१६ दामोदर-प्रियः

श्री-हरि-भक्ति-विलासः

षोडश-विलासः – श्री-दामोदर-प्रियः

श्री-सनातन-गोस्वामि-विरचित-दिग्-दर्शनी-नाम-टीका-संवलितः

हरि-भक्ति-विलासः

षोडश-विलासः

श्री-दामोदर-प्रियः

अथ कार्त्तिक-कृत्यम्
दामोदरं प्रपद्ये’हं श्री-राधा-रमणं प्रभुम् ।
प्रग्भावाद्यस्य तत्-प्रेष्ठः कार्त्तिकः सेवितो भवेत् ॥१॥

श्री-भगवत्-प्रियतम-कार्तिक-मास-कृत्यं लिखनं तद्-अधिष्ठातृ-देवं श्री-राधिका-सहितं श्री-दामोदरं शरणं याति—दामोदरम् इति । सेवितः कृत्य-लिखनादि-द्वारा ॥१॥

भाति कार्त्तिक-कृत्यादि स्कान्द-पाद्मादिषु स्फुटम् ।
तथाप्य् एकत्र सङ्गृह्य सारतो’त्र विलिख्यते ॥२॥

तत्-कृत्यादिकं च सर्वत्रैव प्रसिद्धम् इति लिखति—भातीति । आदि-शब्दात् तन्-माहात्म्यादि । ननु तर्हि किम् अत्र तल्-लिखनेन ? तत्र लिखति—तथापीति । सारत इति । तत्र तत्र विविध-कर्म-मिश्रितं साधारणं च वर्तते । अत्र च केवलं तद् एव विशिष्टं लेख्यम् इति ॥२॥

कार्त्तिके’स्मिन् विशेषेण नित्यं कुर्वीत वैष्णवः ।
दामोदरार्चनं प्रातः स्नान-दान-व्रतादिकम् ॥३॥

तत्रादौ कार्त्तिक-कृत्य-नियम-नित्यतां लिखिष्यन् तद्-अर्थं सङ्क्षेपेण तत्र नित्य-कृत्यं दिन-विशेष-कृत्यं च लिखति—कार्त्तिक इति द्वाभ्याम् । आदि-शब्देन दीप-दान-रात्रि-शेष-जागरणादि । तच् च सर्वं सविशेषम् अग्रे व्यक्तं भावि ॥३॥

तथा दिन-विशेषे यद्-भगवत्-पूजनादिकम् ।
कुर्याद् विधि-विशेषेण लेख्यम् अग्रे विविच्य तत् ॥४॥

तथेति समुच्चये । दिन-विशेषे कृष्णाष्टम्य्-आदौ । आदि-शब्देन स्नानादि ॥४॥

**अथ कार्त्तिक-व्रत-नित्यता **

स्कान्दे ब्रह्म-नारद-संवादे—

दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन् न हि ।
धर्मं धर्म-भृतां श्रेष्ठ स मातृ-पितृ-घातकः ॥५॥
अव्रतेन क्षिपेद् यस् तु मासं दामोदर-प्रियम् ।
तिर्यग् योनिम् अवाप्नोति सर्व-धर्म-बहिष्कृतः ॥६॥

कार्त्तिके उक्तं कृत्यत्वेनाभिमतं धर्मं व्रतादिकं यो नाचरेत्, अव्रतेन व्रतं विना, व्रतं चात्रानुदय-स्नानादि-नियमः किञ्चिद् भक्ष्य-त्याग-रूप-नियमो वा । तत्र च सदानुदय-स्नानादि-पराणाम् अन्य-मासतो’त्र कश्चित् तत्-तद्-विशेषो भैक्ष्याहारिणां तत्र तत्रोक्तानां यति-प्रभृतीनां नाम-सङ्कीर्तनादि-नियम-विशेषो ज्ञेय इति दिक् ॥५-६॥

स ब्रह्महा स गो-घ्नश् च स्वर्णस्तेयी सदानृती ।
न करोति मुनि-श्रेष्ठ यो नरः कार्त्तिके व्रतम् ॥७॥

अनृती—मिथ्या-वादी ॥७॥

विधवा च विशेषेण व्रतं यदि न कार्त्तिके ।
करोति मुनि-शार्दूल नरकं याति सा ध्रुवम् ॥८॥
व्रतं तु कार्त्तिके मासे यदा न कुरुते गृही ।
इष्टापूर्तं वृथा तस्य यावद्-आहूत-नारकी ॥९॥
सम्प्राप्ते कार्त्तिके मासे द्विजो व्रत-पराङ्मुखः ।
भवन्ति विमुखाः सर्वे तस्य देवाः सवासराः ॥१०॥
इष्ट्वा च बहुभिर् यज्ञैः कृत्वा श्राद्ध-शतानि च ।
स्वर्गं नाप्नोति विप्रेन्द्र अकृत्वा कार्त्तिके व्रतम् ॥११॥
यतिश् च विधवा चैव विशेषेण वनाश्रमी ।
कार्त्तिके नरकं यान्ति अकृत्वा वैष्णवं व्रतम् ॥१२॥

वैष्णवम् इति । स्वरूप-निर्देशः । सर्वस्यापि कार्त्तिक-व्रतस्य विष्णु-परत्वात् ॥१२॥

वेदैर् अधीतैः किं तस्य पुराण-पठनैश् च किम् ।
कृतं यदि न विप्रेन्द्र कार्त्तिके वैष्णवं व्रतम् ॥१३॥
जन्म-प्रभृति यत् पुण्यं विधिवत् समुपार्जितम् ।
भस्मीभवति तत् सर्वं कृत्वा कार्त्तिक-व्रतम् ॥१४॥
यद्-दत्तं च परं जप्तं कृतं च सुमहत् तपः ।
सर्वं विफलताम् एति अकृत्वा कार्त्तिके व्रतम् ॥१५॥
सप्त-जन्मार्जितं पुण्यं वृथा भवति नारद ।
अकृत्वा कार्त्तिके मासि वैष्णवं व्रतम् उत्तमम् ॥१६॥
पाप-भूतास् तु ते ज्ञेया लोके मर्त्या महा-मुने ।
वैष्णवाख्यं व्रतं यैस् तु न कृतं कार्त्तिके शुभम् ॥१७॥

किं च—

अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन् नरः ।
जन्मार्जितस्य पुण्यस्य फलं नाप्नोति नारद ॥१८॥

किं च—

नियमेन विना चैव यो नयेत् कार्त्तिकं मुने ।
चातुर्मास्यं तथा चैव ब्रह्महा स कुलाधमः ॥१९॥

तथा चातुर्मास्यम् इति चातुर्मास्य-व्रतस्यापि नित्यत्वं दर्शयित्वा दृष्टान्तत्वेनात्रोदाहृतम् इति । एवम् अग्रे’पि ॥१९॥

किं च—

पिण्ड-दानं पितॄणां पितृ-पक्षे न वै कृतम् ।
व्रतं न कार्त्तिके मासि श्रावण्याम् ऋषि-तर्पणम् ॥२०॥
चैत्रे नान्दोलितो विष्णुर् माघ-स्नानं न सज्-जले ।
न कृतामर्दकी पुष्ये श्रावणे रौहिणाष्टमी ॥२१॥

आमर्दकी—आमर्दकी-व्रतम् । एवम् अग्रे’पि ॥२१॥

सङ्गमे न कृता येन द्वादशी श्रवणान्विता ।
क्त्र यास्यन्ति ते मूढा नाहं वेद्मि कलि-प्रिय ॥२२॥

पाद्मे च श्री-नारद-शौनकादि-मुनि-गण-संवादे—

मानुषः कर्म-भूमौ यः कार्त्तिकं नयते मुधा ।
चिन्तामणिं करे प्राप्य क्षिप्यते कर्दमाम्बुनि ॥२३॥

मुधेति नियमं विनेत्य् अर्थः ॥२३॥

नियमेन विना विप्राः कार्त्तिकं यः क्षिपेन् नरः ।
कृष्णः पराङ्-मुखस् तस्य यस्माद् ऊर्जो’स्य वल्लभः ॥२४॥
अथ तत्र विशेषेण स्नान-दानादि-सत्-कर्म-नित्यता

स्कान्दे तत्रैव—

यैर् न दत्तं हुतं जप्तं न स्नानं न हरेर् व्रतम् ।
न कृतं कार्त्तिके पुत्र द्विजास् ते वै नराधमाः ॥२५॥

एवं सामान्यतो व्रतस्य नित्यतां लिखित्वेदानीं दानादि-कर्म-विशेषस्य लिखति—यैर् न दत्तम् इत्य् आदि षड्भिः । स्नानम् इति पाठे स्नपनम् इत्य् अर्थः । तेनापि पूजैव लक्ष्यते । व्रतं कृच्छ्रादि किञ्चिद् भक्ष्य-त्यागादि वा । किं वा, दत्तादि-रूपम् एतद् धरेर् व्रतं, पुत्र हे श्री-नारद ॥२५॥

किं च—

यैर् न दत्तं हुतं जप्तं कार्त्तिके न व्रतं कृतम् ।
तेनात्मा हारितो नूनं न प्राप्तं प्रार्थितं फलम् ॥२६॥

किं च—

सम्प्राप्ते कार्त्तिके मासि ये रता न जनार्दने ।
तेषां सौरि-पुरे वासः पितृभिः सह नारद ॥२७॥

न रताः पूजादिना न भक्ता, प्रीतिं न कृतवन्तो वा ॥२७॥

किं च—

कार्त्तिके नार्चितो यैस् तु भक्ति-भावेन केशवः ।
नरकं ते गमिष्यन्ति यम-दूतैस् तु यन्त्रिताः ॥२८॥

भक्तौ भाव एकाग्रता, तेनेत्य् अर्थः ॥२८॥

जन्म-कोटि-सहस्रैस् तु मानुष्यं प्राप्य दुर्लभम् ।
कार्त्तिके नार्चितो विष्णुर् हारितं तेन जन्म वै ॥२९॥
विष्णोः पूजा कथा विष्णोर् वैष्णवानां च दर्शनम् ।
न भवेत् कार्त्तिके यस्य हन्ति पुण्यं दशाब्दिकम् ॥३०॥

अथ कार्त्तिक-माहात्म्यम्

कार्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते ।
ततो विशेषतस् तत्र कर्म-देशादि-भेदतः ॥३१॥

तत्र कार्त्तिके कर्मादि-भेदेन यो विशेषस् तेन, आदि-शब्दात् तीर्थादि ॥३१॥

अथ सामान्यतः कार्त्तिक-माहात्म्यम्

स्कान्दे तत्रैव—

कार्त्तिकस्य तु मासस्य कोट्य्-अंशेनापि नार्हति ।
सर्व-तीर्थेषु यत् स्नानं सर्व-दानेषु यत् फलम् ॥३२॥

कार्त्तिकस्य कार्त्तिक-कृत्य-माहात्म्यस्य कोट्य्-अंशानाम् एकेनाप्य् अंशेन सर्व-तीर्थ-स्नानादि-फलं समतां नार्हतीत्य् अर्थः ॥३२॥

एकतः सर्व-तीर्थानि सर्वे यज्ञाः स-दक्षिणाः ।
एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले ॥३३॥
मेरु-तुल्य-सुवर्णानि सर्व-दानानि चैकतः ।
एकतः कार्त्तिको वत्स सर्वदा केशव-प्रियः ॥३४॥

सर्वदा कलि-कालादाव् अपि ॥३४॥

यत् किञ्चित् क्रियते पुण्यं विष्णुम् उद्दिश्य कार्त्तिके ।
तद्-अक्षयं भवेत् सर्वं सत्योक्तं तव नारद ॥३५॥

सत्योक्तं—सत्यम् उक्तम् ॥३५॥

कार्त्तिकं ### मासं सर्व-मासेषु चोत्तमम् ।
पुण्यानां परमं पुण्यं पावनानां च पावनम् ॥३६॥

कार्त्तिकम् उत्तमं विद्धीति शेषः ॥३६॥

किं च—

यथा नदीनां विप्रेन्द्र शैलानां चैव नारद ।
उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते ॥३७॥
पुण्यं कार्त्तिक-मासे तु यत् किञ्चित् क्रियते मुने ।
न तस्यास्ति क्षयो ब्रह्मन् पापस्याप्य् एवम् एव च ॥३८॥

पपस्याप्य् एवम् इति । कार्त्तिके कृतस्य पापस्य क्षयो नास्तीत्य् अर्थः । अतः कार्त्तिके यत्नतः सर्वथा पापं परिहरणीयम् इति भावः ॥३८॥

न कार्त्तिक-समो मासो न कृतेन समं युगम् ।
न वेद-सदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥३९॥
कार्त्तिकः प्रवरो मासो वैष्णवानां प्रियः सदा ।
कार्त्तिकं सकलं यस् तु भक्त्या सेवेत वैष्णवः ।
पितॄन् उद्धरते सर्वान् नरकस्थान् महा-मुने ॥४०॥

पाद्मे च—

तत्रैव द्वादशेष्व् अपि मासेषु कार्त्तिकः कृष्ण-वल्लभः ।
तस्मिन् सम्पूजितो विष्णुर् अल्पकैर् अप्य् उपयनैः ।
ददाति वैष्णवं लोकम् इत्य् एवं निश्चितं मया ॥४१॥

तत्र श्री-नारद-शौनकादि-संवाद एव । उपायनैः उपचारैः ॥४१॥

यथा दामोदरो भक्त-वत्सलो विदितो जनैः ।
तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः ॥४२॥
दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः ।
तत्रापि दुर्लभः कालः कार्त्तिको हरि-वल्लभः ॥४३॥
दीपेनापि हि यत्रासौ प्रीयते हरिर् ईश्वरः ।
सु-गीतं च ददत्य् एव पर-दीप-प्रबोधनत् ॥४४॥

अथ तत्र व्रत-माहात्म्यं

स्कान्दे तत्रैव—

व्रतानाम् इह सर्वेषाम् एक-जन्मानुगं फलम् ।
कार्त्तिके तु व्रतस्योक्तं फलं जन्म-शतानुगम् ॥४५॥

व्रतं कार्त्तिक-कृत्य-नियमस् तस्य यत् फलं कार्त्तिक-व्रतोत्पन्नं पुण्यं तज्-जन्म-शतान्य् अनुगच्छतीत्य् अर्थः । पाठान्तरे तु तथैवार्थः ॥४५॥

अक्रूर-तीर्थे विप्रेन्द्र कार्त्तिक्यां समुपोष्य च ।
स्नात्वा यत् फलम् आप्नोति तच् छ्रुत्वा वैष्णवं व्रतम् ॥४६॥

वैष्णवं व्रतं कार्त्तिक-नियमं श्रुत्वापि तद् आप्नोति ॥४६॥

वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करे’र्बुदे ।
गत्वा यत् फलम् आप्नोति व्रतं क्पितृऋत्वा तु कार्त्तिके ॥४७॥
अनिष्ट्वा च सदा यज्ञैर् न कृत्वा पितृभिः स्वधाम् ।
व्रतेन कार्त्तिके मासि वैष्णवं तु पदं व्रजेत् ॥४८॥

पितृभिः पितृभ्यः । यद्य् अकरणादिना पातित्यं सूचितम् । तथापि कार्त्तिक-व्रतेन वैष्णवं पदं याति ॥४८॥

प्रवृत्तानां च भक्ष्याणां कार्त्तिके नियमे कृते ।
अवश्यं कृष्ण-रूपत्वं प्राप्यते मुक्तिदं शुभम् ॥४९॥

प्रवृत्तानां नित्यं भक्ष्यमाणाम् इत्य् अर्थः । नियमे सङ्कोचे किञ्चित् त्यागे कृते सतीत्य् अर्थः । कृष्ण-रूपत्वं कृष्ण-सारूप्यम् । मुक्तिदं संसार-दुःख-मोचनं, शुभं परम-मङ्गलं, सुख-घनम् इत्य् अर्थः । तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे तु मुक्ति-साधकम् इति पाठे मुक्तिः साधिका यस्य तत् । यद् वा, अकार-प्रश्लेषेण अमुक्तिः कृष्णे न त्यागस् तत्-साधकम् ॥४९॥

किं च—

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो व मुनि-सत्तम ।
वियोनिं न व्रजत्य् एव व्रतं कृत्वा तु कार्त्तिके ॥५०॥

वियोनिं कुजन्म पापैर् अर्जितैर् अपि न प्राप्नोति ॥५०॥

किं च—

कार्त्तिके मुनि-शार्दूल स्व-शक्त्या वैष्णवं व्रतम् ।
यः करोति यथोक्तं तु मुक्तिस् तस्य करे स्थिता ॥५१॥
सु-पुण्ये कार्त्तिके मासि देवर्षि-पितृ-सेविते ।
क्रियमाणे व्रते नृणां स्व्-अल्पे’पि स्यान् महा-फलम् ॥५२॥

अथ तत्र कर्म-विशेष-माहात्म्यं

स्कन्दे तत्रैव—

दानं दत्तं हुतं जप्तं तपश् चैव तथा कृतम् ।
तद् अक्षय-फलं प्रोक्तं कार्त्तिके च द्विजोत्तम ॥५३॥

दीयत इति दानम् अन्नादि ॥५३॥

किं च—

यत् किञ्चित् कार्त्तिके दत्तं विष्णुम् उद्दिश्य मानवैः ।
तद् अक्षयं लभ्यते वै अन्न-दानं विशेषतः ॥५४॥

किं च—

यस् तु संवत्सरं पुर्नम् अग्निहोत्रम् उपासते ।
कार्त्तिके स्वस्तिके कृत्वा समम् एतन् न संशयः ॥५५॥

यश् च कार्त्तिके स्वस्तिकं कृत्वा स्थितः । कुर्याद् इति वा पाठः ॥५५॥

कार्त्तिके या करोत्य् एवं केशवालय-मण्डलम् ।
स्वर्ग-स्था शोभते सा सु कपोती पक्षिणी यथा ॥५६॥
यः करोति नरो नित्यं कार्त्तिके पत्र-भोजनम् ।
न स दुर्गतिम् आप्नोति यावद् इन्द्रश् चतुर्दश ॥५७॥
जन्म-प्रभृति यत् पापं मानवैश् च कृतं भवेत् ।
तत् सर्वं नाशम् आप्नोति ब्रह्म-पत्रेषु भोजनात् ॥५८॥

ब्रह्म पलाश-वृक्षस् तस्य पुत्रेषु ॥५८॥

सर्व-काम-फलं तस्य सर्व-तीर्थ-फलं लभेत् ।
न वापि नरकं पश्येद् ब्रह्म-पत्रेषु भोजनत् ॥५९॥
ब्रह्म चैष स्मृतिः साक्षात् पलाशः सर्व-काम-दः ।
मध्यमं वर्जितं पत्रं शूद्रस्य मुनि-सत्तम ।
भुञ्जन् नरकम् आप्नोति यावद् इन्द्रश् चतुर्दश ॥६०॥
तिल-दानं नदी-स्नानं सत्-कथा साधु-सेवनम् ।
भोजनं ब्रह्म-पत्रेषु कार्त्तिके मुक्ति-दायकम् ॥६१॥
जागरं कार्त्तिके मासि यः करोत्य् अरुणोदये ।
दामोदराग्रे विप्रेन्द्र गो-सहस्र-फलं लभेत् ॥६२॥
जागरं पश्चिमे यामे यः करोति महा-मुने ।
कार्त्तिके सन्निधौ विष्णोस् तत्-पदं कर-संस्थितम् ॥६३॥

पश्चिमे अन्त्ये तस्य विष्णोः पदम् । तस्य कर-संस्थितम् ॥६३॥

साधु-सेवा गवां ग्रासः कथा विष्णोस् तथार्चनम् ।
जागरे पश्चिमे यामे दुर्लभः कार्त्तिके कलौ ॥६४॥

दुर्लभः महा-भाग्येनैव सिध्यतीत्य् अर्थः ॥६४॥

किं च—

जल-धेनु-सहस्रं च वृष-संस्थे दिवाकरे ।
तोयं दत्त्वा यद् आप्नोति स्नानं कृत्वा तु कार्त्तिके ॥६५॥
सन्निहत्यां कुरुक्षेत्रे राहु-ग्रस्ते दिवाकरे ।
सूर्य-वरेण यत् स्नानं तद् एकाहेन कार्त्तिके ॥६६॥

सन्निहत्या नाम ह्रदस् तां प्राप्येत्य् अर्थः ॥६६॥

पितॄन् उद्दिश्य यद् दत्तं कार्त्तिके कृष्ण-वल्लभे ।
अन्नोदकं मुनि-श्रेष्ठ अक्षयं जायते नृणाम् ॥६७॥

किं च—

गीत-शास्त्र-विनोदेन कार्त्तिकं यो नयेन् नरः ।
न तस्य पुनर् आवृत्तिर् मया दृष्टा कलि-प्रिय ॥६८॥

किं च—

प्रदक्षिणं च यः कुर्यात् कार्त्तिके विष्णु-सद्मनि ।
पदे पदे’श्वमेधस्य फल-भागी भवेन् नरः ॥६९॥
गीतं वाद्यं च नृत्यं च कार्त्तिके पुरतो हरेः ।
यः करोति नरो भक्त्या लभते चाक्षयं पदम् ॥७०॥
हरेर् नाम-सहस्राख्यं गजेन्द्रस्य च मोक्षणम् ।
कार्त्तिके पठते यस् तु पुनर् जन्म न विन्दते ॥७१॥
कार्त्तिके पश्चिमे यामे स्तवं गानं करोति यः ।
वसते श्वेतद्वीपे तु पितृभिः सह नारद ॥७२॥
नैवेद्य-दानेन तु हरेः कार्त्तिके यव-सङ्ख्यया ।
युगानि वसते स्वर्गे तावन्ति मुनि-सत्तम ॥७३॥
अगुरुं तु स-कर्पूरं यो दहेत् केशवाग्रतः ।
कार्त्तिके तु मुनि-श्रेष्ठ युगान्ते न पुनर् भवः ॥७४॥

युगान्ते’पि सति ॥७४॥

किं च—

नियमेन कथं विष्णोर् ये शृण्वन्ति च भावितः ।
श्लोकार्धं श्लोक-पादं वा कार्त्तिके गो-शतं फलम् ॥७५॥

भाविता भाव-युक्ताः । येषां गो-शत-दान-फलं स्यात् ॥७५॥ \

सर्व-धर्मान् परित्यज्य कार्त्तिके केशवाग्रतः ।
शास्त्रावतरनं पुण्यं श्रोतव्यं च महा-मुने ॥७६॥

विशेषतः कार्त्तिके सद्भिः सह भगवत्-कथा-माहात्म्यम् आह—सर्वेति पञ्चभिः ॥७६॥

श्रेयसा लोभ-बुद्ध्या वा यः करोति हरेः कथाम् ।
कार्त्तिके मुनि-शार्दूल कुलानां तारयेच् छतम् ॥७७॥
नित्यं शास्त्र-विनोदेन कार्त्तिकं यः क्षिपेन् नरः ।
निर्दहेत् सर्व-पापनि यज्ञायुत-फलं लभेत् ॥७८॥
न तथा तुष्यते दानैर् न यज्ञैर् गो-गजादिकैः ।
यथा शास्त्र-कथालापैः कार्त्तिके मधुसूदनः ॥७९॥
कार्त्तिके मुनि-शार्दूल यः शृणोति हरेः कथाम् ।
स निस्तरति दुर्गाणि जन्म-कोटि-शतानि च ॥८०॥

दुर्गानि आपदः ॥८०॥

यः पठेत् प्रायतो नित्यं श्लोकं भागवतं मुने ।
अष्टादश-पुराणानां कार्त्तिके फलम् आप्नुयात् ॥८१॥

भागवतं भगवत्-परं भागवतीयं वेत्य् अर्थः ॥८१॥

किं च—

सर्वान् धर्मान् परित्यज्य इष्टापूर्तादिकान् नरः ।
कार्त्तिके परया भक्त्या वैष्णवैः सह संवसेत् ॥८२॥

अत एव विशेषतः सत्-सङ्ग-माहात्म्यम् आह—सर्वान् इति ॥८२॥

पाद्मे च तत्रैव—

कार्त्तिके भूमि-शायी यो ब्रह्मचारी हविष्य-भुक् ।
पलाश-पत्रं भुञ्जानो दामोदरम् अथार्चयेत् ॥८३॥
स सर्व-पातकं हित्वा वैकुण्ठे हरि-सन्निधौ ।
मोदते विष्णु-सदृशो भजनानन्द-निर्वृतः ॥८४॥

विष्णु-सदृशः सारूप्यादि-प्राप्तेः ॥८४॥

किं च—

कार्त्तिकं सकलं मासं प्रातः-स्नायी जितेन्द्रियः ।
जपन् हविष्य-भुग् दान्तः सर्व-पापैः प्रमुच्यते ॥८५॥
कार्त्तिकं तु नरो मासं यः कुर्याद् एक-भोजनम् ।
शूरश् च बहु-वीर्यश् च कीर्तिमाम्श् च स जायते ॥८६॥

दान्तः जित-क्रोधादिः । शान्त इति वा पाठः । शूरः सर्व-शक्तिमान् । बहुवीर्यः महा-पराक्रमः ॥८५-८६॥

किं च—

पलाश-पत्र-भोजो च कार्त्तिके पुरुषो नरः ।
निष्पापः स्यात् तु नैवेद्यं हरेर् भुक्त्वा विमुच्यते ।
मध्य-स्थम् अईश्वरं पत्रं वर्जयेद् ब्राह्मणेतरः ॥८७॥

किं च—

अपराध-सहस्राणि पातकानि महान्त्य् अपि ।
क्षमते’स्य हरिर् देवः पूजिते कार्त्तिके प्रभुः ॥८८॥
नैवेद्यं पायसं विष्णोः प्रियं खण्डं घृतान्वितम् ।
विभज्य तच् च भुञ्जानो यज्ञ-साम्यं दिने दिने ॥८९॥

यज्ञ-साम्यं यज्ञ-सम-फलं लभत इति शेषः ॥८९॥

तत्रैव श्री-कृष्ण-सत्य-संवादे—

स्नानं जागरणं दीपं तुलसी-वन-पालनम् ।
कार्त्तिके ये प्रकुर्वन्ति ते नरा विष्णु-मूर्तयः ॥९०॥

स्नानं जागरणं नित्यं रात्र्य्-अन्तर्याम्-विषयकम् । विष्णु-मूर्तयो विष्णु-सारूप्यं प्राप्नुवन्तीत्य् अर्थम् ॥९०॥

इत्थं दिन-त्रयम् अपि कार्त्तिके ये प्रकुर्वते ।
देवानाम् अपि ते वन्द्याः किं यैर् आजन्म तत् कृतम् ॥९१॥

तत्रैव कार्त्तिक-व्रताङ्गानि

हरि-जागरणं प्रातः स्नानं तुलसी-सेवनम् ।
उद्यापनं दीप-दानं व्रतान्य् एतानि कार्त्तिके ॥९२॥
पञ्चभिर् व्रतकैर् एभिः सम्पूर्णं कार्त्तिके व्रती ।
फलम् आप्नोति तत् प्रोक्तं भुक्ति-मुक्ति-फल-प्रदम् ॥९३॥
1

विष्णोः शिवस्य वा कुर्याद् आलये हरि-जागरम् ।
कुर्याद् अश्वत्थ-मुले वा तुलसीनां वनेषु च ॥९४॥
आपद्-गतो यदाप्य् अम्भो न लभेत् सवनाय सः ।
व्याधितो वा पुनः कुर्याद् विष्णोर् नामापमार्जनम् ॥९५॥
उद्यापनं विधिं कर्तुम् अशक्तो वा व्रते स्थितः ।
ब्राह्मणान् भोजयेच् छक्त्या व्रत-सम्पूर्ण-हेतवे ॥९६॥
अशक्तो दीप-दानस्य पर-दीपान् प्रबोधयेत् ।
तेषां वा रक्षणं कुर्याद् वातादिभ्यः प्रयत्नतः ॥९७॥
अभावे तुलसीनां च पूजयेद् वैष्णवं द्विजम् ।
सर्वाभावे व्रती कुर्याद् ब्राह्मणानां गवाम् अपि ।
सेवां वा बोधि-वटयोर् व्रत-सम्पूर्ण-हेतवे ॥९८॥

अथ तत्र दीप-दान-माहात्म्यं

स्कान्दे तत्रैव—

कल्प-कोटि-सहस्राणि पातकानि बहून्य् अपि ।
निमेषार्धेन दीपस्य विलयं यान्ति कार्त्तिके ॥९९॥

कल्प-कोटि-सहस्राणि व्याप्य यानि पातकानि । कृत्वा इति पाठे स्थितानीति शेषः । बहूनि महान्त्य् अपि विविधान्य् अपीति वा ॥९९॥

किं च—

शृणु दीपस्य माहात्म्यं कार्त्तिके केशव-प्रियम् ।
दीप-दानेन विप्रेन्द्र न पुनर् जायते भुवि ॥१००॥
रवि-ग्रहे कुरुक्षेत्रे नर्मदायां शशि-ग्रहे ।
तत् फलं कोटि-गुनितं दीप-दानेन कार्त्तिके ॥१०१॥

कुरुक्षेत्रादौ विषये रवि-ग्रहणादौ दानादिना यत् फलम् ॥१०१॥

घृतेन दीपको यस्य तिल-तैलेन वा पुनः ।
ज्वलते मुनि-शार्दूल अश्वमेधेन तस्य किम् ॥१०२॥
मन्त्र-हीनं क्रिया-हीनं सौच-हीनं जनार्दने ।
सर्वं सम्पूर्णतं याति कार्त्तिके दीप-दानतः ॥१०३॥

मन्त्रादि-हीनं जनार्दने यत् कर्म तत् । यद् वा, जनार्दने दीप-दानत इति सम्बन्धः ॥१०३॥

तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ।
दीप-दानं कृतं येन कार्त्तिके केशवाग्रतः ॥१०४॥
तावद् गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ।
यावन् न ज्वलते ज्योतिः कार्त्तिके केशवाग्रतः ॥१०५॥

ज्योतिः दीपः ॥१०५॥

श्रूयते चापि पितृभिर् गाथा गीता पुरा द्विज ।
भविष्यति कुले’स्माकं पितृ-भक्तः सुतो भुवि ॥१०६॥
कार्त्तिके दीप-दानेन यस् तोषयति केशवम् ।
मुक्तिं प्राप्स्यामहे नूनं प्रसादाच् चक्र-पाणिनः ॥१०७॥

किं च—

मेरु-मन्दर-मात्राणि कृत्वा पापान्य् अशेषतः ।
दहते नात्र सन्देहो दीप-दानात् तु कार्त्तिके ॥१०८॥
गृहे वायतने वापि दीपान् दद्याच् च कार्त्तिके ।
पुरतो वासुदेवस्य महा-फल-विधायिनः ॥१०९॥

आयतने देवालये । वासुदेवस्य पुरतो दीपं दद्यात् । महा-फलं वैकुण्ठ्-लोक-प्राप्ति-लक्षणं तद्-विधायिन इति दीप-दान-माहात्म्यं सूचितम् ॥१०९॥

स जातो मानुषे लोके स धन्यः स च कीर्तिमान् ।
प्रदत्तः कार्त्तिके मासि दीपो वै मधुहाग्रतः ॥११०॥
निमिषार्धार्ध-मात्रेण दीप-दानेन कार्त्तिके ।
न तत् क्रतु-शतैः प्राप्यं फलं तीर्थ-शतैर् अपि ॥१११॥

निमिषार्धार्ध-गात्रेन यत् स्यात् ॥१११॥

सर्वानुष्ठान-हीनो’पि सर्व-पाप-रतो’पि सन् ।
पूयते नात्र सन्देहो दीपं दत्त्वा तु कार्त्तिके ॥११२॥
तन् नास्ति पातकं किञ्चित् त्रिषु लोकेषु नारद ।
यन् न शोधयते दीपः कार्त्तिके केशवाग्रतः ॥११३॥
पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके ।
प्राप्नोति शाश्वतं स्थानं सर्व-बाधा-विवर्जितम् ॥११४॥
यः कुर्यात् कार्त्तिके मासि कर्पूरेण तु दीपकम् ।
द्वादश्यां च विशेषेण तस्य पुण्यं वदामि ते ॥११५॥
कुले तस्य प्रसूता ये ये भविष्यन्ति नारद ।
समतिताश् च ये केचिद् येषां सङ्ख्या न विन्दते ॥११६॥
क्रीडित्वा सु-चिरं कालं देव-लोके यदृच्छया ।
ते सर्वे मुक्तिम् आयान्ति प्रसादाच् चक्र-पाणिनः ॥११७॥

किं च—

द्यूत-व्याजेन विप्रेन्द्र कार्त्तिके केशवालयम् ।
द्योतयेद् यो महा-भाग पुनात्य् आसप्ततं कुलम् ॥११८॥
कार्त्तिके दीप-दानं तु कुर्याद् यो वैष्णवालये ।
धनं पुत्रो यशः कीर्तिर् भवेत् तस्य च सर्वदा ॥११९॥
यथा च मथनाद् वह्निः सर्व-काष्ठेषु दृश्यते ।
तथा च दृश्यते धर्मो दीप-दाने न संशयः ॥१२०॥

इदानीं माहात्म्य-द्वारैव नित्यताम् अभिप्रैति—यथेति त्रिभिः । सर्व-काष्ठेषु स्थितो’पि वह्निर् यथा मथनाद् एव दृश्यते । प्रकटो भवति । तथा सर्व-कर्मसु स्थितो’पि धर्मो दीप-दाने सत्य् एव दृश्यते । नान्यथा अत्र च संशयो नास्ति । अतो दीप-दानं विना सर्व-धर्मो विफलः स्याद् इत्य् अर्थः ॥१२०॥

किं च—

निर्धनेनापि विप्रेन्द्र कृत्वा चैवात्म-विक्रयम् ।
कर्तव्यं दीप-दानं तु यावत् कार्त्तिक-पूर्णिमा ॥१२१॥
वैष्णवो न स मन्तव्यः सम्प्राप्ते कार्त्तिके मुने ।
यो न यच्छति मूढात्मा दीपं केशव-सद्मनि ॥१२२॥

आत्म-विक्रयं कृत्वा वेतनादिकं कृत्वापि । वैष्णवानां चैतद् आवश्यकम् इत्य् आह—वैष्णव इति ॥१२२॥

नारदीये श्री-रुक्माङ्गद-मोहिनी-संवादे—

एकतः सर्व-दानानि दीप-दानानि चैकतः ।
कार्त्तिके न समं प्रोक्तं दीप-दो ह्य् अधिकः स्मृतः ॥१२३॥

एतत् कर्म-द्वयं समं न प्रोक्तं ब्रह्मादिभिः ॥१२३॥

पाद्मे च तत्रैव—

कार्त्तिके’खण्ड-दीपं यो ददाति हरि-सन्निधौ ।
दिव्य-कान्ति-विमानाग्रे रमते स हरेः पुरे ॥१२४॥

अखण्ड-दीपो रात्रिं दिनम् अविच्छेदेन यो ज्वलति तम् ॥१२४॥

अथ यत्र प्रदीप-प्रबोधन-माहात्म्यं

स्कान्दे तत्रैव—

पितृ-पक्षे’न्न-दानेन ज्यैष्ठाषाढे च वारिणा ।
कार्त्तिके तत् फलं पुंसां पर-दीप-प्रबोधनात् ॥१२५॥

अस्तु तावद् दीप-दान-माहात्म्यं, कार्त्तिके पर-दीप-प्रबोधनेनापि कृतार्थता स्याद् इत्य् आह—पितृ-पक्ष इति पञ्चभिः ॥१२५॥

बोधनात् पर-दीपस्य वैष्णवानां च सेवनात् ।
कार्त्तिके फलम् आप्नोति राजसूयाश्वमेधयोः ॥१२६॥
दीपमानं तु ये दीपं बोधयन्ति हरेर् गृहे ।
परेण न्र्प-शार्दूल निस्तीर्णा यम-यातना ॥१२७॥

परेण दीयमानम् ॥१२७॥

न तद् भवति विप्रेन्द्र इष्टैर् अपि महा-मखैः ।
कार्त्तिके यत् फलं प्रोक्तं पर-दीप-प्रबोधनात् ॥१२८॥
एकादश्यां परैर् दत्तं दीपं प्रज्वल्य मूषिका ।
मानुष्यं दुर्लभं प्राप्य परां गतिम् अवाप सा ॥१२९॥

तत् फलं साक्षाद् दृष्टम् एवास्तीत्य् आह—एकादश्याम् इति । अयम् इतिहाषश् च पाद्मे कार्त्तिक-माहात्म्ये प्रसिद्ध एव ॥१२९॥

अथ शिखर-दीप-माहात्म्यं

स्कान्दे तत्रैव—

यदा यदा भासयते दीपकः कलसोपरि ।
तदा तदा मुनि-श्रेष्ठ द्रवते पाप-सञ्चयः ॥१३०॥

कलसो यः प्रासादोपरि वर्तते । तस्योपरि भासयते । दिशः प्रकाशयति । स्वार्थे वा इन् भासत इत्य् अर्थः ॥१३०॥

यो ददाति द्विजातिभ्यो महीम् उदधि-मेखलाम् ।
हरेः शिखर-दीपस्य कलां नार्हति षोडशीम् ॥१३१॥

कलाम् अंशं नार्हति । तत्-सदृशम् अपि फलं नाप्नोतीत्य् अर्थः । एवम् अग्रे’पि ॥१३१॥

यो ददाति गवां कोटिं स-वत्सं क्षीर-संयुतम् ।
हरेः शिखर-दीपस्य कलां नार्हति षोडशीम् ॥१३२॥
सर्वस्व-दानं कुरुते वैष्णवानां महा-मुने ।
केशवोपरि दीपस्य कलां नार्हति षोडशीम् ॥१३३॥

वैष्णवानां वैष्णवेभ्यः ॥१३३॥

किं च—

यः करोति परं दीपं मूल्येनापि महा-मुने ।
शिखरोपरि मध्ये च कुलानां तारयेच् छतम् ॥१३४॥
विमानं ज्योतिषा दीप्तं ये निरीक्ष्यन्ति कार्त्तिके ।
केशवस्य महा-भक्त्या कुले तेषां न नारकी ॥१३५॥

अस्तु तावच् छिखर-दीपस्य दान-माहात्म्यं, तद्-दर्शनाद् अपि कृतार्थता स्याद् इत्य् आह—विमानम् इति । केशवस्य विमानं विमानवद् आकाशगम् उच्चतरं प्रासादम् इत्य् अर्थः ॥१३५॥

दिवि देवा निरीक्ष्यन्ते विष्णु-दीप-प्रदं नरम् ।
कदा भविष्यत्य् अस्माकं सङ्गमः पुण्य-कर्मणा ॥१३६॥

अत एव दिवि स्थिता निरीक्षन्ते । पुण्य-कर्मणा दीप-दानेन नरेण सह ॥१३६॥

कार्त्तिके कार्त्तिकीं यावत् प्रसादोपरि दीपकम् ।
यो ददाति मुनि-श्रेष्ठ तस्येन्द्रत्वं न दुर्लभम् ॥१३७॥

अथ तत्र दीप-मल-माहात्म्यं

स्कान्दे तत्रैव—

दीप-पङ्क्तेश् च रचनं स-बाह्याभ्यन्तरे हरेः ।
विष्णोर् विमाने कुरुते स नरः शङ्ख-चक्र-धृक् ॥१३८॥

स-बाह्याभ्यन्तरे विमानस्य बहिर्-अन्तश् चेत्य् अर्थः । शङ्ख-चक्र-धृक् सारूप्यं प्राप्नोतीत्य् अर्थः ॥१३८॥

दीप-पङ्क्तेश् च रचनं कुरुते केशवालये ।
तस्यान्वये प्रसूतानां लक्षणं नरकं न हि ॥१३९॥
विष्णोर् विमानं दीपाढ्यं स-बाह्याभ्यन्तरे मुने ।
दीपोद्यत-करे मार्गे तेन प्राप्तं परं पदम् ॥१४०॥

दीपाढ्यं येन कृतम् इति शेषः ॥१४०॥

भविष्ये च—

यः कुर्यात् कार्त्तिके मासि शोभनं दीप-मालिकाम् ।
प्रबोधे चैव द्वादश्याम् एकादश्यां विशेषतः ॥१४१॥
सूर्यायुत-प्रकाशस् तु तेजसा भासयन् दिशः ।
तेजो-राशि-विमान-स्थो जगद् उद्द्योतयंस् त्विषा ॥१४२॥
यावत् प्रदीप-सङ्ख्या तु घृतेनापूर्य बोधिता ।
तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥१४३॥

बोधिता प्रज्वालिता । बोधितानां प्रदीपानां यावती सङ्ख्या इत्य् अर्थः ॥१४३॥

पाद्मे तत्रैव—

उच्चैः प्रदीपम् आकाशे यो दद्यात् कार्त्तिके नरः ।
सर्वं कुलं समुद्धृत्य विष्णु-लोकम् अवाप्नुयात् ॥१४४॥
विष्णु-केशवम् उद्दिश्य दीपं दद्यात् तु कार्त्तिके ।
आकाश-स्थं जल-स्थं च शृणु तस्यापि यत् फलम् ॥१४५॥

अस्यापि यत् फलं तत् शृणुत । भो विप्राः ॥१४५॥

धनं धन्यं समृद्धिश् च पुत्रवान् ईश्वरो ग्र्हे ।
लोचने च शुभे तस्य विद्वान् अपि च जायते ॥१४६॥

किं च—

विप्र-वेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।
अग्निष्टोम-फलं तस्य प्रवदन्ति मनीषिणः ॥१४७॥

एवम् आकाशे ज्वलद्-दीप-दान-माहात्म्यं लिखित्वा आदि-शब्द-लिखनेन गृहीतं ब्राह्मण-गृहादौ दीप-दान-माहात्म्यं लिखति—विप्रेति द्वाभ्याम् ॥१४७॥

चतुष्पथेषु रथ्यासु ब्राह्मणावसथेषु च ।
वृक्ष-मूलेषु गोष्ठेषु कान्तारे गहनेषु च ।
दीप-दानाद् धि सर्वत्र महा-फलम् अवाप्नुयात् ॥१४८॥

रथ्यासु राज-मार्गेषु ॥१४८॥

आकाश-दीप-दान-मन्त्रः

तत्रैव—

**दामोदराय नभसि तुलायां लोलया सह ।
प्रदीपं ते प्रयच्छामि नमो’नन्ताय वेधसे ॥१४९॥ **इति ।

तुलायां कार्त्तिके इत्य् अर्थः । लोलया लक्ष्म्या । यद् वा, लक्ष्म्य्-अंशकत्वाभिप्रायेण प्रेम-विशेषेण वा चञ्चलया, अ-कार-प्रश्लेषेण वा धीरया श्री-राधया सह सहिताय ॥१४९॥

अथ देश-विशेषे कार्त्तिक-माहात्म्य-विशेषः

पाद्मे तत्रैव—

यत्र कुत्रापि देशे यः कार्त्तिक-स्नान-दानतः ।
अग्निहोत्र-सम-फलः पूजायां च विशेषतः ॥१५०॥
कुरुक्षेत्रे कोटि-गुणो गङ्गायां चापि तत्-समः ।
ततो’धिकः पुष्करे स्याद् द्वारकायां च भार्गव ।
कृष्ण-सालोक्य-दो मासः पूजा-स्नानैश् च कार्त्तिकः ॥१५१॥

भार्गव हे शौनक ! द्वारकायां च कृष्ण-सालोक्यदः ॥१५१॥

अन्यः पूर्यास् तत्-समाना मुनयो मथुरां विना ।
दामोदरत्वं हि हरेस् तत्रैवासीद् यतः किल ॥१५२॥

हे मुनयः ! अन्या अयोध्यादयः । तत्र मथुरायां कार्त्तिके च ॥१५२॥

मथुरायां ततश् चोर्जे वैकुण्ठ-प्रीति-वर्धनः ।
कार्त्तिके मथुरायां वै परमावधिर् इष्यते ॥१५३॥

वैकुण्ठे श्री-कृष्णे प्रीतिः प्रेमा, तस्य वर्धनः अतिशयेनोत्पादकः । अत एव पर्मावधिः फले परम-काष्ठां प्राप्त इत्य् अर्थः ॥१५३॥

यथा माघे प्रयागः स्याद् वैशाखे जाह्नवी यथा ।
कार्त्तिके मथुरा सेव्या तटोत्कर्षः परो न हि ॥१५४॥

ततः कार्त्तिके मथुरा-सेवनात् । विसर्ग-लोपे’पि सन्धिर् आर्षः । तथेति पाठे’पि स एवार्थः ॥१५४॥

मथुरायां नरैर् ऊर्जे स्नात्वा दामोदरो’र्चितः ।
कृष्ण-रूपा हि ते ज्ञेया नात्र कार्या विचारणा ॥१५५॥

नरैर् यैः । कृष्णं रूपयन्ति पश्यन्तीति तथा ते । यद् वा, कृष्णवत् पूज्या इति भावः । यद् वा, तत्-सारूप्यं प्राप्ता इति ज्ञेया इत्य् अर्थः ॥१५५॥

दुर्लभः कार्त्तिको विप्रा मथुरायां नृणाम् इह ।
यत्रार्चितः स्वकं रूपं भक्तेभ्यः सम्प्रयच्छति ॥१५६॥
भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितो’न्यत्र सेविनाम् ।
भक्तिं च न ददात्य् एष यतो वश्य-करी हरिः ॥१५७॥

अन्यत्र श्री-मथुरा-व्यतिरिक्त-स्थाने । सेविनाम् अर्चनादि-कारिणां तेभ्यः ॥१५७॥

स त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृद् अपि श्री-दामोदर-पूजनात् ॥१५८॥
मन्त्र-द्रव्य-विहीनं च विधि-हीनं च पूजनम् ।
मन्यते कार्त्तिके देवो मथुरायां यद्-अर्चनम् ॥१५९॥

तच् च यथा-कथञ्चित् पूजनेन सिध्येद् इत्य् आह—मन्त्रेति ॥१५९॥

यस्य पापस्य युज्येत मरणान्ता विनिष्कृतिः ।
तच्-छुद्ध्य्-अर्थम् इदं प्रोक्तं प्रायश्चित्तं सु-निश्चितम् ॥१६०॥

न चात्र कथञ्चित् पापे जाते’पि प्रायश्चित्तान्तरापेक्ष्येत्य् आह—यस्येति सार्धेन ॥१६०॥

कार्त्तिके मथुरायां वै पूजनाद् दर्शनं ध्रुवः ।
शीघ्रं सम्प्राप्तवान् बलो दुर्लभं योग-तत्-परैः ॥१६१॥

तत् फलं च न केवलं शास्त्र-प्रमाणकं, किन्तु साक्षाद्-अनुभव-प्रमाणकं चेत्य् आह—कार्त्तिक इति । वै प्रसिद्धौ । योग-तत्-परैः सनकादिभिर् अपिक् दुर्लभं श्री-भगवद्-दर्शनं बालो’पि शीघ्रम् एव मास-पञ्चकेन सम्यक् प्रकर्षेण आप्तवान् लेभे ॥१६१॥

सुलभा मथुरा भूमौ प्रत्य्-अब्दं कार्त्तिकस् तथा ।
तथापि संसरन्तीह नरा मूढा भवाम्बुधौ ॥१६२॥

कृपया तद्-विमुखान् शोचन्न् इवाह—सुलभेति पञ्चभिः । भूमौ भारतवर्षे मध्य-देशान्तर्-वर्तित्वात् ॥१६२॥

किं यज्ञैः किं तपोभिश् च तीर्थैर् अन्यैश् च सेवितैः ।
कार्त्तिके मथुरायां चेद् अर्च्यते राधिका-प्रियः ॥१६३॥

यज्ञादि-फलं च तेनैव सिध्येद् इथ् आह—किम् इति । राधिका-प्रियः श्री-दामोदरः ॥१६३॥

यानि सर्वाणि तीर्थानि नदा नद्यः सरांसि च ।
कार्त्तिके निवसन्त्य् अत्र माथुरे सर्व-मण्डले ॥१६४॥

कार्त्तिके’न्यत्र गमनं च विफलम् एवेत्य् आशयेनाह—यानीति ॥१६४॥

कार्त्तिके जन्म-सदने केशवस्य च ये नराः ।
सकृत् प्रविष्टाः श्री-कृष्णं ते यान्ति परम् अव्ययम् ॥१६५॥

अस्तु तावत् समस्त-मथुरासेनं श्री-दामोदर-पूजनं वा । श्री-भगवज्-जन्म-स्थान-प्रवेश-मात्रेणैव श्री-वैकुण्ठ-लोक-प्राप्तिर् इत्य् आह—कार्त्तिक इति ॥१६५॥

**परोपहासम् उद्दिश्य कार्त्तिके हरि-पूजया ।
मथुरायां लभेद् भक्त्या किं पुनः श्रद्धया नरः ॥१६६॥ **इति ।

तत्राशक्तौ च यत्र कुत्रापि श्री-मथुरा-मध्ये श्री-कृष्ण-पूजाभासेनापि दुर्लभं लभत इत्य् आह—परोपेति । अत्र चेतिहासस् तत्रैव ख्यातः, यथा— «धूम्र-केश-नामा महा-पातकी राज-कुमारः पित्रा विवासितो दस्यु-वृत्त्या क्रमेण वृन्दावनं गतो मथुरा-पुर्या चौर्यार्थं गतो वेश्या-रतस् तत्-प्रीत्यै वृन्दावनान्तर्वर्ति-भगवत्-पर-सत्यव्रताख्य-विप्रचेष्टितम् उपहसन् प्रभाते राज-पुरुषैः प्राप्य हतो धर्म-राजेन बहु-सत्कृतस् तस्माद् धर्म-तत्त्वं प्रकाश्य वैकुण्ठ-लोकं गतः» इति ॥१६६॥

इत्थं कार्त्तिक-कृत्याणि व्यक्तान्य् एव स्वतो’भवन् ।
तत्र किञ्चिद् विशेषेण तद्-विधिर् लिख्यते’धुना ॥१६७॥

इत्थं—माहात्म्यादि-लिखन-प्रकारेण । अतश् च पूर्व-लिखितान्य् अन्यान्य् अपि कार्त्तिक-कृत्यानि ज्ञेयानीति भावः ॥१६७॥

अथ कार्त्तिक-कृत्य-विधिः

तत्रोपक्रम-कलः

श्री-कृष्ण-सत्या-संवादीय-कार्त्तिक-माहात्म्ये—

अश्विनस्य तु मासस्य य शुक्लैकादशी भवेत् ।
कार्त्तिकस्य व्रतानीह तस्यां कुर्याद् अतन्द्रितः ॥१६८॥
नित्यं जागरणायान्त्ये यामे रात्रेः समुत्थितः ।
सुचिर् भूत्वा प्रबोध्याथा स्तोत्रैर् नीराजयेत् प्रभुम् ॥१६९॥
निशम्य वैष्णवान् धर्मान् वैष्णवैः सह हर्षितः ।
कृत्वा गीतादिकं प्रातर् देवं नीराजयेत् प्रभुम् ॥१७०॥
नद्य्-आदौ च ततो गत्वाचम्य सङ्कल्पम् आचरेत् ।
प्रभुं प्रार्थ्याथ तस्मै च दद्याद् अर्घ्यं यथा-विधि ॥१७१॥

कार्त्तिके शेष-याम-जागरणस्य माहात्म्य-विशेषोक्तेस् तद् अत्र विशेषतो लिखितम् । एवम् अग्रे’प्य् ऊह्यम्, उत्थानादिकं चान्यत् साधारणम् एवेति दिक् ॥१६९॥ पुनर् नीराजयेद् इति मङ्गल-नीराजनं लिखितम् ॥१७०॥ यथा-विधीत्य् अस्य पूर्वत्रापि सर्वत्रैवानुषङ्गः, प्रातर् उत्थानादि-विधिश् च पूर्वम् एव लिखितो’स्ति । अपेक्ष्यस् तद्-विशेषस् तु तत्रैव ज्ञेयः, अत्र च मध्ये मध्ये किञ्चिद् विशेष-लिखनायपुनस् तत् किञ्चिद् उल्लिखितम् ॥१७१॥

अथ सङ्कल्प-मन्त्रः
कार्त्तिके’हं करिष्यामि प्रातः-स्नानं जनार्दन ।
प्रीत्य्-अर्थं तव देवेश दामोदर मया सह ॥१७२॥ इति ।

मा लक्ष्मीः श्री-राधा-रूपा, तया सहितस्य तव प्रीत्य्-अर्थम् ॥१७२॥

अथ प्रार्थना-मन्त्रः
तव ध्यानेन देवेश जले’स्मिन् स्नातुम् उद्यतः ।
त्वत्-प्रसादाच् च मे पापं दामोदर विनश्यतु ॥१७३॥
अथ प्रार्थना-मन्त्रः
व्रतिनः कार्त्तिके मासि स्नानस्य विधिवन् मम ।
दामोदर गृहानार्घ्यं दनुजेन्द्र-निसूदन ॥१७४॥
नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पाप-शोषणे ।
गृहानार्घ्यं मया दत्तं राधया सहितो हरे ॥१७५॥
तिलैर् आलिप्य देहं स्वं नामोच्चरण-पूर्वकम् ।
स्नात्वा स-विधिना सन्ध्याम् उपास्य गृहम् आव्रजेत् ॥१७६॥

स्वं स्वकीयं देहं, नाम श्री-कृष्ण-नारायणेत्य्-आदि, तद्-उच्चारण-पूर्वकम् ॥१७६॥

उपलिप्याथ देवाग्रे निर्माय स्वस्तिकं प्रभुम् ।
तुलसी-मालती-पद्मागस्त्य-पुष्पादिनार्चयेत् ॥१७७॥
नित्यं वैष्णव-सङ्गत्या सेवेत भगवत्-कथाम् ।
सर्पिषाहर्-निसं दीपं तिल-तैलेन चार्चयेत् ॥१७८॥
विशेषतश् च नैवेद्यान्य् अर्पयेद् अर्चयेत् तथा ।
प्रणामाम्श् च यथा-शक्त्या एक-भक्तादिक-व्रतम् ॥१७९॥

आदि-शब्देन केतकी-बिल्व-पत्रादि ॥१७७॥ विशेषतः अन्य-मासतः किञ्चिद् आधिकेय्नोत्तमतया चेत्य् अर्थः । तथा विशेषतः प्रणामांश् चाचरेत् । यथा-शक्तीत्य् अस्य पूर्वे परे’पि सर्वत्रैव सम्बन्धः । एक-भक्त्यादिकं व्रतम् अप्य् आचरेत् । आदि-शब्देन एकान्तरोपवासादि ॥१७९॥

तथा च पाद्मे तत्रैव—

प्रातर् उत्थाय शौचादि कृत्वा गत्वा जलाशये ।
कृत्वा च विधिवत् स्नानं ततो दामोदरार्चनम् ॥१८०॥

स्व-लिखितं पुराणोक्तिभिः प्रमाणयन् परं कृत्य-विधिं दर्शयति—प्रातर् इत्य्-आदिना भाविनीत्य् अनेन ॥१८०॥

किं च—

मौनेन भोजनं कार्यं कार्त्तिके व्रत-धारिणा ।
घृतेन दीप-दानं स्यात् तिल-तैलेन वा पुनः ॥१८१॥
दिनं च कृष्ण-कथया वैष्णवानां च सङ्गमैः ।
नियतं कार्त्तिके मासि सङ्कल्प-व्रत-पालनम् ॥१८२॥
अश्विने शुक्ल-पक्षस्य प्रारम्भे हरि-वासरे ।
अथवा पौर्णमासीतः सङ्क्रान्तौ वा तुलागमे ॥१८३॥
दीप-दानम् अखण्डं च दद्याद् वै विष्णु-सन्निधौ ।
देवालये तुलस्यां वा आकाशे वा तद् उत्तमम् ॥१८४॥

सङ्कल्पस्य व्रतस्य च । यद् वा, सङ्कल्पेन यद् गृहीतं व्रतम्, तस्य पालनम् ॥१८२॥ व्रत-ग्रहण-कालम् आह—आश्विने इति । हरि-वासरे एकादश्यां, तस्य वैष्णव-पक्षत्वाद् आदौ निर्देशः । अशक्त्यापेक्षया विकल्प उक्तः ॥१८३॥

किं च—

रजतं कनकं दीपान् मनि-मुक्ता-फलादिकम् ।
दामोदरस्य प्रित्य्-अर्थं प्रदद्यात् कार्त्तिके नरः ॥१८५॥

स्कान्दे च श्री-रुक्माङ्गद-मोहिनी-संवादे—

**न गृहे कार्त्तिके कुर्याद् विशेषेण तु कार्त्तिकम् ।
तीर्थे तु कार्त्तिकीं कुर्यात् सर्व-यत्नेन भाविनि ॥१८६॥ **इति ।

अथ कार्त्तिके वर्ज्यानि

तत्रैव ब्रह्म-नारद-संवादे—

कार्त्तिके तु विशेषेण राज-माषाम्श् च भक्षयन् ।
निष्पावान् मुनि-शार्दूल यावद् आहूत-नारकी ॥१८७॥
कलिङ्गानि पटोलानि वृन्तकं सन्धितानि च ।
न त्यजेत् कार्त्तिके मासि यावद् आहूत-नारकी ॥१८८॥
कार्त्तिके मासि धर्मात्मा मत्स्यं मांसं न भक्षयेत् ।
तत्रैव यत्नतस् त्याज्यं शाशकं शौकरं तथा ॥१८९॥

विशेषेणेति अन्यदापि भक्षयन् नारक्य् एव । कार्त्तिके तु भक्षयन् विशेषतो यावद् आहूत-नारकीत्य् अर्थः ॥१८७॥ तत्रैवेति धर्मापेक्षया मांसं च न भक्षयेद् एव । यदि वा कश्चिन् महारोग-ग्रस्तस् तद् अभावाद् वा रोगी स्यात्, तदा तेनापि यत्नतः शश-शूकरयोर् मांसं वर्जनीयम् एवेत्य् अर्थः ॥१८९॥

किं च—

परान्नं पर-शय्यां च पर-दारं पराङ्गनाम् ।
सर्वदा वर्जयेत् प्रजो विशेषेण तु कार्त्तिके ॥१९०॥
तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्य-भोजनम् ।
कार्त्तिके वर्जयेद् यस् तु परिपूर्ण-व्रती भवेत् ॥१९१॥
सम्प्राप्ते कार्त्तिके दृष्ट्वा परान्नं यस् तु वर्जयेत् ।
दिने दिने तु कृच्छ्रस्य फलं प्राप्नोति मानवः ॥१९२॥

कार्त्तिके तु विशेषेण वर्जयेद् इति तत् सङ्कल्पादिकम् अपि तु कुर्याद् इत्य् अर्थः ॥१९०॥

तत्रैव श्री-रुक्मङ्गद-मोहिनी-संवादे—

कार्त्तिके वर्जयेत् तैलं कार्त्तिके वर्जयेन् मधु ।
कार्त्तिके वर्जयेत् कांस्यं कार्त्तिके शुक्ल-सन्धितम् ॥१९३॥
न मत्स्यं भक्षयेन् मांसं न कौर्मं नान्यद् एव हि ।
चण्डालः स भवेत् सु-भ्रु कार्त्तिके मांस-भक्षणात् ॥१९४॥

शुक्लं काञ्जिकादि-पर्युषिताम्ल-द्रव्यं सन्धितं च वर्जयेत् ॥१९३॥

पाद्मे तत्रैव—

ततः प्रियतमा विष्णो राधिका गोपिकासु च ।
कार्त्तिके पूजनीया च श्री-दामोदर-सन्निधौ ॥ १९५॥

ततः पूर्व-जन्म-कृताराधनाद् धेतोः । गोपिकासु मध्ये प्रियतमा । तद्-वृत्तं च तत्रैव प्रार्थितम् । यथा श्री-गोपाल-देवस्य श्री-मूर्तेः सौन्दर्य-विशेषं विलोक्य तेन सह क्रीडितु-कामांशेनावतीर्य योषिद्-विशेषेण प्रेम-नृत्यादिना तम् आराध्य तद्-ईप्सया तद्-योग्य-तद्-दिव्य-रूपा भूत्वा तद्-एक-भक्त-श्री-ब्राह्मणम् आदाय तेन सह स्वयम् एव सर्वांशैर् अवतीर्य गोप-श्री-वृषाभानु-कन्याभूद् इति ॥१९५॥

**द्विजं दामोदरं कृत्वा तत्-पत्नीं राधिकां तथा ।
कार्त्तिके पूजनीयौ तौ वासो’लङ्कार-भोजनैः ॥१९६॥
राधिका-प्रतिमां विप्रः पूजयेत् कार्त्तिके तु यः ।
तस्य तुष्यति तत्-प्रीत्यै श्रीमान् दामोदरो हरिह् ॥१९७॥ **इति ।

तस्याः श्री-राधिकायाः । प्रीत्यै सन्तोषार्थम् ॥१९७॥

दामोदराष्टकं नाम स्तोत्रं दामोदरार्चनम् ।
नित्यं दामोदराकर्षि पठेत् सत्यव्रतोदितम् ॥१९८॥

नित्यं पठेत् । दामोदरम् आक्रष्टुं वशीकर्तुं शीलम् अस्य । सत्यव्रत-नाम-मुनिना उदितं प्रोक्तम् । यद् वा, तस्माद् उदितं पूर्व-सिद्धम् एवास्मात् प्रकटतां गतम् इत्य् अर्थः ॥१९८॥

अथ श्री-दामोदराष्टकम्

नमामीश्वरं सच्-चिद्-आनन्द-रूपं
लसत्-कुण्डलं गोकुले भ्राजमानम् ।
यशोदा-भियोलूखलाद् धावमानं
परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥१९९॥

श्री-राधा-सहितं नत्वा श्री-दामोदरम् ईश्वरम् ।

दामोदराष्टक-व्याख्या दिग् एषा दर्श्यते’धुना ॥

तत्राग्रे किम् अपि प्रार्थयितुम् आदौ तस्य तत्त्व-रूप-लीला-गुणादि-विशेषेणोत्कर्ष-विशेषं गोकुल-प्रकटित-निज-भगवत्ता-सार-सर्वस्व-भूतं वर्णयन् भक्त्य्-आदौ नमस्करोति नमामीति । तच् च मङ्गलार्थं सर्व-कर्मसु प्राग् एव दास्य-विशेषेण विधानाद् आदौ निर्दिष्टम् । कं ? ईश्वरं सर्व-शक्तिमन्त जगद्-एक-नाथं निज-प्रभुं वा । तत्राद्यः पक्षः स्तुत्य्-आदि-शक्त्य्-अर्थः, द्वितीयः परम-वन्द्यतार्थः । अन्त्यश् च भक्ति-विशेषेणेति दिक् । कथम्-भूतं ? सच्-चिद्-आनन्द-रूपं सच्-चिद्-आनन्द-घन-विग्रहम् इत्य् अर्थः । इति तत्त्व-विशेषेणोत्कर्ष-विशेष उक्तः । सौन्दर्य-विशेषेणोत्कर्ष-विशेषम् आह—लसन्ती श्री-यशोदा-भिया धावमानात् सतत-बाल्य-क्रीडा-विशेष-परत्वादौ निरन्तरं लोलतया गण्डयोः क्रीडन्ती कुण्डले यस्य तम् । इति श्री-मुखेशोभा-विशेष उक्तः । यद् वा, श्री-गण्ड-चुम्बन-हासौ भाग्यतः कुण्डलयोः सर्व-विभूषणेषु मुख्यत्वात् ताभ्यां तानि सर्वाण्य् एवोपलक्ष्यन्ते । ततश् च लसन्ती शोभमाने कुण्डले यस्मात् तं भूषण-भूषणाङ्गम् इत्य् अर्थः । अत एवोक्तं श्री-गोपीभिर् दशम-स्कन्धे—

त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् [भा।पु। १०.२९.४०] इति ।

उद्धवेनच तृतीय-स्कन्धे—

विस्मापनं स्वस्य च सौभगर्द्धेः

परं पदं भूषण-भूषणाङ्गं [भा।पु। ३.२.१२] इति ।

परिवार-विशेषेणोतर्ष-विशेष-प्रकटनेन गोकुलस्य स्वाभाविक-शोभा-विशेषेण वा शोभमानम् । तच् च श्री-दशम-स्कन्धादौ—

चकास गोपी-परिषद्-गतो’र्चितस् त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् [भा।पु। १०.३२.१४] इत्य् आदिनोक्तम् ।

लीला-विशेषेणोत्कर्ष-विशेषम् आह—यशोदेति सार्धेन । यशोदाया मातुः सकाशाद् भिया दधि-भाण्ड-भेदनाद्य्-अपराध-कृत-भीत्या उदूखलात् शिक्-स्थित-नवनीत-चौर्यार्थम् उद्वर्त्य तले समारूढाद् उदूखलतः धावमानं त्वयापसरन्तम् । अतश् च विशेषापेक्षकैर् दशम-स्कन्ध-नवमाध्यायोक्तम्—

उलूखलाङ्घ्रेर् उपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्गवं चौर्य-विशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतम् आगमच् छनैः ॥ ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस् ततो’वरुह्यापससार भीतवत् । गोप्य् अन्वधावन् न यम् आप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ [भा।पु। १०.९.८-९] इत्य् आद्य् अनुसन्धेयम् ।

ततश् च अत्यन्ततो द्रुत्य वेगेन धावित्वा । समासैक-पद्येन यवादेशः । गोप्या श्री-यशोदया परा आमृष्टं पृष्ठतो धृतम् । अत्र च अत्यन्ततो द्रुत्येत्य् अनेन श्री-यशोदाया अपि स्तन-नितम्ब-गौरवादि-सौन्दर्य-विशेषः स्नेह-विशेषश् च सूचितः । गोप्येति प्रेमोक्ति-परिपाट्या गोप-जातीनाम् एव तादृशं महा-सौभाग्यम् इति ध्वनितम् । परामृष्टम् इत्य् अनेन तस्यां भगवतः स्नेह-विशेषो ध्वनित इति दिक् । अत्र च—

अन्वञ्चमाना जननी बृहच्-चलच्- छ्रोणी-भराक्रान्त-गतिः सुमध्यमा । जवेन विस्रंसित-केश-बन्धन- च्युत-प्रसूनानुगतिः परामृशत् ॥ [भा।पु। १०.९.१०] इत्य् अर्थो’नुसन्धेयः ॥१९९॥

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तं
कराम्भोज-युग्मेन सातङ्क-नेत्रम् ।
मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ-
स्थित-ग्रैव-दामोदरं भक्ति-बद्धम् ॥२००॥

तद्-अनन्तर-लीला-विशेषं वदन्—

कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्-मषिणी स्व-पाणिना । उद्वीक्षमाणं भय-विह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥ [भा।पु। १०.९.११]

इत्य् अर्थम् आह—रुदन्तम् इति । मातृ-हस्ते षष्टिं दृष्ट्वा तया ताडनम् आशङ्क्य भीतत्वादि-प्रदर्शनेन तत्-परिहरणाय क्रन्दन्तम् । अत एव कराम्भोज-युग्मेन नेत्र-युग्मं मृजन्तं युगपन् मार्जयन्तम् । एतच् च बाल्य-लीला-विशेष-स्वभावतः । यद् वा, भयावेशेन सद्य्’नुगच्छतो’श्रुणो निष्कासनार्थम् । यद् वा, अश्रु-धारापसरणार्थम् इति दिक् । यतः सातङ्के स-शङ्के नेत्रे अपि । किं पुनर् मनो यस्य तम् । यद् वा, स-भय-निरीक्षण-नेत्र-युगम् इत्य् अर्थः । ततश् च ताडन-परिहारार्थम् इदम् अपि लीलान्तरं ऊह्यम् ।

किं च, मुहुः-श्वासेन रोदनावेश-कृतेन कम्पत् कम्प्यमानम् । त्रिरेखाङ्के कम्बुवद् रेखा-त्रय-चिह्ने कण्ठे स्थितं ग्रैवं ग्रैवेयकं सर्वं ग्रीवा-भूषणं मुक्ता-हारादि यस्य । दाम उदरे यस्य । अनेन च—गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ [भा।पु। १०.९.१४] इत्य् उक्तम् । दाम्नोदरे उलूखले चोभयतो बन्धनम् उक्तम् । तद् एवाभिव्यञ्जयन् भक्त-वश्यता-विशेषेणोत्कर्ष-विशेषम् आह—उक्त्यैव मातुः स्व-विषयकया तस्य वा मातृ-विषयकया बद्धं स्वीकृत-बन्धनं, न तु पाश-वर्ग-बलात्, सर्वतः समुच्चितैर् अप्य् अनन्तैः पाशैर् न्यून-द्व्य्-अङ्गुलापूरणात् । तच् चोक्तम्—

तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधे’न्यच् च गोपिका ॥ यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे । तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ [भा।पु। १०.९.१५-१७] इत्य् आदि ।

यद् वा, दामोदरत्वे हेतुः—भक्त्यैव बद्धं वशीकृतं, तथापि स एवार्थः पर्यवस्यति ।

किं च—

स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥ एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता । स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया । प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ नायं सुखापो भगवान् देहिनां गोपिका-सुतः । ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ । तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥ [भा।पु। १०.९.१८-२१] इत्य् एषाम् अर्थः ।

तथा—

देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ । तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥ [भा।पु। १०.१०.२५]

इत्य् आदेर् अर्थो’पि श्री-नारद-भक्त्य्-अपेक्षया यमलार्जुन-भञ्जनादि-तत्-तल्-लीला-रूपो’नेन सूचितः ॥२००॥

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे
स्व-घोषं निमज्जन्तम् आख्यापयन्तम् ।
तदीयेशित-ज्ञेषु भक्तैर् जितत्वं
पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥२०१॥

गुण-विशेषेणोत्कर्ष-विशेषम् आह—इतीति । एवं भक्त-वशतया । यद् वा, इत्य् अनया दामोदर-लीलया ईदृशीभिश् च दामोदर-लीला-सदृशीभिः परम-मनोहराभिः शैशवीभिः स्वस्य स्वाभिर् वा असाधारणीभिः लीलाभिः क्रीडाभिः ।

गोपीभिः स्तोभितो’नृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् ॥ बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् । बाहु-क्षेपं च कुरुते स्वानां च प्रीतिम् आवहन् ॥ [भा।पु। १०.११.७-८]

इत्य् आद्य् उक्ताभिः स्व-घोषं निज-गोकुल-वासि-प्राणि-जातं सर्वम् एव आनन्द-कुण्डे आनन्द-रस-मय-गभीर-जलाशय-विशेषे नितरां मज्जन्तं मज्जयन्तम् एतद् एवोक्तम्—स्वानां प्रीतिं समावहन् इति । यद् वा, घोषः कीर्तिर् माहात्म्योत्कीर्तनं वा, स्वस्य स्वानां वा गोप-गोप्यादीनां घोषो यथा स्यात् तथा स्वयम् एवानन्द-कुण्डे निमज्जन्तं परम-सुख-विशेषम् अनुभवन्तम् इत्य् अर्थः । किं च, ताभिर् एव तदीयेशितज्ञेषु भगवद्-ऐश्वर्य-ज्ञान-परेषु भक्तैर् जितत्वम् आत्मनो भक्त-वश्यताम् आख्यापयन्तम् । भक्ति-पराणाम् एव वश्यो’हं, न तु ज्ञान-पराणाम् इति प्रथयन्तम् । अनेन च, दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यतां [भा।पु। १०.११.९] इत्य् अस्यार्थो दर्शितः । तस्यार्थः—तं भगवन्तं विदन्तीति तथा तेषां तज्-ज्ञान-पराणाम् इत्य् अर्थः । तान् प्रति दर्शयन्न् इति । यद् वा, तदीयानां भागवतानां प्रभावाभिज्ञेष्व् एव, न चान्येष्व् आख्यापयन्तम् । वैष्णव-माहात्म्य-विशेषानभिज्ञेषु केवल-ज्ञान-परेषु भक्तेर् विशेषतस् तन्-माहात्म्यस्य च परम-गोप्यत्वेन प्रकाशनायोग्यत्वात् । एवं च तद्-विदाम् इति भृत्य-वश्यता-विदाम् इत्य् अर्थो द्रष्टव्यः । अतः प्रेमतः भक्ति-विशेषेण शतावृत्ति यथा स्यात् तथा शत-शत-वारान् तम् ईश्वरं पुनर् वन्दे । अतो भक्तानाम् अवश्य-कृत्यं भक्ति-प्रकार-विशेष-रूपं वन्दनम् एव मम प्रार्थ्यम् । न त्व् ऐश्वर्य-ज्ञानाद् इति भावः ॥२०१॥

वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणे’हं वरेशाद् अपीह ।
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥२०२॥

एवम् उत्कर्ष-विशेष-वर्णनेन स्तुत्वा प्रार्थयते—वरम् इति द्वाभ्याम् । देव, हे परम-द्योतमान! हे मधुर-क्रीडा-विशेष-परेति वा । वरेशात् सकल-वर-प्रदान-समर्थाद् अपि त्वत्तः मोक्षं चतुर्थ-पुरुषार्थं मोक्षस्यावधिं वा परमकाष्ठा-रूपं घन-सुख-विशेषात्मकं श्री-वैकुण्ठ-लोकम् । अन्यं च श्रवणादि-भक्ति-प्रकारम् अहं वरं प्रार्थ्य । यद् वा, अन्यैर् वरणीयम् अपि । यद् वा, वरतया इह वृन्दावने न वृणे । इहेत्य् अस्य परेणापि सम्बन्धः । अत्र च मोक्षादि-त्रयस्य यथोत्तर-श्रैष्ठ्यं ऊह्यम् । तत्र मोक्षाद् वैकुण्ठ-लोकस्य श्रैष्ठ्यं श्री-भागवतामृतोत्तर-खण्डे व्यक्तम् एवास्ति । वैकुण्ठ-लोकाच् छ्रवणादि-प्रकारस्य च श्रैष्ठ्यम् । कामं भवः स्व-वृजिनैर् निरयेषु नः स्तात् [भा।पु। ३.१५.४९] इत्य् आदि वचनतः श्रवणादि-सिद्ध्या नरकादिष्व् अपि यत्र तत्र सर्वत्रैव वैकुण्ठ-वास-सिद्धेर् इति दिक् । तर्हि किं वृणुषे ? तदाह—हे नाथ ! इह वृन्दावने इदं वर्णितं गोपाल-बाल-रूपं ते वपुः सदा मे मनसि आविरास्ताम् । अन्तर्यामित्वादिना स्थितम् अपि साक्षाद् इव सर्वाङ्ग-सौन्दर्यादि-प्रकाशनेन प्रकटं भूयात् ।

ननु मोक्षादयो’पि परमोपादेयास् तान् अपि वृणु, तत्राह—किम् अन्यैर् इति । अन्यैर् मोक्षादिभिर् मम प्रयोजनं नास्तीत्य् अर्थः । तस्य सर्वानन्द-कदम्बात्मकत्वात् तत्-सिद्ध्यैव सर्व-सिद्धेः । तथा तद्-अलाभे निजेप्सितासिद्ध्या विशेषतश् च तुच्छ-लाभेन शोक-विशेषोत्पादनाद् अन्यैर् अपि किम् इति भावः।

यद् वा, ननु मोक्षादयो न व्रियन्तां नाम, परमापेक्ष्याणि मदीय-श्री-चतुर्भुजादि-मूर्ति-दर्शन-सम्भाषाणादीनि व्रियतां, तत्राह—किम् अन्यैर् इति । चित्ते त्वद्-एतच्-छ्रीमद्-वपुः सदा स्फूर्ताव् एव ममात्यन्त-प्रीतिर् नान्यत्रेति भावः । अन्तर्-दर्शन-माहात्म्यं च श्री-भागवतामृतोत्तर-खण्डे तपो-लोके श्री-पिप्पलायनेन विवृत्योक्तम् अस्ति । एवं तस्य प्रार्थनापि स्तुताव् एव पर्यवस्यति । तस्यैव सर्वोत्कृष्टत्वेन प्रार्थनात् । एवम् अग्रे’पि ॥२०२॥

इदं ते मुखाम्भोजम् अव्यक्त-नीलैर्
वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या ।
मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे
मनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥२०३॥

तत्र च तव श्री-मुखं परम-मनोहरं विशेषेण दिदृक्षे इत्य् आह—इदम् इति । कदाचिद् ध्याने’नुभूयमानम् अनिर्वचनीय-सौन्दर्यादिकम् । तद् एव निर्दिशति—मुखम् एवाम्भोजं प्रफुल्ल-कमलाकरत्वं निखिल-सन्ताप-हारित्व-परमानन्द-रसवत्त्वादिना, तन् मे मनसि मुहुर् आविरास्ताम् । कथम्-भूतं ? अत्यन्त-नीलैः परम-श्यामलैः स्निग्धैश् च रक्तैश् च कुन्तलैः केशैर् अलकैर् वा वृतं कमलं भ्रमरैर् इवोपरि वेष्टितम् । गोप्या श्री-यशोदया श्री-राधया वा चुम्बितम् । मुहुर् इत्य् अस्यात्रापि सम्बन्धः । यद् वा, पाठ-क्रमाद् अत्रैव सम्बन्धः । ततश् च तया महा-धन्यया मुहुश् चुम्बितम् अपि मम मनसि सकृद् अप्य् आविरास्ताम् इत्य् अर्थः । यद् वा, सदेति पूर्व-गतस्यात्राप्य् अर्थ-बलाद् अन्वय एव स्यात् । बिम्बवद् रक्तौ अधरौ यस्मिन् तत्, ततश् च लक्ष-लाभैः । अन्यैर् लक्ष-सङ्ख्यैर् लब्धैर् अपि प्रयोजनं नास्तीत्य् अर्थः । निखिलार्थम् एवैतत्॥२०३॥

नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नम् ।
कृपा-दृष्टि-वृष्ट्यातिदीनं बतानु-
गृहाणेश माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥२०४॥

एवं स्तुति-प्रभावात् सद्यः समुदितेन प्रेम-विशेषेण साक्षाद् दिदृक्षमाणस् तत्र चैकं नाम-सङ्कीर्तनम् एव परम-साधनं मन्यमानस् तथैव स-कातर्यं प्रार्थयते—नम इति । तुभ्यम् इत्य् अध्याहार्यम् एव, तच् च भय-गौरवादिना प्रेम-वैकल्येन वा साक्षान् न प्रयुक्तम् । हे प्रभो ! हे मद्-ईश्वर ! प्रसीद । प्रसादम् एवाह—दुःखं सांसारिकं तद्-दर्शनजं वा, तस्य जालं परम्परा, तद् एवाब्धिः आनन्त्यादिना, तस्मिन् मग्नं माम् । अत एव अतिदीनं परमार्तम् । यद् वा, तत्र सत्-सहाय-साधनादि-हीनत्वात् परमाकिञ्चन । यद् वा, मुमूर्षुं जीवन्-मृतं वा । तत्र चाज्ञं तत्-प्रतीकाराद्य्-अनभिज्ञं, कृपया दृष्टि-निरीक्षणं, तस्या वृष्ट्या परम्परया, कृपा-दृष्टि-रूपामृत-वृष्ट्या वा अनुगृहाण । समुद्धृत्य जीवयेत्य् अर्थः । तद् एवाभिव्यञ्जयति—अक्षि-दृश्यो मल्-लोचन-गोचर एधि भव । एवं प्रार्थना-क्रमेण प्रार्थनं कृतम् । प्रार्थ्यस्य परम-दौर्लभ्येन, सहसा प्राग् एव निर्देशानर्हत्वात् । अन्तर्-दर्शनात् साक्षाद्-दर्शन-माहात्म्यं च श्री-भगवत्-पार्षदैः स-न्यायम् उक्तं श्री-भागवतामृतोत्तर-खण्डादौ विशेषतो ज्ञेयम् । तत्र देव ! हे दिव्य-रूप ! इति दिदृक्षायां हेतुः, दामोदरेति भक्त-वात्सल्य-विशेषेणाक्षि-दर्शन-योग्यतायाम् । अतो नान्तो यस्माद् इत्य् अनन्तेति कृपा-दृष्ट्य्-अनुग्रहेण । प्रभो ! हे अचित्न्यानन्ताद्भुत-महा-शक्ति-युक्तेति, इन्द्रियाग्राह्यास्याप्य् अक्षि-दृश्यता-सम्भावनायाम् । ईश ! हे परम-स्वतन्त्रेति अयोग्यं प्रति तादृशानुग्रह-करणे कस्यचिद् अप्य् अनपेक्षतायां ज्ञेयम् । किं च, विष्णो ! हे सर्व-व्यापक ! यद् वा, हे श्री-वृन्दावन-निकुञ्ज-कुहरादि-प्रवेश-शील । इति चाक्षि-दृश्यतार्थं दूरागमन-श्रमादिकं नास्तीति । अथवा हे अनन्त ! अपरिच्छिन्न ! विष्णो ! सर्व-व्यापिन्! तथापि हे दामोदरेत्य् एवं परम-वात्सल्य-विशेषेण तवाकृतं किम् अपि नास्तीति ध्वनितम् । अन्यत् समानम् इत्य् एषा दिक् ॥२०४॥

कुबेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भाजौ कृतौ च ।
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे’स्ति दामोदरेह ॥२०५॥

इथं प्रेम-विशेषेण परमोत्कण्ठया सह साक्षद्-दर्शनं प्रार्थ्यम् । तत एव सद्यो-जात-प्रेम-भक्ति-विशेषेण तस्य परम-दौर्लभ्यं मन्यमानस् तत्र च परमोपाय-भूतां प्रेम-भक्तिम् अभिज्ञाय । यद् वा, सकृद्-दर्शने मनो’तृप्तिं विरह-दुःखोत्तरतां चाशङ्क्य सदा तद्-वशीकरणाय प्रेम-भक्तिम् एवैकम् उपायम् अभिज्ञाय । अत्र च परमापराधिनो मम कथं सा सम्भवेद् इत्य् आशङ्क्य श्री-भगवद्-वात्सल्य-महिम्ना चासम्भाव्यम् अपि सर्वम् एव सम्भवेद् इति निश्चित्य मोक्ष-त्यागेन प्रेम-भक्तिम् एव प्रार्थयते—कुवेरेति । बद्धया गोप्या पाशैर् उदूखले शृङ्खलितया मूर्त्या श्री-विग्रहेणैवेति तयोर् मध्ये स्वयं प्रवेशात् परम-सुन्दर-लीलादि-विशिष्टस्य भगवतः साक्षाद्-दर्शन-स्पर्शनादिकं सूचितम् । मोचितौ श्री-नारद-शापात् संसाराच् च । न केवलं तावद् एव, परम-भक्तिश् च ताभ्यां दत्तेत्य् अभिप्रेतम् । तथा च श्री-भगवद्-वचनम्—सञ्जातो मयि भावो वाम् ईप्सितः परमो’भवः [भा।पु। १०.१०.४२] इति ।

अस्यार्थः—वां युवयोर् ईप्सितो’पेक्षित परमो भावः प्रेमा मयि सम्यग्-जात एव, न भवः पुनर् जन्म संसार-दुःखं वा यस्मात् स इति । हे दामोदर ! तथा तद्वत् स्वकां त्वच्-चरणारविन्दैकाश्रयाम् एतद्-रूपैक-विषयां वा मे मह्यं प्रकार्षेण यच्छ देहि ।

ननु किम् अत्राग्रहेण ? कुवेरात्मजवन् मोक्षो’पि गृह्यताम् अन्यथा जन्म-मरणादि-संसारापत्तेः । तत्राह—नेति । इह अस्यां प्रेम-भक्ताव् एव मम ग्रह आग्रहो’स्ति, न च मोक्षे ग्रहो’स्ति । अयम् अर्थः—प्रेम-भक्त्या संसार-ध्वंसो भवति चेत् तर्हि भवतु नाम, न स्याच् चेत् तर्हि मास्तु नाम । तत्र ममापेक्षा नास्तीति । अत्र गूढो’यं भावः—चिन्तामणौ करस्थे सर्वम् एव स्वयं सेत्स्यति । किं तद् एकम्-मात्र-तुच्छ-द्रव्य-ग्रहणेनेति ।

यद् वा, हे दामोदर ! स्वकां प्रेम-भक्तिं प्रयच्छ इत्य् एवं पाश-बद्धोदर-भगवद्-विषयक-प्रेम-भक्ति-प्रार्थनया नित्यम् उदरे पाश-बन्धनाग्रहम् आशङ्क्याह—मोक्षे पाश-बन्धनात् तव मोचने ममाग्रहो नास्ति किं ? काक्वा अस्त्य् एवेत्य् अर्थः । किन्तु इह अस्मिन्न् एव रूपे स्वकाम् असाधारणानां प्रेम-भक्तिं प्रयच्छेति ।

यद् वा, इह वृन्दावने प्रेम-भक्तिं प्रयच्छेत्य् अन्वयः । ततश् च तत्रैव तस्याः सुख-विशेषाविर्भावकत्वात् प्रादुर्भाव-विशेषाच् च । तथा तस्य साक्षाद् दर्शन-विशेषाकारत्वाच् च । तथा तत्रैव तद्-विहारि-श्री-भगवद्-दिदृक्षा-विशेषाच् च, तत्र सदा-निवासो’पि प्रार्थित इत्य् ऊह्यम् । अन्यच् च पूर्ववद् एव ॥२०५॥

नमस् ते’स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने ।
नमो राधिकायै त्वदीय-प्रियायै
नमो’नन्त-लीलाय देवाय तुभ्यम् ॥२०६॥

एवं स्तुतिं समापयन् स्व-प्रार्थित-सिद्धये भक्ति-विशेषेण वा तदीयासाधारण-परिकरावयव-परिवारादीन् अपि प्रत्येकं पृथक् प्रणमति—नमस् ते’स्त्व् इति । ते तव दाम्ने उदर-बन्धन-महा-पाशाय नमो’स्तु । कथम्-भूताय ? स्फुरन्त्या दीप्तेस् तेजसो धाम्ने आश्रयाय । एवं तस्यापि ब्रह्म-घन-रूपताभिप्रेता । अथानन्तरं त्वदीयाय उदराय नमो’स्तु । पाश-बन्धेन तेनैव सौन्दर्यादेर् वात्सल्यादेर् बाल्य-लीलादेश् च विशेषतः प्रकाशनात् । कथम्-भूताय ? विश्वस्य चराचर-प्रपञ्च-जातस्य धाम्ने आधाराय । तत एव चतुर्दश-भुवनात्मक-कमलोत्पत्तेः । तत्रैव च मातरं प्रति वार-द्वयं विश्वरूप-दर्शनाद् इति दिक् । एवम् उदर-बन्धनेन विश्वस्यापि बन्धनापत्तेः श्री-यशोदया विश्वम् अपि वशीकृतम् इति ध्वनितम् । तथा ईशस्य बन्धनासम्भवे’पि बन्धन-स्वीकारेण भक्त-वात्सल्य-विशेषस् तथा बन्धनेन प्रपञ्चासङ्कोचावस्थित्य्-आदि समावेश्य तर्कागोचरत्वाद् ऐश्वर्य-विशेषश् च ध्वनित इति दिक् ।

दाम-नमस्कारानन्तरम् उदर-नमस्कारश् चोदरोपरि दाम्नां वर्तमानत्वात् यथोत्तरम् उत्कर्ष-विवक्षया वा । इदानीं तदीय-प्रियतम-जन-कृपयैव वाञ्छातीतम् अपि सर्वम् एव सुसिध्येद् इत्य् आशयेन भगवतीं श्री-राधां प्रणमति—नम इति । त्वया च सर्वा एव गोपिका उपलक्ष्यन्ते । किं वा, तासु मुख्यतमात्र सैवैकोक्ता । श्री-राधिकेति—सर्वदैव श्री-भगवद्-आराधन-विशेषाद् अन्वर्थ-सञ्ज्ञा । अत एव त्वदीय-प्रियेति । यद् वा, राधिकेति रूढि-सञ्ज्ञा । ततश् चाराधनाद्य्-अनपेक्षया सा नित्य-प्रियैवेति । तत्र च त्वदीया अपि सर्वे जनाः प्रियास् त्वत्-प्रीत्या यस्याः । किम् उत वक्तव्यं त्वम् इति। ततश् च यस्य त्वं प्रियो’सि, सो’पि जगद्-वन्द्यः स्यात् । एषा च तवैव प्रिया । अतस् तस्यै नमो’स्तु । ततश् च तया सह रास-क्रीडादिकं परम-स्तुतित्वेनान्ते वर्णयितुम् इच्छन् तच् च परम-गोप्यत्वेनानभिव्यञ्जयन् “मधुरेण समापयेत्” इति न्यायेन किञ्चिद् एव सङ्केतेनोद्दिशन् प्रणमति—देवाय लोकोत्तरायेति लीलानाम् अपि लोकोत्तराभिप्रेता । यद् वा, श्री-राधिकया सह निरन्तर-क्रीडा-पराय, अत एवानन्त-लीलाय तुभ्यं नम इति । एवं गोकुल-विषयिका सर्वापि लीलोद्दिष्टा । तस्यै च नम इति भाव इत्य् एषा दिक् ॥२०६॥

श्री-राधा-प्राण-नाथाय श्रीमद्-दामोदराय ते ।

सर्वं चैतन्य-देवाय गुरवे’र्पितम् एव मे ॥

अथ तत्र श्री-कृष्णाष्टमी-कृत्यम्

पाद्मे तत्रैव—

गोवर्धन-गिरौ रम्ये राधा-कुण्डं प्रियं हरेः ।
कार्त्तिके बहुलाष्टम्यां तत्र स्नात्वा हरेः प्रियः ।
नरो भक्तो भवेद् विप्रास् तद् धि तस्य प्रतोषणम् ॥२०७॥
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥२०८॥

तत्र कुण्डे नरः स्नात्वा हरेः प्रियतमो भवेत् । हि यतः तत्र तत्र स्नानं तस्य हरेः प्रतोषणं, प्रकर्षेण तोषयतीत्य् अर्थः ॥२०७॥ तत्र हेतुम् आह—यथेति । न च साधारण-प्रियेत्य् आह—सर्वासु गोपीष्व् अपि मध्ये ॥२०८॥

किं च तत्रैव श्री-राधिकोपाख्यानान्ते [प।पु। ५.७७.३९]—

वृन्दावनाधिपत्यं च दत्तं तस्याः प्रतुष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥२०९॥
तत्-कुण्डे कार्त्तिकाष्टम्यां स्नात्वा पूज्यो जनार्दनः ।
सुबोधन्यां यथा प्रीतस् तथा प्रीतस् ततो भवेत् ॥२१०॥

तस्याः तस्यै श्री-राधायै । अन्यत्र वृन्दावनेतर-स्थाने सा देवी लक्ष्म्य्-आदि-रूपा । वृन्दावनाख्ये च वने राधैव स्वयं स्वनागादिनैव प्रसिद्धेत्य् अर्थः ॥२०९॥ सुबोधन्याम् उत्थानैकादश्याम् । एतच् चाग्रे तत्-प्रसङ्गे व्यक्तं भावि ॥२१०॥

अथ कृष्ण-त्रयोदशी-कृत्यम्

पाद्मे च तत्रैव—

कार्त्तिके कृष्ण-पक्षे तु त्रयोदश्यां निशामुखे ।
यम-दीपं बहिर् दद्याद् अपमृत्युर् विनश्यति ॥२११॥

निशामुखे प्रदोषे ॥२११॥

अथ तत्र मन्त्रः
मृत्युना पाश-दण्डाभ्यां कालौ श्यमलया सह ।
त्रयोदश्यां दीप-दानात् सूर्यजः प्रीयताम् इति ॥२१२॥
अथ कृष्ण-चतुर्दशी-कृत्यम्

तत्रैव—

चतुर्दश्यां धर्म-राज-पूजा कार्या प्रयत्नतः ।
स्नानम् आवश्यकं कार्यं नरैर् नरक-भीरुभिः ॥२१३॥
अरुणोदयतो’न्यत्र रिक्तायां स्नाति यो नरः ।
तस्याब्दिकभवो धर्मो नश्यत्य् एव न संशयः ॥२१४॥

चतुर्दश्यां स्नानं चारुणोदये सत्य् एव कार्यं, नित्यत्वाद् इत्य् आह—अरुणेति ॥२१४॥

स्कान्दे च तत्रैव—

कार्त्तिके कृष्ण-पक्षे तु चतुर्दश्यां विधूदये ।
अवश्यम् एव कर्तव्यं स्नानं नरक-भीरुभिः ॥२१५॥

किं च पाद्मे तत्रैव—

ततश् च तर्पणं कार्यं धर्मराजस्य नामभिः ।
जीवत्-पिता तु कुर्वीत तर्पणं यम-भीष्मयोः ॥२१६॥

चतुर्दशी-कृत्यम् अन्यद् अपि लिखति—ततश् चेति । षड्भिर् नामभिः । यमाय धर्म-राजाय इत्य् आदिनोक्तैः ॥२१६॥

यज्ञोपवीतिना कार्यं प्राचीनावीतिना तथा ।
देवत्वं च पितृत्वं च यमस्यास्ति द्वि-रूपता ॥२१७॥
नक्तं यम-चतुर्दश्यां यः कुर्याच् छिव-सन्निधौ ।
न तत् क्रतु-शतेनापि प्राप्यते पुण्यम् ईदृशम् ॥२१८॥
कुमारी बटुकान् पूज्य तथा शैव-तपो-धनान् ।
राजसूय-फलं तेन प्राप्यते नात्र संशयः ॥२१९॥
कार्त्तिके भौम-वारेण चित्रा कृष्णा चतुर्दशी ।
तस्यां भुतेशम् अभ्यर्च्य गच्छेच् छिव-पुरं नरः ॥२२०॥

द्विरूपता देव-रूपता पितृ-रूपता च । नक्तं—नक्तं भोजन-व्रतम् । पूज्य पूजयित्वा ॥२१७-२१९॥

किं च—

अमावस्या-चतुर्दश्योः प्रदोषे दीप-दानतः ।
यम-मार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः ॥२२१॥

अथामावस्या-कृत्यम्

पाद्मे तत्रैव—

दिवा तत्र न भोक्तव्यं विना बालातुरान् जनान् ।
प्रदोष-समये लक्ष्मीं पूजयेच् च यथा-क्रमम् ॥२२२॥

तत्र आमावस्यायाम् ॥२२२॥

किं च—

प्रदोष-समये विप्राः कर्तव्या दीप-मालिकाः ।
दीप-दानात् ततः पश्चाल् लक्ष्मीं सुप्तां प्रबोधयेत् ॥२२३॥

हे विप्राः ॥२२३॥

अथ मन्त्रः

त्वं ज्योतिः श्री-रविश् चन्द्रो विद्युत् सौवर्ण-तारकाः ।
सर्वेषां ज्योतिषां ज्योतिर् दीप-ज्योतिः स्थिते नमः ॥२२४॥

विद्युच् च सौवर्णं च सुवर्ण-जातं ताराश् च ॥२२४॥

मन्त्रेणानेन कमलां दीप-हस्ताः स्त्रियो द्विजाः ।
देवीं प्रबोधयेयुश् च ततः कुरुअश् च भोजनम् ॥२२५॥
प्रदोष-समये लक्ष्मीं भोजयित्वा भुनक्ति यः ।
पुमान् संवत्सरं यावल् लक्ष्मीस् तं नैव मुञ्चति ॥२२६॥

अथामावस्या-निर्णयः

यथा निर्णयामृते—

उपवासादिष्व् अमावस्या प्रतिपद्-युता ग्राह्या ॥२२७॥

तद् उक्तं—

**अमावास्या तृतीया च ता उपास्याः परान्विताः ॥२२८॥ **इति ।

अथ चतुर्दशी-विद्ध-निषेधः

निगमे—

**भूत-विद्धा त्व् अमावस्या निष्फलं स्यात् त्रयन्वितम् ॥२२९॥ **इति ।

क्वचित् स्कान्दे’पि—

**भूत-विद्धा त्व् अमावस्या न ग्राह्या मुनि-पुङ्गवैः ॥२३०॥ **इति ।

अथ शुक्ल-प्रतिपत्

स्कान्दे—

प्रातर् गोवर्धनं पूज्य द्यूतं चैव समाचरेत् ।
भूषणीयास् तथा गावः पूज्याश् च दोह-वाहनाः ॥२३१॥

दोहो दोहन-पात्रादि, वाहनं च शकटादि, तत्-सहिता इत्य् अर्थः । यद् वा, न विद्यते दोहो दोहनं वाहनं च यासां ताः । तस्मिन् दिने गावो न दोह्याः, वृषाश् च न बाह्या इत्य् अर्थः । पाठान्तरे’पि तथैवार्थः ॥२३१॥

श्री-कृष्ण-दास-वर्यो’यं श्री-गोवर्धन-भूधरः ।
शुक्ल-प्रतिपदि प्रातः कार्त्तिके’च्र्यो’त्र वैष्णवैः ॥२३२॥

श्री-गोवर्धन-पूजा च शुक्ल-प्रतिपत्-प्रभाते वैष्णवैर् अवश्यं कार्येति लिखति—श्री-कृष्णेति । हन्तायम् अद्रिर् अबला हरिदास-वर्यः [भा।पु। १०.२१.१८] इत्य्-आद्य्-उक्तेः ॥२३२॥

प्रातर् गोवर्धनं पूज्य रात्रौ जागरणं चरेत् ॥२३३॥2

दोहो दोहन-पात्रादि । वाहनं च शकटादि । तत्-सहिता इत्य् अर्थः । यद् वा, न विद्यते दोहो दोहनं वाहनं च यासां ताः । तस्मिन् दिने गावो न दोह्याः, वृषाश् च न वाह्या इत्य् अर्थः । पाठान्तरे’पि तथैवार्थः ॥२३१॥

श्री-गोवर्धन-पूजा च शुक्ल-प्रतिपत्-प्रभाते वैष्णवैर् अवश्यं कार्येति लिखति—श्री-कृष्णेति । हन्तायम् अद्रिर् अबला हरिदास-वर्यः [भा।पु। १०.२१.१८] इत्य् आद्य् उक्तेः ॥२३२॥

तस्मात् तद् इदं कर्म गोवर्धन-प्राधान्येन गो-प्राधान्येन च ख्यातम् अप्य् एवं ज्ञेयम् ।

अथ तत्र दिन-निर्णयः

तद् आह देवलः—

प्रतिपद्-दर्श-संयोगे क्रीडनं तु गवां मतम् ।
पर-विद्धान् तु यः कुर्यात् पुत्र-दार-धन-क्षयः ॥२३४॥

निर्णयामृत-धृतं पुराणान्तर-वचनम्—

या कुहुः प्रतिपन् मिश्रा तत्र गाः पूजयेन् नृप ।
पूजा-मात्रेण वर्धन्ते प्रजा गावो महीपतिः ॥२३५॥

ततः—**प्रातर् गोवर्धनं पूज्य ॥२३६॥ **इति पूरोआह्न-तात्पर्यकं, द्वितीया-समये तु सर्वथा निषिद्धम् । तद् यथा—

नन्दाया दर्शने रक्षा बलि-दानं दशासु च ।
भद्रायां गोकुल-क्रीडा देश-नाशाय जायते ॥२३७॥

पुराण-समुच्चये तु सम्भावित-चन्द्रोदय-द्वितीया-संयोग एव निषिध्यते ।

गवां क्रीडा दिने यत्र रात्रौ दृश्येत चन्द्रमाः ।
सोमो राजा प्रशून् हन्ति सुरभि-पूजकांस् तथा ॥२३८॥

तद्-उदय-सम्भावनं च निर्णयामृते निर्णीतम्—

प्रतिपद्यापराह्निक-त्रि-मुहूर्त-व्यापिन्यां
द्वितीयायां चन्द्र-दर्शनं सम्भाव्यते ॥२३९॥

तद् उक्तम् अग्न्य्-आधान-विषये वृद्ध-शातातपेन—

**द्वितीया त्रि-मुहूर्ता चेत् प्रतिपद्यापराह्निकी ।
अग्न्याधानं चतुर्दश्यां परतः सोम-दर्शनात् ॥२४०॥ **इति ।

अथापराह्न-निर्णयः

**अपराह्नश् च पञ्चधा विभक्तस्याह्नश् चतुर्थो भागः ।
ततश् च यत्र प्रतिपदि यन्-मुहूर्त-व्यापिनी द्वितीया, तत्र चन्द्र-दर्शन-सम्भावनम् ॥२४१॥ **इति ।

अन्यदा तु पुरैव प्रतिपत् तत्र गृहीता ॥२४२॥

तथैव पुराण-समुच्चये—

वर्धमान-तिथौ नन्दा यदा सार्ध-त्रियामिका ।
द्वितीया-वृद्धि-गामित्वाद् उत्तरा तत्र चोच्यते ॥२४३॥

किं च,

यदा पूर्ण-प्रतिपत् परत्र निक्रामति, तदाप्य् उत्तरैव कार्या ॥२४४॥

यथोक्तं भविषोत्तरे—

**यथा द्वादशभिर् मासो वृद्धो मलिम्लुचः ।
तथैवाहो-रात्र-वृद्ध्या तिथिः प्रोक्ता मलिम्लुचा ॥२४५॥
यथा मलिम्लुचः पूर्व-मासो देवस् तथापरः ।
त्याज्या तिथिस् तथा पूर्वा ग्राह्या चैव तथोत्तरा ॥२४६॥ **इति ।

निर्णयामृत-मतम्—

किन्तु वञ्जुली-न्यायेन पूर्वैव मन्तुं शक्यते ।
तद्वद् अत्रापि देवलादि-वचन-प्रामाण्यम् अस्ति ॥२४७॥

अथ गोवर्धन-पूजा-विधिः

पाद्मे तत्रैव—

मथुरायास् तथान्यत्र कृत्वा गोवर्धनं गिरिम् ।
गोमयेन महा-स्थूलं तत्र पूज्यो गिरिर् यथा ॥२४८॥

मथुराया अन्यथा मथुरा-मण्डल-व्यतिरिक्त-देशे, यथा यथावत् ॥२४८॥

मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् ।
वैष्णवं धाम सम्प्राप्य मोदते हरि-सन्निधौ ॥२४९॥

साक्षात् पूजयित्वेति शेषः ॥२४९॥

अथ पूजा-मन्त्रः

**गोवर्धन धराधर गोकुल-त्राण-कारक ।
विष्णु-बाहु-कृतोच्छ्राय गवां कोटि-प्रदो भव ॥२५०॥ **इति ।

अथ गो-पूजा मन्त्रः

स्कान्दे तत्रैव—

**लक्ष्मीर् या लोक-पालानां धेनु-रूपेण संस्थिता ।
घृतं वहति यज्ञार्थे यम-पाशं व्यपोहतु ॥२५१॥
अग्रतः सन्तु मे गावः गावो मे सन्तु पृष्ठतः ।
गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्य् अहम् ॥२५२॥ **इति ।

अथ गो-क्रीडा

तत्र—

क्रोधापयेद् धावयेच् च गो-महिष्यादिकं ततः ।
वृषान् कर्षापयेद् गोपैर् उक्ति-प्रत्युक्ति-वदनात् ॥२५३॥

क्रोधापयेद् इत्य् आर्षः । क्रोधं कारयेद् इत्य् अर्थः । गोपैः कृत्वा कर्षापयेत् आकर्षयेत् ॥२५३॥

पाद्मे च तत्रैव—

महिष्यादेस् तथा भूषा क्रीदनं रावणं तथा ॥२५४॥

क्रीडनम् आकर्षादि-क्रीडां कारयेद् इत्य् अर्थः । रावणं रवं कारयेद् इत्य् अर्थः ॥२५४॥

तन्-माहात्म्यम्

तत्रैव—

एवं गोवर्धनं गाश् च पूजनीया विधानतः ।
गोवर्धन-मखो रम्यः कृष्ण-सन्तोष-कारकः ॥२५५॥

गा गावः ॥२५५॥

अथ श्री-बलि-दैत्य-राज-पूजा

लिखित्वा श्री-बलिं पट्टे विन्ध्यावल्यान्वितं मुदा ।
प्रदोषे तत्-प्रतिपदो भगवद्-भक्तम् अर्चयेत् ॥२५६॥

तथा च स्कान्दे—

बलिम् आलिख्य दैत्येन्द्रं वर्णकैः पञ्च-रङ्गकैः ।
सर्वाभरण-सम्पूर्णं विन्ध्यावल्या सहासितम् ॥२५७॥

आसितम् आसीनम् ॥२५७॥

कुष्माण्ड-मय-जम्भोरु-मुर-दानव-संवृतम् ।
सम्पूर्ण-हृष्ट-वदनं किरीटोत्कट-कुण्डलम् ।
द्विभुजं दैत्य-राजानं कारयित्वार्चयेन् नृप ॥२५८॥

नृप इत्य् अनेन एतच् च राज-कृत्यम् इति बोधितम् । स्वयम् इति पाठे च सर्वो जनः स्वयम् एव, न त्व् अन्य-हस्तेनार्चयेद् इत्य् अर्थः ॥२५८॥

अथ तत्-पूजा-प्रकरणं

पाद्मे तत्रैव—

यथार्पितं देहम् अनेन विष्णवे
भीतेन मिथ्या-वचसो महात्मना ।
दैत्येन तेनाथ कठोर-चेष्टया
बद्धो बलिर् वामन-मूर्तिना बत ॥२५९॥
बद्ध्वानीतो’थ पातालं विमनाः खिन-मानसः ।
नाभ्यसूयद् धरिं दैत्यस् त्यक्त्वाहं-ममते सुधीः ।
तदोवाच हरिः प्रीतस् तस्मै दैत्याय भागकृत् ॥२६०॥
अश्रोत्रिये दत्तम् अमन्त्रकं हुतं
जप्तं तथा व्यग्र-धिया जनेन यत् ।
तथोर्ज-शुक्ल-प्रतिपद्-दिने न तु
त्वाम् अर्चयेत् तत् सुकृतं तवास्तु ॥२६१॥

यस् त्वां नार्चयेत् तस्य यावत् सुकृतं, तत् सर्वं तवास्तु ॥२६१॥

इति तस्मै वरो दत्तो हरिणा दितिजाय च ।
ततो’वश्यं प्रपूज्यो’सौ बलिराजो दिने मुदा ।
कृष्ण-सान्निध्यतश् चापि पूजनीयः प्रयत्नतः ॥२६२॥

अथ बलि-पूजा-विधिः

स्कान्दे तत्रैव—

गृहस्य मध्ये शालायां विशालायां ततो’र्चयेत् ।
भ्रातृ-मातृ-जनैः सार्धं सन्तुष्टा बन्धुभिस् तथा ॥२६३॥

शालायाम् आयतन-विशेषे । यद् वा, शालायां गृहे, तत्र गृह-मध्य एवेत्य् अर्थः । सन्तुष्टः—हर्ष-युक्तः सन् ॥२६३॥

कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ।
गन्ध-पुष्पादि-नैवेद्यैर् अक्षतैर् गुड-पूपकैः ॥२६४॥

कह्लारैः सौगन्धिकैः ॥२६४॥

अथ तत्र पूजा-मन्त्रः

बलि-राज नमस् तुभ्यं विरोचन-सुत प्रभो ।
भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥२६५॥
दीपोत्सवैर् जनित-सर्व-जन-प्रमोदैः
कुर्वन्ति ये सुमतयो बलिराज-पूजाम् ।
दानोपभोग-सुख-वृद्ध-शताकुलानां
नूनं प्रयाति सकलं प्रमुदैव वर्षम् ॥२६६॥

अथ यम-द्वितीया-कृत्यम्

स्कान्दे पाद्मे च—

ऊर्जे शुक्ल-द्वितीयायां मध्याह्ने यमम् अर्चयेत् ।
स्नानं कृत्वा भानुजायां यम-लोकं न पश्यति ॥२६७॥

भानुजायां श्री-यमुनायाम् ॥२६७॥

किं च,

तस्यां निज-गृहे विप्र न भोक्तव्यं ततो बुधैः ।
स्नेहेन भगिनी-हस्ताद् भोक्तव्यं पुष्टि-वर्धनम् ॥२६८॥
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ।
सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपत्नजाः ॥२६९॥

तच् च पुष्टिं वर्धयतीत्य् अर्थः ॥२६८॥ प्रतिपत्नजाः—वैमात्रेयाः ॥२६९॥

किं च,

यस्यां तिथौ यमुनया यम-राज-देवः
सम्भोजितस् त्व् अतिशय-स्वसृ-सौहृदेन ।
तस्यां स्वसुः कर-तलाद् इह यो भुनक्ति
प्राप्नोति वित्त-सुभगं धनम् उत्तमं सः ॥२७०॥

वित्त-सुभगं शोभनैश्वर्यम्, उत्तमं धनं धर्म-लक्षणम् । धर्म इष्टं धनं पुंसां [भा।पु। १०.१९.३९] इत्य् एकादश-स्कन्धोक्तेः ॥२७०॥

अथ शुक्लाष्टमी-कृत्यम्

पाद्मे तत्रैव, कूर्म-पुराणे च—

शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः ।
तद्-दिने वासुदेवो’भूद् गोपः पूर्वं तु वत्सपः ॥२७१॥
तत्र कुर्याद् गवां पूजां गो-ग्रासं गो-प्रदक्षिणम् ।
गवानुगमनं कार्यं सर्वान् कामान् अभीप्सता ॥२७२॥

यतः पूर्वं वत्सपः सन् तद्-दिनम् आरभ्य गोपो’भूत् ॥२७१॥ गवाम् अनुगमनम् ॥२७२॥

अथ प्रबोधनी-कृत्यम्

शयन्याम् इव कृत्वास्यां क्षीरीअभोधि-महोत्सवम् ।
प्रबोध्य कृष्णं सम्पूज्य विधिनारोहयेद् रथम् ॥२७३॥

अस्यां प्रबोधन्याम् ॥२७३॥

अथ प्रबोधनी-कृत्य-नित्यता

स्कान्दे तत्रैव—

जन्म-प्रभृति यत् पुण्यं नरेणोपार्जितं भुवि ।
वृथा भवति तत् सर्वं न कृत्वा बोध-वासरम् ॥२७४॥

बोध-वासरं प्रबोधन्य् उक्त-कृत्यम् इत्य् अर्थः । एवं रथयात्रादेर् नित्यत्वम् आयातम् ॥२७४॥

अथ प्रबोधनी-माहात्म्यम्

तत्रैव3

प्रबोधन्याश् च माहात्म्यं पापघ्नं पुण्य-वर्धनम् ।
मुक्तिदं कृत-बुद्धीनां शृणु त्वं मुनि-सत्तम ॥२७५॥
तावद् गर्जति विप्रेन्द्र गङ्गा भागीरथी क्षितौ ।
यावन् नायाति पापघ्नी कार्त्तिके हरि-बोधनी ॥२७६॥
तावद् गर्जति तीर्थानि आसमुद्र-सरांसि च ।
यावत् प्रबोधनी विष्णोस् तिथिर् नायाति कार्त्तिके ॥२७७॥
वाजपेय-सहस्राणि अश्वमेध-शतानि च ।
एकैनैवोपवासेन प्रबोधन्या लभेन् नरः ॥२७८॥
दुर्लभं चैव दुष्प्रापं त्रैलोक्ये स-चराचरे ।
तद् अपि प्रार्थितं विप्र वदति हरि-बोधनी ॥२७९॥
ऐश्वर्यं सन्ततिं पूजां राज्यं च सुख-सम्पदः ।
ददात्य् उपोषिता विप्र हेलया हरि-बोधनी ॥२८०॥
मेरु-मन्दर-तुल्यानि पापान्य् अत्यूर्जितान्य् अपि ।
एकेनैवोपवासेन दहते हरि-बोधनी ॥२८१॥
पृथिव्यां यानि दानानि दत्त्वा यत् फलम् आप्नुते ।
एकेनैवोपवासेन ददाति हरि-बोधनी ॥२८२॥

दुर्लभं दुःखेन प्राप्यं, दुष्प्रापं च, अप्राप्यं यत् तद् अपि प्रार्थितं सत् ॥२७९॥ सन्ततिं पुत्रादीन् ॥२८०॥ दहते दहति ॥२८१॥

किं च—

जातः स एव सुकृती कुलं तेनैव पापितम् ।
कार्त्तिके मुनि-शार्दूल कृता येन प्रबोधनी ॥२८३॥
यानि कानि च तीर्थानि त्रैलोक्ये सम्भवन्ति च ।
तानि तस्य गृहे सम्यग् यः करोति प्रबोधनीम् ॥२८४॥
सर्व-कृत्यं परित्यज्य तुष्ट्य्-अर्थं चक्रपाणिनः ।
उपोष्यैकादशी सम्यक् कार्त्तिके हरि-बोधनी ॥२८५॥
किं तस्य बहुभिः कृत्यैः पर-लोक-प्रदैर् मुने ।
सकृच् चोपोषिता येन कार्त्तिके हरि-बोधनी ॥२८६॥
स ज्ञानी स हि योगी च स तपस्वी जितेन्द्रियः ।
स्वर्ग-मोक्षौ च तस्यास् ताम् उपास्ते हरि-बोधनीम् ॥२८७॥
विष्णोः प्रियतरा ह्य् एषा धर्म-सारस्य दायिनी ।
इमां सकृद् उपोष्यैव मुक्ति-भागी भवेन् नरः ॥२८८॥
प्रबोधनीम् उपोष्यैव न गर्भे विशते नरः ।
सर्व-धर्मान् परित्यज्य तस्मात् कुर्वीत नारद ॥२८९॥
स्नानं दानं तपो होमः समुद्दिश्य जनार्दनम् ।
नरैर् यत् क्रियते विप्र प्रबोधिन्यां तद् अक्षयम् ॥२९०॥
महा-व्रतम् इदं पुत्र महा-पापौघ-नाशनम् ।
प्रबोध-वासरं विष्णोर् विधिवत् समुपोषयेत् ॥२९१॥
व्रतेनानेन देवेशं परितोष्य जनार्दनम् ।
विराजयन् दिशो दीप्त्या प्रयाति भुवनं हरेः ॥२९२॥

पर-लोक-प्रदैर् इति तेषां संसार-दुःखावहत्वम् उक्तम् ॥२८६॥ आस्तां—आसातां भवत इत्य् अर्थः ॥२८७॥ प्रबोधिनीत्य्-आदि-शब्देन सामान्येन तत्र सर्वेषाम् एव कृत्यानां माहात्म्यम् उक्त्वेदानीं विशेषतस् तानि निर्दिशन्न् आह—स्नानम् इति ॥२८९-२९०॥

पाद्मे च तत्रैव—

दुग्धाब्धि-भोगि-शयने भगवान् अनन्तो
यस्मिन् दिने स्वपिति चाथ विबुध्यते च ।
तस्मिन्न् अनन्य-मनसाम् उपवास-भाजां
कामं ददात्य् अभिमतं गरुदाङ्क-शायी ॥२९३॥

दुग्धाब्धौ यद् भोगि-शयने शेष-शय्य् अङ्गस् तस्मिन् एतच् च तद्-दिने क्षीराब्धि-कल्पनाभिप्रायेण साक्षाद् वा, तदानीं तत्रैव शयनाद् इति ॥२९३॥

वाराहे च—

उपवासासमर्थानां सदैव पृथु-लोचने ।
एका सा द्वादशी पुण्या समुपोष्या प्रबोधिनी ॥२९४॥
तस्याम् आराध्य विश्वेशं जगताम् ईश्वरेश्वरम् ।
प्राप्नोति सकलं तद् धि द्वादश-द्वादशी-व्रतम् ॥२९५॥
उत्तराङ्गारक-युता यदि सा भवति प्रिये ।
तदा सा महती पुण्या कोटि-कोटि-[गो।ता।उ।रूपा ॥२९६॥
शयने बोधने चैव कोटि-दानेन सुन्दरि ।
उपोष्यैव विधानेन यान्ति मल्लयतां नराः ॥२९७॥
एकादशी सोम-युता कार्त्तिके मासि भाविनि ।
उत्तराभाद्र-संयोगे अनन्ता सा प्रकीर्तिता ॥२९८॥
तस्यां यत् क्रियते भद्रे सर्वम् आनन्त्यम् अश्नुते ।
अनन्त-पुण्य-फलदा तेनानन्ता स्मृता फले ॥२९९॥

उत्तरा उत्तर-भाद्रपद-नक्षत्रम् । अङ्गारको भौम-वारः । ताभ्यां युक्ता सा प्रबोधिनी यदि भवेत् ॥२९६॥ सोम-वार-युतापि परम-महा-पुण्येत्य् आह—एकादशीति ॥२९८॥

तत्रैव श्री-यम-नारद-संवादे—

अन्यच् च ते प्रवक्ष्यामि गुह्याद् गुह्यतरं मुने ।
कार्त्तिके’मल-पक्षे तु साक्षाद् एकादशी स्मृता ।
भक्ति-प्रदा हरेः सा तु नाम्ना ख्याता प्रबोधिनी ॥३००॥
या सा विष्णोः परा मूर्तिर् अव्यक्तानेक-रूपिणी ।
सा क्षिप्ता मानुषे लोके द्वादशी मुनि-पुङ्गव ॥३०१॥

साक्षाद् धरेर् भक्ति-प्रदा ॥३००॥ तत्-सेवया च साक्षाद्-धरि-सेवैव सम्पद्यत इत्य् आशयेनाह—या सेति । द्वादशी-रूपेण क्षिप्ता न्यस्ता ॥३०१॥

अथ श्री-मथुरायां च विशेषतो माहात्म्यम्

पाद्मे तत्रैव—

तावद् गर्जन्ति तीर्थानि वाजिमेधादयो मखाः ।
मथुरायां प्रिया विष्णोर् यावन् नायाति बोधनी ॥३०२॥
संसार-दाव-तप्तानां काम-सौख्ये पिपासिनाम् ।
श्री-कृष्ण-पाद-पद्मस्य सान्निध्यं शीतलं गृहम् ॥३०३॥

श्री-कृष्ण-पाद-पद्म-सान्निध्य-रूपं शीतलं त्रि-ताप-हरं गृहम् ॥३०३॥

भव-पान्थ-जनानां वै प्राप्तिकेयं प्रबोधनी ।
कथं न सेव्यते मूढ मथुरायां किम् अन्यतः ॥३०४॥

भव-पान्थ-जनानां संसार-मार्ग-भ्रमण-परिश्रान्त-जनान् प्रति प्रापिका प्रापयेद् इत्य् अर्थः । अन्यतः तीर्थान्तरेण कर्मान्तरेण च किं प्रयोजनं ? श्री-मथुरायां तत्-सेवने सत्य् असति च इत्य् अर्थः ॥३०४॥

स्कान्दे तत्रैव प्रबोधनी-माहात्म्ये—

ये’र्चयन्ति नरास् तस्यां भक्त्या देवं तु माधवम् ।
समुपोष्य प्रमुच्यन्ते पापैस् ते समुपार्जितैः ॥३०५॥

तत्र च विशेषतो भगवतः पूजां कीर्तनं च कुर्याद् इत्य् उपदिशन्न् आदौ पूजा-माहात्म्यम् आह—ये इति त्रिभिः ॥३०५॥

बाल्ये यच् चार्जितं वत्स यौवने वार्धके च यत् ।
सप्त-जन्म-कृतं पापं स्वल्पं वा यदि वा बहु ॥३०६॥
शुष्कार्द्रं मुनि-शार्दूल सुगुह्यम् अपि नारद ।
तत् क्षालयति गोविन्द-स्थितौ तस्यां सुपूजितः ॥३०७॥

शुष्कं—चिर-कृतं, आर्द्रं च—साम्प्रतिकम् ॥३०७॥

किं च,

प्रबोध-वासरे विष्णोः कुरुते च हरेः कथाम् ।
सप्त-दीपावनी-दाने यत् फलं तद् भवेन् मुने ॥३०८॥

कीर्तन-माहात्म्यम् आह—प्रबोधेति । कथाम् इत्य् उपलक्षणं सर्व-कीर्तन-प्रकारस्य ॥३०८॥

वाराहे च—

कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् ।
अर्चयेद् यस् तु मां तत्र तस्य पुण्य-फलं शृणु ॥३०९॥
यावल् लोका हि वर्तन्ते यावत् त्वं चैव माधवि ।
मद्-भक्तो जायते तावद् अन्य-भक्तो न जायते ॥३१०॥

अन्यस्य भक्तो न जायते न स्याद् इति । एकान्तितां प्राप्नोतीत्य् अर्थः ॥३१०॥

अथ प्रबोध-काल-निर्णयः

भविष्ये—

आ-भा-का-सित-पक्षेषु मैत्री-प्रवण-रेवती ।
आदि-मध्यावसानेषु प्रस्वापावर्तनादिकम् ॥३११॥

आ-भा-केति-सङ्केतेन आषाढ-भाद्र-कार्त्तिक-मासास् तेषां सित-पक्षेषु शुक्ल-द्वादशीषु अनुराधा-श्रवणा-रेवती-नक्षत्राणाम् आद्य-मध्यान्त्य-पादेषु शयन-पार्श्व-परिवर्तनोत्थानानि क्रमेण भवन्तीत्य् अर्थः ॥३११॥

पाद्मे—

पौष-शेष-पदेनाह्नि मैत्राद्यम् अपि नो निशि ।
द्वादश्याम् अपि तत् कुर्याद् उत्थानं शयनं हरेः ॥३१२॥

तत्-तद्-यागाभावे च द्वादश्याम् एवोत्थानादिकं कुर्याद् इति लिखति—पौष्णेति । पौष्णं रेवती, तस्य शेषो’न्त्य-पादो यदि दिन-मध्ये न स्यात्, मैत्राद्यम् अपि अनुराधाद्य-पादो निशि न स्यात् । तदा केवलायाम् अपि द्वादश्यां हरेर् उत्थानादिकं कुर्यात् ॥३१२॥

निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्तनम् ।
अन्यत्र पाद-योगे’पि द्वादश्याम् एव कारयेत् ॥३१३॥

पाद-योगे ततो’न्यत्रापि पाद-योगाभावे’पि द्वादश्याम् एव कारयेत् ॥३१३॥

वाराहे च—

अपाद-नियमस् तत्र स्वापो वा परिवर्तते ।
पाद-योगो यदा न स्याद् ऋक्षेणापि तदा भवेत् ॥३१४॥

अपाद-नियमः पाद-योग-नियमो नास्तीत्य् अर्थः ॥३१४॥

किं च स्कान्दे—

रेवत्य्-अन्तो यदा रात्रौ द्वादश्या च समन्वितः ।
तदा विबुध्यते विष्णुर् दिनान्ते प्राप्य रेवतीम् ॥३१५॥

एवं सामान्येन शयनादि-कालत्रिकं निर्णीयेदानीं विशेषतः प्रबोधन-कालं लिखति—रेवतीति द्वाभ्याम् । द्वादश्या समन्वितः । सहितो रेवत्य्-अन्त्य-पादो यदा रात्रौ भवेत् । तदा दिनान्ते अपराह्ने । तथा चोक्तम्—

रेवत्य्-अन्तो यदा रात्रौ गतः पादान्तरे’पि च ।

अपराह्ने तदा विष्णुर् योग-निद्रां विमुञ्चति ॥ इति ॥३१५॥

रेवत्य्-आदि-रथान्तो वा द्वादश्या च विना भवेत् ।
उभयोर् अप्य् अभावे तु सन्ध्यायां च महोत्सवः ॥३१६॥

तद्-अभावे च सन्ध्यायां प्रबोधयेद् इत्य् आह—रेवत्यादिर् इति । रेवत्या आदि आद्य-पादः । अन्तो वा अन्त्य-पादः द्वादश्या विना भवेत्, एवम् उभयोर् अप्य् अभावे सति यदि द्वादश्यां कथञ्चिद् रेवत्या योगो न स्याद् इत्य् अर्थः । तदा सन्ध्यायाम् एव प्रबोधन-महोत्सवः स्यात् । तच् चोक्तम् अन्यत्रापि—

रेवत्य्-अन्तो यदा रात्रौ द्वादश्या च विना भवेत्** **।

उभयोर् अप्य् अभावे स्यात् सन्ध्यायां तु महोत्सवः ॥ इति ॥३१६॥

वाराहे च—

द्वादश्यां सन्धि-समये नक्सात्राणाम् असम्भवे ।
आ-भा-का-सित-पक्षे तु शयनावर्तनादिकम् ॥३१७॥

एतद् एव वराह-पुराण-वचनेन संवादयति—द्वादश्याम् इति । आषाढ-भाद्र-कार्त्तिकानां सित-पक्षेषु या द्वादशी, तस्यां नक्षत्राणां मैत्रादीनाम् असम्भवे सर्वथा अभावे सति सन्धि-समये सन्ध्यायां शयनादिकं स्यात् । एतद् उक्तं भवति—भगवच्-छयनादौ आषाढादीनां शुक्ल-द्वादशी-क्रमेणानुराधादीनाम् आद्य-मध्यान्त्य-पाद-युक्ता रात्रि-सन्ध्यादिना युक्ता च सती परम-प्रशस्ता । यदा च तत्र तत्र पाद-योगो न लभ्येत, तदा द्वादशी-नक्षत्र-योग आदरणीयः । पाद-योगे च तत्रायं विधि-विशेषः । दिवा रेवती-द्वादश्योर् योगे तत्र च रात्रि-गामिनि नक्षत्र-शेषे सति दिनान्ते प्रबोधन-दिनोत्थानम् इत्य्-आद्य्-उक्तेः । यदा च रेवती-द्वादश्योर् योगो न स्यात्, तदा सन्ध्यायाम् एव प्रबोधनं सन्ध्यायां तु महोत्सव इत्य्-आद्य्-उक्तेः ॥३१७॥

अत एव पुष्कर-पुराणे—

**यस्य यस्य तु देवस्य यन् नक्षत्रं तिथिश् च या ।
तस्य देवस्य तस्मिंश् च शयनावर्तनादिकम् ॥३१८॥ **

एवं द्वादश्याम् एव प्रबोधनं निर्णीतं, तत्र च—

कार्त्तिके शुक्ल-पक्षस्य एकादश्यां समाहितः ।

मन्त्रेण चैव राजेन्द्र देवम् उत्थापयेद् द्विजः ॥

इत्य्-आदिभिर् भविषोत्तरादि-वचनैः सह विरोधम् आशङ्क्य परिहरति—यस्येति । अतो विष्णु-तिथौ द्वादश्याम् एव उत्थानं भवेद् इत्य् अर्थः । इत्थं, “इयं तु द्वादशी देवः” इति, “प्राप्ता तवेयं द्वादशी कौमुद्याख्या” इति मन्त्र-लिङ्गानुगृहीतत्वात् शिष्टाचार-दर्शनाच् च सर्वदा द्वादश्याम् एव प्रबोधनं सिद्धम् । यच् च भविषोत्तरादौ—“एकादश्याम् उत्थापयेत्” इत्य्-आद्य्-उक्तं, तच् च एकादशी-द्वादश्योर् अभेदापेक्षया उपवासाद्य्-अभिप्रायेण चेति ज्ञेयम् । यदि वैकादशी-दिन एवोपवासः स्यात्, तर्हि तस्मिन्न् उपवासादिना समाहितत्वं प्रबोधनं च द्वादश्याम् एवेति बोद्धव्यम् । अत एवोक्तम्—एकादश्यां समाहितः इत्य् एषा दिक् ॥३१८॥

अथ भगवत्-प्रबोधन-विधिः

शयन्याम् इव निष्पाद्य महा-पूजां जलाशये ।
कृष्णं नीत्वाथ सङ्कल्पं कृत्वा तं च प्रबोधयेत् ॥३१९॥

शयन्त्याम् इवेति—तत्र लिखित-प्रकारानुसारेणात्रापि पूजादिकं कार्यम् इत्य् अर्थः । जलाशये नीत्वा इत्य्-आदिकं विशेष-लिखनायानुस्मरण-मात्रम् ॥३१९॥

अथ तत्र मन्त्राः

**ब्रह्मेन्द्र-रुद्राग्नि-कुवेर-सूर्य-
सोमादिभिर् वन्दित-पाद-पद्म ।
बुध्यस्व देवेश जगन्-निवास
मन्त्र-प्रभावेण सुखेन देव ॥३२०॥
इयं तु द्वादशी देव प्रबोधार्थं विनिर्मिता ।
त्वयैव सर्व-लोकानां हितार्थं शेष-शायिना ॥३२१॥
उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्-पते ॥३२२॥
त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेद् इदम् ।
उत्थिते चेष्टते सर्वम् उत्तिष्ठोत्तिष्ठ माधव ॥३२३॥ **इति ।

वाराहे च—

ब्रह्म-रुद्रैर् वितर्क्य-भावो
भवान् ऋषिर् वन्दिताङ्घ्रिः ।
प्राप्ता तवेयं द्वादशी कौमुदाख्या
जागृष्व जागृष्व च लोकनाथ ॥३२४॥

वन्दनीयेति पाठे ब्रह्मादिभिर् वन्दिता एकान्त-भक्तास् तैर् वन्दनीयेति । ऋषीः मन्त्र-द्रष्टा ॥३२४॥

मेघा गता निर्मल-पूर्ण-चन्द्रः
शारद्य-पुष्पाणि च लोकनाथ ।
अहं ददानीति च भक्ति-हेतोर्
जागृष्व जागृष्व च लोकनाथ ॥३२५॥

श्रुतिश् च—

इदं विष्णुर् विचक्रमे
त्रेधा निदधे पदं
समूढम् अस्य पांशुलेत्य् आदि ॥३२६॥
ततस् तल्पात् समुत्थाप्य कृष्णं घण्टादि-निस्वनैः ।
तीरे सुखं निवेश्याथ प्रार्थयेत् तद्-अनुग्रहम् ॥३२७॥

अथ तत्र प्रार्थना-मन्त्रः

तथा हि तृतीय-स्कन्धे श्री-ब्रह्म-स्तुतौ (३.९.२५)—

**सो’साव् अदभ्र-करुणो भगवान् विवृद्ध-
प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्व-विजयाय च नो विषादं
माध्व्या गिरापनयतात् पुरुषः पुराणः ॥३२८॥ **इति ॥

अदभ्र-करुणः महा-दयालुः । अतः विवृद्ध-प्रेम्णा यत् स्मितं तेन, विजृम्भन् विजृम्भयन् उन्मीलयन्, विश्वस्य विजयाय उद्भवाय । यद् वा, निज-भक्ति-प्रचारणेन विश्व-वशीकरणाय । यद् वा, जगन्-महोत्सवाय । च-शब्दाद् विशेषतो’नुग्रहाय चेति । नो’स्माकं भक्तानां विषादं प्रलयात् चिर-वाग्-अमृत-पानाभावतो वा शोक-दुःखं माध्व्या मधुरया गिरा अपनयतात् । श्लोकश् चायं शिष्टाचारानुसारेणात्र लिखितः । किन्त्व् अन्ये’पि यथेष्टं पठनीयाः ॥३२८॥

अथ रथयात्रा-माहात्म्यम्

भविष्योत्तरे तत्रैव—

यं यं दामोदरः पश्येद् उत्थितो धरणीधरः ।
तं तं प्रदेशं राजेन्द्र सर्वं स्वर्गाय कल्पयेत् ॥३४०॥

किं च—

यावत् पदानि कृष्णस्य रथस्याकर्षणं नरः ।
करोति क्रतुभिस् तानि तुल्यानि नर-नायक ॥३४१॥
रथस्थं ये निरीक्षन्ते कौतुकेनापि केशवम् ।
देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥३४२॥
स्त्रियो’पि मुक्तिम् आयान्ति रथयात्रा-परायणाः ।
पितृ-मातृ-भर्तृ-कुलं नयन्ति हरि-मन्दिरम् ॥३४३॥
कुर्वन्ति नार्तकी-रूपं रथाग्रे कौतुकान्वितम् ।
अप्सरोभिः सह क्रीडां कुर्वन्तीन्द्राश् चतुर्दश ॥३४४॥

नर्तक्या इव रूपं वेशं कुर्वन्ति ॥३४४॥

ये रथाग्रे प्रकुर्वन्ति गीत-वाद्यादि मानवाः ।
देव-लोकात् परिभ्रष्टा जायन्ते मण्डलेश्वराः ॥३४५॥
मौल्येन स्यन्दनस्याग्रे गायमानाश् च गायकाः ।
वादकैः सह राजेन्द्र प्रयान्ति हरि-मन्दिरम् ॥३४६॥

देव-लोकात् परिभ्रष्टा इति । प्राग् देव-लोके यथेष्ट-भोगान् भुक्त्वा ततः परिभ्रष्टाः सन्त इत्य् अर्थः ॥३४५॥ मौल्येन वेतनेनापि गृहीतेन ॥३४६॥

रथोत्सवे मुकुन्दस्य येषां हर्षो’पि जायते ।
तेषां न नारकी पीडा यावद् इन्द्राश् चतुर्दश ॥३४७॥
रथोत्सवस्य माहात्म्यं कलौ वितनुते हि यः ।
पुण्य-बुद्ध्या विशेषेण लोभेनाप्य् अथवा नरः ॥३४८॥
सप्त-द्वीप-समुद्रान्ता रत्न-धान्य-समन्विता ।
स-शैल-वन-पुष्पाढ्या तेन दत्ता मही भवेत् ॥३४९॥

अस्तु तावद्-रथयात्रा-निष्पादनं, तत्रोत्साहादिनापि महा-फलं स्याद् इत्य् आह—रथेति त्रिभिः । हर्षो’नुमोदनम् उत्साहो वा ॥३४७॥

अन्यत्र च—

बोधनी जागराधारा कार्त्तिके शुक्ल-पक्षतः ।
रथस्थो यत्र भगवांस् तुष्टा यच्छति वाञ्छितम् ॥३५०॥
भजन्ते ये रथारूढं देवं सर्वेश्वरेश्वरम् ।
तेषां यात्रा-कृतां नॄणां कामान् इष्टान् प्रयच्छति ॥३५१॥
श्री-कृष्ण-रथ-शोभां ये प्रकुर्वन्ति प्रहर्षिताः ।
तेषां मनोरथावाप्तिं यच्छते पुरुषोत्तमः ॥३५२॥
श्री-कृष्ण-रथ-शोभां यः करोति स्व-शक्तितः ।
वाञ्छितं तस्य यच्छन्ति नित्यं सूर्यादयो ग्रहाः ॥३५३॥

यत्र—यस्यां बोधन्याम् ॥३५०॥ मनोरथावाप्तिं—वाञ्छित-फलम् ॥३५२॥

कृष्णस्य रथ-शोभां यः पताकादि-समन्वितम् ।
करोति वर-नारीणां भोत्का मन्वन्तराणि षट् ॥३५४॥
कृष्णस्य रथ-शोभां ये प्रकुर्वन्ति प्रहर्षिताः ।
पदे पदे तथा पुत्र तेषां पुण्यं प्रयागजम् ॥३५५॥
रथयात्रा-स्थिते कृष्णे जयेति प्रवदन्ति ये ।
जयेति च पुनर् ये वै शृणु पुण्यं वदाम्य् अहम् ॥३५६॥
गङ्गा-द्वारे प्रयागे च गङ्गा-सागर-सङ्गमे ।
वाराणस्यादि-तीर्थेषु देवानां चैव दर्शने ॥३५७॥
यत् फलं कविभिः प्रोक्तं कार्त्स्न्येन च नरेश्वर ।
जय-शब्दे कृते विष्णौ रथ-स्थे तत् फलं स्मृतम् ॥३५८॥
रथ-स्थितो नरैर् यैस् तु पूजितो धरणी-धरः ।
यथा-लाभोपपन्नैश् च पुष्पैर् भक्त्या समर्चितः ।
ददाति वाञ्छितान् कामान् अन्ते च परमं पदम् ॥३५९॥
मङ्गलं ये प्रकुर्वन्ति धूप-दीपांस् तथा स्तवम् ।
नैवेद्यं वस्तु-पूजां च भक्त्या नीराजनं हरेः ॥३६०॥
रथारूढस्य कृष्णस्य सम्प्राप्ते हरि-वासरे ।
फलं न तन् मया ज्ञातं जानाति यदि केशवः ॥३६१॥
ब्रह्मस्व-हारी गोघ्नश् च भ्रूणहा ब्रह्म-निन्दकः ।
महा-पातक-युक्तो’पि ब्रह्महा गुरु-तल्पगः ॥३६२॥
मद्यपः सर्व-पापो’पि कलि-कालेन मोहितः ।
रथाग्रतः पदैकेन मुच्यते सर्व-पातकैः ॥३६३॥

यदीति संशयश् चानन्त्याभिप्रायेण ॥३६१॥ सर्वाणि पापानि यस्मिन् सो’पि ॥३६३॥

किं चान्यत्र—

रथारूढे महा-विष्णौ ये कुर्वन्ति जय-स्वनम् ।
पूजां चाखिल-पापेभ्यो मुक्ता यान्ति हरेः पदम् ॥३६४॥

पूजां च कुर्वन्ति ॥३६४॥

किं च—

रथस्याकर्षणं पूर्वं कुरुते दैत्य-नायकः ।
तपः सुराः सिद्ध-सङ्घाः यक्ष-गन्धर्व-मानवाः ॥३६५॥
इति ।

न चायं रथो मनुष्य-मात्र-शक्त्या चलति, किन्तु भगवद्-भक्तानां महताम् एवेत्य् आशयेनाह—रथस्येति । दैत्य-नायक-श्री-प्रह्लादः ॥३६५॥

इत्थं च रथयात्राया विधिर् व्यक्तः स्वतो’भवत् ।
तथापि कश्चित् तत्रान्यो विशेषो’पि वितन्यते ॥३६६॥

इत्थम् । माहात्म्य-लिखन-द्वारेत्य् अर्थः । स्वत एव व्यक्तः प्रकातो’भवत् । अतस् तद्-विस्तारणेनालम् इत्य् अर्थः । विशेष आशीर्वाक्य-कीर्तनादिः ॥३६६॥

अथ रथयात्रा-विधिः

श्री-कृष्णे तु रथारूढे कृत्वाजय-जय-ध्वनिम् ।
निष्पाद्य च महा-पूजाम् आशीर्वाक्यानि कीर्तयेत् ॥३६७॥

विशेषम् एव लिखन् तत्-पूर्व-कृत्यम् अनुस्मारयति—श्री-कृष्णे त्व् इति ॥३६७॥

तथा च विष्णु-धर्मे—

वक्त्रं नीलोत्पल-रुचिं लसत्-कुण्डलाभ्यां प्रमृष्टं
चन्द्राकारं रचित-तिलकं चन्दनेनाक्षतैश् च ।
गत्या लीलाञ्जन-सुख-करीं प्रेक्षणेनामृतौघं
पद्मावासां सततम् उरसा धारयन् पातु विष्णुः ॥३६८॥

चन्द्राकारं पूर्णेन्दु-मण्डल-सदृशाकृति-वक्त्रं धारयन् प्रकटयन् । वक्त्रम् एव विशिनष्टि—नीलेत्य् आदि प्रथमार्धेन । नीलोत्पलस्येव रुचिः श्याम-कान्तिर् यस्मिन्, लसद्ब्यां गण्डयोः क्रीडद्भ्यां शोभमानाभ्यां वा कुण्डलाभ्यां प्रमृष्टं परमोज्ज्वलम् । लसद् इत्य् अस्य पूर्वेणैव वा सम्बन्धः । चन्दनेनाक्षतैश् च रचितं भाले निर्मितं तिलकं यस्मिन् । पुनर् विष्णुं विशिनष्टि—गत्या रथयात्रया जन-सुख-करीं सर्व-लोकानन्द-वहां लीलां कौतुक-विशेषं धारयन् । किं च, प्रेक्षणेन कृपावलोकेन अमृतौघं सुधा-पूरं धारयन् । किं च, उरसा पद्मा-वासां लक्ष्मीं धारयन् सततं पातु जगद् इति शेषः । व इत्य् उत्तर-श्लोकस्थस्य वा सम्बन्धः ॥३६८॥

युक्तः शैव्यादि-वाहैर् मधुरतर-रणत्-किङ्किणी-जाल-मालै
रत्नौघैर् मौक्तिकानाम् अविरत-मणिभिः सम्भृतैश् चैव हारैः ।
हैमैः कुम्भैः पताका-शिव-तनु-रुचिभिर् भूषितः केतु-मुख्यैश्
छत्रैर् ब्रह्मेश-वन्द्यो दुरतिहर-हरेः पातु जैत्रो रथो वः ॥३६९॥

शैव्यादि-शब्देन सुग्रीव-मेघपुष्प-वलाहकाः, तत्-तत्-सञ्ज्ञकैर् वाहैर् अश्वैश् चतुर्भिर् युतः । एवम् आस्तां रथस्य भगवद्-आरूढत्वात् तन् नित्य-रथ-सादृश्यम् अभिप्रेतम् । कथं-भूतैर् वाहैः ? मधुरतरं यथा स्यात् तथा रणन्तीनां शब्दायमानानाम् । यद् वा, मधुराणां च परम-सुन्दरीणां रणन्तीनां च किङ्किणीनां जालस्य माला येषु तैः । पुनः कथं-भूतैः ? अविरता निरन्तरा मणयो येषु तैर् मौक्तिकानां हारै रन्तौघैश् चान्यैः सम्भृतैः परिपूर्णैः । यद् वा, रथस्यैव विशेषणम् । ततश् च मणयो मौक्तिक-गुणकानि यथा जप-मालादि-मणयः, मौक्तिकानाम् अविरतैर् मणिभि रत्नौघैश् च सम्भृतैर् ग्रथितैर् हारैर् भूषण इत्य् अन्वयः । पताकानां शिवतराभिः परमोत्तमाभिः रुचिभिर् दीप्तिभिः छत्रैश् च भूषणितः, दुरित-हरस्य हरेर् जैत्रः जल-शीलः ॥३६९॥

**मोदन्तां सुजना ह्य् अनिन्दित-धियः स्रस्ताखिलोपद्रवाः
स्वस्थाः सुस्थिर-बुद्धयः प्रतिहता-मित्रा रमन्तां सुखम् ।
रे दैत्या गिरि-गह्वराणि गहनान्य् आशु व्रजध्वं भयाद्
दैत्यारिर् भगवान् अयं यदुपतिर् यानं समारोहति ॥३७०॥
पलायध्वं पलायध्वं रे रे दितिज-दानवाः ।
संरक्षणाय लोकानां संरूढो नृ-केशरी ॥३७१॥ **इति ॥

ततो विचित्र-गद्यानि पठित्वाथ महाप्रभोः ।
महा-प्रसाद-मालां च स्वीकुर्यात् परया मुदा ॥३७२॥

अथ माहात्म्यम्

**भक्त्या गृह्णाति यो मालां वैष्णवीं मङ्गलाश्रयाम् ।
न तेषां दुर्लभं किञ्चिद् इह लोके परत्र च ॥३७३॥
तस्मात् सर्व-प्रयत्नेन सर्व-काम-समृद्धये ।
मालाम् एतां प्रगृह्णीयात् सौख्य-मोक्ष-प्रदायिनीम् ॥३७४॥ **इति ।

सञ्चिन्त्याकृष्यमाणं च श्री-प्रह्लादादिभी रथम् ।
आकर्षयेद् राज-पुर्या भ्रामयेद् वैष्णवैः समम् ॥३७५॥

तथा च भविष्योत्तरे तत्रैव—

नृत्यमानैर् भागवतैर् गीत-वादित्र-निस्वनैः ।
भ्रामयेत् स्यन्दनं विष्णोः पुर-मध्ये समन्ततः ॥३७६॥

रथं च तं श्री-प्रह्रादादिभिर् आकृष्यमाणम्, सञ्चिन्त्य परिभाव्य, स्वयं भ्रामयेत् । प्रेरयन्न् इति पाठे पश्चाच् चालयन् ॥३७५॥ नृत्यमानैर् नृत्यद्भिर् भागवतैर् भगवद्-भक्तैः सह ॥३७६॥

किं च—

प्रबोध-वासरे प्राप्ते कार्त्तिके पाण्डु-नन्दन ।
देवालयेषु सर्वेषु पुर-मध्ये समन्ततः ।
भ्रामयेत् तुर्य-निर्घोषै रथस्थं धरणी-धरम् ॥३७७॥
रथागमे मुकुन्दस्य पुर-शोभां तु कारयेत् ।
सर्वतो रमणीयं तु पताकैर् उपशोभितम् ॥३७८॥
तोरणैर् बहुभिर् युक्तं रम्भा-स्तम्भैः सुशोभितम् ।
स्थाने स्थाने महीपाल कर्तव्यं पुण्य-संयुतम् ।
विचित्र-रथ-शोभा च कर्तव्या भावितैर् नरैः ॥३७९॥
इति ।

रथस्यागमे यत्र यत्र रथो याति, तत्र तत्रैवेत्य् अर्थः । एव्ग् पुर-शोभा-कर्मणस् तात्कालिकत्वम् उक्तं, पूर्वम् अपि सर्व-महा-यात्रा-साधारण्यात् कार्यम् एवेति ज्ञेयम् । पुर-शोभाम् एव विवृत्याह—सर्वत इति सार्धेन । रमणीयं पुरम् इति शेषः ॥३७८॥ पुण्य-संयुतं—मङ्गलतमम् । भावितैः—भाव-युक्तैः । सद्भिर् विचित्रा रथ-शोभा च स्थाने स्थाने कर्तव्या ॥३७९॥

रथेन गच्छन् भगवान् अनुगम्यो’खिलैर् जनैः ।
स्व-स्व-गेहाग्रतश् चार्च्यो’न्यथा दोषो महान् भवेत् ॥३८०॥

अखिअलिर् आत्मारामादिभिर् अपि, स्व-स्व-गेहाग्रतो निज-निजालयाग्रतः प्राप्तः सन्न् अर्च्यः पूज्यः । अन्यथा अनुगमनार्चने न कृते सतीत्य् अर्थः ॥३८०॥

अथ रथानुगमनादि-नित्यता

तत्रैव—

रथेन सह गच्छन्ति पुरतः पृष्ट्ःअतो’ग्रतः ।
विष्णुनैव समाः सर्वे भवन्ति श्वपचादयः ॥३८१॥
रथस्थं ये न गच्छन्ति भ्रममाणं जनार्दनम् ।
विप्राध्ययन-सम्पन्ना भवन्ति श्वपचाधमाः ॥३८२॥

अकरणे प्रत्यवाय-द्वारा नित्यत्वं लिखितुम् आदौ करणेन परम-गुणं लिखति—रथेनेति । महा-विप्रेति पाठे महा-विप्रा ज्ञान-निष्ठा मुनयस् तैः समास् तुल्याः । यद्यपि महा-ब्राह्मण-शब्देन चाण्डालो’भिधीयते, तथापि विप्र-शब्द-प्रयोगात् तत्-परिहारो ज्ञेयः ॥३८१॥ अध्ययन-सम्पन्नाः अधीत-शास्त्रा अपि विप्राः । विसर्ग-लोपे’पि सन्धिर् आर्षः । पश्यन्तीति पाठे दर्शनस्यापि नित्यत्वं ज्ञेयम् । ततश् चानुगमनस्य नित्यत्वं नानुव्रततीति श्लोकाद् अवगन्तव्यम् ॥३८२॥

किं च,

येषां गृहाग्रतो याति रथस्थो मधुसूदनः ।
पूजा तैस् तैः प्रकर्तव्या वित्त-शाठ्य-विवर्जितैः ॥३८३॥
अनर्चितो यदा याति गृहाद् यस्य महीधरः ।
पितरस् तस्य विमुखा वर्षाणां दश पञ्च च ॥३८४॥
यः पुनः कुरुते पूजां गृहायाते तु माधवे ।
वसते श्वेतद्वीपे तु यावद् इन्द्राश् चतुर्दश ॥३८५॥

न च केवलम् अकरण-प्रत्यवाय-परिहारार्थम् एव पूजा कार्या । किन्तु तया महा-फलं च स्याद् इत्य् आह—य इति ॥३८५॥

अन्यत्र च—

नानुव्रजति यो मोहाद् व्रजन्तं पूर्वेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥३८६॥
अथ स्व-मन्दिरं नीत्वा पूर्ववत् पूजयेत् प्रभुम् ।
रात्रौ जागरणं कुर्याद् विधिवद् वैष्णवैः समम् ॥३८७॥

पूर्ववद् इति शयन्य्-आदौ यथा-लिखितं तद्वद् इत्य् अर्थः । विधिवद् यथा-विधीत्य् अर्थः । रथयात्रा-रात्रौ जागरणम् उन्मीलनीत्यादिना द्वादश्याम् उपवासवत् । अन्यथा पूर्वस्मिन्न् उपवास-दिने जागरणं, पारणा-दिने उत्थानानन्तरं रथयात्रेति ज्ञेयम् ॥३८७॥

अथ प्रबोधनी-जागरण-माहात्म्यं

स्कान्दे तत्रैव—

पूर्वजन्म-सहस्रेषु पापं यत् समुपार्जितम् ।
जागरणे प्रबोधिन्यां दहते तूल-राशिवत् ॥३८८॥
कृत्वापि पातकं घोरं ब्रह्म-हत्यादिकं नरः ।
कृत्वा जागरणं विष्णोर् धूत-पापो भवेन् मुने ॥३८९॥
कर्मणा मनसा वाचा पापं यत् समुपार्जितम् ।
क्षालयेत् तच् च गोविन्दः प्रबोधन्यां तु जागरे ॥३९०॥
दुष्प्राप्यं यत् फलं विप्रैर् अश्वमेधादिभिर् मखैः ।
प्राप्यते तत् सुखेनैव प्रबोधन्यां तु जागरे ॥३९१॥
आप्लूत्य सर्व-तीर्थानि दत्त्वा च काञ्चनं महीम् ।
न तत् फलम् अवाप्नोति यत् कृत्वा जागरं हरेः ॥३९२॥
चन्द्र-सूर्योपरागे तु यत् फलं परिकीर्तितम् ।
तत्-सहस्र-गुणं पुण्यं प्रबोधन्यां तु जागरे ॥३९३॥
स्नानं दानं तपो होमः स्वाध्यायश् चार्चनं हरेः ।
तत् सर्वं कोटि-गुणितं प्रबोधन्यां तु जागरे ॥३९४॥
समतीतं भविष्यं च वर्तमानं कुलायुतम् ।
विष्णु-लोकं नयत्य् आशु जागरेण प्रबोधनी ॥३९५॥
चलन्ति पितरो हृष्टा विष्णु-लोकम् अलङ्कृताः ।
विमुक्ता नारकैर् दुःखैः कर्तुः कृष्ण-प्रजागरम् ॥३९६॥
भार्या-पक्षे तु ये जाता मातृतः पितृतस् तथा ।
तारयेन् नात्र सन्देहः प्रबोधन्यां तु जागरे ॥३९७॥

तत्र जागरणतः प्रथमं पाप-क्षयम् आह—पूर्वेति त्रिभिः ॥३८८॥ यज्ञ-तीर्थ-दानादितो’प्य् आधिक्यम् आह—दुष्प्राप्यम् इति त्रिभिः ॥३९१॥ किं च स्नानम् इति ॥३९४॥ सर्व-कुल-समेतस्य श्री-वैकुण्ठ-लोक-प्रापकत्वं चाह—समतीतम् इति त्रिभिः ॥३९५॥ कृष्णस्य जागरणं कर्तुः, यः करोति तस्य । ये पितरस् ते इत्य् अर्थः ॥३९६॥

किं च—

फलैर् नाना-विधैर् द्रव्यैः प्रबोधन्यां तु जागरे ।
शङ्खे तोयं समादाय अर्घ्यं दद्याज् जनार्दने ॥३९८॥
यत् फलं सर्व-दानेषु सर्व-तीर्थेषु यत् फलम् ।
तत् सर्वं कोटि-गुणितं दत्त्वार्घ्यं बोध-वासरे ॥३९९॥

जागरे अर्घ्य-दान-माहात्म्यं लिखति—फलैर् इति द्वाभ्याम् ॥३९८-३९९॥

पाद्मे च तत्रैव—

अन्यत्रापि प्रिया विष्णोर् जागरे स्यात् प्रबोधनी ।
किं पुनर् मथुरायां सा ततो वै जन्म-सद्मनि ॥४००॥
एकैवैकादशी कृष्ण-जन्म-गेहे कृता नरैः ।
ततो’धिकं न कर्तव्यं लोके किं च न विद्यते ॥४०१॥
रात्रौ जागरणं तत्र प्रीत्या कुर्वन्ति ये नराः ।
संसार-मोह-स्वप्नान्ते सदा जाग्रति जाग्रति ॥४०२॥

संसारे यो मोहः अज्ञानं, स एव स्वप्नस् तस्य अन्ते नाशे निमित्ते सदा जाग्रति संसार-मोहस् तस्य कदाचिद् अपि न तिष्ठेद् इत्य् अर्थः । वीप्सा निश्चयार्था ॥४०२॥

किं च, तत्रैव श्री-राधिकोपाख्यानान्ते—

प्रबोधनी-जागर-पुण्य-वैभवात्
प्रसन्न ईशो विधि-वाक्य-सत्य-कृत् ।
चकार रासोत्सव-नर्तनं सह
वृन्दावने’न्याभिर् अपीह राधया ॥४०३॥

विधि-वाक्यं—सर्वासु गोपीषु मध्ये अहं श्री-कृष्णस्य परम-प्रेयसी भवामीति स्वर्गे चन्द्रकान्ति-नामापसरसः प्रार्थनया, तथास्तु इति ब्रह्मा यद् आह, तत् सत्यं करोतीति सः । एतच् च पाद्मे कार्त्तिक-माहात्म्ये स-विस्तरं वर्तत एव । तत्र यद्यपि भगवती श्री-राधा स्वत एव तस्य नित्य-परम-प्रेयसी, तथापि विधि-वाक्य-सत्यतार्थं कृतम् इत्य् अन्य-जनेर्षा-परिहारार्थम् उक्तम् इति दिक् । राधया सह, अन्याभिर् अपि गोपीभिः सह ॥४०३॥

सा नृत्यमानाद्भुत-गोप-रूपिणा
कृष्णेन जन्मान्तर-वाञ्छितेन ।
राधा महा-प्रेम-जवाकुलेन्द्रियः
निन्ये’न्य-लोकं कथया कृतार्थताम् ॥४०४॥

अन्य-लोकं परम् अपि जनं सर्वं कथया निज-चरितादि-वार्तया कृतार्थतां श्री-कृष्ण-प्रियतमतां निन्ये । तत्र हेतुः—महान् प्रेम्णा जवः वेगस् तेनाकुलानीन्द्रियाणि यस्या सा । अतस् तद्-वार्ता-श्रवण-मात्रेणैव स्वतः प्रेम-भरोत्पत्तेर् इत्य् अर्थः ॥४०४॥

तस्मात् प्रबोधनीं कृत्वा रात्रौ कृत्वा च जागरम् ।
सुप्तोत्थितं हरिं दृष्ट्वा का भीः संसारजा द्विजाः ॥४०५॥
मथुरायां तु किं वाच्यं जागरे हरि-सन्निधौ ।
कार्त्तिके बोधनीं प्राप्य ततः श्रेयः परं न हि ॥४०६॥
मथुरायां प्रबोधन्यां कृत-जागरणस्य हि ।
क्षणार्धाद् अन्यतो वैश्यो’मोचयद् ब्रह्म-राक्षसम् ॥४०७॥
जागरस्य च माहात्म्यं गीत-वादित्र-कीर्तनम् ।
हरेः प्रीति-करं रात्रौ वक्तुं मे नैव शक्यते ॥४०८॥
यस् तु गायति कृष्णाग्रे कौमुदीं द्वादशीं क्षणम् ।
सर्व-लोकान् परित्यज्य विष्णु-लोकं स गच्छति ॥४०९॥

ब्रह्म-राक्षसं च वैश्यो’मोचयद् इत्य् अत्रेतिहासो मथुरा-माहात्म्ये व्यक्तं वर्तत एव, यथा—सुधन-नामा वणिक् जागरार्थम् अक्रूर-तीर्थं गच्छन् पथि ब्रह्म-राक्षसेन गृहीतः । पुनर् आगमनार्थं शपथे कृते सति परित्यक्तो जागरणं कृत्वा पुनर् आयातस् तं दृष्ट्वा राक्षसेन स-काकु प्रार्थैतो जागरण-कृत-नृत्य-लेश-मात्र-दानेन तं मोचयामास इति ॥४०७॥

माहात्म्यं वक्तुं नैव शक्यते, यतो रात्रौ गानादिकं प्रत्येकं हरेः प्रीति-करम् इति ॥४०८॥ कौमुदीं प्रबोधनीम् इत्य् अर्थः ॥४०८॥

अत एवोक्तं तत्रैव—

राज्यम् अन्यत्र सन्त्यज्य स्फीतं निहत-कण्टकम् ।
कार्त्तिके मथुरायां वै कौमुद्यां जागरं चरेत् ॥४१०॥

कृतानां चतुर्-मासेषु विशेषतः कार्त्तिके च विहितानां व्रतानाम् अच्छैद्र्यम् अच्छिद्रतां गृह्णन् ॥४१०॥

अथ पारणादि-कृत्यम्

पाद्मे कार्त्तिक-माहात्म्ये—

पारणं कार्त्तिके शुक्ले द्वादश्यां तु ततश् चरेत् ।
कृष्णस्याग्रे निवेद्याथ व्रतं कृच्छ्राग्र्यम् उत्तमम् ।
विष्णु-लोकम् अवाप्नोति भक्त्याभ्यर्च्य जनार्दनम् ॥४११॥

महाभारते—

चतुर्धा गृह्य वै चीर्णं चातुर्मास्य-व्रतं नरः ।
कार्त्तिके शुक्ल-पक्षे तु द्वादश्यां तत् समाचरेत् ॥४१२॥
प्रातर् नित्य-क्रियां कृत्वा शक्त्या सम्भोज्य भूसुरान् ।
गृह्णन् कृत-व्रताच् छैद्र्यं प्रदद्यात् दक्षिणादिकम् ॥४१३॥
दानं यथा-व्रतं तेभ्यो दत्त्वा पारणम् आचरेत् ।
प्रवर्तयेच् च सन्त्यक्त-चातुर्मास्य-व्रतेषु यत् ॥४१४॥

यथा-व्रतम् इति यद् व्रते यद्-दानम् उक्तं, तद्-अनुसारेणेत्य् अर्थः । तच् चाग्रे विशेषतो व्यक्तं भावि । चातुर्मास्य-व्रतेषु यत् सन्त्यक्तं, तत् प्रवरयेद् अभक्षणादिकं कुर्यात् ॥४१४॥

भविष्योत्तरे तत्रैव—

प्रभाते विमले स्नात्वा भोजयेद् अन्न-विस्तरैः ।
घृत-क्षीर-दधि-क्षौद्र-कासार-गुड-मोदकैः ।
अर्चयेच् चन्दनैश् चूर्णैः पुष्प-गन्धैर् द्विजोत्तमान् ॥४१५॥
आचान्तेभ्यस् ततो दद्यात् त्यक्तं यत् किञ्चिद् एव हि ।
सुवाचा सुमनो’भीष्ट-पत्र-पुष्प-फलादिकम् ॥४१६॥
चतुरो वार्षिकान् मासान् नियमं यस्य यत् कृतम् ।
कथयित्वा द्विजेभ्यस् तद् दद्याद् भक्त्या सुदक्षिणाम् ॥४१७॥

विमले जल इति शेषः । यद् वा, प्रभात इत्य् अस्यैव विशेषणं—विमल इति । कासारो मधुरतर-पक्वान्न-विशेषः चूर्णैः पट-वासैः बुक्वावन्दनेत्य्-आदि-प्रसिद्धैः ॥४१५॥ त्यक्तं चातुर्मास्यादि-नियमे वर्जितम् । सुवाचा विनय-पूर्वक-मधुरोक्त्या दद्यात् ॥४१६॥

एवम् एव पाद्मे तत्रैव किं चाधिक्यम्—

**चातुर्मास्य-व्रते विप्राः पश्चद् अच्छिद्र-वाचनम् ॥४१८॥ **इति ।

हे विप्राः ! पश्चाद् विप्र-भाजन-दक्षिणा-दानानन्तरं चातुर्मास्य-व्रते’च्छिद्र-वाचनम् अच्छिद्रम् अस्तु इति ब्राह्मणान् वाचयेद् इत्य् अर्थः ॥४१८॥

अथ व्रतेषु दानानि

कृच्छ्र-युग्मे तु गो-युग्मं दद्याद् विप्रांश् च भोजयेत् ।
त्रि-रात्रे मणिकं छत्रम् अजां चोपानहौ तथा ॥४१९॥

मणिकं बृहज्-जल-भाण्डा-विशेषम् । अजाम् एकां छागीम् ॥४१९॥

एकान्तरोपवासे च दद्याद् गां समलङ्कृताम् ।
विभवे च हलान्य् अष्टौ बलीवर्द-युतानि तु ॥४२०॥
भोजयेद् एक-भक्ते तु विप्रान् नक्ते तु षड्-रसान् ।
वस्त्रे चायाचिते दद्या वृषं स-स्वर्ण-चन्दनम् ॥४२१॥

नक्ते नक्त-व्रते, षड्-रसान् मधुरादीन् । वस्त्रे वस्त्र-युग्मं च दद्यात् । अथायाचित-व्रते तु स्वर्णेन चन्दनेन च सहितं वृषम् अनड्वाहं दद्यात् ॥४२१॥

शालीन् दद्यात् फलाहारे गां च दद्यात् पयो-व्रते ।
शाकाहारे तु वितरेद् घृतं राजत-भाजनैः ॥४२२॥
तैले त्यक्ते घृतं दद्याद् घृते तु वितरेत् पयः ।
वर्जिते दध्नि तु स्वर्णं क्षीरे च रजतं बुधः ॥४२३॥

घृते च त्यक्ते वर्जित इति तच् चाग्रे पञ्चम-श्लोकं यावत् सप्तम्य्-अन्तेष्व् अनुवर्तनीयम् । तथा वितरेद् इति यथा-स्थानम् अग्रे’त्यनुवर्तनीयम् ॥४२३॥

अपूपे स्वर्ण-गोधूम-वस्त्राणि व्रीहिषु प्रियान् ।
शालीन् स्वर्णं च धान्ये तु शालीन् वा धान्यम् एव च ॥४२४॥
लवणे लावणीं धेनुं स्वर्णं चाभ्यञ्जने त्व् अथ ।
तैल-पूर्णं घटं किं च साज्य-पायस-भोजनम् ॥४२५॥

प्रियान्—अभीष्टान् उत्तमान् इत्य् अर्थः ॥४२४॥ लावणीं लवण-निर्मितां धेनुं, तद्-विशेषश् च तिल-धेन्व्-आदि-प्रसङ्गे भविष्योत्तराद्य्-उक्तो ज्ञेयः । अथ अभ्यञ्जने तैलेन शिरो’भ्यङ्गे तैल-पूर्ण-घटं साज्य-पायस-भोजनं च वितरेत् । किं चेति समुच्चये ॥४२५॥

पादाभ्यङ्गे तु सम्पूज्य विप्रान् सम्बाह्य तत्-पदौ ।
दक्षिणाम् अथ ताम्बूलैर् वितरेद् अम्बर-द्वयम् ॥४२६॥
पुष्पे च पुष्पं सौवर्णम् उपानहम् उपानहि ।
खट्टायां शयनं कांस्ये स-घृतं कांस्य-भाजनम् ॥४२७॥
त्यक्ते मधुनि सन्दद्यात् पायसं स-सिता-घृतम् ।
मौनी च घण्टां स-तिलां दद्यात् कनक-संयुताम् ॥४२८॥
भूमि-भोजी कांस्य-पात्रं गां च दीपस्य दानतः ।
स-घृतं ताम्र-पात्रं चादर्शं केशादि-रक्षणे ॥४२९॥
दद्यात् सुवर्ण-प्रतिमां दम्पत्योर् ब्रह्म-चर्यतः ।
सर्वाभावे च सन्तोष्याच् छैद्रं विप्रांस् तु वाचयेत् ॥४३०॥

अम्बर-द्वयं—वस्त्र-युग्मम् ॥४२६॥ शयनं शय्याम् ॥४२७॥ सितया शर्करया घृतेन च सहितं पायसं दद्याद् इत्य् अग्रे’प्य् अनुवर्तते ॥४२८॥ दीपस्य दाने घृत-सहितं ताम्र-पात्रम् । आदि-शब्देन नख-श्मश्र्व्-आदि ॥४२९॥ ब्रह्मचर्ये—ग्राम-धर्म-त्यागे । ननु तत्-तद्-अलाभे किं कार्यं ? तत्र लिखति—सर्वेषां लिखितानां गो-युग्मादि-द्रव्याणाम् अभावे सति विप्रान् सन्तोष्य दक्षिणादिना प्रीणयित्वाच्छैद्र्यम् अच्छिद्रम् अस्त्व् इति वाचयेत् । व्रतं सम्पूर्णम् अस्तु इति तद्-वचनं गृह्णीयात् तेनैव सर्वं सम्पूर्णं स्याद् इत्य् अर्थः ॥४३०॥

तथा च स्कान्दे—

सर्वेषाम् अप्य् अभावे तु यथोपकरणं विना ।
विप्र-वाक्यं स्मृतं सम्यक् व्रतस्य परिपूर्तये ॥४३१॥

यथोपकरणं, यत्र व्रते यद् विहितं दान-द्रव्यं, तद् विना च ॥४३१॥

वृथा विप्र-वचो यस् तु गृह्णाति मनुजो’बुधः ।
अदत्त्वा दक्षिणां पापो यात्य् असौ नरकं ध्रुवम् ।
व्रत-वैफल्यम् आसाद्य कुष्ठी अन्धश् च जायते ॥४३२॥

वृथेत्य् एव विवृणोत् । अदत्त्वा दक्षिणाम् इति । अत एवाबुधः पापश् च नरक-भोगानन्तरं कुष्ठी अन्धश् च सन् दुर्योनिषु जायते । श्रावणादौ शाकादि-वर्जन-व्रते च सर्व-पाप-क्षयात्, तथा ब्रह्म-विष्णु-शिवानां प्रत्येकं समुच्चयेन च श्रावणादौ शाकादिषु सङ्क्रमणात् तान्य् अवश्य-वर्जान्य् एवेति शाकादि-वर्जन-व्रत-दानं विशेषतो नोद्दिष्टम् । किन्तु सर्व-व्रत-साधारणत्वाद् ब्राह्मण-भोजनं न तद्-व्रत-समाप्तौ तत्-तद्-द्रव्य-दान-प्रधानकं कर्तव्यम् इत्य् ऊह्यम् । त्यक्तं यत् किञ्चिद् एव हीत्य् उक्तेः । किं च, पूर्वं शयनीय-प्रकरणे’लिखितं व्रतम् अत्र लिखितानुसारेण परमम् अपि तत्रोह्यम् इति दिक् ॥४३२॥

अथ सामान्यतः तन्-माहात्म्यम्

भविष्योत्तरे, तत्रैव विशेषः—

एवं य आचरेत् पार्थ शोभनं धर्मम् आप्नुयात् ।
अवसाने तु राजेन्द्र वासुदेव-पुरं व्रजेत् ॥४३३॥

शोभनं धर्मं, तत्-फलं चिरं ब्रह्म-लोकादि-भोगम् इत्य् अर्थः । यद् वा, भगवद्-धर्मं प्रेम-भक्ति-लक्षणम् ॥४३३॥

अथ भीष्म-पञ्चकादि

आरभ्यैकादशीं पञ्च दिनानि व्रतम् आचरेत् ।
भगवत्-प्रीतये भीष्म-पञ्चकं यदि शक्नुयात् ॥४३४॥

इदानीं सङ्क्षेपेण पौर्णमासी-कृत्यं लिखन् परम् अप्य् अलिखितं कार्त्तिक-कृत्यं सङ्गृह्णाति—आरभ्येति त्रिभिः । यदि शक्नुयाद् इति काम्यत्वम् अभिप्रेतम् । यद्यपि भगवत्-प्रीणनत्वान् नित्यत्वम् एव सुसिध्यति, तथाप्य् अकरण-प्रत्यवायाभावान् सर्वेषाम् अशक्यत्वाच् च तथा लिखितम् इति दिक् । एवम् अग्रे’प्य् ऊह्यम् ॥४३४॥

तथा धात्री-व्रतं पौर्णमास्यां कुर्वीत कार्त्तिके ।
तथा नवम्यां शुक्लायाम् अक्षयं नवमी-व्रतम् ॥४३५॥
पैतामहादि-कृच्छ्राणि मासोपोषणम् एव च ।
समर्थः कार्त्तिके कुर्यात् ज्ञावा पाद्मादितो विधिम् ॥४३६॥

तथाद्वयं समुच्चये ॥४३५॥ पैतामहं नाम कृच्छ्रं चोक्तं पाद्मे ।

अपः क्षीरं दधि घृतं सप्तम्य्-आदि चतुर्-दिनम् ।

कार्त्तिकस्य सिते पीत्वा एकादश्याम् उपोषितः ।

कृच्छ्रं पैतामहं कुर्वन् दिनं सम्पूजयेद् धरिम् ॥ इति ।

आदि-शब्देन वैष्णव-माहेन्द्रादीनि । समर्थश् चेत् तर्हि कुर्यात् । ननु भीष्म-पञ्चकादीनां व्रतानाम् एषां विधिः समर्थैर् अपेक्ष्यः । कुतो ज्ञातव्यः ? तत्राह—ज्ञात्वेति । पद्म-पुराणस्य व्रत-खण्डं कार्त्तिक-माहात्म्यं च । आदि-शब्दात् स्कन्द-पुराण-विष्णु-रहस्यादि, ततो विधिं ज्ञात्वा । तत्र चावश्यकत्वाभावेनासौ विस्तार्य न लिखितम् इति ज्ञेयम् ॥४३६॥

अथाधिमास-कृत्यम्

भविष्योत्तरे—

अधिमासे तु सम्प्राप्ते स्मृत्वा गोपी-प्रियं हरिम् ।
सुवर्णं चाज्य-संयुक्तं त्रयस्त्रिंशद्-अपूपकम् ॥४३७॥
दद्याच् च वेद-विदुषे श्रोत्रियाय कुटुम्बिने ।
नश्यत्य् अकरणे शीघ्रं पुण्यं द्वादशम् आसजम् ॥४३८॥

अधिमासो नाम मल-मासस् तस्मिन् ॥४३७॥ तत्र सुवर्णादि-दानस्य नित्यत्वम् आह—नश्यतीति । एतद् अपि शक्त-विषयकम् एव । सर्वेषाम् अपि कर्मणां स्वत एव समर्थ-विषयकत्वाद् इत्य् एषा दिक् ॥४३८॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

श्री-दामोदर-प्रियो नाम

षोडशो विलासः

॥१६॥

Nओतेस्

पाद्मे ६.११५.३-४

इति क्वचित् पाठः ।

Fओउन्द् इन् थे Pअद्म-पुराण ६.१२४।