(१४)
चतुर्दश-विलासः
षाण्मासिकः
**अगत्येकगतिं नत्वा हीनार्थाधिकसाधकम् । ** चैतन्यदेवं लिख्यन्ते मासपूजामहोत्सवाः ॥१॥
एवं श्रीवैष्णवानां प्रत्यहकृत्यानि प्रतिपक्षकृत्यानि च लिखित्वा अधुना प्रतिमासकृत्यानि लिखित परम गुरु—श्रीभगवन्माहात्म्येनैव तत् सिध्यतीत्यभिप्रेत्य तन्नमस्कारपूर्वकमारभते—अगतीति । श्रीभगवन्माहात्म्यमेव दर्शयति—अगतीनामेकामन्यां गतिं शरणं न च गतिमात्रं किन्तु हीनानां सज्जन्म-कर्महीनानामतिनीचजनानां योऽर्थाः प्रयोजनानि धर्मादयो वा तेषामधिकं यथा स्यात्तथा साधकमिति । मासेषु द्वादशसु ये भगवत्पूजाविशेषरूपा महोत्सवास्ते ॥१॥
अथ मासकृत्यानि
**आग्रहायणिको मासो मासेषु प्रवरः स्मृतः । ** मासानां मार्गशीर्षोऽहमित्युक्तो माधवेन यः ॥२॥
तत्रादौ मार्गशीर्षमासस्य कृत्यानि लिखन् तस्य सर्वमासाद्यतां दर्शयन् तन्माहात्म्यं लिखति—आग्रहायणिक इति । हायनस्य संवत्सरस्य अग्रवर्तित्वादाग्रहायणिक इति-व्युत्पत्त्या सर्वमासाद्यत्वेन सिद्धं तस्य श्रेष्ठ्यमेव लिखति—मासेष्विति । तत्र हेतुः—मासानामिति । य आग्रहायणिको माधवेन मधुकुलसमुद्रचन्द्रेण श्रीभगवता स्वयमेव विभूत्यधाये उक्तः ॥२॥
तत्रादौ मार्गशीर्षकृत्यम्
**स्नानदानव्रतार्चादिक्रियाः सनियमं कृताः । ** माघादाविव मार्गेऽस्मिन् भगवद्भक्तिभूतिदाः ॥३॥
तत्रादौ श्रीभगवद्विभूतित्वेन तत्प्रियतया माघादिसादृश्यात् माघादिकृत्यानां स्नानादि सत्कर्मणामत्राप्याचरणात् फलविशेषः स्यादिति पुराणोक्त-मार्गशीर्षमाहात्म्यानुसारेण लिखति—स्नानेति । व्रतं भक्ष्यादिनियमः अर्चा भगवत्पूजा आदि-शब्देन भगवद्वार्ता वैष्णवसङ्गमादि सनियमं ससङ्कल्पं सनिश्चयं वा यथा स्यात् अन्यथा शैथिल्यसम्भवात् भगवद्भक्तिं भूतिञ्च सम्पदम् यद्वा भगवद्भक्तिरूपां लक्ष्मीं ददातीति तथा ताः ॥३॥
**तुलसीकानने पूज्यो मार्गे मासि विशेषतः । ** **भगवान्नृत्यगीतादिमहेन सह वैष्णवैः ॥४॥ **
इदानीं तत्र कृत्यविशेषं दर्शयति—तुलसीति द्वाभ्याम् । वैष्णवैः सह नृत्यगीतादिरूपो यो महोत्सवस्तेन भगवान् पूज्यः ॥४॥
**विशेषतश्च मासेऽस्मिन् वस्त्रं शीतनिवारणम् । ** चित्रं भगवते दद्याज्जगज्जाङ्यहरं हि तत् ॥५॥
चित्रम्—बहुप्रकारकम् ॥५॥
किञ्च विष्णुधर्मे—
मार्गशीर्षे त्वेकभक्तं कृत्वा योऽभ्यर्चयेद्धरिम् । **भोजयित्वा द्विजान्मुक्तः स्यादित्याह कलिप्रियः ॥६॥ **
मुक्तः स्यात् श्रीवैकुण्ठप्राप्त्या पुनः संसारबन्धाभावात् । कलिप्रियः— श्रीनारदः ॥६॥
**नक्तं व्रतेन यो मासं मार्गशीर्षं हरिप्रियम् । ** **नयेदसौ नरो याति विष्णुलोकं सनातनम् ॥७॥ इति । ** **क्रमाद्दशावताराणां मत्स्यादीनां सितासु च । ** **यन्मार्गादिद्वादशीषु व्रतं दुर्वाससोदितम् ॥८॥ **
गौतमीयतन्त्रे—
**मार्गशीर्षे तथा मासि प्रातः स्नात्वा नरोत्तमः । ** क्रमपूजां समासाद्य जपहोमौ तथाचरेत् ॥९॥ **पायसं गुडसम्मिश्रं प्रत्यहं विनिवेदयेत् । ** एवं मासार्चनं कृत्वा भवेद्भाग्यधरः पुमान् ॥१०॥ **देहान्ते मोक्षमाप्नोति प्रसावात् शार्ङ्गधन्वनः । ** तत् कार्यं तत्र तत्रैव ज्ञात्वा वाराहतो विधिम् ॥११॥ **तत्तत् फलञ्च तत्रोक्तं काम्यत्वात्तन्न लिख्यते ॥१२॥ **
अधुना तत्र कृत्यं श्रीवराहपुराणोक्तं मत्स्यद्वादशीव्रतमुद्दिशन् तत्प्रसङ्गात् साम्येन द्वादशमासव्रतानामेव कृत्यता सङ्क्षेपेणैकत्र एव लिखति—क्रमादिति द्वाभ्याम् । श्रीमत्स्यादीनां दशावताराणां क्रमेण मार्गशीर्षादिद्वादशमासेषु । तथा श्रीपद्मनाभस्याश्विने श्रीयोगेश्वरस्य च कार्त्तिके इत्येवं मार्गशीर्षादिमासेषु शुक्लद्वादशीषु दुर्वाससा मुनीश्वरेण यद्व्रतमुक्तं तत्र तत्र व्रते विधिं श्रीवराहपुराणतो ज्ञात्वा तत्कार्यमेव वैष्णवैः विष्णुव्रतत्वात् । अतएव तस्य फलं यद्वा अनिर्वचनीयं फलम् तत्र वाराहे उक्तं दुर्वाससैव । ननु तर्हि तत्तद्व्रतं फलञ्च विवृत्य लिख्यतां तत्र लिखति—काम्यत्वादिति । प्रायोऽत्र ग्रन्थे वैष्णवानामावश्यव कृत्यस्यैव लिखनात् । अत्र यत्तदित्यादौ वीप्साया अभावेऽपि व्रतानां बहुत्वात्तथा । तत्र तत्रेत्यादौ वीप्साप्रयोगाच्चान्यत्रापि वीप्सावितक्यैवेति ॥७-१२॥
तथा च दशमे (२२.१)—
**हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । ** चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥१३॥
अथ पौषकृत्यम्
पञ्चरात्रे—
**पौषस्यैकादशीं शुक्लामारभ्य स्थण्डिलेशयः । ** मासमात्रं हरिप्रीत्यै त्रिवारं स्नानमाचरेत् ॥१४॥
स्थण्डिलेशयः भूमिशायी सन् ॥१४॥
त्रिकालं पूजयेत् कृष्णं त्यक्तभोगो जितेन्द्रियः । **पौषस्य द्वादशीं शुक्लां यावत् पुण्यफलप्रदाम् ॥१५॥ ** **मासमेकं तदर्द्धं वा दशाहं वा तदर्द्धकम् । ** **कृत्वा याति हरेः स्थानं पूजां दध्योदनोत्सवाम् ॥१६॥ **
दध्योदनेन तदर्पणेन तद्रूपो वा उत्सवो यस्यां तां हरेः पूजां कृत्वा ॥१६॥
**गीतैर्वाद्यैर्नृतैर्भक्तैर्दधिभक्तं समं नयेत् । ** अर्पयित्वा हरौ भक्त्या प्रसादञ्चानयेत्ततः ॥१७॥
नृत्यैः नृत्यैः भक्तैः वैष्णवैः सम गीतादिभिर्दधिमिश्रितं भक्तं नयेत् भगवदग्रे समर्पणाय । प्रसादम् उच्छिष्टरूपं तत् ॥१७॥
**यः प्रसादं हरेर्भक्त्या गृह्णाति प्रददाति च । ** **भुङ्क्ते च वैष्णवैः सार्द्धं सोऽनन्तफलमश्नुते ॥१८॥ ** **घृतप्रस्थेन देवेश पौषपुष्यसिते नरः । ** स्नापयित्वाश्वमेधस्य फलमाप्नोत्यसशयम् ॥१९॥
अथ माघकृत्यम्
पाद्मे माघमाहात्म्ये विद्याधर-भ्रूवसंवादे—
**माघे मासि कुरु स्नानं मणिकूटनदीजले । ** **ऋषिसिद्धासुरैर्जुष्टे कथ्यामि च तद्विधिम् ॥२०॥ ** **तव भाग्यवशान्माघो निकटः पञ्चमेऽहनि । ** पौषस्यैकादशीं शुक्लामारभ्य स्थण्डिलेशयः । **मासमेकं निराहारस्त्रिवारं स्नानमाचरेत् ॥२१॥ ** **त्रिकालमर्चयेद्विष्णुं त्यक्तभोगो जितेन्द्रियः । ** **माघस्यैकादशीं शुक्लां यावद्विद्याधरोत्तम ॥२२॥ इति । **
माघकृत्यं चाखिलं पद्मपुराणादौ व्यक्तमेकत्रैवोक्तत्वात् पूर्ववदर्थतः सङ्गृह्य स्वयमलिखित्वा तत्तद्वचनैरेव लिखति—सम्प्राप्त इत्यादिना प्रीयतामित्यन्तेन । सत्कार्याः सम्माननीयाः अग्रतो यथाशक्तीत्युक्त्या सर्वत्र तथैव बोद्धव्यं शास्त्रेष्वशक्यस्याविधेयत्वात् । आदि-शब्दान् किञ्चिद्भक्ष्यत्यागादि ॥२२॥
पाद्मे श्रीदत्तात्रेय-कार्तवीर्यसंवादे—
**सम्प्राप्ते मकरादित्ये पुण्ये पुण्यप्रदे सदा । ** सत्कार्यास्तिथयः सर्वाः स्नानदानादिकैः सदा ॥२३॥ **कर्तव्यो नियमः कश्चिद्व्रतरूपी नरोत्तमैः । ** **फलातिशयहेतोर्वै किञ्चिद्बोज्यं त्यजेद्बुधः ॥२४॥ **
तदेवाभिव्यञ्जयति—कर्तव्य इत्यादिना । नियममेवाह—फलेति द्वाभ्याम् । किञ्चित् भोज्यं त्यजेदिति नित्यं प्रवृत्तानां भक्ष्याणां मध्ये किञ्चित्त्यजेदित्यर्थः ॥२४॥
**भूमौ शयीत होतव्यमाज्यं तिलविमिश्रितम् । ** **त्रिकालं चार्चयेन्नित्यं वासुदेवं सनातनम् ॥२५॥ ** **दातव्यो दीपकोऽखण्डो देवमुद्दिश्य माधवम् । ** **इन्धनं कम्बलं वस्त्रमुपानत्कुङ्कुमं घृतम् ॥२६॥ **
अखण्डः अहोरात्र-मासव्यापी ॥२६॥
**तैलं कार्पासकोषञ्च तूलीं तूलवतीं पटीम् । ** **अन्नञ्चैव यथाशक्ति देयं माघे नराधिप ॥२७॥ ** **स्वर्णञ्च रत्तिकामात्रं दद्याद्वेदविदे तथा । ** **परस्याग्निं न सेवेत त्यजेद्विप्रः प्रतिग्रहम् ॥२८॥ ** **माघान्ते भोजयेद्विप्रान् यथाशक्ति नराधिप । ** देया च दक्षिणा तेभ्य आत्मनः श्रेय इच्छता ॥२९॥ **एकादशी-विधानेन माघस्योद्यापनं तथा । ** **कर्तव्यं श्रद्दधानेन अक्षयस्वर्गवाञ्छया ॥३०॥ **
उद्यापनमच्छिद्रवाचनादिना नियमसमापनमेव न तु पुनर्माघकृत्याकरणात्मकम् एकादशीव्रतवत्तस्य नित्यत्वात् । तच्चाग्रे व्यक्तं भावि ॥३०॥
**मकरस्थे रवौ माघे गोविन्दाच्युतमाधव । ** **स्नानेनानेन मे देव यथोक्तफलदो भव ॥३१॥ ** **इमं मन्त्रं समुच्चार्य स्नायान्मौनं समाश्रितः । ** वासुदेवं हरिं विष्णुं माधवञ्च स्मरेत् पुनः ॥३२॥
तत्र स्नानविधौ विशेषमाह—मकरस्थ इति द्वाभ्याम् । गोविन्देत्यादिना भक्त्या पुनः पुनः सम्बोधनं स्नाने नामकीर्तनविशेषो वा तथा वासुदेवमित्यादीनि च नामानि स्मरेत् मनसि जपेत् लघु लघु कीर्तयेदिति वा पुनरिति मुहुरित्यर्थ ॥३१-३२॥
किञ्च—
**उष्णेन वारिणा स्नानं यद्गृहे क्रियते नरैः । ** **षडब्दफलदं तद्धि मकरस्थे दिवाकरे ॥३३॥ ** **वहिःस्नानन्तु वाप्यादौ द्वादशाब्दफलं स्मृतम् । ** तडागे द्विगुणं राजन् वाप्यां तच्च चतुर्गुणम् ॥३४॥ **दशधा देवखाते तु शतधा तु महानदीम् । ** **शतञ्चतुर्गुणं राजन् महानद्यास्तु सङ्गमे ॥३५॥ **
महानदीं प्रति तस्यामित्यर्थ ॥३५॥
**सहस्रगुणितं सर्वं तत् फलं मकरे रवौ । ** **गङ्गायां स्नानमात्रेण लभते मानुषो नृप ॥३६॥ ** **शतेन गुणितं माघे सहस्रं राजसत्तम । ** **निर्दिष्टमृषिभिः स्नानं गङ्गायामुनसङ्गमे ॥३७॥ **
शतेन गुणितं सहस्रलक्षमित्यर्थः ॥३७॥
किञ्च—
**अप्रावृत शरीरस्तु यः कष्टं स्नानमाचरेत् । ** **पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥३८॥ **
अप्रावृतशरीरत्वञ्च स्नानसङ्कल्पं स्नानार्थगमनञ्चारभ्य तर्पणावधि गृहागमनपर्यन्तं वा बोद्धव्यम् ॥३८॥
भविष्योत्तरे च श्रीभगवद्युधिष्ठिरसंवादे— **पौषफाल्गुनयोर्मध्ये प्रातःस्नायी सदा भवेत् ॥३९॥ ** **तत्र चोत्थाय नियमं गृह्णीयाद्विधिपूर्वकम् । ** **माघमासमिमं पूर्णं स्नास्येऽहं देव माधव ॥४०॥ **
किञ्च—
**अप्रावृतशरीरस्तु यः कृच्छं स्नानमाचरेत् । ** वेदोक्तविधिना पार्थ सुर्यस्यार्ध्यं निवेदयेत् ॥४१॥
माघमासमिति माघस्नानारम्भे सङ्कल्पविशेषो दर्शितः । तत्र स्नानविधिश्च साधारण एवेति नात्र लिखितः ॥४०-४१॥
**पितृन् सन्तर्प्य तत्रस्थः समुत्तीर्य जलाशयात् । ** **पदे पदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥४२॥ ** **ततः स्नात्वा शुभे तीर्थे दत्त्वा शिरसि वै मृदम् । ** **इष्टं देवं नमस्कृत्य पूजयेन्मधुसूदनम् ॥४३॥ ** **शङ्खचक्रधरं देवं माधवं नाम पूजयेत् । ** **वह्निं हत्वा विधानेन ततश्चैकमना भवेत् ॥४४॥ ** **तिल आमलकान्येव तीर्थे देयञ्च गोमयम् । ** **तथा प्रज्वालयेद्वह्निं निःशीतार्थं द्विजन्मनाम् ॥४५॥ ** **भोजनं द्विजदम्पत्योः पूजयेच्च विलेपनैः । ** कम्बलाजिनरत्नानि वासांसि विविधानि च ॥४६॥ **चैलकानि च देयानि प्रच्छादनपटन्तथा । ** उपानहौ तथा राजन् माघस्नानेन दापयेत् । अनेन विधिना राजन् माधवः प्रीयतामिति ॥४७॥
चैलकानि कन्थादीनि माधवः प्रीयतामित्यनेन विधिना दापयेत् दद्यात् ॥४७॥
अथ माघस्नानस्य नित्यत्वम्
भविष्योत्तरे तत्रैव—
**प्रयागं पुष्करं प्राप्य कुरुक्षेत्रमथापि वा । ** यत्र वा तत्र वा स्नायान्माघे नित्यमिति श्रुतिः ॥४८॥
किञ्च—
**अवश्यमिति कर्तव्यं माघस्नानं यथाविधि ॥४९॥ **
पाद्मे—
**अकामो वा सकामो वा माघस्नायी भवेन्नरः ॥५०॥ **
किञ्च तत्रैव श्रीदत्तात्रेय-कार्तवीर्यसंवादे—
**अमाघस्नायिनां नृणां निष्फलं जन्मकीर्तनम् । ** असूर्यगगनं यद्वदचन्द्रमुडुदण्डलम् । **तद्वन्न भाति सत्कर्म माघस्नानं विना नृप ॥५१॥ ** **बुद्बुदा इव तोयेषु पुत्तिका इव जन्तुषु । ** जायन्ते मरणायैव माघस्नानविवर्जिताः ॥५२॥
पुत्तिकाः सूक्ष्मकीटविशेषाः सद्योजन्ममरणाः । एवं माघस्नानभावेन जन्मकर्मादिवैफल्यान्नित्यत्वं साधितम् ॥५२॥
किञ्च—
**व्रतदानतपोभिश्च न तथा प्रीयते हरिः । ** **माघे मज्जनमात्रेण यथा प्रीणाति माधवः ॥५३॥ **
अधुना भगवत्तोषणत्वात् परमनित्यत्वमाह—व्रतेति सार्द्धेन ॥५३॥
किञ्च—
प्रीतये वासुदेवस्य माघस्नानं प्रकीर्तितम् ॥५४॥
अथ तत्राधिकारिनिर्णयः
पाद्मे तत्रैव—
सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप । **सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः ॥५५॥ **
अत्र माघस्नाने विष्णुभक्ताविति दृष्टान्तेन माघस्नानस्यापि विष्णुभक्तित्वमभिप्रेतम् ॥५५॥
अतएव भविष्योत्तरे तत्रैव—
**ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः । ** प्रातः सर्वे प्रशंसन्ति सदा माघस्य मज्जनम् ॥५६॥
प्रातर्मज्जनम् ॥५६॥
**बालास्तरुणका वृद्धा नरनारी-नपुंसकाः । ** स्नात्वा माघं शुभे तीर्थे प्राप्नुवन्तीप्सितं फलम् ॥५७॥
नरः—पुरुषः ॥५७॥
**ब्राह्मणः क्षत्रियो वैश्यो मन्त्रवत् स्नानमाचरेत् । ** तुष्णीमेव तु शूद्रस्य स्त्रीणाञ्च कुरुनन्दन ॥५८॥
अथ माघमाहात्म्यम्
तत्र कात्यायनः—
**माघस्नायी नरो यः स्याद्दुर्गतिं नैव पश्यति । ** तन्नास्ति मानुषे लोके किल्विषं यन्न शोधयेत् ॥५९॥
भविष्योत्तरे तत्रैव—
**माघमासे रटन्त्यापः किञ्चिदभ्यूदिते रवौ । ** **ब्रह्मघ्नं वा सुरापं वा कं पतन्तं पुनीमहे ॥६०॥ ** **प्रासादा यत्र सौवर्णाः स्त्रियश्चास्परसो यथा । ** दधिकुल्यास्तथा यत्र नद्यः पायसकर्दमाः । तत्र ते यान्ति मज्जन्ति ये माघे भास्करोदये ॥६१॥
किञ्च—
**पितृपितामहैः सार्द्धं तथैव प्रपितामहैः । ** मातृमातामहैः सार्द्धं वृद्धमातामहैस्तथा ॥६२॥ एकविंशकुलैः सार्द्धं भोगान् भुक्त्वा यथेप्सितान् । **माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति ॥६३॥ ** यो माघमास्युषसि सूर्यकराभिताम्रे स्नानं समाचरति चारुनदीप्रवाहे । **उद्धृत्य सप्तपुरुषान् पितृमातृतश्च स्वर्गं प्रयात्यमलदेहधरो नरोऽसौ ॥६४॥ **
सौपर्णे श्रीनारदेन्द्रसंवादे—
**दुर्लमो माघमासस्तु वैष्णवानामतिप्रियः । ** **देवतानामृषीणाञ्च मुनीनां सुरनायक ॥६५॥ ** **विशेषेण शचीनाथ माधवस्यातिवल्लभः । ** **अधिको माघमासस्तु मासानान्तु शचीपते ॥६६॥ ** **पौष्या तु समतीतायां यावद्भवति पूर्णिमा । ** **माघमासस्य देवेन्द्र पूजा विष्णोर्विधीयते ॥६७॥ ** **स्नानं विलेपनं धूपं नैवेद्यादि च शक्तिः । ** **माघमासकृतं विष्णोः सर्वं भवति चाक्षयम् ॥६८॥ ** **मासार्द्धं वा समग्रं वा दशाहं वा तदर्द्धकम् । ** यथाशक्त्या हरेः पूजां कुर्वन्नाप्नोति तत्पदम् ॥६९॥
स्कान्दे ब्रह्मनारदसंवादे—
माघस्नानस्य माहात्म्यं शृणु भागवतप्रिय । **त्वत्समो नास्ति लोकेऽस्मिन् विष्णोर्भक्तो महामुने ॥७०॥ **
त्वत्समो विष्णुभक्तो नास्तीति परमगुह्यमेतत् त्वं शृण्विति भावः ॥७०॥
**चक्रतीर्थे हरिं दृष्ट्वा मथुरायाञ्च केशवम् । ** **यत् फलं लभते जन्तुर्माघस्नानेन तत् फलम् ॥७१॥ ** **जितेन्द्रियः शान्तमनाः सदाचारेण सयुतः । ** **स्नानं करोति यो माघे संसारी न भवेत् पुनः ॥७२॥ ** **ओङ्कारः सर्ववेदानां यथादौ परिगीयते । ** तथा विष्णुव्रतानान्तु माघस्नानं महामुने ॥७३॥ इत्यादि ।
किञ्च तत्रैवान्यत्र—
**मनसापि चिकीर्षन्ति माघस्नानन्तु ये नराः । ** ते घोरं न प्रयास्यन्ति संसारदुःखसङ्कुलम् ॥७४॥ **सौरिमार्गं महाघोरं यमदूतान् यमन्तथा । ** स्वप्नेऽपि न हि पश्यन्ति माघस्नानरता नराः ॥७५॥ **यदीच्छेद्विष्णुना वासं सुतान् सम्पदमात्मनः । ** **माघस्नानं तदा कायं वर्षे वर्षे च नारद ॥७६॥ ** **व्रतानि वैष्णवानीह मनसापि चिकीर्षति । ** तत्तस्य विलयं याति पापं जन्मशतोद्भवम् ॥७७॥
वैष्णवानि व्रतानि माघस्नानादीनि इह भारते वर्षे । यद्वा अस्मिन् माघमासे विष्णूद्देशेऽन्यान्यपि व्रतानि एकभक्तादीनि यश्चिकीर्षति तस्य तन्महापातकादिकम् ॥७७॥
माघस्नानं नरः कृत्वा सदा दान्तमना व्रती । **प्राप्नोति च पदं विष्णोः स्थानं त्रैलोक्यवन्दितम् ॥७८॥ **
पदमेवाह—स्थानमिति ॥७८॥
**कृत्वा भूरि महापापं ज्ञानतोऽज्ञानतोऽपि वा । ** माघस्नानेन विप्रेन्द्र दह्यते तूलराशिवत् ॥७९॥ **कर्मणा मनसा वाचा यत् पापं समुपार्जितम् । ** दह्यते नात्र सन्देहो माघस्नानेन नारद ॥८०॥ **स्नानं दानं जपो होमः समुद्दिश्य जनार्दनम् । ** नरैर्यत् क्रियते माघे तदनन्तफलं स्मृतम् ॥८१॥ विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम् । **न तत् फलमवाप्नोति यो लोभाक्रान्तमानसः ॥८२॥ **
ननु स्नानमात्रेणैव सर्वसिद्धेः किं दानादिना तत्राह—विभव इति । शक्तौ वित्तशाठ्येन फलं न सम्यक् सिध्येदिति भावः ॥८२॥
**ये भविष्यन्ति येऽतीता आकल्पं पुरुषाः कुले । ** **तांस्तारयति विप्रेन्द्र माघस्नानेन माधवः ॥८३॥ ** **सम्प्राप्ते माघमासे तु तपस्विजनवल्लभे । ** विलयं यान्ति पापानि तमः सूर्योदये यथा ॥८४॥ **यतिवत् पथि गच्छेत मौनी पैशुन्यवर्जितः ॥८५॥ **
माहात्म्यकथनान्तरे च माघप्रातःस्नानार्थगमनविधिमाह—यतिवदिति । हिंसादि-शून्यः मौनी भगवन्नामकीर्तनातिरिक्तवचनरहितः विशेषतः पैशुन्येन माघकृत्यत्यागादिपरदोषसूचनेन वर्जितो हीनः सन् पथि गच्छेत् । यद्वा माहात्म्यमेवाह—माघस्नानतः यद्वा माघे सम्प्राप्ते सति सर्वोऽपि जनः यतिवत् मौनी आत्मारामत्वादि-मुनिधर्मयुक्तः सन् अतएव पैशुन्यर्जितः सन् पथि सन्मार्गे गच्छेत् । संयत इति पाठेऽपि तादृगेवार्थः ॥८५॥
**यदीच्छेद्विपुलान् भोगान् वैष्णवं पदमव्ययम् । ** महानदीजले स्नात्वा इतरे वापि नारद । **स्नापयित्वा हरिं भक्त्या पूजयेत्तुलसीदलैः ॥८६॥ **
यदीच्छेत्तदा पूजयेदिति सार्द्धेनान्वयः ॥८६॥
ब्रह्मवैवर्ते श्रीसूतशौनकसंवादे—
**न माघमासस्नानस्य सममन्यद्भृगूड्वह । ** **तपः किमपि तत्त्वार्थवेदिनो मुनयो विदुः ॥८७॥ ** **शीतकाले सुशीतेन जलेन स्वं वपुर्नरः । ** प्रक्षाल्य सद्यो नियतं विशोधयति दुष्कृतम् ॥८८॥
किञ्च—
**अपि शूद्रोऽपि दासोऽपि माघस्नानपरायणः । ** प्रोक्तो मुख्यतमो विप्रो न तु तद्विमुखो द्विजः ॥८९॥
दासः कैवर्तः तस्य सततजलचारित्वेन स्वत एव स्नानसुखं सिध्येत । सऽपि यदि माघस्नानं नियमेन करोतीत्यर्थः । अथवा अन्त्यजत्वे तात्पर्यम् । मुख्यतमः सर्ववेदार्थतत्त्वज्ञो विप्रः प्रोक्तः । उदयमास्थितः इति किञ्चिदभ्युदिते रवौ इति स्नानकालाभिप्रायेण ॥८९॥
**यत्र साक्षाद्दिनाधीशो भवेदुदयमास्थितः । ** **ततः किमपरं नाम प्रशस्य धर्मसाधनम् ॥९०॥ ** **माघस्नानं समुद्दिश्योषसि गेहात् समुत्थितः । यावत्पदान्यश्वमेधसमानि स्युर्ददाति यः ॥९१॥ ** **यथा यथा पुमान् माघे प्रातरुत्थाय धावति । ** **तथा तथाऽभुक्तकर्म-सङ्क्षयाद्दयते यमः ॥९२॥ **
यावन्ति पदानि यो ददाति न्यस्यति तस्य तावन्ति पदानि अश्वमेधयज्ञसमानि स्युरित्यर्थः । य इति अधिकार्यनधिकार्यनपेक्षया यः कश्चिदिति भावः । अभुक्तानां नरकपातनादिना अकृतभोगानामपि कर्मणां सम्यक् क्षयाद्धेताः ॥९१-९२॥
**यत् फलं कपिलादाने कुरुक्षेत्रे रविग्रहे । ** **तदवश्यमवाप्नोति माघस्नानं करोति यः ॥९३॥ **
पाद्मे भूमिखण्डे श्रीवशिष्ठदिलीप-संवादे—
**सम्यगुक्तं परं श्रेयो लोकद्वयहितावहम् । ** **निर्मलीकरणं तेन मुनीनां वनवासिनाम् ॥९४॥ ** **क्रतुभुक्कामिनीनां ये प्रत्यासतिमखण्डिताम् । ** कामयन्ते मृगार्के ते स्रोतसि स्नान्तु सर्वदा ॥९५॥
कदाचिन्माघे मृगयार्थं वनप्रविष्टेन रात्रौ वनान्तरेवोषितेन राज्ञा दिलीपेन पथि गच्छतो वानप्रस्थमुनेराज्ञया सरसि स्नात्वा गृहमागत्य तन्मुन्युक्तं माघमाहात्म्यं सविस्मयं परिपृष्टस्य तं प्रति वाक्यं सम्यगुक्तमित्यादि । क्रतुभुक्कामिन्योऽप्सरसः प्रत्यासत्तिं सम्भोगम् ॥९४-९५॥
**विना वह्निं विना यज्ञमिष्टापूर्तं विनापि ये । ** वाञ्छन्ति स्वर्गतिं स्नान्तु प्रातर्माघे बहिर्जले ॥९६॥ **गोभूमितिल-वासांसि स्वर्णधेन्वान्नकानि ये । ** अदत्त्वेच्छन्ति नाकं ते माघे स्नान्तु नराधिप ॥९७॥ त्रिरात्रेन्दुव्रतः कृच्छैः पराकैश्च निजां तनुम् । **अशोष्येच्छन्ति ये स्वर्गं तपसि स्नान्तु ते सदा ॥९८॥ **
त्रिरात्रैरिन्दुव्रतैश्च ॥९८।
**हरेरर्चा तु वैशखे तपः पूजा च कार्त्तिके । ** तपः पूजा तथा स्नानं त्रयं माघे विशिष्यते ॥९९॥
किञ्च—
निरन्ना ह्यदितिः सस्नौ माघान् द्वादश मानसे । **पुत्रान् सा द्वादशादित्यान् लेभे त्रैलोक्यदीपकान् ॥१००॥ ** **सुभगा रोहिणी माघाद्दानशीला ह्यरुन्धती । ** **शची च रूपसम्पन्ना अनसूया पतिव्रता ॥१०१॥ **
माघात् माघस्नानादिकरणात् ॥१०१॥
**उत्तमे विषये राजन् प्रासादे साप्तभौमिके । ** **तुमुलीकृतशोभाढ्ये रत्नकैः खचिताजिरे ॥१०२॥ **
साप्तभौमिके—उपर्यु परिरचितसप्तभूमिके तुमुलीकृतया बाहुल्येनान्योन्यसङ्कीर्णया शोभया युक्ते ॥१०२॥
**द्विपकर्णमरुच्छन्ने रूपवत्स्त्रीजनाकुले । ** **गीतवादित्रनिर्घोषे मङ्गलाचारशोभिते ॥१०३॥ ** **वेदध्वनि-पवित्रे च विद्वद्विप्रैरलङ्कृते । ** **सुरार्चनरते रम्ये सदातिथिनिषेविते ॥१०४॥ ** **मुदितास्ते वसन्तीह यैः स्नातं मकरे रवौ । ** यैर्दत्तं बहुधा माघे मुरारिः पूजितस्तु यैः ॥१०५॥ **इष्टवस्तुपरित्यागान्नियमस्य च पालनात् । ** **धर्ममूलं सदा माघः पापमूलं निकृन्तति ॥१०६॥ ** **एतदेव परं पथ्यमर्थमूलञ्च कीर्तितम् । ** काममूलं फलद्वारं निष्कामज्ञानदः सदा ॥१०७॥
किञ्च यैर्दत्तं ते च वसन्तीति पूर्वेणेवान्वयः । यद्वा तेषां किं वक्तव्यमिति शेषः । सर्वत्रैव हेतुः—धर्ममूलमिति । निष्कामाणाञ्च ज्ञानं ददातीति तथा । एवं चतुर्वर्गप्रदत्वमुक्तम् ॥१०५-१०७॥
ये लोका दानशीलानां ये लोका विपिनौकसाम् । **लोका येऽतिथिभक्तानां ते माघस्नायिनां नृणाम् ॥१०८॥ **
तत्र चाशेष-धर्मतो माघस्नानस्याधिकोत्कर्षमाह—ये लोका इति चतुर्भिः ॥१०८॥
**देवलोकान्निवर्तन्ते पुण्यैरन्यैः परन्तप । ** **कदाचित् न निवर्तन्ते माघस्नानरता दिवः ॥१०९॥ ** **नातः परतरं किञ्चित् पवित्रं पापनाशनम् । ** एतदेव परं पथ्यं सद्यो दुरितनाशनम् ॥११०॥ **विद्याधराय सङ्गीतं भृगुणा मणिपर्वते । ** **विकुण्डलाय चान्यत्र देवदूतेन धीमता ॥१११॥ **
भृगुविद्याधरसंवादे—
**माघस्नानैर्विपन्नाशो माघस्नानैरघक्षयः । ** सर्वव्रताधिको माघः सर्वदानफलप्रदः ॥११२॥ माधो गर्जति योगेभ्यो माघो योगाच्च गर्जति । **तीव्राच्च तपसो माघो भो विद्याधर गर्जति ॥११३॥ **
गर्जति अधिक्षिपति ततोऽपि विशिष्ट इत्यर्थः ॥११३॥
**पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके । ** अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे ॥११४॥ **यत् फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः । ** तत् फलं लभते माघे त्र्यहं स्नानान्न संशयः ॥११५॥ **स्वर्गभोगे चिरं वाञ्छा येषां मनसि वर्तते । ** यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे ॥११६॥ **आयुरारोग्यसम्पत्तौ रूपे सुभगता गुणे । ** येषां मनोरथास्तैस्तु न त्याज्यं माघमज्जनम् ॥११७॥
रूपे सौन्दर्ये सुभगता जगद्वल्लभता तद्रूपे गुणे ॥११७॥
ये विभ्यति नरकाब्देर्दारिद्र्याब्देश्च नित्यशः । **सर्वथा तैः प्रयत्नेन माघे कार्यं निमज्जनम् ॥११८॥ दारिद्र्यपापदौर्भाग्यपङ्कप्रक्षालनाय च । ** माघस्नानान्न चान्योऽस्ति उपायो देवसत्तम ॥११९॥ **श्रद्धाहीनानि कर्माणि मतान्यल्पफलानि वै । ** फलं ददाति सम्पूर्णं माघस्नानं यथा तथा ॥१२०॥ अकामो वा सकामो वा यत्र क्वापि बहिर्जले । **इहामूत्र च दुःखानि माघस्नायी न विन्दति ॥१२१॥ **
बहिर्जले माघस्नायी ॥१२१॥
**पक्षद्वये यथा चन्द्रः क्षीयते वर्धते तथा । ** पातकं क्षीयते माघे पुण्यराशिश्च वर्धते ॥१२२॥ यथाब्धौ खलु जायन्ते रत्नानि विविधानि च । **स्नानपुण्यानि जायन्ते नराणां माघतस्तथा ॥१२३॥ ** **आयुर्वित्तकलत्राणि सम्पदः प्रभवन्ति च । ** कामधेनुर्यथा कामं चिन्तामणिश्च चिन्तितम् । **माघस्नानं ददातीह तद्वत् सर्वमनोरथान् ॥१२४॥ ** **कृते तपः परं ज्ञानं त्रेतायां यजनन्तथा । ** द्वापरे त कलौ दानं मागः सर्वयूगेषु च ॥१२५॥ **सर्वेषां सर्ववर्णानामाश्रमाणाञ्च भूपते । ** माघस्नानन्तु धर्मस्य धाराभिः खलु वर्षति ॥१२६॥
सर्वेषामाश्रमाणामिति सम्बन्धः यद्वा सर्वेषामिति बालवृद्धादीनामित्यवस्था परिहृता ॥१२६॥
तत्रैव श्रीदत्तात्रेयकार्तवीर्यार्जुनसंवादे—
**प्रीतये वासुदेवस्य सर्वपापायनुत्तये । ** माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः ॥१२७॥ न समं भवते किञ्चित् तेजः सौरेण तेजसा । **तद्वत् स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥१२८॥ ** **किं रक्षितेन देहेन सुपुष्टेन बलीयसा । ** **अघ्रूवेण सुजीर्णेन माघस्नानं विना भवेत् ॥१२९॥ ** **अस्थिस्तम्भं स्नायुबद्धं मांसक्षतजलेपनम् । ** **चर्मावनद्धं दुर्गन्धिपूर्णं मूत्रपुरीषयोः ॥१३०॥ जराशोकविपद्व्याप्तं रोगमन्दिरमातुरम् । ** **रजस्वलमनित्यञ्च सर्वदोषसमाश्रयम् ॥१३१॥ ** **परोपताप-पापार्ति-परद्रोहपरेर्षकम् । ** **लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥१३२॥ **
दोषशतव्याप्तमपि शरीरं माघस्नानेन परमोत्तमं सार्थकञ्च भवेत् अन्यथा तद्धारणमेव व्यर्थमित्याह—अस्थीति षड्भिः । आतुरं विवशं रजस्वलं रजोगुणप्रधानं कर्मभूमौ मनुष्यजन्मप्राप्तेः । परेषामुपतापादयः तथा परेषां द्रोहः परेषामीर्ष्या च यस्मात् तत् । तत्रोपतापो निन्दादिना पापञ्च द्रोहोत्पादनादिना आर्तिः प्रहारादिना इति विवेकः द्रोहः अमङ्गलचिन्तादिना । क्र्ण्रं चाक्षान्तिः ॥१३०-१३२॥
**दुष्पूरं दुर्द्धरं दुष्टं दोषत्रयविदूषितम् । ** **अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् ॥१३३॥ ** **निसर्गतोऽधर्मरतं तृष्णाशतसमाकुलम् । ** **कामक्रोधमहालोभ-नरकद्वारसंस्थितम् ॥१३४॥ कृमिवर्चस्कभस्मादि परिणामे शुनां हविः । ** ईदृक्शरीरकं व्यर्थं माघस्नानविवर्जितम् ॥१३५॥
दोषत्रयं पितादि कामादि यन्नरकद्वारं तस्मिन् सम्यक् स्थितं वर्तमानं परिणामे मरणे कृम्यादिरूपम् अतएव शुनां हविः परम भक्ष्यम् ॥१३३-१३५॥
**अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च । ** अश्रद्धया हतं सर्वं यत् कृतं पारलौकिकम् ॥१३६॥ **इह लोको हतो नृणां दारिद्र्येण यथा नृप । ** मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥१३७॥ **मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ । ** कथं पापैः प्रमुच्येत स कथं त्रिदिवं व्रजेत् ॥१३८॥ **ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । **
रवावनुदिते सतीत्यत्रोक्तं भविष्योत्तरे च भास्करोदय इत्युक्तं तथा पूर्वमत्रापि किञ्चिदभ्युदिते रवाविति । एवमरुणोदवकालमारभ्यार्द्धोदयपर्यन्तं माघप्रातःस्नानकालोऽवगन्तव्यः ॥१३८॥
**माघस्नायी विपापः स्यात्तत्संसर्गी च पञ्चमः ॥१३९॥ ** **माघमासे रटन्त्यापः किञ्चिदभ्युदिते रवौ । ** ब्रह्मघ्नं वा सुरापं वा कं पतन्तं पुनीमहे ॥१४०॥ उपपापानि सर्वाणि पातकानि महान्ति च । **भस्मीभवन्ति सर्वाणि माघस्नायिनि मानवे ॥१४१॥ ** **वेपन्ते सर्वपापानि माघमाससमागमात् । ** नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ॥१४२॥ **पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः । ** विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥१४३॥ आर्द्र शुष्कं लघु स्थूलं वाङ्मनःकर्मभिः कृतम् । **माघस्नानं दहेत् पापं पावकः समिधो यथा ॥१४४॥ **
आर्द्रं सद्यःकृतं शुष्कं चिरकृतम् ॥१४४॥
**प्रामादिकञ्च यत् पापं ज्ञानाज्ञानकृतञ्च यत् । ** स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे ॥१४५॥ **निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धतान् । ** सन्देहोऽत्र न कर्तव्यो माघस्नाने नराधिप ॥१४६॥ **एतदेव परो मन्त्र एतच्च परमन्तपः । ** प्रायश्चित्तं परञ्चैतत् माघस्नानमनुत्तमम् ॥१४७॥ नृणां जन्मान्तराभ्यासान्माघस्नाने मतिर्भवेत् । **अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा भवेत् ॥१४८॥ संसारकर्दमानाञ्च प्रक्षालनविशारदम् । ** **पावनं पावनानाञ्च माघस्नानमनुत्तमम् ॥१४९॥ ** **स्नान्ति माघे नरा राजन् सर्वकामफलप्रदे । ** **ते कथं भुञ्जते भोगान् चन्द्रसूयं ग्रहोपमान् ॥१५०॥ **
अतह् अनुत्तमं सर्वोत्तममिदमेवेत्यर्थः । चन्द्रसूर्यग्रहय रुपमान् तद्भोग्यतुल्यानित्यर्थः ॥१४९-१५०॥
किञ्च—
**नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन । ** नाक्षीणं पातकं किञ्चिन्माघे मज्जति यो नरः ॥१५१॥ **तुलयन्ति न तेनात्र यज्ञाः सर्वे सदक्षिणाः । ** माघस्नानेन राजेन्द्र तीर्थे चैव विशेषतः ॥१५२॥ न चान्यत् स्वर्गदं कर्म न चान्यत् पापनाशनम् । **न चान्यत् मोक्षदं चात्र माघस्नानसमं भुवि ॥१५३॥ **
किञ्चान्यत्र—
एकविंशत्कुलैः सार्द्धं भुक्त्वा भोगान् यथेप्सितान् । **माघे मासेऽम्भसि स्नात्वा विष्णुलोकं स गच्छति ॥१५४॥ ** तत्रैव कुण्डविकुण्डलोपाख्यानानन्तरं श्रीकार्तवीर्य उवाच— **हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः । ** **प्रभावो वर्णितो नूनं तन्मे कथय सुव्रत ॥१५५॥ ** **गतपापो यदेकेन द्वितीयेन दिवं गतः । ** वैश्यो माघजपुण्येन ब्रूहि मे तत् कुतूहलात् ॥१५६॥
श्रीदत्तात्रेय उवाच—
**निसर्गात् सलिलं मेध्यं निर्मलं शुचि पावनम् । ** **मलहं पुरुषव्याघ्र द्रावकं दाहकं तथा ॥१५७॥ **
माघस्नानेन न तुलयन्ति सदृशा न भवन्तीत्यर्थः । तीर्थे च यन्माघस्नानं तेन च विशेषतो न तुलयन्त्येव । एकविंशदिति पितृमातृभार्याणां प्रत्येकं सप्ततया एकविंशतिभिः कुलैः सह । द्रावकम् आर्द्रीकारकं दाहकं पानेनाजीर्णनाशकमित्यर्थः ॥१५१-१५७॥
**धारकं सर्वभूतानां पोषकं जीवनञ्च तत् । ** **आपो नारायणो देवः सर्ववेदेषु पठ्यते ॥१५८॥ ** **ग्रहानाञ्च यथा सूर्यो नक्षत्राणां यथा शशी । ** मासानां हि तथा माघः श्रेष्ठः सर्वेषु कार्मसु ॥१५९॥ **मकरस्थे रवौ माघे प्रातःकाले तथामले । ** गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥१६०॥
एवं स्वत एव महाप्रभावयुक्तं जलं तत्र च भगवत्सम्बन्धविशेष इति कालविशेषे भावविशेषो भवतीति परिहरति—ग्रहाणामिति द्वाभ्याम् ॥१५९-१६०॥
योगोऽयं दुर्लभो राजन् त्रैलोक्ये सचराचरे । **अस्मिन् मासे त्वशक्तोऽपि स्नायादपि दिनत्रयम् ॥१६१॥ ** **दद्यात् किञ्चिद्यथाशक्ति दारिद्र्याभावमिच्छति । ** त्रिस्नानेनापि माघे स्युर्धनिनो दीर्घजीविनः । **पञ्च वा सप्त वाहानि चन्द्रवर्धते फलम् ॥१६२॥ **
नारदीये च—
**देवैस्तेजः परिक्षिप्तं माघमासे जलेषु वै । ** **अतः पवित्रं हि जलमशेषाघौघनाशनम् ॥१६३॥ इति । ** **अन्यानि माघमाहात्म्य वचनानि विशेषतः । ** उपाख्यानेषु वर्तन्ते पाद्मादौ तत्र तत्र हि ॥१६४॥
ग्रन्थविस्तारभीत्या परित्यक्तानि च माघमाहात्म्यादिवर्तीनि वचनान्यन्यान्यपि दर्शयति—अन्यानीति ॥१६४॥
**इत्थञ्च माघस्नानस्य प्रायोऽत्र महिमोदितः । ** माघकृत्येषु यत् प्रातःस्नानस्यैव प्रधानता ॥१६५॥
ननु पूर्वं माघे स्नानादिसत्कर्मवत् कर्मान्तरमपि विहितं सामान्यतो माघमाहात्म्यादिलिखनाच्च तदेव दृढीकृतम् अधुना चान्ते स्नानमाहात्म्यमेव श्रूयते । एवमुपक्रमोपसंहारयोरेकार्थता न स्यात् । सत्यं माघे प्रातःस्नानस्यैव प्रधानत्वात् तथापि लिखितमिति लिखति—इत्थञ्चेति । प्रधानता मुख्यता अतएव स्नानरयैव नित्यत्वं लिखितमिति दिक् ॥१६५॥
**वासन्ती पञ्चमी माघे भैमी चैकादशी सिता । ** वाराही द्वादशी या च तासु कुर्यान्महोत्सवम् ॥१६६॥
तत्रैव तिथिविशेषेषु कृत्यं महोत्सवविशेषं लिखति—वासन्तीति ॥१६६॥
अथ वसन्तपञ्चमी
**माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत् । ** नरः प्रवालैः कुसुमैरनुलेपैर्विशेषतः ॥१६७॥ नीराजनोत्सवं कृत्वा भक्त्या सम्मान्य वैष्णवान् । **वसन्तरागं जनयन् गीतनृत्यादि कारयेत् ॥१६८॥ **
तत्रैव वसन्तपञ्चमीमहोत्सवो विशेषतः कार्य इति लिखति—माघस्येति । तत्रैव कृत्यविशेषं लिखति—नवैरिति सार्द्धेन । जनयन्निति भगवच्छयने सति तद्गानादन्तर्हितमिव प्रादुर्भाव्यन्नित्यर्थः ॥१६७-१६८॥
तदुक्तम्—
**श्रीपञ्चमीं समारभ्य यावत् स्याच्छयनं हरेः । ** तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः । **वसन्तरागः कर्तव्यो नान्यदा तु कदाचन ॥१६९॥ इति । ** **कृत्वा वसन्तपञ्चम्यां श्रीकृष्णस्यार्चनोत्सवम् । ** स्याद्वसन्त इव प्रेयान् वृन्दावनविहारिणः ॥१७०॥
वसन्तपञ्चम्युत्सव-माहात्म्यं लिखति—कृत्वेति वृन्दावनविहारिण इति वसन्ते वृन्दावनस्य शोभाविशेषप्रकटनाद्यथासौ सदा तद्विहारशीलस्य भगवतोऽत्यन्तप्रियो भवति तथा सोऽपि स्यादित्यर्थः ॥१७०॥
अथ भीष्माष्टमी
माघस्य चाष्टमीं शुक्लामारभ्य दिनपञ्चकम् । तर्पयेदथवाष्टम्यां भीष्मं भागवतोत्तमम् ॥१७१॥
भागवतेषु मध्ये उत्तमं तत्प्रतिज्ञापालनाय निजप्रतिज्ञात्यागेन साक्षाद्भगवतैव भक्तवात्सल्यविशेषप्रकटनेन निजभक्तवशत्वदर्शनात् । तच्च स्वनिगम-(८.३७) इत्यादिवचनैः प्रथमस्कन्धादौ प्रसिद्धमेव । अतस्तत्तर्पणं वैष्णवः कार्यमेवेति भावः ॥१७१॥
**नित्यतर्पणतः पश्चात् सलिलान्तरुदङ्मुखः । ** निवीती तर्पणं कुर्याद्गाङ्गेयस्य महात्मनः ॥१७२॥
तद्विधिं लिखति—नित्येति । तत्र च जीवत्पितृपितामहको भीष्मतर्पणं न कुर्यादिति ज्ञेयम् जीवत्पिता न कुर्वीत तर्पणं यमभीष्मयोः इति पाद्मेऽभिधानात् ॥१७२॥
अथ तत्र मन्त्रः
**वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च । ** अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे ॥१७३॥
अथ भैम्येकादशी
तत्र मात्स्ये श्रीब्रह्मोवाच—
**कथमारोग्यमैश्वर्यमनन्तममरेश्वर । ** **स्वल्पेन तपसा देव भवेन्मोक्षो यथा नृणाम् ॥१७४॥ **
तपसा कृच्छ्रेण ॥१७४॥
श्रीमहेश्वर उवाच—
**त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत् । ** भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः ॥१७५॥
किञ्च—
**इदं व्रतमशेषाणां व्रतानामधिकं यतः । ** कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः ॥१७६॥ अशेषयज्ञफलदमशेषाघविनाशनम् । अशेषदुष्टशमनमशेषसुरपूजितम् ॥१७७॥ **पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् । ** भविष्यञ्च भविष्याणां पुराणानां पुरातनम् ॥१७८॥
भेदकृत् प्रकाशक इत्यर्थः । भवितेत्यादि भविष्यत्प्रयोगो भविष्यकथनात् । भविष्याणां व्रतानां मध्ये भविष्य परमान्त्यम् न केवलं भविष्यमेव किन्तु पुराणानां पूर्ववृत्तानां मध्ये पुरातनं सर्वाद्यमित्यर्थः । एवं माहात्म्यविशेषो दर्शितः । तथा च तत्रैव श्रीभीमं प्रति श्रीभगवदुक्तौ—कुरु व्रतमिदं सम्यक् स्नेहात्तव मयेरितम् । त्वया कृतमिदं धीर त्वन्नामाङ्कं भविष्यति ॥ सा भीमद्वादशी ह्येषा सर्वपापहराशुभा । या तु कल्याणिनी नाम पुराकल्पेषु पठ्यते ॥ इति ॥१७५-१७८॥
तत्रैव श्रीभीमं प्रति श्रीभगवदुक्तौ—
**यद्यष्टमी-चतुर्दश्योर्द्वादशीष्वथ भारत । ** अन्येष्वपि दिनक्षेषु न शक्तस्त्वमुपोषितुम् ॥१७९॥
द्वादशीषु एकादशीषु अन्यदिनेषु जन्माष्टम्यादिषु ऋक्षेषु श्रवणद्वादश्यादिषु ॥ १७९॥
ततः पुण्यामिमां भीम तिथिं पापप्रणाशिनीम् । **उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥१८०॥ **
किञ्च तत्रैव तद्व्रतविधिकथनान्ते—
**इदमेव कृतं महेन्द्रमुख्यैर्वसुभिश्चैव सुरादिभिस्तथा । फलमस्य न शक्यते हि वक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥१८१॥ इति । ** **व्रते कृत्यविधिश्चास्मिन् पूजाविधिविशेषवान् । ** वैष्णवैश्चेदपेक्ष्यः स्याज्ञेयो मत्स्यपुराणतः ॥१८२॥
अथ फाल्गुनकृत्यम्
तत्र यमः—
**प्रातःस्नायो भवेन्नित्यं मासौ द्वौ माघफाल्गुनौ । ** देवान् पितृन् समभ्यर्च्यमुच्यते सर्वकिल्विषैः ॥१८३॥
किञ्चान्यत्र—
यदीच्छेद्विपुलान् भोगान् चन्द्रसूर्योपमान् शुभान् । **माघफाल्गुनयोर्मध्ये प्रातःस्नायी तदा भवेत् ॥१८४॥ **
पूजाविधिविशेषयुक्तः । अस्मिन् व्रते कृत्यविधिर्यः स चेद्यदि अपेक्ष्यः स्यादिति तादृशकृत्यविधेरावश्यकस्वाभावेन वैष्णवैर्नात्यन्तापेक्षणादिति दिक् । तद्विधिस्तत्रैव तं प्रति श्रीभगवदुक्तौ तथा हि—माघमासस्य दशमी यदा शुक्ला भवेत्तदा । घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् । तथैव विष्णुमभ्यर्च्य नमो नारायणेति च । कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मनेति च ॥ वैकुण्ठायेति वैकुण्ठमुरः श्रीवत्सधारिणे । शङ्खिने चक्रिणे तद्वद्गदिने वरदाय वै ॥ सर्वे नारायणायेति सम्पूज्या बाहवः क्रमात् । दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै ॥ ऊक्त सौभाग्यनाथाय जानुनी भूतधारिणे । नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः ॥ नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै । नमस्तुष्ट्यै नमः पुष्ट्यै वृष्ट्यै दृष्ट्यै यजेच्छ्रियम् ॥ नमो विहगनाथाय वायुवेगाय पक्षिणे । विषप्रमाथिने नित्यं गरुडञ्चाभिपूजयेत् ॥ एवं सम्पूज्य गोविन्दमुमापतिविनायकैः । गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि ॥ गव्येन पयसा सिक्तां कृसरामथ वाग्यतः । सर्पिषा सह भुक्त्वा तां जप्त्वा मन्त्रपदं बुधः । न्यग्रोधं दन्तधावनमथवा खादिरं पुनः । गृहीत्वा पावयेद्दन्तानाचान्तः प्रागुदङ्मुखः ॥ ब्रूयात् सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ । नमो नारायणायेति त्वामहं शरणं गतः ॥ एकादश्यां निराहारः समभ्यर्च्य च केशवम् । रातिञ्च सकलां स्थित्वा स्नानञ्च पयसा तथा ॥ सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुङ्गवैः । सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम् । करिष्यामि यतात्माहं निर्विघ्नेनास्तु तच्च मे ॥ एवमुक्त्वा स्वपेद्भूमावितिहास-कथां पुनः । श्रुत्वा प्रभाते विधिवत् कृत्वा च पितृतर्पणम् ॥ प्रणम्य च हृषीकेशममलं चार्कमीक्ष्य च । गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः ॥ दशहस्तानथाष्टौ वा करान् कुर्याद् विशाम्पते । चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिसूदन ॥ चतुर्हस्तप्रमाणञ्च विन्यसेत्तत्र तोरणम् । प्रकल्प्य कलसं तत्र मासमात्रेण संयुतम् ॥ छिद्रेण जलसम्पूर्णमधः कृष्णाजिने स्थितः । तस्य धाराञ्च शिरसि धारयेत् सकलां निशाम् ॥ धाराभिर्भूरिभिभूरि फलं वेदविदो विदुः । यस्मात्तस्मात् कुरुश्रेष्ठ धारा धार्या स्वशक्तितः ॥ तथैव विष्णोः शिरसि
क्षीरधारां प्रदापयेत् । अरन्तिमात्रं कुण्डञ्च कृत्वा तत्र त्रिमेखलम् । योनिवक्तञ्च तत् कृत्वा ब्राह्मणैर्यवसर्पिषी । तिलांश्च विष्णुदैवत्यैर्मन्त्रैरेकाग्निवत्तदा । हुत्वा च वैष्णवं सम्यक्चरु गोक्षीरसंयुतम् ॥ निष्परार्द्धप्रमाणां वै धारामाज्यस्य पातयेत् । जलकुम्भान् महावीर्य स्थापयित्वा त्रयोदश ॥ भक्ष्यैर्नानाविधैयुक्तान् सितवस्त्रैरलङ्कृतान् । युक्तानौडुम्बरैः पात्रैः पञ्चरत्नसमन्वितान् ॥ चतुर्भिर्वाहृचैर्होमस्तत्र कार्य उदङ्मुखैः । रुद्रजापैश्चतुर्भिश्च यजुर्वेदपरायणैः ॥ वैष्णवानि च सामानि चतुरः सामवेदिनः । अरिष्टवर्गसहितान्यभितः परिपाठयेत् ॥ एवं द्वादश तान् विप्रान् वस्त्रमाल्यानुलेपनैः । पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥ वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः । उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु ॥ ततः प्रभाते विमले समुत्थाय त्रयोदश । गा वै दद्यात् कुरुश्रेष्ठ सौवर्णमुखसंयुताः । पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः । रौप्यखुराः सवत्साश्च चन्दनेनाभिषेचिताः ॥ तास्तु दत्त्वा ततो भक्त्या भक्ष्यभक्षणतर्पितान् । कृत्वा वै ब्राह्मणान् सर्वानन्नैर्नानाविधैस्तथा ॥ भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत् । अनुगम्य पदान्यष्टौ पुत्रमाभार्यासमन्वितः ॥ प्रीयतामत्र देवेश केशव क्लेशनाशन । एवमुच्चार्य तान् कुम्भान् ताश्च गाः शयनानि च । वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः ॥ अभावे बहुशय्यानामेकामपि सुसंस्कृताम् । शय्यां दद्याद्गुरौ भीम सर्वोपस्करसंयुताम् ॥ इतिहासपुराणानि वाचयित्वातिवाहयेत् । तद्दिनं नरशार्दूल यदीक्छेद्विपुलां श्रियम् ॥ इति ॥१८२-१८४॥
गौतमीये—
**फाल्गुने देवकीपुत्रं पूजयेत् स्वर्णचम्पकैः । ** चूतसौगन्धि-कुसुमैर्पैर्गन्धैः सुविस्तरैः ॥१८५॥ इति ।
अथ शिवरात्रिव्रतम् **शिवरात्रिव्रतमिदं यद्यप्यावश्यकं न हि । ** **वैष्णवानां तथाप्यत्र सदाचाराद्विलिख्यते ॥१८६॥ ** **शिवरात्रिव्रतं कृष्णचतुर्दश्यान्तु फाल्गुने । ** वैष्णवैरपि तत् कार्यं श्रीकृष्णप्रीतये सदा ॥१८७॥
अन्योऽन्यभक्तिदानार्थमन्योऽन्योपासनाकरौ । वन्दे हरिहरौ देवावन्योऽन्यप्रेमतत्परौ ॥ ननु वैष्णवानां किं शिवरात्रिव्रतकरणेन तत्र लिखति—श्रीकृष्णप्रीतय इति । शिवरात्रिव्रत-परित्यागेन भगवत्पूजाफलानुदयाद्भगवत्प्रीत्यभावः अतस्तदर्थं वैष्णवैः कर्तव्यमेवेत्यर्थः । अपि-शब्दात् किं पुनः शैवैः शाक्तैः सौरादिमिर्वेत्यर्थः ॥१८७॥
तथा च पाद्मे व्रतखण्डे—
**सौरो वा वैष्णवो वान्यो देवतान्तरपूजकः । ** **न पूजाफलमाप्नोति शिवरात्रिबहिर्मुखः ॥१८८॥ **
देवतान्तरं दुर्गागणेशादि तत्पूजकोऽन्यो वा न पूजाफलमाप्नोतीत्यनेन व्रतस्य नित्यत्वं बोधितम् ॥१८८॥
किञ्च तदिदमौदास्ये दूषणं द्वेषे तु कौर्मे भृग्वादीन् प्रति स्वयम्भगवतोक्तम्—
**परात् परतरं यान्ति नारायणपरायणाः । ** न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥१८९॥
किञ्च श्रीशिवव्रताकरणे महादोषप्रदर्शनेन नित्यतामेव द्रढयति—परादिति त्रिभिः । परात् चतुर्वर्गेषु श्रेष्ठात् मोक्षादपि परतरं श्रीवैकुण्ठाख्यपदं नारायणपरा यान्तीति सत्यमेव किन्तु यदि ते श्रीशिवेऽपराधिनो न भवन्तीत्याह—नेति । अत्र च पूर्वपद्यार्द्धं श्रीशिवेनोक्तं परार्द्धञ्च श्रीभगवतेति सत्सु प्रसिद्धम् । यदि च कौर्मदृष्ट्या सर्वं पद्यं श्रीभगवदुक्तमेव तर्हि निखिलगुणामृतनिधिना भगवता नारायणेन परोक्षवद्विन भरेणोक्तमिति ज्ञेयम् । द्विषन्तीति—द्वेषस्तु तम्व्रताकरणादिना तदनादरलक्षण एव यथा गुरुदेवतादिद्रोहः एवं निन्दापि ॥१८९॥
यो मां समर्चयेन्नित्यमेकान्तं भावमाश्रितः । **विनिन्दन् देवमीशानं स याति नरकायुतम् ॥१९०॥ **
अन्यत्र च—
**मद्भक्तः शङ्करद्वेषी मद्द्वेषी शङ्करप्रियः । ** उभौ तौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥१९१॥ इति ।
अतएव हयशीर्षपञ्चरात्रे श्रीहरिहरप्रतिष्ठायां श्रीभगवतैवोक्तम्—
**यः शिवः सोऽहमेवेह योऽहं स भगवान् शिवः । ** नाचयोरन्तरं किञ्चिदाकाशानिलयोरिव ॥१९२॥
ननु नान्यं देवं नमस्कूर्यान्नान्यं देवं निरीक्षयेत् । चक्राङ्कितः सदा तिष्ठन्मद्भक्तः पाण्डुनन्दन ॥ इति भविष्योत्तरोक्त-श्रीभगवद्वचनादिनाविरोधः स्यात् तत्र श्रीभगवद्वचनमेव लिखति—यः शिव इति । आकाशनिलयोरिवेति दीपाद्दीपान्तरवत् कारणेन सह कार्यस्याभेदाभिप्रायेणावतारिणात्मना सहावतारस्य श्रीशिवस्याभेदो दर्शितः ॥१९२॥
बह्वृच-परिशिष्टे—
**शिवाय विष्णुरूपाय शिवरूपाय विष्णवे । ** शिवस्य हृदयं विष्णुर्विष्णोरतु हृदयं शिवः ॥१९३॥ **यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । ** **यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषः ॥१९४॥ इति । ** **कार्यं गुणावतारत्वेनैक्याद्रुद्रस्य वैष्णवैः । ** वैष्णवाग्र्यतया श्रेष्ठ्यात् सदाचाराच्च तद्व्रतम् ॥१९५॥
तथा तत इत्यर्थः आयुषो जीवनस्य भगवद्भक्तिलक्षणस्य स्वस्तिः शोभनसत्ता सदा सम्यग्वृत्तिर्भवतीत्यर्थ अस्त्विति शेषो वा । शिवस्य श्रीविष्णोर्य इह गूगनामाविसकलं धिया भिन्नं पश्येत् इत्यादिकञ्च श्रीमन्नामापराधस्तोत्रे पूर्वं लिखितमेव । अनोऽत्रायं सिद्धान्तः—श्रीविष्णुरेको देवः शिवश्चान्या देव इत्येवमन्यत्वे भासमाने तन्नमस्कारादिकं वैष्णवानामयुक्तमेव किन्तु यथा मत्स्यादयो लीलावतारास्तथा श्रीशिवश्चगुणावतारोऽयमित्य भेदेन न दोषावहमपि तु गुण एव भ्गवद्भक्तिविशेष एव पर्यवसानादिति ॥१९४-१९५॥
**चतुर्थस्कन्धदृष्ट्या तु नैके कुर्वन्ति तद्व्रतम् ॥१९६॥ **
तथा च भृगुशापः (श्रीभा। ४.२.२८)—
**भवव्रतधरा ये च ये च तान् समनुव्रताः । ** पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥१९७॥ इति ।
अ शिवरात्रितनिर्णयः
तत्र स्कान्दे—
**माघफाल्गुनयोर्मध्ये असिता या चतुर्दशी । ** शिवरात्रिस्तु सा ख्याता सर्वयज्ञोत्तमोत्तमा ॥१९८॥
महीखण्डे—
माघमासस्य शेषा या प्रथमा फाल्गुनस्य च । **कृष्णा चतुर्दशी सा तु शिवरात्रिः प्रकीर्तिता ॥१९९॥ **
किञ्च नागरखण्डे—
**यानि कान्यत्र लिङ्गानि स्थावराणि चराणि च । ** तेषु सङ्क्रमते देवस्तस्यां रात्रौ यतो हरः । **शिवरात्रिस्ततः प्रोक्ता तेन सा हरिवल्लभा ॥२००॥ इति । **
हरिवल्लभत्वेनास्य श्रीशिवप्रियत्वादेव वैष्णवैरपि कर्तव्यमिति भावः ॥२००॥
शुद्धोपोष्या च सा सर्वर्विद्धा स्याच्चेच्चतुर्दशी । **प्रदोषव्यापिनी ग्राह्या तत्राप्याधिक्यमागता ॥२०१॥ **
तथा चोक्तम्—
**प्रदोषव्यापिनी ग्राह्या शिवरात्रिः शिवप्रियैः । ** रात्रौ जागरणं तस्यां यस्मात्तस्यामुपोषणम् ॥२०२॥
शिवप्रियैरित्यनेन विद्धाव्रतस्य वैष्णवानामकर्तव्यत्वं प्रतिपादितमिति भावः ॥२०२॥
किञ्च—
**प्रदोषश्च चतुर्नाड्यात्मकोऽभिज्ञजनैर्मतः ॥२०३॥ इति । **
**प्रदोषव्यापिनी साम्येऽप्युपोष्यं प्रथमं दिनम् । ** नोपोष्या वैष्णवैर्विद्धा सापीति च सतां मतम् ॥२०४॥
यथ उक्तम्—
**शिवरात्रिव्रते भूतं कामविद्धं विवर्जयेत् ॥२०५॥ **
अतएवोक्तं पराशरेण—
माघासितं भूतदिनं हि राजन्नुपैति योगं यदि पञ्चदश्या । जयाप्रयुक्तां न तु जातु कुर्याच्छिवस्य रात्रिं प्रियकृच्छिवस्य ॥२०६॥ इति ।
एतदेव प्रतिपादयति–सतां मतमिति । तत्र प्रमाणमाह—माघेऽसितेत्यादि । एवञ्च—माघफाल्गुनयोर्मध्ये या स्याच्छिचतुर्दशी । अनङ्गेन समायुक्ता कर्तव्या सर्वदा तिथिः ॥ इतिवचनं भविष्योत्तरोक्त-शिवरात्रिव्यतिरिक्तशिवचतुर्दशीसञ्ज्ञक-व्रतविषयकं किंवा परदिने अमावस्यायोगाभावविषयकं सकामवैष्णवविषयकं वा ज्ञेयम् । अन्ये च माघासितमित्येतद्वचनं शिवरात्रिव्रते भूतम् इति वचनं परदिनप्रदोषव्यापि-चतुर्दश्युपवासविषयकमिति व्यवस्थापयन्ति तच्चासङ्गतमिति माघेति पञ्चदश्या योगमुपैतीत्यादिविशेषोक्त्या प्रदोषव्यापिनीत्यादिविरोधापत्तेः लिखितव्यवस्थैव युक्तेति दिक् इत्थञ्च यदा चतुर्दशीक्षयः स्यात्तर्हि वैष्णवानामपि विद्धोपवासः प्रसज्येतैव अन्यथा अमावस्यासंयोगव्यवस्थाया अत्र लोपप्रसङ्गात् । अतः सा व्यवस्था वैष्णवजनसम्मता न स्यादित्युपेक्षा । एतच्चाने जन्माष्टमीव्रतनिर्णयान्ते लेख्यमेव इति ॥२०४-२०६॥
अथ योगाश्च
उक्तञ्च लोकाक्षिणा—
**द्विमुहूर्ता भवेद्योगो वेधो मौहूर्तिकः स्मृतः ॥२०७॥ इति । **
**शिवरात्रौ च कर्तव्यं नियमेन त्रयं बुधेः । ** उपवास-महादेवपूजाजागरणं निशि ॥२०८॥
शिवरात्रौ चोपवास-पूजा-जागरणानां त्रयाणामेवावश्यकत्वं लिखति—शिवेति ॥२०८॥
अथ शिवव्रतविधिः
**सायं शिवालयं गत्वा शुचिराचम्य च व्रती । ** कृत्वा शिवाग्रे सङ्कल्पमारभेत तदर्चनम् ॥२०९॥
अधुना भविष्योत्तर-स्कन्दपुराणशिवधर्मोत्तराद्युक्तानुसारेण व्रतानुष्ठान-प्रकारं लिखति—सायमिति पञ्चभिः । तस्य शिवस्य अर्चनं पूजामारभेत ॥२०९॥
**पञ्चाक्षरेण मन्त्रेण शतरुद्रेण वा द्विजः । ** क्षीरादिभिश्च शुद्धाद्भिर्धारया स्नापयेच्छिवम् ॥२१०॥
तदेव लिखति—पञ्चेति द्वाभ्याम् । आदि-शब्देन घृतमध्वादि द्राक्षारसादिकञ्च ॥२१०॥
**महार्चां विधिना कृत्वा गन्धपुष्पतिलादिभिः । ** समर्प्य धूपदीपादीन् शङ्खेनार्ध्यं निवेदयेत् ॥२११॥
विधिनेत्यत्रायं विधिः—प्रथमे यामे शिवाय नमः इति पञ्च-ब्रह्ममन्त्रैर्वा गन्धपुष्पतिलमाषगोधूमादिना महापूजां कृत्वा ततश्च ओं आद्याय नमः - ओं वामाय नमः - ओं तत्पुरुषाय नमः - ओं अघोराय नमः इति प्रत्यगादिचतुर्दिक्षु ओं ईशानाय नमः इत्युपरि । एवं पञ्चवक्त्राणि पुष्पादिभि सम्पूज्य पश्चादिष्टपुष्पं समर्पयेत् । आदि-शब्दान्नेवेद्यताम्बूलादि अर्घ्यञ्च फलगन्धाक्षतान्वितं ज्ञेयम् ॥२११॥
अथ तत्र मन्त्रः
गौरीवल्लभ देवेश सर्पाढ्य शशिशेखर । वर्षपापविशुद्ध्यर्थमर्ध्यं मे प्रतिगृह्यताम् ॥२१२॥ इति । **आचार्यं परिपूज्याथ दत्त्वा तस्मै च दक्षिणाम् । ** विधिवज्जागरं कृत्वा प्रातः पारणमाचरेत् ॥२१३॥
आचार्यं शिवव्रतविध्युपदेशकमक्षतपुष्पान्नवस्त्रादिना सम्मान्य । विधिवदिति—द्वितीये यामे शङ्कराय नमः इति तृतीये महेश्वराय नमः इति चतुर्थे रुद्राय नमः इति पूर्वतो विशेषः । अन्यश्च समान एव विधिर्ज्ञेयः । तथैकादशीजागरणवद्गीतनृत्यादिनेति च ज्ञेयम् । पारणमाचरेदित्यत्रापि विधिवदित्यनुवर्तनीयम् ततश्च प्रभाते नित्यकृत्यं कृत्वा गृहे शिवमभ्यर्च्य शिवभक्तान् वैष्णवान् विप्रांश्च सम्भोज्य बन्धुभिः सह भुञ्जीत इति ज्ञेयम् ॥२१३॥
अथ तत्र पारण-निर्णयः
**पूर्वविद्धोपवासे च परेऽहनि चतुर्दशी । ** **दिवसव्यापिनी तिष्ठेत् कुर्यात् तस्यां हि पारणम् ॥२१४॥ **
ननु तद्व्रतपारणे च शुद्धायामुपवासे सति प्रातरमावस्यायामेव पारणमबाधम् । पूर्वविद्धोपवासे च कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारण भवेत् ॥ इत्यादिस्कन्दवचनैस्तिथ्यन्ते पारणविधिना तत्र च समस्तदिनव्यापि-चतुर्दशीनिष्क्रमे सति कदा पारणमस्तु । इत्यपेक्षायां लिखति—पूर्वेति । हि-शब्दस्त्वेवार्थे । तस्यां चतुर्दश्यामेव पारणम् अन्यथाऽमावस्यारात्रौ भाजनस्य प्रसङ्गात् तच्च निषिद्धम् भूताष्टम्यादिवा भूक्त्वा रात्रौ भुक्त्वा च पर्वणि । एकादश्यां दिवा रात्रौ भुक्त्वा चान्द्रायणं चरेत् ॥ इति । एवं यद्यपि चतुर्दश्यां दिवाभाजनं निषिद्धं तथापि पारणानुरोधेन अमावस्यारात्रिभोजनवत्तद्दोषविशेषावहं न स्यादिति ज्ञेयम् । किञ्च—सर्वेष्वेवोपवासेषु दिवापारणमिष्यते इति अन्यदा तु चतुर्दश्यन्ते सत्येव पारणम् ॥२१४॥
तथा चोक्तम्—
सा त्वस्तमयपर्यन्तं व्यापिनी चेत् परेऽहनि । **दिवैव पारणं कुर्यात् पारणे नैव दोषभाक् ॥२१५॥ इति । **
सा शिवरात्रिचतुर्दशी तु परस्मिन् दिने अस्तमयपर्यन्तं सूर्यास्तसमयावधिव्यापिनी चेद्भवति एवं चतुर्दश्यन्तपारणे च व्रती दोषभाक् व्रतभङ्गदोषभागी न स्यात् अन्यथामावस्यारात्रिभोजन-प्राप्तेरिति भावः । एवमुपवासद्वयञ्च निरस्तम् । अतएवोक्तं—याम त्रयोर्द्ध्वगामिन्यां प्रातरेव हि पारणम् इति दिक् ॥२१५॥
**अनुष्ठानविधिश्चास्य व्रतस्योक्तोऽतिविस्तरम् । ** शिवधर्मोत्तरादौ तु ज्ञेयोपेक्ष्यः स चेत्ततः ॥२१६॥
अस्य शिवरात्रिसम्बन्धिनो व्रतस्य अत्यन्तविस्तरं यथा स्यात् अपेक्ष्यश्चेद्भवति तदा ततः शिवधर्मोत्तरादितः स विधिर्ज्ञेयः । आदि-शब्देन भविष्योत्तरस्कन्दपुराणशिवयामलादि ॥२१६॥
**शिवव्रतस्य माहात्म्यमस्य सर्वत्र विश्रुतम् । ** व्याधोऽपि मुक्तो यस्तादृक् लिङ्गार्चाजगरादिना ॥२१७॥
तादृग्दैवादन्य प्रसङ्गजातं यत् लिङ्गार्चा श्रीशिवपूजनम् जागरः आदि-शब्देन उपवासश्च तेनापि व्याधोऽपि मुक्त इति यत् यद्यस्माच्छिवव्रतादिति वा ॥२१७॥
अथ शिवरात्रिव्रत-माहात्म्यम्
नागरखण्डे—
**स्वयम्भूलिङ्गमभ्यर्च्य सोपवासः सजागरः । ** अजानन्नपि निष्पापो निषादो गणतां गतः ॥२१८॥
तथा चोक्तं भविष्योत्तरे—कृष्णपक्षे चतुर्दश्यां न किञ्चिन्मृगयन्नपि । प्राप्तवान् प्राणयात्रार्थं क्षुधासम्पीडिनोऽवशः ॥ इत्युपवासः किञ्च—धनुष्कोट्या हतान्येव बिल्वपत्राणि मानद । पतितानि महाबाहो शम्भोः शिरसि भूमिप ॥ तस्थौ स एव तत्रैव सर्वरात्रिमतन्द्रितः । स्वोदरार्थं महाराज मृगलिप्सुरहङ्कृतः ॥ इति एवञ्च पूजाजागरणे वृत्ते गणतां शिवपार्षदताम् ॥२१८॥
स्कान्दे च—
**शिवञ्च पूजयित्वा यो जागर्ति च चतुर्दशीम् । ** मातुः पयोधररसं न पिबेत् स कदाचन ॥२१९॥
किञ्चान्यत्र—
**कश्चित् पुण्य विशेषेण व्रतहीनोऽपि यः पुमान् । ** जागरं कुरुते तत्र स रुद्रसमतां व्रजेत् ॥२२०॥ इति ।
कश्चिदन्त्यजादिरपि व्रतहीनः उपवासादिनियमरहितोऽपि यः पुण्यविशेषेण तत्र शिवरात्रौ जागरणं कुरुते रुद्रसमतां तदीयसारूप्यादियुक्तपार्षदत्वं वैष्णवाग्र्यत्व वा स प्राप्नुयात् ॥२२०॥
श्रीकृष्णे वैष्णवानान्तु प्रेमभक्तिर्विवर्धते । कृष्णभक्तिरसासारवर्षिरुद्रानुकम्पया ॥२२१॥
ननु श्रीकृष्णचरणारविन्दभक्त्येकापेक्षकाणां वैष्णवानां शिवव्रतेन किं स्यात् इत्यपेक्षायां लिखति—श्रीकृष्णे इति । ननु श्रीशिवव्रतेन कथं श्रीकृष्णप्रेमभक्तिर्वर्द्धताम् तत्र लिखति—कृष्णेति । कृष्णभक्तिरसासारवर्षिणो रुद्रस्यानुकम्पया श्रीशङ्करकरुणयैव श्रीकृष्णप्रेमभक्तिविशेषसिद्धेः । यद्वा कृष्णस्य या भक्तिरसवर्षिणी रुद्रानुकम्पा तया एवं श्रीशिवव्रतेनैव श्रीकृष्णकृपाविशेषोत्पत्तेस्तत्प्रेमभक्तिवृद्धिर्भवतीति दिक् ॥२२१॥
अथ श्रीगोविन्दद्वादशी
**फाल्गुने द्वादशी शुक्ला य पुष्यक्षेण संयुता । ** गोविन्दद्वादशी नाम सा स्याद्गोविन्दभक्तिदा ॥२२२॥ **तस्यामुपोष्य विधिना भगवन्तं प्रपूजयेत् । ** लिखितः पापनाशिन्यां विधिर्योऽत्रापि स स्मृतः ॥२२३॥
अत्र गोविन्दद्वादश्यां भगवत्पूजनेऽपि स एव विधिः स्मृतो मुनिभिः । एकदैवतत्वादिना द्वयोरेकरूपत्वात् ॥२२३॥
अथ गोविन्दद्वादशीमाहात्म्यम्
ब्रह्मपुराणे श्रीवशिष्ठमान्धातृसंवादे— **फाल्गुनामलपक्षे तु पुष्यक्षे द्वादशी यदि । ** **गोविन्दद्वादशी नाम महापातकनाशिनी ॥२२४॥ ** **तस्यामुपोष्य विधिवन्नरः सङ्क्षीणकल्मषः । ** **प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥२२५॥ इति । **
पुनरावृत्तिर्येषां तैर्दुर्लभाम् अपुनरावृत्तिकामित्यर्थः ॥२२५॥
**आमर्दकी द्वादशीति लोके ख्यातेयमेव हि । ** **योगाभावेऽत्र तन्नाम्नी तदीयैकादशी मता । ** यत्र आमर्दकीपूजाव्रतमस्यां विशेषतः ॥२२६॥
अथ आमर्दकीव्रतविधिः
तदुक्तं ब्राह्मे तत्रैव पापनाशिनी-माहात्म्यप्रसङ्गे—
**फाल्गुने तु विशेषेण विशेषः कथितो नृप । ** **आमर्दक्या व्रतं पुण्यं विष्णुलोकप्रदं नृणाम् ॥२२७॥ **
प्रभासखण्डे च श्रीदेवीमहेशसंवादे—
**फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः । ** स्नात्वा नद्यां ताडागे वा वाप्यां कूपे गृहेऽपि वा । **गत्वा गिरौ वने वाऽपि यत्र सा प्राख्यते शिवा ॥२२८॥ **
इयं फाल्गुनशुक्लद्वादशी द्वादशी च द्वादश्येकादश्यारभेदाभिप्रायेण किंवा द्वादश्यां पुष्यानक्षत्रे सति तस्यामेवोपवासापेक्षयेति । तदभावेऽपि एकादश्यामुपवासे सति तस्यामेवन्मर्दकीपूजादिकमपि । तच्चाग्रे व्यक्तं भावि । शिवा आमर्दकी ॥२२६-२२८॥
**क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः । ** आमर्दाद्देवदैत्यानां तेन सामर्दकी स्मृता ॥२२९॥ **शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः । ** देवैर्ब्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः ॥२३०॥
आमर्दकीवृक्षोऽयं शिवेति लक्ष्मीरिति च स्मृतः अतएव सेव्यते ॥२३०॥
तत्र गत्वा हरिः पूज्यो वृक्षमूलेऽथवा शिवा । **पूज्या पुष्पैः शुभै रात्रौ कार्यं जागरणं नरैः ॥२३१॥ ** **करकं जलपूर्णन्तु कर्तव्यं पात्रसंयुतम् । ** **हविष्यान्नन्तु कर्तव्यं दीपः कार्यो विधानतः ॥२३२॥ ** **एवं जागरणं कार्यं कथाश्रवणतत्परैः । ** मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ॥२३३॥ देहान्ते च नराः सर्वे पूज्यन्ते हरिमन्दिरे ॥२३४॥
अथ वसन्तोत्सवः फाल्गुन्यां पौर्णमास्यान्तु विदध्याद्वैष्णवैः सह । श्रीकृष्णप्रियभक्तस्य वसन्तस्यार्चनोत्सवम् ॥२३५॥
श्रीकृष्णप्रियभक्तता च वसन्तस्य सदा श्रीवृन्दावनाश्रितत्वात् । अतएव तस्य पूजोत्सवं कुर्यात् ॥२३५॥
**भविष्योत्तरतो ज्ञेयस्तद्विधिश्चेदपेक्ष्यते । ** यः श्रीयुधिष्ठिरस्योक्तो व्यक्तं भगवता स्वयम् ॥२३६॥
अथ वसन्तोत्सव-माहात्म्यम्
तत्रैव—
एवं यः कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्सवम् । **मत्प्रसादाच्च सिध्यन्ति तस्य सर्वे मनोरथाः ॥२३७॥ ** वृत्ते तुषारसमये शीतपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । सम्प्राप्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषोऽब्दशतं सुखी स्यात् ॥२३८॥
अथ चैत्रकृत्यम् चैत्रे कुर्यात् सिते पक्षे श्रीरामनवमीव्रतम् । **एकादश्यां प्रभोर्दोलां द्वादश्यां मदनार्पणम् ॥२३९॥ **
गौतमीये च—
चैत्रमासे वासुदेवं सर्वपुष्पैः समर्चयेत् ॥२४०॥
अथ श्रीरामनवमी
अगस्त्यसंहितायाम्—
**चैत्रे मासि नवम्यान्तु शुक्लायां हि रघूद्वहः । ** **प्रादुरासीत् पुरा ब्रह्मन् परं ब्रह्मैव केवलम् । ** तस्मिन् दिने तु कर्तव्यमुपवासव्रतादिकम् ॥२४१॥
ब्रह्मन् हे सुतीक्ष्ण ॥२४१॥
अथ तद्व्रतनित्यत्वम्
तत्रैव—
**मुमुक्षवोऽपि हि सदा श्रीरामनवमीव्रतम् । ** **न त्यजन्ति सुरश्रेष्ठो देवेन्द्रोऽपि विशेषतः ॥२४२॥ **
किञ्च—
**प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः । ** **उपोषणं न कुरुते कुम्भीपाकेषु पच्यते ॥२४३॥ ** **यस्तु रामनवम्यां हि भुङ्क्ते मोहाद्विमूढधीः । ** कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ॥२४४॥
अथ तद्व्रतमाहात्म्यम्
तत्रैव—
**श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका । ** तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । **यत् किञ्चित् कुरुते कर्म तद्भवक्षयकारकम् ॥२४५॥ **
किञ्च—
**कुर्याद्रामनवम्यां य उपोषणमतन्द्रितः । ** **न मातुर्गर्भमाप्नोति स वै रामप्रियो भवेत् ॥२४६॥ **
रामप्रियो भवेदिति तत्सारूप्यं प्राप्तः स्यादित्यर्थः ॥२४६॥
**तस्मात् सर्वात्मना सर्वे कृत्वैतन्नवमीव्रतम् । ** मुच्यते सर्वपापेभ्यो यान्ति ब्रह्म सनातनम् ॥२४७॥
किञ्च—
**एकमपि नरो भक्त्या श्रीरामनवमीव्रतम् । ** उपोष्य कृतकृत्यः सन् सर्वं पापैः प्रमुच्यते ॥२४८॥
अथ तद्व्रतनिर्णयः **वैत्रे मासि नवम्यान्तु जातो रामः स्वयं हरिः । ** पुनर्वस्वृक्षसंयुक्ता सा तिथिः सर्वकामदा ॥२४९॥ **सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥२५०॥ ** **मेषं पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये । ** आविरासीत् स्वकलया कौशल्यायां परः पुमान् ॥२५१॥ नवमी चाष्टमोविद्धा त्याज्या विष्णुपरायणैः । **उपोषणं नवम्यां वै दशम्यामेव पारणम् ॥२५२॥ इति । **
ननु वैष्णवैर्विद्धा सर्वत्र एव वर्ज्येति पूर्वं निश्चितम् अत्रापि तथैवोक्तम् नवमी चाष्टमी-विद्धा त्याज्या इति । तत्र च नवमीक्षये सति तिथिह्रासक्रमेण एकादश्याश्च शुद्धत्वे किं कर्तव्यम् तत्राह—उपोषणमिति ॥२५२॥
**दशम्यां पारणायाश्च निश्चयान्नवमीक्षये । ** **विद्धापि नवमी ग्राह्या वैष्णवैरप्यसंशयम् ॥१५३॥ **
तदेवाभिव्यज्य लिखति—दशम्यामिति । निश्चयादृशम्यामेवेत्येवकारतः अन्यथोपवासद्वयप्रसङ्गादितिदिक् ॥२५३॥
**अस्य व्रतस्य चागस्त्यसंहितादौ सविस्तरम् । ** विधिरुक्तः प्रसिद्धञ्च लिख्यतेऽत्र समासतः ॥२५४॥
अथ श्रीरामनवमीव्रतविधिः **अष्टम्यां चैत्रमासस्य शुक्लपक्षे जितेन्द्रियः । ** **दन्तधावनपूर्वन्तु प्रातः स्नायाद्यथाविधि ॥२५५॥ **
अष्टम्यामित्यादि स्पष्टार्थमेव ॥२५५॥
**दान्तं कुटुम्बिनं विप्रं वेदशास्त्ररतं सदा । ** **श्रीरामपूजानिरतं सुशीलं दम्भवर्जितम् ॥२५६॥ ** **विधिजं राममन्त्राणां राममन्त्रैकसाधकम् । ** आहूय भक्त्या सम्पूज्य शृणुयात् प्रार्थयन्निति ॥२५७॥ **श्रीरामप्रतिमादानं करिष्येहं द्विजोत्तम । ** तत्राचार्यो भव प्रीतः श्रीरामवित्त्वमेव मे ॥२५८॥ **आचार्यं भोजयेत् पश्चात् सात्त्विकान्नैः सुविस्तरैः । ** भुञ्जीत स्वयमप्येवं हृदि राममनुस्मरन् ॥२५९॥
तत्रैकभक्त-निवेदनमन्त्रः **नवम्यामङ्गभूतेन एकभक्तेन राघव । ** इक्ष्वाकुवंशतिलक प्रीतो भव भवप्रिय ॥२६०॥ इति । **ततः प्रातः समुत्थार्य स्नात्वा सन्ध्यां विधाय च । ** प्रातः सर्वाणि कर्माणि शीघ्रमेव समापयेत् ॥२६१॥
उपवासनिवेदनमन्त्रः **उपोष्या नवमी त्वद्य यामेष्वष्टासु राघव । ** **तेन प्रीतो भव त्वम्भोः संसारात् त्राहि मां हरे ॥२६२॥ इति । ** **विधिवन्निर्मिते यागमण्डपे परमोत्सवैः । ** पुण्याहं वाचयित्वा तु सद्भिः सङ्कल्पमाचरेत् ॥२६३॥
अथ सङ्कल्पमन्त्रः **अस्यां रामनवम्यान्तु समाराधनतत्परः । ** **उपोष्याष्टसु यामेषु पूजयित्वा यथाविधि ॥२६४॥ ** **इमां स्वर्णमयीं रामप्रतिनां सुप्रयत्नतः । ** **श्रीरामप्रीतये दास्ये रामभक्ताय धीमते ॥२६५॥ ** **प्रोतो रामो हरत्वासु पापानि सुबहूनि मे । अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च ॥२६६॥ इति । ** **मूर्तिं श्रीरामचन्द्रस्य सुवर्णस्य पलेन तु । ** अशक्तश्चेत् पलार्द्धेन तदर्द्धार्द्धेन वा चरेत् ॥२६७॥ **रौप्येण वाथ लोहेन शिलया दारुणाथवा । ** लेप्याञ्च लेख्यां वा कुर्यात् कौशल्यां कल्पितां शुभाम् ॥२६८॥ **वामाङ्के जानकीं चास्य संश्लिष्टां वामपाणिना । ** दक्षिणाङ्के दशरथं पुत्रावेक्षणतत्परम् ॥२६९॥
वामेऽङ्के पार्वे दक्षिणेऽङ्के पार्श्वे । अङ्ग इति वा पाठः । दक्षिणे पार्श्वे पार्श्वद्वय इति वा । ततश्च सीतादशरथयोर्वहिस्तौ ज्ञेयौ ॥२६९॥
**पृष्ठतो लक्ष्मणं देवं सच्छत्रं सहचामरम् । ** पार्श्वे भरतशत्रुघ्नौ तालवृन्तकरावुभौ । **अग्ने व्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम् ॥२७०॥ ** **आसनोपरि संविश्य न्यासजालं विधाय च । ** **शङ्खं प्रपूजयेदग्रे गन्धपुष्पाक्षतादिभिः ॥२७१॥ ** **कलसं वामभागस्थं पूजाद्रव्याणि चादरात् । ** पात्रञ्च प्रोक्षयेद्भक्त्या चात्मानं मन्त्रमुच्चरन् ॥२७२॥ **सर्वेषां राममन्त्राणां मन्त्रराजः षडक्षरः । ** **तारकब्रह्म चेत्युक्तस्तेन पूजा प्रशस्यते ॥२७३॥ ** **विलिखेत् सर्वतोभद्रं वेदिकोपरि सुन्दरम् । ** **सर्वव्रते समुद्दिष्टं सर्वतोभद्रमण्डलम् ॥२७४॥ ** मध्ये तीर्थोदकैः पूर्णं कुम्भं रत्नोदरं शुभम् । चूतपल्लपपुष्पैश्च युक्तं न्यस्येदलङ्कृतम् । **सौवर्णे राजते ताम्रे पात्रे षट्कोणमालिखेत् ॥२७५॥ **
रत्नानि उदये अभ्यन्तरे यस्य तम् ॥२७५॥
**अलाभे बिल्वपीठे वा कलसोपरि सस्थिते । ** उपर्यास्तीर्य वस्त्रे द्वे आच्छिन्ने सुदशे शुभे ॥२७६॥
सौवर्णादिपात्रस्यालाभे सति ॥२७६॥
दिव्यसिंहासनं तत्र स्थापयित्वार्चयेत् सुधीः । **पीठार्चां विधिवत् कृत्वा दत्त्वा चार्ध्यादिकन्तथा ॥२७७॥ ** **क्षीरादिना च स्नपनं कुर्यादावाहनादि च । ** **नानारत्नविचित्राणि दद्यादाभरणानि च ॥२७८॥ हिमाम्बुघृष्टरुचिरघनसारसमन्वितम् । ** **गन्धं दद्यात् प्रयत्नेन सागुरुरञ्च सकुङ्कुमम् ॥२७९॥ ** **कह्लारकेतकी जाती पुन्नागाद्यैः प्रपूजयेत् । ** **चम्पकैः शतपत्रेश्च सुगन्धैः सुमनोहरैः ॥२८०॥ चूतपल्लवपुष्पैश्च दूर्वाभिस्तुलसीदलैः । ** कोमलैर्बिल्वपत्रैश्च अशोककुसुमैस्तथा ॥२८१॥
अथ कौशल्याद्यर्चा **रामस्य जननी चासि रामात्मकमिदं जगत् । ** अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥२८२॥ **नमो दशरथायेति पूजयेत् पितरं ततः । ** **ततोऽनुज्ञाप्य देवेशं परिवारान् समर्चयेत् । ** पूर्वषट्कोणकोणेषु हृदयादीनि षट् क्रमात् ॥२८३॥
इति प्रथमावरणम् । हनूमन्तं ससुग्रीवं भरतं सविभीषणम् । लक्ष्मणाङ्गदशत्रुघ्नान् जाम्बवन्तं बलेष्विमान् ॥२८४॥
इति द्वितीयावरणम् । **धृतिं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्धनम् । ** अशोकं धर्मपालञ्च सुमन्त्रं दलमध्यतः ॥२८५॥
इति तृतीयावरणम् ।
दलाग्रे लोकपालांश्च ॥२८६॥
इति चतुर्थावरणम् ।
तदस्त्राणि ततो वहिः ॥२८७॥
इति पञ्चमावरणम् । **घण्टाञ्च वादयन् धूपं दीपञ्चास्मै निवेदयेत् । ** भक्ष्यभोज्यादिना भक्त्या नैवेद्यं विधिनार्पयेत् ॥२८८॥ **आचामञ्च सुताम्बूलं महानीराजनं ततः । ** नमस्कुर्यात्ततः स्तोत्रैः स्तुत्वा च प्रजपेन्मनुम् ॥२८९॥ **शृण्वन् जयन्ती-माहात्म्यं दिव्यां रामकथान्तथा । ** रामभक्तैः समं यामं नयेद्राममनुस्मरन् ॥।२९०॥
यामं नवमीदिवस-प्रथम-प्रहरम् ॥२९०॥
इति प्रथमयामकृत्यम् ।
**शङ्खपात्रासनार्चाञ्च कुर्यायदामेष्वतन्द्रितः । ** **यामे द्वितीये सम्पूज्य मध्याह्ने जन्म भावयेत् ॥२९१॥ **
अतन्द्रित इति सर्वेष्वेव यामेषु शङ्खपात्रपीठानां पूजामनालस्येनावश्यं कुर्यादित्यर्थः ॥२९१।
**उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि । ** **निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेराविर्भूतमभूदपूर्वविभवं यत् किञ्चिदेकं महः ॥२९२॥ **
जन्मभावनविधिमेवाह—उच्चस्थ इति सूर्यादुच्चान् क्रियविषवृगस्त्रीकुलीरान्तयूके दिग्वह्नीन्द्रद्वयतिथिशरान् सप्तविंशांश्च विंशान् । अंशान् यावद्वदति यवने इत्याद्युक्तनिजनिजोच्चस्थानवर्तिनि ग्रन्थपञ्चके मेषमकर-कर्कट-मीन-तुलासु क्रमेण सूर्यभौम-गुरु-शुक्र-शनिषु स्थितेस्वित्यर्थः । किञ्च कर्कट लग्ने चन्द्रसहितगुराविति गुणविशेषः । पलं मांसमश्नन्तीति पलाशा राक्षसास्त एव समिधस्तान् निर्दग्धुं यथा यज्ञेऽरणिजातोऽग्निः पलाशकाष्ठानि निर्दहति तद्वदिति रूपकार्थः ॥२९२॥
स्तुत्वैवं वादयेद्वाद्यान्यर्ध्यं दद्याज्जगत्पतेः । फलपुष्पाम्बुसम्पूर्णं गृहीत्वा शङ्खमुज्ज्वलम् । अशोकचूतकुसुमैर्युक्तञ्च तूलसीदलैः ॥२९३॥
अथ अर्घ्यमन्त्रः **दशाननबधार्ताय धर्मसंस्थापनाय च । ** दानवानां विनाशाय दैत्यानां निधनाय च ॥२९४॥ पवित्राणाय साधूनां जातो रामः स्वयं हरिः । **गृहाणार्ध्यं मया दत्तं भ्रातृभिः सहियोऽनघ ॥२९५॥ इति । ** **पुनः पुष्पाञ्जलिं दत्त्वा यामे यामे ह्यतन्द्रितः । ** पूजयेद्विधिवद्भक्त्या दिवारात्रं नयेद्बुधः ॥२९६॥ **ततः प्रातः समुत्थाय नित्यकृत्यं समाप्य च । ** विधिवद्राममभ्यर्च्य भक्त्याचार्यं प्रतोष्य च । ब्राह्मणैः सह भुञ्जीत तेभ्यो दद्याच्च दक्षिणाम् ॥२९७॥
अथ पारणमन्त्र तव प्रसादस्वीकारात् कृतं यत् पारणं मया । **व्रतेनानेन सन्तुष्टः स्वस्ति भक्तिं प्रयच्छ मे ॥२९८॥ इति । ** **कृत्वैकं ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् । तुलापुरुषदानादिफलं प्राप्नोति मानवः ॥२९९॥ ** **अनेकजन्मसंसिद्धपापेभ्यो मुच्यते ध्रुवम् । ** बहुना किमिहोक्तेन भक्तिस्तस्य करे स्थिता ॥३००॥ **अकिञ्चनोऽपि नियत उपोष्य नवमीव्रतम् । ** कृत्वा जागरणं भक्त्या पूजयेद्विधिवन्मुने ॥३०१॥ **गङ्गायां प्रक्षिपेल्लेप्यां लेख्यां मूर्तिं गृहे न्यसेत् । ** आचार्याय च हैमादिं वदीत प्रतिमां बुधः ॥३०२॥ इति ।
अथ दोलमहोत्सवः **चैत्रे सितैकादश्याञ्च दक्षिणाभिमुखं प्रभुम् । ** दोलया दोलनं कुर्याद्गीतनृत्यादिनोत्सवम् ॥३०३॥
तथा च गारुडे—
**चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम् । ** दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ ॥३०४॥
अथ तन्नित्यता
पाद्मपुराणे—
**ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्व च । ** **चैत्रे दमनकारोपमकुर्वाणो व्रजत्यधः ॥३०५॥ इति । ** **दोलारूढश्च भगवानवलोक्यः प्रयत्नतः । ** दोलारूढस्य चास्याग्रे कुर्याज्जागरणं शुभम् ॥३०६॥
अथ दोलोत्सव-माहात्म्यम्
तत्रैव—
**दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम् । ** **अपराधसहस्रेस्तु मुक्तास्ते घूर्णने कृते ॥३०७॥ **
घूर्णने आन्दोलने सति ये प्रपश्यन्ति ते मुक्ता इत्यन्वयः । यद्वा घूर्णनेऽपि कृते सर्वेऽपराधसहस्रैर्मुक्ता भवन्तीति वाक्यन्तरम् । मघुमाधवे वसन्त इत्यर्थः यद्वा मधौ माधवे वेत्यर्थः । कदाचिद्विघ्नापाताद्वैशाखेऽपि तत्करणात् ॥३०७॥
**तावत्तिष्ठन्ति पापानि जन्मकोटिकृतान्यपि । ** यावन्नान्दोलयेद्भूप कृष्णं कंसविनाशिनम् ॥३०८॥ **आन्दोलनदिने प्राप्ते रुद्रेण सहिताः सुराः । ** कुर्वन्ति प्राङ्गणे नृत्यं गीतं वाद्यञ्च हर्षिताः ॥३०९॥ **ऋषयो गणगन्धर्वा रम्भाद्याप्सरसां गणाः । ** वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः । **दोलयात्रां समायान्ति विष्णुदर्शनलालसाः ॥३१०॥ ** **दोलयात्रानिमित्तन्तु दोलाहे मधुमाधवे । ** भूतानि सन्ति भूपृष्ठे ये केचिद्देवयोनयः । **समायान्ति महीपाल कृष्णे दोलास्थिते ध्रुवम् ॥३११॥ ** विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । **तस्मात् कार्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु ॥३१२॥ ** **प्रह्लादे तु समायाते विष्णुर्दोलावरोहणम् । ** **कुरुते पाण्डवश्रेष्ठ वरं दत्तमनुस्मरन् ॥३१३॥ ** **दोलास्थितस्य कृष्णस्य येऽग्रे कुर्वन्ति जागरम् । सर्वपुण्यफलावाप्तिर्निमेषैकेन जायते ॥३१४॥ ** **दोलासंस्थन्तु ये कृष्णं पश्यन्ति मधुमाधवे । ** क्रीडन्ति विष्णुना सार्द्ध वैकुण्ठे देववन्दिताः ॥३१५॥
किञ्चान्यत्र—
**दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरम् । ** सकृद्दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यया ॥३१६॥ इति।
अथ दोलोत्सवविधिः **चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च । ** नित्यपूजां विधायाथ कुर्याद्दोलोत्सवं व्रती ॥३१७॥ **तदर्थञ्च विशेषेण नैवेद्यादिकमर्पयेत् । ** **सम्मान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत् ॥३१८॥ ** **महानीराजनं कृत्वा प्रक्षिपेदच्युतोपरि । ** गन्धानुलेपचूर्णादिविचित्राणि विभागशः ॥३१९॥
अथ नित्यपूजानन्तरं व्रती कृतापवासः पूर्वलिखितदशम्यादिनियमयुक्तो वा तदर्थं दोलोत्सवार्थं विशेषण अन्यदिनादाधिक्येन सम्मान्य आदौ सादरं निमन्त्र्याहूय पादप्रक्षालनपूर्वकं श्रीचरणामृतानुलेपनमाल्यादिमहाप्रसादप्रदानेन सम्पूज्य तैर्वैष्णवैः । आदि-शब्देन वाद्यनामसङ्कीर्तनादि विचित्राणि गन्धादीनि विभागशः श्रीमदङ्गोष्णीषादिभूषणं दालादौ भागे भागे पृथक् पृथक् अच्युतोपरि प्रक्षिपेत् । तत्र गन्धः—अगुरुकलम्बकादि-साधित-सुरभिद्रव्य विशेषः अनुलेपश्चन्दनादिपङ्कं चूर्णानि च पट्टवासाः वुकाबन्धनेतिप्रसिद्धानि । एतच्च वासन्तिकदोलक्रीडाविशेषलक्षणम् ॥३१७-३१९॥
**सन्तोष्य वैष्णवांस्तैश्च गीतनृत्यादिभिः प्रभुम् । ** **नत्वाभ्यर्थ्याप्रमत्तः सन् दोलामारोहयेच्छुभाम् ॥३२०॥ ** नीत्वा बहिर्वेदिकायामुत्तङ्गायां यथाविधि । **अभ्यर्च्यान्दोलयेत् कृष्णं सर्वलोकावलोकितम् ॥३२१॥ **
तैर्गन्धादिभिर्वैष्णवान् सन्तोष्य प्रभुञ्च भगवन्तं नत्वा प्रणम्य अभ्यर्थ्य च सर्वलोकहितार्थं निजजनसुखार्थञ्च सुखं दोलामिमामारुह्य सावधानमान्दोलनलीलां विधेहि इत्यादि तथा बलीयसा पदा स्वामिन् पदवीमवधारय इत्यादिकञ्च प्रार्थ्य अप्रमत्तः सावधानः सन् शुभां निर्माणविशेषतोऽलङ्कारविशेषतश्चोत्तमां दोलां गीतादिभिरारोहयेत् । आदि-शब्देन जय जयेत्यादिमङ्गलघोष-वेदघोषवाद्यसङ्कीर्तनादि बहिर्दोलायाः उत्तुङ्गायामत्युच्चायान्तदुपरीत्यर्थः । एतच्च सर्वलोकानां सुखदर्शनार्थम् । यथाविधीति वेदिकां तामुपस्कृत्य ध्वजपताकातोरणादिभिरलङ्कृत्य च दृढपट्टवसनेन पार्श्वद्वये स्तम्भादौ दोला निबध्य दोलारूढस्य भगवतोऽर्चने फलविशेषोक्तेरान्दोलनश्रमविशेषदृष्टेश्च पूजाविशेषं कृत्वा महानीराजनं कृत्वा गन्धादिकञ्च प्रक्षिप्य शनैः शनैः सावधानमान्दोलयेदित्यादिप्रकार ऊह्यः । सर्वलोकैरवलोकितं यथा स्यात्तथान्दोलयेत् दोलारूढभगवद्दर्शने फलविशेषोक्तेः ॥३२०-३२१॥
**एवमभ्यर्चयन् यामे यामे त्वान्दोलयन् प्रभुम् । ** महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः ॥३२२॥ **एवं जागरण कृत्वा वैष्णवैः सह वैष्णवः । ** **प्रणम्य प्रार्थ्य निर्मञ्छ्यकृष्णं स्वालयमानयेत् ॥३२३॥ ** केचिच्च वैष्णवाः शुक्लतृतीयायां महोत्सवम् । **इममिच्छन्ति शक्ताश्च कुर्वते मासमेव तम् ॥३२४॥ **
एवमनेन लिखितप्रकारेण यामे यामे प्रतिप्रहरं प्रभूमभ्यर्चयन् आन्दोलयंश्च सन् महोत्सवेन नृत्यगीतादिना दिनं रात्रिञ्च गमयेत् । अत्र प्रतियाममभ्यर्चनमान्दोलनञ्च ततः पुष्पाञ्जलिं दत्त्वा यामे यामे ह्यतन्द्रितः इति रामार्चनचन्द्रिकोक्तेः तथा एकादशीजागरणे यामे यामे महाभाग कुर्यादारात्रिकं हरेः इत्यादिस्कान्दोक्तेश्चानुसारतः तथात्रैव घूर्णने कृते इति यावन्नान्दोलयेत् इत्याद्युक्त्यान्दोलनस्य पौनः—पुण्यप्रतीतेरिति दिक् । प्रार्थ्येति देवालयान्तरधिवास्य श्रीशालग्रामशिलाग्रे स्थापितस्य दमनकस्यारोपणोत्सवार्थमान्दोलनलीलामेतामापहाय भगवज्जनवात्सल्येन सुखं सावधानं स्वमन्दिरे विजयं विधेहीत्यादिप्रार्थनां कृत्वा । निर्माञ्छ्य दोलक्रीडायां दृष्टिमुत्तार्य स्वालयं देवालयम् आ सम्यग्गीतवाद्यादिना नयेत् इमं दोलयात्राख्यम् ॥३२२-३२४॥
तथा चोक्तम्—
चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । **दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ ॥३२५॥ इति । ** **यत् फाल्गुनस्य राकादावुत्तरा फल्गुनी यदा । ** तदा दोलोत्सवः कार्यस्तच्च श्रीपुरुषोत्तमे ॥३२६॥
राका पूर्णिमा आदि-शब्देन प्रतिपदादिः कदाचित् प्रतिपदि कदाचिद्द्वितीयायामपि उत्तरफल्गुनीनक्षत्रयोगात् कार्य इति यत् तस्य श्रीपुरुषोत्तमक्षेत्रे न तु सर्वत्र पुरुषोत्तमखण्डादौ तत्रैव तस्य विधानात् ॥३२६॥
**किन्त्वीदृग्भक्तिसन्दर्शि-जगन्नाथानुसारतः । ** दोलाचन्दन-कीलालरथयात्राइश्च कारयेत् ॥३२७॥
तथापि तद्दृष्ट्यान्यत्रापि तथैव दोलाद्युत्सवः कर्तव्य इति लिखति—किन्त्विति । ईदृशी मूर्तिपूजायात्रोत्सवादिरूपा या भक्तिस्तस्याः सम्यग्दर्शनशीलस्य लोकानुग्राहकस्य श्रीजगन्नाथदेवस्य अनुसारतः यस्मिन् दिने यथा तत्क्षेत्रे भवेत्तद्दिनेऽपि तथा दोलयात्रां चन्दनयात्रां जलयात्रां रथयात्राञ्च कुर्यादेवेत्यर्थः । तत्र हेतुत्वेन लिखितमेव—ईदृग्भक्तिसन्दर्शीति । महोत्सवबाहुल्यञ्च गुणावहमेवेति दिक् ॥३२७॥
अथ दमनकारोपणोत्सवः
**चैत्रस्य शुक्लद्वादश्यां दमनारोपणोत्सवम् । ** विदध्यात्तद्विधिबौधायानाद्युक्तोऽत्र लिख्यते ॥३२८॥ **मधोः सितैकादश्याञ्च प्रातःकृत्यं समाप्य च । ** गत्वा दमनकारामं तत्राशोकं स्मरं यजेत् ॥३२९॥
अथ तत्र मन्त्रः **अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशनः । ** शोकार्तिं हर मे नित्यमानन्दं जनयस्व मे ॥३३०॥ इति ।
तत्र दमनकारामे अशोकवृक्षरूपं स्मरमक्षतचन्दनादिना पूजयेत् । तत्र च कामरूपेण श्रीभगवत एव पूजादिकं ज्ञेयम् । यद्वा भगवदर्पणाय दमनकगुणविशेषार्थं कामदेवस्येवेति दिक् ॥३२९-३३०॥
**नेष्यामि कृष्णपूजार्थं त्वां कृष्णप्रीतिकारकम् । ** **इति सम्प्रार्थ्य नत्वा च गृह्णीयाद्दमनं शुभम् ॥३३१॥ **
गृह्णीयादिति—निजदमनकारामाभावेऽन्योद्यानादपीत्यर्थः । शुभं परमोत्तमं सुन्दरमञ्जर्यादियुक्तम् ॥३३१॥
**प्रोक्ष्य तत् पञ्चगव्येन प्रक्षाल्याद्भिः प्रपूज्य च । ** वस्त्रेणाच्छाद्य वेदादिघोषेण गृहमानयेत् ॥३३२॥
तत् दमनकमद्भिः शुद्धोदकेन प्रक्षाल्य प्रपूज्य अक्षतगन्धादिभिः समभ्यर्च्य वस्त्रेण आच्छाद्येति नवे पटले निधाय सितधौतवाससाच्छाद्येति ज्ञेयम् । आदि-शब्देन गीतवाद्यादि ॥३३२॥
अथ दमनकाधिवासविधिः
**कृष्णस्याग्रे समुद्धृत्य सर्वतो भद्रमण्डलम् । ** निधाय दमनं तत्र रात्रौ तदधिवासयेत् ॥३३३॥
तत्र मण्डले तत्पटलनि हतं दमनम् अधिवासयेदिति नित्यक्रियां निर्वर्त्य भगवतः पूजां विशेषतः कृत्वा तदनुज्ञया तदधिवासनं कुर्यादिति बोद्धव्यम् ॥३३३॥
अथ तत्र मन्त्रः
पूजार्थं देवदेवस्य विष्णोर्लक्ष्मीपतेः प्रभोः । दमन त्वमिहागच्छ सान्निध्यं कुरु ते नमः ॥३३४॥ इति । **सबीजं कामदेवञ्च तथा भस्मशरीरकम् । ** अनङ्गं मन्मथञ्चैव वसन्तसखमेव च । स्मरन्तथेक्षुचापञ्च पुष्पवाणञ्च पूजयेत् ॥३३५॥ **प्रागादिदिक्षु रत्याढ्यं विधिवद्दमने क्रमात् ॥३३६॥ **
दमनकस्य प्रागाद्यष्टदिक्षु क्रमेण कामदेवाद्यष्टकं कामबीजसहितञ्च विधिवत् इक्ष्वक्षतगन्धादिभिः पूजयेत् । तत्र प्रयोगः—क्लीं द्रीं कामदेवाय नमः द्रीं रत्यै नमः इत्यादि यद्वा केशवादिन्यासवत् क्लीं कामदेवाय रत्यै नमः इत्यादि ॥३३५-३३६॥
**अष्टोत्तरशतं कामगायत्र्या चाभिमन्त्र्य तत् । ** दत्त्वा पुष्पाञ्जलिं कामदेवं वन्देत मन्त्रवत् ॥३३७॥
अत्र प्रणाममन्त्रः **नमोऽस्तु पुष्पवाणाय जगदाह्लादकारिणे । ** **मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदायिने ॥३३८॥ इति । ** **आमन्त्रितोऽसि देवेश पूराण पुरुषोत्तम । ** **अतस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ॥३३९॥ ** **निवेदयाम्यहं तुभ्यं प्रातर्दमनकं शुभम् । ** सर्वथा सर्वदा विष्णो नमस्तेऽस्तु प्रसीद मे ॥३४०॥ **इत्थमामन्त्र्य देवेशं दत्वा पुष्पाञ्जलिं पुनः । ** गीतनृत्यादिना रात्रौ कुर्याज्जागरणं मुदा ॥३४१॥
तद्दमनकमभिमन्त्र्य जागरञ्च दोलारूढस्य भगवतोऽग्रे यत्तदेव किंवा शक्तौ सत्यां दमनकाधिवासस्थाने पुत्रादिद्वारेण पृथक् कुर्यात् ॥३३७-३४१॥
अथ दमनकापणविधिः
**प्रातः स्नानादि निर्वर्त्य नित्यपूजां विधाय च । ** दमनारोषणार्थञ्च महापूजां समाचरेत् ॥३४२॥ **ततो दमनकं भक्त्या पाणिभ्यां परिगृह्य च । ** घण्टादिवाद्यघोषेण श्रीकृष्णाय समर्पयेत् ॥३४३॥
समर्पयेदिति समर्पणञ्चार्दौ देवस्य शिरसि दमनकमञ्जरीमारोपयेत् ततो यथाशोभं श्रीचरणादावारोपयेदिति ज्ञेयम् ॥३४३॥
अथ दमनकारोपण-मन्त्रः
**देवदेव जगन्नाथ वाञ्छितार्थप्रदायक । ** कृत्स्नान् पूरय मे कृष्ण कामान कामेश्वरीप्रिय ॥३४४॥
कामेश्वरी रतिः तस्याः प्रियेति कृष्णस्य कामदेवत्वेनार्चनात् । यद्वा सर्वकामप्रदा भगवती लक्ष्मीः यद्वा श्रीकृष्णस्य सर्वकामपूरणी श्रीराधा तत्प्रियेति सम्बोधनं कामविशेषपूरणार्थं प्रीत्या दमनकग्रहणार्थं वेति दिक् ॥३४४॥
**इदं दमनकं देव गृहाण मदनुग्रहात् । ** इमां सांवत्सरीं पूजां भगवन्निह पूरय ॥३४५॥ इति । ततो दामनकीं मालां गन्धादीनि समर्प्य च । **गीतादिनोत्सवं कृत्वा श्रीकृष्णं प्रार्थयेदिदम् ॥३४६॥ **
दामनकीं दमनकमञ्जरीविरचितां मालां भगवते समर्प्य अनन्तरं गन्धाद्युपचारान् पञ्च समर्प्य गीतनृत्यादिना महोत्सवं दमनकारोपणयात्रासम्बन्धिनं कृत्वा मणिविद्रुमेत्यादि प्राथयेत् ॥३४६॥
**मणि-विद्रुममालाभिर्मन्दारकुसुमादिभिः । ** **इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ॥३४७॥ **
इयं मत्कृतदमनकार्पणरूपा पूजैव मणिविद्रुममालादिभिः पूजा तवास्तु ताभिर्यथा प्रीयसे अनयापि तथा प्रीतो भवेति भावः ॥३४७॥
**वनमालां यथा देव कौस्तुभं सततं हृदि । ** **तद्वद्दामनकीं मालां पूजाञ्च हृदये वह ॥३४८॥ इत्यादि । **
पूजाञ्च हृदये वह—प्रीत्या स्वीकूरु ॥३४८॥
**भगवन्तं प्रणम्याथ गुरुं सम्पूज्य भक्तितः । ** सम्पूज्य ब्राह्मणान् शक्त्या भुञ्जीत सह बन्धुभिः ॥३४९॥ **पारणाहे न लभ्येत द्वादशीघटिकापि चेत् । ** तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे ॥३५०॥
एवं विधिं विलिख्य तत्र कालं निश्चिनोति—पारणाह इति द्वाभ्याम् ॥३५०॥
न कृष्णे दमनारोपः स्यान्मधौ विघ्नतो यदि । **वैशाख्यां श्रावणे मासि कर्तव्यं वा तदर्पणम् ॥३५१॥ **
विघ्नतो यदि मधौ चैत्रे न स्यात् तदा वैशाख्यां पूर्णिमायां द्वादश्यां वा श्रावणे वा तस्य दमनकस्यार्पणं कर्तव्यम् । श्रावणेऽपि तथैव बोद्धव्यं सर्वत्र भगवन्महोत्सवे द्वादश्येव प्रशस्ता भगवत्तिथित्वात् ॥३५१॥
अतएवोक्तं ब्रह्मणा देवीपुराणे—
**चैत्रादौ कारयेत् पूजां सम्यग्वत्स यथाविधि । गन्धधूपार्घ्यनैवेद्यमाल्यैर्दमनकोद्भवैः ॥३५२॥ ** **सहोमं पूजयेद्देवं सर्वकामानुवाप्नुयात् । ** सर्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः ॥३५३॥
आदि-शब्देन वैशाखादिः दमनकारोपणमाहात्म्यञ्चाह—सर्वकामानिति पादत्रयेण ॥३५२-३५३॥
अथ वैशाखकृत्यम्
पाद्मे पातालखण्डे नारदाम्बरीषसंवादे—
**माधवे मासि सम्प्राप्ते मेषस्ते कर्मसाक्षिणि । ** **केशवप्रीतये कुर्यात् केशवव्रतसञ्चयम् ॥३५४॥ **
कर्मसाक्षिणि—सूर्ये ॥३५४॥
**दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि । ** **जन्मकोटिसमुद्भूतपातकान्तकराणि च ॥३५५॥ ** **जलान्नशर्कराधेनु-तिलधेनुमुखानि च । ** वित्तमानेन देयानि दानानीप्सितसिद्धये । **वैशाखे विधिना स्नानद्वयं नद्यादिके वहिः ॥३५६॥ ** **हविष्यं ब्रह्मचर्यञ्च भूशया नियमस्थितिः । ** व्रतं दानं दमो देव-मधुसूदनपूजनम् । **माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् ॥३५७॥ ** **तिलोदकसुवर्णान्नशर्कराम्बररोहिणीः । ** **पादत्राणातपत्राम्बुकुम्भान् दद्याद्द्विजातिषु ॥३५८॥ **
नियमे स्थितिः सङ्कल्पपरिपालनमेकत्र वासादि वा व्रतम्—एकभक्तादि दमः—इन्द्रियनिग्रहः रोहिणीः—गाः ॥३५७-३५८॥
**त्रिसन्ध्यं पूजयेदीशं भक्तितो मधुसूदनम् । ** **साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः ॥ ३५९॥ **
तत्रैव वराहधरणीसंवादे—
**विशेषादिह दातव्यास्निला मधुसमन्विताः । ** **धर्माय महते दीर्घदुरितक्षयहेतवे ॥३६०॥ इति । ** **यद्यप्यास्तेऽखिलं कृत्यं माहात्म्यलिखने स्फुटम् । ** तथाप्येकत्र सङ्गृह्य व्यलेखीदं समासतः ॥३६१॥
अथ वैशाखकृत्यनित्यता
वराहधरणीसंवादे—
**यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत् । ** स करस्थं महारत्नं हित्वा लोष्ट्रं हि याचते ॥३६२॥
वैशाखम्—वैशाख्यनियमव्रतमित्यर्थः ॥३६२॥
किञ्च—
अवैशाखी भवेच्छाखी विप्रः श्रौतपरोऽपि च ॥३६३॥ इति ।
अथ सामान्यतो वैशाखमाहात्म्यम्
तत्रैव नारदाम्बरीषसंवादे—
**न माधवसमो मासो न माधवसमो विभुः । ** **पोतोऽधिदुरिताम्भोधिमज्जमानजनस्य यः ॥३६४॥ **
माधवेन श्रीकृष्णेन समः विभूरीश्वरो यथा नास्तीति दृष्टान्तोऽवगन्तव्यः एकमग्रेऽपि यो मासः ॥३६४॥
**तत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे । ** **तदक्षयं भवेद्भूप पुण्यं माधववल्लभे ॥३६५॥ **
माधवस्य वल्लभ इति सर्वत्रैव हेतुर्द्रष्टव्यः ॥३६५॥
किञ्च—
**वैशाखातानि पापानि सूर्यान्तानि तमांसि च । ** परापकारपैशुन्यप्राप्तानि सुकृतानि च ॥३६६॥ कार्त्तिके मासे यत् किञ्चित्तुलासंस्थे दिवाकरे । **स्नानदानादिकं राजंस्तत् परार्धगुणं भवेत् ॥३६७॥ ** **तस्मात् सहस्रगुणितं माघे मकरगे रवौ । ** **ततोऽपि शतसङ्ख्याकं वैशाखे मेषगे भगे ॥३६८॥ ** **ते धन्यास्ते सुकृतिनो नरा वैशाखमासि ये । ** प्रातः स्नात्वा विधानेन पूजयन्ति मधुद्विषम् ॥३६९॥
किञ्च—
**पुनः कलियुगे राजन् नैतद्गोप्यं भविष्यति । ** अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य च ॥३७०॥ **तस्मिंस्तिष्ये नरैः पापैर्गन्तव्यं नरकार्णवे । ** अतस्तु विरलस्तस्य प्रचारोऽजेन निर्मितः ॥३७१॥
भगे सूर्ये तिष्ये कलियुगे ॥३६८-३७१॥
किञ्च तत्रैव—
**दुर्लभं भारते वर्षे जन्म तत्र मनुष्यता । ** **मानुष्ये दुर्लभं लोके स्वस्वधर्मप्रवर्तनम् ॥३७२॥ ** **ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्लभा । ** तत्रापि दुर्लभो मासो माधवो माधवप्रियः ॥३७३॥ **तमवाप्य ततो मासं स्नानदानजपादिकम् । ** कुर्वन्ति विधिना ये तु धनास्ते कृतिनो नराः ॥३७४॥ **तेषां दर्शनमात्रेण पापिनोऽपि विकल्मषाः । ** भवन्ति भगवद्भावभाविता धर्मकाङ्क्षिणः ॥३७५॥
भगवद्धर्मकाङ्क्षिणाः सन्तः भगवद्भावभाविता भवन्ति ॥३७५॥
अथ तत्र कर्मविशेषमाहात्म्यम्
तत्रैव—
**प्रातः स्नानञ्च वैशाखे यज्ञदानमुपोषणम् । ** **हविष्यं ब्रह्मचर्यञ्च महापातकनाशनम् ॥३७६॥ **
किञ्च—
वैशाखं सकलं मासं नित्यस्नायी जितेन्द्रियः । **जपन् हविष्यभुक् शान्तः सर्वपापैः प्रमुच्यते ॥३७७॥ ** **एकभक्तमथो नक्तमयाचितमतन्द्रितः । ** माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ॥३७८॥
वराहधरणीसंवादे—
वैशाखे मासि यो विप्रान् भोजयेद्भक्तितत्परः । **सिक्थे सिक्थे भवेत्तृप्तिः पितृणां युगसङ्ख्यया ॥३७९॥ ** यच्छन्ति तत्र मधुराधिकभोजनानि ये वा यवाशनतिलोदकभोजनानि । **छत्राम्बराणि चरणोचितरक्षणानि धन्यास्त एव परितो हरितोषणानि ॥३८०॥ **
मधुराधिकभोजनानि मधुरद्रव्यप्रघानभोग्यानि । यवाशनं यवान्नं तस्य पुनरुक्तिर्विशेषाय ॥३८०॥
**एवं कृतेन यत् पुण्यं प्राप्यते नियमैश्च तैः । ** **तत् केन गणनां याति वर्षकोटिशतैरपि ॥३८१॥ ** **पत्रपौत्रादिसम्पत्तिं दीर्घायुंषि यथेप्सितम् । ** इहाप्नोति परत्रापि मामेव प्रतिपद्यते ॥३८२॥
अथ तत्र प्रातःस्नानमाहात्म्यम्
तत्रैव नारदाम्बरीष-संवादे—
**अम्बरीष महापुण्य-प्राप्तये कुरु वीक्षणम् । ** **माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः ॥३८३॥ ** **यदानन्दपुरे प्रोक्तं वसतां वर्षकोटिभिः । ** **तत् प्रातर्माधवे मासि स्नानेनैकेन लभ्यते ॥३८४॥ **
आनन्दपुरे तीर्थविशेषे तत् फलम् ॥३८४॥
किञ्च—
**यथैव माधवो ध्यातो विनाशयति किल्विषम् । ** तथैव माधवे स्नानं नियमेन विनिर्मितम् ॥३८५॥
अथ तत्र श्रीभगवत्पूजामाहात्म्यम्
तत्रैव विधिकथने—
**विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् । ** **सर्वसम्वत्सरं यावदर्चितस्तेन माधवः ॥३८६॥ **
विशेषात् अन्यमासत आधिक्येन य एककालमभ्यर्चयेत् अपि-शब्दस्त्वर्थे ॥३८६॥
किञ्च—
**यश्चापि निःस्वः पुरुषो माधवे मासि माधवम् । ** **पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ॥३८७॥ **
पुष्पैर्यदर्चनविधानं पूजाकरणं तेनापि केवलेन ॥३८७॥
**सर्वपापविनिर्मुक्तः पितृणां तारयेच्छतम् । ** स जन्मशतसाहस्रं न शोकफलभाग्भवेत् ॥३८८॥ न च व्याधिभयं तस्य न दारिद्र्यं न बन्धनम् । **स विष्णुभक्तो जायेत धन्यो जन्मनि जन्मनि ॥३८९॥ ** **यावद्यगसहस्राणि शतमष्टोत्तरं भवेत् । ** **तावत् स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ॥३९०॥ ** **भूपत्वे विविधान् भोगान् विहृत्य च यथासुखम् । ** माधवस्य प्रसादेन माधवे लीयते ततः ॥३९१॥
लीयते संयोगं प्राप्नोति ॥३९१॥
किञ्च वराहधरणीसंवादे—
विधिनाऽविधिना वापि ये यजन्ति नरा धरे । **माधवे मासि मां भक्त्या तैश्च याज्योऽस्म्यहं सदा ॥३९२॥ **
सदा याज्यः कृतपूजोऽस्मीत्यर्थः यद्वा सदैव मत्पूजां ते करिष्यन्ति मद्भक्ततां प्राप्ता इत्यर्थः ॥३९२॥
**ये यजन्ति धरे नित्यमध्वरैर्विविधरपि । ** माधवे यजते यो मां तेभ्यस्तधिकं फलम् ॥३९३॥ इति । **वैशाखस्य परञ्चास्ते तत्रोपाख्यानपङ्क्तिषु । ** सामान्येन च माहात्म्यं विशेषेण च सर्वशः ॥३९४॥
तस्याधिकं फलं स्यात् । अलिखितमपि युक्त्या सङ्गृह्णाति—वैशाखस्येति । परञ्च माहात्म्यमास्ते तत्र पद्मपुराणादौ उपाख्यानपङ्क्तिषु इतिहासपरम्परासु ॥३९३-३९४॥
अथ तत्र स्नानविधिः
तत्रैव नारदाम्बरीष-संवादे—
**मेषसङ्क्रमणे भानोर्माधवे मासि यत्नतः । ** महानद्यां नदीतीर्थे नवे सरसि निर्झरे । देवखाते तथा स्नायाद्यथा प्राप्ते जलाशये ॥३९५॥ **दीर्घिकाकूपवापीषु नियतात्मा हरिं स्मरन् ॥३९६॥ ** **मधुमासस्य शुक्लायामेकादश्यामुपोषितः । ** **पञ्चदश्याञ्च वा वीर मेषसङ्क्रमणेऽपि वा ॥३९७॥ वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया । ** **मधुसूदनमभ्यर्च्य कुर्यात् सवनपूर्वकम् ॥३९८॥ **
सवनम्—स्नानम् ॥३९८॥
**वैशाखं सकलं मास मेषसङ्क्रमणे रवेः । ** **प्रातः सनियमं स्नास्ये प्रीयतां मधुसूदनः ॥३९९॥ ** **मधुहन्तुः प्रसादेन ब्राह्मणानामनुज्ञया । ** **निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् ॥४००॥ ** **माधवे मेषगे भानौ मुरारे मधुसूदन । ** **प्रातः स्नानेन मे नाथ यथोक्तफलदो भव ॥४०१॥ ** **यथा ते माधवो मासे वल्लभो मधुसूदन । ** प्रातःस्नानेन मे तस्मिन् फलदो भव पापहा ॥४०२॥ **एवमुचार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः । ** **स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः ॥४०३॥ इति । ** **विधानञ्च परं ज्ञेयं प्रसिद्धं स्मृतिशास्त्रतः । ** तत् किञ्चिल्लिखितं पूर्वं प्रातःस्नानप्रसङ्गतः ॥४०४॥
अथ विशेषतस्तत्राक्षयतृतीयाकृत्यम्
आदौ तन्माहात्म्यम्
मात्स्ये—
**वैशाखे मासि शुक्लायां तृतीयायां जनार्दनः । ** यवानुत्पादयामास युगञ्च कृतवान् कृतम् ॥४०५॥ **ब्रह्मलोकात् त्रिपथगां पृविव्यामवतारयत् । ** तस्यां कार्या यवैर्होमो यवैर्विष्णुं समर्चयेत् ॥४०६॥ **यवान् दद्याद्द्विजातिभ्यः प्रयतः प्राशयेद्यवान् ॥४०७॥ **
पाद्मे च श्रीवराहधरणीसंवादे—
**त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे । ** प्रवृत्तञ्च त्रयोधर्माः प्रवृत्तास्ते प्रवर्तिताः ॥४०८॥
त्रयी वेदत्रयं तया त्रया प्रवर्तिता धर्माश्च प्रवृत्ताः ॥४०८॥
**अक्षया सोच्यते लोके तृतीया हरिवल्लभा । ** स्नाने दानेऽर्चने श्राद्धे जपे पूर्वजतर्पणे ॥४०९॥ येऽर्चयन्ति यवैर्विष्णुं श्राद्धं कुर्वन्ति यत्नतः । तस्यां ददति दानानि धन्यास्ते वैष्णवा नराः ॥४१०॥
अथ शुक्ला सप्तमी
तत्रैव नारवाम्बरीषसंवादे—
वैशाखशुक्लसप्तम्यां जाह्नवी जह्नुना पुरा । **क्रोधात् पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥४११॥ ** **तस्यां समर्चयेद्देवीं गङ्गां भुवनमेखलाम् । ** स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ॥४१२॥ **तस्यां सन्तर्पयेद्देवान् पितृन् मर्त्यान् यथाविधि । ** साक्षात् पश्यन्ति ते गङ्गास्नातकं गतकल्मषम् ॥४१३॥
कृतस्नानं स्वार्थेकन् ॥४१३॥
अथ श्रीनरसिंहचतुर्दशी
**वैशाखस्य चतुर्दश्यां शुक्लायां श्रीनृकेशरी । ** जातस्तदस्यां तत्पूजोत्सवं कुर्वीत सव्रतम् ॥४१४॥
व्रतमुपवासादिनियमस्तत्सहितम् ॥४१४॥
अथ नरसिंहचतुर्दशीव्रतनित्यता
बृहन्नारसिंहपुराणे श्रीभगवन्नृसिंहप्रह्लादसंवादे व्रतविधिकथने—
**वर्षे वर्षे तु कर्तव्यं मम सन्तुष्टिकारणम् । ** **महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः ॥४१५॥ **
वर्षे वर्षे स्विति वीप्सया नित्यत्व साध्यते तच्च हेमाद्रिप्रभृतिभिरेकादशी प्रकरणादौ विवृतमेवास्ति ॥४१५॥
किञ्च—
**विज्ञाय मद्दिनं यस्तु लङ्घयेत् स तु पापभाक् । ** **एवं ज्ञात्वा प्रकर्तव्यं मद्दिने व्रतमुत्तमम् । ** अन्यथा नरकं याति यावच्चन्द्रदिवाकरौ ॥४१६॥
अकरणप्रत्यवायेन च नित्यत्वमाह—विज्ञायेति । विशेषेण ज्ञात्वापि ज्ञाननिष्टाऽपीत्यर्थः ॥४१६॥
अथ तत्राधिकारिनिर्णयः
तत्रैव—
**सर्वेषामेव लोकानामधिकारोऽस्ति मद्व्रते । ** मद्भक्तैस्तु विशेषेण प्रणेयं मत्परायणैः ॥४१७॥
प्रणेयं कर्तव्यम् मत्परायणैर्मदेकनिष्ठैरिति तद्व्रतस्य तद्भक्तिविशेषरूपत्वादिति दिक् ॥४१७॥
अथ तन्माहात्म्यम्
तत्रैव श्रीप्रह्लाद उवाच—
**नमस्ते भगवान् विष्णो नृसिंहवपुषे नमः । ** त्वद्भक्तोऽहं सुरेशैकं त्वां प्रपृच्छामि तत्त्वतः ॥४१८॥ स्वामिंस्त्वयि ममोत्पन्ना भक्तिर्बहुविधा कथम् । कथन्ते सुप्रियो जातः कारणं वद मे प्रभो ॥४१९॥
श्रीनृसिंह उवाच—
**कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः । ** भक्तेर्यत् कारणं वत्स प्रियत्वस्य च तत् पुनः ॥४२०॥ पुराकल्पे ह्यभूर्विप्रः किञ्चित्त्वं नाप्यधीतवान् । **नाम्ना च वसुदेवो हि वेश्यायां तत्परो ह्यभूः ॥४२१॥ ** **तस्मिन् जन्मनि नैव त्वं चकर्थ सुकृतं कियत् । ** मुक्त्वा तु मद्व्रतं चैकं वेश्यासङ्गतिलालसः । **मद्व्रतस्य प्रभावेण भक्तिर्जीता तवेदृशी ॥४२२॥ **
श्रीप्रह्लाद उवाच—
श्रीनृसिंहाच्युत स्वामिन् कस्य पुत्रेण किं कृतम् । वेश्यायां वर्तमानेन कथं तद्धि कृतं मया । **आख्यानं विस्तरेणेदं वक्तुमर्हसि साम्प्रतम् ॥४२३॥ **
कथं वा तद्व्रतं कृतम् ॥४२३॥
श्रीनृसिह उवाच—
**पुरावन्तिपुरे ह्यासीद्ब्राह्मणो वेदपारगः । ** **तन्नाम वसुशर्मेति सर्वलोकेषु विश्रुतम् ॥४२४॥ ** **नित्यं होमक्रियामेष करोति द्विजसत्तमः । ** **ब्रह्मक्रियासु सततं सर्वासु किल तत्परः ॥४२५॥ **
ब्रह्मक्रियासु—वैदिककर्मसु ॥४२५॥
**अग्निष्टोमादिभिर्यज्ञैरिष्टाः सर्वे सुरोत्तमाः । ** तेनापि विद्यमानेन न कृतं दुष्कृतं कियत् ॥४२६॥ **तस्य भार्या सुशीलाभूद्विख्याता भुवनत्रये । ** **पतिव्रता सदाचारा पतिभक्तिपरायणा ॥४२७॥ ** **जज्ञिरे च सुताः पञ्च तस्यां द्विजवरात्ततः । ** सदाचाराः सुविद्वांसः पितृभक्तिपरायणाः । **तेषां मध्ये कनिष्ठस्त्वं वेश्यायां तत्परः सदा ॥४२८॥ ** **तां सन्निषेवमाणेन सुरापानं कृतं त्वया । ** **सदा पापरतस्त्वं हि नाकृथाध्ययनं भृशम् ॥४२९॥ **
अध्ययनं नाकृथाः नाकार्षीः सन्धिरार्षः ॥४२९॥
**विलासिनीगृहे नित्यं वसतिर्ह्यभवत्तव । ** एकदा तद्गृहे ह्यासीत्तया सह महान् कलिः ॥४३०॥ **ततः कलहभावेन भोजनं न कृतं त्वया । ** **अज्ञानात्मव्रतं चक्रे व्रतानामुत्तमं व्रतम् ॥४३१॥ ** **तया सह विवादेन रात्रौ जागरणं कृतम् । ** वेश्याया अपि तत् सर्वं प्रजातन्तु त्वया समम् ॥४३२॥ **रात्रौ जागरणे तस्याः सज्ञातं कायशोधनम् । ** **युवयोर्मद्व्रतं जातमज्ञानाद्वहुपुण्यदम् ॥४३३॥ ** **येन चीर्णव्रतेनाद्य मोदन्ते दिवि देवताः । ** **सृष्ट्यर्थन्तु ततो ब्रह्मा चक्रे मद्व्रतमुत्तमम् ॥४३४॥ **
चीर्णेन कृतेन व्रतेन ॥४३४॥
**मद्व्रतस्य प्रभावेण निर्मितं सचराचरम् । ** ईश्वरेणापि तच्चीर्णं बधार्थं त्रिपुरस्य च । **महिम्नैव व्रतस्यास्य त्रिपुरं सन्निपातितम् ॥४३५॥ ** **अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः । ** **राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् ॥४३६॥ ** **एतद्व्रतप्रभावेण सर्वे सिद्धिमुपागताः । ** वेश्याति मत्प्रिया जाता त्रैलोक्ये सुखचारिणी । **ईदृशं मद्व्रतं वत्स त्रैलोक्ये चैव विश्रुतम् ॥४३७॥ ** **धूर्तायाश्च विलासिन्या व्रतमेतदुपस्थितम् । ** प्रह्लाद तेन ते भक्तिर्मयि जाता ह्यनुत्तमा ॥४३८॥ **सा वेश्या स्वप्सरा जाता दिवि भोगाननेकेशः । ** **भुक्त्वा कामं विलीना तु त्वं प्रह्लाद विविष्ट माम् ॥४३९॥ **
विलीना प्रविष्टा मयीति शेषः । मां विशिष्ट प्राविशः कार्यार्थं भक्तिप्रवर्तनार्थम् ॥४३९॥
कार्यार्थमवतारस्ते मच्छरीरात् पृथक् त्वसौ । **विधाय सर्वकार्याणि शीघ्रं मयि गमिष्यसि ॥४४०॥ ** **य इदं मद्व्रताग्र्यन्तु प्रविधास्यन्ति मानवाः । ** न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥४४१॥ **अपुत्रो लभते पुत्रान् मद्भक्तांश्च सुवर्चसः । ** दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी ॥४४२॥ **तेजस्कामो लभेत्तेजो राज्येप्सू राज्यमुत्तमम् । ** आयुष्कामो लभेदायुर्यादृशन्तु शिवस्य च ॥४४३॥ **स्त्रीणां व्रतमिदं साधुपुत्रदं भाग्यदन्तथा । ** **अवैधव्यकरं तासां पुत्रशोकविनाशनम् ॥४४४॥ ** **धनधान्यकरञ्चैव पतिप्रियकरं शुभम् । ** **सार्वभौमं सुखं तासां दिव्यसौख्यं भवेत्ततः ॥४४५॥ ** **स्त्रियो वा पुरुषो वापि कुर्वन्ति व्रतमुत्तमम् । ** तेभ्यो ददाम्यहं सौख्यं भूक्तिमुक्तिफलन्तथा ॥४४६॥ **बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि । ** मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शङ्करः ॥४४७॥ **ब्रह्मा चतुर्भिर्वक्त्रैश्च नालं स्याज्जीवितावधि ॥४४८॥ **
किञ्च तत्रैव व्रतविधिकथने—
यथा यथा प्रवृत्तिः स्यात् पातकस्य कलौ युगे । **तथा तथा विधास्यन्ति मद्व्रतं विरलं जनाः ॥४४९॥ ** **मद्व्रतस्य विधानेन मतिर्न स्याद्दुरात्मनाम् । ** सदा पापरतानान्तु पुरुषाणां विकर्मणि ॥४५०॥ **विचार्यैवं प्रकर्तव्यं माधवे मासि मद्व्रतम् । ** प्राप्ते भूतदिने वत्स सर्वकल्मषनाशनः ॥४५१॥ **येनैव क्रियमाणेन सहस्रद्वादशीफलम् । ** जायते न मृषा वचिन मानुषाणां महात्मनाम् ॥४५२॥
मानुषाणां जायते । महात्मनामिति मद्व्रतानुष्ठानात् न चात्रासम्भावनादिकं कार्यमित्याह—न मृषा वचनीति ॥४५२॥
तदन्ते च—
**य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् । ** तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ॥४५३॥
न तावदनुष्ठानात् श्रवणादिनापि महाफलं स्यादिति लिखति—य इति ॥४५३॥
**पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः । ** सर्वान् कामानवाप्नोति व्रतस्यास्य फलं लभेत् ॥४५४॥
अथ तद्व्रतदिननिर्णयः
आगमे—
**वैशाखे शुक्लपक्षे तु चतुर्दश्यां महातिथौ । ** सायं प्रह्लादधिक्कारमसहिष्णुः परो हरिः ॥४५५॥ **सद्यः कटकटाशब्द-विस्मापितसभाजनः । ** लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः ॥४५६॥ **नृहरेरवतारात्तां यत्नतः समुपोषयेत् । ** **महापुण्यतमायाञ्च सायं विष्णुं प्रपूजयेत् ॥४५७॥ **
बृहन्नारसिंहे—
**वैशाखशुक्लपक्षस्य चतुर्दश्यां समाचरेत् । ** **मज्जन्मसम्भवं पुण्यं व्रतं पापाप्रणाशनम् ॥४५८॥ **
किञ्च—
**स्वातीनक्षत्रयोगे तु शनिवारे हि मद्व्रतम् । ** सिद्धियोगस्य योगे च लभ्यते दैवयोगतः । **सर्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम् ॥४५९॥ **
दैवयोगतः कदाचिन्महाभाग्येनैव लभ्यते इत्यर्थः यतः सर्वैरिति ॥४५९॥
**केवलञ्च प्रकर्तव्यं मद्दिनं फलकाङ्क्षिभिः । ** वैष्णवैर्न तु कर्तव्या स्मरविद्धा चतुर्दशी ॥४६०॥
केवलं तत्तद्योगहीनमपि फलाकाङ्क्षिभिरपि कर्तव्यमेव नित्यत्वात् । स्मरस्त्रयोदशी तेन विद्धा ॥४६०॥
आगमे—
**प्रिया चतुर्दशी भौमे कर्तव्या किल्विषापहा । ** कामविद्धा न कर्तव्या स्वातीभौमयुता यदि ॥४६१॥
अथ तद्व्रतविधिः
तत्रैव—
**प्रातरुत्थाय कुर्वीत नियमं मनसा स्मरन् । ** मामेन मद्दिने वत्स दन्तधावनपूर्वकम् ॥४६२॥
प्रातश्चतुर्दशी—प्रभाते सर्वव्रतसाधारणत्वात् पूर्वदिने चैकभक्तादिसयमो विज्ञेय एव । दन्तधावनन्तु उपवासदिने काष्ठेन तन्निषेधात् तृणादिना बोद्धव्यम् ॥४६२॥
अथ नियममन्त्रः
श्रीनृसिंह महाभीम दयां कुरु ममोपरि । **अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ॥४६३॥ इति । ** **व्रतस्थेन न वक्तव्यं मद्दिने पापिभिः सह । ** मिथ्यालापा न कर्तव्याः समग्रफलकाङ्क्षिभिः ॥४६४॥ **स्त्रियं द्यूतं विहायोच्चैर्व्रतस्थेन महात्मना । ** **स्मर्तव्यं मम रूपञ्च मद्दिने सकले शुभे ॥४६५॥ ** **ततो मध्याह्नवेलायां नद्यादौ विमले जले । ** गृहे वा देवखाते वा तडागे वातिशोभने । **वैदिकेन च मन्त्रेण स्नानं कुर्याद्विचक्षणः ॥४६६॥ ** **मृत्तिकागोमयेनैव तथा धात्रीफलेन वा । ** तिलैर्वा सर्वपापघ्नैः स्नानं कृत्वा महात्मभिः । **परिधाय शुचिर्वस्त्रे नित्यकर्म समाचरेत् ॥४६७॥ ** **ततो गृहं समागत्य स्मरन् मां भक्तियोगतः । ** गोमयेन विलिप्याथ कुर्यादष्टदलाम्बुजम् ॥४६८॥ **कलसं तत्र संस्थाप्य ताम्रं रत्नसमन्वितम् । ** तस्योपरि न्यसेत् पात्रं तण्डुलैः परिपूरितम् । **हैमी मूर्तिस्तु तत्रैव स्थाप्या लक्ष्मीस्तथैव च ॥४६९॥ **
ताम्रं ताम्रमयं मूर्तिः श्रीनारसिंहो तथैव लक्ष्मीः हैमी लक्ष्मीमूर्तिश्च । कार्ये द्वे मूर्ती कार्येति पाठे प्रत्येकं सम्बन्धः ॥४६९॥
**पलेन च तदर्द्धेन तदर्द्धार्द्धेन वा पुनः । ** यथा शक्तिस्तथा कार्या वित्तशाठ्यविवर्जितः । **पञ्चामृतेन ते स्नाप्य पूजनं तु समाचरेत् ॥४७०॥ **
ते द्वे मूर्ती स्नाप्य स्नापयित्वा ॥४७०॥
**ततो ब्राह्मणमाहूय तमाचार्यमलोलुपम् । ** कुर्याच्छास्त्रसमायुक्तं शान्तं दान्तं जितेन्द्रियम् ॥४७१॥ **तेनैव कारयेत् पूजां दृष्ट्वा शास्त्रानुसारतः । ** आचार्यवचनाद्धीमान् पूजां कुर्याचरन् व्रतम् ॥४७२॥
दृष्ट्वा शास्त्रोक्तविधिं ज्ञात्वा आचार्याज्ञया पश्चात् स्वयमपि पूजयेदित्याह—आचार्येति ॥४७२॥
अथ तत्र अग्रे श्रीप्रह्लाद-पूजा
तथा चागमे—
**प्रह्लाद-क्लेशनाशाय या हि पुण्या चतुर्दशी । ** **पूजयेत्तत्र यत्नेन हरेः प्रह्लादमग्रतः ॥४७३॥ **
बृहन्नारसिंहे—
**मद्रूपं कारयेत्तत्र पुष्पस्तवकशोभितम् । ** **ऋतुकालोद्भवैः पुष्पैः पूज्योऽहञ्च यथाविधि ॥४७४॥ **
पूजाविधिमाह—मद्रूपमिति नवभिः मदीयमूर्तिम् ॥४७४॥
**उपचारैः षोडशभिमन्मन्त्रैर्नामभिस्तथा । ** ततः पौराणिकैर्मन्त्रः पूजनीयो विशेषतः ॥४७५॥
अथ तत्र चन्दनमन्त्रः **चन्दनं शीतलं दिव्यं चन्द्रकुङ्कुममिश्रितम् । ** ददामि ते प्रतुष्ट्यर्थं नृसिंह परमेश्वर ॥४७६॥ इति ।
अथ पुष्पमन्त्रः **कालोद्भवानि पुष्पाणि तुलस्यादीनि वै प्रभो । ** पूजयामि नृसिंहेश लक्ष्म्या सह नमोऽस्तुते ॥४७७॥
अथ धूपमन्त्रः **कालागुरुमयं धूपं सर्वदेवसुदुर्लभम् । ** करोमि ते महाविष्णो सर्वकामसमृद्धये ॥४७८॥
अथ दीपमन्त्रः **दीपः पापहरः प्रोक्तस्तमसां राशिनाशनः । ** दीपेन लभ्यते तेजस्तस्माद्दीपं ददामि ते ॥४७९॥ इति ।
अथ नवेद्यमन्त्रः **नैवेद्यं सौख्यदं चास्तु भक्ष्यभोज्यसमन्वितम् । ** ददामि ते रमाकान्त सर्वपापक्षयं कुरु ॥४८०॥ इति ।
अथ अर्घ्यमन्त्रः **नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते । ** अनेनार्घ्यप्रदानेन सफलाः स्युर्मनोरथाः ॥४८१॥ इति ।
अथ पूजामन्त्रः **पीताम्बर महाविष्णो प्रह्लादभयनाशकृत् । ** यथाभूतार्चनेनाथ यथोक्तफलदो भव ॥४८२॥ इति ।
यथाभूतेन यथोपपन्नेन सम्यक् सम्पादयितुमशक्तेनार्चनेनापि ॥४८२॥
**रात्रौ जागरणं कुर्याद्गीतवादित्रनिस्वनैः । ** **पुराणपठनं नृत्यं श्रोतव्यं मरकथानकम् ॥४८३॥ **
मम कथानकं कथा ॥४८३॥
**ततः प्रभातसमये स्नानं कृत्वा ह्यतन्द्रितः । ** **पूर्वोक्तेन विधानेन पूजयेन्मां प्रयत्नतः ॥४८४॥ **
किञ्च—
**मद्वंशे ये नरा जाता ये जनिष्यन्ति मत्पुरः । ** **तांस्त्वमुद्धर देवेश दुःसहाद्भवसागरात् ॥४८५॥ पातकार्णवमग्नस्य व्याधिदुःखाम्बुराशिभिः । ** **तीव्रैस्तु परिभूतस्य महादुःखगतस्य मे ॥४८६॥ ** **करावलम्बनं देहि शेषशायिन् जगत्पते । ** **श्रीनृसिंह रमाकान्त भक्तानां भयनाशन ॥४८७॥ ** **क्षीराम्बुधिनिवास त्वं प्रीयमाणो जनार्दन । ** **व्रतेनानेन मे देव भुक्तिमुक्तिप्रदो भव ॥४८८॥ ** **एवं प्रार्थ्य ततो देवं विसर्ज्यं च यथाविधि । ** **उपहारादिकं सर्वमाचार्याय निवेदयेत् ॥४८९॥ ** **दक्षिणाभिः सुसन्तोष्य ब्राह्मणाश्च विसर्जयेत् । ** मम ध्यानसमायुक्तो भुञ्जीत सह बन्धुभिः ॥४९०॥ इति ।
अथ तत्र पौर्णमासी
पाद्मे तत्रैव श्रीयमब्रह्मणसंवादे—
**मेषसङ्क्रममारभ्य तिथयस्त्रिंशदुत्तमाः । ** **सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः ॥४९१॥ ** **तत्रापि पूर्णिमा पुण्या माधवी माधवप्रिया । ** **येयं वराहकल्पस्य तिथिराद्या महाफला ॥४९२॥ **
माधवी वैशाखी ॥४९२॥
किञ्च—
**स्नानदानार्चनश्राद्धक्रियापुण्यविवर्जिता । ** यस्यातीता च वैशाखी स नूनं निरयालयः ॥४९३॥ **न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् । ** न दानं जलगोतुल्यं न वैशाखीसमा तिथिः ॥४९४॥ **जलधेनुञ्च यो दद्याद्वैशाख्यां विष्णुतत्परः । ** **त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः ॥४९५॥ **
त्रयाणां श्रीब्रह्मादीनां चतुर्थः । सारूप्यादिप्राप्त्या भगवतः सदा समीपवर्तिनित्यपार्षदो भवतीत्यर्थः ॥४९५॥
तत्रैव धनशर्माणं प्रति प्रेतोक्तौ—
**मया नैकापि वैशाखी पूर्णा पूर्णफलप्रदा । ** स्नानदानक्रियापूजासुकृतैः परिपालिता ॥४९६॥
स्नानदानार्चनेति श्लोकोक्तं वैशाखीकृत्यनित्यत्वमेव वचनान्तरैर्द्रढ्यति—मयेति चतुर्भिः । तत्र चेयमाख्यायिका— कश्चिच्छ्रोत्रियो विप्रः पूर्वजन्मनि निखिलं वैदिककर्माकरोत् केवलं पौराणिकं वैशाखीकृत्यमप्येकं न चकार तेन सर्वं तस्य वैदिकं कर्म विफलमभूत् प्रत्युत भगवत्प्रियवैशाखानादरेण प्रेतत्वं जातम् । इति । तत्र च धनशर्मणो विप्रस्य पथि दृष्टस्तदादिप्रेतैः सह संवादे तत्तन्नामकारणनिर्वाचने निजनामकारणं निर्वक्ति—मयेति द्वाभ्याम् । स्नानादिरूपसुकृतैः तत्र क्रिया श्राद्धादि ॥४९६॥
तेन मे वैदिकं कर्म जातं सर्वञ्च निष्फलम् । **ततो वैशाखनामाहं प्रेतो जातोऽस्मि गर्वतः ॥४९७॥ **
गर्वतः वैदिकत्वाभिमानात् अयमेव वैशाख्यपरिपालने हेतु ॥४९७॥
किञ्च तत्रैव—
**पापेन्धनदवज्वाला-तमोद्रुमकुठारिका । ** **कृता नैकापि वैशाखी विधिना तत्र पूर्णिमा ॥४९८॥ ** **अव्रता यस्य वैशाखी स वैशाखी भवेन्नरः । ** दश जन्मानि च ततस्तिर्यग्योनिषु जायते ॥४९९॥
व निश्चित स शाखी वृक्षो भवेत् ॥४९९॥
अथ समस्तवैशाखाशक्तकृत्यम्
तत्रैव श्रीयमब्राह्मणसंवादे—
त्रयोदश्यां चतुर्दश्यां वैशाख्याञ्च दिनत्रयम् । **सर्वाशक्तोऽपि विधिना नारी वा पुरुषोऽपि वा ॥५००॥ ** **पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा स्वशक्तितः । ** विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते ॥५०१॥
अक्षयं स्वर्गं श्रीवैकुण्ठलोकमित्यर्थः ॥५०१॥
इति चतुर्दशो विलासः ।
वैशाख्यामप्यशक्त्या वा भोजयेद्ब्राह्मणान् दश ॥५०२॥ इति । ।
इति श्रीगोपालभट्ट-विलिखिते श्रीमद्भगवद्भक्तिविलासे षाण्मासिको नाम चतुर्दशो विलासः ।