(१५)
पञ्चदश-विलासः
दिव्याविर्भावः
**यस्माज्जलविहारादि-महोत्सवपरम्परा । ** सिध्येद्दीनतरस्यापि तं श्रीचैतन्यमाश्रये ॥१॥
एवमाग्रहायणिकादिवैशाखान्तमासषट्कस्य कृत्यं लिखित्वेदानीं ज्येष्ठादीनां लिखन् भगवतः प्रभावविशेषं दर्शयन् तं शरणं याति—यस्मादिति । आदि-शब्देन क्षीराब्धिमहोत्सव-जन्ममहोत्सव-पार्श्वपरिवतन-महोत्सव विजयोत्सवादि । एवं महोत्सवानां परम्परा श्रेणी । एवमशक्तस्यापि मम तल्लिखनोत्सवस्तत्प्रभावेण सेत्स्यतीति भावः ॥१॥
अथ ज्येष्ठकृत्यम्
**आरभ्य राकां वैशाखीं ज्येष्ठीं यावन्महोत्सवम् । ** कुर्यात् सम्पूजयन्नित्यं कृष्णं जलविहारिणम् ॥२॥ **तत्रौष्ण्यतारतम्याद्धि कृष्णं तोयस्थमाचरेत् । ** वैशाखेऽपि तथाषाढे श्रावणेऽप्यभ्रवर्जिते ॥३॥
तत्र जलविहारमहोत्सवे औष्णस्य तापस्य तारतम्यं न्यूनाधिकत्वं तस्मात् ल्यव्लोपे पञ्चमी तद्विचार्यैवेत्यर्थः । अतो वैशाखेऽप्युष्णतातिशये सति कुर्यात् कदाचित् कुत्रापि ज्येष्ठेऽतिशीतानुवृत्तौ न कुर्यादित्यभिप्रायः । अतएव गारुडे—क्वचिज्जैष्ठे इति क्वचिद्ग्रीष्मे इति क्वचित् कर्कटराशिगते सूर्य इति क्वचिच्च मासे माधवसञ्ज्ञके इति विकल्पो दर्शितः । तच्चाग्रे व्यक्तं भावि । शीताभावेऽपि मेघागमदिने न कर्यादिति लिखति—अभ्रेति । घनागम इत्यग्रतो लेख्यवचनात् ॥३॥
अथ जले भगवत्पूजाविधिः
**उत्तापेऽर्कांशुतो जाते शीतलेन सुगन्धिना । ** जलेन पूरिते पात्रे श्रीकृष्णमुपवेशयेत् ॥४॥
अर्कांशुनः उत्तापे घर्मप्राचुर्ये जाते मध्याह्नसमये इत्यर्थः । पात्रे ताम्रादिनिर्मित—श्रीमूर्तिनिवेशनयोग्यभाजने ॥४॥
**नित्यार्चाविधिनाऽभ्यर्च्य सायं सन्ध्यामुपास्य च । ** **देवं सिंहासने नीत्वा गन्धादिभिरथार्चयेत् ॥५॥ **
नित्यार्चाया नित्यं क्रियमाणपूजाया विधिर्यः प्रकारस्तेन ॥५॥
**नीराज्य देवं सर्वेभ्यो दत्त्वा तीर्थं भजेत् स्वयम् । ** द्वादश्यान्तु विशेषेण रात्रौ तोयस्थमर्चयेत् ॥६॥
तीर्थं श्रीचरणोदकं सर्ववैष्णवेभ्यो विभज्य दत्त्वा स्वयं भजेत् प्राश्नीयात् । द्वादशीरात्रौ चावश्यं जलशायी भगवान् पूजनीय इति लिखति—द्वादश्यामिति । द्वादश्यान्तु विशेषणेत्यादिगारुडोक्तेः । तच्चाग्रे समग्रं व्यक्तं भावि ॥६॥
अथ तन्माहात्म्यम्
गारुडे—
स्वर्णपात्रेऽथवा रौप्ये ताम्रे वा मृण्मयेऽपि वा । **तोयस्थं योऽर्चयेद्देवं शालग्रामसमुद्भवम् ॥७॥ ** **चक्राङ्कितं वा भूपाल निवृत्ते मधुमाधवे । ** **प्रतिमास महाभाग तस्य पुण्यमनन्तकम् ॥८॥ ** **यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ । ** **तावत्तस्य कुले कश्चिन्न भवेद्भूप नारकी ॥९॥ ** **तस्माज्ज्यैष्ठे सदा भूप तोयस्थं पूजयेद्धरिम् । ** वीततापो नरस्तिष्ठेद्यावदाहूतसम्प्लवम् ॥१०॥ **कृतैः सुशीतलैस्तोयैस्तुलसीदलवासितैः ॥ ** **शुचिशुक्रगते काले येऽर्चयिष्यन्ति केशवम् । ** **जलस्थं विविधैः पुष्पैर्मुच्यते यमयातनात् ॥११॥ **
शुचिराषाढः शुक्रो ज्यैष्ठः ॥११॥
**जलस्रष्टा यतो विष्णुर्जलशायी जलप्रियः । ** तस्माद्ग्रीष्मे विशेषेण जलस्थं पूजयेद्धरिम् ॥१२॥ **नीरमध्यस्थितं कृत्वा शालग्रामसमुद्भवम् । ** योऽभ्यर्चर्चयेन्महाभक्त्या स भवेत् कुलपावनः ॥१३॥ **कर्किराशिगते सूर्ये मिथुनस्थे विशेषतः । ** **येनार्चितो हरिर्भक्त्या जलमध्ये महीपते ॥१४॥ ** **द्वादश्यान्तु विशेषेण जलस्थं जलशायिनम् । ** **योऽभ्यर्चयेत् कृतं तेन यज्ञकोटिशतं भुवि ॥१५॥ **
ते नराः भुवि देवताः परमपूज्या इत्यर्थः । पाठान्तरे कोटियज्ञफलभागी इत्यर्थः ॥१५॥
**पात्रे गन्धादिकं कृत्वा यः क्षिपेद्गरुडध्वजम् । ** **द्वादश्यां पूजयेद्रात्रौ मुक्तिभागी भवेन्नरः ॥१६॥ **
क्षिपेत्—स्थापयेत् ॥१६॥
किञ्च—
**घनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् । ** **ए नरा नृपतिश्रेष्ठ तेषां वै नरकं ध्रुवम् ॥१७॥ इति । ** **तथैवात्युष्णसमये कालिन्द्यादौ विशेषतः । ** सम्पादयेद्भगवतो जलक्रीडामहोत्सवम् ॥१८॥
न केवलं पात्रान्तरे जलक्रीडा कारयितव्या नदीसरोवरादावपि यथायोगं कारयितव्येति लिखति—तथैवेति पूर्वलिखितप्रकारेण अत्र च श्रीमूर्तिविशेषेण जलक्रीडाविधिविशेषऽवगन्तव्यः ॥१८॥
अथ निर्जलैकादशी
पाद्मे श्रीभीमसेन उवाच—
पितामह ह्यशक्तोऽहमुपवासे करोमि किम् । अतो बहुफलं ब्रूहि व्रतमेकमपि प्रभो ॥१९॥
एवार्थे अपि-शब्दः एकमेव व्रतं ब्रूहि बहूनां किंवा द्वयोरप्यशक्यत्वात् ॥१९॥
श्रीव्यास उवाच—
**वृषस्थे मिथुनस्थेऽर्के शुक्ला ह्येकादशी हि या । ** ज्येष्ठे मासि प्रयत्नेन सोपोष्या जलवर्जिता ॥२०॥
कदाचिद्वृषस्थे कदाचिन्मिथूनस्थे चेत्यर्थः ॥२०॥
**स्नाने वाचमने चैव वर्जयित्वोदकं बुधः । ** उपयुञ्जीत नैवान्यद्व्रतभङ्गोऽन्यथा भवेत् ॥२१॥
स्नानाचमनयोर्यदुदकं तद्विनेत्यर्थः ॥२१॥
**उदयादुदयं यावद्वर्जयित्वा जलं बुधः । ** **स्वप्रयत्नादवाप्नोति द्वादशद्वादशीफलम् ॥२२॥ **
उदयाद्रवेरुदयमारभ्य द्वादशेति—महाद्वादश्योऽष्टौ शयनी पार्श्वपरिवर्तिनी बोधिनी चेति तिस्रः भैमी चेति फलविशेषापेक्षया । यद्वा द्वादशमासेषु या द्वादश्यस्तासां फलम् ॥२२॥
**ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् । ** जलं सुवर्णं दत्त्वा तु द्विजातिभ्यो यथाविधि ॥२३॥ **भुञ्जीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी । ** एवं कृते तु यत् पुण्यं भीमसेन शृणुष्व तत् ॥२४॥
वशी जितेन्द्रियः । यत्नतो निदाघमध्ये जलपानादि-वर्जनात् ॥२४॥
**संवत्सरस्य या मध्ये एकादश्यो भवन्ति हि । ** तासां फलमवाप्नोति पुत्र मे नात्र संशयः । **इति मां केशवः प्राह शङ्खचक्रगदाधरः ॥२५॥ **
किञ्च—
**धनधान्यवहा पुण्या पुत्रभाग्यसुखप्रदा । ** **उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते ॥२६॥ ** **यमदूता महाकायाः करालाः कामरूपिणः । ** **दण्डपाशधरा रौद्रा नोपसर्पन्ति तं नरम् ॥२७॥ ** **पीताम्बरधराः शङ्खचक्रहस्ता मनोजवाः । ** **अन्तकाले नयन्त्येनं वैष्णवं वैष्णवीं पुरीम् ॥२८॥ **
किञ्च—
**तोयस्य नियमं यस्तु कुरुते वैष्णवोत्तमः । ** फलं कोटिसुवर्णस्य यामे यामे स पुण्यभाक् ॥२९॥ स्नानं दानं जपं होमं द्वादश्यां कुरुते नरः । **तत् सर्वञ्चाक्षयं प्राप्तमेतत् कृष्णस्य भाषितम् ॥३०॥ ** **किञ्चापरेण धर्मेण निर्जलैकादशीं नृप । ** उपोष्य सम्यग्विधिना वैष्णवं पदमाप्नुयात् ॥३१॥
किञ्च—
**यैः कृता भीमसेनैषा निर्जलैकादशी शुभा । ** स्वकुलं तारितं सर्वं कुलातीतं तथा शतम् । आत्मना सह तैर्नीतं वासुदेवस्य मन्दिरे ॥३२॥
कुलातीतं—सम्बन्धिशतम् ॥३२॥
किञ्च—
**आत्मद्रोहः कृतस्तैस्तु यैरेषा न ह्युपोषिता । ** पापात्मानो दुराचारा दुष्टास्ते नात्र संशयः ॥३३॥
तद्व्रतस्य नित्यतामाह—आत्मेति ॥३३॥
किञ्च—
**यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् । ** उभौ तौ स्वर्गमाप्तौ हि नात्र कार्या विचारणा ॥३४॥
एतन्माहात्म्यश्रवणादिफलमाह—यश्चेति ॥३४॥
अथ निर्जलैकादशीव्रतविधिः
**यथा प्राग्लिखितं कृत्वा सङ्कल्पं नियमं व्रते । ** जलमादाय गृह्णीयान्मन्त्रेणानेन वैष्णवः ॥३५॥
एवमवश्यकृत्यत्वं लिखित्वा इदानीं भविष्योत्तरोक्तानुसारेण तस्य विधिं लिखति—यथेत्यादि नवभिः । यथा प्राग्लिखितं पूर्वमेकादशीव्रतप्रकरणे दशमीनियमादिकं यल्लिखितं तदनुसारेण नियमं गृह्णीयात् ॥३५॥
तत्र नियममन्त्रः
**एकादश्यां निराहारो वर्जयिष्यामि वै जलम् । ** केशवप्रीणनार्थाय अत्यन्तदमनेन च ॥३६॥ इति । **वर्जयेच्चाम्ब्वहोरात्रं विना चाचमनार्थकम् । ** विना च प्राशनं पादोदकस्यात्यन्तपावनम् ॥३७॥
अहोरात्रमम्बु जलं वर्जयेन् । तत्र च स्नानादावाचमने श्रीचरणोदकग्रहणे च जलं न वर्जनीयमिति लिखति—विनेति । तत्र तत्र तत्पानावश्यकत्वात् अन्यथा शुद्धिहानेः । ननु स्नाने चाचमने चैव इत्युक्तं न च पादोदकमुद्दिष्टं तत्र लिखति—अत्यन्तेति । आचमनादप्येतत् परमशुद्धिकरमित्यर्थः । तन्नित्यता चादौ लिखितैवास्ते ॥३७॥
**एकादश्यां निशायान्तु नित्यपूजां विधाय हि । ** **हैमीं त्रैविक्रमीं मूर्ति स्नापयेत् पयआदिभिः ॥३८॥ **
पयआदिभिः पञ्चामृतेन स्नापयेत् ॥३८॥
**वस्त्रादिकं समर्प्याथाभ्यर्च्य गन्धादिभिश्च ताम् । ** प्रणम्य जागरं कुर्यात् तदग्रे नर्तनादिना ॥३९॥ **प्रातःस्नानादि निर्वर्त्य तं त्रिविक्रममर्चयेत् ॥४०॥ ** शक्त्याम्बुकुम्भान् विप्रभ्यो दद्याद्गन्धाद्यलङ्कृतान् ॥४१॥
शक्त्येति—यावतो यादृशान् दातुं शक्नोति तावतस्तादृशान् दद्यादित्यर्थः । आदि-शब्देन पुष्पवस्त्रफलादि ॥४१॥
अथ तत्र मन्त्रः
**देवदेव हृषीकेश संसारार्णवतारक । ** **जलकुम्भप्रदानेन यास्यामि परमां गतिम् ॥४२॥ इति । ** **दद्याच्च कनकं छत्रं वस्त्रयुग्ममुपानहौ । ** जलपात्राणि दिव्यानि विभवे सति वैष्णवः ॥४३॥
विभवे सति कनकादीनि च विप्रेभ्यो दद्यात् ॥४३॥
**शक्त्या विप्रान् भोजयित्वा पीत्वा भ्रातृकराज्जलम् । ** स्वयं वा पीय मौनी सन् भुञ्जीत सह बन्धुभिः ॥४४॥
अथाषाढाकृत्यम् **आषाढ-शुक्लद्वादश्यां हरौ शिशियिषौ सति । ** वैष्णवः पारणं कृत्वा सप्तमुद्राश्च धारयेत् ॥४५॥ **ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैकान्तितर्धये । ** कुर्वन्नात्मार्पणं तप्तमुद्राभिर्देहमङ्कयेत् ॥४६॥
आषाढशुक्लद्वादश्यामित्यत्र यद्यपि भविष्यपुराणे—आकाभासितपक्षेषु मैत्रश्रवण-रेवती । आदिमध्यावसानेषु प्रस्वापावर्तनोत्थिति ॥ अस्यार्थः—आषाढभाद्रकार्त्तिकानां सितापक्षेषु शुक्लद्वादशीषु अनुराधाश्रवणरेवतीनामादिमध्यान्त्यपादेषु शयन-पार्श्वपरिवर्तनोत्थानं क्रमाद्भवतीति । तथापि पादयोगाद्यभावेऽपि सति द्वादश्यामेव कुर्यात् । तथा च स्कान्दे–अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत् इति वाराहे च—च पादनियमस्तत्र स्वापे वा परिवर्तने । पादयोगो यदा न स्यादृक्षेणापि तदा भवेत् ॥ इति । किञ्च—द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे । आकाभासितपक्षेषु शयनावर्तनादिकम् ॥ इति। अतएवोक्तं पुष्करपुराणे—यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या । तस्य देवस्य तस्मिंस्तु शयनावर्तनादिकम् ॥ इति । यच्चोक्तमत्रिणा—मिथुनस्थो यदा भानुरमावस्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥ इति । तच्च मलमासाभिप्रायेण तथापि द्वितीयाषाढशुक्लद्वादश्यामेव शयनमिति सम्यगेव लिखितम् —आषाढशुक्लद्वादश्याम् इति । एवं पार्श्वपरिवर्तनोत्थानयोरपि ज्ञेयम् । यच्चोक्तं ब्रह्मवैवर्ते—आषाढस्य सिते पक्षे एकादश्यामुपोषितः । नक्तं द्विजवरश्रेष्ठ गृह्णीयान्नियमं व्रती ॥ इति । तच्च एकादशीद्वादश्योरभेदाभिप्रायेण ज्ञेयं लिखितवचनजातानुसारात् शिष्टाचारदर्शनाच्च । एतच्च सर्वमग्रे प्रबोधनी प्रकरणे विस्तरतो व्यक्तं भावि । शिशयिषौ शयितुमिच्छति । पारणां कृत्वेति प्रायो द्वादश्यामेव पारणापत्तेः । कदाचित् तस्यामुपवासे च तत्रैव शयनं तप्तमुद्राधारणादिकञ्च ज्ञेयं लिखितवचनानुसारात् । तत्र च सर्वैरेव वर्णैस्तप्तमुद्रा धार्येति लिखति—ब्राह्मण इति । एकान्तिता शिवलिङ्गाङ्कितवृषवच्छ्रीभगवदेकनिष्ठता तस्या ऋद्धये सिद्ध्यर्थम् । आत्मार्पणम्—आत्मनिवेदनरूपभक्तिप्रकारविशेषं कुर्वन् कर्तुम् । ब्राह्मणस्यापि तद्धारणमग्रे सन्यायं व्यक्तं भावि ॥४५-४६॥
अथ तप्तमुद्राधारणम्
वाराहे तप्तमुद्राप्रसङ्गे—
**चक्रादिधारणं पुंसां परं सम्बन्धवेदनम् । ** पातिव्रत्यानिमित्तं हि वलयादि-विभूषणम् ॥४७॥ इति ।
तप्तमुद्राधारणेन चैकान्तिता-सिद्धिं श्रीवराहवचनेन प्रमाणयति—चक्रादीति । परं केवलं सम्बन्धवेदनं भगवदीयत्वज्ञापकम् । पाठान्तरे परस्य परमेश्वरस्य सम्बन्धवेदनम् । तत्र दृष्टान्तः—पातिव्रत्यति । वलयादिधारणेन सधवालक्षणेनैव पतिमत्ता ज्ञाप्यते तत्र च सतीनां प्रायः पतिसन्तोषार्थमेव भूषणधारणं तद्भक्तिविशेषोऽप्यभिव्यक्त एवेति दिक् ॥४७॥
अथ चक्रमुद्र धारणनित्यता
वायुपुराणे—
**अग्निनैव तु सन्तप्तं चक्रमादाय वैष्णवः । ** **धारयेत् सर्ववर्णानां हरिसालोक्यसिद्धये ॥४८॥ **
तत्रादौ धारयेदित्यादि—विधिवशान्नित्यतां लिखति—अग्निनैवेति दशभिः । सर्ववर्णाना मध्ये यो वैष्णव स धारयेत् वैष्णवस्यैव तद्धारणप्राधान्यात् । तथा चाग्रे लेख्यम्—वैष्णवत्वस्य सिद्ध्यर्थम् इत्यादि । यद्वा सर्ववर्णानां षा हरिसालोक्यादिसिद्धिस्तदर्थम् । तथापि सर्ववर्णानां तद्धारणमायातमेवेति दिक् ॥४८॥
ब्रह्माण्डे—
**कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनुम् । ** चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः ॥४९॥
अथ चक्रनिर्माणम्
नारदीयपञ्चरात्रे—
**द्वादशारन्तु षट्कोणं वलयत्रयसंयुतम् । ** **हरेः सुदर्शनं तप्तं धारयेत्तद्विचक्षणः ॥५०॥ **
अथ सौपर्णे च भगवद् गरुडसंवादे तप्तमुद्राप्रकरणे—
**गरुत्मन्नविशेषेण सर्ववर्णेष्वयं विधिः । ** **विप्रो वा क्षत्रियो वापि वैश्यः शूद्रस्तथैव च ॥५१॥ **
तत्र च ब्राह्मणस्य गात्रे दोषादिदं ब्राह्मणेतरवर्णविषयकमिति न शङ्कनीयम् । सौपर्णादौ तस्यापि स्पष्टमुक्तत्वादिति लिखति—गरुत्मन्निति सप्तभिः ॥५१॥
पाद्मे—
**अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं यथा । ** **ब्राह्मणस्य तथैवेदं तप्तचक्रादिधारणम् ॥५२॥ **
किञ्च तत्रैवोत्तरखण्डे श्रीशिवोमासंवादे—
**शङ्खचक्राङ्कनं कुर्याद्ब्राह्मणो बाहुमूलयोः । ** हताग्निनैव सन्तप्य सर्वपापापनुत्तये ॥५३॥ **चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा । ** धारयित्वैव विधिवद्ब्रह्मकर्म समारभेत् ॥५४॥
किञ्च तत्प्रसङ्ग एव—
**अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥५५॥ **
किञ्च—
**न तस्य किञ्चिदश्नीयादीप कृत्यसहस्रिणः । ** सर्ववेदविदो वापि सर्वशास्त्रविशारदः । **अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ॥५६॥ **
सर्ववेदविदपि ॥५६॥
किञ्च—
तप्तेनैवाङ्कनं कुर्याद्ब्राह्मणस्य विधानतः । श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्धयै तथैव च ॥५७॥
श्रौतादि-कार्मसिद्धये ॥५७॥
**हरेः पूजाधिकारार्थं चक्रं धार्यं विधानतः । ** **वैष्णवत्वस्य सिद्ध्यर्थं भक्तिसिद्धयै विशेषतः ॥५८॥ **
किञ्च—
**उपवीतादिवद्धार्याः शङ्खचक्रादयस्तथा । ** **ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥५९॥ **
ब्राह्मणस्य धार्या भवन्ति तेन धार्या इत्यर्थः एवं वैष्णवस्येति च । ॥५९॥
श्रुतयश्च (श्रीसुदर्शं ५-६)—
यो ह वै सुश्लोकमौलेधर्माननुतिष्ठमानोऽग्निना चक्रं धत्ते । अग्निर्वै सहस्रारः सहस्रारो नेमिर्नेमिना तप्ततनुः सायुज्यं सलोकतामाप्नोतीति ॥६०॥
यः अग्निना विशिष्टं चक्रं धत्ते स सायुज्यं नित्यं संयोगरूपां सलोकतां सालोक्यं प्राप्नोति । तत्र चाग्निसम्बन्धेन न कोऽपि दोषोऽथच गुण एवेति दर्शयन्त्योऽग्नितप्तचक्रधारणप्रकारमेवाहुः—अग्निरिति । सहस्रारः चक्रम् अग्निः पारनः चक्रं परमपावनं तयोश्चाभिन्नत्वम् अतो दोषाभावो गुणश्चातिमहानिति भावः । ननु चक्रैकदेशेनैव तन्मुद्राधारणं सत्यं सोऽपि चक्रादभिन्न एवेत्याहुः—सहस्रारो नेमिः चक्रान्तभागोऽपि चक्रमेवेत्यर्थः ॥६०॥
चक्रं विभर्ति वपुषाभितप्तं बलं देवानाममृतस्य विष्णोः । **स एति नाकं दुरितं विधूय विशन्ति यद्यतयो वीतरागाः ॥६१॥ इति । **
देवानां बलं रक्षकमित्यर्थः न विद्यते अकं दुःखं यत्र तत् परमवदमित्यर्थः ॥६१॥
ऋक्परिशिष्टे—
**अतप्ततनुर्न तदामो अश्नुतेऽश्नुता सह इद्वहन्तस्तत् समास्तेति यजुः ॥६२॥ **
अतप्ततनुरिति क्वचिद्दीर्घान्तपाठोऽपि ततश्च छान्दसः । अतप्ततनत्वादेव आमः अपक्वः बालवृद्धिरित्यर्थः । अतस्तत् अनिर्वचनीयं पद नाश्नुते न प्राप्नोति । इत् इति वहन्तः तप्तमुद्रां धारयन्तः तत् परमं पदम् अश्नुता सहेति छान्दसः अश्नुवानाः सम्यक् आसत सुखं वर्तन्ते स्म । शम् इति पृथक्पाठे तत् विष्णुचिह्नं सुदर्शनं वहन्तः शं मङ्गलं यथा स्यात्तथा आसत । शृता सह इति पाठे छान्दसमेव । शृताः परितप्ताः सन्त इत्यर्थः ॥६२॥
ऋग्वेदीयाश्वलायनशाखायाञ्च—
प्रतद्विष्णोरब्जचक्रे सुतप्ते जन्माम्भोधिं वर्त्तते चर्षणीन्द्राः । **मूले बाह्वोर्दधतेऽन्ये पुराणा लिङ्गान्यन्ये तप्तायुधान्यर्पयन्ति ॥६३॥ इति । **
प्रतस्य प्रकर्षेण प्रसिद्धस्य विष्णोः । प्रते इति पाठे अब्जचक्र-विशेषणम् । अर्थश्च तथैव । यद्वा प्रयते पवित्रे इत्यर्थः । जन्माम्भोधिं लक्ष्मीकृत्य यो वर्तते ये चर्षणीन्द्रा परमसाधुजनाः छन्दोभङ्गभयादेकवचनं यद्वा संसारीत्यर्थः । ये च चर्षणीन्द्राः जीवन्मुक्ताः ते सर्व एव पुराणाः पुरातनाः बाह्वोर्मूले अब्जचक्रे द्वे दधते । अन्ये केचिच्च लिङ्गाति विष्णोश्चिह्नानि आयुधानि गदादीन्यपि सर्वाण्येव अर्पयन्ति गात्रेषु धारयन्तीत्यर्थः ॥६३॥
छन्दोगपरिशिष्टे—
स होवाच याज्ञवल्क्यस्तत्पुमानात्महिताय प्रेम्णा हरिं भजेत् । सुश्लोकमौलेर्धर्माण्यङ्गेष्वग्निना धत्ते इति शातातपी श्रुतिः ॥६४॥
प्रेम्णा भजनलक्षणमेवाह—सुश्लोकेति । धर्मानि चिह्नानि चक्रादीनि ॥६४॥
अथर्ववेदपरिशिष्टे तप्तचक्रादिप्रकरणे—
देवासो यत्र विततेन बाहुना सुदर्शनेन प्रयताः स्वर्गमायन् । **येनाङ्किता मनवो लोकसृष्टिं वितन्वते ब्राह्मणास्तद्वहन्ति ॥६५॥ इति । **
देवास इति छान्दसः देवाः सन्तः दीव्यन्तः सन्तो वेत्यर्थः । आयन् आगताः तत् सुदर्शनम् ॥६५॥
पाद्मे श्रीशिवेन तप्तमुद्राप्रसङ्गे—
**विष्णुचक्राङ्कितं विनं पूजयेत् सर्वकर्मणि । ** **विष्णुचक्रविहीनन्तु प्रयत्नेन विवर्जयेत् ॥६६॥ **
एवं विविधवचनसिद्धं नित्यत्वं तद्धारणप्राशस्त्यादिना द्रढयित्वा इदानीमकरणप्रत्यवायद्वारा साधयति—विष्ण्वति । सर्वकर्मणि श्राद्धादौ ॥६६॥
नारदीये तप्तमुद्राप्रसङ्गे—
श्रीकृष्णचक्राङ्कविहीनगात्रः श्मशानतुल्यः पुरुषोऽथ नारी । **दृष्ट्वा नरस्तं नृपते सवासाः स्नात्वा समर्चेद्धरिमङ्ग सद्यः ॥६७॥ इति । **
अङ्ग भो नृपते सद्यः सवासाः स्नात्वा हरिं सम्यगर्चयेत् ॥६७॥
**बह्वश्च वेङ्कटाचार्यपादप्रभृतिभिर्बुधैः । ** श्रुतयः स्मृतयोऽप्यत्र विख्याता लिखिताः पराः ॥६८॥
वेङ्कटाचार्यपादाः श्रीवैष्णवसम्प्रदायिनो मुख्यतमास्तदादिभिः बुधैः श्रुतिस्मृत्यभिज्ञैः । अत्र सप्तमुद्राधारणप्रकरणे बह्व्यः बहुलाश्च परा लिखिताः । विख्याता इति प्रसिद्धत यात्र न सङ्गृहीता इति भावः ॥६८॥
अथ तदनादरदोषाः
पाद्मे—
**तप्तचक्राङ्कितं दृष्ट्वा ये निन्दन्ति नराधमाः । ** **अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥६९॥ **
एवमवश्यकर्तव्यत्वे सिद्धेऽप्यज्ञानात् तन्निन्दकादीनां दोषं दर्शयन् नित्यतामेव साधयति—तप्तेत्यादित्रिभिः ॥६९॥
अग्निपुराणे च दशरथहतपुत्र-विप्रविलापे—
शिलाबुद्धिः कृता किंवा प्रतिमायां हरेर्मया । **किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हिचित् ॥७०॥ ** तन्मुद्राङ्कितदेहस्य चेतसा नादरः कृतः । येन कर्म-विपाकेन पुत्रशोको ममेदृशः ॥७१॥
दशरथेन हतः पुत्रः श्रवणनामा यस्य तस्य विप्रस्य विलापे । अत्रेयमाख्यायिका—शब्दवेधिना राज्ञा दशरथेन हस्तिबुद्ध्या दूराद्विद्धे श्रवणे तद्वचनाज्जलकुम्भमादायान्धयोस्तत्पित्रोरन्तिकं तूष्णीं गते राज्ञि हा श्रवण कथं विलम्बितः कथञ्च न वदसि इत्यादि सकरुणं भाषमाणे पितरि दशरथोऽहं त्वत्पुत्रहन्तेति राज्ञो वचनमकर्ण्य विमुह्य चिरात् सञ्ज्ञां लब्ध्वा विप्रो’सौ बहु विललाप । इत्यादि ॥७०-७१॥
अथ तप्तमुद्राधारणमाहात्म्यम्
सौपर्णे—
**अशुचिर्वाप्यनाचारः सर्वधर्म-बहिष्कृतः । प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्तिपावनः ॥७२॥ **
वाराहेतप्तमुद्राप्रसङ्गे—
**म्लेच्छदेशे शुभे वापि चक्राङ्को यत्र तिष्ठति । ** **योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ॥७३॥ **
ब्रह्माण्डे—
**आयुधैर्वैष्णवैः सर्वैस्तापितैः स्वत नुं यदि । ** **चिह्नयेद्वैष्णवो यस्तु स याति परमां गतिम् ॥७४॥ **
पाद्मे च तत्रैव—
**अग्नितप्तं परितञ्च घृत्वा वै बाहुमूलयोः । ** त्यक्त्वा यमपुरं घोरं यान्ति विष्णोः परं पदम् ॥७५॥
पवित्रम्—चक्रम् ॥७५॥
**हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् । ** तेन तीर्थानि यज्ञाश्च लभ्यन्ते नात्र संशयः ॥७६॥
हुतेन कृतहोमेनाग्निना तप्तं यच्चक्रं तेन ॥७६॥
**अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः । ** अङ्कयित्वा जपेन्मन्त्रं संसारान्मोक्षभाग्भवेत् ॥७७॥ **अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः । ** ते सर्वे पापनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥७८॥
किञ्च—
अप्राकृतमहात्मानो विष्णुचक्रेण लाञ्छिताः । **विष्णुचक्रविहीनास्तु प्राकृताः पतिताः स्मृताः ॥७९॥ इति । **
अप्राकृता इति विष्णुचक्रचिह्नधारिणः प्राकृता अपि अप्राकृता महात्मान एव तद्रहितास्तु अप्राकृता अपि प्राकृताः पतिता दुष्टा एव स्मृता इत्यर्थः ॥७९॥
**इत्थं निषेधवचनं निर्मूलं सदनादृतम् । ** समूलं यच्च तत् सम्यग्विध्यभावादितत्परम् ॥८०॥
एवं सर्वथा तप्तमुद्राधारणं निश्चित्य तद्विरुद्धवचनं युक्त्या परिहरति—इत्थमिति लिखितप्रकारेण । निषेधवचनं तप्तमुद्राधारणनिषेधवाक्यं स्मार्तमुखश्रूयमाणं निर्मूलमेव श्रुति-स्मृतिपुराणेतिहासादिपुरातनग्रन्थेषु कुत्राप्यविद्यामानत्वात् । ननु कुत्रापि दृश्यते इति चेत्तर्हि दुष्टस्मार्तबन्धुकल्पितमेवेत्युक्षेपणीयमिति लिखति–सद्भिरनादीतमुपेक्षितम् । पतिव्रता या न करोति जारं तां व्याधियोनिं नियतं विजह्यात् इत्यादिवदुन्मत्तभाषित्वात् । ननु वज्र चक्रधरादीनि निजाङ्गेषु द्विजोत्तम । नित्यं सन्धारयिष्यन्ति पाषण्डोपहताः कलौः ॥ इति ब्रह्मगीतायां प्रसिद्धं वचनम् । अत्र लिखति—समूलमिति । यच्च वचनं शास्त्रविरुद्धं तत् सम्यक् समग्रो यो विधिः तप्तमुद्राधारणप्रकारस्तस्य अभावो हानिः आदि-शब्दादवैष्णवाश्च तत्तत्परं तद्विषयकं ज्ञेयमित्यर्थः । अयं भावः—ब्रह्मसंहितायां वज्रसमभिव्याहृतत्वाद्वज्रेण सहितानां चक्रादीनां धारणं दूषितम् । एवमयथावद्धारणविषयकमेव समूलं निषेधवचनं ज्ञेयम् । कुत्रापि समूलवचने विषयव्यवस्थापि कल्प्या अशक्यायान्तु यद्व्यवस्थायां वैष्णवावैष्णवभेदेनैव व्यवस्था श्रयणीया एवेति दिक् ॥८०॥
अथ तप्तमुद्राधारणविधि
**तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः । ** कृष्णमभ्यर्च्य सम्पूज्य चक्रशङ्खौ तथा नमेत् ॥८१॥
तथा तेनैव प्रकारेण चक्रशङ्खौ च सम्पूज्य नमेत् ॥८१॥
**अथ तत्र मन्त्रः
सुदर्शन नमस्तेऽस्तु पाञ्चजन्य नमोऽस्तु ते ॥८२॥ इति । **
अग्निमभ्यर्च्य मूलेन हुत्वा चाज्याहुतीः क्रती । **चक्रशङ्खौ गदादीनि शस्त्राण्यग्नौ प्रतापयेत् ॥८३॥ **
मूलेन निजमन्त्रेण आज्याहुतीर्यथाशक्ति हुत्वा ॥८३॥
**तत्तन्मन्त्रैरथावाह्य तान्यभ्यर्च्य प्रणम्य च । ** गुरुं कृष्णञ्च सम्बन्ध भक्त्या विज्ञापयेदिदम् ॥८४॥
तानि चक्रादीनि सम्बन्द्य प्रणम्य ॥८४॥
**उच्छिष्टभोजनादेव किङ्करः शरणागतः । ** तप्तचक्रदरादीनि तवाङ्कानीश धारये ॥८५॥ इति ।
अथ चक्रादीनामावाहनमन्त्राः ओं नमो भगवते सुदर्शनाय निर्णाशित-सकलरिपुध्वजाय **भगवन्नारायणकराम्भोरुहस्पर्शदुर्ललिताय ॥८६॥ ** **एह्येहि त्वं सहस्रार चक्रराज सुदर्शन । ** **यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥८७॥ ** ओं नमो भगवते पाञ्चजन्याय विष्णुशङ्खाय । गम्भीरधीरध्वन्याकुलीकृतकौरववाहिनीनाथाय । **त्रिरेखादक्षिणावर्ताय त्रिप्रशस्ताय ॥८८॥ ** **एह्येहि पाञ्चजन्य त्वं नारायणकरस्थित । ** यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥८९॥ **ओं रं णं मं नं पाञ्चजन्याय नमः ॥९०॥ ** **ओं भगवते खड्गाय नन्दकाय त्रैलोक्यपावित्र्याय । सकलसुरासुरसुन्दरीनेत्रोत्पलार्चिताय ॥९१॥ ** **एह्येहि खड्गरत्न त्वं नन्दकाख्य सुरार्चित । ** यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥९२॥ **ओं खड्गाय नमः ॥९३॥ ** ओं नमो भगवत्यै कौमोदक्यै गदायै दानवेन्द्रनिसूदनायै भगवद्भट्टारकवासुदेवलालितायै ॥९४॥ **एह्येहि त्वं गदे देवि कौमोदक्यायुधेश्वरि । ** **यज्ञभागं प्रगृह्यस्व पूजाञ्चैव नमो नमः ॥९५॥ ** **ओं रं खं चं फं शं गदायै नमः । ** एवं पद्माय नमः सशराय सारङ्गाय नमः ॥९६॥ इति ।
अथ धारणमन्त्रः **सुदर्शन महाज्वाल सूर्यकोटिसमप्रभ । ** **अज्ञानान्धस्य मे नित्यं विष्णोर्मार्गं प्रदर्शय ॥९७॥ **
तथा—
**पाञ्चजन्य निजध्वानध्वस्तपातकसञ्चय । ** **पाहि मां पापिनं घोरसंसारार्णवपातिनम् ॥९८॥ इति । ** **इममुच्चारयन्मन्त्रं दक्षिणादिक्रमेण तु । ** **भुजयोश्चक्रपूर्वाणि कृष्णशस्त्राणि धारयेत् ॥९९॥ **
भुजयोः बाहुमूलयोः चक्रपूर्वाणीति प्रथमं चक्रं धारयेत्ततोऽन्यानि शङ्खादीनीत्यर्थः । तत्र च दक्षिणादिक्रमेण त्विति आदौ दक्षिणबाहुमूले ततो वामबाहुमूलादिष्वित्यर्थः । तद्विशेषश्चाग्रे श्रीवाराहवचनतो व्यक्तो भावी ॥९९॥
**कलत्रादि-परीवारान् निजान् सर्वांश्च वैष्णवः । ** भगवत्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत् ॥१००॥
भगवति श्रीकृष्ण अर्पयन् तदीयत्वेन निवेदयन् तथा चैकादशस्वन्धे (३.२८)—दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् इति । तत्र दाराद्यर्पणञ्च यथायथमूह्यम् ताभिः पूजितचक्रादिरूपाभिः ॥१००॥
तथा च वाराहे—
**अङ्क्येत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः । ** **कलत्रापत्यभृत्येषु पश्वादिषु च सम्पदि ॥१०१॥ **
किञ्च—
**आयसं विधिवत् कृत्वा पञ्चायुधविधानतः । ** तत्तन्मन्त्रेण मन्त्रज्ञाः प्रतिष्ठाप्य पृथक् पृथक् ॥१०२॥
आयसं लोहमयञ्चक्रादीति शेषः अय उपलक्षणं सौवर्णाद्यपि तच्चाग्रे व्यक्तं भावि । पञ्चायुधानां विधानं निर्माणं धारणप्रकारो वा तेन ॥१०२॥
**ललाटे च गदा धार्या मूर्धिन चापं शरन्तथा । ** **नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥१०३॥ **
चापशरौ मूर्ध्न्येकत्रैव धार्याविति तयोः सहचारित्वेनैक्यात् पञ्चायुधानि ज्ञेयानि ॥१०३॥
किञ्च—
**दक्षिणे तु भुजे विप्रो विभृयाद्वै सुदर्शनम् । ** सव्ये च शङ्खं विभृयादिति ब्रह्मविदो विदुः ॥१०४॥
भुजद्वये शङ्खचक्रे धार्ये इत्युक्तं तदेव विविच्याह—दक्षिणे त्विति ॥१०४॥
अथ चक्रादि-प्रतिकृतिद्रव्यम्
नवप्रश्नपञ्चरात्रे—
**सौवर्णं राजतं ताम्रं कांस्यमायसमेव वा । ** **चक्रं कृत्वा तु मेधावी धारयेत विचक्षणः ॥१०५॥ इति । ** **एवमेव प्रबोधन्यां द्वादश्यां भगवत्परः । ** तप्तमुद्रा ध्रुवं धार्या द्वारकायां विशेषतः ॥१०६॥
द्वारकायामिनि तस्यं चक्रतीर्थे चक्रप्रभावविशेषेणान्यतस्तन्मुद्राधारणमाहात्म्यविशेषात् ॥१०६॥
अथ शयनीक्षीराब्धिमहोत्सवः
**ततो नीराज्य कृष्णन्तु नरयानेन वैष्णवः । ** समं गीतादिघोषेण नयेत् पुण्यं जलाशयम् ॥१०७॥
ततस्तप्तमुद्राधारणानन्तर वैष्णवैः समं नरयानेन शिविकादिना जलाशयं सरोवरादिकं नयेत् ॥१०७॥
**अथ पुष्पाञ्जलिं दत्त्वा यानादुतार्य च प्रभुम् । ** सम्प्रार्थ्य हस्तं दत्त्वा च तीरे समुपवेशयेत् ॥१०८॥
सम्प्रार्थ्य सुखसावधानपादन्यासमाशास्य ॥१०८॥
**धौताङ्घ्रिपाणिराचान्तः कृत्वा सङ्कल्पमात्मनि । ** **देवे च न्यासमाचर्य स्नापयेत्तं यथाविधि ॥१०९॥ **
शयनपूजासङ्कल्पं कृत्वा आत्मनि देवे न्यासं कृत्वा यथाविधि इत्यस्य सर्वत्रैवानुसङ्गः । ततश्च सङ्कल्पादिप्रकारो यथायोग्यं यथापूर्वलिखितं चोह्यम् ॥१०९॥
**सम्प्रार्थ्य जलमध्ये तं देवं संस्नापयेत् सुखम् । ** गन्धपुष्पादिभिश्चाथ महापूजां समाचरेत् ॥११०॥
सम्प्रार्थ्य जय जय महाविष्णो विश्वमनुगृहाण इत्यभ्यर्थ्य ॥११०॥
अथ तत्र स्वापनमन्त्रः
**शेषे पर्यङ्कवर्येऽस्मिन् फणामणिगणामले । ** श्वेतद्वीपान्तरे देव कुरु निद्रां नमोऽस्त्विति ॥१११॥
अथ प्रार्थनामन्त्रः **सुप्ते त्वयि जगन्नाथ जगत् सुप्तं भवेदिदम् । ** विबुद्धे तु विबुध्येत प्रसन्नो मे भवाच्युत ॥११२॥ इति । **इत्याशास्य प्रभोरग्रे गृह्णीयान्नियमं व्रती । ** चतुमासेषु कर्तव्यं कृष्णभक्तिविवृद्धये ॥११३॥
चतुर्मासेषु कर्तव्यो यो नियमो व्रतं तत् भगवदग्रे गृह्णीयात् स्वीकुर्यात् । ननु वैष्णवस्य चातुर्मास्य नियमग्रहणेन किम् तत्र लिखति—कृष्णेति । तदनुष्ठानेनाकरणप्रत्यवायापगमाद्गुणविशेषापादनाच्च भक्तिविशेषः सम्पद्येतेति दिक् ॥११३॥
अथ तत्रोपक्रमकालः
सनत्कुमारेण—
**एकादश्यान्तु गृह्णीयात् सङ्क्रान्तौ कर्कटस्य तु । ** आषाढ्यां वा नरो भक्त्या चातुर्मास्योदितं व्रतम् ॥११४॥
अथ तत्र मन्त्रः **चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि । ** इमं करिष्ये नियमं निर्विघ्नं कुरु मेऽच्युत ॥११५॥ इति ।
अथ चातुर्मास्यनियमावश्यकता
भविष्ये—
**यो विना नियमं मर्त्यो व्रतं वा जप्यमेव वा । ** चातुर्मास्यं नयेन्मूर्खो जीवन्नपि मृतो हि सः ॥११६॥
नियममेव विविच्याह—व्रतं वा जप्यं वा विनेति ॥११६॥
अथ चातुर्मास्य-नियमाः
स्कान्दे नागरखण्डे—
**श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा । ** दुग्धमाश्चयुजे मासि कार्त्तिके चामिषं त्यजेत् ॥११७॥
स्वत एवामिषत्यागनिवृत्तिधर्मनिरतश्चामिषस्थाने माषान् त्यजेत् ॥११७॥
तत्रैव श्रीब्रह्मनारदसंवादे—
**निष्पावान् राजमाषांश्च सुप्ते देवे जनार्दने । ** यो भक्षयति विप्रेन्द्र श्वपचापधिको हि सः ॥११८॥
निष्पावाः शिम्बीपभेदास्तान् ॥११८॥
**कार्त्तिके तु विशेषेण राजमाषांश्च भक्षयन् । ** निष्पावान् मुनिशार्दूल यावदाहूतनारकी ॥११९॥ **कालिङ्गानि पटोलानि वृन्ताकं सन्धितानि च । ** एतानि भक्षयेद्यास्तु सुप्ते देवे जनार्दने । सप्तजन्मार्जितं पुण्यं हरते नात्र संशयः ॥१२०॥
हरते—नाशयति ॥१२०॥
किञ्च—
**रुच्यं तत्तत्काललभ्यं फलमूलादि वर्जयेत् ॥१२१॥ इति । **
रुच्यं रुचिकरं चातुर्मास्यजायमानफलादिमध्ये निजप्रिय किञ्चिद्वर्ज्यमित्यर्थः ॥१२१॥
किञ्च—
**जपहोमाद्यनुष्ठानं नामसङ्कीर्तनन्तथा । ** **स्वीकृत्य प्रार्थयेद्देवं गृहीतनियमो बुधः ॥१२२॥ **
एवं वर्ज्यानि लिखितानि कृत्यानि च सक्षेपतो लिखति—जपेति । आदि-शब्दात् पुराणश्रवणादि स्वीकृत्येति अन्यमासत्तो विशेषेण तत्तन्नियमं गृहीत्वेत्यर्थः ॥१२२॥
**इदं व्रतं मया देव गृहीतं पुरतस्तव । ** **निर्विघ्नं सिद्धिमायातु प्रसादात्तव केशव ॥१२३॥
गृहीतेऽस्मिन् व्रते देव पञ्चत्वं यदि वा भवेत् । ** तदा भवतु सम्पूर्णं प्रसादात्ते जनार्दन ॥१२४॥ इति ।
अथ चातुर्मास्यव्रतनियममाहात्म्यम्
विष्णुरहस्ये ब्रह्मनारदसंवादे—
शृणु नारद कार्त्स्न्येन चातुर्मास्यव्रतक्रियाः । **या निर्वर्त्त्य नरो भक्त्या प्रयाति परमां गतिम् ॥१२५॥ **
अन्यानपि नियमान् दर्शयितुं तेषु श्रद्धाविशेषमुत्पादयितुञ्च तन्माहात्म्यं सामान्यविशेषाभ्यां लिखति—शृण्वित्यादिना पदद्वयमित्यन्तेन ॥१२५॥
**व्रतानि वैष्णवानीह मनस्यपि चिकीर्षतः । ** नरस्य क्षयमाप्नोति पापं जन्मशतोद्भवम् ॥१२६॥
वैष्णवानीति भगवतः शयने विशेषतस्तदग्रे सङ्कल्पविशेषेण गृहीतत्वात्तद्भभिक्तरूपत्वेन तत्तोषणान्येवेत्यर्थः । अतएव फलमुक्तम्—प्रयाति परमां गतिम् इत्यादि ॥१२६॥
**एकभक्तो नरः शान्तो नित्यस्नायी दृढव्रतः । ** **योऽर्चयेच्चतुरो मासान हरिं स्यात्तस्य लोकभाक् ॥१२७॥ **
चतुरो मासान् यो हरिमर्चयेत् ॥१२७॥
यस्तु सुप्ते हृषीकेशे क्षितिशायी भवेन्नरः । **वार्षिकान् चतुरो मासान् लभते वैष्णवीं गतिम् ॥१२८॥ ** **यस्तु केशवमुद्दिश्य चान्द्रायणपरायणः । ** चातुर्मास्यं नयेद्भक्त्या स विष्णुतनुमाविशेत् ॥१२९॥
भविष्योत्तरे भगवद्युधिष्ठिरसंवादे—
**चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि । ** स्त्री वा नरो वा मद्भक्तो धर्मार्थं सुदृढवतः । गृह्नीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥१३०॥ **तेषां फलानि वक्ष्यामि तत्कर्तृणां पृथक् पृथक् ॥१३१॥ मधुरस्वरसम्पन्नो भवेल्लवणवर्जनात् । ** **लभते सन्ततिं दीर्घां तैलस्य परिवर्जनात् ॥१३२॥ ** **अभ्यङ्गन्वर्जनात् पार्थ सुन्दराङ्गः प्रजायते । पक्वतैलपरित्यागाच्छत्रुनाशमवाप्नुयात् ॥१३३॥ ** **मधुकतैलत्यागेन सौभाग्यमतुलं भवेत् । ** **पुष्पोपभोगत्यागेन स्वर्गे विद्याधरो भवेत् ॥१३४॥ ** **योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् । ** कट्वम्लातक्तमधुरक्षारकाषायजान् रसान् । यो वर्जयेत् स वैरूप्यं वैगान्ध्यं नाप्नुयात् क्वचित् ॥१३५॥ **ताम्बूलवर्जनाद्भोगी अपक्वादोऽमलो भवेत् ॥१३६॥ पादाभ्यङ्गशिरोभ्यङ्गपरित्यागच्च पार्थिव । ** **दीप्तिमान् दीप्तचरणो मधुक्षौद्रे परित्यजेत् ॥१३७॥ दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः । ** इन्द्रातिथित्वमायाति स्थालीपाकविवर्जनात् ॥१३८॥ **लभेच्च सन्ततिं दीर्घां तापपक्वस्य वर्जनात् । ** भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत् ॥१३९॥ **सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् । ** निर्व्याधिर्नीरुगोजस्वी सुरामद्यविवर्जनात् ॥१४०॥ **एकान्तरोपवासेन ब्रह्मलोके महीयते । ** धारणान्नखलोमानां गङ्गास्नानं दिने दिने ॥१४१॥ **मौनव्रती भवेद्यस्तु तस्याज्ञास्खलिता भवेत् । ** भूमौ भुङ्क्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ॥१४२॥ **नमो नारायणायेति जप्त्वा दानशतं फलम् ॥१४३॥ **
दानशतं बहुलदानमित्यर्थः ॥१४३॥
**पादाभिवन्दनाद्विष्णोर्भवेद्गोदानजं फलम् । ** विष्णुपादाम्बुजस्पर्शात् कृतकृत्यो भवेन्नरः ॥१४४॥ **विष्णोर्देवालये कुर्यादुपलेपनमार्जने । ** **कल्पस्थायी भवेद्राजा स नरो नात्र संशयः ॥१४५॥ ** **प्रदक्षिणत्रयं कृत्वा यस्तु स्यात् स्तुतिपाठकः । ** हसयुक्तविमानेन स च विष्णुपदं व्रजेत् ॥१४६॥ **गीतवाद्यकरो विष्णोर्गन्धर्वलोकमाप्नुयात् । ** नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत् । **स व्यासरूपो भगवानन्ते विष्णुपुरं व्रजेत् ॥१४७॥ ** **पुष्पमालाकुलां पूजां कृत्वा विष्णोः पुरं व्रजेत् ॥१४८॥ ** कृत्वा प्रोक्षणिकं दिव्यं स्थानमप्सरसां लभेत् । **तीर्थादिषु कृतस्नानो निर्मलं देहमाप्नुयात् ॥१४९॥ ** **पञ्चगव्याशनात् पार्थ चान्द्रायणफलं लभेत् । एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् ॥१५०॥ ** **नक्तभोजी समग्रन्तु तीर्थयात्राफलं लभेत् । ** अयाचितेन चाप्नोति वापीकूपप्रपाफलम् ॥१५१॥ **षष्ठकालोऽन्नभोजी यः स्थायी स्वर्गे नरो भवेत् । ** नित्यस्नायी नरो यस्तु नरकं स न पश्यति ॥१५२॥ **भाजनं वज्जयेद्यस्तु स स्नानं पौष्करं लभेत् ॥१५३॥ **
भाजनं—कांस्यपात्रम् ॥१५३॥
पत्रेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् । **शिलायां भोजनं नित्यं भवेत् स्नानं प्रयागजम् ॥१५४॥ यामद्वयजलत्यागान्न रोगैः परिभूयते । ** **एवमादिव्रतैः पार्थ तुष्टिमायाति तोषितः ॥१५५॥ **
एवमादिव्रतैस्तोषितः सन् श्रीकेशव इति शेषः ॥१५५॥
किञ्च—
**योगनिद्रां समालम्ब्य शेषाहिशयने स्वपन् । ** क्षीरोदतोयवीच्यग्रै धौतपादः समाहितः ॥१५६॥
तमेव विशिनष्टि—योगेति सार्द्धेन । समाहितः—योगनिद्रामास्थितः ॥१५६॥
**लक्ष्मीकराम्बुजैः श्लक्ष्णैर्मृज्यमानपदद्वयः ॥१५७॥ ** **तस्मिन् काले च मद्भक्तो यो मासांश्चतुरः क्षिपेत् । ** व्रतैरनेकैर्नियमैः पाण्डवश्रेष्ठ मानवः । **कल्पस्थायी विष्णुलोके भवेन्नास्त्यत्र संशयः ॥१५८॥ ** **सत्यां व्रतसमाप्तौ च श्रीकृष्णस्य प्रसादतः । ** यद्यद्दानादिकृत्यञ्च लेख्यं तत्तच्च कार्त्तिके ॥१५९॥
कार्त्तिके—कार्त्तिककृत्यलिखने ॥१५९॥
**स्तुत्वाथ कृष्णमभ्यर्च्य प्रसाद्य च पुनः पुनः । ** शेषं शङ्खोदतीर्थे च स्वीकुर्याद्वैष्णवैः सह ॥१६०॥
स्तुत्वा श्रीब्रह्मस्तुत्यादिभिः स्तुतिं कृत्वा अभ्यर्थ्य स्वस्त्यस्तु विश्वस्य इत्यादिना सम्प्रार्थ्य प्रसाद्य विचित्रार्थवचनैः प्रसन्नं कृत्वा शेषं भगवदुच्छिष्ट-महाप्रसाद-पुष्पचन्दनादिकम् शङ्खोदकं तीर्थञ्च श्रीचरणोदकम् ॥१६०॥
**गीतनृत्यादिना देवं परितोष्याथ वैष्णवान् । ** **सम्पूज्य नरयानेन देवं स्वालयमानयेत् ॥१६१॥ ** **प्रभोर्नीराजनं कृत्वा विसर्ज्यं वत वैष्णवान् । ** निवेश्य स्वासने देवं शयीत भुवि तं स्मरन् ॥१६२॥ **एवञ्च कुर्वतो मासांश्चतुरो यान्ति वै सुखम । ** **अन्यथा प्रभवेद्दुःखमनावृष्टिश्च जायते ॥१६३॥ **
तथा च भविष्ये—
**मिथुनस्थे सहस्रांशौ न स्वापयति यो हरिम् । ** वैष्णवैः सह सम्भूय ह्यनावृष्टिस्तदा भवेत् ॥१६४॥
किञ्च भविष्योत्तरे—
**यो देवशयनं पार्थ अनुमोद्य समाचरेत् । ** उत्थानं वापि कृष्णस्य स हरेर्लोकमाप्नुयात् ॥१६५॥
अनुमोद्य हृष्टो भूत्वेत्यर्थः यद्वा अनुमोदनद्वारापि यः कुर्यादिति ॥१६५॥
अथ श्रावणकृत्यम्
गौतमीये—
श्रावणे मासि कृष्णं तं पुष्पैः केतकसम्भवैः । चन्द्रचन्दनकस्तूरीकुङ्कुमादिसुवासितैः । **एलालवङ्गकवकोलफलानि बहुधार्पयेत् ॥१६६॥ इति । ** **पवित्रारोपणं कुर्याद्द्वादश्यामृषितर्पणम् । ** पौर्णमास्यान्तु कुर्वीत तत्तदुक्तविधानतः ॥१६७॥
द्वादश्यां भगवतः पवित्रारोपणं कुर्यात् पौर्णमास्याञ्च ऋषितर्पणं कुर्यात् तत्र तत्र पवित्रारोपणे ऋषितर्पणे च यत् शास्त्रोक्तं विधानं प्रकारस्तेन ॥१६७॥
अथ पवित्रारोपणम्
**श्रावणस्य सिते पक्षे द्वादश्यां वैष्णवैर्मुदा । ** कर्तव्यः कृष्णदेवस्य पवित्रारोपणोत्सवः ॥१६८॥
अथ तन्नित्यता
बह्वृचपरिशिष्टे—
**स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । ** हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् ॥१६९॥
प्रथमं श्रीभगवत्प्रीणनत्वान्नित्यतां दर्शयति—स स्नात इति ॥१६९॥
**विधिना शास्त्रदृष्टेन यो न कुर्यात् पवित्रकम् । ** हरन्ति राक्षसास्तस्य वर्षपूजादिकं फलम् ॥१७०॥
अकरण-प्रत्यवायद्वारा नित्यतां लिखति—विधिनेति त्रिभिः । आदि-शब्देन जपहोमादि फलमिति भगवत्पूजादेः अतएव फलरूपत्वात् ॥१७०॥
योगसारे पवित्रोत्पत्युपाख्याने नागराज-पवित्रं प्रति रुद्रेण वरप्रदानम्—
**ये त्वां न बहु मन्यन्ते यथा सम्भादितो मया । ** जपहोमादिक तेषां फलं त्वामेतु निश्चयात् ॥१७१॥
पवित्रोपाख्यानं चेदम्—नागराजस्य वासुकेर्भ्राता श्रीपवित्रनामा नागवरो भक्त्या श्रीशिवमाराध्य सन्तुष्टे च तस्मिन् वरमयाचत—त्वत्कण्ठभूषणतां प्राप्नुयाम् इति । ततश्च परमसन्तुष्टेन श्रीशिवेन तथा स्वीकृत्योक्तमिदम्—एवं सर्वेषामेव देवानां कठभूषणतां व्रज तत्तत्सेवकैः सर्वैरपि स्वस्वेष्टदेवे त्वदाकारत्वेन पवित्राणि निर्मायारोप्यन्तामन्यथा च महान् दोषोऽस्तु इति । तदेव लिखति—ये त्वामिति ॥१७१॥
विष्णुरहस्ये—
**न करोति विधानेन पवित्रारोपणन्तु यः । ** **तस्य सांवत्सरी पूजा निष्फला मुनिसत्तम ॥१७२॥ ** **तस्माद्भक्तिसमायुक्तैर्नरैर्विष्णु परायणैः । ** वर्षे वर्षे तु कर्तव्यं पवित्रारोपणं हरेः ॥१७३॥
वर्षे वर्षे कर्तव्यामिति वीप्साविधिद्वारा नित्यता उत्ता वसन्ते वसन्ते ज्योतिषा यजेतेतिवत् । तत्र च विष्णुपरायणैरिति वैष्णवानामावश्यकतममिति बोधितम् ॥१७३॥
अथ परिवारोपणमाहात्म्यम्
तत्र बौधायनः—
**यावत् सूत्रं पवित्रस्य तावत् स्वर्गे महीयते । ** **आयुरारोग्यमैश्वर्यं विपुलं तस्य वर्धते ॥१७४॥ **
महीयते पूज्यते पवित्रारोपकः ॥१७४॥
महासंहितायाम्—
**संवत्सरेण या पूजा कृता वै मन्त्रिणा द्विज । ** पवित्रदानात् पूर्णा स्यादित्याह भगवान् हरिः ॥१७५॥
विष्णुरहस्ये—
**पवित्रारोपणं विष्णोर्भुक्तिमुक्तिप्रदायकम् । ** **स्त्रीपुङ्कीर्तिप्रदं पुण्यं सुखसम्पद्धनावहम् ॥१७६॥ **
स्त्रीपुंसोः स्त्रीपुंसयोर्दम्पत्योः कीर्तिप्रदम् यद्वा स्त्रीणां पुंसाञ्च कीर्तिप्रदमिति वैष्णवीभि स्त्रीभिरपि विष्णोः पवित्रारोपणं कार्यमित्यभिप्रेतम् ॥१७६॥
**पुण्यानान्तु तथा पुण्यं सर्वपापहर तु वै । ** पवित्रारोपणं तस्मात् पवित्रं परमं स्मृतम् ॥१७७॥
पुण्यानां मध्ये पुण्यं परमश्रेष्ठमित्यर्थः । एवञ्च पवित्रं नाम निरुक्तम् ॥१७७॥
**संवत्सरेण यो भक्त्या समभ्यर्च्य जनार्दनम् । ** यत् फलं समवाप्नोति पवित्रारोपणेन तत् ॥१७८॥
किञ्च—
**पावयत्येनसो नित्यं त्रायते भवबन्धनात् । ** **पवित्रं तेन विख्यातं ब्राह्म तेजोऽभिधीयते ॥१७९॥ **
विशेषतस्तदेव निर्वक्ति—पावयतीति । यतस्तद्ब्राह्मं परमब्रह्ममयं तेज इत्यभितो गीयते ॥१७९॥
**विष्ण्वाख्यया तु विख्यातं तदा लोके विधीयते । ** **स एव सूत्ररूपेण यज्ञेशः कर्मणां प्रभुः ॥१८०॥ **
एवं वनमालादिवच्छ्रीभगवतः प्रत्यङ्गरूपेण तदभेदतां दर्शयन् माहात्म्यविशेषमाह—विष्ण्वाख्ययेति द्वयेन । तत्र हेतुः—स एवेति ॥१८०॥
**तदेव त्रिगुणीसूत्रं ततं नारायणाख्यया । ** त्रिवेदात्मा त्र्यक्षरः प्रणवः स्मृतः ॥१८१॥
त्रयाणां गुणानां समाहारः त्रिगुणी तन्मयं सूत्रम् त्रिगुणत्वे कारणमाह—त्रिदेवेति । त्रयो देवा ब्रह्माद्यास्तदात्मकः । एवं श्रीवैकुण्ठलोकं भगवद्भूषणत्वेन नित्यसिद्धमेव पवित्रं श्रीमहेश्वरापेक्षया श्रीवैष्णवानां भक्तिविशेषेण त्रिगुणीकृतसूत्रनिर्मितपवित्रे श्रीमूर्तौं स्वयं भगवानिवाधिष्ठयात्रापि श्रीभगवन्मूर्तेर्भूषणतां प्रयातीति बोद्धव्यम् । अतएवावाहनमन्त्रे विष्णुलोकात् पवित्राद्य आगच्छ इति ॥१८१॥
**तत्र बौधायनाद्युक्तः पवित्रारोपणे विधिः । ** सम्मतो विदुषां कृष्णार्चने योऽत्र स लिख्यते ॥१८२॥
विदुषां सम्मत इति सम्प्रदायभेदेन विविधः स्यात्तत्र शास्त्राभिज्ञसम्प्रदायानुमतो विधिरत्र लिख्यत इत्यर्थः ॥१८२॥
अथ पवित्रारोपणविधिः
सौवर्णे राजतैस्ताम्रैः क्षौमैः सूत्रैस्तु पाद्मिकैः । **कार्पासैर्वा पवित्राणीष्यन्ते क शैः कुशैरपि ॥१८३॥ **
सौवर्णादीनां सूत्राणां मध्ये पूर्वपूवाभावे परैः परैरिति ज्ञेयम् । तत्र क्षौमैः पट्टसूत्रैः पाद्मिकैः पद्मसूत्रैः ॥१८३॥
**तत्र कार्पासिकं सूत्रं ब्राह्मणीकर्तितं शुभम् । ** आनीय त्रिगुणीकृत्य पुनस्त्रिगुणयेत् शुचिः ॥१८४॥
अत्र कार्पासिकेषु कञ्चिद्विशेषं दर्शयन् आदौ पवित्रनिर्माणविधिं लिखति—तत्रैत्यादिना । ब्राह्मण्या ब्राह्मणकुमार्या सुशीलया वा विधवया न तु शूद्रया दुःशीलया वा कर्तितं शुभमुत्तमं लिखितन्यायेन कर्तितं स्वतश्च अनतिस्थौल्यादिना । शुचिः स्नानादिना पवित्रः सन् ॥१८४॥
**पञ्चगव्येन तत् प्रोक्ष्य प्रक्षाल्य शुचिनाम्बुना । ** मूलेनाष्टोत्तरशतं म त्रेणाथाभिमन्त्र्येत् ॥१८५॥
तत् नवगुणीकृतसूत्रं शुचिना शुद्धेन जलेन प्रक्षाल्य अथानन्तरं मूलेन मन्त्रेणाष्टोत्तरशतवारान् अभिमन्त्रयेत् ॥१८५॥
**स्त्रीणि साष्टशतेनास्य तस्यार्द्धेनास्य चार्द्धतः । ** जानूरुनाभिदघ्नानि पवित्राण्याचरेत् प्रभोः ॥१८६॥
तेन च सूत्रेण ज्येष्ठ-मध्यम-कनिष्ठानि त्रीणि पवित्राणि क्रमेण शुचौ देशे वैष्णवैः सह यज्ञोपवीतवत् बध्नीयादिति लिखति—त्रिणीति । अस्य नवगुणीकृतसूत्रस्य साष्टशतेनाष्टोत्तरशतेन तावद्गुणितेनेत्यर्थः । एवमग्रेऽपि । तस्य साष्टशतस्यार्द्धेन चतुःपञ्चाशता अस्य तदर्द्धस्य चार्द्धतः सप्तविंशत्येत्यर्थः । एवं स्थौल्यपरिमाणं लिखित्वा दैर्घ्यपरिमाणं लिखति—प्रभोः श्रीभगवन्मूर्तेः क्रमेण जान्वादिमात्राणीति तत्राष्टोत्तरशतनवसूत्रीभिर्जानुपर्यन्तं ज्येष्ठं चतुःपञ्चाशता चोरुपर्यन्तं मध्यमं सप्तविंशत्या च नाभि-पर्यन्तं कनिष्ठमिति ज्ञेयम् ॥१८६॥
**षट्त्रिंशद्ग्रन्थयस्तेषामाद्ये कार्यास्तु मध्यमे । ** **चतुर्विंश तरन्ते च द्वादश ग्रन्थयो बुधैः ॥१८७॥ **
पवित्राणां मध्ये मध्ये च समभागेन ग्रन्थीन् बध्नीयादिति लिखति—षड्त्रिंशदिति । तेषां त्रयाणां मध्ये आद्ये ज्येष्ठे मध्यमे चतुर्विंशतिग्रन्थयः कार्याः अन्ते कनिष्ठे ॥१८७॥
**अङ्गुष्ठपर्वमात्रन्तु कुर्याद्ग्रन्थिमथोत्तमे । ** तदर्द्धं मध्यमे कुर्यात्तदर्द्धञ्च कनीयसि ॥१८८॥
ग्रन्थिपरिमाणं लिखति—अङ्गुष्ठेति । तत्राङ्गुष्ठपर्व च श्रीभगवन्मूर्तेर्ग्राह्यम् अन्यथा ह्रस्वश्रीमूर्तेः पवित्रस्यापि ह्रस्वत्वे यजमानाङ्गुष्टपर्व-परिमित तावद्ग्रन्थिसन्निवेशाभावात् । तदर्द्धमङ्गुष्ठपर्वार्द्धसि तञ्च मध्यमे तदर्द्धं च अङ्गुष्ठपर्वपादमितं कनिष्ठे ग्रन्थिं कुर्यादित्यर्थः ॥१८८॥
ग्रन्थीन् कुर्वीत सर्वत्र सुवृत्तान् सुमनोहरान् । **न वै विषमसङ्ख्याकान् ग्रन्थीन् कुर्वीत कुत्रचित् ॥१८९॥ **
सर्वत्र सर्वेष्वेव पवित्रेषु वै प्रसिद्धौ त्वर्थे वा विषमसङ्ख्याकानयुग्मान् कुत्रचित् परिवारादिपवित्रेष्वपि न कुर्यात् ॥१८९॥
**अष्टोत्तरसहस्रेण तत्सूत्रस्य पवित्रकम् । ** **अष्टोत्तरशतग्रन्थिवनम लाख्यमाचरेत् ॥१९०॥ **
तस्य नवगुणीकृतस्य सूत्रस्य अष्टोत्तरशतं ग्रन्थयो यस्मिन् तत् ॥१९०॥
**आरभ्य मुकुटं या तु सूत्रैर्विरचिता शुभा । ** आपादलम्बिनी माला वनमाला प्रकीर्तिता ॥१९१॥
वनमाला-पवित्रपरिमाणं लिखति—आरभ्येति । मुकुटाभावे सति श्रीमस्तकं ग्राह्यम् ॥१९१॥
**कुर्याद्गन्धपवित्रञ्च सूत्रैर्द्व दशभिः शुभैः । ** **अरन्तिप्रमितं तच्च द्वादशग्रस्थिकं कृती ॥१९२॥ **
तैर्नवगुणीकृतैः सूत्रैरधिवासनार्थं समर्प्यं पवित्रं यत् तद्गन्ध्पवित्रम् ॥१९२॥
**पवित्राणि परिवारदेवतानां समाचरेत् । ** **सूत्रैरतैरुडुसङ्ख्याकैः कलासख्यार्कसङ्ख्यकैः ॥१९३॥ **
उडूनि नक्षत्राणि तत्सङ्ख्यादिगुणितः तैर्नवगुणीकृतैः सूत्रैः क्रमेण ज्येष्ठ-मध्यम-कनिष्ठाणि त्रीणि पवित्राणि सम्यगाचरेत् । तत्र उडूनि सप्तविंशतिः कलाः षोडश अका आदित्या द्वादश ॥१९३॥
**तेषु ग्रन्थीन् यथाशोभं बद्ध्वा वह्नेर्गुरोरपि । ** **सप्तविंशतिभिः सूत्रैः षड्विंशतिभिरात्मनः ॥१९४॥ **
गुरोरग्नेश्च द्वे पवित्रे सप्तविंशतिभिर्नवगुणीकृतसूत्रैरात्मनो यजमानस्य पवित्र षड्विंशतिभिः कुर्यात् ॥१९४॥
**यथासम्भवमन्येषां पवित्राणि च कारयेत् । ** सम्पादयेच्च सर्वाणि शोभनायेव यत्नतः ॥१९५॥
अन्येषां वैष्णवादीनां तत्र तत्राशक्तावपि लिखितानि सर्वाण्येव पवित्राणि सुन्दराण्येव कुर्यादिति लिखति—सम्पादयेदिति ॥१९५॥
तथा चोक्तम्—
विशोभसूत्रदानेन कर्तुः स्यादशुभं फलम् । **पवित्रं परया भक्त्या तस्मात् कुर्वीत शोभनम् ॥१९६॥ इति । **
विशोभस्य शोभारहितस्य सूत्रस्य पवित्रस्य दानेन कर्तुर्यजमानस्य शोभनं सुन्दरम् ॥१९६॥
**रञ्जयित्वाथ काश्मीरागुरुगोरोचनादिभिः । ** वस्त्रेणाच्छाद्य पटले स्थापयेत्तानि वैणवे ॥१९७॥
अथ निर्माणानन्तरं तानि सर्वाणि पवित्राणि काश्मीरादिना रञ्जयित्वा यथाशोभं सर्वत्र ग्रन्थिषु वा रङ्गं कारयित्वा वैणवपाटलसम्पुटान्तः शुभ्रवस्त्रेणाच्छाद्य स्थापयेत् । आदि शब्देन कर्पूरादि तत्राशक्तौ केवलकुङ्कुमेनापि तत्राप्यशक्तौ हरिद्रादिनापीति ज्ञेयम् ॥१९७॥
इति पवित्रनिर्माणम् ।
**कृत्वा कृत्यं दशम्याञ्च पवित्रारोपणाय हि । ** कृष्णं विज्ञाप्य तद्रात्रिं यथा प्राग्लिखितं नयेत् ॥१९८॥
इदानीं पवित्रारोपणोत्सवे दशम्यादिदिनत्रयकृत्यानि लिखन्नादौ दशमीकृत्यं लिखति—कृत्वेति । दशम्यां कृत्यञ्च यथा प्राग्लिखतं पूर्वं दशमीनियमे यल्लिखितं तदनुसारेण ज्ञेयम् । तच्च दशमीनियमेन कृतैकभक्तो विहितकाष्ठेन दन्तान् शोधयित्वा द्विराचम्य सन्ध्याकृत्यं निर्वर्त्य भगवन्तं पूजयेदिति । ततश्च पुष्पाञ्जलिं दत्त्वा भगवन्तं विज्ञाप्य तव यागं करिष्येऽहं पवित्रमयमच्युत । आमन्त्रितोऽसि भगवन् परिवारयुतो मया ॥ इत्यादि सम्प्रार्थ्य तस्या दशम्या रात्रिञ्च यथा प्राग्लिखितमेव ब्रह्मचर्य-भूशयनादिनियमेन नयेदतिवाहयेत् । तत्र च केषाञ्चिन्मते दशमीरात्रिमित्थं नीत्या एकादश्यां प्रातः कृतनित्यकृत्यो भगवन्तमभ्यर्च्य पवित्रारोपणसङ्कल्पं यथावत् कृत्वा पवित्रारोपणोपकरणानि यथाशक्ति सम्भृत्य गुरुं प्रणम्य सन्निधौ च सतस्तस्यानुज्ञया पवित्राणि कुर्यादिति । तच्च तस्मिन्नेवैकादशीदिने पवित्रनिर्माणाद्यखिलकर्मसु शक्तस्य तथैव बोद्धव्यमिति दिक् ॥१९८॥
**एकादश्यां प्रभाते च नित्यकृत्यं समाप्य हि । ** देवालयमुपस्कृत्य मण्डलं रचयेत् शुभम् ॥१९९॥
एकादशीदिनकृत्यं लिखति—एकादश्यामित्यादिना निशीत्यन्तेन । नित्यकृत्यं प्रातःस्नानादि उपस्कृत्य लेपनादिना वितानबन्धनादिना चालङ्कृत्य शुभं मण्डलं सर्वतोभद्रादि अत्र केषाञ्चिन्मतेऽधिकमिदम्—आदौ द्वाराधिष्ठातृदेवतार्चनपूर्वकं यागमण्डपं प्रविश्य षड्त्रिंशद्दर्भदलैर्वेणीमरत्निसम्मितां निर्माय मूलमन्त्रेण तां पञ्चगव्यविशुद्धां विधाय भूतशुद्धिं कृत्वा पञ्चगव्याक्तया तया वेण्या सर्वतो यागमण्डपाभ्यन्तरं प्रोक्षयेन् । ततो गुर्वादिनमस्कारपूर्वकं स्वागमोक्तप्रकारेण न्यासजालं कृत्वा नृसिंहबीजेन सर्षपानभिमान्त्र्य दिक्षु निक्षिपेत् । तांश्च प्राकाराकारेणावस्थितान् विचिन्तयेत् । ततश्च सुशीलं वेदवेदाङ्गपारगं वैष्णवमेकं होमार्थं विधिवद्वृणुयात् । स चागमोक्तप्रकारेण स्वगृह्योक्तविधिनाष्टोत्तरशतमष्टाविंशतिवारान् आज्याहुतीर्हुत्वा संस्रवपात्रे आहुतशेषाज्यं पवित्रसंस्कारार्थं निक्षिपेत् । यजमानस्तु यथाविधि न्यासान् कृत्वा नैमितिकीं महापूजां कृत्वा पश्चात् पवित्रारोपणोत्सवहेतुकां महापूजां विधिवदारभेतेति ॥१९९॥
कृत्वा कृष्णस्य नित्यार्चा पवित्रारोपणार्थकाम् । **पूजां विशेषतः कृत्वा कृष्णं विज्ञापयेदिदम् ॥२००॥ **
नित्यार्चा नित्यकरणीयपूजां कृत्वा पश्चात् पवित्रारोपणोत्सवहेतुकां पुनर्विशेषत आधिक्येन पूजां कृत्वा इदं क्रियालोपेत्यादि ॥२००॥
**क्रियालोपविघातार्थं यत्त्वया विहितं प्रभो । ** मयैतत् क्रियते देव तव तुष्ट्यै पवित्रकम् ॥२०१॥ न मे विघ्नो भवेत् त्वत्र कुरु नाथ दयां मयि । **सर्वथा सर्वदा विष्णो मम त्वं परमा गतिः ॥२०२॥ इत्यादि । **
क्रियाणां संवत्सरकृतपुण्यानां लोपस्य यो विघातः परिहारस्तदर्थं पवित्रकं पवित्रारोपणम् । आदि-शब्दात्—उपवासव्रतेन त्वां तोषयामि जगत्पते । कामक्रोधादयो ह्येते न मे स्युर्व्रतघातकाः ॥ अद्य प्रभृति देवेश यावद्वैशेषिकं दिनम् । तावद्रक्षा त्वया कार्या सर्वस्यास्य नमोऽस्तु ते इति ग्राह्यम् तच्च सर्वसाधारणत्वान्न स्पष्टं लिखितम् ॥२०१-२०२॥
**देवस्य सर्वतो न्यस्येद्दन्तकाष्ठं जलं कुशान् । ** मृत्तिकाञ्च हरिद्राञ्च कुङ्कुमं रोचनानि च ॥२०३॥ **उपानहौ सितच्छत्रं चामरं व्यजनं तथा । ** यवव्रीह्यादिधान्यानि यथास्थानं पृथक् पृथक् ॥२०४॥
इदानीमधिवाससम्भारासादनं लिखति—देवस्येति द्वाभ्याम् सर्वतः परितः दन्तकाष्ठादीनि यथास्थानं तत्तद्योग्यस्थले पृथक् पृथक् न्यस्येन्निध्यादिति द्वयोरन्वयः ॥२०३-२०४॥
**कुम्भं शुद्धाम्बुनापूर्य सर्वतोभद्रमण्डले । ** देवाग्रतो निधायास्मिन् पवित्राण्यधिवासयेत् ॥२०५॥
अधुनाधिवासप्रकारं लिखति—कुम्भमित्यादिना अवगुण्टयेदित्यन्तेन । अस्मिन् कुम्भे तदुपरि पवित्राणि वैणवपटलान्तर्निहितान्येव निधाय न्यास्याधिवासयेत् ॥२०५॥
अथ पवित्राधिवासनम्
**भगवत्पुरतस्तानि पटलस्थानि पूजयन् । ** आदावावाहयेन्मूलयुजा तन्मनुना बुधः ॥२०६॥
तानि पवित्राणि मूलयुजा मूलमन्त्रयुक्तेन तस्य पवित्रावाहनस्य मनुना मन्त्रेण ॥२०६॥
अथ तन्मन्त्रः
ओं सांवत्सरस्य यागस्य पवित्रीकरणाय भोः । **विष्णुलोकात् पवित्राद्य आगच्छेह नमोऽस्तु ते ॥२०७॥ **
अद्य आरोपणकाले हे आद्येति वा ॥२०७॥
**तेष्वावाह्य यथास्थानं ब्रह्माद्या देवतास्ततः । ** तत्तन्मन्त्रैः सन्निधाप्याक्षतगन्धादिनार्चयेत् ॥२०८॥
तेषु पवित्रेषु देवताः पवित्राधिष्ठात्रीः यथास्थानं स्वस्वस्थाने आवाहनमुद्रया तत्तन्मन्त्रैरावाह्य सन्निधाप्य सन्निधीकरणमुद्रया सन्निधीकृत्य चक्रमुद्रया संरक्ष्य धेनुमुद्रया अमृतीकृत्य अक्षतादिना पूजयेत् । आदि-शब्देन पुष्पधूपदीपनैवेद्यताम्बूलादि ॥२०८॥
अथ तत्र तत्र देवताः
**ब्रह्मविष्णुमहादेवास्त्रिसूत्रीदेवताः स्मृताः । ** प्रणवो वायुवह्नी च ब्रह्मा नागः शशी रविः । **शिवश्च विश्वेदेवाश्च नवसूत्र्यधिदेवताः ॥२०९॥ ** **क्रिया च पौरुषी वीरा चतुर्थी चापराजिता । ** जया च विजया चैव मुक्तिदा च सदाशिवा ॥२१०॥ **मनोमयी तु नवमी दशमी सर्वतोमुखी । ** ग्रन्थीनां देवतास्त्वेतास्तत्र तत्र निवेदयेत् ॥२११॥ इति ।
तन्मन्त्राः **ओं सर्वाभरणचित्राङ्ग सर्वदेवनमस्कृत । ** **लावण्यरूपविश्वात्मन् ज्येष्ठसूत्रं समाश्रय ॥२१२॥ ** **ओं सर्वलक्ष्मीकर श्रीश सर्वज्ञानरसात्मक । ** निवृत्तरूप विश्वात्मन् मध्यसूत्रं समाश्रय ॥२१३॥ ओं अतिवेग मरुद्योने पुरुषात्मन् दिवस्पते । **कनीयो हे प्रभो देव तेजसा सूत्रमाश्रय ॥२१४॥ इत्यादि । **
कनीयः कनिष्ठसूत्रमाश्रय । आदि-शब्दाद्वनमालायां तदधिष्ठात्र्याः प्रकृतेरावाहनमन्त्रादि प्रकृते त्वं जगन्मूर्ते सर्वलावण्यदायिनि । श्रीसूत्रे नित्यकल्याणि सान्निध्यं कुरु ते नमः ॥ इति । एतच्च केषाञ्चिन्मतमिति व्यक्तं न लिखितम् ॥२१४॥
**यन्त्र मन्त्रो न वर्तेत तत्तन्नाम्नैव तत्र च । ** नमोऽन्तः सचतुर्थीक ऊह्यः प्राग्लिखनान्मनुः ॥२१५॥ **अथ कृष्णकराम्भोजे पट्टसूत्रेण निर्मितम् । ** वितस्तिमात्रं बध्नीयाद्डोरकं मङ्गलात्मकम् ॥२१६॥
अथ तत्र मन्त्रः ओं संवत्सरकृतार्चायाः सम्पूर्णफलदोऽसि यत् । **पवित्रीकरणायतत् कौतुकं धर ते नमः ॥२१७॥ इति । ** **ततो गन्धपवित्रञ्च गृहीत्वा धूपित बुधः । ** भगवन्तं नमस्कृत्य भक्त्या सम्प्रार्थयेदिदम् ॥२१८॥
नन्वन्यत्र कतमे मन्त्राः तत्र लिखति—यत्रेति । नमोऽन्तं नमः—शब्दान्तक सचतुर्थीकं चतुर्थीविभक्त्येकवचनसिद्धं तत्तन्नामैव मनुर्मन्त्रे ऊह्यः । तच्च पूर्वमेव लिखितमस्तीति लिखति—प्रागिति । प्रयोगश्चायम्—ओं प्रणवाय नमः इत्यादि ॥ धूपितमगुर्वादिधूपयुक्तं सद्गन्धपवित्रं हस्ताभ्यां गृहीत्वा ॥२१८॥
**आमन्त्रितोऽसि देवेश सार्द्धं देवगणेश्वरैः । ** **मन्त्रेशैर्लोकपालैश्च सहितः परिचारकैः ॥२१९॥ ** **आगच्छ भगवन्नीश विधिसम्पूणकारक । ** **प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ॥२२०॥ इति । **
ततश्च—
**विष्णुतेजोद्भवं रम्यं सर्वपातकनाशनम् । ** **सर्वकामप्रदं देव तवाङ्गं धारयाम्यहम् ॥२२१॥ ** **अनेन मनुना विद्वान् मूलसम्पुटितेन हि । ** **दद्याद्गन्धपवित्रन्तत् श्रीकृष्णचरणाब्जयोः ॥२२२॥ **
तद्धूपयित्वा गृहीतं गन्धपवित्रम् ॥२२२॥
**नीराज्य देवं स्तुत्वा च दत्त्वा पुष्पाञ्जलिं ततः । ** तत्पवित्राणि तत्कुम्भमप्यस्त्रमनुनाथवा । **नृसिंहमनुना रक्षेत् कवचेनावगुण्ठयेत् ॥२२३॥ ** गीतनृत्यादिना कुर्याद्विधिवज्जागरं निशि ॥२२४॥
अस्त्रमन्त्रेण नृसिंहमन्त्रेण वा रक्षेत् । आदि-शब्देन पुराणपाठादि विधिवदिति विधिश्च वाचके सत्यादौ पुराणपाठस्ततो गीतादि तथा प्रतियामञ्च नीराजनादि एतच्चादौ जागरणप्रकरणे लिखितमस्त्येव ॥२२३-२२४॥
अथ पवित्रार्पणम्
**प्रातःकृत्यानि निर्वर्त्य नित्यपूजां विधाय च । ** विशेषतोऽर्चयेद्देवं पवित्राणि च पूजयेत् ॥२२५॥
द्वादशीदिनकृत्यं लिखति—प्रातरित्यादिना वैष्णव इत्यन्तेन । विशेषत इति पवित्रार्पणार्थं नित्यपूजाऽधिकतयेत्यर्थः ॥२२५॥
**महावादित्रघोषेण नामसङ्कीर्तनोत्सवैः । ** **मूलसम्पुटितेनैव पवित्राण्यर्पयेत् क्रमात् ॥२२६॥ **
क्रमादिति—ज्येष्ठादिक्रमेण यतीनाञ्च कनिष्ठादिक्रमेण इति ज्ञेयम् ॥२२६॥
**वक्ष्यमाणेन मन्त्रेण भक्त्या कृष्णाय वैष्णवः । ** पूजां कृत्वा परीवारदेवानां तान्यथार्पयेत् ॥२२७॥
अथ परिवारदेवतानां पूजां कृत्वा तानि तदर्थकृतानि पवित्राणि तेभ्योऽर्पयेत् ॥२२७॥
अथ अपणमन्त्रः
**कृष्ण कृष्ण नमस्तुभ्यं गृहाणेदं पवित्रकम् । ** **पवित्रीकरणार्थाय वर्षपूजाफलप्रद ॥२२८॥ ** **पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम् । ** शुद्धो भवाम्यहं देव त्वत्प्रसादाजनार्दन ॥२२९॥ इति । **महापूजां ततः कृत्वा स्तुत्वा नत्वार्थयेत् प्रभुम् । ** वनमालां यथा देव कौस्तुभं सततं हृदि । **तद्वत् पवित्रं तन्तुं च पूजाञ्च हृदये वह ॥२३०॥ **
ततस्तदनन्तरं भगवतो महापूजां कृत्वा प्रभुं प्रार्थयेदिति लिखितं तत्प्रार्थनमेव लिखति—वनमालामिति द्वाभ्याम् । सततमिति पाठे वहसीत्यध्याहार्यम् ॥२३०॥
**जानताऽजानता वापि न कृतं यत्तवार्चनम् । ** केन वा विघ्नदोषेण परिपूर्णं तदस्तु मे ॥२३१॥
केनचिद्विघ्नदोषेण यन्न कृतं आदि-शब्देन देवदेव जगन्नाथ इत्यादि तच्च पूर्वं लिखितमेव ॥२३१॥
**तथाग्निं विधिनाभ्यर्च्य पवित्रं तस्य चार्पयेत् । ** **कृष्णे निवेदयन्मन्त्रहीनमित्यादिना कृतम् ॥२३२॥ **
विधिना अग्निसंस्कारादि-प्रकारेण स चादावेव लिखितोऽस्ति । नित्यहोमनिवर्तनपूर्वकं पवित्रं मूलमन्त्रेण तस्मै समर्पयेत् ततश्च मन्त्रहीनं क्रियाहीनम् इत्यादि लिखितप्रसिद्धवचनेन कृतं कर्म सर्वं कृष्णे निवेदयेत् ॥२३२॥
**गुरुञ्च भक्त्या सम्पूज्य पवित्रं गुरुवेऽर्पयेत् । ** **वैष्णवेभ्यः पवित्राणि दत्त्वैकं धारयेत् स्वयम् ॥२३३॥ **
एकं पवित्रं स्वयं यजमानो धारयेत् ॥२३३॥
**सम्पूज्य वैष्णवान् विप्रान् शक्त्या सम्भोज्य बन्धुभिः । ** समं महाप्रसादान्नं सुखं भुञ्जीत वैष्णवः ॥२३४॥
बन्धुभिः समं भुञ्जीत ॥२३४॥
अथ पवित्रविसज्जनविधिः
तन्त्रे—
**मासं पक्षमहोरात्रं त्रिरात्रं धारयेत्तथा । ** देवेशं सूत्रसन्दर्भं देशकालानुसारतः । प्रत्यहं स्नानकर्मादि सूत्राण्युत्तार्य कारयेत् ॥२३५॥ **अभिषिच्याथ तोयेन पुनर्देवे निवेदयेत् ॥२३६॥ **
सूत्रसन्दर्भं पवित्राणीत्यर्थः । देवस्य स्नानादिकर्म सूत्राणि तोयेनाभिषिच्य तान्येव प्रोक्ष्य ॥२३५-२३६॥
**तथान्ते देवमभ्यय्च्य विशेषाद् पुष्पचन्दनैः । ** नैवेद्यं विविधं दत्त्वा तत्सूत्रन्तु विसर्जयेत् ॥२३७॥
तत्र पवित्रविसर्जनमन्त्रः ओं सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम । **व्रजेदानीं पवित्र त्वं विष्णुलोकं विसर्जितम् ॥२३८॥ ** **यावद्देवे पवित्राणि तावत्तिष्ठेत् समाहितः । ** ब्रह्मचारी हविष्याशी देवपूजापरायणः ॥२३९॥
विसर्जनमन्त्रः—ओं सांवत्सरीम् इत्यादि । यावत् पवित्राणि तिष्ठन्तीति शेषः ॥२३८—२३९॥
अथ तत्फलम्
उक्तञ्च बौधायनेन—
**एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः । ** स याति परमं स्थानं यत्र देवो नृकेशरी ॥२४०॥ इति ।
अथ तत्र मुख्यगौणकालनिर्णयः **मुख्यकालस्य चैतस्य विघ्नतोऽपगमे सति । ** भाद्रादावपि कर्तव्यं पवित्रारोपणं प्रभोः ॥२४१॥
एतस्य श्रावणशुक्लद्वादशीलक्षणस्य मुख्य कालस्य ॥२४१॥
तथा च विष्णुरहस्ये—
**श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे । ** द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥२४२॥ **सिंहस्थे वा रवौ कार्यं कन्यामपि गतेऽथवा । ** तस्यामेव तिथौ सम्यक् तुलास्थे न कथञ्चन ॥२४३॥
तस्यां द्वादश्यामेव ॥२४३॥
**कर्कटकं गते सूर्ये तथा सिंहगतेऽपि वा । ** **द्वादश्यां शुक्लपक्षस्य हरेर्दद्यात् पवित्रकम् ॥२४४॥ **
ककण्टकः कर्कटराशिस्तं गते ॥२४४॥
**अथ चेद्विघ्नपातेन मुख्यकालो न लभ्यते । ** **कन्यागतेऽपि कुर्वीत यावन्नोत्तिष्ठते हरिः ॥२४५॥ इति । **
श्रावण्यां पौर्णमास्यामृषितर्पणञ्च शाखाभेदादिना बहुविघं स्यात् तच्च पिण्डदानं पितृणाञ्च पितृपक्षे न वै कृतम् । व्रतं न कार्त्तिके मासि श्रावण्यामृषितर्पणम् ॥ इत्यादि-वचनतोऽकरणप्रत्यवायमध्ये स्कान्दादिविधानाद्यद्यपि नित्यतां लभेत तथापि महद्भिर्वैष्णवधर्मेष्वसङ्गृहीतत्वाद्वैष्णवानामादरविशेषाभावेनात्र विवृत्य न लिखितम् ॥२४५॥
अथ पौर्णमास्यां रक्षाबन्धनम्
**पौर्णमास्यां हरे रक्षा बन्धनम् विधिपूर्वकम् । ** व्रजराज कुमारत्वात् केचिदिच्छन्ति साधवः ।
तत्र भद्रादि सद्भावे तामतिक्रम्यैव कुर्यात् ।
तथा स्मृत्यन्तरे—
**भद्रायां द्वे न कर्तव्ये श्रावण फाल्गुनी तथा । ** **श्रावणी नृपतिं हन्ति ग्रामान्दहति फाल्गुनी ॥ इति। **
विधिश्च भविष्योत्तरे—
**उपाकर्मदिने प्रोक्त ऋषीणाञ्चैव तर्पणम् । ** **ततोऽपराह्न समयं रक्षा पोटलिकां शुभाम् ॥ ** **कारयेदक्षतैः शस्तैः सिद्धार्हैर्हेम भूषिताम् । ** **वस्त्रैर्विचित्रैः कार्पासैः क्षौमैर्वामलवर्जितैः ॥ ** **विचित्र ग्रन्थितं कृत्वा स्थापयेद्भाजनोपरि । ** **उपलिप्ते गृहमध्ये दत्त चतुष्केन्यसेच्छुभं पाठम् ॥ ** **तत्रोपविशेद्राजा सामात्यः स पुरोहितः ससुहृत् । ** तदनु पुरोधा नृपते रक्षा बन्धीत मन्त्रेण ॥
मन्त्रश्च **येन बद्धो बलीराजा दानवेन्द्रो महाबलः । ** तेन त्वां प्रतिबध्नामि रक्षे मा चल मा चल ।
वैदिकश्च यदा बधनन् दाक्षायणा हि बन्धं शतानिकाय सुमनस्य मालाः । तन्मया बध्नामि शत शारदाया युष्मानजरदिष्टिर्यथासन् ॥ **ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रेश्चान्यैश्च मानवः । ** **कर्तव्यो रक्षणाचारो विप्रान् सम्पूज्य शक्तितः ॥ ** **अनेन विधिना यस्तु रक्षिका बन्धमाचरेत् । ** स सर्वदोषरहितः सुखं संवत्सरं वसेत् ॥ इति ।
अथ तद्दिननिर्णयाथमुपाकर्मदिन निर्णयः क्रियते
यदाह स्मृत्यन्तरे—
**उपाकर्म तु कुर्वन्ति क्रमात् सामर्यजुर्विदः । ** **ग्रहसङ्कान्ति युक्तेषु हस्त श्रवण पर्वसु ॥ **
तथाच—
**सामवेदिनां भाद्रस्य हस्त नक्षत्रम् । ** **ऋग्वेदिना श्रावणस्य श्रवण नक्षत्रम् ॥ ** **यजुर्वेदिनां श्रावण पूर्णिमोपाकर्म कालः । ** उपक्रम काण्डिका कीर्तनरूपं कर्म उपाकर्मेति ॥
अथ करणाभावे भाद्रे श्रावणेऽपि विधेयम् **अवृष्ट्यौषधयस्तस्मिन् मासे नहि भवन्ति चेत् । ** **तदा भाद्रपदेमासि श्रावणेऽपि तदिष्यति ॥ ** इति बह्व्ष परिशिष्ट वचनात् ।
श्रावण पञ्चम्यनुकल्पः
तदाह गार्ग्यः—
**यदि स्यात् श्रावणं पर्व ग्रहसङ्क्रान्ति दूषितम् । ** स्यादुपाकरणं शुक्ल पञ्चम्यां श्रावणस्य च ॥ इति ।
अथ भूतबिद्धा पूर्णिमा च निषिद्धा
तथाच कालिकापुराणे—
**चतुर्दश्यां समुत्पन्नावसुरौ मधुकैटभौ । ** **वेदान् स्वीकुर्वतः पद्मयोनेस्तौ जघ्नतुः श्रुतीः ॥ ** **हत्त्वा तावसुरौ देवौ पातालवासिनौ । ** **आहत्य ताः श्रुतीस्तस्मै ददौ लोकगुरुः स्वयम् ॥ ** **सम्प्राप्तवान् श्रुतीर्ब्रह्मा पर्वण्यौदयिके पुनः । ** अतो भूतयुते तस्मिन्नोपाकरणमिष्यते ॥ **असुरं वर्जयेत् कालं वेदाहरण शङ्कया ॥ इति । **
व्यासोऽपि—
**श्रावणेन तु यत्कर्म उत्तराषाढसंयुतम् । ** **संवत्सर कृतोऽध्यायस्तत् क्षणादेव नश्यति ॥ ** **धनिष्ठा संयुतं कुर्यात् श्रावणं कर्म यद्भवेत् । ** तत् कर्म सफलं विद्यादुपाकरण सङ्क्षितम् ॥ इति ।
अथ भाद्रकृत्यम् **भाद्रे भगवतो जन्मदिने कार्यो महोत्सवः । ** विशेषेण महापूजां व्रतपूर्णेन वैष्णवैः ॥२४६॥
भगवतो जन्मदिनं रोहिण्यष्टमी श्रवणद्वादशी च तस्मिन् ॥२४६॥
अथ श्रीजन्माष्टमीव्रतम्
**सर्वैरवश्यं कर्तव्यं जन्माष्टमीव्रतं नरैः । ** नित्यत्वात् पापहारित्वात् सवार्थप्रापणादपि ॥२४७॥
अथ श्रीजन्माष्टमीव्रतोत्पत्तिः
भविष्योत्तरे श्रीयुधिष्ठिर उवाच—
**जन्माष्टमीव्रतं ब्रूहि विस्तरेण ममाच्युत । ** कस्मिन् काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः ॥२४८॥
तत्र किं पुण्यं विधिश्च कः ॥२४८॥
श्रीकृष्ण उवाच—
**हते कंसासुरे दुष्टे मथुरायां युधिष्ठिर । ** **देवकी मां परिष्वज्य कृत्वोत्सङ्गे रुरोद ह ॥२४९॥ ** **तत्रैव रङ्गवाटे सा मञ्चारूढा जनोत्सवे । ** **मल्लयुद्धे पुरा वृत्ते संस्तुता कुकुरान्धकः ॥२५०॥ ** **स्वजनैर्बहुभिः स्निग्धैस्तेषां स्त्रीभिः समावृता । ** वसुदेवोऽपि तत्रैव वात्सल्यात् प्ररुरोद मे । **समागम्य परिष्वज्य पुत्र पुत्रेत्युवाच ह ॥२५१॥ **
मे मयि वात्सल्यात् मे मामिति वा परार्द्धेनान्वयः । हेति पाठे स्फुटम् ॥२५१॥
**स गद्गदस्वरो दीनो वाष्पपर्याकुलेक्षणः । ** **बलभद्रञ्च माञ्चैव परिष्वज्येदमब्रवीत् ॥२५२॥ ** **अद्य मे सफलं जन्म जीवितञ्च सुजीवितम् । ** यदुभाभ्यां सुताभ्यां मे समुद्भूतः समागमः ॥२५३॥ **एवं हर्षेण दम्पत्योर्हृष्टं सर्वऊ तदा नृप । ** **प्रणिपत्य जनाः सर्वे मामूचुस्ते प्रहर्षिताः ॥२५४॥ ** **अद्य प्रहर्ःओ ह्यस्माकमद्य जातो जनार्दनः । ** **अद्य मल्लाङ्गयुद्धेन दुष्टः कंसो निपातितः ॥२५५॥ ** **एवं महोत्सवं दृष्ट्वा समाजे मधुसूदन । ** प्रसादः क्रियतामस्या लोकस्यान्योऽपि शीघ्रतः ॥२५६॥ **यस्मिन् दिने प्रसूयेत देवकी त्वां जनार्दन । ** तद्दिनं देहि वैकुण्ठ कुर्मस्ते तत्र चोत्सवम् । **सम्यग्भक्तिप्रपन्नानां प्रसादं कुरु केशव ॥२५७॥ ** **एवमुक्ते जनौघेन वसुदेवोऽपि विस्मितः । ** विलोक्य बलभद्रं तं सम्प्रहृष्टतनूरुहः ॥२५८॥ **एवमस्त्विति लोकानां कथयस्व यथातथम् ॥२५९॥ ततस्तातसमादेशान्मया जन्माष्टमीव्रतम् । ** मथुरायां जनौघाय पार्थ सम्यक् प्रकाशितम् ॥२६०॥
एवमस्त्वीत्यादि तातसमादेशाज्जनौघाय जनसमूहं प्रति प्रशासितं समाविष्टम् । पाठान्तरे पूर्वं गूढं सत् मयाऽधुना प्रकटितम् ॥२५९-२६०॥
**पौराश्च तज्जन्मदिनं वर्षे गर्भाष्टमे गते । ** पुनर्जन्माष्टमीं लोकाः कुर्वन्तु ब्राह्मणादयः । **क्षत्रिया वैश्यजातीयाः शूद्रा येऽन्येऽपि धर्मिणः ॥२६१॥ **
कथम् तदाह—पौराश्चेति । गर्भादष्टमे वर्षे गते सति अष्टवर्षवय आरभ्येत्यर्थः । यथोक्तमेकादशीव्रताधिकारिनिर्णये—अष्टवर्षाधिको बालः इत्यादि ॥२६१॥
**सिंहराशिगते सूर्ये गगने जलदागमे । ** **मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्द्धरात्रके ॥२६२॥ ** **शशाङ्के वृषराशिस्थे प्राजापत्यर्क्षंयुते । ** **वसुदेवेन देवक्यामहं जातो जनाः स्वयम् ॥२६३॥ **
हे जनाः स्वयं स्वेच्छया सम्पूर्णतया वेत्यर्थः । पाठान्तरे तु दुष्टजनसंहारार्थमित्यर्थः ॥२६३॥
**एवमेतत् समाख्यातं लोके जन्माष्टमीव्रतम् । ** भगवत्याश्च तत्रैव कुरुध्वं सुमहोत्सवम् । मथुरायां ततः पश्चाल्लोके ख्यातिं गमिष्यति ॥२६४॥
भगवत्याः—श्रीदेवक्याः अतस्तदुत्सङ्ग एव भगवत्पूजनविधिः । यद्वा श्रीदुर्गादेव्याः प्रभाते नवमीदिने । यथा मम तथा कार्यो भगवत्या महोत्सवः ॥ इति विधिकथनान्तोक्तेः ॥२६४॥
इत्याकर्ण्य यथाख्यातं तथा लोकैरनुष्ठितम् । **शान्तिरस्तु सुखञ्चास्तु लोकाः सन्तु निरामयाः ॥२६५॥ इति । **
एतनुष्ठानेन च सर्वेषां परमसुखं सर्वदुःखोपरमश्चेत्यभिप्रायेण व्रतफलमाह—शान्तिरिति ॥२६५॥
**नित्यत्वञ्च परन्तस्य भगवत्प्रीणनान्मतम् । ** विधिवाक्यविशेषाच्चाकरणे प्रत्यवायतः ॥२६६॥
तस्य च नित्यतां त्रिधा लिखति—नित्यत्वञ्चेति । परं केवलं परमं वा भगवत्प्रीतिहेतू—श्रवणेन वैष्णवानामवश्यं भक्त्या प्रवृत्तेः । विधिवाक्यविशेषश्चात्र—वर्षे वर्षे तु कर्तव्या इति । तस्मात् श्रावणस्येति मुख्यचान्द्रमासाभिप्रायेण एवमग्रेऽपि ॥२६६॥
अथ श्रीजन्माष्टमीव्रतनित्यत्वम् तत्र
श्रीभगवत्प्रीणनं विधिश्च
स्कान्दे—
**प्रह्लादाद्यैश्च भूपालैः कृता जन्माष्टमी शुभा । ** **श्रद्धया परया विष्णोः प्रीतये कृष्णवल्लभा ॥२६७॥ **
किञ्च—
**प्राजापत्यर्क्षसंयुक्ता श्रावणस्यासिताष्टमी । ** वर्षे वर्षे तु कर्तव्या तुष्ट्यर्थं चक्रपाणिनः ॥२६८॥
अथाकरणप्रत्यवाये प्रथमं भोजने प्रत्यवायः
विष्णुरहस्ये ब्रह्मनारदसंवादे—
**शूद्रान्नेन तु यत् पापं शवहस्तस्थभोजने । ** **तत् पापं लभते पुम्भिर्जयन्त्यां भोजने कृते ॥२६९॥ **
विष्णोः प्रीतये इति कृष्णवल्लभा इति तुष्ट्यर्थं चक्रपाणिनः इति भगवत्प्रीणनद्वारा वर्षे वर्षे तु कर्तव्या इति वीप्साविधिवाक्यद्वारा च वसन्ते ज्योतिषा यजेत इतिवद्वीप्सया नित्यत्वं लिखित्वा इदानीमकरणप्रत्यवायद्वारा नित्यतां लिखति—शूद्रान्नेनेत्यादिना चतुर्दशेत्यन्तेन । अत्र च प्रत्यवायो द्विधा—भोजनेन शक्तौ पूजादिमहोत्सवाकरणेन च ईदृग्विधनियम एव व्रतशब्देनाभिधीयते तत्रादौ परमं निन्द्यं भोजनप्रत्यवायं लिखति—शूद्रेति षड्भिः । शूद्रस्यावैष्णवस्यान्नेन यद्वा अनापदि ब्राह्मणस्य तेन यत् पापं स्यात् ॥२६७-२६९॥
**गृध्रमांसं खरं काकं श्येनं वा मुनिसत्तम । ** **मांसञ्च द्विपदां भुक्तं भुक्तं जन्माष्टमीदिने ॥२७०॥ **
जन्माष्टमीदिने येन भुक्तं तस्य गृध्रमांसाद्यभक्ष्य भक्षणपाप स्यादित्यर्थः ॥२७०॥
**जन्माष्टमीदिने प्राप्ते येन भुक्तं द्विजोत्तम । ** **त्रैलोक्यसम्भवं पापं भुक्तमेव न संशयः ॥२७१॥ **
पापमेव भुक्तं तद्दिनेऽन्नस्य सर्वपापमयत्वात् पापफलोपभोगस्य सद्यः प्रत्यासत्तेर्वा ॥२७१॥
किञ्च—
**जयन्तीवासरे प्राप्ते करोत्युदरपूरणम् । ** **पोड्यते तिलमात्रन्तु यमदूतैः कलेवरम् ॥२७२॥ **
यः करोति तस्य कलेवरं तिलमात्रं तिलशः पीड्यते । तिलमात्रमित्यस्य पूर्वेणैवान्वयः । तिलमात्रमल्पमप्युदरपूरणं य करोतीत्यर्थः ॥२७२॥।
**यो भुङ्क्ते च विमूढात्मा जयन्तीवासरे नृप । ** न तस्य नरकोत्तारो द्वादशीञ्च प्रकुर्वतः ॥२७३॥
अप्यर्थे चकारः द्वादशीमपि प्रकुर्वतः द्वादशीव्रतेनापि जन्माष्टमीव्रतोल्लङ्घनमहापराधानपगमात् ॥२७३॥
**अतीतानागतन्तेन कुलमेकोत्तरं शतम् । ** पातितं नरके घोरे भुञ्जता कृष्णवासरे ॥२७४॥
कृष्णवासरे—कृष्णजन्मदिने ॥२७४॥
अथोपवासपूर्वकपूजाविशेषमहोत्सवादिव्रतत्यागप्रत्यवायः
तत्रैव—
**ये न कुर्वन्ति जानन्तः कृष्णजन्माष्टमीव्रतम् । ** ते भवन्ति महाप्राज्ञ व्याला महति कानने ॥२७५॥
जानन्तः जानन्तोऽपीत्यज्ञानेनाकरणात् पापमल्पमित्यभिप्रेतम् यद्वा ज्ञानवन्तोऽपि व्याला भवन्तीत्यर्थः । व्रतमित्यनेन यद्यप्यभोजनं पूजामहोत्सवादिकमपि सर्वं गृह्यते तथाप्यत्र भोजनादि शब्दाभावात् पूजादिमहोत्सवादिकमपि सर्वं गृह्यते तथाप्यत्र भोजनादि-शब्दाभावात् पूजादिमहोत्सवपरमेव तद्ग्राह्यम् एवमग्रेऽप्यूह्यम् ॥२७५॥
**ब्रह्महत्या सुरापानं गोवधः स्त्रीबधोऽपि वा । ** न लोको मुनिशार्दूल जयन्तीविमुखस्य च ॥२७६॥
तद्व्रतविमुखश्च ब्रह्मघ्नः सुरापश्च तस्य गोबधः स्त्रीबधोऽपि जातः । पाठान्तरं सुगमम् । अतो लोक ऐहिकामुष्मिकसुखं सर्वमेव न भवतीत्यर्थः ॥२७६॥
**वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम् । ** **न करोति महाप्राज्ञ व्याली भवति कानने ॥२७७॥ **
सभर्त कापि योषित् कूर्यादिति लिखति—वर्षे वर्षे त्विति । अयं श्लोकः क्वचिन्न तिष्ठेदपि ॥२७७॥
**श्रावणे बहुले पक्षे कृष्णजन्माष्टमीव्रतम् । ** **न करोति नरो यस्तु स भवेत् क्रूरराक्षसः ॥२७८॥ ** **आवणे बहुले पक्षे न करोति यदाष्टमीम् । ** क्रूरायुधाः क्रूरमुखा हिंसन्ति यमकिङ्कराः ॥२७९॥ **न करोति यदा विष्णोर्जयन्तीसम्भवं व्रतम् । ** यमस्य वशमापन्नः सहते नारकीं व्यथाम् ॥२८०॥
किञ्च तत्रैव—
**कृष्णजन्माष्टमी त्यक्त्वा योऽन्यव्रतमुपासते । ** नाप्नोति सुकृतं किञ्चिद्दृष्टं श्रुतमथापि वा ॥२८१॥
किञ्च—
**तुष्ट्यर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम् । ** **कर्तव्यं वित्तशाठ्येन भक्त्या भक्तजनैरपि । ** अकुर्वन् याति निरयं यावदिन्द्राश्चतुर्दश ॥२८२॥
वित्तशाठ्येनेति पाठे अल्पवित्तव्ययेनापि कर्तव्यं न तु वित्तव्ययभयात् त्यक्तव्यमित्यर्थः । वित्तमानेनेति पाठे तु धनानुसारेणेत्यर्थः । भक्तजनैरकिञ्चनवैष्णवैरपि भक्त्या कर्तव्यमेव ॥२८२॥
अथ श्रीजन्माष्टमीमाहात्म्यम्
भविष्योत्तरे श्रीकृष्णयुधिष्ठिर-संवादे जन्माष्टमीव्रतकथने—
**एकेनैवोपवासेन कृतेन कुरुनन्दन । ** **सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ॥२८३॥ पुत्रसन्तानमारोग्यं सौभाग्यमतुलं लभेत् । ** सत्यधर्मरतो भूत्वा मृतो वैकुण्ठमाप्नुयात् ॥२८४॥ **तन्त्र नित्यं विमानेन वर्षलक्षं युधिष्ठिर । ** भोगान्नानाविधान् भुक्त्वा पुण्यशेषादिहागतः ॥२८५॥ **सर्वकामसमृद्धे तु सर्वासुखविवर्जिते । ** **सर्वधर्मयुते पार्थ सर्वगोकुलसङ्कुले ॥२८६॥ ** **तस्मिन् राष्ट्रेप्रभुर्भुङ्क्ते दीर्घायुर्मनसेप्सितान् । ** भोगानन्ते च परमं पदं यात्यपुनर्भवम् ॥२८७॥ **तत्कुले रूपविख्याता जायन्ते हृदयङ्गमाः ॥२८८॥ ** **यस्मिन् सदैव देशे तु लिखितं वापि चर्चितम् । ** मम जन्मदिनं पुण्य सर्वालङ्कार-शोभितम् । **पूज्यते पाण्डवश्रेष्ठ जनैरुत्सव-संयुतम् ॥२८९॥ **
लिखितं तत्तन्मूर्त्यादि-चित्रणेन पटादावङ्कितं चर्चितं चन्दनचूर्णादिभूषितं सत् यद्वा पुस्तके लिखितं वर्णमयत्वेन चर्चितं पटादिषु चित्रितं वापीत्यर्थः ॥२८९॥
**परचक्रभयन्तत्र न कदाचिद्भवत्युत । ** **पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत् ॥२९०॥ **
ईतयश्चोक्ताः—अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ इति ॥२९०॥
**गृहे वा पूज्यते यस्मिन् देवक्याश्चरितं मम । ** तत्र सर्वसमृद्धिः स्यान्नोपसर्गादिकं भयम् ॥२९१॥ पशुतो नकुलाद्व्यालात् पापरोगाच्च पातकात् । **राजतश्चौरतो वापि न कदाचिद्भयं भवेत् ॥२९२॥ **
देवक्या मम चरितं तथैव लिखितं जन्मदिनवृत्तम् उपसर्गा विविधोपद्रवाः आदि-शब्दान्नरकादि तद्रूपं भयम् उपसर्गादिजमिति वा पाठः । उपसर्गानेवाभिव्यञ्जयति—पशुत इत्यादि ॥२९१-२९२॥
किञ्च—
**यस्मिन् गृहे पाण्डुपुत्र लिख्यते देवकीव्रतम् । ** **न तत्र मृतनिष्क्रान्तिर्न गर्भपतनं तथा ॥२९३॥ **
देवकीव्रतमिति आत्मना सह तस्या अभेदाभिप्रायेण । यद्वा तत्तपःफलरूपं मज्जन्मदिनव्रतमित्यर्थः । पाठान्तरं सुगमम् मृतनिष्क्रान्तिर्नं भवति किन्तु जीवन्नेव गर्भान्निष्क्रामतीत्यर्थः । गर्भस्य पतनं स्रावश्च न भवति ॥२९३॥
**न च व्याधिभयं तत्र भवेदिति मतं मम । ** न वैधव्यं न दौर्भाग्यं न दम्भः कलहो गृहे ॥२९४॥ सम्पर्केणापि यः कुर्यात् कश्चिज्जन्माष्टमीव्रतम् । **विष्णुलोकमवाप्नोति सोऽपि पार्थ न संशय ॥२९५॥ **
सम्पर्केण—प्रसङ्गेनापि केनचित् ॥२९५॥
जन्माष्टमीजनमनोनयनोत्सवाढ्या पापापहा सपदि नन्दितनन्दगोपा । **यो देवकीं सदयितां यजतीह तस्यां पुत्रानवाप्य समुपैति पदं न विष्णोः ॥२९६॥ **
सदयिताम्—श्रीवसुदेवयुक्ताम् ॥२९६॥
विष्णुधर्मे—
रोहिणी च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम । **जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥२९७॥ ** **यद्वाल्ये यच्च कौमारे यौवने वार्द्धकेऽपि यत् । ** सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । **तत् क्षालयति गोविन्दं तस्यामभ्यर्च्य भक्तितः ॥२९८॥ **
कौमारमत्र पौगण्डं कैशोरञ्च तस्मिन् । एवमग्रेऽप्यूह्यम् ॥२९८॥
**होमयज्ञादिदानानां फलञ्च शतसम्मितम् । ** सम्प्राप्नोति न सन्देहो यच्चान्यन्मनसेप्सितम् ॥२९९॥ **उपवासश्च तत्रोक्तो महापातकनाशनः ॥३००॥ **
विष्णुरहस्ये—
**जयन्त्यामुपवासन्तु कृत्वा योऽर्चयते हरिम् । ** **तस्य जन्मशतोद्भूतं पापं नश्यति सर्वथा ॥३०१॥ ** **कौमारे यौवने बाल्ये वार्द्धक्ये यदुपार्जितम् । ** **तत् पापं शमयेत् कृष्णस्तिथावस्यां सुपूजितः ॥३०२॥ ** स्नानं दानं तथा होमः स्वाध्यायोऽथ जपस्तपः । **सर्वं शतगुणं प्रोक्तं जयन्त्यां यत् कृतं हरेः ॥३०३॥ धनधान्यवहा पुण्या सर्वपापहरा शुभा । ** समुपोष्या नरैर्यत्नाज्जयन्ती कृष्णभक्तिदा ॥३०४॥
ब्रह्मपुराणे पूर्वखण्डे जन्माष्टमीमाहात्म्ये श्रीसूतोक्तौ—
या तु कृष्णाष्टमी नाम विश्रुता वैष्णवी तिथिः । **तस्याः प्रभावमाश्रित्य पूताः सर्वे कलौ जनाः ॥३०५॥ ** **श्रावणे मासि बहुला रोहिणीसंयुताष्टमी । ** जयन्तीति समाख्याता सर्वाघौघविनाशिनी ॥३०६॥ तस्यां विष्णुतिथौ केचिद्धन्याः कलियुगे जनाः । **येऽभ्यर्च्यन्ति देवेशं जाग्रतः समुपोषिताः ॥३०७॥ ** **न तेषां विद्यते क्वापि संसारभयमुल्वणम् । ** यत्र तिष्ठन्ति ते देशे कलिस्तत्र न तिष्ठति ॥३०८॥
तत्रैव श्रीशुकजनमेजय-संवादे—
**य एष भगवान् विष्णुर्देवक्यां वसुदेवतः । ** **जातः कंसबधार्थं हि तद्दिनं मङ्गलालयम् ॥३०९॥ ** **या सा प्रत्यब्दमायाति श्रावणे बहुलाष्टमी । ** सङ्गता रोहिण्यक्षेण नृणां मुक्तिफलप्रदा ॥३१०॥ यस्यां सनातनः साक्षात् पुराणः पुरुषोत्तमः । **अवतीर्णः क्षितौ सैषा मुक्तिदेति किमद्भुतम् ॥३११॥ **
तत्रैवाग्रे व्रतविधिकथने—
**इदमेव परं श्रेय इदमेव परन्तपः । ** इदमेव परो धर्मो यद्विष्णुव्रतधारणम् ॥ ३१२॥
श्रेय ऐहिकामुष्मिकसुखं तपः स्वधर्माचरणं कृच्छ्रादि वा धर्मो यज्ञादिजं पुण्यं भक्तिलक्षणो वा ॥३१२॥
स्कान्दे ब्रह्मनारदसंवादे—
**कृष्णजन्माष्टमी लोके प्रसिद्धा पापनाशिनी । ** क्रतुकोटिसमा त्वेषा तीर्थयुतशतैः समाः ॥३१३॥ **कपिलागोसहस्रन्तु यो ददाति दिने दिने । ** **तत् फलं समवाप्नोति जयन्त्यां समुपोषणे ॥३१४॥ ** **हेमभारसहस्रन्तु कुरुक्षेत्रे प्रयच्छति । ** **तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥३१५॥ ** **रत्नकोटिसहस्राणि यो ददाति द्विजोत्तम । ** **तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥३१६॥ ** **वापीकूपसहस्राणि देवतायतनानि च । ** कन्याकोटिप्रदानेन यत् फलं कविभिः स्मृतम् ॥ **मातापित्रोर्गुरूणाञ्च भक्तिमुद्वहतां फलम् ॥३१७॥ ** **गुर्वर्थे ब्राह्मणार्थे वा स्वाम्यर्थे वा त्यजेत्तनुम् । ** परोपकारयुक्तानां तीर्थसेवारतात्मनाम् । **सत्यव्रतानां यत् पुण्यं जयन्त्यां समुपोषणे ॥३१८॥ **
गुर्वाद्यर्थे यस्तनु त्यजेत् तस्य यत् पुण्य स्यादित्यर्थः । जयन्त्यां सम्यगुपोषणं उपवासे सति तत् स्यादिति शेषः । तदुपोषणे इति वा पाठः ॥३१८॥
**निराश्रयेषु वसतां तापसानान्तु यत् फलम् । ** राजसूयसहस्रेषु शतवर्षाग्निहोत्रतः । **एकेनैवोपवासेन जयन्त्यां तत् फलं स्मृतम् ॥३१९॥ ** **कृत्वा राज्यं महीं भुक्त्वा प्राप्य कीर्तिञ्च शाश्वतीम् । जयन्त्याञ्चोपवासेनन विष्णोर्मूर्तौ लयं गताः ॥३२०॥ ** धर्ममर्थञ्च कामञ्च मुक्तिञ्च मुनिपुङ्गव । **ददाति वाञ्छितान् कामान् श्रावणे मासि चाष्टमी ॥३२१॥ ** **जन्माष्टमीव्रतं ये वै प्रकुर्वन्ति नरोत्तमाः । ** कारयन्ति च विप्रेन्द्र लक्ष्मीरतेषां सदा स्थिरा ॥३२२॥ **न वेदैर्न पुराणैश्च मया दृष्टं महामुने । ** **यत्समञ्चाधिकं वापि कृष्णजन्माष्टमीव्रतात् ॥३२३॥ ** **नियमस्थं नरं दृष्ट्वा जन्माष्टम्यां द्विजोत्तम । ** विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥३२४॥
तस्य लिपिम्—पापादिलिखनम् ॥३२४॥
किञ्च—
व्रतेनाराध्य तं देवं देवकीसहितं हरिम् । **त्यक्त्वा यमपथं घोरं याति विष्णोः परं पदम् ॥३२५॥ ** **स्मरणं वासुदेवस्य मृत्युकाले भवेन्मुने । ** सिध्यन्ति सर्वकार्याणि कृते जन्माष्टमी व्रते । **ममाज्ञया कुरुध्वं तज्जयन्तीं मुक्तये तथा ॥३२६॥ **
ब्रह्माण्डे श्रीसूतोक्तौ च तद्व्रतमहिमानुवर्णनान्ते—
इत्येतत् कथितमशेषशास्त्रगुह्यं श्रीकृष्णव्रतमहिमानुवर्णनं यत् । श्रुत्वैतत् सकृदपि पातकैर्विमुक्तो देहान्ते व्रजति नरो मुरारिलोकम् ॥३२७॥
तद्व्रताचरण-माहात्म्यं किं लेख्यम् तच्छ्रवणादपि परम्पदमिति पुनर्ब्रह्माण्डपुराणवचनं लिखति इतीति ॥३२७॥
अथ श्रीजन्माष्टमीव्रतनिर्णयः
**कृष्णोपास्याष्टमी भाद्रे रोहिण्याढ्या महाफला । ** निशीथेऽत्रापि किञ्चेन्दौ ज्ञे वापि नवमीयुता ॥३२८॥
भाद्रे मासि कृष्णाष्टमी उपोष्या सा च रोहिणीनक्षत्रेण युता सती महाफला केवलाष्टम्युपवासतो रोहिणीयुताष्टम्युपवासे फलातिशयो भवतीत्यर्थः । एवमयं पूर्वतोऽपवादः पूर्वदिने रोहिणीयुक्ताया अष्टम्या विद्धायाः सत्यास्तथा शुद्धाया अपि सत्याः परदिने बुधवारादि-योगप्राशस्त्यापेक्षया परित्याज्यत्वात् । अतो रोहिणीयोगे फलविशेष एव तात्पर्यम् । अतएव लिखितं महाफलेति एकमग्रेऽपि ज्ञेयम् । अत्र रोहिणीयोगेऽपि निशीथेऽर्द्धरात्रे अष्टमी महाफला । किञ्चेति पूर्वसमुचये । इन्दौ सोमवारे ज्ञे बुधवारे वा निशीथे रोहिण्याढ्याष्टमी यदा भवति तदा महाफलेत्यर्थः । अत्र च व्रतद्वयोदाहरणं द्रष्टव्यम् । यद्यपि तस्मिन् वचने निशीथयोगो न श्रूयते तथापि किं पुनर्नवमीयुक्तेत्यादि-कैमुतिकन्यायेन पृथगुक्तेनिशीथयोगे व्रतापेक्षया तद्दिने व्रते सति परदिने तिथिनक्षत्रवृद्धिसम्भवात् तिथिभान्ते च पारणम् इत्यस्यावकाशः स्यात् तच्चाग्रे पारणलिखने व्यक्तं भावि । अपिशब्दोऽपि पूर्वसमुच्चये । सोमे बुधे वा रोहिण्याष्टमी युक्ता चेद्भवति तदा च महाफलेत्यर्थः । अत्र च यद्यपि रात्रिशेषे नवमीयोगे सति निशीथयोगोऽपि घटते तथापि उदये चाष्टमी किञ्चिन्नवमी सकला यदि इति वचनापेक्षया निशीथयोगोऽत्र न प्रायेणादरणीयः । यदि च कदाचिन्निशीथे तत्तद्योगो वृत्तः नवमी च रात्रिशेषे स्यात्तदा संयोगविशेषो मन्तव्यः यतः केषाञ्चिन्मते किञ्चिदष्टमीवृद्धौ रोहिण्यां सत्यां नवमीदिन एव सत्तद्वारायोगे तत्तद्वचनवलान्महाफलतावगम्यते नान्यत्रेति । तच्च तिथिभान्ते च पारणम् इत्यस्यानवकाशान्नादरणीयमिति दिक् । एतच्चाशेषमग्रे लेख्य-तत्तद्वचनतः सविशेषं व्यक्तं भावि ॥३२८॥
अथ तत्र रोहिणीयुक्ता जन्माष्टमी
विष्णुरहस्ये—
**प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी । ** मुहूर्तमपि लभ्येत सैवोपोष्या महाफला ॥३२९॥
जन्माष्टमीदिने प्राप्ते येन भुक्तम् इत्येतत् तथा ये न कुर्वन्ति जानन्तः इत्यादीनि च नित्यतालिखने पूर्वं लिखितानि वचनान्येव केवलभाद्रकृष्णाष्टम्युपवासोदाहरणानि वर्तन्त एव इदानीं रोहिण्यादियोगवचनान्युदाहरणत्वेन लिखति—प्राजापत्येत्यादिना विशेषत इत्यन्तेन । नभसि—श्रावणे ॥३२९॥
**मुहूर्तमप्यहोरात्रे यस्मिन् युक्तन्तु लभ्यते । ** अष्टम्या रोहिणीऋक्षं तां सुपुण्यामुपावसेत् ॥३३०॥
अष्टम्या युक्तम् ॥३३०॥
किञ्च तत्रैव—
**अष्टमी कृष्णपक्षस्य रोहिणीऋक्षसंयुता । ** भवेत् प्रौष्ठपदे मासि जयन्ती नाम सा स्मृता ॥३३१॥
किञ्च या च रोहिणीयुक्ता सा जयन्ती नाम सैवोपवासादौ महाफलेत्यभिप्रायेण लिखति—अष्टमीत्यादि सार्द्धाष्टकेन । प्रौष्ठपदे—भाद्रे ॥३३१॥
विष्णुधर्मोत्तरे—
रोहिण्यऋक्षं यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम । **जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥३३२॥ ** **यद्बाल्ये यच्च कौमारे यौवने वार्द्धके तथा । ** बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिः ॥३३३॥
स्कान्दे—
**प्राजापत्येन संयुक्ता अष्टमो तु यदा भवेत् । ** श्रावणे बहुले पक्षे सर्वपापप्रणाशिनी ॥३३४॥ **जयं पुण्यञ्च कुरुते जयन्तीं तेन तां विदुः ॥३३५॥ **
विष्णुपुराणे—
**कृष्णाष्टम्यां भवेद्यत्र कलैका रोहिणी नृप । ** **जयन्ती नाम सा ज्ञेया उपोष्या सा प्रयत्नतः ॥३३६॥ ** सप्तजन्मकृतं पापं राजन् यस्त्रिविधं नृणाम् ॥ **तत् फालयति गोविन्दस्तिथौ तस्यान्तु भावितः ॥३३७॥ **
त्रिविधं कायिकादिभेदेन पातकोपपातकादिभेदेन वा । भावितः पूजितो ध्यातोऽपि वा ॥३३७॥
**उपवासश्च तत्रोक्तो महापातकनाशनः । ** **जयन्त्यां जगतीपाल विधिनात्र न संशयः ॥३३८॥ **
विधिना उपवासः ॥३३८॥
**त्रेतायां द्वापरे चैव राजन् कृतयुगे तथा । ** **रोहिणीसंयुता चेयं विद्वद्भिः समुपोषिता ॥३३९॥ **
अग्निपुराणे—
**अर्द्धरात्रादधश्चोर्धं कलया वा यदा भवेत् । ** जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी ॥३४०॥
अथ अर्द्धरात्रयुता जन्माष्टमी
भविष्यविष्णुधर्मयोः—
रोहिण्यामर्द्धरात्रे च यदा कृष्णाष्टमी भवेत् । **तस्यामभ्यर्चनं शौरे हन्ति पापं त्रिजन्मजम् ॥३४१॥ **
नन्वष्टम्या रोहिणीयोगः कदा ग्राह्यः इत्यपेक्षायां लिखति—अर्द्धेति । अधः परस्तात् ऊर्ध्वं वा पूर्वं कलामात्रेणापि योगो यदा भवेत् अत्र च योगमात्रे तात्पर्यं न त्वर्द्धराज्ञे । तथा विवक्षायाञ्चायं श्लोकोऽर्द्धरात्रयोगप्रकरणे द्रष्टव्यः ॥३४०-३४१॥
**प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी । ** सोपवासो हरेः पूजां तत्र कृत्वा न सीदति । अर्द्धरात्रे च योगोऽयं तारापत्यदये सति ॥३४२॥
किञ्च—
रोहिणी-सहिता कृष्णा मासि भाद्रपदेऽष्टमी । **अर्द्धरात्रादधश्चोर्द्ध्वं कलयापि यदा भवेत् ॥३४३॥ ** **तत्र जातो जगन्नाथः कौस्तुभी हरिरव्ययः । ** तमेवोपवसेत् कालं कुर्यात् तत्रैव जागरम् ॥३४४॥ जयन्ती नाम सा रात्रिस्तत्र जातो जनार्दनः । **नियतात्मा शुचिः स्नात्वा पूजां तत्र प्रवर्तयेत् ॥३४५॥ **
वह्निपुराणे—
**समयोगे तु रोहिण्या निशीथे राजसत्तम । ** समजायत गोविन्दो बालरूपी चतुर्भुजः । **तस्मात्तं पूजयेत्तत्र यथावित्तानुसारतः ॥३४६॥ **
समयोग इति निशीथमात्रव्यापिनी रोहिणी चाष्टमी चेति बोधयति । अतएव शुद्धेति पर्यवस्यति ॥३४६॥
भविष्योत्तरे—
**मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्द्धरात्रके । ** शशाङ्के वृषराशिस्थे प्राजापत्यर्क्षसंयुते । **उपोषितोऽर्चयेत् कृष्णं यशोदां देवकीन्तथा ॥३४७॥ **
किञ्च—
**मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्षके । ** शशाङ्के वृषराशिस्थे ऋक्षे रोहिणीसञ्ज्ञके । योगेऽस्मिन् वसूदेवाद्धि देवी देवमजीजनत् ॥३४८॥ **तस्मात् सम्पूजयेदत्र शुचिः सम्यगुपोषितः ॥३४९॥ **
पाद्मे—
**प्रेतयोनिं गतानान्तु प्रेतत्वं नाशितं नरैः । ** यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥३५०॥ **किं पुनर्बुधवारेण सोमेनापि विशेषतः । ** **किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥३५१॥ **
स्कान्दे—
**उदये चाष्टमी किञ्चिन्नवमी सकला यदि । ** भवते बुधसंयुक्ता प्राजापत्यर्क्षसंयुता । अपि वर्षशतेनापि लभ्यते वा न वा विभो ॥३५२॥
लभ्यते वा न वेति परमदौर्लभ्योक्त्याऽस्य योगस्य महामहिमाभिप्रेतः ॥३५२॥
भविष्ये च—
नवम्यां योगनिद्राया जन्माष्टम्यां हरेस्ततः । **नवम्या सहितोपोष्या रोहिणी बुधसंयुता ॥३५३॥ इति । ** **इन्दुः पूर्वेऽहनि ज्ञे वा परे चेद्रोहिणीयुता । ** केवला चाष्टमी वृद्धा सोपोष्या नवमीयुता ॥३५४॥
तथा च पाद्मे—
**मुहूर्तेनापि संयुक्ता सम्पूर्णा चाष्टमी भवेत् । ** किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥३५५॥
सूतोक्तौ च—
**मासि भाद्रपदे कृष्णा अष्टमो नवमी भवेत् । ** पूज्याष्टमी ततः पुम्भिः स्त्रीभिश्चापि विशेषतः ॥३५६॥ **रोहिण्यादेर्व्युक्तापि सोपोष्या केवलाष्टमी । ** **तत्तद्योगस्तु वैशिष्ट्ये व्रतलोपोऽन्यथा भवेत् ॥३५७॥ **
नन्वेव रोहिण्यर्द्धरात्रादियोगापेक्षया कदाचिद्विद्धोपवासप्रसङ्गः स्यात् तथा तत्तद्योगाभावे व्रतलोपप्रसङ्गोऽपि भवेत् तच्चायुक्तमग्रे विद्धावर्जनात् तथा व्रतस्य नित्यत्वाच्च । सत्यं तत्तद्योगश्च फलविशेषार्थ एव ज्ञेयः न तु व्रतेऽवश्यमपेक्षणीयः अतस्तद्योगाभावेऽपि केवलाष्टम्यामेव व्रतं विधेयमिति लिखति—रोहिण्यादीति । आदि-शब्देन अर्द्धरात्र-नवम्यादि सा भाद्रमासस्य कृष्णपक्षीया विशिष्टनिमित्ते फलविशेषार्थमेवेत्यर्थः । एवञ्च रोहिण्यर्द्ध रात्रादियोगानामवश्यापेक्षत्वाभावाद्विद्धावर्जनमपि सिद्धमेव ॥३५७॥
**इत्थं शुद्धैव लिखिता योगाद्बहुविधाष्टमी । ** त्याज्या विद्धा च सप्तम्या सा विद्धैकादशी यथा ॥३५८॥
एतदेवाभिव्यञ्जयन् विद्धाव्रतं त्याजयति—इत्थमिति । योगादिति रोहिण्यादियोगभेदेन बहुविधाऽपि जन्माष्टमीयं शुद्धैव सप्तमीवेधवर्जितैव लिखिता न तु रोहिण्यादियोगापेक्षया विद्धेत्यर्थः । अतो विशुद्धायामेव सत्यां तत्तद्योग आदरणीयः न तु विद्धायामिति भावः यतो विद्धा सर्वथैव त्याज्येति । सा जन्माष्टमी च सप्तम्या विद्धा सती त्याज्यैव तत्र वैष्णवानां सर्वथा सर्वत्र विद्धात्यागं दृष्टान्तेन स्मारयति—विद्धेति । एतच्चैकादशीप्रकरणे स्पष्टं लिखितमेव ॥३५८॥
अथ सप्तमीविद्धजन्माष्टमीनिषेधः
ब्रह्मवैवर्ते—
**वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी । ** **सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ॥३५९॥ **
पाद्मे—
**पञ्चगव्यं यथा शुद्धं न ग्राह्यं मद्यसंयुतम् । ** रविविद्धा तथा त्याज्या रोहिणीसहिता यदि ॥३६०॥
रविः सप्तमी यद्यपि रोहिणीसहिता ॥३६०॥
**पूर्वविद्धा यथा नन्दा वर्जिता श्रवणान्विता । ** तथाष्टमीं पूर्वविद्धां सऋक्षाञ्च विवर्जयेत् ॥३६१॥
नन्दा एकादशी श्रवणान्वितापि । अत्र च यथाशब्दबलात् केचिदेवं मन्यन्ते—रुणोदये दशम्या विद्धा यथैकादशी वर्जिता तथा अरुणोदये सप्तम्या विद्धा जन्माष्टम्यपि त्याज्या । अतो रोहिणीं विनापि नवम्येवोपोष्या । अतएवोक्तं स्कान्दे—जन्माष्टमीं पूर्वविद्धां सऋक्षां सकलामपि । विहाय शुद्धां नवमीमुपोष्य व्रतमाचरेत् ॥ इत्यादि । अनेनाभिप्रायेणैव पाद्म-स्कान्दादौ नवमीयुतापीति अष्टम्युतवासस्य प्राशस्त्यमुक्तमिति तच्च न सुसङ्गतम् । एकादशीतराशेषतिथीनां रव्युदयतः प्रवृत्तानामेव सम्पूर्णत्वेनारुणोदयवेधासिद्धेः । तच्च पूर्वं सम्पूर्णलक्षणे लिखितमेव ॥३६१॥
**वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी । ** विना ऋक्षेण कर्तव्या नवमीसंयुताष्टमी ॥३६२॥ **अविद्धायां सऋक्षायां जातो देवकिनन्दनः ॥३६३॥ ** **वासरे वा निशार्द्धे वा सप्तम्याञ्च यदाष्टमी । ** पूर्वमिश्रा तदा त्याज्या प्राजापत्यर्क्षसंयुता ॥३६४॥
पाद्मे—
**जन्माष्टमीं पूर्वविद्धां सऋक्षां सकलामपि । ** **विहाय नवमिं शुद्धामुपोष्य व्रतमाचरेत् ॥३६५॥ **
अप्यर्थे चकारः । सऋक्षां रोहिणीसहितामपि ॥३६४-३६५॥
**सकलापि सऋक्षापि नवमीसंयुतापि च । ** **जन्माष्टमी पूर्वविद्धा न कर्तव्या कदाचन ॥३६६॥ ** **पलवेधे तु विप्रेन्द्र सप्तम्या चाष्टमीं त्यजेत् । ** सुराया विन्दुना स्पृष्टं गङ्गाम्भःकलसं यथा ॥३६७॥ **विना ऋक्षेण कर्तव्या नवमी-संयुताष्टमी । ** **सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ॥३६८॥ **
प्राजापत्यर्क्षसयुतापि नवमीसंयुतापि नवमीसंयुतापीत्यष्टमीक्षयाभिप्रायेण ॥३६८॥
**तस्मात् सर्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः । ** **वेधे पुण्यक्षयं याति तमः सूर्योदये यथा ॥३६९॥ **
अशुभम्—वेधलक्षणम् ॥३६९॥
याज्ञवल्क्यस्मृतौ—
सम्पूर्णा चार्द्धरात्रे तु रोहिणी यदि लभ्यते । **कर्तव्या सा प्रयत्नेन पूर्वविद्धां विवर्जयेत् ॥३७०॥ इति । ** **यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् । ** **अवैष्णवपरं तच्च कृतं तद्देवमायया ॥३७१॥ **
एवं जन्माष्टमी सर्वथा शर्द्धैव कर्तव्या न तु कथञ्चिद्विद्धेति निश्चितम् । तत्र यानि विद्धाव्रतपराणि वचनानि वर्तन्ते तथा च वह्निपुराणे—सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि । भविता चाष्टमी पुण्या यावच्चन्द्रदिवाकरौ ॥ इति अग्निपुराणे—तस्मात कृष्णाष्टमी पूज्या सप्तम्यां नृपसत्तम । रोहिणीसंयुतोपोष्या सर्वाघौघविनाशिनी ॥ पाद्मे—कार्या विद्धापि सप्तम्या रोहिणीसहिताष्टमी । तत्रोपवासं कुर्वीत तिथिभान्ते च पारणम् ॥ इति विष्णुधर्मोत्तरे च—जयन्ती शिवरात्रिश्च कार्ये भद्रजयन्विते । कृत्वोपवासं तिथ्यन्ते तथा कुर्वीत पारणम् ॥ इत्यादीनि । तानि विषयभेदव्यवस्थापनादिना परिहरति—यच्चेति । यच्चेति । अवैष्णवाः वैष्णवेतराः शैवसौरादयस्तत्परं तद्विषयकं सर्वत्रैकादशी रामनवमी नृसिंहचतुर्दश्यादौ वैष्णवानां विद्धावर्जनात् । नन्वत्र विद्धावर्जनवचनेषु वैष्णव-शब्दो न प्रयुक्तः दोषाश्च बहवः श्रूयन्ते अतः सर्वेषामेव सामान्यतो विद्धावर्जनं युक्तमित्यतः पक्षान्तरं लिखति—कृतं वेति ॥३७०-३७१॥
तथा च स्कान्दे—
**पुरा देवैरृषिगणैः स्वपदच्युतिशङ्कया । ** सप्तमीवेधजालेन गोपितं ह्यष्टमीव्रतम् ॥३७२॥
ऋषिगणैः कृत्वा एवञ्च सति विद्धावर्जनवचनानां स्थानं कल्पयित्वा विद्धाव्रतं ये व्यवस्थापयन्ति तेऽपि देवमायाविमोहिता इति ज्ञेयम् यतो वक्तृभेदेन पुराणादिभेदेन च पृथक् पृथग्वर्तमानानि तत्तद्वचनानि कथमेकाधिकारिपरतां लभन्ताम् अतो विषयभेदव्यवस्थैव युक्तेति दिक् ॥३७२॥
**इयं प्रामाणिकैः कृष्णदेवाचार्यादिवैष्णवैः । ** व्यवस्थान्या च निर्णीता लिखिताचारतः सताम् ॥३७३॥
एतादृशी च व्यवस्था न मया निजबुद्ध्यैव कल्पितास्ति किन्तु सर्वशास्त्रवेदिपुरातनवैष्णववरलिखितपद्धत्यादिदृष्ट्यैवात्र निबद्धेति लिखति—इयमिति । जन्माष्टमीव्रतविषया प्रामाणिकैः सर्वलोकादरणीयैराप्ततमैरित्यर्थः । अन्या च शिवरात्र्यादिव्रतविषया निर्णीता वर्तते किन्तु मया सतामाचारतः सतां शास्त्रानुवर्तिनां वैष्णवानामाचारतः आचारदृष्ट्या निर्णीतेत्यन्वयः । यद्वा केवलं तत्तत्पद्धतिग्रन्थदृष्टया लिखिता किन्तु सतामाचारतश्चेति मध्यदेशीयानां वैष्णवानां विद्धावर्जननियमेन प्रायः परदिने व्रताचरणात् । एवं श्रीवैष्णववर्गसम्मतैवात्र ग्रन्थे व्यवस्था लिख्यते न तु वैष्णवेतर-स्मृतिपर-जनकल्पितेति भावः । इत्थञ्च उदये चाष्टमी किञ्चित् इति वचनं पूर्वदिने सप्तमीवेधे रोहिण्यभावे वा सत्येव परदिने व्रतमिति । तथा प्रेतयोनिगतानां त्वित्यादि च रात्रिशेषे नवमीयुतत्वविषयं एवमेव मुहूर्तेनापीति द्वयञ्च । तथा शिवरात्रौ विद्धात्यागवचनद्वयञ्च पूर्वदिने चतुर्दश्याः प्रदोषव्याप्त्यादाविति । तथा चाग्रे लेख्यश्रवणद्वादशीव्रतविषयिका वैष्णवेतरस्मार्तसम्मता सर्वा व्यवस्था निरस्तेति दिक् । अलमतिविस्तरेण ॥३७३॥
**शुद्धा च रोहिणीयुक्ता पूर्वऽहनि परत्र च । ** **अष्टम्युपोष्या पूर्वैव तिथिभान्ते च पारणम् ॥३७४॥ **
ननु तर्हि तिथिभान्ते च पारणमित्यस्य सर्वत्र प्रसिद्धस्य वाक्यस्य का गतिरस्तु शुद्धोपवासे सति परदिनेऽष्टमीनिष्क्रमासम्भवात् । तत्र लिखति—शुद्धा चेति । यदा तिथिवृद्धिक्रमेणाष्टमी रोहिणी च साम्येन पूर्वदिनं व्याप्य परदिने निष्क्रमेत् तदा पूर्वदिने व्रतं कृत्वा परदिनेऽष्टमीरोहिण्योरन्ते सति पारणं कार्यमित्यर्थः यद्यपि उदये चाष्टमी किञ्चिन्नवमी सकला यदि इति वचनबलात् परस्मिन्नेव दिने व्रतमापद्येत तथापि बुधे सोमे वा शुद्धाऽष्टम्यामर्द्धरात्रे रोहिणीप्राप्त्या योगबाहुल्यापेक्षातस्तथा शुद्धाष्टमीपरित्यागवचनाश्रवणाच्च पूर्वस्मिन्नेव दिने व्रतमुपयुक्तम् । एवञ्च पूर्वदिनेऽर्द्धरात्रे रोहिण्यभावे नवम्यामेव रोहिणीयोगे च परस्मिन्नेव दिने व्रतं ज्ञेयम् । अतएव प्राजापत्यर्क्षसंयुक्ता नवमी सकला यदि इत्युक्तम् अन्यथा तत्तद्योगप्रशस्त शुद्धाष्टमीत्यागापत्तेः । यद्वा भवते बुधवारेण इत्याद्युत्तेर्बुधसोमवारयोरेकतरेण योगे सति सम्पूर्णामपि शुद्धामप्यर्द्धरात्रे रोहिणीयुक्तामप्यष्टमीं पूर्वां परित्यज्य तत्तद्वचनबलादुत्तरैवोपोष्या अन्यथा तु पूर्वैव । तदानीमेव तिथिभान्ते च पारणम् इति । केचिच्च वैष्णवा मुहूर्तनापि इति पद्यद्वयादरेण तत्तद्वाररोहिण्यभावेऽपि द्वादशीनिर्गमवत् परस्मिन्नेव दिने व्रतमिच्छन्ति तिथिभान्ते च पारणम् इत्यादिकञ्च वैष्णवविषयमिति मन्यन्ते । अत्र सम्प्रदायाचार एव गतिरिति दिक् ॥३७४॥
केवलकृष्णोपासनाशास्त्रे गौतमीयतन्त्रे तन्त्रदीक्षामुद्दिश्य यथोक्तम्—
अथ भाद्रासिताष्टम्यां प्रादुरासीत् स्वयं हरिः । **ब्रह्मणा प्रार्थितः पूर्वं देवक्यां कृपया विभुः ॥३७५॥ ** **रोहिणृयक्षे शुभतिथौ दैत्यानां नाशहेतवे । ** **महोत्सवं प्रकुर्वीत यत्नतस्तद्दिने शुभे ॥३७६॥ ** **राजन्यैर्ब्राह्मणैवैश्यः शूद्रैश्चैव स्वशक्तितः । ** **उपवासः प्रकर्तव्यो न भोक्तव्यं कदाचन ॥३७७॥ ** **कृष्णजन्मदिने यस्तु भुङ्क्ते स तु नराधमः । ** निवसेन्नरके घोरे यावदाहूतसम्प्लवम् ॥३७८॥ **अष्टमी रोहिणीयुक्ता चार्द्धरात्रं यदा स्पृशेत् । ** **उपोष्य तां तिथिं विद्वान् कोटियज्ञफलं लभेत् ॥३७९॥ ** **सोमाह्नि बुधवारे वा चाष्टमी रोहिणीयुता । ** **जयन्तो नाम सा ख्याता तां लभेत् पुण्यसञ्चयैः ॥३८०॥ ** **तस्यामुपोष्य यत् पापं लोकः कोटिभवोद्भवम् । ** **विमुच्य निवसेद्विप्र वैकुण्ठे विरजे पुरे ॥३८१॥ ** **अष्टमी नवमी-विद्धा उमामाहेश्वरी तिथिः । ** **सैवोपोष्या सदा पुण्यकाङ्क्षिभी रोहिणीं विना ॥३८२॥ ** परविद्धा सदा कार्या पूर्वविद्धान्तु वर्जयेत् । **अष्टमी सप्तमीविद्धा हन्यात् पुण्यं पुराकृतम् ॥३८३॥ ** **ब्रह्महत्याफलं दद्याद्धरिवैमुख्यकारणात् । ** केवलस्त्वर्क्षयोगेन उपवासस्तिथिं विना । **न यच्छति शुभं कार्यं मुनिभिः परिकीर्तितम् ॥३८४॥ ** **परेऽह्नि पारणं कुर्यात् तिथ्यन्ते वाथ ऋक्षतः ॥३८५॥ ** **यदृक्षं वा तिथिर्वापि रात्रिं व्याप्य व्यवस्थिता । ** **दिवसे पारणं कुर्यादन्यथा पतनं भवेत् ॥३८६॥ इति । ** उमामाहेश्वरी तिथिः ॥३८७॥ इति तत्सञ्ज्ञेत्यर्थः ।
अत्र कारणम्
यथोक्तं भोजराजीये—
**अष्टम्यां पूजयेच्छम्भुं नवम्यां शक्तिरिज्यते । ** तयोर्योगे तु सम्प्राप्ते द्वयोः पूजा महाफला ॥३८८॥ इति । **अत्र केवलमित्यादावुमामाहेश्वरी तिथिः । ** तिथिः प्रोक्ता सैव यस्मादुपोष्यत्वेन निश्चिता ॥३८९॥ **अपिशब्दश्च तत्र स्याद्यदुक्तं रोहिणीं विना । ** तस्मादत्रापि सप्तम्या विद्धाष्टम्येव वर्जिता ॥३९०॥ **यद्दृक्षञ्चेति यद्वाक्यं तत्तु सामान्यतद्युतौ । ** **प्रसङ्गादुक्तमस्मिन् हि विद्धा त्यक्तैव साग्रहम् ॥३९१॥ श्रुतिलिङ्गादिकन्यायाच्छ्रुतेरेव हि मुख्यता । ** तदेवमाष्टमीहानौ व्रतलोपः प्रसज्यते । **तन्निरस्तं पूर्वमेव स्कान्दवाक्यानुसारतः ॥३९२॥ ** **जन्माष्टमी पूर्वविद्धामित्याद्यं यदुदीरितम् । ** नृसिंहपरिचर्यायां दृष्टान्ताश्च प्रदर्शिताः ॥३९३॥ **दशमीवेधयोगेन शुद्धं हि द्वादशीव्रतम् । ** सप्तम्यवेधवेधोक्तिव्यवस्था या कृता परैः । निरस्ता सा पुरा देवैरित्यादि-वचसो बलात् ॥३९४॥ **वैष्णवावष्णवद्वैधाद्व्यस्थैव तदर्हति ॥३९५॥ **
यत उक्तमाग्नेयविष्णुधर्मयोः—
**द्वौ भूतसर्गौ लोकेऽस्मिन् देव आसुर एव च । ** विष्णुभक्तिपरो दैव आसुरस्तद्विपर्ययः ॥३९६॥
अथ जन्माष्टमीपारणकालनिर्णयः **शुद्धायाः केवलायाश्चाष्टमीवृद्धौ तु पारणम् । ** तिथ्यन्ते भेऽधिके भान्ते द्विवृद्धौ चेकभेदतः ॥३९७॥
तथा च वह्निपुराणे—
**भान्ते कुर्यात् तिथेर्वापि शस्तं भारत पारणम् ॥३९८॥ **
किञ्च—
**रोहिणीसंयुता चेयं विद्वद्भिः समुपोषिता । ** **वियोगे पारणं कुर्युर्मुनयो ब्रह्मवादिनः ॥३९९॥ ** **सांयौगिके तु सम्प्राप्ते यत्रकोऽपि वियुज्यते । ** **तत्रैव पारणं कुर्यादेवं वेदविदो विदुः ॥४००॥ **
शुद्धायाः सप्तमीवेधरहितायाः केवलाया एकाकिन्याः रोहिणीं विनाभूताया इत्यर्थः । वृद्धौ सत्यां तिथेरष्ठम्या अन्ते विच्छेदे सति पारणम् भे च रोहिणीनक्षत्रे केवले अधिके वृद्धे सति तस्य रोहिणीनक्षत्रस्यान्ते पारणम् । द्वयोश्च तिथिनक्षत्रयोवृद्धौ सत्यामेकस्य तयोर्मध्ये तिर्थेनक्षत्रस्य वा कस्यचिद्भेदतश्छेदे सति पारणं कार्यमित्यर्थः । पूर्वन्तु तिथिभान्ते च पारणम् इति यल्लिखितं तच्च द्वयोरेव साम्येन वृद्ध्यभिप्रायेण किंवा अग्रे लेख्यपक्षान्तरादरेणेति ज्ञेयम् । सांयौगिके व्रते इत्यनेन संयोगापेक्षया अष्टम्यां संयोगाभावे रोहिण्यामपि पारणं कार्यमेव ॥३९७-४००॥
**यद्वा तिथ्यृक्षयोरेव द्वयोरन्ते तु पारणम् । ** **समर्थानामशक्तानां द्वयोरेकवियोगतः ॥४०१॥ **
अथवा द्वयोरेवान्ते पारणमिति केषाञ्चिन्मतमङ्गीकृत्याधिकारिभेदेन व्यवस्थापयन् पक्षान्तरं लिखति—यद्वेति । समर्थानामुपवासद्वयशक्तानां द्वयोरेवान्ते पारणम् अशक्तानान्तु द्वयोर्मध्य एकविच्छेद एव पारणम् ।
॥४०१॥
अतएवोक्तं याज्ञवल्क्येन—
**याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रसंयुताः । ** ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणी ॥४०२॥
तासु च ऋक्षान्ते सत्येव पारणं कुर्यान्न तु तिथ्यन्तमपेक्षते इत्यर्थः । विना श्रवणरोहिणीम् इति श्रवणद्वादश्यां रोहिण्यष्टम्याञ्च ऋक्षान्ते तिथ्यन्ते च सति पारणं कुर्यात् न तु केवल ऋक्षान्त इत्यर्थः । कुर्यादित्यत्र तासामिति क्वचित् पाठः अर्थस्तु तथैव । भाद्रे श्रवणद्वादश्यां श्रीवामनप्रादुर्भावापेक्षया श्रवणान्तेऽपि न पारणं किन्तु तदहोरात्रान्त एव अतएव समर्थानां तत्रोपवासद्वयम् । एतच्चाग्रे व्यक्तं भावि । केचिच्चैवं व्याचक्षते—तासु ऋक्षान्त एव पारणं श्रवणरोहिण्योस्तु तिथ्यन्त एव पारणं न त्वेतयोः ऋक्षान्तोऽपेक्षणीय इति । एवञ्च श्रवणद्वादशीव्रते पारणाया द्वादश्यतिक्रमदोषोऽप्येतद्विशेषवचनबलात् सोढव्यः । यद्वा तिथ्यन्तरश्रवणव्रते एवं ज्ञेयमिति दिक् ॥४०२॥
अतएव ब्रह्मवैवर्त—
अष्टम्यामथ रोहिण्यां न कुर्यात् पारणं क्वचित् । हन्यात् पुराकृतं कर्म उपवासार्जितं फलम् ॥४०३॥
यतो हन्यात् पारणमेव कर्तुः ॥४०३॥
**तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् । ** तस्मात् प्रयत्नतः कुर्यात्तिथिभान्ते च पारणम् ॥४०४॥ **केचिच्च भगवज्जन्ममहोत्सवदिने शुभे । ** भक्त्योत्सवान्ते कुर्वन्ति वैष्णवा व्रतपारणम् ॥४०५॥
तथाचोक्तं गारुडे—
**तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्वीत पारणम् ॥४०६॥ **
उत्सवान्ते अधिकाधिकभोगनृत्यकीर्तनादिना पूजाविशेषे वैष्णवकूलसम्माननविशेषे च समाप्ते सति । अत्र च शुभे परमोत्तमे महोत्सवदिने इति कायक्लेशायोग्यता सूचिता । तथा भक्त्येति नित्योच्छिष्टमहाप्रसादभोजननियमदास्य-विशेषोपेक्षया इति हेतुविशेषश्च दर्शित इति दिक् ॥४०४-४०६॥
वायुपुराणे च—
**यदीच्छेत् सर्वपापानि हन्तुं निरवशेषतः । ** **उत्सवान्ते सदा विप्र जगन्नाथान्नमाशयेत् ॥४०७॥ इति । **
आशयेदश्नीयात् ॥४०७॥
अथ जन्माष्टमीव्रतविधिः
**व्रतसाधारणत्वाच्च सप्तम्यादि-दिनत्रये । ** कर्तव्या नियमाः सर्वे दशम्यादिदिनेष्विव ॥४०८॥
तत्रादौ व्रतसाधारणान् नियमानतिदिशति—व्रतेति । सप्तम्यादि-दिनत्रयं संयमदिनमुपवासदिनं पारणदिनञ्च तस्मिन् दशम्यादिदिनेष्विव यथा दशम्येकादशीद्वादशीदिनत्रये तथा सर्वे नियमाः कर्तव्या । दशम्यादिविहिता अपि ते ते नियमाः सर्वव्रतसाधारणत्वादत्र सप्तम्यादिष्वपि कर्तव्या इत्यर्थः । ते च पूर्वमेकादशीव्रतप्रकरणे लिखिता एव सन्ति । तैलमत्यम्बुपानञ्च इत्यादि-दशमीनियमाः । असकृज्जलपानाच्च इत्याद्येकादशीनियमाः कांस्यामिषे सुरां क्षौद्रम् इत्यादि-द्वादशीनियमाः । अतएव भविष्योत्तरे—उपावृत्तस्य पापेभ्यः इत्यादि । तच्चाग्रे लेख्यमेव ॥४०८॥
अथ विधिविशेषः
भविष्योत्तरे श्रीयुधिष्ठिर उवाच—
**तद्व्रतं कीदृशं देव लोकैः सर्वैरनुष्ठितम् । ** **जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम ॥४०९॥ ** **तेन त्वं तुष्टिमायासि लोकानां प्रभवाव्यय । ** **एतन्मे भगवन् ब्रूहि प्रासादान्मधुसूदन ॥४१०॥ **
श्रीकृष्ण उवाच—
**पार्थ तद्दिवसे प्राप्ते दन्तधावनपूर्वकम् । ** **उपवासस्य नियमं गृह्णीयाद्यतमानसः ॥४११॥ ** **एकेनैवोपवासेन कृतेन कुरुनन्दन । ** **सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ॥४१२॥ **
एवं सर्वव्रतसाधारणविधिमुल्लिख्याधुनात्र विशेषं लिखति—एकेनेत्यादिना । सप्तम्यामेकभक्तानन्तरं दन्तधावनपूर्वक सङ्कल्पं कुर्यात् अथवाष्टम्यां प्रातः कुर्यात् ॥४१२॥
**उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । ** उपवासः स विज्ञेयो नोपवासस्तु लङ्घनम् ॥४१३॥
अथ तत्र मन्त्रः **अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः । ** भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥४१४॥
तत्राष्टमी प्रातः सङ्कल्पमन्त्रं लिखति— अद्येति । यद्यपि सङ्कल्पमन्त्रे श्वोभूते परमेश्वर इत्यादि पाठः क्वचिद्दृश्यते तथापि सर्वेभोगविवर्जितः इत्यादि-भविष्योत्तरोक्तपाठोऽत्र लिखतिः । पाठान्तरे देवकीपुत्र इत्यादि-विशेषनिर्देशेन शिष्टगणादृतत्वात् । भविष्योत्तरे च श्रीयुधिष्ठिरं प्रति श्रीभगवता स्वयन्तथा नोक्तं परमलज्जागुणशीलत्वात् एवमन्यत्राप्यूह्यम् ॥४१४॥
**ततः स्नात्वा तु मध्याह्ने नद्यादौ विमले जले । ** देवक्याः शोभनं कुर्यात् सुगुप्तं सूतिकागृहम् ॥४१५॥
अथ सूतिकागृह-निर्माणविधिः **पद्मरागैः पटैर्नेत्रैर्मण्डितं चर्चितं शुभैः । ** **रम्यं वन्दनमालाभी रक्षामणिविभूषितम् ॥४१६॥ ** **सर्वं गोकुलवत् कार्यं गोपीजनसमाकुलम् । ** घण्टामर्दलसङ्गीतं माङ्गल्यकलसान्वितम् ॥४१७॥ यवाद्रस्वस्तिकाब्जाद्यैः शङ्कवादित्रसङ्कुलम् । बन्धकरीलोहखड्गैर्दीपछागसमन्वितम् ॥४१८॥ **मन्थानवारियूपैश्च भूतिसर्षपवह्निभिः । ** **द्वारि विन्यस्तमूषलं रक्षितं रक्षपालकैः ॥४१९॥ ** **षष्ठ्या देव्याश्च तत्रैव विधानं विधिवत्तथा । ** एवम्विधं यथाशक्ति कर्तव्यं सूतिकागृहम् ॥४२०॥ **तन्मध्ये प्रतिमा स्थाप्या सा चाप्यष्टविधा स्मृता । ** काञ्चनी राजती ताम्री पैत्तली मृन्मयी तथा । **वार्क्षी मणिमयी चैव वर्णिका लिखताथवा ॥४२१॥ ** **सर्वलक्षणसम्पन्ना पर्यङ्के चार्द्धसुप्तिका । ** **प्रतप्तकाञ्चनाभासा कृता सा तु तपस्विनी । ** प्रसूता च प्रस्नुता च तत्क्षणाच्च प्रहर्षिता ॥४२२॥
अथ लोके जन्मतिथिकृत्यवत् प्रातः श्रीभगवतोऽपि तिलस्नपनादिकं लौकिकभक्तिरीत्यपेक्षया कार्यमिति लिखति—कुर्वीतेति । प्रभोः श्रीकृष्णस्य स्नपनादि तिलैः कृष्णः कुर्वीत आदि-शब्दादुद्वर्तनादि । तथा चोक्तम्—लिलोद्वर्तीं तिलस्नायी तिलहोता तिलप्रदः । तिलवापी तिलाशी च षड्तिली नावसीदति ॥ इति । अत्र शिष्टाचारानुसारेणाष्टोत्तरशतदूर्वाग्रादियुक्तेन सहस्रच्छिद्रघटेन धारया स्नपनादिकमपि ज्ञेयम् । सर्वं वस्त्रादिकञ्च नवमेव भगवते अर्पयेच्च । शिष्टाचारानुसारतः इति सर्वत्राग्रेऽप्यनुवर्तनीय सत्सम्प्रदायाचारानुसारेणैवात्राखिलविधिलिखनात् । शुभे तीर्थे श्रीकालिन्द्यादौ तत्रापि श्रीविश्रान्त्यादौ तदलाभे च अन्यत्र वा सज्जले पवित्रनिर्मलसलिले । तथा चाग्रे लेख्यं भविष्योत्तरवचनम्—नद्यादौ विमले जले इति । व्रती उपवासपरो जनः धात्रीफलं मूर्ध्नि दत्त्वा तेन मस्तकं सम्मृज्य शुभैः श्रीभगवतः स्नानाद्यवशिष्टैर्महाप्रसादरूपैः कृष्णैस्तिलैः कृत्वा स्नानं कुर्यात् । तथा च भविष्ये—उपोषितस्तु मध्याह्ने स्नात्वा कृष्णतिलैः शुभैः । धात्रीफलं शिरे दद्यान्महापुण्यविवृद्धये ॥ इति । यद्यपि तद्वचनमग्रे मूले स्वयमेव लेख्यं तथात्येतदत्र सुखार्थं लिखितम् एवमग्रेऽप्यूह्यम् । अन्यद्दृष्टदेवपूजादि सुदेशे शोभनप्रदेशे दिव्यं परमोत्तमं तत्प्रकारं दर्शयन् तदेव विशिनष्टि—विभूषितमिति द्वाभ्याम् । तोरणादिना चात्र वासोदर्पणपल्लवादिविरचितानि वन्दनमालेति ख्यातान्येव । आबद्धैर्वितानादिषु स्थाने स्थाने सम्यग्बद्धैः कलसादिभिश्च भूषितम् । यवदूर्वाम्बुजैः । आदि-शब्दान्मथनरज्जुस्वस्तिकादिभिश्चाढ्यं युक्तम् । द्वारि द्वारविन्यस्तैः शृङ्खलादिभिः संयुतम् । आदि-शब्दाच्चात्र पूर्वलिखितमार्कण्डेयपुराणादिवचनानुसारेण मथनदण्ड-दीप-जल यूप-भस्मसर्षप-निम्बफलानि ज्ञेयानि । तत्र सूतिकागृहे तद्भित्यादी गोपगापीजनावृत श्रीगोकुलं श्रीनन्दवासं विशेषतो लिखेन् । गेहस्य तस्यैव सूतिकागृहस्य सर्वतः सर्वदिक्षु तस्य सूतिकागृहस्य मध्ये सर्वतोभद्राख्यं मण्डलं विरचय तस्मिन् कुम्भं स्थापयेदित्यर्थः । तस्य घटस्योपरि हैमं स्वर्णनिर्मितं तदभावे वैणवञ्च पात्रं न्यस्येत् स्थापयेत् । भविष्यपुराणोक्तं तच्च पात्रं तिलपूरितम् इति ज्ञेयम् । पात्रपरिमाणञ्च देवीपुराणोक्तं पूर्वं लिखितमेवास्ति । तत् पात्रं तदुपरि देवकीं स्थापयेत् कथन्भूताम् स्वर्णेनान्येन रूप्यादिना कृतां निर्मिताम् स्वर्ङादिमानं चोक्तम्—सौवर्णी राजती ताम्री वृक्षजा मार्तिकी तथा । चित्रजा पिष्टलेपस्था निजवित्तानुसारतः । आ मासात् पलपर्यन्तं कर्तव्या शाठ्यवर्जितैः ॥ इति । तत्र देवकीप्रतिमामाह—सर्वेति सार्द्धेन । सर्वेण दिव्यस्त्रीलक्षणविशेषेण सम्पन्ना सम्पूर्णा । लक्षणं चाग्रे लेख्यलक्ष्मीप्रतिमानुसारेण ज्ञेयम् । अर्द्धसुप्तिकेति अर्द्धाङ्गेन सुप्तिकेत्यर्थः । एतच्च बालकस्तनदानार्थं शय्यायां कृता निर्मिता । पाठान्तरे मया सहेत्यस्य अर्द्धसुप्तिकेत्यनेन सम्बन्धः । तपस्विनी परमभाग्यवतीति पूर्वजन्मकृततपःस्मरणादेव । प्रस्तुता—क्षरितस्तनी ॥४१५-४२२॥
**माञ्चापि बालकं सुप्तं पर्यङ्के स्तनपायिनम् । ** **श्रीवत्सवक्षसं देवं नीलोत्पलदलप्रभम् ॥४२३॥ ** **शङ्खचक्र-गदाशार्ङ्ग वनमालाविभूषितम् । ** चतुर्भुजं महःपूर्णं स्थापयेत्तत्र भक्तितः ॥४२४॥
निज-श्रीमूर्तिमाह—माञ्चेति द्वाभ्याम् । बालकं बालरूपं देवं द्योतमानं दिव्यरूपं वा । तदेवाह—शङ्खेति महःपूर्णं तेजःस्वरूपम् यद्वा महो ब्रह्म तत्स्वरूपं सच्चिदानन्दघनं मां भक्त्या तत्र तथा स्थापयेदित्यर्थः ॥४२३-४२४॥
**यशोदाञ्चापि तत्रैव प्रसूतवरकन्यकाम् ॥४२५॥ ** **तत्र देवा ग्रहा नागा यक्षविद्याधरोरगाः । ** प्रणताः पुष्पमालाभिर्व्यग्रहस्ताः सुरासुराः । सञ्चरन्त इवाकाशे प्रकारैर्मुदितोदितैः ॥४२६॥
तत्र सूतिकागृहे सुरासुरा इति पुनः सुरग्रहणं तेषां हर्षविशेषोदयात् । यद्वा सुस्वद्येऽसुरा असुरभावरहिता ये दैत्यास्ते श्रीप्रह्लादादयः । मुदितानि हर्षयुक्तानि उदितानि वचनानि येषु यद्वा मुदितानां ये उदिताः शास्त्राद्युक्ताः प्रकारा वेश व्यवहारादयस्तद्विशिष्टाः सन्तः आकाशे सञ्चरन्त इव देवादयः स्थाप्या इति शेषः । तादृश्यस्तत्तत्प्रतिमाः कार्याः पटादौ लेख्या इत्यर्थः ॥४२६॥
**वसुदेवोऽपि तत्रैव खड्गचर्मधर स्थितः ॥४२७॥ **
वसुदेवोऽपि खड्गचर्मधर कंसबधार्थमात्तखड्गचर्मा इव स्थितस्तत्रैव संस्थाप्यः । तादृशतत्प्रतिमा श्रीदेवकीनिकटे स्थापनीयेति ज्ञेयम् ॥४२७॥
**कश्यपो वसुदेवोऽयमदितिश्चापि देवकी । ** **शेषनागो हली चात्र यशोदादितिरेव च ॥४२८॥ **
श्रीवसुदेवादीनां ध्यानविशेषमाह—कश्यप इति सार्द्धद्वाभ्याम् । कालनेमिजः कालनेमेरवतार इत्यर्थः पाठान्तरं चिन्त्यम् । एवं गर्गकंसादयोऽपि प्रतिमाद्वारा लिखनेन वा स्थाप्या इति ज्ञेयम् ॥४२८॥
**नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः । ** **एषोऽवतारो राजेन्द्र कंसो वै कालनेमिजः ॥४२९॥ ** **तत्र कंसनियुक्ता ये दानवा विविधायुधाः । ** ते च प्राहरिका सर्वे सुप्ता निद्राविमोहिताः । **अरिष्टो धेनुकः केशी दानवाः शस्त्रपाणयः ॥४३०॥ **
प्राहरिकाः प्रहरिणः तानेव निर्दिशति—अरिष्ट इति । अन्ये च शस्त्रपाणयो दानवाश्चाणूरादयः ॥४३०॥
**नृत्यन्त्योऽप्सरसो हृष्टाः गन्धर्वा गीततत्पराः । ** लेखनीयश्च तत्रैव कालियो यमुनाह्रदे । नन्दगोपश्च गोपाश्च यशोदा च प्रसूतिका ॥४३१॥
नृत्यदप्सरादयश्च व्योम्नि लेख्याः तत्रैकदेशे यमुना लेखनीया तस्यां ह्रदस्तत्र च कालियोपरि श्रीकृष्णनृत्यादिसर्वव्रजसम्बन्धिलीलारूपादिप्रतिमा स्थाप्येति वेदितव्यम् । प्रसूतिका प्रसूतकन्यका यशोदायाः पुनरुक्तिस्तत्स्थापनेन श्रीनन्दादिस्थापनाभिप्रायेण प्राधान्यविशेषोपेक्षया वा द्वितीयान्तपाठे कृत्वेत्यनेन परेण सम्बन्धः । पाठान्तरे कन्यकालिखनेन तल्लेखो ज्ञेयः ततश्च प्रसूतिकामिति सद्यो जातामित्यर्थः ॥४३१॥
ततः पूजोपक्रमः
**रम्यामेवम्विधां कृत्वा देवकीं नवसूतिकाम् । ** **तां पार्थ पूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः ॥४३२॥ कुष्माण्डैर्नारिकेलैश्च खर्जूरैर्दाडिमीफलैः । ** वीजपूरैः पूगफलैर्नारङ्गैः पनसैस्तथा ॥४३३॥ **देशकालोद्भवमिष्टैः पुष्पैश्चापि सुगन्धिभिः । ** ध्यात्वावतारान् प्रागुक्तान् मन्त्रेणानेन पूजयेत् ॥४३४॥
अथ पूजामन्त्राः **अदितिर्देवमाता त्वं सर्वपापप्रणाशिनी । ** **अतस्त्वां पूजयिष्यामि भयभीतो भवस्य च ॥४३५॥ **
देवक्या नवसूतिकां नूतनसूतिकागृहं तां देवकीं गन्धादिभिर्भक्त्या पूजयेदिति द्वाभ्यामन्वयः । अवताराश्च बहुविधा लेख्यास्ततश्च अवतारं ध्यात्वा अदितिरूपां देवकीं विचिन्त्य अवतारानिति पाठे सर्वेषामेव तत्रैव तत्तत्पूजनार्थमेकत्रैव प्रसङ्गादुद्दिष्टमिति ज्ञेयम् । अदितिरित्यादिपूजामन्त्रः ॥४३२-४३५॥
**पूजितासि यदा देवैः प्रसन्ना त्वं वरानने । ** **तथा मे पूजिता भक्त्या प्रसादं कुरु सुव्रते ॥४३६॥ ** **यथा पुत्रं प्रियं लब्ध्वा प्राप्ता ते निर्वृतिः परा । ** तथा मे निर्वृतिं देवि सपुत्रा त्वं ददस्व मे ॥४३७॥ **गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणादिनादैर्भृङ्गारादर्शकूम्भप्रकरहृतकरैः किन्नरैः सेव्यमाना । ** पर्यङ्के त्वास्तृते या मुदिततरमुखी पृत्रिणी सम्यगास्ते **सा देवी देवमाता जयति सुवदना देवकी कान्तरूपा ॥४३८॥ पादावभ्यञ्जलन्ती श्रीर्देवक्याश्चरणान्तिके । ** निषण्णा पङ्कजे पूज्या नमो देव्यै श्रिये इति ॥४३९॥
पादौ श्रीभगवतः देवक्या एव वा अभ्यञ्जयन्ती श्रीर्गन्धादिभिः पूज्या । कथम्भूता देवक्याश्चरणान्तिके पङ्कजे निजासने निषण्णा उपविष्टा । तन्मन्त्रमाह—नम इति केचिच्चावाहनादिपूर्वकं लक्ष्मीपूजनमिदं श्रीदेवकीपूजनात् पूर्वमिच्छिन्ति ॥४३९॥
**अवतारसहस्रं व कृतं ते मधुसूदन । ** **न सङ्ख्यामवताराणां कश्चिज्जानाति वै भुवि ॥४४०॥ ** **ब्रह्मा शिवादयो वापि स्वरूपं न विदुस्तव । ** **अतस्त्वां पूजयाम्यद्य मातुरुत्सङ्गशायिनम् ॥४४१॥ **
निजपूजामन्त्रमाह—अवतारेति द्वाभ्याम् । न ते सङ्ख्यावताराणाम् इति पाठे विसर्गलोपेऽपि पुनः सन्धिः सङ्ख्यायाजानाति क्रियान्वयश्चान्यथा न स्यादिति भावः । अतः ब्रह्मादिभिरपि तव स्वरूपाज्ञानाद्धेतोः केवलमद्य मातुरुत्सङ्गशायिनमेव त्वां पूजयामीत्यर्थः । यद्वा यस्य स्वरूपं तेऽपि न विदुः तमद्य साक्षान्मातुरुत्सङ्गशायिन सन्तं पूजयामीत्यर्थः ॥४४०-४४१॥
**स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोऽन्तकैः । ** पूजयेयुर्द्विजाः सर्वे स्त्री-शूद्रा मन्त्रवर्जिताः ॥४४२॥
श्रीवसुदेवादीनां पूजामन्त्रमुद्दिशति—स्वनामभिरिति । तत्र प्रयोगः—ओं वसुदेवाय नमः इति । मन्त्रविवर्जिताः प्रणवरहिताः तत्तन्मन्त्रास्तैरप्रणवा उच्चारणीया इत्यर्थः । अत्र चानुक्तोऽपि विशेषतः पूजायाः क्रमो विधिश्च बहुलपुराणवचनाद्युक्तितः सम्प्रद्वायानुसाराच्चाग्रे लेख्य एव ॥४४२॥
**विध्यन्तरमपीच्छन्ति केचिदत्र द्विजोत्तमाः । ** चन्द्रोदये शशाङ्काय दद्यादर्घ्यं हरिं स्मरन् ॥४४३॥ **अनघं वामनं सौरिं वैकुण्ठं पुरुषोत्तमम् । ** **अपराजितं वासुदेवं माधवं मधुसूदनम् ॥४४४॥ **
क्वचिच्च यज्ञेश्वरायेत्यादि पाद्यादि-दीपान्तोपचारमन्त्रः विश्वेश्वरायेत्यादि नैवेद्यामन्त्रः धर्मेश्वरायेत्यादि शयनमन्त्र इति । अधुना तत्रैव मन्त्रादिभेदेन परमतमाह—विघ्यन्तरमिति । स्मरन् लघु लघु कीर्तयन् इत्यर्थः अग्रे अनघादिनामोक्तेः । स्मरणप्रकारमेवाह—अनघमिति ॥४४३-४४४॥
**वराहं पुण्डरीकाक्षं नृसिंहं धरणीधरम् । ** **दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥४४५॥ गोविन्दमच्युतं कृष्णमनन्तं पुरुषोत्तमम् । ** **अधोक्षजं जगद्वीज सर्गस्थित्यन्तकारणम् ॥४४६॥ ** **अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् । ** **नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥४४७॥ ** **पीताम्बरधरं नित्यं वनमालाविभूषितम् । ** **श्रीवत्साङ्कं जगत्सेतुं श्रीपतिं श्रीधरं हरिम् ॥४४८॥ देवकीगर्भसम्भूतं दैत्यसैन्यविनाशनम् । ** गृहाणार्ध्यमिदं देव गोविन्दाय नमो नमः ॥४४९॥
इत्यर्घ्यमन्त्रः ।
अथ स्नानमन्त्रः
योगेश्वराय योगसम्भवाय योगपतये गोविन्दाय नमो नमः ॥४५०॥ इति ।
अथ वस्त्रदानमन्त्रः
यज्ञेश्वराय यज्ञसम्भवाय यज्ञपतये गोविन्दाय नमो नमः ॥४५१॥ इति ।
अथ धूपदानमन्त्रः
विश्वेश्वराय विश्वसम्भवाय विश्वपतये गोविन्दाय नमो नमः ॥४५२॥
अथ नैवेद्यार्पणमन्त्रः धर्मेश्वराय धर्मसम्भवाय धर्मपतये गोविन्दाय नमो नमः ॥४५३॥
अथ चन्द्रार्घ्यदानमन्त्रः **क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । ** **गृहाणार्घ्यां शशाङ्केमं रोहिणीसहितो मम ॥४५४॥ ** **स्थण्डिले स्थापयेद्देवं शशाङ्कं रोहिणीन्तथा । ** **देवकीं वसुदेवञ्च यशोदां नन्दमेव च ॥४५५॥ **
स्थण्डिले मन्त्रसंस्कृतभूमौ स्थापयेत् आवाहनादिकं कृत्वाऽर्चयेदित्यर्थः ॥४५५॥
**बलभद्रं तथा गोपान् गोपीगोकुलमेव च । ** **एवं कृते न सन्देहो नरः पापात् प्रमुच्यते ॥४५६॥ ** **अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा । ** **ततो वर्द्धापनं षष्ठी नामादिकरणन्ततः ॥४५७॥ ** **कर्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने । ** यथा मम तथा कार्यो भगवत्या महोत्सवः ॥४५८॥
गुडसर्पिषा वसोर्धारां पातयेत् । वर्द्धापनं नाडीच्छेदनम् आदौ षष्ठीं सम्पूज्य पश्चान्नाडीच्छेदः कार्य इति सदावारतो ज्ञेयम् । ततः षष्ठीनिःसारणमित्यर्थः ततो नामकरणम् आदि-शब्दात् जातकमारभ्य कंसबधान्तं सर्वमेव चरितं यथाक्रममनुकर्तव्यमित्यर्थः । तच्च रात्रौ ततक्षणादेव कर्तव्यमिति वर्द्धापनवसुधारापातनाद्यभिप्रायेण भगवत्या श्रीदुर्गादेव्या महापूजा नवमीदिने प्रभाते कर्तव्येत्यर्थः ॥४५७-४५८॥
**ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । ** हिरण्यं रजतं गावो वासांसि विविधानि च ॥४५९॥ **यद्यदिष्टतमं तेन कृष्णो मे प्रीयतामिति ॥४६०॥ **
यद्यत्तेषामभिमतं तच्च दद्यात् । तत्र सङ्कल्पप्रकारमाह—तेन दानेन मे कृष्णः प्रीयतामित्येवम् । ब्राह्मणभोजनादिकञ्चेदं विसर्जनानन्तरं द्रष्टव्यम् ॥४५९-४६०॥
**यं देवं देवकी देवी वसुदेवादजीजनत् । ** **भौमस्य ब्रह्मणो गुप्त्य तस्मै ब्रह्मात्मने नमः ॥४६१॥ ** **सुजन्म-वासुदेवाय गोब्राह्मण-हिताय च । ** शान्तिरस्तु शिवञ्चास्तु इत्युक्त्वा तं विसर्जयेत् ॥४६२॥
विसर्जनप्रकारमाह—यमिति द्वाभ्याम् । भौमस्य प्रपञ्चरूपस्येत्यर्थः । भूमेश्चेति पाठे भूमिमारभ्य ब्रह्मपर्यन्तस्य सु शोभनं जन्म यस्य वासुदेवस्य तस्मै नम इति पूर्वेणैवान्वयः यद्वा वासुदेवाय तत्प्रीत्यर्थं मम सर्वेषामपि वा सुजन्मास्तु ॥४६१-४६२॥
**एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम् । ** वर्षे वर्षे तु मद्भक्तो धर्मार्थी धर्मनन्दन । नरो वा यदि वा नारी यथोक्तं फलमाप्नुयात् ॥४६३॥
धर्मार्थी चान्यः कश्चन यद्वा धर्मो भगवद्भक्तिलक्षणस्तदर्थी सन् यो मद्भक्तः कुरुते । यद्वा समद्भक्तो भवति अतएव भक्तिलक्षणधर्मार्थी च भवति । किं बहुना सकामो यथोक्तं फलं चाप्नुयात् । पाठान्तरे भागवतो वैष्णवः गृहीतविष्णुदीक्षाक इत्यर्थः । तादृशो यो मद्भक्तः सः यद्वा अकारप्रश्लेषेण अभागवतोऽपि मद्भक्तः सन्नित्यर्थः ॥४६३॥
भविष्ये—
**गृह्णीयान्नियमं पूर्वं दन्तधावनपूर्वकम् । ** नियमात् फलमाप्नोति न श्रेयो नियमं विना ॥४६४॥
नियमं—सङ्कल्पम् ॥४६४॥
नियममन्त्रः
**अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर । ** भोक्ष्यामि देवकीपुत्र अस्मिन् जन्माष्टमीव्रते ॥४६५॥ **उपोषितस्तु मध्याह्ने स्नात्वा कृष्णतिलैः शुभैः । ** धात्रीफलं शिरे दद्यान्महापुण्यविवृद्धये ॥४६६॥
शिरे शिरसि महापुण्यं भगवद्भक्तिस्तस्य विशेषेण वृद्धये धात्रीफलस्य भगवत्प्रियत्वात् ॥४६६॥
**कृत्वा माध्याह्निकं कर्म स्थापयेदव्रणं घटम् । पञ्चरत्नसमायुक्तं पवित्रोदकपूरितम् ॥४६७॥ **
अव्रणं—निश्छिद्रम् ॥४६७॥
**तस्योपरि न्यसेत् पात्रं कर्पूरागुरुवासितम् । ** सुधूपवासितं शुभं पुष्पमालाभिशोभितम् । **सौवर्णं वित्तवान् भक्त्या तदभावेऽथ वैणवम् ॥४६८॥ **
देवीश् देवकीं हैमीं हेमनिर्मिताम् ॥४६८॥
**तस्योपरि न्यसेद्देवीं हैमीं लक्षणसंयुताम् । ** ददमानान्तु पुत्रस्य स्तनं वै विस्मिताननाम् ॥४६९॥ **पीयमानः स्तनं सोऽथ कुचाग्रे पाणिना स्पृशन् । ** अवलोकमानः प्रेम्णा वै मुखं मातुर्मुहुर्मुहुः ॥४७०॥
पीयमानः पिबन् ॥४७०॥
**कृत्वा चैवन्तु वैकुण्ठं मात्रा सह जगत्प्रभुम् । ** क्षीरादिस्नपनं कृत्वा चन्दनेन विलेपयेत् ॥४७१॥ **कुङ्कुमेन महाभाग कर्पूरागुरुचर्चितम् । ** **पद्मकोषीरगन्धैश्च मृगनाभिविमिश्रितम् ॥४७२॥ **
कर्पूरागुरुवर्चितमित्यादीनि जगत्प्रभुमित्यस्य पूजनीय इति क्रियाया विशेषणानि । मृगनाभिना विमिश्रितं लेपितम् । क्वचिच्च सर्वत्रात्र प्रथमान्तः पाठः ॥४७२॥
**श्वेतवस्त्रयुगच्छन्नं पुष्पमालासुशोभितम् । मालतीमल्लिकापुष्पैश्चम्पकैः केतकीदलैः ॥४७३॥ ** **बिल्वपत्रैरखण्डैश्च तुलसीपत्रकोमलैः । ** **अन्यैर्नानाविधः पुष्पैः करवीरैः सितासितैः ॥४७४॥ ** **यूथिकाशतपत्रैश्च तथान्यैः कालसम्भवैः । ** **पूजनीयो महाभाग महाभक्त्या जनार्दनः ॥४७५॥ ** **कूष्माण्डैर्नारिकेलैश्च खर्जूरैर्दाडिमीफलैः । ** चूतवृक्षसमुद्भूतैः फलै रम्भासमुद्भवैः ॥४७६॥ **तत्कालसम्भवैर्दिव्यैः फलैनानाविधैर्मुने । ** **नैवेद्यैर्विविधैः शुभ्रैर्घृतपक्वैरनेकधा ॥४७७॥ ** **दीपान् वै कारयेच्चाने तथा कुसुममण्डपम् । ** गीतं वाद्यं तथा नृत्यं स्तोत्रपाठञ्च कारयेत् । **बालस्य चरितं विष्णोः पठनीयं पुनः पुनः ॥४७८॥ **
अग्रे—भगवत्पुरतः ॥४७८॥
**स्वगुरुं पूज्य शक्त्या वै पूजनीयस्ततो हरिः । ** **निशि पूजा विधातव्या देवक्याः केशवस्य च । ** मन्त्रेणानेन विप्रेन्द्र पुराणविहितेन वै ॥४७९॥
पूज्य—पूजयित्वा ॥४७९॥
अथ देवकीपूजामन्त्रः
**अदिते देवमातस्त्वं सर्वपापप्रणाशिनी । ** अतस्त्वां पूजयिष्यामि भीतो भवभयस्य च ॥४८०॥ **पूजिता तु यथा देवैः प्रसन्ना त्वं वरानने । ** **पूजिता तु मया भक्त्या प्रसादं कुरु सुव्रते ॥४८१॥ ** **यथा पुत्रं हरिं लब्ध्वा प्राप्ता ते निवृतिः परा । ** निर्वृतिं देवि तामेव सपुत्रा त्वं प्रयच्छ मे ॥४८२॥
श्रीकृष्णपूजामन्त्रः **अवतारान् सहस्राणि करोषि मधुसूदन । ** न ते सङ्ख्याऽवताराणां कश्चिज्जानाति वै भुवि ॥४८३॥ **देवा ब्रह्मादयो वापि स्वरूपं न विदुस्तव । ** अतस्त्वां पूजयिष्यामि मातुरुत्सङ्गसंस्थितम् ॥४८४॥ **वाञ्छितं कुरु मे देव दुष्कृतं चैव नाशय । ** **कुरुष्व मे दयां देव संसारार्तिभयापह ॥४८५॥ ** **एवं सम्पूज्य गोविन्दं पात्रे तिलमये स्थितम् । ** **ततश्च दापयेद्दर्ध्यमिन्दोरुदयतः शुचिः ॥४८६॥ **
तिलमये तिलपूरिते अन्यच्च सर्वं स्पष्टार्थमेव ॥४८६॥
**कृष्णाय प्रथमं दद्याद्देवकीसहिताय वै । ** अर्घ्यं ऋषिवरश्रेष्ठे सर्वकामफलप्रदम् ॥४८७॥
अथ अर्घ्यदानमन्त्रः **जातः कंसबधार्थाय भूभारोत्तारणाय च । ** देवतानां हितार्थाय धर्मसंस्थापनाय च । कौरवाणां विनाशाय दैत्यानां निधनाय च ॥४८८॥ **गृहाणार्ध्यं मया दत्तं देवकीसहितो मम ॥४८९॥ ** श्रीकृष्णाय देवकीसहिताय सपरिवाराय लक्ष्मीसहिताय अर्घ्यं नमः ॥४९०॥
अथ चन्द्रार्घ्यदानमन्त्रः **दधिपुष्पाक्षतैमिश्रं ततोऽर्घ्यं शशिने मुदा । ** क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । **अर्घ्यमिन्दो गृहाण त्वं रोहिण्या सहितो मम ॥४९१॥ ** **नारिकेलेन शुभ्रेण दद्यादर्घ्यं विचक्षणः । ** कृष्णाय परया भक्त्या शङ्खे कृत्वा विधानतः ॥४९२॥ **दद्याद्भूमण्डलं कृत्स्नं ससागरनगान्वितम् । ** अर्घ्यदानेन तत् पुण्यं लभते मानवो भुवि ॥४९३॥ **गीतशास्त्रकथालापैः कुर्याज्जागरणं निशि । ** **धूपदीपञ्च नैवेद्यं ताम्बूलं दापयेद्धरेः ॥४९४॥ ** **एवं जन्माष्टमी कृत्वा कर्तव्यं नावशिष्यते । ** **सर्वं पुण्यफलं प्राप्य अन्ते याति पदं हरेः ॥४९५॥ **
ब्रह्मपुराणे च—
**अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे । ** अष्टोविंशतिमे जातः कृष्णोऽसौ देवकीसुतः ॥४९६॥ **भारावतारणार्थाय क्षत्रियाणां क्षयाय च । ** तस्मात् स तत्र सम्पूज्यो यशोदा देवकी तथा ॥४९७॥ गन्धमाल्येस्तथा यावैर्यवगोधूमसम्भवैः । सगोरसैर्भक्ष्यभोज्यैः फलैश्च विविधैरपि । **रात्रौ प्रजागरः कार्यो नृत्यगीतसमाकुलः ॥४९८॥ इति । **
भक्ष्यभोज्यानाञ्च चर्व्यार्चव्यत्वेन भेदः ॥४९८॥
**यो भविष्योत्तराद्युक्तो विधिस्तदनुसारतः । ** सर्वं जन्माष्टमीकृत्यमेकीकृत्यात्र लिख्यते ॥४९९॥
भविष्योत्तरोक्तः आदि-शब्दात् भविष्यपुराणाद्युक्तो यो विधिस्तस्यानुसारतः । एकीकृत्य क्रमेण संयोज्य एवं भविष्योत्तर-भविष्याद्युक्तदृष्ट्या तत्रापि तत्पद्धतिकारपरमप्रामाणिक-श्रीकृष्णदेवाचार्यादिलिखनदृष्ट्या च तत्तदेकवाक्यतयाऽत्रेदं लिख्यते न च केवलमेकग्रन्थदृष्ट्येति भावः ॥४९९॥
**एकभक्तानन्तरन्तु दन्तधावनपूर्वकम् । ** सप्तम्यामथवाष्टम्यां प्रातः सङ्कल्पमाचरेत् ॥५००॥
एवं सर्वव्रतसाधारणविधिमुल्लिख्याधुनात्र विशेषं लिखति—एकेत्यादिना । सप्तम्यामेकभक्तानन्तरं दन्तधावनपूर्वकं सङ्कल्पं कुर्यात् अथवाऽङ्टभ्यां प्रातः कुर्यान् ॥५००॥
अथ तत्र मन्त्रः
**अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः । ** भोक्षेऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥५०१॥
तत्राष्टमीप्रातः सङ्कल्पमन्त्रं लिखति—अद्येति । यद्यपि सङ्कल्पमन्त्रे श्वोभूते परमेश्वर इत्यादि क्वचित् पाठः तथापि सर्वभागविवर्जित इत्यादिः भविष्योक्तः पाठोऽत्र लिखितः पाठान्तरे देवकीपुत्रेत्यादिविशेषणनिर्देशेन शिष्टगणादृतत्वात् । भविष्योत्तरे च श्रीयुधिष्ठिरं प्रति श्रीभगवता स्वयं तथा नोक्तं परमलज्जागुणशीलत्वात् । एवन्यत्राप्यूह्यम् ॥५०१॥
**कुर्वीत प्रातरष्टम्यां स्नपनादि तिलैः प्रभोः । ** अर्पयेच्च नरं सर्व शिष्टाचारानुसारतः ॥५०२॥
अथ लोके जन्मतिथिकृत्यवत् प्रात श्रीभगवतोऽपि तिलस्नपनादिकं लौकिकभक्तिरीत्यपेक्षया कार्यमिति लिखति—कुर्वीतेति । प्रभोः श्रीकृष्णस्य स्नपनादि तिलैः कृष्णैः कुर्वीत आदि-शब्दात् उद्वर्तनादि तथा चोक्तम्—तिलोद्वर्ती तिलस्नायी तिलहोता तिलप्रदः । तिलवापी तिलाशी च षड्तिली नावसीदति ॥ इति अत्र च शिष्टाचारानुगारेणाष्टोत्तरशतदूर्वाग्रादियुक्तेन सहस्रच्छिद्रघटेन धारया स्नापनादिकमपि ज्ञेयम् । सर्वं वस्त्रादिकं नवमेव भगवतेऽर्पयेच्च । शिष्टाचारानुसारत इति सर्वत्राप्यग्रेऽप्यनुवर्तनीयम् । सत्-सम्प्रदायाचारानुसारेणैवात्राखिलविधिलिखनात् ॥५०२॥
मध्याह्ने च शुभे तीर्थेऽन्यत्र वा सज्जले व्रती । **मूर्ध्नि धात्रोफलं दत्त्वा स्नायात् कृष्णतिलैः शरैः ॥५०३॥ **
शुभे तीर्थे श्रीकालिन्द्यादौ तत्रापि श्रीविश्रान्त्यादौ तदलाभे च अन्यत्र सज्जले पवित्रनिर्मलसलिले तथा चाग्रे लेख्यं भविष्योत्तरवचनं नद्यादौ विमल जले इति । व्रती उपवासपरो जनः । धात्रीफलं मूर्ध्नि दत्त्वा तेन मस्तकं सम्मृज्य शुभैः श्रीभगवत्स्नानाद्यवशिष्टैर्महाप्रसादरूपैः कृष्णैस्तिलैः कृत्वा स्नानं कुर्यात् । तथा च भविष्ये–उपोषितस्तु मध्याह्ने कृत्वा कृष्णतिलैः शुभैः । धात्रीफलं शिरे दद्यान्महापुण्यविवृद्धये ॥ इति ॥५०३॥
**अथ माध्याह्निकं नित्यकृत्यमन्यत् समाप्य हि । ** सुदेशे रचयेद्दिव्यं देवक्याः सूतिकागृहम् ॥५०४॥
अन्यत् इष्टदेवपूजादि सुदेशे शोभनप्रदेशे दिव्यं परमशोभनम् ॥५०४॥
**भूषितं मणिभिर्वस्त्रवितानैस्तोरणैरपि । ** आबद्धैः फलपुष्पैश्च घृतपक्वादिभिस्तथा ॥५०५॥ यवदूर्वाम्बुजाद्याढ्यं वाद्यगीतादिसङ्कुलम् । **द्वारे च शृङ्खलालोहखड्गच्छागादिसंयुतम् ॥५०६॥ ** **गोकुलं विलिखेत्तत्र गोपगोपीजनावृतम् । ** रक्षपालांश्च गेहस्य सर्वतोऽवस्थितान् लिखेत् ॥५०७॥ **तन्मध्ये सर्वतोभद्रमण्डले स्थापयेद्घटम् । ** **पात्रं तदुपरि न्यसेद्धैमं वैणवमेव वा ॥५०८॥ ** **देवकीं स्थापयेत्तत्र स्वर्णेनान्येन वा कृताम् । ** सल्लक्षणां सुपर्यङ्के सुप्तां स्नुतपयोधराम् ॥५०९॥ **तथैव भगवन्तञ्च तदुत्सङ्गे स्तनन्धयम् । ** निजलक्षणसम्पन्नं स्थापयेच्छायितं सुखम् ॥५१०॥ तथा क्वचित् प्रदेशे च श्रीयशोदां सकन्यकाम् । **श्रीनन्दं रोहिणीं रामं गोपान् गोपीश्च गा अपि ॥५११॥ ** **वसुदेवञ्च देवक्याः समीपे मुदिताननम् । ** खड्गपाणिं स्तुव तञ्च विस्मयोत्फुल्ललोचनम् ॥५१२॥ देवान् मुनींश्च तत्रोर्द्ध्वे प्रणतान् पुष्पवर्षिणः । गन्धर्वाप्सरसादींश्च गीतनृत्यादितत्परान् ॥५१३॥ **कंसञ्च तत्परीवारान् गृहीतास्त्रांश्च निद्रया । ** **मोहितान् स्थापयेत् क्वापि कृष्णायां कालियं लिखेत् ॥५१४॥ ** इत्थं कृत्वा यथाशोभं स्वशक्त्या सूतिकागृहम् । **तत्तन्मूर्तीश्च विन्यस्य प्रारभेतार्चनं निशि ॥५१५॥ **
तत्प्रकारं दर्शयन् तदेव विशिनष्टि—भूषितमिति द्वाभ्याम् । तोरणादिभिश्च भूषितं कृत्वा गोकुलादि सर्वं लिखित्वा स्वस्वयोग्यस्थाने तत्तन्मूर्तीश्च संस्थाप्यार्चनं प्रारभेत पूजारम्भं कुर्यात् । निशीति—निशि पूजा विधातव्या देवक्याः केशवस्य च इति भविष्योक्तेः । अत्र च चन्द्रोदये चन्द्रार्घ्यदानात् पूर्वं देवक्या भगवतश्च भविष्ये पूजोक्तेः शिष्टवर्गाचारानुसाराच्च प्रथमरात्र एव पूजारम्भो ज्ञेय इति दिक् ॥५०५-५१५॥
**गन्धपुष्पाक्षतादीनि वस्त्रालङ्करणानि च । ** नैवेद्यानि विचित्राणि फलानि स्थापयेत्तथा ॥५१६॥
पूजारम्भप्रकारमेव लिखति—गन्धेति । आदि-शब्देन पञ्चामृतोद्वर्तन-सुगन्धि-शुद्धोदकादीनि चन्द्रार्घ्यार्थं नारिकेलादि च । वस्त्रञ्च श्रीभगवदर्थं परिवानोत्तरीयं शुक्लवस्त्रयुग्मं ज्ञेयम् शुक्लवस्त्रयुगच्छन्नम् इति भविष्योक्तेः । नैवेद्यानि घृतशर्करासहितपायसघृतपक्वदध्यादीनि । तथेति समुच्चयात् विचित्राणीत्यस्य फलानीत्यनेनापि सम्बन्धः तानि च स्पष्टं तत्र तत्रैवोक्तानि । अर्घ्यपाद्यादिद्रव्याणि च सर्वपूजासाधारणान्येवेत्यत्र विशेषतो नोल्लिखितानि । यद्यपि गन्धपुष्पादीन्यपि पूजोपकरणानि सर्वपूजासाधारणान्येव तथापि महोत्सव-विशेषेऽस्मिन् विशेषतस्तत्तद्रव्यसमाहरणार्थं द्रव्यविशेषोपाहरणार्थञ्च तान्युल्लिखितानीति दिक् ॥५१६॥
**ततः शास्त्रोक्तमन्त्रेण विधिनावाह्य देवकीम् । ** प्रतिष्ठाप्य च तस्यै प्राक् पुष्पाञ्जलिमथार्पयेत् ॥५१७॥
अथ देवकीध्यानम् **गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणादिनादैर्भृङ्गारादर्शकूम्भप्रकरकृतकरैः किन्नरैः सेव्यमाना । ** पर्यङ्के सास्तृते या मुदिततरमुखी पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुतनया देवकी कान्तरूपा ॥५१८॥ इति।
देवक्यावाहने शास्त्रोक्तमन्त्रश्च नमो देव्यै श्रिये इति लक्ष्मीमन्त्र एव । पुष्पाञ्जलिसमर्पणे च गायद्भिरित्यादिश्लोक एव शिष्टसम्मतो मन्त्रः । विधिनेति—आवाहनमुद्रादि गीतवादनृत्यपुराणपठनादि च सर्वपूजासाधारणो विधिर्ज्ञेयः । भृङ्गारः—सौवर्ण-लघुजल-पानपात्रं भृङ्गारादीनां प्रकरे समूहे कृत्वा न्यस्ताः करा यस्तैर्भृङ्गारादिपाणिभिरित्यर्थः । पादाभ्यञ्जयन्ती श्रीदेवक्याश्चरणान्तिके निषण्णा पङ्कजे पूज्या इति भविष्योत्तरोक्तं यद्देवकीपूजानन्तरं लक्ष्मीपूजनं प्रायः शिष्टवर्गानादृतत्वात् तथाग्रे नवभ्यां प्रातः श्रीदुर्गापूजनमपि नात्र लिखितम् ॥५१७-५१८॥
**तथा श्रीकृष्णदेवस्य प्राग्वदावाहनं बुधः । ** प्रतिष्ठाञ्च विधायास्मै दद्यात् पुष्पाञ्जलिं ततः ॥५१९॥
प्राग्वदिति—नित्यपूजायां यथावाहनादिकं लिखिनमस्ति तथेत्यर्थः । तथा जयन्तीव्रते च मन्त्रविशेषो लिखितोऽस्ति सोऽप्यत्र सर्वो ज्ञेयः । रोहिणीयोगेन द्वयोरप्यनयोरभेदान् । तत्र एहि एहि जगन्नाथ इत्यादिरावाहनमन्त्रः मनोज्योतिः इति प्रतिष्ठामन्त्रः । पुष्पाञ्जलिसमर्पणे च विश्वेश्वराय इत्यादि-मन्त्र एवं शिष्टवर्गसम्मतः ॥५१९॥
**चन्द्रोदये बहिर्गेहात् सम्मार्ज्याब्जोपरीन्दवे । ** नारिकेलादिकं शङ्खे कृत्वा तेनार्घ्यमर्पयेत् ॥५२०॥
अथ तत्र मन्त्रः **क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । ** गृहाणार्घ्यां शशाङ्केश रोहिण्या सहितो मम ॥५२१॥ **ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते । ** **नमस्ते रोहिणीकान्त अर्घ्यं मे प्रतिगृह्यताम् ॥५२२॥ इति । ** **ततो गृहान्तरागत्य कृत्वा जय-जयध्वनिम् । ** ध्यात्वा श्रीभगवज्जन्म कृष्णायार्घ्यं निवेदयेत् ॥५२३॥
अथ तत्र मन्त्रः **जातः कंसबधार्थाय ॥५२४॥ इत्यादि । **
नारिकेलं तस्य शुभ्रशस्यमादि-शब्दाद्दधिपुष्पाक्षतानि दधिपुष्पाक्षतैर्मिश्रं ततोऽर्घ्यं शशिने मुने इति भविष्योक्तेः । तच्च सर्वं शङ्खे निधाय तेन नारिकेलादिना कमलोपरि चन्द्रायार्घ्यं दद्यात् । यद्यपि देवक्यै श्रीभगवते चार्घ्यार्पणानन्तरमेव चन्द्रार्घ्यापणं भविष्योत्तरे भविष्ये चोक्तमस्ति तथापि प्रामाणिकशिष्टलिखितपद्धत्यनुसारेण व्युत्क्रमेणात्र लिखितमिति ज्ञेयम् । गृहान्तः पूजामन्दिराभ्यन्तरे आगत्य श्रीभगवतो जन्म प्रादुर्भावं तमद्भुतं बालकमम्बुजेक्षणम् (३.९) इत्यादिना श्रीदशमस्कन्धाद्युक्तप्रकारं ध्यात्वा शिष्टाचारानुसारेण तमद्भुतम् इत्यादिश्लोकांश्च पठन् । शुभ्रनारिकेलशस्येनैव शङ्कनिहितेनार्घ्यमर्पयेत् । नारिकेलेन शुभ्रेण दद्यादर्घ्यं विचक्षणः । कृष्णाय परया भक्त्या शङ्खे कृत्वा विधानतः ॥ इति भविष्योक्तेः । जातः कंसबधार्थाय इत्यस्य परभागोऽत्र न सङ्ग्रहीतः भविष्यपुराणवचनमध्ये तथा पूर्वं जयन्तीव्रते च लिखितत्वात् एवमग्रेप्यूह्यम् ॥५२०-५२४॥
**ततः क्षीरादिना शुद्धोदकेन तु यथाविधि । ** देवकीसहितं भक्त्या श्रीकृष्णं स्नापयेत् कृती ॥५२५॥
यथाविधीति नित्यपूजायां स्नपनविधिर्नृत्यगीतवाद्याविपूर्वको यो लिखितस्तदनुसारेणेत्यर्थः । कृती तत्तत्प्रकारकुशलः ॥५२५॥
**अथ तत्र मन्त्रः
योगेश्वराय योगसम्भवाय योगपतये गोविन्दाय नमो नमः ॥५२६॥ इति । **
क्वचिच्च—
**योगेश्वराय देवाय देवकीनन्दनाय च । ** **योगोद्भवाय नित्याय गोविन्दाय नमो नमः ॥५२७॥ इति। ** **अदिते देवमातस्त्वमित्यादि प्रार्थ्य देवकीम् । ** **गन्धादीन्यर्पयेत्तस्यै नमो देव्यै श्रिये इति ॥५२८॥ **
अदिते देवमातस्त्वम् इत्यादि च प्रार्थनामन्त्रः नमो देव्यै श्रिये इति च गन्धाद्यर्पणमन्त्र इति विवेचनीयम् । एवमग्रेऽप्यूह्यम् आदि-शब्दात् पुष्पधूपनैवेद्यादीनि ॥५२८॥
**अवतारसहस्राणीत्यादिनाभ्यर्थ्य च प्रभुम् । ** पाद्यादि वस्त्रभूषादि धूपदीपादि चार्पयेत् ॥५२९॥
पाद्यादीति प्रथमेनादि-शब्देन मधुपर्काचमनीयादि द्वितीयेन गन्धपुष्पादि तृतीयेन नैवेद्यादि तत्तद्विशेषश्च सर्वपूजासाधारणत्वादत्र नोल्लिखितः । एवमत्रोल्लिखितोऽन्योऽप्युपचारः पूजासाधारणत्वादशेष एवोह्यः यतोऽत्र प्रायो विशेषभाग एव दर्शित इति अतएव लिखितम्—कृतीति ॥५२९॥
अथ तत्र पाद्यादिदीपान्तमन्त्रः
ओं यज्ञेश्वराय यज्ञसम्भवाय यज्ञपतये गोविन्दाय नमो नमः ॥५३०॥ इति ।
अथ नैवेद्यमन्त्रः **ओं विश्वेश्वराय विश्वसम्भवाय विश्वप ये गोविन्दाय नमो नमः ॥५३१॥ इति । ** **वसुदेवं यशोदाञ्च नन्दं रामञ्च रोहिणीम् । ** अन्यांश्च पूजयेत्तत्तन्नाममन्त्रैर्यथाविधि ॥५३२॥
रामं श्रीबलदेवम् अन्यान् गोपगोपीगवादीन् देवादींश्च तत्तन्मूर्तिनिर्माणाशक्तौ च स्थण्डिले आवाहनादिकं कृत्वा पूजयेदिति लिखितभविष्योत्तर वचनतो बोद्धव्यम् । स्थण्डिले स्थापयेद्देवं शशाङ्कं रोहिणीन्तथा । देवकीं वसुदेवञ्च यशोदां नन्दमेव च । बलभद्रं तथा गोपान् गोपीर्गोकुलमेव वा ॥ इति भविष्योत्तरोक्तेः । तस्य तस्य वसुदेवादेर्नामात्मकैर्मन्त्रैः तत्प्रकारश्च पूर्वं सर्वत्र लिखितोऽस्त्येव । अत्र भविष्ये भविष्योत्तरे चोक्तः—स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिर्नमोऽन्तकैः । पूजयेयुर्द्विजाः सर्वे स्त्रीशूद्रा मन्त्रवर्जिताः ॥ इति । अतोऽयं प्रयोगः—ओं वसुदेवाय नमः इत्यादि । यथाविधीति आवाहनादिकं कृत्वा । कश्यपो वसुदेवोऽयम् इत्यादि तथा ध्यात्वावतारं प्रागुक्तम् इत्यादेश्च भविष्योत्तरोक्तस्यानुसारतस्तत्तद्ध्यानं कृत्वा पाद्यादिनैवेद्यान्तोपचारान् समर्पयेदित्येवं सर्वं पूजासाधारणविध्यनुसारेण पूजयेदित्यर्थः ॥५३२॥ ।
**पक्वान्नानि विचित्राणि खाद्यानि विविधानि च । ** तत्कालीनफलान्यत्र ताम्बूलञ्च समर्पयेत् ॥५३३॥
अथ महोत्सवविशेषस्यास्य लक्षणं पुनर्द्रव्यविशेषसमर्पणं लिखति—पक्वान्नानीति । खाद्यानि चर्यवीजेक्षुकुडुकादीनि । तत्कालीनानि जन्माष्टमीसमयोद्भवानि फलानि कुष्माण्डकदलकादीनि च ॥५३३॥
अथ तत्र मन्त्रः
धर्मेश्वराय धर्मसम्भवाय धर्मपतये गोविन्दाय नमो नमः ॥५३४॥ इति । **निशीथे गुडसर्पिभ्यां वसोर्धाराञ्च पातयेत् ॥५३५॥ **
निशीथे अर्द्धरात्रे गुड्युक्तेन गव्यघृतेन वसोर्धाराः पातयेत् । तत्र मन्त्रः—वसोः पवित्रमसि इति एतच्च लोकजन्मानन्तरसाधारणकृत्यम् ॥५३५॥
**अथ कुर्याद्भगवतो जातकर्म-महोत्सवम् । ** श्रीनालवर्द्धनं कुर्यात् षष्ठीनिःसारणं ततः ॥५३६॥ **श्रीनामकरण तत्तल्लीलानुकरणन्तथा । ** अथाचार्यं समभ्यर्च्य कुर्याज्जागरणं मुदा । गीतनृत्यादिना बाल्यक्रीडाश्रवणपूर्वकम् ॥५३७॥
किञ्च श्रीनालस्य श्रीनाभिनाड्या वर्द्धनं छेदनम् तच्च हैरण्यक्षुरेण कुर्यात् । यथोपचारैः षष्ठिकायै नमः इति षष्ठीं सम्पूज्य विधिवन्निःसारणं कुर्यादिति ज्ञेयम् । सर्वञ्च भगवन्निवेदितशेषेणैव सिध्यतीति स्थापने पृथक् न लिखितम् । तस्यास्तस्याः सुप्रसिद्धायाः लीलायाः पूतनाबधादि-कंसबधान्तक्रीडायाः अनुकरणम् । आचार्यं निजगुरुं यद्वा व्रतार्थे गुरुत्वेन वृतं विप्रं समभ्यर्च्य वस्त्रालङ्करणादिना सम्यक् पूजयित्वा बाल्यक्रीडा श्रीभगवतः पूतनावधादिचरितं तच्छ्रवणपूर्वकं जागरणं कुर्यात् । जागरणविधिश्च सर्वव्रतसाधारण एवेत्यत्र विशेषतो नोल्लिखितः ॥५३६-५३७॥
स्कान्दे ब्रह्मनारदसंवादे—
**आजन्मोपार्जितं पापं तत्क्षणादेव लीयते । ** रात्रौ जागरणे विप्र दृष्टे नश्यति देहिनाम् ॥५३८॥
कथं लीयते इत्यपेक्षायामुक्तपोषन्यायेनाह—रात्राविति । हे विप्र दृष्टे तम इति पाठे च तमोऽज्ञानम् ॥५३८॥
**प्रभाते सति निर्वर्त्य नित्यकर्माणि वैष्णवः । ** देवमभ्यर्च्य सम्प्राथ्य प्रणम्य च विसर्जयेत् ॥५३९॥
नित्यकर्माणि स्नानादीनि सम्प्रार्थ्य क्षमस्वेत्यादिकमभ्यर्थ्य विसर्जयेदिति जन्माष्टमीव्रतार्थनिर्मितश्रीमूर्तिविशेषस्य व्रतान्ते गुरौ समर्पणार्थमित्येषा दिक् ॥५३९॥
**अथ प्रणाममन्त्रः
यं देवम् ॥५४०॥ इत्यादि सार्द्धपद्यम् ।
अथ प्रार्थनामन्त्रः
शान्तिरस्तु ॥५४१॥ इत्यादि । **
**अथाचार्याय तत् सर्वं श्रीमूर्त्यादि सदक्षिणम् । ** प्रदाय विप्रान् सम्भोज्य विदध्यात् पारणोत्सवम् ॥५४२॥
तत् सूतिकागृहोपकरणं तत्तद्भगवदादिप्रतिमाः आदि-शब्देन पूजोपकरणादिकञ्च सर्वं दक्षिणासहितं प्रकर्षेण श्रीकृष्णः प्रीयतामित्येवं दत्त्वा तथैव विप्रान् सम्यग् भोजयित्वा व्रतसमाप्तिरूपमहोत्सवं कुर्यात् परमहर्षेण बन्धुभिः समं भगवन्महाप्रसादान्नादिकं भुञ्जीतेत्यर्थः ॥५४२॥
अथ पार्श्वपरिवर्तनोत्सवः
**भाद्रस्य शुक्लैकादश्यां शयनोत्सववत् प्रभोः । ** कटिदानोत्सवं कुर्याद्वैष्णवैः सह वैष्णवः ॥५४३॥
शयनोत्सववदिति यथा शयने क्षीराब्धिमहोत्सवप्रकारो लिखितस्तथेत्यर्थः । तत्र यद्यपि भविष्योत्तरे एकादश्यामित्युक्तं तथापिपूर्वलिखितशयनादिकालनिर्णयानुसारेण द्वादम्यामिति लिखितम् । तद्विशेषश्च पूर्वमेव शयनोत्सवप्रकरणे लिखितोऽस्ति । भविष्योत्तरे चैकादशीद्वादश्योरभेदाभिप्रायेणोक्तमिति बोद्धव्यम् ॥५४३॥
भविष्योत्तरे—
**प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि । ** **कटिदानं भवेद्विष्णोर्महापातकनाशनम् ॥५४४॥ ** **जलाशयान्तिकं नीत्वा सम्यगभ्यर्च्य प्रभुम् । ** कर्णिकापरिवृत्तिञ्च दक्षिणाङ्के प्रकल्पयेत् ॥५४५॥
शयनोत्सवात् कञ्चिद्विशेषमनुवादपूर्वकं लिखति—जलेति त्रिभिः । कर्णिकायाः कट्याः परिवृत्तिं दक्षिणाङ्गे प्रकल्पयेदिति पूर्वं वामाङ्गेन सुप्तस्याधुना दक्षिणाङ्गेन स्वापयेदित्यर्थः । तत्कालविशेषश्च पूर्वमेव निर्णीतोऽस्ति ॥५४५॥
अथ अभ्यर्थनमन्त्रः
**देव देव जगन्नाथ योगिगम्य निरञ्जन । ** **कटिदानं कुरुष्वाद्य मासि भाद्रपदे शुभे ॥५४६॥ ** **महापूजां ततः कृत्वा वैष्णवान् परितोष्य च । ** देवं स्वमन्दिरे नीत्वा यथापूर्वं निवेशयेत् ॥५४७॥
अथ श्रवणद्वादशीव्रतम् **भाद्रस्य शुक्लद्वादश्यां युक्तायां श्रवणेन हि । ** उपोष्य सङ्गमे स्नात्वा देवं वामनमर्चयेत् ॥५४८॥
अथ तन्माहात्म्यम् **मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । ** महती द्वादशी ज्ञेया उपवासे महाफला । अर्चयित्वाऽच्युतं भक्त्या लभेत् पुण्यं दशाब्दिकम् ॥५४९॥
दशाब्दिकं दशाब्दभगवदर्चनजं पुण्यम् तस्यामर्चयित्वा लभेत् ॥५४९॥
फलं दत्त-हुतानाञ्च तस्यां लक्षगुणं भवेत् ॥५५०॥
स्कान्दे—
**मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । ** **महती द्वादशी ज्ञेया उपवासे महाफला ॥५५१॥ ** **सङ्गमे सरितः पुण्ये द्वादशी तामुपोषित । ** आप्लवादेव चाप्नोति द्वादशद्वादशीफलम् ॥५५२॥
आप्लवात्—सङ्गम एव स्नानात् ॥५५२॥
**बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् । ** अत्यन्तमहती तस्यां दत्तं भवति चाक्षयम् ॥५५३॥ अर्चयित्वाऽच्युतं भक्त्या लभेत् पुण्यं दशाब्दिकम् । **फलं दत्तहुतानाञ्च तस्यां लक्षगुणं भवेत् ॥५५४॥ **
ब्रह्मवैवर्त पितापुत्रसंवादे—
**मासि भाद्रपद शुक्लपक्षे यदि हरेर्दिने । ** बुधश्रवणसंयोगः प्राप्यते तत्र पूजितः ॥५५५॥ प्रयच्छति शुभान् कामान् वामनो मनसि स्थितान् । **विजया नाम सा प्रोक्ता तिथिः प्रीतिकरी हरेः ॥५५६॥ ** **सङ्गमे सर्वतीर्थानां सङ्गमस्तत्र जायते । ** **शुक्ला भाद्रपदे स्वर्गं कृष्णा कलुषसङ्क्षयम् ॥५५७॥ ** **फाल्गुने कुरुते मोक्षमपि ब्रह्मबधान्नृणाम् । ** महापुण्यप्रदा ह्येषा सङ्गमे विजया तिथिः । **सर्वपापक्षयो नून जायते तदुपोषिणाम् ॥५५८॥ **
किञ्च—
**सर्वतीर्थानि भूपृष्ठे सङ्गमे यान्ति सङ्गमम् । ** विजयावासरे सर्वेदेवानां सङ्गमो भुवि ॥५५९॥ **इदं सर्वपुराणेषु रहस्यं परिगीयते ।
सङ्गमे वामनं पूज्य प्रेतयोनौ न जायते ॥५६०॥ **
भाद्रमासे शुक्ला श्रवणद्वादशी स्वर्गं कुरुते फाल्गुने कृष्णा कलुषसङ्क्षयं कुरुते । पूज्य—पूजयित्वा ॥५५७-५६०॥
विष्णुधर्मोत्तरे श्रीपरशुराम उवाच—
**उपवासासमर्थानां किं स्यादेकमुपोषितम् । ** **महाफलं महादेव तन्ममाचक्ष्व सुव्रत ॥५६१॥ **
उपोषितमुपोषणम् ॥५६१॥
श्रीशङ्कर उवाच—
**या रामश्रवणोपेता द्वादशी महती तु सा । ** तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् । **प्राप्नोत्ययत्नाद्धर्मज्ञ द्वादशद्वादशीफलम् ॥५६२॥ **
किञ्च—
**श्रवणद्वादशीयोगे बुधवारो भवेद्यदि । ** **अत्यन्तमहती राम द्वादशी सा प्रकीर्तिता ॥५६३॥ ** स्नानं जप्यं तथा होमो दानं श्राद्धं सुरार्चनम् । सर्वमक्षयमाप्नोति तस्यां भृगुकुलोद्वह ॥५६४॥ तस्मिन् दिने तथा स्नातो योऽपि क्वचन सङ्गमे । **स गङ्गास्नानजं राम फलं प्राप्नोत्यसंशयम् ॥५६५॥ ** **श्रवणे सङ्गमाः सर्वे परिपुष्टिप्रदाः सदा । ** **विशेषाद्द्वादशीयुक्ते बुधयुक्ते विशेषतः ॥५६६॥ **
परिपुष्टिप्रदां—पुण्यातिशयकरा ॥५६६॥
भविष्योत्तरे श्रीयुधिष्ठिर उवाच—
**उपवासासमर्थानां सदैव पुरुषोत्तम । ** एका या द्वादशी पुण्या तां वदस्व ममानघ ॥५६७॥
श्रीकृष्ण उवाच—
**मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । ** सर्वकामप्रदा पुण्या उपवासे महाफला ॥५६८॥ **सङ्गमे सरितां स्नात्वा गङ्गास्नानादिजं फलम् । ** सोपवासः समाप्नोति नात्र कार्या विचारणा ॥५६९॥
किञ्च—
**बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् । ** **अतीव महती तस्यां सवं दत्तमिहाक्षयम् ॥५७०॥ **
किञ्च तत्रैव वणिगुपाख्याने—
**श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् । ** दानञ्च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ॥५७१॥ **महानदीसङ्गमे च स्नात्वा दिष्टान्तमागतः । ** अवाप परमं स्थानं दुर्लभं सर्वमानवैः ॥५७२॥ **यत्र कामफला वृक्षा नद्यः पायसकर्दमाः । ** शीतलामलपानीयाः पुष्करिण्यो मनोहराः ॥५७३॥ तं देशमासाद्य वणिङ्महात्मा सुमृष्टजाम्बूनदभूषिताङ्गः । **कल्पं समग्रं सुरसुन्दरीभिः साकं स रेमे मुदितः सदैव ॥५७४॥ **
किञ्चान्ते—
**बुधश्रवणसंयुक्त-द्वादश्यां सङ्गमोदकम् । ** **दानं बह्वोदनं शस्तमुपवासः परो विधिः ॥५७५॥ **
बहव ओदना यस्मिन् तत् शस्तं मङ्गलम् ॥५७५॥
**सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना । ** एतश्चान्यैश्च राजेन्द्र कामदा द्वादशी कृता ॥५७६॥ **या द्वादशी बुधयुता श्रवणेन सार्द्धं स्यात् सा जयेति कथिता मुनिभिर्नभस्ये । ** तामादरेण समुपोष्य नरो हि सम्यक् प्राप्नोति सिद्धिमणिमादिगुणोपपन्नः ॥५७७॥ इति ।
नभस्ये भाद्रे सिद्धिं मोक्षं श्रीवैकुण्ठलोकं वा ॥५७७॥
अथ श्रवणद्वादशीव्रतनिर्णयः
**द्वादश्येकादशो वा स्यादुपोष्या श्रवणान्विता । ** विष्णु शृङ्खलयोगश्च तन्त्रयं मिश्रितं यदि ॥५७८॥
द्वादशीति—श्रवणनक्षत्रयुक्ता यदि द्वादशी स्यात् तदा शक्तैरशक्तैश्च सर्वैरेव द्वादश्येवोपोष्या यदि वैकादशी श्रवणान्विता स्याद्द्वादश्यां श्रवणं नास्ति तदा सर्वैरेकादश्येवोपोष्या यदि च तिथिक्षयात्तन्त्रयं द्वादश्येकादशीश्रवणञ्च मिश्रितमेकस्मिन्नेव दिने अन्योऽन्यमिलितं स्यात्तदा विष्णुशृङ्खलो नाम योगः । विष्णुदैवत्यानां त्रयाणामेव तेषामेकत्र शृङ्खलावत् ग्रथितत्वात् ततश्च स एवोपोष्य इत्यर्थः । तत्तद्विशेषश्चोदाहरिष्यमाणवचनतोऽग्रे व्यक्तो भावी ॥५७८॥
अथ श्रवणद्वादश्युपवासः
श्रीमार्कण्डेयः—
**श्रवणर्क्षसमायुक्ता द्वादशी यदि लभ्यते । ** उपोष्या द्वादशी तत्र त्रयोदश्यान्तु पारणम् ॥५७९॥
यमश्च—
**यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । ** तदाऽसौ तु महापुण्या द्वादशी विजया स्मृता ॥५८०॥ **तत्र दानोपवासाद्यमक्षयं परिकीर्तितम् । ** एकादश्या विशुद्धत्वे द्वादश्यान्तु परेऽहनि । श्रवणे सति शक्तस्य व्रतयुग्मं विधीयते ॥५८१॥
किञ्च—
**असमाप्ते व्रते पूर्वे नैवकुर्याद्व्रतान्तरम् । ** इत्यादि वचनस्यात्र बाधक वं न विद्यते ॥५८२॥
तथाहि भविष्योत्तरे—
एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । **न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥५८३॥ इति । ** **अशक्तस्तु व्रतद्वन्द्वे भुङ्क्ते वैकादशी-दिने । ** **उपवासं बुधः कुर्याच्छ्रवणद्वादशीदिने ॥५८४॥ **
तथा च नारदीये—
**उपोष्य द्वादशीं पुण्यां विष्णुऋक्षेण संयुताम् । ** एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् ॥५८५॥
न चैवं शुद्धैकादशीत्यागेन दोषः स्यादितिलिखति—उपोष्येति त्रिभिः । विष्णुऋक्षेण श्रवणेन । केचिच्चेदमुपवासद्वये प्राप्ते सत्यसमर्थविषयकमिति व्यवस्थापयन्ति । तदयुक्तं वैष्णवानां द्वादश्यां श्रवणयोगे महाद्वादशीत्वेन तत्रोपवासात् । तथा नारदीयादिवचनेष्वत्र शक्ताशत्तादिविशेषपरित्यागेन नर इत्यादिसामान्यनिर्देशाच्च ॥५८५॥
**वाजपेये यथा यज्ञे कर्महीनोऽपि दीक्षितः । ** **सर्वं फलमवाप्नोति अस्नातोऽप्यहुतोऽपि सन् ॥५८६॥ ** एवमेकादशीं त्यक्त्वा द्वादश्यां समुपोषणात् । **पूर्ववासरजं पुण्यं सर्वं प्राप्नोत्यसंशयम् ॥५८७॥ इति । ** **अत्यल्पोऽप्यनयोर्योगो भवेत्तिथिभयोर्यदि । ** **उपादेयः स एव स्यादित्यत्रोपवसेद्बुधः ॥५८८॥ **
तथा च श्रवणद्वादशीं प्रकृत्य तत्रैवोक्तम्—
**तिथिनक्षत्रयोर्योगे योगश्चैव नराधिप । ** **द्विकलो यदि लभ्येत स ज्ञेयो ह्यष्टयामिकः ॥५८९॥ **
तथैव मात्स्ये—
**द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः । ** न तु सा तेन युक्ता च तावत्येव प्रशस्यते ॥५९०॥
अथ श्रवणानक्षत्रयुक्तैकादश्युपवासः
नारदीये—
यदि न प्राप्यते ऋक्षं द्वादश्यां वैष्णवं क्वचित् । **एकादशी तदोपोष्या पापघ्नी श्रवणान्विता ॥५९१॥ **
वैष्णवमृक्षं श्रवणं क्वचिदिति रात्र्यादौ कस्मिंश्चित् समयेऽपीत्यर्थः । अतएवोक्तं मात्स्ये—द्वादशी श्रवण-स्पृष्टा इति नारदीये चैतत्प्रकरण एव । तिथिनक्षत्रयागानां योगश्चैव नराधिप । द्विकलो यदि लभ्येत स ज्ञेयो ह्यष्टयामिकः ॥ इति ॥५९१॥
**उभयोर्देवता विष्णुः पुराणः पुरुषोत्तमः । ** **विभेदोऽत्र न कर्तव्यो विभेदात् पतते नरः ॥५९२॥ **
अतएव भविष्योत्तरे—
एकादशी यदा च स्यात् श्रवणेन समन्विता । **विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥५९३॥ **
विष्णुपुराणे—
**याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । ** तास्वेव तद्व्रतं कुर्याच्छ्रवणद्वादशी विना ॥५९४॥ इति ।
याः काश्चिदिति—येन केनचिन्नक्षत्रविशेषयोगेन याः काश्चित्तिथयः पुण्याः प्रोक्ताः तासु यद्विहितं व्रतं तत्तास्वेव कुर्यात् न तिथ्यन्तरे तत्तन्नक्षत्रयुक्ते । यथा फाल्गुनी शुक्ला द्वादशी पुष्यक्षेण युक्ता गोविन्दद्वादशी नाम तस्यामुपवासव्रतं विहितं तस्यामेव कुर्यान्न च पुष्यान्वितायामेकादश्याम् एवं नियमश्च श्रवणद्वादशीं विना श्रवणद्वादशीव्रतन्तु श्रवणकादश्यामपि भवतीत्यर्थः ॥५९४॥
**एकादश्युपवासे च द्वादश्यां कृष्णमर्चयेत् । ** प्रादुर्भूतो हि भगवान् द्वादश्यामेव वामनः ॥५९५॥
ननु तर्हि भगवतो वामनस्यार्चनमपि तथैव प्रसज्येत नेति लिखति— एकेति । कृष्णं श्रीवामनरूपमवतारत्वेनाभेदात् हि यतः भगवान् श्रीकृष्णो द्वादश्यामेव वामनरूपेण जातः । तथा चाष्टमस्कन्धे (१८.५) —श्रोणायां श्रवण-द्वादश्यां मुहूर्तेऽभिजिति प्रभुः इत्यादि । श्रोणायां श्रवणस्यचन्द्र इत्यर्थः ॥५९५॥
तथा च मत्स्यपुराणे—
**उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥५९६॥ इति । ** **अतो यदि न लभ्येत मध्याह्ने द्वादशी तदा । ** द्वादशीमध्य एवार्च्यो वामनस्तर्हि सूरिभिः ॥५९७॥ इति ।
अथ श्रीविष्णुशृङ्खलयोगः
मात्स्ये—
**द्वादशीश्रवणस्पृष्टा स्पृशेदेकादशी यदा । ** **स एष वैष्णवो योगो विष्णुशृङ्खलसञ्जितः ॥५९८॥ ** **तस्मिन्नुपोष्य विधिवन्नरः सङ्क्षीणकल्मषः । ** **प्राप्नोत्वनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥५९९॥ इति । ** **एकादशीपदेनात्र तदहोरात्र उच्यते । ** अन्यथा द्वादशीस्पर्शस्तस्यां नित्यं हि विद्यते ॥६००॥ **तिथिनक्षत्रयोर्योग इत्याद्यं यत्तु दर्शितम् । तेनाल्पकालसंयोगेऽप्यष्टयामिकतेष्यते ॥६०१॥ ** **अत्रैव द्वादशीमध्ये पारणं श्रवणेऽधिके । ** वक्ष्यमाणञ्च घटतेऽन्यथा प्राग्वद्द्विधा व्रतम् ॥६०२॥ **द्वादशी श्रवणर्क्षाञ्चेत्यस्मिन् पाठे भवेदिदम् । द्वादशीश्रवणस्पृष्टेयस्मिंश्च स्पृष्टता खलु । ** तत्तत्साहित्यमेवाह पूर्वस्मादेव हेतुतः ॥६०३॥
अथ तस्मादयन्तु तत्रैव विशेषः
द्वितीयविष्णुशृङ्खलयोगः
यथा विष्णुधर्मोत्तरे—
**एकादशी द्वादशो च वैष्णव्यमपि तद्भवेत् । ** तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद्भवेत् । **तस्मिन्नुपोषणाद्गच्छेच्छ्वेतद्वीपपुरं ध्रुवम् ॥६०४॥ द्वादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् । ** **निषिद्धमपि कर्तव्यमित्याज्ञा पारमेश्वरी ॥६०५॥ इति । **
निषिद्धमपीति—एकादशीमुपोष्यैव द्वादश्यां पारणं स्मृतम् । त्रयोदश्यां न तत् कुर्याद्द्वादशद्वादशीक्षयात् ॥ इत्यादिमत्स्यपुराणादिवचनैस्त्रयोदश्यां पारणनिषेधात् । एतच्च स्थूलदृष्ट्या वैष्णवेतर-विषयकव्यवस्थापेक्षया चेति ज्ञेयम् । अत्रैव श्रवणक्षेत्यादिना त्रयोदश्यामेव श्रीमार्कण्डेयादिभिः पारणोक्तेः तथा प्रायो वैष्णवानां द्वादश्युपवासेन सर्वत्र त्रयोदश्यामेव पारणापत्तेः । अत एवं व्याख्येयम्—श्रीविष्णुसायुज्याद्यपेक्षया सर्वकर्माद्यनादरेण निषिद्धमपि कर्तुमुचितमित्येषा च परमेश्वरस्याज्ञैव द्वादशीवल्लभस्य भगवतो द्वादशीव्रतप्रियत्वात् । अतएव सर्वत्र वैष्णवानां द्वादशीव्रतग्रहणादि श्रूयत इति दिक् ॥६०५॥
**योगोऽयमन्यो द्वादश्याः क्षय एवेति लक्ष्यते । ** द्वादश्यामुपवासाच्च त्रयोदश्याञ्च पारणात् ॥ त्रयोदश्यां पारणं हि श्रवणेऽपि निषेत्स्यते ॥६०६॥
अथ विष्णुशृङ्खल एव विशेषान्तरम् **द्वादश्येकादशी सौम्यः श्रवणञ्च चतुष्टयम् । ** **देवदुन्दुभियोगोऽयं यज्ञायुतफलप्रदः ॥६०७॥ इति । ** **पारणाहे तु द्वादश्याः श्रवणायाश्च वृद्धितः । ** रात्रौ तु पारणाभावादयुक्तं कर्तुं व्रतद्वयम् ॥६०८॥
पारणाहे व्रतपारणादिने द्वादश्याः श्रवणायाश्च वृद्धौ सत्यां शक्तश्चेत् तर्हि वृतद्वयं कुर्यात् ॥६०८॥
न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥६०९॥
ननु पारणान्तं व्रतं ज्ञेयं व्रतान्ते द्विजभोजनम् । असमाप्ते व्रते पूर्वे नैव कुर्याद्व्रतान्तरम् ॥ इति विष्णुधर्मोत्तरोक्तेरपारणे दोषः स्यात् तत्राह—न चात्रेति । उभयोः एकादशी-द्वादश्योः ॥६०९॥
**द्वादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् ॥६१०॥ **
एवमसमर्थो व्रतमेकमेव कुर्यादित्यायातं तत्र च श्रवणेन सिता यत्र द्वादशी लभ्यते क्वचित् । उपोष्यैकादशीं तत्र द्वादश्यामर्चयेद्धरिम् ॥ इत्यादि श्रीयमाद्युक्तेरशक्तस्यैकादश्यामेवोपवासशङ्का स्यात् अतो लिखति—द्वादश्यामिति । वैष्णवेष्वष्टमहाद्वादशीव्रतस्य नित्यत्वात् । तच्च पूर्वमेव तत्रैव लिखितमस्ति ॥६१०॥
**दिनद्वयेऽपि श्रवणाभावे तद्योगहानितः । ** एकादश्यामुपोष्यैव द्वादश्यां वामनं यजेत् ॥६११॥
ननु यथा जन्माष्टम्यां रोहिण्यादि-योगाभावेप्युपवासः तथात्र श्रवणयोगाभावेऽपि श्रीवामनदेवप्रादुर्भावापेक्षया समर्थनोपवासद्वयपक्षे द्वादश्यामुपवासः कर्तव्यो न वेत्याशङ्क्य लिखति—दिनेति । तस्य द्वादश्यां श्रवणयोगस्य हानित अभावात् । यतस्तद्योगापेक्षयैवात्र द्वादश्यामुपवास-विधानमिति दिक् । यजेत् पूजयेत् ॥६११॥
**विष्णुशृङ्खलकेऽपि स्याद्वृत्तिनिशि परत्र चेत् । ** **यदाधिक्यं तिथिभयोः शक्तः कुर्याद्व्रतद्वयम् ॥६१२॥ ** **पारणाया अनौचित्यं तावत्यां निशि चेद्भवेत् । ** अशक्तस्तूत्तरं कुर्याद्योगस्यैवास्य गौरवात् ॥६१३॥
अथ तत्र पारणकालनिर्णयः स च व्रतविकल्पे द्वितीये विष्णुशृङ्खले च स्पष्ट एव केवलश्रवणनिष्कर्षे तु न तदादरः तिथि-नक्षत्रसंयोगे ॥६१४॥ इत्यादि-वक्ष्यमाणेभ्यः ।
प्रथमविष्णुशृङ्गले पारणनिर्णयः **अनुवृत्तिर्द्वयोरेव पारणाहे भवेद्यदि । ** **तत्राधिक्ये तिथेर्वृत्ते भान्ते सत्येव पारणम् ॥६१५॥ **
द्वयोस्तिथ्यक्षयोः द्वादशीश्रवणयोः पारणाहे अनुवृत्तिः वृद्धिक्रमेणागमः । तिर्थेद्वादश्या आधिक्ये वृद्धौ वृत्ते सति भान्ते श्रवणान्ते पारणम् । एतच्च विष्णुशृङ्खलयोगापेक्षया पूर्वदिनोपवासाभि प्रायेणेत्यूह्यम् ॥६१५॥
यदुक्तं नारदीये—
**तिथिनक्षत्रयोर्योगे उपवासो भवेद्यदा । ** **पारणन्तु न कर्तव्यं यावन्नैकस्य सङ्क्षयः ॥६१६॥ इति । ** **ऋक्षस्य सति चाधिक्ये तिथिमध्ये हि पारणम् । ** द्वादशीलङ्गाने दोषो बहुशो लिखितो यतः ॥६१७॥
ऋक्षस्य श्रवणनक्षत्रस्याधिक्ये द्वादशीतो वृद्धौ सत्यामपि द्वादशीमध्य एवं पारणं स्यात् अत्र न ऋक्षान्तोऽपेक्षणीय इत्यर्थः । ननु ऋक्षान्ते पारणं कुर्यादित्युक्तं तत्र लिखति—द्वादशीति । लिखितः पूर्वं द्वादशीपारणनिर्णये ॥६१७॥
तथा चोक्तम्—
**तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । ** **तावदेव न भोक्तव्यं यावन्नैकस्य सङ्क्षयः ॥६१८॥ **
तावदिति तिथिनक्षत्रसंयोगं यावन्न भोक्तव्यं एकवियोगेन पारणं कर्तव्यं तत्र च द्वादश्यां सत्यां तस्यामेव पारणं न तु तदतिक्रमेणेत्यर्थः ॥६१८॥
**विशेषेण महीपाल श्रवणं वर्द्धते यदि । ** **तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत् ॥६१९॥ इति । ** **एवं द्वयोर्निशाव्याप्तौ चाह्नि पारणमीरितम् । ** न रात्रौ पारणं कुर्यादिति ह्यन्यत्र सम्मतम् ॥६२०॥ **यतो रात्रावृक्षलब्धावपि द्वादश्यतिक्रमः । ** अतः कृतं पौनरुक्त्यं द्वादशीं नैव लङ्घन्येत् ॥६२१॥ **एवकारेण च पुनस्तदेव निरधारि यत् । ** द्वादश्यनादरो नातः कार्या भस्य तु स स्मृतः ॥६२२॥
तथा च स्कान्दे—
याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । **ऋक्षान्ते पारणं कुर्याद्विना श्रवण-रोहिणीम् ॥६२३॥ इति । ** **यतो रात्रिगतो द्वादश्यंशो नात्र विचार्यते । ** अतो वर्द्धत इत्याह पारणासमयात्ययम् ॥६२४॥ त्रयोदश्यां पारणन्तु नैतद्विषयमिष्यते । त्रयोदश्यामपीत्येतदनुक्तेरद्विधा ततः ॥६२५॥ **प्रत्युतात्र तु-शब्देन तस्यैकध्यं प्रदर्शितम् । ** **पर्यवस्येदतो युक्त्या द्वादशीक्षय एव तत् ॥६२६॥ ** तथापि सन्दिहानश्चेद्गृह्णीयाच्चरणामृतम् । **पारणायाः परं सम्यक् पूरकं तद्भवेद्यतः ॥६२७॥ **
गौतमीये तु स्फुटमेवोक्तम्—
**यदृक्षं वा तिथिर्वापि रात्रिं व्याप्य व्यवस्थिता । ** दिवसे पारणं कुर्यादिन्यथा पतनं भवेत् ॥६२८॥ इति ।
अथ श्रीवामनव्रतविधिः **नत्वा गुरुमनुज्ञाप्य पश्चान्नियममाचरेत् । ** न हि सिध्येद्गुरोर्भक्तिं नियमञ्च विना फलम् ॥६२९॥
तत्र नियममन्त्रः **एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि । ** **भोक्ष्ये श्रीवामनानन्त शरणागतवत्सल ॥६३०॥ इति । **
गुरुमिति—निजगुरुर्यदि सन्निहितः स्यात्तर्हि तं तदभावे आचार्यत्वेन वृतं विप्रमेकम् । पश्चादिति—आदौ गुरुगृहे गत्वा पश्चानियममाचरेत् । शिरस्तत्पादयोः कृत्वा पादौ स्पृष्ट्वा च मौलिना । कृताञ्जलिपुटो भूत्वा प्रार्थयित्वा गुरुन्ततः ॥ इति स्कान्दे जयन्तीव्रतप्रसङ्गोक्तेः । नियमं सादिक तथा च तत्रैव—नियमात् फलमाप्नोति न श्रेयो नियम विना इति ॥६२९-६३०॥
**एकादश्या रजन्यां वा द्वादश्यां चार्चयेत् प्रभुम् ॥६३१॥ **
एकादश्या रजन्यामिति द्वादशीक्षयाभिप्रायेण कदाचिच्च स्वल्पायां वृद्धायामपि तस्यां पारणापेक्षयेति दिक् ॥६३१॥
**स्वर्णरूप्यमये पात्रे ताम्रवंशमयेऽपि वा । ** कुण्डिकां स्थापयेत् पार्श्वे छत्रिकापादुकास्तथा । **शुभाञ्च वैणवीं यष्टिमक्षसूत्रं पवित्रकम् ॥६३२॥ **
स्वर्णमये रूप्यमये ताम्रमये वंशगये पूर्वपूर्वाभावे उत्तरोत्तरस्मिन्निति ज्ञेयम् । अत्र कुम्भस्थापनादिकं सर्वं पूर्वलिखितविजयादि-व्रतानुसारेण द्रष्टव्यमेव । अत्र च क्वचिद्विशेष एव किञ्चिदनुवादपूर्वकं लिखितमिति ज्ञेयम् ॥६३२॥
**पुष्पैर्गन्धैः फलैर्धूपैर्वामनं चार्चयेद्धरिम् । ** नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडौदनैः । **जागरं निशि कुर्वीत गीतवाद्यादिनर्त्तनैः ॥६३३॥ **
गुडौदनैर्गुडपाचितौदनैर्मिष्टान्नैर्वा ॥६३३॥
**एवमाराध्य देवेशं प्रभाते विमले सति । ** आदावर्घ्यं प्रदातव्यं पश्चाद्देवं प्रपूजयेत् । नारिकेलेन शुभ्रेण दद्यादर्घ्यञ्च पूर्ववत् ॥६३४॥
पूर्ववदिति पुष्पादि-सहितेन शङ्खनिहितेनेत्यर्थः ॥६३४॥
अथ अर्घ्यदानमन्त्रः
**वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च । ** गृहाणार्घ्यं मया दत्तं वामनाय नमोऽस्तु ते । **वामनाय अर्घ्यं नमः ॥६३५॥ ** **मत्स्यं कूर्मं वराहञ्च नरसिंहञ्च वामनम् । ** **रामं रामञ्च कृष्णञ्च क्रमाद्द्वौ बुद्धकल्किनौ ॥६३६॥ पादयोर्जानुनोर्गुह्ये नाभ्यामुरसि कक्षयोः । ** भुजयामूर्ध्नि सर्वाङ्गेष्वर्चयेदायुधानि च ॥६३७॥
मन्त्रविशेषे पूजाविशेषं लिखति—मत्स्यमिति द्वाभ्याम् । मत्स्यादीन् पादद्वयादिष्वङ्गेषु क्रमादर्चयेत् । तत्र बुद्धकल्किनौ द्वौ सर्वाङ्गष्वेकत्रैव पूजयेदिति बोद्धव्यम् पार्थक्येन नरकलिखनात् । अतएव समस्तत्वेन तौ लिखितौ तथा द्वाविति च । कस्यचिन्मते च रामद्वयमेकत्र । एवमादिर्विविधोऽर्चाविधिः तत्र यथासम्प्रदायमनुसर्तव्यः । प्रयोगः—ओं मत्स्याय नमः पादयोः इत्यादि मन्त्राश्चेत्तत एव पूर्ववज्ज्ञेयम् । आयुधानि च पूजयेत्—ओं सर्वेभ्य आयुधेभ्यो नमः इति ॥६३६-६३७॥
महापूजान्तः कृत्वा गो-महीं काञ्चनादिकम् । **शक्त्याचार्याय दातव्यं ब्राह्मणेभ्यश्च मन्त्रतः ॥६३८॥ **
ब्राह्मणेभ्यश्च दातव्यम् ॥६३८॥
**ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णाति मन्त्रवित् । ** ददाति मन्त्रतो ह्येव दाता भक्तिसमन्वित ॥६३९॥
तत्र दानमन्त्रः **वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् । ** वामनश्च प्रतिग्राही तेन मे वामने रतिः ॥६४०॥
प्रतिग्रहमन्त्रः **वामनः प्रतिगृह्णाति वामनोऽपि ददाति च । ** वामनस्तारको द्वाभ्यां तेनेदं वामने नमः ॥६४१॥ इति ।
ब्राह्मणोऽत्राचार्योऽन्वेष्यः । द्वाभ्यां—द्वयोर्दातृ—प्रतिग्राहिणोः ॥६३९-६४१॥
एवं कृत्वा विधानेन भोजनं पृषदाज्यकम् । **पूर्वं दद्याद्ब्राह्मणेभ्यः पश्चाद्भुञ्जीत बन्धुभिः ॥६४२॥ इति । **
पृषदाज्यकं—दधिमिश्रं घृतम् ॥६४२॥
**यद्वामनपुराणे च यद्भविष्योत्तरे व्रतम् । ** वामनस्योदितं तस्यानुसाराल्लिखितं त्विदम् ॥६४३॥
वामनपुराणे प्रेतेन श्रवणद्वादशीव्रतमुक्तं भविष्योत्तरे च स्वयं भगवता श्रीयुधिष्ठिरं प्रति वामनव्रतं श्रवणद्वादशीव्रतञ्च पृथङ्निरूपितम् । तदनुसारतश्च वामनस्य व्रतमिदं लिखितम् अतोऽत्र ग्रन्थैकमात्रदृष्टआऽनादरो न कार्य इति भावः ॥६४३॥
ब्रह्मवैवर्ते—
**गृहीत्वा नियमं प्रातर्गत्वा नद्योश्च सङ्गमे । ** **सोवर्णं वामनं कृत्वा सौवर्णमाषकेण वा ॥६४४॥ ** **यथाशक्त्याथ वित्तस्य कुम्भोपरि जगत्पतिम् । ** स्वर्णपात्रे स्नापयित्वा मन्त्रैरेतेश्च पूजयेत् ॥६४५॥
तत्र वामनपूजामन्त्रः **ओं वामनाय नमः पादौ काटिं दामोदराय च । ** ऊरू श्रीपतये गुह्यं कामदेवाय पूजयेत् ॥६४६॥ **पूजयेज्जगतां पत्युरुदरं विश्वधारिणे । ** **हृदयं योगनाथाय कण्ठं श्रीपतये नमः ॥६४७॥ ** **मुखञ्च पङ्कजाक्षाय शिरः सर्वात्मने नमः । ** **इत्थं सम्पूज्य वासोभिराच्छाद्य च जगद्गुरुम् । ** दद्यात् सुश्रद्धया चार्घ्यं नारिकेलादिभिः फलैः ॥६४८॥
तत्र अर्घ्यदानमन्त्रः **ओं नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञक । ** अघौघसङ्क्षयं कृत्वा प्रेतमोक्षप्रदो भव ॥६४९॥ इति । **छत्रोपानहगोदानं दद्यादत्र कमण्डलुम् । ** **विशेषेण द्विजाग्र्याय वामनः प्रीयतामिति ॥६५०॥ ** **यथाशक्त्या च दानानि द्विजाग्रेभ्यः प्रदापयेत् । ** कुर्याज्जागरणं रात्रौ गीतशास्त्रसमन्वितम् ॥६५१॥ **श्रद्धया परया युक्तो निशामनिमिषेक्षणः । ** **प्रभाते भोजयेद्विप्रान् द्वादश्यां पारणं ततः ॥६५२॥ ** कुर्यात् स्वयं श्रद्धया तत् सर्वं सफलतां व्रजेत् ॥६५३॥
तन्माहात्म्यम्
तत्रैव—
**एवं कृते तु कालेय व्रतेऽस्मिन् विजयादिने । ** **न दुल्लभतरं किञ्चिदिहलोकेऽथवा परे ॥६५४॥ ** **फलमस्य व्रतस्योक्तं दत्त्वा पित्रोर्नरोत्तमः । ** वंशोद्धारकरो मुक्तिं याति पैत्र्यादृणादपि ॥६५५॥ **न पावनतरं किञ्चिदतः परमिहोच्यते । ** **विजयाव्रततुल्यञ्च न परं परिपठ्यते ॥६५६॥ **
भविष्योत्तरे च—
**समाप्ते तु व्रते तस्मिन् यत् पुण्यं तन्निबोध मे । ** **चतुर्युगानि राजेन्द्र सप्तसप्तति-सङ्ख्यया ॥६५७॥ ** **प्राप्य विष्णुपुरं राजन् क्रीडते कालमक्षयम् । ** **इहागत्य भवेद्राजा प्रतिपक्षभयङ्करः ॥६५८॥ ** **हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरः । ** रूपसौभाग्यसम्पन्नो दीर्घायुर्नीरुजो भवेत् ॥६५९॥ पुत्रपौत्रैः परिवृतो जीवेच्च शरदां शतम् ॥६६०॥
अथाश्विनकृत्यम् **आश्विनस्य सिते पक्षे दशम्यां विजयोत्सवः । ** कर्तव्यो वैष्णवैः सार्द्धं सर्वत्र विजयार्थिना ॥६६१॥
सर्वत्र अस्मिन् लोके परस्मिंश्च विजयार्थिना उत्कर्षेच्छूना ॥६६१॥
अथ विजयोत्सवविधिः
**रथमारोप्य देवेशं सर्वालङ्कारशोभितम् । ** **सासितूणधनुर्वाणपाणिं नक्तञ्चरान्तकम् ॥६६२॥ **
ऋक्षादिभिर्भाव्यमिति तच्चेष्टादिकमनुसर्त्तव्यमित्यर्थः ॥६६२॥
**स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् । ** **राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत् ॥६६३॥ ** **सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् । ** अर्चयित्वा शमीवृक्षमर्चयेद्विजयाप्तये ॥६६४॥
अथ तम्मन्त्रः **शमी शमयते पापं शमी लोहितकण्टका । ** **धरित्र्यर्जुनवाणानां रामस्य प्रियवादिनी ॥६६५॥ ** **करिष्यमाणा या यात्रा यथाकालं सुख मया । ** **तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥६६६॥ इति । ** **गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् । ** **गीतवादित्रनिर्घोषैरततो देवं गृहे नयेत् ॥६६७॥ ** **कैश्चिद्दृक्षैस्तत्र भाव्यं कैश्चिद्भाव्यञ्च वानरैः । कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये ॥६६८॥ ** **निर्जिता राक्षसा दैत्या वैरिणो जगतीतले । ** रामराज्यं रामराज्यं रामराज्यमिति ध्रुवन् ॥६६९॥ **आनीय स्थापयेद्देवं निजसिंहासने सुखम् । ** ततो नीराज्य देवेशं प्रणमेद्दण्डवद्भुवि । **महाप्रसादवस्त्रादि धारयेद्वैष्णवैः सह ॥६७०॥ ** **इति श्रीविष्णुधर्मोक्तानुसारेण व्यलेख्ययम् । ** **विधिः श्रीरामविजयोत्सवस्योत्सवकृत सताम् ॥६७१॥ **
श्रीरामविजयोत्सवस्य विधिः उत्सवकृदानन्दजनकः ॥६७१॥
सीता दृष्टेति हनूमद्वाक्यं श्रुत्वाऽकरोत् प्रभुः । **विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमीतलात् ॥६७२॥ **
तस्मिन् दिने शमीवृक्षतले तत्पूजादिकारणं लिखति—सीतेति ॥६७२॥
इति पञ्चदशो विलासः ॥
इति श्रीगोपाल भट्ट-विलिखिते श्रीमद्भगवद्भक्तिविलासे दियाविर्भावो नाम पञ्चदशो विलासः ।