुरश्चरण-कर्मणि निमित्ते पुनर् दीक्षां कृत्वा तेन श्री-गुरुणानुज्ञातः सन् तत् पुरश्चरण-कर्म-प्रकर्षेणारभेत । तथा च क्रम-दीपिकायाम् (५.१)—
चैत्रे कृत्वैतन् मासि कर्माच्छ-पक्षे पुण्य-र्क्षे भूयो देशिकात् प्राप्य दीक्षाम् । तेनानुज्ञातः पूर्व-सेवां द्वितीये मासि द्वादश्याम् आरभेतामलायाम् ॥ इति ॥३॥
अथ पुरश्चरणावश्यकता
आगमे—
विना येन न सिद्धः स्यान् मन्त्रो वर्ष-शतैर् अपि ।
कृतेन येन लभते साधको वाञ्छितं फलम् ॥४॥
येन पुरश्चरणेन ॥४॥
पुरश्चरण-सम्पन्नो मन्त्रो हि फल-दायकः ।
अतः पुरस्क्रियां कुर्यान् मन्त्रवित् सिद्धि-काङ्क्षया ॥५॥
किं होमैः किं जपैश् चैव किं मन्त्रायास-विस्तरैः ।
रहस्यानां हि मन्त्राणां यदि न स्यात् पुरस्क्रिया ॥६॥
मन्त्रेषु आयास-विस्तरैर् अन्यैर् अपि बहुल-श्रमैः किम् ? ॥६॥
पुरस्क्रिया हि मन्त्राणां प्रधानं वीर्यम् उच्यते ।
वीर्य-हीनो यथा देही सर्व-कर्मसु न क्षमः ।
पुरश्चरण-हीनो हि तथा मन्त्रः प्रकीर्तितः ॥७॥
वीर्यं शक्तिः । बीजम् इति पाठे कारणं मूलम् इत्य् अर्थः ॥७॥
अथ पुरश्चरण-माहात्म्यम्
अगस्त्य-संहितायाम्—
संसारे दुःख-भूयिष्ठे य इच्छेत् सुखम् आत्मनः ।
पञ्चाङ्गोपासनेनैव रामं भजतु भक्तितः ॥८॥
पञ्चाङ्गोपासनं भक्तैः पुरश्चरणम् उच्यते ।
एतद् धि विदुषां श्रेष्ठन् संसार-च्छेद-कारणम् ॥९॥
विदुषां श्रेष्ठ हे सुतीक्ष्ण ॥९॥
नानेन सदृशो धर्मो नानेन सदृशं तपः ।
नानेन साधनं किञ्चिद् इष्टार्थस्य तपोधन ॥१०॥
अनेन पुरश्चरणेन ॥१०॥
पूजा त्रैकालिकी नित्यं जपस् तर्पणम् एव च ।
होमो ब्राह्मण-भुक्तिश् च पुरश्चरणम् उच्यते ॥११॥
पञ्चाङ्गोपासनम् एव विशिष्याह पूजेति ॥११॥
गुरोर् लब्धस्य मन्त्रस्य प्रसादेन यथाविधि ।
पञ्चाङ्गोपासनं सिद्ध्यै पुरश् चैतद् विधीयते ॥१२॥
पञ्चाङोपासनस्यास्य पुरश्चरणम् इति नाम निर्वक्ति—गुरोर् इति । गुरोः प्रसादेन लब्धस्य मन्त्रस्य एतत्-पञ्चाङ्गोपासनं पुरः प्रथमं विधीयत इति पुरश्चरणम् उच्यत इति पूर्वेणैवान्वयः । प्रसन्नेनेति पाठे प्रसन्न-चित्तेन सता विधीयते । यद् वा, भावे क्त-प्रत्ययः । अर्थः पूर्ववद् एव ॥१२॥
निष्कामाणाम् अनेनैव साक्षात्कारो भविष्यति ।
अर्थ-सिद्धिः सकामानां सर्वा वै भक्तिम् आलभेत् ॥१३॥
पञ्चाङ्गम् एतत् कुर्वीत यः पुरश्चरणं बुधः ।
स वै विजयते लोके विद्यैश्वर्य-सुतादिभिः ॥१४॥
विद्यादिभिर् लोके विजयते परमोत्कृष्टा भवति ॥१४॥
क्रम-दीपिकायाम् (३.६०)—
**य इमं भजते विधिं नरो
भवितासौ दयितः शरीरिणाम् ।
अपि वाक्-कमलैक-मन्दिरं
परमं ते समुपैति तन्-महः ॥१५॥ **इति ।
विधिं विधानं पुरश्चरण-लक्षणम् । अचिरात् शीघ्रं कमलायाः सर्व-सम्पत्तेर् एकं मुख्यं मन्दिरं च भाजनं भवति । अपि वाक्-कमलैक-मन्दिरम् इति पाठान्तरे वाचः सरस्वत्याः कमलायाश् चैक-मन्दिरम् अपि भवति ॥१५॥
गोपालोपासना-ग्रन्थ-सार-श्री-क्रम-दीपिकाम् ।
प्रायो’नुसृत्य लिख्येत पौरश्चरणिको विधिः ॥१६॥
तत्र च बहु-विधेषु पुरश्चरण-विधिषु मध्ये क्रम-दीपिकोक्तानुसारेण पुरश्चरण-विधि-लिखनं प्रतिजानीते—गोपालेति । गोपालोपासनाया ग्रन्थेषु मध्ये सारं श्रेष्ठ-भूता या श्रीमती क्रम-दीपिका ताम् अनुसृत्य तत्रोक्तानुसारेणेत्य् अर्थः । प्रायो बाहुल्येनेति तत्-तद्-विशेष-ज्ञानाद्य्-अर्थम् अन्याकर-ग्रन्थोक्तम् अपि किञ्चिद् अनुसृत्य लेख्यम् इत्य् अर्थः ॥१६॥
अथ तत्र स्थान-नियमः
गिरि-शृङ्गं सरित्-तीरं बिल्व-मूलं जलान्तरम् ।
गोष्ठं विष्ण्व्-आलयो’श्वत्थ-तलं वाथाम्बुधेस् तटम् ॥१७॥
जलस्य अन्तरं मध्यम् ॥१७॥
क्वचिच् च—
पुण्य-क्षेत्रं नदी-तीरं गुहा-पर्वत-मस्तकम् ।
पुण्य-प्रदेश-सिन्धूनां सङ्गमः पावनं वनम् ॥१८॥
उद्यानानि विविक्तानि बिल्व-मूलं तटं गिरेः ।
तुलसी-काननं गोष्ठं वृष-शून्यः शिवालयः ॥१९॥
अश्वत्थामलकी-मूलं गो-शाला-जल-मध्यतः ।
देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥२०॥
अश्वत्थस्य आमलक्याश् च मूलम् ॥२०॥
गुरूणां सन्निधानं च चित्तैकाग्र्य-स्थलं तथा ।
प्रेत-भूम्यादिकं चैव तत्-तत्-कल्प-प्रकाशितम् ।
एषाम् अन्यतम-स्थानम् आश्रित्य जपम् आचरेत् ॥२१॥
तस्य तस्य मन्त्र-साधनस्य कल्पेन कल्पाख्येन शास्त्रेण प्रकाशितम्, एषां मध्ये अन्यतमम् एकम् ॥२१॥
अन्यत्र च—
समुद्रगायाः सरितः सङ्गमः पाप-नाशनः ।
पश्चिमाभिमुखं लिङ्गं पुराणोक्तं स्वयम्भुवम् ॥२२॥
सर्वोत्कृष्टं महा-विष्णोः स्थानं चान्यत् मनोरमम् ।
गृहं वा शुचि संस्कार-स्वभावाभ्यां प्रसिद्धिकृत् ॥२३॥
शुचि पवित्रं गृहं वा, सत्कारेण स्थानादि-शोधनेन स्वभावेन च निज-शौशील्येन, प्रकृष्टां सिद्धिं करोतीति तथा । एतच् च सर्वेषाम् एव विशेषणम् ॥२३।
अथ स्थान-विशेषे फल-विशेषः
उक्तं च श्री-याज्ञवल्क्येन—
गृहे त्व् एक-गुणं जप्यं नद्यां तु द्विगुणं स्मृतम् ।
गवां गोष्ठे दश-गुणं अग्न्यागारे दशाधिकम् ॥२४॥
जप्यं जपो जप-फलं वा ॥२४॥
सिद्ध-क्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ ।
सहस्रं शत-कोटीनाम् अनन्तं विष्णु-सन्निधौ ॥२५॥
देवतानां श्री-रुद्रादीनाम् ॥२५॥
अथ तत्र भूमि-परिग्रहः
शुभे दिने च सङ्कल्प्य स्व-विहारादि-हेतवे ।
क्रोशम् एकम् उभौ वा तौ स्व-क्षेत्रं परिकल्पयेत् ॥२६॥
आदि-शब्देन आहारादि-चेष्टा । तौ क्रोशौ व्याप्य ॥२६॥
क्षीर-वृक्ष-भवान् अष्ट कीलकान् द्वादशाङ्गुलान् ।
दश-कृत्वो’स्त्र-मन्त्रेण प्रत्येकम् अभिमन्त्रयेत् ॥२७॥
ततो’भ्यर्च्याष्ट-दिक्-पालान् क्षेत्र-पालं च मध्यतः ।
बलिं दत्त्वा च निखनेत् कीलकान् अष्ट-दिक्षु तान् ॥२८॥
तथा च आगमे—
ग्रामे क्रोश-मितं स्थानं नद्यादौ स्वेच्छया मितम् ।
नगरादाव् अथ क्रोशं क्रोश-युग्मम् अथापि वा ।
आहारादि-विहारार्थं तावतीं भूमिम् आक्रमेत् ॥२९॥
क्षीरि-वृक्षोद्भवान् कीलान् अस्त्र-मन्त्राभिमन्त्रितान् ।
निखनेद् दश-दिग्-भागे तेष्व् अस्त्रं च प्रपूजयेत् ॥३०॥
क्षेत्रे च कीलिते मन्त्री न विघ्नैः परिभूयते ।
क्षेत्र-पालादिकं तत्र पूजयेद् विधिवत् ततः ॥३१॥
दिक्-पतिभ्यो बलिं दत्त्वा ततः क्षेत्रं समाश्रयेत् ।
क्षेत्र-मध्यं समाश्रित्य कूर्म-चक्रं विचिन्तयेत् ॥३२॥
किं च—
कूर्म-चक्रेण संशोध्य दीप-स्थाने कुटीं श्रयेत् ।
चतुरस्र-चतुर्-हस्तां हस्तोन्नत-सुवेदिकाम् ॥३३।।
कुटीं विशिनष्टि—चतुरस्रेति सार्धेन ॥३३॥
**चन्द्रातप-पताकाभ्यां तोरणैर् अप्य् अलङ्कृताम् ।
विविक्ताम् अभिलिप्तां च प्राकारेणाभिवेष्टिताम् ॥३४॥ **इति ।
अथ कूर्म-चक्रम्
तद् उक्तम्—
वर्तुलं नव-कोष्ठं तत् कृत्वा कूर्माकृतिं लिखेत् ।
कूर्मस्याङ्गानि चाष्टौ स्युर् मुखं हस्तौ च पार्श्वकौ ।
पादौ पुच्छम् इति प्रोक्तं प्रशस्तं मुखम् एव तु ॥३५॥
यथा कूर्मस्याङ्गानि, तथात्राष्ट-कोष्ठानीत्य् एवं कूर्माकृतित्वे हेतुम् आह—कूर्मस्येति ॥३५॥
स्वर-द्वन्द्वं क्रमाद् दिक्षु पूर्वादिष्व् अष्टसु न्यसेत् ।
तथा कादीन् सप्त-वर्गान् न्यसेच् छिव-दिशं विना ॥३६॥
स्वराणाम् आकारादीनां षोडशानां द्वन्द्वं अ-आ-इत्य् एवम् अष्ट-युगलं पूर्वादिषु अष्टसु दिक्षु तत्रत्य-कोष्ठेषु न्यसेत् । कादयः पञ्च-वर्गाः । यादयो’न्त्य-स्था एको वर्गः । शादय उष्माणश् चैको वर्गः । एव सप्त-वर्गान् न्यसेत् । शिव-दिशं विनेति—ऐशन्यां न किञ्चिन् न्यसेद् इत्य् अर्थः ॥३६॥
ग्राम-नामाद्य-वर्णस् तु यस्यां दिशि च तिष्ठति ।
तत्र कूर्म-मुखं ज्ञेयम् अन्याङ्गानीतरत्र च ॥३७॥
ग्राम-शब्देन कृत्य-जप-क्षेत्रं तस्य यन् नाम मथुरादि तस्याद्यो वर्णः म-कारादिर् इत्य् अर्थः । तथा च शारदा-तिलके—
चतुरस्रां भुवं भित्त्वा कोष्ठानां नरकं लिखेत् । पूर्व-कोष्ठादि विलिखेत् सप्त-वर्गान् अनुक्रमात् ॥ लक्षम् ईशे मध्य-कोष्ठे स्वर-युग्मं क्रमाल् लिखेत् । दिक्षु पूर्वादितो यत्र क्षेत्राख्याद्याक्षरं स्थितम् । मुखं तत् तस्य जानीयात् इति ॥३७॥
क्वचिच् च—
स्वर-युग्मं क्रमेणैव ऐन्द्राद्य् अष्टसु दिक्षु च ।
कादीन् वर्गान् क्षमैशान्यान् तथा मध्य-स्थलाधिपम् ॥३८॥
केषाञ्चिन् मते क्षेत्राधिपस्य नामाद्याक्षरम् इति मतान्तरं दर्शयन् हस्तादि-विभागं तत्-तत्-फलादिकं च लिखति स्वर-युग्मम् इति पञ्चभिः । कादींश् च वर्गान् क्रमेणैवेन्द्राद्य्-अष्ट-दिक्षु लिखेत् । क्ष-कारं च ऐशन्यां दिशि । स्थलाधिपञ्चाधिष्ठातारं मध्ये कोष्ठे लिखेत् ॥३८॥
तन्-नामाद्याक्षरं यत्र कूर्मास्यं तच् च दीपकम् ।
तत्-पार्श्व-कोष्ठौ हस्तौ द्वाव् अधो’धः कुक्षि-पादकौ ॥३९॥
तस्य स्थाधिपस्य यन् नाम, तद्-आद्याक्षरम् यत् स्यात् तत् कूर्मस्यास्यं, तच् च दीपकं दीप-स्थानम् इत्य् अर्थः । तथा चोक्तम्—
युग्मं स्वराणां क्रमतो विलिख्य कादींश् च वर्गान् क्रमतः क्षमीशे । स्थानाधिपस्याक्षरम् अस्ति यन् न तं दीपदेशं मुनयो वदन्ति ॥ इति ॥३९॥
शेष-कोष्ठं भवेत् पुच्छं मुखे सिद्धिर् अनुत्तमा ।
कर-स्थाने महा-क्लेशः कुक्षौ दुःखम् अवाप्नुयात् ॥४०॥
पादे हानिस् तथा पुच्छे पीडा स्याद् बन्धनानि च ।
दीप-स्थाने जपः कार्यः सर्व-कार्यम् अभीप्सुभिः ॥४१॥
कूर्म-वक्रम् अविज्ञाय यः कुर्याज् जप-सञ्ज्ञकम् ।
तस्य जप्य-फलं नास्ति सर्वारथाय कल्पते ॥४२॥
अथ भक्ष्य-नियमः
तन्त्रे—
शाकं मूलं फलं वापि गव्यं क्षीरं च वा दधि ।
साधुभ्यो भक्ष्यम् अन्नं वा शक्तवः पायसं हि वा ॥४३॥
शक्तवो यव-निर्मिता ज्ञेयाः । तथा च शारदा-तिलके—
भैक्ष्यं हविष्यं शाकानि विहितानि फलं पयः । मूलं शक्तुर् यवोत्पन्नो भक्ष्याण्य् एतानि मन्त्रिणाम् ॥ इति ।
क्वचिच् च—
वैदिकाचार-युक्तानां शुचीनां श्रीमतां सताम् ।
सत्-कुल-स्थान-जातानां भिक्षा-शीलो’ग्र-जन्मनाम् ॥४४॥
भुञ्जानो वा हविष्यान्नं शाकं यावकम् एव वा ।
पयो मूलं फलं वापि यद् यद् यत्रोपपद्यते ॥४५॥
उक्तानां मध्ये यद्-यद्-द्रव्यम् अनायासेन यत्रोपपद्यते । तद् एव वा भुञ्जानः ॥४५॥
नारद-पञ्चरात्रे—
मृदु कोष्णं सुपक्वं च कुर्याद् वै लघु-भोजनम् ।
नेन्द्रियाणां यथा वृद्धिस् तथा भुञ्जीत साधकः ॥४६॥
किं च—
ब्रह्म-पत्रे चभुञ्जीत मध्य-पत्र-विवर्जिते ।
दक्षं ब्रह्मोत्तरं विष्णुर् मध्य-पत्रं महेश्वरः ॥४७॥
ब्रह्म पलाश-वृक्षस् तस्य पत्रे । पत्रेष्व् इति पाठे मध्य-पत्रं विवर्जयेद् इति पाठः । दक्षं दक्षिण-पत्रम् । उत्तरं वाम-पत्रम् ॥४७॥
अथावश्य-वर्ज्यानि
संहितासु—
मधु मांसं तथा क्षार-लवणं तैलम् एव च ।
स्विन्नं पर्युषितं चैव निःस्नेहं कीट-दूषितम् ॥४८॥
काञ्जिकं गृञ्जनं बिल्वं कलञ्जं लशुनम् बिसम् ।
मसूरं कोद्रवं माषं मण्डुकं चणकादिकम् ।
ताम्बूलं कांस्य-पात्रं च दिवाभोजनम् एव च ॥४९॥
निःस्नेहं रुक्षम् ॥४८॥ विषम् इति मूर्धन्य् अन्त-पाठे औषधादि-प्रयुक्तम् अपि । आदि-शब्देन राज-माषादि ॥४९॥
किं च—
असत्-सङ्गं परान्नं च वर्जयेद् अन्य-पूजनम् ।
विना कर्मोचितं नित्यम् अथ नैमित्तिकं चरेत् ॥५०॥
उचितं निज-वर्णाश्रम-योग्यं । नित्यं नैमित्तकं च यत् कर्म । तद् विनान्यत् काम्यं वर्जयेद् इत्य् अर्थः ॥५०॥
स्त्री-शूद्र-पतित-व्रात्य-नास्तिकोच्छिष्ट-भाषणम् ।
असत्य-भाषणं जैह्म्य-भाषणं च परित्यजेत् ॥५१॥
सत्येनापि न भाषेत जप-होमार्चनादिषु ।
वर्जयेद् गीत-वाद्यादि-श्रवणं नृत्य-दर्शनम् ॥५२॥
अभ्यङ्गं गन्ध-लेपं च पुष्प-धारणम् एव च ।
मैथुनं तत्-कथालापं तद्-गोष्ठीं परिवर्जयेत् ॥५३॥
आस्नातांश् च द्विजान् शूद्रान् स्त्रियो नैव स्पृशेत् तथा ।
त्यजेद् उष्णोदक-स्नानम् अनिवेदित-भोजनम् ॥५४॥
किं च—
विहाय वह्निं न हि वस्तु किञ्चिद्
ग्राह्यं परेभ्यः सति सम्भवे च ।
असम्भवे तीर्थ-बहिर्-विशुद्धात्
पर्वातिरिक्ते प्रतिगृह्य जप्यात् ॥५५॥
तत्रासमर्थो’नुदिनं विशुद्धाद्
याचते यावद् दिन-मात्र-भक्ष्यम् ।
गृह्णाति रागाद् अधिकं न सिद्धिः
प्रजायते कल्प-शतैर् अमुष्य ॥५६॥
अथ कृत्यानि
वैशम्पायन-संहितायाम्—
स्नानं त्रिसवनं प्रोक्तम् अशक्तौ द्विः सकृत् तथा ।
अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ॥५७॥
शयीत दर्भ-शय्यायां शुचिः प्रयत-मानसः ।
तद्-वासः क्षालयेन् नित्यम् अन्यथा विघ्नम् आवहेत् ॥५८॥
तद्-वासः शयन-वासः । यद् वा, येन वाससा जप्तं तत् ॥५८॥
किं चान्यत्र—
मन्त्रं साधयमानस् तु त्रिसन्ध्यं देवम् अर्चयेत् ।
द्वि-सन्ध्यम् एक-सन्ध्यं वा न मन्त्रं केवलं जपेत् ॥५९॥
एक-ग्राम-स्थितो नित्यं गत्वा वन्देत स्वं गुरुम् ।
नित्यं नैमित्तिकं कुर्यात् सङ्गमं साधुभिः सदा ॥६०॥
स्नायाच् च पञ्च-गव्येन केवलामलकेन वा ।
श्रुति-स्मृति-पुराणोक्त-मन्त्रैः स्नायाद् अनन्तरम् ॥६१॥
किं च—
ग्रास-दानादिना कुर्वन् गवां शुश्रूषणं सदा ।
भूतानुकम्पी प्रजपेत् शुभ्र-पद्माक्ष-मालया ॥६२॥
पञ्च-विंशति-बारांश् च प्रजप्तेन स्व-मन्त्रतः ।
शिरोम्भसाभिषिञ्चेत् त्रिः स्नान-काले निजं बुधः ॥६३॥
पञ्चविंशति-वारान् स्व-मन्त्रतो निज-मन्त्रेण जप्तम् अभिमन्त्रितं यद्-अम्भो जलं तेन निज-शिरो वार-त्रयम् अभिषिञ्चेत् ॥६३॥
तथैवाचमनं कुर्याद् भोजनावसरे’पि च ।
अन्नं च सप्त-कृत्वस् तन्-मन्त्र-जप्तं हि भक्षयेत् ॥६४॥
तथैवेति । पञ्चविंशति-वार-स्व-मन्त्र-जप्तेन जलेन स्नान-काले भोजन-काले चाचमनं कुर्याद् इत्य् अर्थः । तेन स्वकीयेन मन्त्रेण जप्तम् । तथा च क्रम-दीपिकायाम् (५.४)—
कुर्वन्न् आत्मीयं कर्म वर्णाश्रम-स्थं मन्त्रं जप्त्वा त्रिः स्नान-काले’भिषिञ्चेत् । आचामन् पाथस्-तत्त्व-सङ्ख्या-प्रजप्तं भुञ्जानश् चान्नं सप्त-जप्ताञ्चनादि ॥ इति ॥६४॥
यस्य देवे च मन्त्रे च गुरौ त्रिष्व् अपि निश्चला
न व्यवच्छिद्यते बुद्धिस् तस्य सिद्धिर् अदूरतः ॥६५॥
मन्त्रात्मा देवता ज्ञेया देवता गुरु-रूपिणी
तेषां भेदो न कर्तव्यो यदीच्छेद् इष्टम् आत्मनः ॥६६॥
न व्यवच्छिद्यते न भिद्यते ॥६५॥ मन्त्रात्मा मन्त्रात्मिका ॥६६॥
अथासन-नियमः
सर्व-सिद्ध्यै व्याघ्र-चर्म ज्ञान-सिद्ध्यै मृगाजिनम् ।
वस्त्रासनं रोग-हरं वेत्रजं श्री-विवर्धनम् ।
कौशेयं पौष्टिकं प्रोक्तं कम्बलं दुःख-मोचनम् ॥६७॥
अभिचारे कृष्ण-वस्त्रं रक्तं वश्यादि-कर्मणि ।
शान्तिके धवलं प्रोक्तं विचित्रं सर्व-कर्मसु ॥६८॥
कर्म-विशेषे वस्त्रादीनां वर्ण-विशेषं लिखति—अभिचार इति । विचित्रं विविध-वर्णम् ॥६८॥
किं च—
कुशाजिनाम्बरेणाढ्यं चतुरस्रं समन्ततः ।
एक-हस्तं द्वि-हस्तं वा चतुरङ्गुलम् उच्छ्रितम् ॥६९॥
अथ जप-माला
वाराहे—
यस् तु भागवतो भूत्वा न गृह्णाति गणित्रिकाम् ।
आसुरी तस्य दीक्षा तु न सा धर्माय विद्यते ॥७०॥
गण्यते’नयेति गणयित्रिका जप-माला, ताम् ॥७०॥
गणित्रिकां गृहीत्वा यो मन्त्रं चिन्तयते बुधः ।
जन्मान्तर-सहस्राणि चिन्तितो’हं च तेन वै ।
माङ्गल्या कुशला सिद्धा सर्व-संसार-मोक्षनी ॥७१॥
तेनाहं चिन्तितो भवामि, सिद्धो सिद्ध-करीत्य् अर्थः ॥७१॥
अथ माला-मणि-निर्णयस् तत्-परिमाणादि च
तत्रैव—
परिमाणं तु वक्ष्यामि शृणु तत्त्वेन माधवि ।
उत्तमा मध्यमा चैव कन्यसी तु गणित्रिका ॥७२॥
माधवि हे धरणि ! कन्यसी कनीयसी ॥७२॥
अष्टोत्तर-शतैः पूर्वा पञ्चाशद्भिस् तु मध्यमा ।
कन्यसी पञ्च-विंशत्या परिमाणं विधीयते ॥७३॥
अष्टोत्तर-शत-मणिभिः पूर्वा उत्तमा ॥७३॥
**रुद्राक्षैश् चोत्तमां तां च पुत्र-जीवैश् च मध्यमाम् ।
कुशैः कनीयसीं विद्याद् एतत् ते कथितं मया ॥७४॥ \
**तत्रापि मणि-भेदेन त्रिविधत्वम् आह—रुद्राक्षैर् इति । पुत्रञ्जीवैर् इति सानुनासिकं च क्वचित्॥७४॥
श्री-नारद-पञ्चरात्रे—
अष्टोत्तर-शतं पूर्णं तद् अर्धं पदम् एव वा ।
कुर्यात् तत्र विधानोक्तं विधिना सर्व-कर्मसु ॥७५॥
हारीत-स्मृतौ—
शङ्ख-रूप्य-मयी माला काञ्चनी नीरजोत्पलैः ।
पद्माक्षैश् चापि रुद्राक्षैर् विद्रुमैर् मणि-मौक्तिकैः ॥७६॥
नीरजानि पद्मानि । उत्पलानि च कुमुदानि, तैः । तथा चोक्तं—
रुद्राक्ष-शङ्ख-पद्माक्ष-पुत्रजीवक-मौक्तिकैः । स्फटिकैर् मणिरत्नैश् च सौवर्णैर् विद्रुमैस् तथा ॥
कुशैः पद्मैर् द्वादश स्युर् गृहस्थस्याक्ष-मालिका ॥ इति ॥७६॥
निर्मितेन्द्राक्षकैर् माला तथैवाङ्गुलि-पर्वभिः ।
पुत्र-जीव-मयी माला सा शस्ता जप-कर्मणि ॥७७॥
गौतमीये—
**अथामलक-सम्भूतैस् तुलसी-काष्ठ-निर्मितैः ॥७८॥ **इति ।
आगमे च—
आदिक्षान्तार्ण-योगत्वाद् अक्षमालेति कीर्तिता ।
तद्-धर्ण-सङ्ख्यैर् मणिभिर् जप-मालां प्रकल्पयेत् ॥७९॥
आदिक्षान्तानाम् अ-कारादि-क्स-कारावसानानां अर्णानां मातृका-वर्णानां योगत्वात् नियोजनीयत्वात् गणनीयत्वाद् वा । तद्-वर्ण-सङ्ख्यैः पञ्चाशद्भिर् इत्य् अर्थः । क्ष-कारस्य मेरुत्वेन कल्पनीयत्वात् ॥७९॥
किं च—
अनुलोम-विलोमार्णैर् मातृकायाः स-बिन्दुकैः ।
क्षमेरुकैः काष्टवर्गैर् माला स्याद् योगिनां शुभा ॥८०॥
मुख्यतमाम् अक्षमालाम् आह—अनुलोमेति ॥८०॥
अथ मालानां मणि-विशेषेण वैशिष्ठ्यम्
आग्नेये—
हिरण्य-शङ्ख-मणिभिर् जप्यं शत-गुणं भवेत् ।
सहस्र-गुणम् इन्द्राक्षैः पद्माक्षैर् अयुतं भवेत् ॥८१॥
हिरण्य-शङ्खयोर् मणिभिर् जप्यं जप इत्य् अर्थः ॥८१॥
नियुतं चापि रुद्राक्षैर् भद्राक्षैश् च न संशयः ।
पुत्त्र-जीवक-जप्यस्य परिसङ्ख्या न विद्यते ॥८२॥
भद्राक्षैर् इति रुद्राक्ष-विशेषणं फल-विशेषैर् वा ॥८२॥
शिव-पुराणे—
अङ्गुल्या परिसङ्ख्यानम् एवम् एवम् उदाहृतम् ।
रेखयाष्ट-गुणं विद्यात् पुत्त्रजीवैर् दशाधिकम् ॥८३॥
रेखया रेखान्तरिताङ्गुलि-पर्वणेत्य् अर्थः । भूमि-लिखिताङ्केन वा । अङ्गुलीभिर् जपस्य सङ्ख्यानं गणनम् ॥८३॥
शतं स्याच् छङ्ख-मणिभिः प्रवालैश् च सहस्रकम् ।
स्फाटिकैर् दश-साहस्रं मौक्तिकैर् लक्षम् उच्यते ॥८४॥
पद्माक्षैर् दशलक्षं तु राजतेः कोटिर् उच्यते ।
सौवर्णः सा दशगुणा सर्वैर् दश-गुणा स्मृता ॥८५॥
सा कोटिर् दश-गुणा दश-कोटय इत्य् अर्थः । सर्वैः पुत्रजीवादिभिः सौवर्णान्तैर् दश-गुणा दश-कोटि-गुणिता । यद् वा, सौवर्णेभ्यो दश-गुणेति दश-कोटि-गुणेति ज्ञेयम् । एवं मत-भेदश् च मन्त्र-भेदेन का#अ-फलादिभेदेन च । एवम् अन्यत्राप्य् ऊह्यम् इति पूर्व-लिखितम् एव ॥८५॥
**कुश-ग्रन्थ्या च रुद्राक्षैर् अनन्त-गुणितं फलम् ।
श्वेत-पद्माक्ष-मालाभिर् अपि स्याद् अमितं फलम् ।
मातृकं वर्ण-सम्भूत-मालायां तु तद् एव हि ॥८६॥
अथ माला-निर्माण-विधिः **
शिवागमे—
मुखे मुखं प्रकर्तव्यं मुखं मूले विवर्जयेत् ।
धात्री-फल-प्रमाणेन श्रेष्ठम् एतद् उदाहृतम् ॥८७॥
एतत् मालाया अक्षम् ॥८७॥
बदराण्ड-प्रमाणेन गद्यते मध्यमाधमे ।
नवत्रि-तन्तुना चैतद् ग्र्नथनीयम् असंस्पृशत् ।
ऊर्ध्व-वक्त्रं च मेर्व्-आख्यं कर्तव्यं तन् न लङ्घयेत् ॥८८॥
बदरस्याण्डं बीजं तत्-प्रमाणेन चेत्य् अर्थः । क्रमान् मध्यमम् अधमं चोदाहृतम् । पाठान्तरे—बदर-फलस्य तद्-अण्डस्य च प्रमाणेन क्रमान् मध्यमाधमे गणिते । नवेन नूतनेन, त्रि-तन्तुना त्रिगुणीकृत-सूत्रेणेत्य् अर्थः । यद् वा, नवेति नव-सङ्ख्या-प्राप्तेन तन्तु-त्रयेण प्रथमं त्रिगुणीकृत्य पश्चाच् च त्रिगुणीकृत्य नव-गुणीकृतेन सूत्रेणेत्य् अर्थः । त्रिगुणं त्रिगुणीकृत्येत्य् अग्रे लेख्यत्वात् । असंस्पृशत् अन्यो’न्यं स्पर्शम् अप्राप्नुवत् सत्, एतत् अक्षं ग्रन्थनीयं, प्रत्येक-मध्ये ब्रह्म-ग्रन्थिर् विरचनीय इत्य् अर्थः ॥८८॥
श्री-नारद-पञ्चरात्रे च—
अक्षास्थिमात्रैर् मणिभिर् ज्यैष्ठं कुर्यात् वार्तुलम् ।
धात्री-फलानां गर्भेण प्रमाणं मध्यमं स्मृतम् ।
वदरास्थि-प्रमाणेन कन्यसं समुदाहृतम् ॥८९॥
अक्षं रुद्राक्षं विभीतकं वा तद्-अस्थि-प्रमाणैः । कन्यसं कनीयसं ॥८९॥
किं च—
ग्रन्थि-बन्धावधौ तत्र मणि-सङ्ख्याधिकं द्विजाः ।
मेरुं प्रकल्पयेन् मध्ये एकेन गुणकेन तु ॥९०॥
ग्रन्थि-बन्धस्य वधौ अन्ते ।
शिवागमे तत्रैव रुद्राक्षान् उद्दिश्य—
एक-वक्त्रैस् त्रिवक्त्रैश् च चतुर्-वक्त्रैश् च पञ्चभिः ।
षड्-वक्त्रैर् वाथ कर्तव्यं मिथो मिश्रांस् तु वर्जयेत् ॥९१॥
किं चान्यत्र—
कृत-नित्य-क्रियः शुद्ध उक्तेष्व् अक्षेषु मन्त्रवित् ।
यथाकामं यथालाभम् अक्षाण्य् आनीय यत्नतः ॥९२॥
अन्योन्य-सम-रूपाणि नातिस्थूल-कृशानि च ।
कीटादिभिर् अदुष्टानि अजीर्णानि नवानि च ॥९३॥
ग्रन्थैस् तु पञ्चभिस् तानि प्रक्षाल्य तु पृथक् पृथक् ।
ततो द्विजेन्द्र-पुण्य-स्त्री-निर्मितं ग्रन्थि-वर्जितम् ॥९४॥
त्रि-गुणं त्रि-गुणीकृत्य सूत्रं प्रक्षाल्य पूर्ववत् ।
शुक्लं रक्तं तथा कृष्णं शान्ति-वश्याभिचारिके ॥९५॥
सूत्रं संस्थापयेद् विद्वान् पट्ट-सूत्रम् अथापि वा ।
अश्वत्थ-पत्रैर् नवकैः पद्माकारेण कल्पितैः ।
सूत्रं मणींश् च गन्धाद्भिः क्षालितांस् तत्र निक्षिपेत् ॥९६॥
नवकैर् नूतनैर् अश्वत्थ-पत्रैः सहितम् । गन्धाद्भिर् अश्वत्थस्य पत्राण्य् अपि क्षालयेद् इत्य् अर्थः । तत्र पद्माकार-कल्पिताश्वत्थ-पत्रेषु ॥९६॥
तारं शक्तिं मातृकां च सूत्रे चैव मणिष्व् अथ ।
विन्यस्य पूजयेद् आदौ जुहुयाच् चैव शक्तितः ॥९७॥
तारं प्रणवम् । शक्तिं माया-बीजम् ॥९७॥
होम-कर्मण्य् अशक्तश् चेद् द्विगुणं जपम् आचरेत् ।
मणिम् एकैकम् आदाय सूत्रे च योजयेत् सुधीः ॥९८॥
मुखे मुखं तु संयोज्य पुच्छे पुच्छं तु योजयेत् ।
गो-पुच्छ-सदृशी कार्या यद् वा सर्पाकृतिः शुभा ॥९९॥
तत्-सजातीयम् एकाक्षं मेरुत्वेनाग्रतो न्यसेत् ।
एकैक-मणि-मध्ये तु ब्रह्म-ग्रन्थिं प्रकल्पयेत् ।
जप-मालां विधायेत्थं तत्-संस्कारान् समाचरेत् ॥१००॥
अथ माला-संस्कारः
शिवागमे—
क्षालयेत् सद्यो-जातेन वाम-देवेन घर्षयेत् ।
धूपयेद् अप्य् अघोरेण लेपयेत् पुरुषेण तु ॥१०१॥
क्षालयेत् पञ्च-गव्येनोत्तम-जलेन च प्रक्षालयेत् । तद् उक्तं—क्षालयेत् पञ्च-गव्येन सद्यो-जातेन सज्जलैः । इति । सद्योजातादिकं प्रायो मन्त्राद्य-वर्णैर् मन्त्र-नाम—ओं सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नाभिभवे भजस्व मां भवोद्भवाय नमः । घर्षयेच् चन्दनादिभिः । तथा चोक्तं—चन्दनागुरु-गन्धाद्यैर् वामदेवेन घर्षयेत् । ओं वामदेवाय नमो ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कल-विकरणाय नमो बल-विकरणाय नमो बलाय नमो बल-प्रमथनाय नमः सर्व-भूत-दमनाय नमो मनोन्मनाय नमः । ओं अघोरेभ्यो’थ घोरेभ्यो घोर-घोरतरेभ्यः सर्वतः सर्व-सर्वेभ्यो नमस् ते अस्तु रुद्र-रूपेभ्यः शिवेभ्यः । लेपयेच् चन्दनादिना—ओं तत्-पुरुषाय विद्महे महादेवाय धीमहि तन् नो रुद्रः प्रचोदयात्॥१०१॥
मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु शतं शतम् ।
मेरुं च पञ्चमेनैव तथाघोरेण मन्त्रयेत् ॥१०२॥
पञ्चमश् चायं—ओं ईशानः सर्व-विद्यानाम् ईश्वरः । सर्व-भूतानां ब्रह्माधिपतिर् ब्रह्मणो’धिपतिर् ब्रह्मा शिवो मे’स्तु सदा-शिवोम् इति । ननु मन्त्रेण द्रव्याभिमन्त्रणस्य सङ्ख्यादि-नियमः सर्वत्र श्रूयते, तद् अत्र कथं मन्त्रयेद् इत्य् अपेक्षायाम् आह—प्रत्येकम् एकैक-मणिं शतं शतं वारान् मन्त्रयेद् इति । केचिच् च क्षालनादिकम् अपि तत्-तन्-मन्त्रेण प्रत्येकं मणिं शतं वारान् कुर्याद् इत्य् आहुः । केचित् तु सद्योजातादि-मन्त्रानाम् एकैकं मन्त्रं क्षालनादि-कर्मणि वार-शतं पठेद् इति व्याचक्षते । अत्र च यथा-सम्प्रदायं व्यक्त-हर्तव्यम् इति दिक् ॥१०२॥
मुद्राष्टकं दर्शयित्वा प्रत्येकं पूजयेत् क्रमात् ।
ग्रथितं पञ्चभिः पूज्य पूर्ववच् च यथा-शिरः ॥१०३॥
मुद्राष्टकम् आवाहनादिकम् । संस्कृत्यैव बुधो मालां तत्-प्राणान् स्थापयेत् ततः इत्य् उक्तेः। पूजा पूजयित्वा यथा-शिरः मस्तक-क्रमेण ग्रथितम् । माला च प्रथमं स्व-गुरु-हस्ताद् एव ग्राह्या । गुरुं सम्पूज्य तद्-धस्ताद् गृह्णीयात् सर्व-सिद्धये इति तन्त्रोक्तेः ॥१०३॥
अथ माला-भेदेनाधिकारि-भेदः
नारद-पञ्चरात्रे—
कुश-पत्रैर् जपेद् विप्रः सुवर्ण-मणिभिर् नृपः ।
पुत्त्र-जीव-फलैर् वैश्यः पद्माक्षैः सर्व एव च ॥१०४॥
मोक्षार्थी पञ्चविंशत्या धनार्थी त्रिंशता जपेत् ।
पुष्ट्य्-अर्थी स्पतविंशत्या न पञ्चदशभिः क्वचित् ॥१०५॥
जपस्य गणनां चाहुः पद्माक्षैर् भक्ति-वर्धनैः ।
अथाङ्गुलीभिर् एवापि जपम् अन्वहम् आचरेत् ॥१०६॥
भक्ति-वर्धनैर् इति भगवद्-भक्त्य्-अर्थी पद्माक्षैर् जपेद् इत्य् अर्थः ॥१०६॥
किं चान्यत्र—
रुद्राक्ष-मालिका-सूत्रे जपेन स्व-मनोरथान् ।
पद्माक्षैर् विहिता माला शत्रूणां नाशिनी मता ॥१०७॥
कुश-ग्रन्थ-मयी माला सर्व-पाप-विनाशिनी ।
पुत्त्रजीव-फलैः कॢप्ता कुरुते पुत्त्र-सम्पदः ॥१०८॥
कॢप्ता रचिता ॥१०८॥
निर्मिता रूप्य-मणिभिर् जप-मालेप्सित-प्रदा ।
हिरण्मयैर् विरचिता माला कामान् प्रयच्छति ॥१०९॥
प्रवालैर् विहिता माला प्रयच्चेत् पुष्कलं धनम् ।
सौभाग्यं स्फाटिकी माला मौक्तिकैर् विहिता श्रियम् ॥११०॥
निर्मिता शङ्ख-मणिभिः कुरुते कीर्तिम् अक्षयाम् ।
सर्वैर् एतैर् विरचिता माला स्यान् मुक्तये नॄणाम् ॥१११॥
किं च—
तुलसी-काष्ठ-घटितैर् मणिभिर् जप-मालिका ।
सर्व-कर्माणि सर्वेषाम् ईप्सितार्थ-फल-प्रदा ॥११२॥
गौतमीये—
पुण्डरीक-भवा माला गोपाल-मनु-सिद्धिदा ।
आमलक्या भवा माला सर्व-सिद्धि-फल-प्रदा ।
तुलसी-सम्भवा या तु सा मोक्षं तनुते’चिरात् ॥११३॥
अथ जपाङ्गुल्य्-आदि-निर्णयः
शिवागमे—
अनामा-मध्यमाक्रम्य जपं कुर्यात् तु मानसम् ।
मध्यमामध्यमाक्रम्य जपं कुर्याद् उपांशुकम् ।
तर्जनीं तु समाक्रम्य जपं नैव तु कारयेत् ॥११४॥
एकैक-मणिम् अङ्गुष्ठेनाकर्षन् प्रजपेन् मनुम् ।
मेरौ तु लङ्घिते देवि न मन्त्र-फल-भाग् भवेत् ॥११५॥
अन्यत्र च—
तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् ।
अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत् ॥११६॥
साङ्गुष्ठाभिर् अङ्गुलीभिः । अत्र हेतुः—अङ्गुष्ठेनेति ॥११६॥
कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रो ’ङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका ॥११७॥
तिस्रः कनिष्ठानामिका-तर्जन्यः ॥११७॥
पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् ।
एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम् ॥११८॥
एवं मध्यमा-पर्व-द्वयम् ॥११८॥
आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् ।
तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु ॥११९॥
दशसु पर्वसु गणयेद् इति शेषः ॥११९॥ \
अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥१२०॥
क्वचिच् च—
आरभ्यानामिकामूलात् प्रादक्षिण्य्न वै क्रमात् ।
मध्यमामूल-पर्यन्तं जपेद् दशसु पर्वसु ॥१२१॥
गौतमीये—
आरभ्यानामिका-मूलात् परिवर्तेत वै क्रमात् ।
तर्जनी-मध्य-पर्यन्तं जपेद् दशसु पर्वसु ॥१२२॥
आरभ्यानामिका-मध्याद् इत्य् अत्र मतान्तरम् आरभ्यानामिका-मूलाद् इति ॥१२२॥
अथ मालाया नियमान्तरम्
तर्जन्या न स्पृशेत् सूत्रं कमप्येन् न विधूनयेत् ।
अङ्गुष्ठ-पर्व-मध्यस्थं परिवर्तं समाचरेत् ॥१२३॥
सूत्रम् इति मालाम् इत्य् अर्थः । न कम्पयेत् । नो विधूनयेच् च न प्रक्षिपेत् ॥१२३॥
किं च—
न स्पृशेद् वाम-हस्तेन कर-भ्रष्टां न कारयेत् ॥१२४॥
किं च—
अशुचिर् न स्पृशेद् एनां कर-भ्रष्टां न कारयेत् ।
अङ्गुष्ठ-स्थाम् अक्ष-मालां चालयेन् मध्यम् अग्रतः ॥१२५॥
तर्जन्या न स्पृशेत् सो’यं मुक्तिदो गणन-क्रमात् ।
भुक्तौ मुक्तौ तथा कृष्टो मध्यमायां जपेत् सुधीः ॥१२६॥
अङ्गुष्ठानामिकभ्यां तु जपेद् उत्तम-कर्मणि ।
तर्जनयङ्गुष्ठ-संयोगाद् विद्वेषोच्चाटने जपेत् ।
कनिष्ठाङ्गुष्ठ-संयोगाज् जपेन् मारण-कर्मणि ॥१२७॥
उत्तम-कर्मणि शान्ति-स्वस्त्ययनादौ । विद्वेषे उच्चाटने च ॥१२७॥
क्वचिच् च—
अङ्गुष्ठं मोक्षदं विद्यात् तर्जनीं शत्रु-नाशिनीम् ।
मध्यमा धन-सिद्ध्यै स्याच् छान्ति-कर्मण्य् अनामिका ।
कनिष्ठा-कर्षणे ज्ञेया जप-कर्मणि सिद्धिदा ॥१२८॥
तत्रैव मतान्तरं लिखति—अङ्गुष्ठम् इति । आकर्षणे आकृष्टि-कर्मणि ॥१२८॥
**अथ जप-गुणाः **
मन्त्रार्णवे—
मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम् ।
अव्यग्रत्वम् अनिर्वेदो जप-सम्पत्ति-हेतवः ॥१२९॥
मनसः संहरणं विषयेभ्यः प्रत्याहारः ॥१२९॥
अन्यत्र च—
जपान्य-काले मालां तु पूजयित्वा सुगोपयेत् ।
गुरुं प्रकाशयेद् विद्वान् मन्त्रं नैव प्रकाशयेत् ॥१३०॥
जपाद् अन्यस्मिन् काले । गुरुम् अपि प्रकाशयेत् ॥१३०॥
अक्ष-मालां च मुद्रां च गुरोर् अपि न वर्शयेत् ।
भूत-राक्षस-वेतालाः सिद्ध-गन्धर्व-चारणाः ।
हरन्ति प्रकटं यस्मात् तस्माद् गुप्तं जपेत् सुधीः ॥१३१॥
गुरोः गुरुं प्रत्य् अपि ॥१३१॥ \
**अथ जपे दोषाः **
नारद-पञ्चरात्रे—
अपवित्र-करो नग्नः शिरसि प्रावृतो’पि वा ।
प्रलपन् वा जपेद् यावत् तावन् निष्फलम् उच्यते ॥१३२॥
अपवित्रः कुश-हीनः करो यस्य सः ॥१३२॥
किं च—
वदन् न गच्छन् न स्वपन् नान्यत् किम् अपि संस्मरन् ।
न क्षुज्-जृम्भण-हिक्कादि-विकलीकृत-मानसः ।
मन्त्र-सिद्धिम् अवाप्नोति तस्माद् यत्न-परो भवेत् ॥१३३॥
किं च—
स्त्री-शूद्राभ्यां न भाषेत रात्रौ जप-परो न च ॥१३४॥
व्यास-स्मृतौ—
अङ्गुल्य्-अग्रेषु यज् जप्तं यज् जप्तं मेरु-लङ्घने ।
असङ्ख्यातं च यज् जप्तं तत् सर्वं निष्फलं भवेत् ॥१३५॥
वैशम्पायन-संहितायाम्—
नैकवासा जपेन् मन्त्रं बहु-वस्त्राकुलो न च ।
उपर्य् अधो बहिर् वस्त्रे पुरश्चरण-कृत् त्यजेत् ॥१३६॥
उपरि अधश् च ये बहिर् वस्त्रे परिधानोत्तरीय-व्यतिरिक्तं वस्त्र-द्वयं ते त्यजेत् ॥१३६॥
अत एव मन्त्रार्णवे—
उष्णीषी कञ्चुकी नग्नो मुक्त-केशो गलावृतः ।
अपवित्र-करो’शुद्धः प्रलपन् न जपेत् क्वचित् ॥१३७॥
गले आवृतः वस्त्रादि-प्रावृतः, अशुद्धः शौचादि-रहितः ॥१३७॥
अप्रावृत-करो भूत्वा शिरसि प्रावृतो’पि च ।
चिन्ता-व्याकुल-चित्तो वा क्रुद्धो भ्रान्तः क्षुधान्वितः ॥१३८॥
अनाशनः शयानो वा गच्छन्न् उत्थित एव वा ।
रथ्यायाम् अशिवे स्थाने न जपेत् तिमिरान्तरे ॥१३९॥
अशिवे अमङ्गले स्थाने श्मशानादौ, यच् च प्रेत-भूम्य्-आदिकम् इति स्थान-नियमे लिखितं, तच् च तामसानां दुष्काम-विशेषोपेक्षया । तिमिरस्य अन्धकारस्य अन्तरे मध्ये ॥१३९॥
उपानद्-गूढ-पादो वा यान-शय्या-गतस् तथा ।
प्रसार्य न जपेत् पादाव् उत्कटासन एव वा ॥१४०॥
यान-गतः शय्या-गतो वा ॥१४०॥
याज्ञवल्क्य-संहितायाम्—
न चङ्क्रमन् न च हसन् न पार्श्वम् अवलोकयन् ।
नापाश्रितो न जल्पंश् च न प्रावृत-शिरास् तथा ॥१४१॥
चङ्क्रमन्न् इतस् ततो भ्रमन्, अपाश्रितः किञ्चिद् अवष्टब्धवान् सन् ॥१४१॥
न पदा पदम् आक्रम्य न चैव हि तथा करौ ।
न चासमाहितमना न च संशयानो जपेत् ॥१४२॥
न च करौ आक्रम्य संशयानः संशयं कुर्वन् ॥१४२॥
ध्यायेत मनसा मन्त्रं जिह्वोष्ठौ न तु चालयेत् ।
न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् ॥१४३॥
ग्रीवां च न कम्पयेत् ॥१४३॥
यक्ष-राक्षस-भूतानि सिद्ध-विद्याधरा गणाः ।
हरन्ति प्रसभं यस्मात् तस्माद् गुप्तं समाचरेत् ॥१४४॥
एवं सर्वथा जपं नैव प्रकाशयेद् इत्य् अभिप्रेतं, तत्र हेतुम् आह—यक्षेति ॥१४४॥
स्त्री-शूद्र-पतितांश् चैव रासभं च रजस्वलाम् ।
जप-काले न भाषेत व्रत-होमादिकेषु च ॥१४५॥
त्रैलोक्य-सम्मोहन-तन्त्रे च—
न च्छायाम् आक्रमेद् विद्वान् विभीतक-करञ्जयोः ।
न दद्यात् कस्यचित् किञ्चिन् न गृह्णीयाज् जपान्तरे ॥१४६॥
अथ दोष-प्रायश्चित्तानि
तत्रैव—
तूष्णीम् आसीत सञ्जल्पश् चाण्डाल-पतितादिकान् ।
दृष्ट्वा तान् वार्य्-उपस्पृश्याभाष्य स्नात्वा पुनर् जपेत् ।
आचम्य पयतो नित्यं जपेद् अशुचि-दर्शने ॥१४७॥
आभाष्य सम्भाष्य, अशुचीनां मल-मूत्रादीनां दर्शने सति ॥१४७॥
किं च—
यदि वा यम-लोपः स्याज् जपादिषु कथञ्चन ।
व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥१४८॥
यमः जप-विषयक-नियमस् तस्य लोपो भङ्गः । वाम्यम् एति पाठे मोनलोपः । मन्त्रं नामात्मकं विष्णु-मन्त्रान्तरं वा ॥१४८॥
मन्त्रार्णव—
पतितानाम् अन्त्यजानां दर्शने भाषणे श्रुते ।
क्षुते’धो-वायु-गमने जृम्भणे जपम् उत्सृजेत् ॥१४९॥
भाषणे सम्भाषणे । श्रुते च श्रवणे सति । यद् वा, भाषणे च वचने श्रुते सति । अशुभ इति पाठे दर्शनादीनां सर्वेषाम् एव विशेषणम् । उत्सृजेद् इत्य् अत्र हेतुत्वेन ॥१४९॥
प्राप्ताव् आचम्य चैतेषां प्राणायमं षड्-अङ्गकम् ।
कृत्वा सम्यग् जपेच् छेयं यद् वा सूर्यादि-दर्शनम् ॥१५०॥
एतेषां पतितान्त्यज-दर्शनादीनां प्राप्तौ सत्यां प्राणायामं षड्-अङ्ग-न्यासं च कृत्वा॥१५०॥
मार्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं खरं कपिम् ।
दृष्ट्वाचम्याचरेत् कर्म स्पृष्ट्वा स्नानं विधीयते ॥१५१॥
कर्म जप-लक्षणम् ॥१५१॥
नारद-पञ्चरात्रे च—
सकृद्-उच्चारिते शब्दे प्रणवं समुदीरयेत् ।
प्रोक्ते चाचम्य वाण्यापि प्राणायामं सकृद् उच्चरेत् ॥१५२॥
बहु-प्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ।
क्षुते’प्य् एवं तथास्पृश्य-स्थानानां स्पर्शने भवेत् ॥१५३॥
किं चान्यत्र—
जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् ।
प्रमादात् पतिते हस्ताच् छतम् अष्टोत्तरं जपेत् ।
तावान् निषिद्ध-संस्पर्शे क्षालयित्वा यथोदितम् ॥१५४॥
तावद् अष्टोत्तर-शतं यथोदितम् इति पूर्व-लिखित-मन्त्र-पञ्च-गव्यादिना प्रक्षाल्येत्य् अर्थः॥१५४॥
अथ जप-भेदाः, तल्-लक्षणादि च
नारसिंहे—
त्रिविधो जप-यज्ञः स्यात् तस्य भेदान् निबोधत ।
वाचिकश् च उपांशुश् च मानसश् च त्रिधा मतः ।
त्रयाणां जप-यज्ञानां श्रेयान् स्याद् उत्तरोत्तरः ॥१५५॥
यद् उच्च-नीच-स्वरितैः स्पष्ट-शब्दवद्-अक्षरैः ।
मन्त्रम् उच्चारयेद् व्यक्तं जप-यज्ञः स वाचिकः ॥१५६॥
उच्च-नीच-स्वरितैः उच्चेन नीचेन त्वरितेन वा उदात्तानुदात्त-स्वरित-सञ्ज्ञैः स्वरैर् इत्य् अर्थः । स्वरेण युक्तैः स्पष्ट-शब्दवद्भिर् अक्षरैः । अत एव व्यक्तं मन्त्रम् उच्चारयेद् यत् ॥१५६॥
शनैर् उच्चारयेन् मन्त्रम् ईषद् औष्ठौ प्रचालयेत् ।
किञ्चिच् छब्दं स्वयं विद्याद् उपांशुः स जपः स्मृतः ॥१५७॥
स्वयम् एव विद्याज् जानीयात् शृणुयाद् इत्य् अर्थः ॥१५७॥
धिया यद् अक्षर-श्रेण्या वर्णाद् वर्णं पदात् पदम् ।
शब्दार्थ-चिन्तनाभ्यासः स उक्तो मानसो जपः ॥१५८॥
वर्णाद् एकस्मात् क्रमेणान्य-वर्णं व्याप्य । एवं पदात् पदं व्याप्य । इत्थं शब्दस्य अर्थस्य च यच् चिन्तनम् अनुसन्धानं तस्य अभ्यासः पुनः पुनर् आवृत्तिः ॥१५८॥
तत्र च याज्ञवल्क्यः—
उपांशु-जप-युक्तस्य तस्माच्-छत-गुणो भवेत् ।
सहस्रो मानसः प्रोक्तो यस्माद् ध्यान-समो हि सः ॥१५९॥
उपांशु-जप-युक्तस्य जपः शत-गुणः स्याद् वाचिकाज् जपाच् छत-गुणो भवेद् इत्य् अर्थः ॥१५९॥
मन्त्रार्णवे—
पशु-भावे स्थिता मन्त्राः केवलं वर्ण-रूपिणः ।
सौषुम्णाध्वन्य् उच्चरिताः प्रभुत्वं प्राप्नुवन्ति हि ॥१६०॥
सौषुम्ण्ये सुषुम्णाख्य-नाडी-सम्बन्धिनि अध्वनि च्छिद्र-मार्गे उच्चारिताः सन्तः । प्रभुत्वं सामर्थ्यम् ॥१६०॥
न दोषो मानसे जप्ये सव-देशे’पि सर्वदा ।
जप-निष्ठो द्विज-श्रेष्ठाः सर्व-यज्ञ-फलं लभेत् ॥१६१॥
अत एव मानसो जपः परमोत्तम इत्य् आह—न दोष इति । द्विज-श्रेष्ठा इति तत्रत्य-विप्राणां सम्बोधनम् । द्विज-श्रेष्ठ इत्य् एक-वचनान्त-पाठो’पि क्वचित् ॥१६१॥
अशुचिर् वा शुचिर् वापि गच्छंस् तिष्ठन् स्वपन्न् अपि ।
मन्त्रैक-शरणो विद्वान् मनसैव सदाभ्यसेत् ॥१६२॥
मन्त्रैक-शरण इत्य् अनेन पुरश्चरणादि-परस् तु यथोक्त-देश-कालादाव् एवाभ्यसेद् इत्य् अभिप्रेतम् ॥१६२॥
किं चान्यत्र—
मानसः सिद्धि-कामैस् तु पुष्टि-कामैर् उपांशुकः ।
वाचिको मारणोच्चाटे प्रशस्तो जप ईरितः ॥१६३॥
अथ जप-माहात्म्यम्
याज्ञवल्क्य-संहितायाम्—
पाक-यज्ञाश् च चत्वारो विधि-यज्ञ-समन्विताः ।
सर्वे ते जप-यज्ञस्य कलां नार्हन्ति षोडशीम् ॥१६४॥
पाक-यज्ञा ब्रह्म-यज्ञ-व्यतिरिक्ता देव-यज्ञादयः । विधि-यज्ञा ज्योतिष्टोमादयः ॥१६४॥
पद्मनाभीये—
यावन्तः कर्म-यज्ञाश् च प्रदीप्तानि तपांसि च ।
सर्वे ते जप-यज्ञस्य कलां नार्हन्ति षोडशीम् ॥१६५॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ।
प्रसन्ना विपुलान् भोगान् दद्यान् मुक्तिं च शाश्वतीम् ॥१६६॥
शाश्वतीं मुक्तिम् । श्री-वैकुण्ठ-लोक-प्राप्ति-लक्षणाम् ॥१६६॥
तत्र जप-प्रकार-विशेषेण फल-विशेषाः
त्रैलोक्य-सम्मोहन-तन्त्रे श्री-महादेवोमा-संवादे—
अथेदानीं प्रवक्ष्यामि मन्त्र-जप्य-विधिं प्रिये ।
केवलं जप-मात्रेण यस्य सिध्यन्ति सिद्धयः ॥१६७॥
केवलं पूजादिकं विनापीत्य् अर्थः ॥१६७॥
श्री-बीज-पुटितं मन्त्रं यदि जप्येत मन्त्रवित् ।
कमला तद्-वशे तिष्ठेद् यथा कृष्णे रमेत सा ॥१६८॥
कमला—सर्व-सम्पत्तिर् इत्य् अर्थः ॥१६८॥
कामेन पुटितं मन्त्रं प्रजपेद् यदि भामिनि ।
मोहयत्य् एव सकलं जगद् एव न संशयः ॥१६९॥
कामेन—तद्-बीजेन ॥१६९॥
माया-बीजेन पुटितं मन्त्रं यदि जप्येद् महा-मनुम् ।
अष्टैश्वर्याणि सम्भूय तस्य पादे गतानि वै ॥१७०॥
वाग्-भवेनापि पुटितं यदि जप्येत् स मोहितः ।
वेद-वेदाङ्ग-पारज्ञः सर्वज्ञो भवति ध्रुवम् ॥१७१॥
वाग्-भवेन—सरस्वती-बीजेन ॥१७१॥
ध्रुवेण पुटितं मन्त्रं यदि जप्येन् महेश्वरि ।
बीजं कूटं विच्छिद्य मुक्ति-भागी भवेन् नरः ॥१७२॥
ध्रुवेण प्रणवेन । बीज-रूपं कूत-रूपं च कर्म विच्छिद्य निरस्य ॥१७२॥
इदानीं शृणु देवि त्वं केवलस्य मनोर् विधिम् ।
दश-कृत्वो जपेन् मन्त्रम् आपत्-कल्पेन मुच्यते ॥१७३॥
आपत्-कल्पेन सर्वोपद्रवेण ॥१७३॥
विंशत्या जप-मात्रेण रक्षयेन् मन्त्र एव हि ।
शत-जप्तेन मन्त्रेण दिन-पापैः प्रमुच्यते ॥१७४॥
विंशत्या विंशति-वारान् इत्य् अर्थः । मन्त्र एव रक्षयेद् इति द्वार-पाल-यामिकादि-व्यतिरेकेणापि तस्य सर्वत्र दुष्टादिभ्यो रक्षा स्याद् इत्य् अर्थः ॥१७४॥
सहस्र-जप्तेन तथा मुच्यते महतैनसा ।
अयुतस्य जपेनैव महा-पातक-नाशनम् ॥१७५॥
अथ लक्ष-जपान् मन्त्री देववन् मोदते दिवि ।
कोटि-जप्तेन मन्त्रेण मुक्ति-भागी भवेन् नरः ॥१७६॥
अहर्-निशं जपेद् यस् तु मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥१७७॥
अथवा यानि मन्त्रस्य पदानि कथितानि ते ।
तेषाम् अन्यतमं जप्याद् यत्र वै रोचते मनः ॥१७८॥
तेषां मध्ये यत्र यस्मिन् पदे मनो रोचते, तद्-अन्यतमम् एकं पदं जपेत् ॥१७८॥
बीजं जप्त्वा विशालाक्षि भौमैश्वर्येण युज्यते ।
द्वितीयेन सुखास्वादं कुरुते मन्त्रि-सत्तमः ॥१७९॥
सुखास्वादं स्वर्ग-भोगम् ॥१७९॥
ज्ञानवान् स्यात् तृतीयेन तुरीयेण जगद्-गुरुः ।
भवेत् पञ्चम-जप्येन मुक्ति-भागी न संशयः ॥१८०॥
तुरीयेण चतुर्थेन । जगद्-गुरुः सर्व-शास्त्रार्थ-तत्त्वोपदेष्टा ॥१८०॥
**अज्ञानी च जपेद् वापि निज-रुच्य्-अनुसारतः ।
प्रथमं ज्ञान-सिद्धिं तु द्वितीयं त्व् अणिमादिकम् ॥१८१॥ **
प्रथमं ज्ञान-सिद्धिं प्रयच्छतीत्य् उत्तरेणान्वयः । एवम् अग्रे’पि ॥१८१॥
तृतीयं सर्व-सौख्यं च चतुर्थं देवतात्मताम् ।
पञ्चमं वैष्णवं लोकं षष्ठं मुक्तिं प्रयच्छति ॥१८२॥
देवतात्मतां श्री-कृष्ण-सारूप्यं तद्-एक-चित्ततां वा ॥१८२॥
अथ जप-विधिः
गुरुं सम्पूज्य विप्रांश् च सन्तर्प्यान्न-रसादिभिः ।
मारभेत जपं काले मङ्गले’नुज्ञया गुरोः ॥१८३॥
पुरश्चरण-कर्मारम्भे प्रथमं श्री-गुरु-पूजां ब्राह्मण-भोजनादिकं च लिखति—गुरुम् इति । मङ्गले शुभे काले गुरोर् अनुज्ञया जपम् आरभेत । तथा चोक्तम्—
विप्रान् सन्तर्पयेद् अन्न-भोजनाच्छादनादिभिः । बहुभिर् वस्त्र-भूषाभिः सम्पूज्य गुरुम् आत्मनः । आरभेत जपं पश्चात् तद्-अनुज्ञा-पुरःसरम् ॥ इति ॥१८३॥
प्रातः स्नानादिकं कृत्वा दत्त्वा चार्घ्यं विवस्वते ।
आचम्य जप-सङ्कल्पं विदधीत यथा-विधि ॥१८४॥
तत्र नित्य-कृत्यं लिखति—प्रातर् इति पञ्चभिः । यथा-विधीत्य् अस्य पूर्वेणापि सर्वेण सम्बन्धः । तत्र सङ्कल्प-विधिश् चायम्—अद्याष्टादशाक्षर-सम्मोहन-मन्त्रस्य सिद्धि-काम इयत्-साङ्ख्य-जप-तद्-दशांशामुकद्रव्यक-होम-तद्-दशांशांशामुक-तर्पण-तद्-दशांश-ब्राह्मण-भोजनात्मक-पुरश्चरणं करिष्ये इति ॥१८४॥
विधाय विधिना पूर्वं लिखितेनार्चनं प्रभोः ।
आत्मार्पणान्त्रं शक्त्याथ जपं पूराङ्गम् आचरेत् ॥१८५॥
पूर्वं नित्य-कृत्य-लिखने लिखितेन विधिना प्रभोः श्री-कृष्ण-देवस्यार्चनम् आत्मार्पणान्तं विधाय पूजाया आङ्ग-भूतं जपम् आचरेत् । स्व-मन्त्रं जपेत् । शक्त्या यथा-शक्तीत्य् अर्थः । ततश् च शक्तौ सत्याम् अष्टोत्तर-सहस्रम् अन्यथाष्टोत्तर-शतम् । तथा शक्तौ सप्तावरण-सहितस्य । अन्यथावरण-सहितस्य केवलस्य ध्यान-मात्रेण वेत्य् आदिकम् ऊह्यम् । एतच् चाग्रे स्पष्टं भावि ॥१८५॥
समर्प्य तं च दत्त्वार्घ्यं कृत्वा पुष्पाञ्जलिं पुनः ।
स्तुत्वा कृष्णं प्रणम्याथ प्राश्नायाच् चरणामृतम् ॥१८६॥
तं च जपम् ॥१८६॥
क्षमस्वेति वदन् प्रार्थ्य चेद् उद्वास्यं हृद्-अम्बुजे ।
उद्वास्य विधिवन् मानसोपचारैर् यजेत् पुनः ॥१८७॥
कृष्णे समर्य चात्मानम् ऋष्य्-आदि-न्यास-पूर्वकम् ।
निजं मन्त्रं जपेद् भक्त्या सम्प्रदायानुसारतः ॥१८८॥
अग्नि-पुराणे—
दर्भ-हस्तस् तथासीनो दर्भेषूदक-पाणिना ।
प्राङ्-मुखोद्वर्तयेन् मालां सहस्रं शतम् एव वा ॥१८९॥
दर्भेषु आसीनः प्राङ्-मुखः सन् । उदक-युक्त-पाणिना मालम् उद्वर्तयेत् परिवर्तयेत् । विसर्ग-लोपे’पि सन्धिर् आर्षः सहस्रं वारान् । अशक्तौ च शतं वा । एतच् च पूर्जाङ्ग-नित्य-जपाभिप्रायेणोक्तम् । दर्भ-हस्तत्वादिकं च समानम् एवेत्य् अत्र लिखितम् ॥१८९॥
मन्त्र-देव-प्रकाशिन्याम्—
सूर्यस्याग्रे गुरोर् इन्दोर् दीपस्य च जलस्य च ।
विप्राणां च गवां चैव सन्निधौ सम्मुखे जपेत् ॥१९०॥
नारद-पञ्चरात्रे च—
शनैः शनैः सुविस्पष्टं न द्रुतं न विलम्बितम् ।
न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने ॥१९१॥
किं च—
समूज्याथ जपं कुर्याद् वावद् वै प्रहर-द्वयम् ।
तद् ऊर्ध्वं पूर्ववत् स्नात्वा विशेषेण विधान-वित् ॥१९२॥
अथ स्नानानन्तरम् ॥१९२॥ \
न्यासावसानम् अखिलं सर्वं कुर्यात् पुरोदितम् ।
पूजाग्नि-होम-पर्यन्तं ततश् च जपम् आचरेत् ॥१९३॥
यावद् दिनावसानं तु भूयः स्नायात् ततो द्विज ।
उपास्य विधिवत् सन्ध्यां देवेशं पूजयेत् पुनः ॥१९४॥
विसर्ज्य भोजनं कुर्यात् सततं तारकोदये ।
भुक्त्वा शयीत शयने मृत्-स्निग्धे वाथ भूतले ॥१९५॥
विसर्ज्य देवम् ॥१९५॥
अर्ध-रात्रे समुत्थाप्य पाद-शौचं चरेद् द्विज ।
आचम्य देवं संस्मृत्य शीघ्रं सम्पूज्य पूर्ववत् ।
जपं कुर्याद् यथा-शत्कि अर्पयेच् च तथेश्वरे ॥१९६॥
प्रातः-कालम् आरभ्य मध्याह्न-पर्यन्तं जपं कुर्याद् इत्य् अत्रोक्तम् । नारद-पञ्चरात्रे च श्री-भगवतोक्तम्—मध्याह्नात् परतो न हि इत्य् आदि भेदो मन्त्र-भेदेन शक्त्य्-आदि-भेदेन वा द्रष्टव्यः ॥१९६॥
अन्यत्र च—
नैरन्तर्य-विधिः प्रोक्तस् तद्-दिनं नातिलङ्घयेत् ।
दिवसातिक्रमात् तेषां सिद्धि-रोधः प्रजायते ॥१९७॥
किं च—
अनन्य-मानसः प्रातः कालान् मध्यन्दिनावधि ॥१९८॥ इति ।
अतः कुर्याज् जपं नित्यं शक्त्या नियत-सङ्ख्यया ।
सङ्ख्या-पूर्तौ च कुर्वीत प्राणायामं पुनः कृती ॥१९९॥
शक्त्या यथा-शक्ति । या नियता नित्य-नियमिता जप-सङ्ख्या, तयैव नित्यं जपं कुर्यात् । न न्यूनं नाधिकं वापि जपं कुर्यात् दिने दिने इत्य् आद्य् उक्तेः । सङ्ख्यायास् तस्याः पूर्तौ च समाप्तौ सत्याम् ॥१९९॥
अथ होम-नियमः
नारद-पञ्चरात्रे—
जपस्य तु दशांशेन होमः कार्यो दिने दिने ।
अथवा लक्ष-पर्यन्तं होमः कार्यो विपश्चिता ॥२००॥ इति ।
लक्ष-सङ्ख्यायां पूर्णायाम् एकैक-लक्ष-जपे सम्पूर्णे सति । एतच् च फल-विशेषार्थ-लक्ष-चतुष्टयादि-जपाभिप्रायेण ॥२००॥
होमे च कुण्ड-निर्माणादिकस्य लिखितो विधिः ।
पूर्वं दीक्षा-विधाव् अत्र विशेषः को’पि लिख्यते ॥२०१॥
पूर्वं दीक्षा-विधौ लिखितः । अत्र च पुरश्चरण-विधौ को’पि विशेषो लिख्यते ॥२०१॥
कुर्याद् रक्ताम्बुजैर् होमं गुडाज्य-मधु-सम्प्लुतैः ।
तद्-अलाभे पायसेन सितासर्पिर् युतेन हि ॥२०२॥
तद् एव लिखति कुर्याद् इति । तद्-अलाभे रक्ताम्बुजाद्य्-अप्राप्तौ सत्याम् ॥२०२॥
होमाशक्तौ जपं होम-सङ्ख्यास् तु चतुर्गुणम् ।
षड्-गुणं चाष्ट-गुणितं यथा-सङ्ख्यं द्विजातयः ॥२०३॥
मुख्य-कल्पाशक्तौ गौण-कल्पं लिखति—होमाशक्ताव् इति । त्रयो द्विजा विप्र-क्षत्रिय-वैश्याः । क्रमात् होम-सङ्ख्यायाः । होमस्य यावती सङ्ख्या लिखिता जप-दशमांश-रूपा । तस्याश् चतुर्गुणं जपं विप्रः । षड्-गुणं क्षत्रियः । अष्ट-गुणं वैश्यः कुर्याद् इत्य् अर्थः। तथा चोक्तम्—होमाशक्तौ जपं कुर्यात् होम-सङ्ख्या चतुर्गुणम् । षड्-गुणं चाष्ट-गुणितं यथा-साङ्ख्यं द्विजातयः ॥ इति ॥२०३॥
केचिच् चाहुः—
**होम-कर्मण्य् अशक्तानां विप्राणां द्विगुणो जपः ।
इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ॥२०४॥ **
इतरेषां क्षत्रिय-वैश्य-शूद्राणां त्रिगुणादिः । क्षत्रियस्य त्रिगुणः । वैश्यस्य चतुर्गुणः । शूद्रस्य पञ्च-गुण इत्य् अर्थः ॥२०४॥
अथ जप-सङ्ख्या-नियमः
स-होमस् तु त्रिवर्णानां तुल्य एव जपः स्मृतः ।
जपो यो होम-रहितस् तेषां तद्-योषितां हि सः ॥२०५॥
एवं होमासमर्थस्य वर्ण-त्रयस्य होम-परिवर्तकृत्यं जप-भेदं लिखित्वेदानीं होम-समर्थस्य तत्-त्रयस्य जपः समान एवेति जप-नियमं लिखति—स-होमश् चेति । त्रि-वर्णानां होम-रहितो यो जपश् चतुर्गुणादि-रूपः सः । तद् योषिताम् अपि । विप्र-स्त्रीणां विप्रतश् चतुर्गुणो जपस्, तथा क्षत्रिय-स्त्रीणां षड्-गुणो, वैश्य-स्त्रीणां चाष्ट-गुण इति । तथा च क्रम-दीपिकायां (५.११)—
अशक्तानां होमे निगम-रसनागेन्द्र-गुणितो जपः कार्यश् चेति दिव्ज-नृप-विशाम् आहुर् अपरे । सहोमश् चेद् एषां सम इह जपो होम-रहितो य उक्तो वर्णानां स खलु विहितस् तच्-चल-दृशाम् ॥ इति ।
अस्यार्थः—होमे असमर्थानां विप्र-क्षत्रिय-वैश्यानां यथा-साङ्ख्यं निगमा वेदाश् चत्वारः रसाः षट् नागेन्द्रा अष्टौ एतैर् गुणितो जपः कार्यः । त्व्-अर्थे वा-शब्दः । अपर इति—होम-कर्मण्य् असुगमम् एवेति ॥२०५॥
स्वामि-स्त्रिया जपो यश् च शूद्रस्य विहितः स हि ।
एवम् अष्टादशार्णस् तु मन्त्रो जप्यो’युत-द्वयम् ॥२०६॥
शूद्रस्य जप-नियमं लिखति—स्वामीति । स्वामी भर्ता गुरुर् वा । तस्य स्त्रिया यं जपः । स एव शूद्रस्य विहित आचार्यः । तथा च क्रम-दीपिकायां (५.१२)—
यं वर्णम् आश्रितो यः शूद्रः स च तन्-नत-भ्रुवाम् । विदधीत जपं विधिवच् छ्रद्धावान् भक्ति-भरावनम्र-तनुः ॥ इति ।
एवं वर्णादि-भेदेन जप-सङ्ख्या-भेदं लिखित्वेदानीं पौरश्चरणिक-मूल-मन्त्र-जप-नियमं लिखति—एवम् इति । लिखितम् असङ्ख्या-भेदेन—अयुत-द्वयं विंशति-सहस्राणि । तथा च क्रम-दीपिकायां (५.६)—
प्रजपेद् अयुत-चतुष्कं दशाक्षरं मनु-वरं पृथक् क्रमशः । अष्टादशाक्षरं चेद् अयुत-द्वयम् इत्य् उदीरिता सङ्ख्या ॥ इति ।
अत्र च क्रमशः इति यत्रोक्तेष्व् अद्रि-शृङ्गाद्य्-अष्ट-स्थानेषु क्रमाज् जपेद् इत्य् अर्थः । तत्र च प्रतिस्थानम् अयुत-द्वयं जपेद् इति न मन्तव्यं, किन्तु तत्र तत्राद्रि-शृङ्ग-क्रमेण तथा जप्तव्यम् । यथा सर्वत्र कृतेन तज्-जपेनायुत-द्वय-सङ्ख्या स्यात् । अन्यथाष्ट-स्थानेषु श्रित्येकम् अयुत-द्वय-जपेन षोडशायुत-जपः स्यात् । स च सारदादि-मूल-ग्रन्थोक्तेन विरुध्यत इति दिक् ॥२०६॥
तथा च सारदायां—
मन्त्रम् एतं यथा-न्यायम् अयुत-द्वितयं पठेत् ।
जुहुयाद् अरुणाम्भोजैस् तद्-दशांशं समाहितः ॥२०७॥
अत एव सारदाद्य्-उक्तं लिखति—मन्त्रम् इति सार्धेन ॥२०७॥
प्रपञ्च-सारे’पि—
**जपः स्याद् असमर्थस्य अयुत-द्वितयावधिः ॥२०८॥ **इति ।
श्रीमत्-सनत्-कुमारादि-प्रोक्तस्य त्व् अनुसारतः ।
मन्त्रं फल-विशेषाय जपेल् लक्ष-चतुष्टयम् ॥२०९॥
एवं महा-मन्त्र-वरस्यास्यायुत-द्वयेनैव पुरश्चरण-सिद्धिर् भवेद् एव, तथापि फल-विशेषार्थम् अधिकाधिकम् अपि जपेद् इति लिखति—श्रीमद् इत्य् आदिना पञ्चकम् इत्य् अन्तेन । मन्त्रम् अष्टादशाक्षरम् ॥२०९॥
तथा च सनत्-कुमार-कल्पे—
उक्तं लक्षं कृत-युगे त्रेतायां तु द्वयं स्मृतम् ।
लक्ष-त्रयं द्वापरे च चतुर्लक्षं कलौ युगे ॥२१०॥
त्रैलोक्य-सम्मोहन-तन्त्रे च—
वेद-लक्षं जपेन् मनुम् ॥२११॥ इति ।
निगदेन—साक्षाद् उक्त्या । एतच् च सर्व-युगे क्रमेणैव ज्ञेयम् ॥२११॥
अत एवोक्तम्—
यस्मिंश् च निगदेनैव जप-सङ्ख्या विधीयते ।
तत्र सर्वत्र मन्त्राणां सङ्क्या-वृद्धिर् युग-क्रमात् ॥२१२॥
कल्पोक्तैव कृते सङ्ख्या त्रेतायां द्विगुणा स्मृता ।
द्वापरे त्रिगुणा ज्ञेया कलौ सङ्ख्या चतुर्गुणा ॥२१३॥ इति ।
सद्यः फल-विशेषार्थं जपेद् वा लक्ष-पञ्चकम् ।
होमं कुर्यात् तद्-दशांशं विधिना लिखितेन हि ॥२१४॥
सद्यः अचिराद् एव फल-विशेष-सिद्ध्य्-अर्थम् । वा-शब्दो लक्ष-चतुष्टयापेक्षया । विकल्पे लक्ष-पञ्चकं जपेत् । तस्य लक्ष-चतुष्टयस्य लक्ष-पञ्चकस्यापि दशानाम् अंशानाम् एकम् अंशं लिखितेन कुर्याद् रक्ताम्बुजैः इत्य् आदि-विधिनैव कुर्यात् । तत्र लक्ष-चतुष्टये चत्वारिंशत्-सहस्राणि, लक्ष-पञ्चके चार्ध-लक्षम् इति । तथा च क्रम-दीपिकायां (५.१०)—** **
शुषिर-युगल-वर्णं चेन् मनुं पञ्च-लक्षं प्रजपतु जुहुयाच् च प्रोक्त-कॢप्त्यार्ध-लक्षम् । इति ।
अस्यार्थः—शुषिर-युगल-वर्णम् अष्टादाशाक्षरं मन्त्रं यदि जपेत् तदा लक्ष-पञ्चकं जपतु । पूर्वोक्त-विधिना अर्ध-लक्षं जुहुयाच् च, होमस्य जप-दशांशकत्वाद् इति ॥२१४॥
केचिच् च पूर्व-सेवाख्यं शुद्ध्य्-अर्थं तज्-जपं पुरः ।
अयुत-द्वयम् अन्ते च मन्यन्ते लक्ष-पञ्चिअकम् ॥२१५॥
तत्रैव सद्यः फल-विशेषापेक्षया मतान्तरं लिखति—केचिच् चेति । अयुत-द्वयं लिखितम्, तस्य वाष्टादशाक्षर-मन्त्रस्य जपं शुद्ध्य्-अर्थं मन्त्रादि-शुद्धये पुनः पुरश्चरणादौ मन्यन्ते । अतः पूर्व-सेवेत्य् आख्या यस्य तम् । अन्ते च तत्-समाप्तौ लक्ष-पञ्चकं मन्यन्ते । तथा च क्रम-दीपिकायां (५.७)—एकं चैषाम् अशक्तौ गदितम् इह मया पूर्व-सेवा-विधानम् । किं च–निर्वृत्ते’स्मिन् पुनश् च प्रजपतु विधिवत् सिद्धये साधकेशः इत्य् आदि । अस्यार्थः—अशक्तौ पूर्वोक्ताद्रि-शृङ्गाद्य्-अष्ट-स्थान-गमनासामार्थ्ये तथा तत्र तत्र क्रमेणोक्त-शाकाद्य्-अष्टाहार्म् आश्रित्य जपं कुर्यात् । अनेन च प्रकारेण इह ग्रन्थे प्रकार-विशेषेण वा पूर्व-सेवाभिधानं पुरश्चरण-कर्म । यद् वा, पूर्व-सेवेति नाम-विधानं मयोक्तम् । अस्मिन् पूर्व-सेवाख्य-कर्मणि निवृत्ते समाप्ते सतु सिद्धये विशिष्ट-फल-सिद्ध्य्-अर्थं पुनः प्रजपतु । पुरश्चरण-जप-विशेषं करोतु । तच् च युगल-शुषिर-वर्णम् इत्य् आदि वक्ष्यमाणं लिखितम् एवेति ॥२१५॥
अन्ते महोत्सवं कुर्वन् कृष्णं भक्त्यार्चयेन् महत् ।
गुरुं सन्तोषयेद् विप्रान् भोजयेत् प्रीणयेत् परान् ॥२१६॥
एवं पुरश्चरणे सम्पूर्णे च कृत्यं लिखति—अन्त इति । यथा लिखित-जप-समाप्तौ सत्याम्, महद् यथा स्यात् तथा, परान् दुःखितान् दीनान्, ते चाग्रे लेख्याश् च दिनान्धेत्य् आदिना ॥२१६॥
पुरश्चरणम् एवं हि सिध्येद् इति मतं बुधैः ।
तथापि कुर्यात् पूर्वेषां सम्मतं तर्पणादिकम् ॥२१७॥
एवं तर्पणादि-नियमं विनापि केवल-होम-महितेन होमाशक्तौ च चतुर्गुणादिना जपेनैव पुरश्चरण-सिद्धिः स्याद् इति केषाञ्चित् प्रामाणिकानाम् आचार्याणां मतम् अङ्गीकृत्य बहुल-साधु-कुल-सम्मत-तर्पणादि-नियमं च लिखति—पुर इति । एवं लिहित-प्रकारेणैव, पूर्वेषां पुरातनानां साधु-जनानाम् ॥२१७॥
अथ तर्पणादि
त्रैलोक्य-सम्मोहन-तन्त्रे—
अखण्डैर् अरुणाम्भोजैर् मधुरोक्तैर् दशांशतः ।
पायसेन घृताक्तेन तिलैर् आरप्यकैश् च वा ॥२१८॥
जुहुयात् तद्-दशांशेन तर्पयेच् छुद्ध-वारिणा ।
विप्रांश् च भोजयेत् पश्चाद् गुरुं सन्तोषयेत् ततः ॥२१९॥
अन्यत्र च—
होमाद् दशांशतः कुर्यात् तर्पणं देवता-मुखे ।
तर्पणस्य दशांशेन मार्जयेद् आत्म-मूर्धनि ।
मार्जनस्य दशांशेन कुर्याद् ब्राह्मण-भोजनम् ॥२२०॥
अथ तत्र तर्पणम्
तर्पयेच् च विधानेन श्री-कृष्णं शुद्ध-वारिणा ।
पुष्पाक्षतादि-युक्तेन जले सञ्जप्य पूर्ववत् ॥२२१॥
पूर्ववद् इति । पूर्वं प्रातः-स्नाने यथा लिखितं तथेत्य् अर्थः ॥२२१॥
अथ मार्जनम्
तोयैर् अञ्जलिना शुद्धैर् अभिषिञ्चेत् स्व-मूर्धनि ।
दशांशं देवता-बुद्ध्या तर्पणस्य ततः परम् ॥२२२॥
देवता-बुद्ध्येति । निजेष्ट-देवे स्वात्मानं समर्प्येत्य् अर्थः ॥२२२॥
अथ ब्राह्मण-भोजनम्
पाद्यार्घ्यैर् अर्चयेद् इष्ट-देव-बुद्ध्या हि भूसुरान् ।
भक्ष्यैर् नाना-रसोपेतैर् भोजयेद् भक्ति-भावितः ॥२२३॥
किं च—
एवं प्रतिदिनं कुर्याद् यावत् सङ्ख्या प्रपूर्यते ।
तद्-अन्ते महतीं पूजां कुर्याद् विप्रांश् च तोषयेत् ॥२२४॥
एवं तर्पणादिकं होमवत् तावत् प्रतिदिनं कुर्यात् । यावज् जपोक्त-सङ्ख्या-पूर्तिर् भवति । तद्-अन्ते सङ्ख्या-पूर्तौ च सत्याम् ॥२२४॥
गन्ध-माल्याम्बरैश् चैव भक्ष्य-भोज्यैः सदक्षिणैः ।
दीनान्ध-कृपणा-नाथान् प्रीणयेद् भोजनादिना ॥२२५॥
गो-भू-हिरण्य-वस्त्राद्यैः सम्पूज्य गुरुम् आत्मनः ।
मिष्टान्नं बन्धुभिः सार्धं भुञ्जीतोत्साह-पूर्वकम् ॥२२६॥
केचिज् जपाद् दशांशं हि मन्यन्ते तर्पणं बुधाः ।
अपेक्ष्यो’न्यो विशेषो’त्र ज्ञेयो’न्य-ग्रन्थतः स च ॥२२७॥
होम-दशांशं तर्पणं लिखितम् । तत्र मतान्तरं लिखति—केचिद् इति । ननु पुरश्चरण-कर्तुः सन्ध्यादि-समये कतमः कृत्य-विशेषः ? इत्य् अपेक्षायां लिखति अपेक्ष्य इति । अत्र पुरश्चरण-जपादि-विधौ । यो’न्यो विशेषः कश्चिद् अपेक्ष्यः स्यात् । स चान्य-ग्रन्थतः सारदा-तिलकादि-पञ्चरात्रादि-शास्त्रेभ्यो’पि ज्ञेयः । अत्र च ग्रन्थ-विस्तर-भयान् न विस्तार्य लिखित इति भावः ॥२२७॥
अथ तत्र रिक्त-पूरणम्
उक्तं च—
यद् यद् अङ्गं विहीयेत तत्-सङ्ख्याद् द्विगुणो जपः ।
साङ्गता-सिद्ध्यै कर्तव्यस् तच् चाशक्त्या न भक्तितः ॥२२८॥
अङ्गं तर्पणादि । तस्य अङ्गस्य सङ्ख्यायाः द्विगुणः साङ्गस्य पुरश्चरणस्य सिद्ध्य्-अर्थं जपः कर्तव्यः । तच् च द्विगुण-जप-करणं तत्र तत्राशक्त्यैव, न च भक्तितः । भक्त्या च प्रयत्नतः सर्वम् अनुष्ठेयम् एवेत्य् अर्थः । शक्तित इति पाठे’पि शक्तौ सत्यां मुख्य-कल्प-तर्पणादि-परित्यागेन प्रवृत्तेर् अग्रे दोषोक्त्या प्रयत्नतो मुख्य-कल्पेन साङ्गं कुर्याद् एवेत्य् अर्थः ॥२२८॥
सर्वथा भोजयेद् विप्रान् क्षत-साङ्गत्व-हेतवे ।
विप्राराधन-मात्रेण व्यङ्गं साङ्गत्वम् आप्नुयात् ॥२२९॥
ननु रिक्त-निवारणार्थं जपाशक्त्य्-आदौ किं कार्यम् ? तत्राह—सर्वथेति । व्यङ्ग-साङ्गअतार्थं सद्यः फल-विशेष-सिद्ध्य्-अर्थम् एवेत्य् आदि-सर्व-प्रकारेण । विशेषतश् च क्षतस्य व्यङ्गस्य साङ्गत्व-हेतवे । यद् वा, सर्वथेति भक्ष्य-भोज्यादि-नाना-प्रकारेणेत्य् अर्थः ॥२२९॥
अन्यत्र च—
यद् यद् अङ्गं विहीयेत जपस् तद् द्विगुणो मतः ।
तावत् पुष्प-प्रदानं वा तावती वा नमस्क्रिया ॥२३०॥
तत्राप्य् अशक्तौ लिखति—यद् यद् इति । नमस्क्रिया प्रणामः ॥२३०॥
अथ सङ्क्षिप्त-पुरश्चरणम्
तद् उक्तम्—
पूजां विस्तरतः कर्तुं यो न शक्नोति साधकः ।
स विनाङ्गेन्द्र-वज्राद्यैः पूजयेद् इष्ट-दैवतम् ॥२३१॥
अङ्गाद्यावयवैर् विना निजेष्ट-देव-मात्रं पूजयेत् ॥२३१॥
अथवा देवता-मात्रं ध्यात्वा सम्यक् प्रपूजयेत् ।
अथवा मानसीं कुर्यात् पूजाम् आत्मार्पणावधि ॥२३२॥
देवता-मात्रं केवल-निजेष्ट-देवम् एव ध्यात्वा, न तु तत्-तद्-उपचार-समर्पणाद्य्-उक्त-तत्-तद्-ध्यानं कृत्वा ॥२३२॥
अथवा केवलां पूजां बाह्यं कुर्याद् विचक्षणः ।
सम्पूज्यैवं जपं कुर्यान् न मन्त्रं केवलं जपेत् ॥२३३॥
केवलां—मानसिक-पूजा-व्यतिरिक्ताम् ॥२३३॥
पूर्व-पूर्वस्य चाशक्ताव् उत्तरोत्तरम् आचरेत् ।
प्रभुः प्रथम-कल्पस्य यो’नुकल्पेन वर्तयेत् ।
न साम्परायिकं तस्य दुर्मतेर् जायते फलम् ॥२३४॥
प्रथम-कल्पस्य मुख्य-पक्षस्य प्रभुस् तत्र समर्थश् चेत्, अनुकल्पेन गौण-पक्षेण वर्तयेत् कर्म कुर्यात् । साम्परायिकं पारलौकिकम् ॥२३४॥
अथवान्य-प्रकारेण पुरश्चरणम् इष्यते ।
ग्रहणे’र्कस्य चेन्दोर् वा शुचिः पूर्वम् उपोषितः ॥२३५॥
पूर्वम् उपोषितः । ग्रहण-पूर्व-दिने कृतोपवासः सन् ॥२३५॥
नद्यां समुद्र-गामिन्यां नाभिमात्रोदके स्थितः ।
ग्रहणादि-विमुक्त्य्-अन्तं जपेन् मन्त्रं समाहितः ॥२३६॥
अनन्तरं दशांशेन क्रमाद् धोमादिकं चरेत् ।
तद्-अन्ते महतीं पूजां कुर्याद् ब्राह्मण-भोजनम् ॥२३७॥
ततो मन्त्र-प्रसिद्ध्य्-अर्थं गुरुं सम्पूज्य तोषयेत् ।
एवं च मन्त्र-सिद्धिः स्यात् देवता च प्रसीदति ॥२३८॥
अथवान्य-प्रकारो’यं पौरश्चरणिके विधौ ।
चन्द्र-सूर्योपरागे तु स्नात्वा प्रयत-मानसः ॥२३९॥
अथवान्य-प्रकारो’यम् इत्य् अत्र समुद्र-गामि-नदी-जलान्तः-स्थिति-व्यतिरेकेण । सङ्क्षेपे पूर्वतो विशेषः ॥२३९॥
स्पर्शाद् विमुक्त-पर्यन्तं जपेन् मन्त्रं समाहितः ।
सर्वं पूर्ववद् एवाथ कुर्याद् धोमादिकं कृती ॥२४०॥
स्पर्शात् ग्रासम् आरभ्य ॥२४०॥
अथवा देवता-रूपं गुरुं ध्यात्वा प्रतोषयेत् ।
तस्य च्छायानुसारी स्याद् भक्ति-युक्तेन चेतसा ॥२४१॥
केवल-श्री-गुरु-प्रसादेनैव पुरश्चरण-सिद्धिः स्याद् इति प्रकारान्तरम् आह—अथवेति त्रिभिः ॥२४१॥
गुरु-मूलम् इदं सर्वं तस्मान् नित्यं गुरुं भजेत् ।
पुरश्चरण-हीनो’पि मन्त्री सिद्ध्येन् न संशयः ॥२४२॥
यथा चोक्तम्—
यथा सिद्ध-रस-स्पर्शात् ताम्रं भवति काञ्चनम् ।
सन्निधानाद् गुरोर् एव शिष्यो विष्णुमयो भवेत् ॥२४३॥
अथ तत्रैव-प्रकारान्तरम्
गौतमीये—
**गवानुगमनं कार्यं गो-ग्रासं गो-प्रदक्षिणम् ।
नित्यं तासु प्रसन्नासु गोपालो’पि प्रसीदति ॥२४४॥
अथ सिद्ध-मन्त्रस्य लक्षणम् **
उक्तं च बोधायनेन—
सिद्धस्य त्रीणि चिह्नानि दाता भोक्ताप्य् अयाचकः ।
सिद्ध-मन्त्रस्य तन्त्रोक्ताः प्रवर्तन्ते’त्र सिद्धयः ॥२४५॥
दाता भोक्तापि सन् अयाचकः कम् ऐ न याचत इत्य् अर्थः । न चैतन्-मात्रम् एव, किन्तु सर्वज्ञत्वादि-सिद्धयो’पि तस्य स्युर् इत्य् आह—सिद्देति । अत्र अस्मिन्न् एव लोके देहे वा ॥२४५॥
नारद-पञ्चरात्रे च श्री-भगवता—
मन्त्राराधन-शक्तस्य प्रथमं वत्सर-त्रयम् ।
जायन्ते बहवो विघ्ना नियमस् तस्य नारद ॥२४६॥
नोद्वेगं साधको याति कर्मणा मनसा यदि ।
तृतीयाद् वत्सराद् ऊर्ध्वं राजानश् च मही-भृतः ॥२४७॥
प्रार्थयन्ते’नुरोधेन गर्विता अपि मानिनः ।
प्रसादः क्रियतां नाथ ममोद्धरण-कारणम् ॥२४८॥
अनुरोधेन आनुकूल्येनैव प्रार्थयन्ते ॥२४८॥
प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च ।
अतस् ते मुनि-शार्दूल निष्ठुरं वक्तुम् अक्षमाः ॥२४९॥
नवमाद् वत्सराद् ऊर्ध्वं नानाश्चर्याणि पश्यति ।
आत्मानन्द-प्रदान्य् आशु प्रत्यक्षेण बहिस् तथा ॥२५०॥
किं च—
बलेन परिपूर्णश् च तेजसा भास्करोपमः ।
पूर्नेन्दु-सदृशः कान्त्या गमने विअह्गोपमः ॥२५१॥
स्वल्पाशने’प्य् अकृशता बहुना न च खिद्यते ।
विण्-मूत्रयोर् अथाल्पत्वं भवेन् निद्रा-जयस् तथा ॥२५२॥
बहुनाशनेन ॥२५२॥
जप-ध्यान-रतो मौनी न खेदम् अधिगच्छति ।
विना भोजन-पानाभ्यां पक्ष-मासादिकं मुने ॥२५३॥
इत्य् एवम् आदिभिश् चिह्नैर् महा-विस्मय-कारिभिः ।
प्रवृत्तैः सम्प्रबोद्धव्यं प्रसन्नो मन्त्र-राड् इति ॥२५४॥
मन्त्र-प्रसाद-जनितं लिङ्गं च न गुरोर् विना ।
प्रकाशनीयं विप्रेन्द्र कस्यचित् सिद्धिम् इच्छता ॥२५५॥
लिङ्गं चिह्नम् ॥२५५॥
**सिद्ध-मन्त्र-कृत्यम् **
तच् चोक्तम्—
सिद्ध-मन्त्रो’पि नित्यं हि त्रिसन्ध्यं कृष्णम् अर्चयेत् ।
नियमेनैक-सन्ध्यं वा जपेद् अष्टोत्तरं शतम् ॥२५६॥
एकसन्ध्य वा अर्चयेत् । अत्र चाष्टोत्तर-शत-वारान् निज-मन्त्रं जपेद् इत्य् अर्थः ॥२५६॥
अथासिद्ध-साधनोपायाः
ते चोक्ताः—
अनुष्ठितो यथान्यायं यदि मन्त्रो न सिध्यति ।
पुनस् तावत् प्रजप्तव्यस् ततः सिद्धो भवेद् ध्रुवम् ॥२५७॥
पुनः सो’नुष्ठितो मन्त्रो यदि सिद्धो न जायते ।
उपायास् तत्र कर्तव्याः सप्त शङ्कर-भाषिताः ॥२५८॥
शङ्कर-भाषीताः । तच् च सर्वं शङ्करेणोदितम् इति यावत् ॥२५८॥
रुद्रेण दहनान्तं ये कथिता मन्त्र-सिद्धये ।
सप्तोपाया बुधैर् ज्ञेयास् ते’न्य-मन्त्रेष् सिद्धिदाः ॥२५९॥
दहनान्तम् इति द्रावणम् आरभ्य दहनावधि उपायं कुर्यात् ॥२५९॥
श्रीमद्-गोपाल-मन्त्रो’यं नैव किञ्चिद् अपेक्षते ।
हृन्-मात्र-स्पृक् फलत्य् एव स्पृष्टो हि दहनो यथा ॥२६०॥
ते चोप्याया मन्त्रान्तरेष्व् एव, न त्व् अस्मिन् मोहनाख्याष्टादशाक्षर-मन्त्र इति लिखति—श्रीमद् इति । किञ्चित् संस्कारादिकं, किन्तु हृन्-मात्रं स्पृशतीति तथा सन्न् अपि फलत्य् एव । तत्र दृष्टान्तत्वेनार्थान्तरम् उपन्यस्यति—स्पृष्टो हीति । यथा कथञ्चित् स्पर्श-मात्रेण दहनो धएद् एव, तच्-छक्तेस् तथात्वाद् इति भावः । एतच् च पूर्वं माहात्म्य-लिखने व्यक्तीभूतम् एवास्ति ॥२६०॥
अथ यन्त्रम्
सनत्-कुमार-कल्पे**–
अर्चनार्थे मुने वक्ष्ये यन्त्रं श्री-करम् उत्तमम् ।
स्व-गृहे वा वने चाथ विष्णोर् आयतने’थवा ॥२६१॥**
शालग्रामे मनौ यन्त्रे इत्य् आदिना पूर्वं पूजा-स्थानेषु यन्त्रम् उल्लिखितम् । तन्-मन्त्रं यन्त्र आलिखेत्य् आदिना साध्य-साधनोपायेषु च मन्त्रम् उद्दिष्टम् । अतो’पेक्षितं यन्त्रस्य लक्षणं लिखन् केवल-यन्त्र-धारण-मात्रेणैव सर्व-सिद्धिः स्याद् इत्य् अन्तेन तद्-धारण-माहात्म्यं च प्रमाणयन् लिखति—अर्चनार्थम् इत्य् आदिना यावत् समाप्तिः । मुने—हे नारद! श्रीकरं विभूति-सम्पादकम् ॥२६१॥
स्थानम् एकान्तम् आश्रित्य शोधयेद् गोमयाम्भसा ।
तत्र संस्थापयेत् पीठं क्षालितं शुद्ध-वैरिणा ॥२६२॥
एकान्तं निर्जनम् ॥२६२॥
विलिख्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् ।
कर्णिकायां लिखेद् वह्नि-पुटितं मण्डल-द्वयम् ॥२६३॥
वह्नि-पुटितं मण्डल-द्वयं षट्-कोणम् इत्य् अर्थः । अग्रे षट्कोणेष्व् इत्य् उक्तेः । तथा च क्रम-दीपिकायां—कर्णिकायां तु षट्-कोणं स-साध्यं तत्र मन्मथम् [७.२५] इति । कामं काम-बीजं । शिष्टैः अवशिष्टैः सप्तदशभिर् वर्णैः । तथा च क्रम-दीपिकायां—
शिष्टैस् तं सप्तदशभिर् अक्षरैर् वेष्टयेत् स्मरम् [७.२६] इति ॥२६३॥
तस्य मध्ये लिखेद् बीजं साध्याख्यं कर्म-संयुतम् ।
ततः शिष्टैर् मनोर् वर्णैस् तं कामं वेष्टयेत् सुधीः ॥२६४॥
श्रियं षट्-कोण-कोणेष्व् ऐन्द्र-नैरृत-वायुषु ।
आलिख्य च लिखेन् मायां वह्नि-वारुण-शूलिषु ॥२६५॥
षट्कोणस्य तस्य कोणेषु ऐन्द्रादिषु श्रियं लक्ष्मी-बीजम् आलिख्य वह्न्य्-आदि-कोणेषु त्रिषु मायां भुवनेश्वरी-बीजं लिखेत् । तथा च क्रम-दीपिकायां—प्राग्-रक्षो’निल-कोणेषु श्रियं शिष्टेषु सद्मसु1 [७.२६ब्] इति ॥२६५॥
मन्त्रं षड्-अक्षरं तत्र विलिखेत् षट्सु सन्धिषु ।
अक्षरैः काम-गायत्र्या वेष्टयेत् केशरे सुधीः ॥२६६॥
तत्र षट्कोणे बहिर् ये षट् सन्धयस् तेषु षड्-अक्षरं मन्त्रं लिखेत् । एकैकस्मिन् सन्धौ एकैकाक्षरं लिखेत् इत्य् अर्थः । षड्-अक्षरश् चात्र काम-बीजेन सहितश् चतुर्थ्य्-अन्तो नत्य्-अन्तश् च काम-गायत्र्याश् चतुर्विंशतिभिर् अक्षरैः प्रत्येकं केशरम् अक्षर-त्रयम् इत्य् एवम् अष्ट-दल-कमलस्य केशराष्टकं वेष्टयेद् इत्य् अर्थः । तथा च क्रम-दीपिकायां—षड्-अक्षरं सन्धिषु च केशरेषु त्रिशस् त्रिशः । विलिखेत् स्मर-गायत्रीं [७.२७] इति ॥२६६॥
काम-माला-मनोर् वर्णैर् दलेष्व् अष्टसु मन्त्र-वित् ।
लिखेद् गुहाननैर् भक्तैर् मान्त्रिकांस् तद्-बहिर् लिखेत् ॥२६७॥
काम-माला-मन्त्रस्य वर्णान् अष्ट-चत्वारिंशद्-अक्षराणि प्रत्येक-दलं षड्-वर्णान् इत्य् एवम् अष्ट-दलेषु लिखेत् । तथा च क्रम-दीपिकायां—माला-मन्त्रं दलाष्टके षड्शः संलिख्य [७.२७-२८] इति । कैर् लिखेत् ? भद्रैर् उत्तमैर् गृहाञ्जनैः समी-विशेषैः । तेभ्यो’ष्ट-दलेभ्यो बहिर् मातृकाम् एव पञ्चाशद्-अक्षरात्मिकां सबिन्दुकां क्रमेण लिखेच् च । तथा च क्रम-दीपिकायां—** **तद्-बाह्ये वेष्टयेन् मातृकाक्षरैः [७.२८] इति ॥२६७॥
भू-बिम्बं च लिखेद् बाह्ये श्री-मायां दिग्-विदिक्सु च ।
एवं यन्त्रं समालिख्य जात-रूप-मये पटे ॥२६८॥
तद्-बाह्ये मातृकातो बहिर् भू-बिम्बं भू-मण्डलं परितो लिखेत् । तस्य दिक्षु प्राच्यादि चत्सृषु श्रियं लक्ष्मी-बीजं विदिक्षु च आग्न्यादि-चतुष्कोणेषु मया-बीजं च लिखेद् इत्य् अर्थः । तथा च क्रम-दीपिकायां—भू-बिम्बं च लिखेद् बाह्ये श्री-माये दिग्-विदिक्ष्व् अपि [७.२८] इत्य् अर्थः । तद्-बहिश् चतुष्कोणं कोण-चतुष्टये वज्र-चतुष्टयम् एतं लेख्यम् इति सत्-सम्प्रदायः ॥२६८॥
राजते ताम्र-पट्टे वा भूर्जे क्षौम-मये’पि वा ।
सूक्ष्म-तन्तु-पटे वापि प्रतिष्ठाप्य समीरणम् ॥२६९॥
समीरणं प्रतिष्ठाप्य प्राण-प्रतिष्ठां कृत्वेत्य् अर्थः ॥२६९॥
हुत्वा सहस्रम् आज्येन यन्त्रे सम्पातपूर्वकम् ।
अर्चयित्वायुतं जप्त्वा धारयेद् यन्त्रम् उत्तमम् ॥२७०॥
त्रैलोक्यैश्वर्यम् आप्नोति देवैर् अपि सुपूजितः ।
आकर्षणं सुर-स्त्रीणां नाग-लोक-निवासिनाम् ॥२७१॥
नाग-लोकः पातालम् । तद्-वासिनाम् अपि स्त्री-जनानाम् इति शेषः ॥२७१॥
पिशाचयक्ष-रक्षांसि क्रूर-भूत-गणाश् च ये ।
दुष्ट-सर्पादयः सत्त्वा ह्य् अपसर्पन्ति दूरतः ॥२७२॥
अन्त्र-राज-धरं दृष्ट्वा विद्रवन्ति च बिभ्यति ।
बहुना किम् इहोक्तेन सर्व-लोक-सुखावहम् ॥२७३॥
स्त्रीणाम् आकर्षणं सद्यो राज्ञां वश्यकरं भुवि ।
योग-सिद्धि-करं पुंसां भव-सागर-तारकम् ।
भुक्ति-मुक्ति-प्रदं दिव्यम् इति प्रोक्तं च वेधसा ॥२७४॥
दिव्यं श्री-वैकुण्ठ-लोके प्रापकं चेत्य् अर्थः ॥२७४॥
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
पौरश्चरणिको नाम
सप्तदशो विलासः
॥ १७ ॥
Nओतेस्
Cओर्रेच्त् स्होउल्द् बे _संविदम् _= भुवनेश्वरी बीज।