(१३)
त्रयोदश-विलासः
विष्णु-व्रतोत्सवः
वन्दे चैतन्य-देवं तं कृष्णं नित्य-नवोत्सवम् ।
यस्य प्रसादात् सिध्यन्ति दीनस्यापि महोत्सवाः ॥१॥
यस्य शक्त्य्-अंश-लाभेन ब्रह्मादेर् अपि शक्तयः ।
तास् ता विभान्ति तं वन्दे सर्व-शक्ति-प्रदं विभुम् ॥
एवम् एकादशी-व्रतं निर्णीयाधुना दशम्य्-आदि-कृत्य-महोत्सव-प्रकरणं लिखन् तल्-लिखनादि-महोत्सव-सिद्धये भगवन्तं प्रणमति—वन्दे इति । नित्यं नव-नवोत्सवो भक्तानां यस्मात् तम् । यद् वा, प्रतिक्षण-नूतनोत्सव-रूपम् ॥१॥
अथोपवास-पूर्व-दिन-कृत्यम्—
प्रातः-स्नानादिकं कृत्वा सुवेशो धौत-वस्त्रकः । व्रतं सङ्कल्प्य कुर्वीत वैष्णवैश् च महोत्सवम् ॥२॥
सङ्कल्प-मन्त्रः—
दशमी-दिनम् आरभ्य करिष्ये’हं व्रतं तव । त्रि-दिनं देव-देवेश निर्विघ्नं कुरु केशव ॥३॥
तत्र चास्पृश्य-स्पर्शे’पि न स्नातम्
विष्णु-स्मृतौ—
उत्सवे वासुदेवस्य स्नायाद्यो’शुचि-शङ्क्अया । तादृशं कश्मलं दृष्ट्वा सवासा जलम् आविशेत् ॥४॥ इति ।
प्रातः-समये स्नानम् । आदि-शब्देन सन्ध्योपासनादि नित्य-कृत्यं च सर्वं सम्पाद्य । सुवेश इति वैष्णवानां दशम्यां क्षौर-कर्मादि-विधानात् । क्षौर-कर्मावसरश् च रत्न-मालायाम्—
भुक्ताभ्यक्त-निरासनैश् च समय ग्रामान्तर-प्रस्थितैः स्नातैर् नो नवमेऽहनीति विबुधाः क्षौरं हि कार्यं जगुः । दीक्षा-बन्ध-विमोक्ष-मृत्यु-समयोद्बाहेषु भूपाज्ञया विप्राणाम् अखिलेषु तेषु कथितं क्षौरं शुभं सूरिभिः ॥ इति ।
यच् च स्मृतौ—
उष्णोदकं तथाभ्यङ्गं शय्यावपन-मैथूनम् । वर्जयेत् तानि यत्नेन दशम्य्-आदि दिन-त्रये ॥ इति ।
तच् चावैष्णव-विषयकम् इति ज्ञेयम् । तथा धौतं वस्त्रं यस्य येन वेति च वस्त्रादि-प्रक्षालनात् । वैष्णवैः कृत्वा सहेति वा । महोत्सव-निर्वर्तन-प्रकारश् च पूर्व-लिखितेनाग्रे लेख्येन च । तथा सर्वः सदाचारेणापि प्रसिद्ध एव । यद् विशेषतः श्री-भगवन्-मन्दिरं सम्मार्जनादिना संस्कृत्य ध्वज-पताकादिभिर् अलङ्कृत्य च भगवन्तं सिंहासनोत्तमे सुखम् उपवेश्य महा-पूजां विधाय भक्त्या वैष्णवान् आहूय सम्मान्य नृत्य-गीतादिकं विनिष्पादयेद् इति ॥२-४॥
स्तुत्वाथ बहुधा कृष्णं घोषयेन् नियमान्वितम् । श्री-रुक्माङ्गद-मत्तेभ-पटहोद्घोषितं वचः ॥५॥
अथ महोत्सवानन्तरं बहुधा विचित्र-गद्य-पद्यादि-पाठेन स्तुत्वा श्री-रुक्माङ्गदस्य मत्तेभस् तस्मिन् पटहो वाद्य-भाण्ड-विशेषस् तेन । यद् वा, श्री-रुक्माङ्गदेन प्रयोजकेन निज-मत्तेभ-पटहेन कृत्वा उद्घोषितम् उच्चैः शब्दितं यद् वचः वाक्यं तद् घोषयेत् श्रावयेत् । नियमैर् दशम्य्-आदि-कृत्यैर् अग्रे लेख्यैर् अन्वितम् इति नियमांश् च घोषयेद् इत्य् अर्थः ॥५॥
अथा हि नारदीये [२.२३.३३-३४]—
प्रातर् हरि-दिनं लोकास् तिष्ठध्वं चैक-भोजनाः । अक्षार-लवणाः सर्वे हविष्यान्न-निषेविणः ॥६॥ अवनी-तल्प-शयनाः प्रिया-सङ्ग-विवर्जिताः । स्मरध्वं देवम् ईशानं पुराणं पुरुषोत्तमम् । सकृद्-भोजन-संसक्ता द्वादश्यां च भविष्यथ ॥७॥
किं च—
वरं स्व-मातृ-गमनं वरं गो-मांस-भक्षनम् । वरं हत्या सुरा-पानं नैकादश्यां तु भोजनम् ॥८॥
अथ क्षाराः—
तिल-मुद्गादृते शस्यं शम्यं गो-धूमको द्रवाः । चणकं देव-धान्यं च एष क्षार-गणः स्मृतः ॥९॥
अथ हविष्याणि—
हैमन्तिकं सितास्विन्नं धान्यं मुद्गा यवास् तिलाः । कलाय-कङ्गुनी-वारा वास्तूकं हिल-मोचिका ॥१०॥ षष्ठिका काल-शाकं च मूलकं केमुकेतरत् । कन्दं सैन्धव-सामुद्रे गव्ये च दधि-सर्पिषी ॥११॥ पयो’नुद्धृत-सारं च पनसाम्रे हरीतकी । पिप्पली जीरकं चैव नागरङ्गं च तिन्तिडी ॥१२॥ कदली लवली धात्री फलान्य् अगुडम् ऐक्षवम् । अतैल-पक्वं मुनयो हविष्याणि प्रचक्षते ॥१३॥
शम्यं शमीधान्यं सप्तधान्येतरन्माषादि-गोधूमादिकं शस्यम् । हेमन्तिकं हेमन्तकालभवं धान्यम् । कथम्भूतम् सितं च तत् अस्विन्नं च । षष्टिका धान्यविशेषः शाकविशेषो वा । ऐक्ष्नवम् इक्षुविकारः तच्च गुडवर्जितम् । अतैलपक्वमिति तच्च शाकादिकं तैलेन पक्व सद्धविष्यं न भवतीत्यर्थः ॥९-१३॥
अथान्ये’पि नियमाः
स्कान्दे—
कांस्यं मांसं मसूरं च क्षौद्रं चानृत-भाषणम् । पुनर् भोजनम् आयासं दशम्यां परिवर्जयेत् ॥१४॥
कौर्मे—
कांस्यं मांसं मसूरं च चनकं कोर-दूषकान् । शाकं मधु परान्नं च त्यजेद् उपवसन् स्त्रियम् ॥१५॥
किं च—
कांस्यं मांसं मसूरं च पुनर्-भोजन-मैथुनम् । द्यूतमत्य् अम्बु-पानं च दशम्यां सप्त वर्जयेत् ॥१६॥
मात्स्ये—
कांस्यं मांसं सुरां क्षौद्रं तैलं वितथ-भाषणम् । व्यायामं च प्रवासं च दिवा-स्वापं च मैथुनम् । शिला-पिष्टं मसूरं च द्वादशैतानि सन्त्यजेत् ॥१७॥
आयासमित्यत्र अत्याशमिति क्वचित् पाठः सङ्गत इव । पूर्वं स्नाने दशम्यामवश्यं तैलं ग्राह्यमिति लिखितं दशम्यां तैलमस्पृष्ट्वा यः स्नायादविचक्षणः इतिवचनेन प्राप्तं अत्र दशमीनियमेषु वर्ज्यमिति न विरुद्धं सकामनिष्कामतया परिहार्याम् चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशो बलम् इति तत्रैवोक्तेः । एवमन्यत्रापि विरोधः परिहरणीयः ॥१४-१७॥
स्मृत्य्-अन्तरे—
दशम्याम् एक-भक्तं तु कुर्वीत नियतेन्द्रियः । आचम्य दन्त-काष्ठं तु खादयेत् तद्-अनन्तरम् ॥१८॥
अथ तन्-माहात्म्यम्
उक्तं च ब्रह्म-वैवर्ते—
दशम्यां दन्त-काष्ठेन जिह्वां लेखयते यदा । द्वादशी-नियमार्थाय निराशः स्याद् यमस् तदा ॥१९॥ निर्मार्जयति तत् पापं पटस्थं दीन-मानसः । अभुक्त-कर्मा संयाति पातकी वैष्णवं पदम् ॥२०॥
न भुक्तं कर्म येन नरकदुःखाद्यभोगात् सोऽपि सम्यग्याति द्वादशीव्रतार्थोद्यममात्रेणैव सर्वदुष्कर्मक्षयात् । एवं दशम्यां भोजनान्तरं काष्ठेन दन्तधावनविधानादेकादश्यां पूर्णादिना दन्तधावनं निरस्तम् अन्यथा पूर्वदिनान्ते तद्धावनप्रयासानुपपत्तेः । केवलं द्वादशगण्डूषैर् एव मुखशोधनं तस्यां कार्यमिति चादौ लिखितमेव ॥२०॥
अथैक-भक्त-लक्षणम्
दिनार्ध-समये’तीते भुज्यते नियमेन यत् । एक-भक्तम् इति प्रोक्तं कर्तव्यं तत् प्रयत्नतः ॥२१॥ इति । ततो रात्रिं नयेतां च ब्रह्मचारी जितेन्द्रियः । भगवन्तं स्मरन् भक्त्या भूमि-शायी सुखं स्वपन् ॥२२॥
ब्रह्मचारीति स्त्रीसङ्गादि वर्जयन्नित्य् अर्थः । यद्यपि नियमेषु मैथुनवर्जनं लिखितमेव तथापि स्वभावतः स्त्रीदर्शनादिरूपं ब्रह्मचारित्वमत्र ग्राह्यम् । तच्चाग्रे व्यक्तं भावि । अतएव जितं वशीकृतमिन्द्रियं येन तथाभूतः सन् ॥२२॥
अथोपवास-दिन-कृत्यम्
प्रातः स्नात्वार्चयित्वा च भगवन्तं यथा-विधि । ताम्र-पात्रं समादाय व्रत-सङ्कल्पम् आचरेत् ॥२३॥
यथाविधीति पूर्वालिखितः स्नानार्चनादि-विधिरुन्नेयः ॥२३॥
तथा चोक्तं देवलेन—
गृहीत्वौडुम्बरं पात्रं वारि-पूर्णम् उदङ्-मुखः ।
उपवासं तु गृह्णीयाद् यद् वा सङ्कल्पयेद् बुधः ॥२४॥
अथ तत्र सङ्कल्प-मन्त्रः
एकादश्यां निराहारः स्थित्वाहम् अपरे’हनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥२५॥ इति । उच्चारयन् इमं मन्त्रं श्री-कृष्ण-चरणाब्जयोः । पुष्पाञ्जलिं समर्प्याथ मन्त्र-पूतं जलं पिबेत् ॥२६॥
तद् उक्तं मार्कण्डेयेन—
अष्टाक्षरेण मन्त्रेण त्रि-जप्तेनाभिमन्त्रितम् । उपवास-फलं प्रेप्सुः पिबेत् तोयं समाहितः ॥२७॥ देवार्चनं ततः कृत्वा पुष्पाञ्जलिम् अथापि वा । सङ्कल्प-मन्त्रम् उच्चार्य देवाय विनिवेदयेत् ॥२८॥
औडुम्बरं ताम्रमयं पात्रम् उपवासं गृह्णीयात् यद् वा, सङ्कल्पयेदिति औडम्बरपात्राद्यभावे सङ्कल्पमात्रमपि कुर्याद् इत्य् अर्थः । शरणं मे भवाच्युत इत्यत्र गतिर्भव ममाच्युत इति देवलेन पठितम् । स्थित्वेत्यत्र च भूत्वेति । विष्णुना च स्थित्वाहमपरेऽह्न्ययमिति । तोषं पिबेत् अथवा देवार्चनं कृत्वा तदनन्तरं देवाय पुष्पाञ्जलिं विनिवेदयेत् समर्पयेदिति जलपानपुष्पाञ्जल्यर्पणयोर्विकल्प उक्तः । कुर्यादिति पाठे तु देवार्चन-पुष्पाञ्जल्यर्पणयोर्विकल्पो ज्ञेयः ॥२४-२८॥
दशम्यां चार्ध-रात्रोपर्य्-अनुवृत्तौ पुरःसरान् । एकादश्याश् चतुर्यामान् हित्वा सङ्कल्पम् आचरेत् ॥२९॥
तथा चोक्तं—
दशम्याः सङ्ग-दोषेण अर्ध-रात्रात् परेण तु । वर्जयेच् चतुरो यामान् सङ्कल्पार्चनयोस् तदा ॥३०॥
अर्द्धरात्रोपरि च दशम्यनुवृत्तो सत्यां एकादश्याः पुरःसरान् आद्यान् चतुरो यामान् हित्वा व्रतसङ्कल्पं कुर्यात् । इत्थमपि अर्द्धरात्रवेधः परिहृतः ॥२९-३०॥
नारदीये च—
पूर्वायाः सङ्ग-दोषणिकादश्यां स्नान-पूजने । वर्जयन्ति नराः पूर्वान् यामांश् च चतुरो द्विज । तद् ऊर्ध्वं स्नान-पूजादि कर्तव्यं तद्-उपोषितैः ॥३१॥
पूर्वायाः दशम्याः ॥३१॥
न दिवा शुद्धिम् आप्नोति तदा रात्रौ विधीयते । दिन-कार्यम् अशेषं च कर्तव्यं शर्वरी-मुखे ॥३२॥
ननु दिनकृत्यं कथं रात्रौ कर्तव्यम् तत्राह—न दिवेति । दिनकार्यं यदि दिवा दिनमध्ये शुद्धिं नाप्नोति तच्च शर्वरीमुखे प्रदोष एवाशेषं कर्तव्यम् ॥३२॥
ततश् च भगवद्भक्त्या परिचर्यादिरूपया । दिन रात्रिं च गमयेदुपवासपरो बुधः ॥३३॥
परिचर्यादिरूपयेति व्रतादौ पूजाविशेषप्राधान्यात् ॥३३॥
तदुक्तं स्कान्दे—
**सम्पूज्य देवदेवेशं भक्त्या परमया युतः । ** अहोरात्रं क्षिपेद्धीमानुपवासफलाप्तये ॥३४॥
अथोपवासलक्षणम्
गृह्यपरिशिष्ट-कात्यातनस्मृति-विष्णुधर्म-ब्रह्मवैवर्तादिषु—
**उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । ** उपवासः स विज्ञेयः सर्वभोगविवर्जितः ॥३५॥
पापेभ्य उपावृत्तस्य जनस्य गुणैः सह यो वासः स उपवासो विज्ञेयः । किं च सर्वभोगैर् विवर्जितः ॥३५॥
उक्तं च शातातपेन—
**गन्धालङ्कारवासांसि पुष्पमाल्यानुलेपनम् । ** **उपवासेन दुष्यन्ति दन्तधावनमञ्जनम् ॥३६॥ **
भोगानेव दर्शयति—गन्धेति द्वयेन । अञ्जनं नर्तकादि-लोचनयोः । उपवासेन सह दुष्यन्ति अतस्तत्र वर्जयेदिति भावः । यच्च काशीखण्डे—उपवासेऽपि नो दुष्येद्दन्तधावनमञ्जनम् इत्यादि तच्च प्रायो वेशो योषितामेव नेत्राञ्जनाचारेण तत्साहचर्यात् । तत्रोक्तं दन्तधावनादि सर्वं तद्विषयकमेव ज्ञेयमिति पूर्वं लिखितमेवास्ति ॥३६॥
श्रीव्यासेन च—
**पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनम् । ** **उपवासे च दुष्यन्ति दन्तधावनमञ्जनम् ॥३७॥
अथ तत्र उपवासे पापानि **
श्रीसुमन्तुना—
**विहितस्याननुष्ठानमिन्द्रियाणामनिग्रहः । ** **निषिद्धसेवनं नित्यं वर्जनीयं प्रयत्नतः ॥३८॥ **
शातातपेनापि—
**असत्यभाषणं द्यूतं दिवास्वापं च मैथुनम् । ** **एकादश्यां न कुर्वीत उपवासपरो नरः ॥३६॥ **
किं च विष्णुधर्मेषु—
**पाषण्डिभिर् असंस्पर्शमसम्भाषणमेव च । ** **विष्णोराराधनपरैर् एतत् कार्यमुपोषितैः ॥४०॥ **
श्रीविष्णुपुराणे—
**तस्मात् पाषण्डिभिः पापैर् आलापस्पर्शने त्यजेत् । ** विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥४१॥
अथ तत्प्रायश्चितम्
तत्रैवोक्तम्—
**तस्यावलोकनात् सूर्यं पश्येत मतिमान्नरः ॥४२॥ **
विष्णुधर्मे च—
**संस्पर्शे च बुधः स्नात्वा शुचिराद् इत्यदर्शनात् । ** सम्भाष्य तान् शुचिषदं चिन्तयेदच्युतं बुधः ॥४३॥
पापेभ्य उपावृत्तः इत्युक्तं तान्येव दर्शयति—विहितस्येति चतुर्भिः । नैवेति पाठेऽपि काक्वा कार्यमेवेत्यर्थ एव । अत्र दर्शनमपि न कार्यमिति ज्ञेयम् अग्रे तत्प्रायश्चित्तोक्तेः । शुचिषु शुद्धजलेषु शुचिनिमित्तेषु वा निषीदति शुचिषत् तम् ॥३८-४३॥
अथ तत्र गुणाः
भविष्ये—
क्षमा सत्यं दया मौनं शौचमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषस्तेयवर्जनम् । **सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्थितः ॥४४॥ **
गुणैः सहेत्युक्तं तानेव दर्शयति—क्षमेति चतुर्भिः ॥४४॥
पाद्मे च श्रीयमधूम्रकेतुसंवादे—
**दशम्यां संयमं कृत्वा व्रताहे नियतेन्द्रियः । ** **क्रोधहिंसाविहीनश् च कृष्णकीर्त्या दिनं नयेत् ॥४५॥ **
एव सामान्यतो गुणान् लिखित्वाधुना एकादशीव्रते गुणविशेषं लिखति—दशम्यामिति सार्द्धद्वयेन । यद्यप्यत्रोक्तं नियतेन्द्रियत्वादिकमपि सामान्यमेव तथापि तस्य कर्तृविशेषणत्वाद्गौणत्वेन कृष्णस्य कीर्त्या कीर्तनेन दिनं नयेद् इत्यस्य विधेरेव मुख्यतेति दिक् ॥४५॥
विष्णुधर्मोत्तरे—
**तज्जप्यं तज्जपध्यानं तत्कथाश्रवणादिकम् । ** तदर्चनं च तन्नामकीर्तनश्रवणादयः । उपवासकृता ह्येते गुणाः प्रोक्ता मनीषिभिः ॥४६॥
पुनरत्यन्तविशेषं लिखति—तज्जप्यमिति । तच्छब्देन सर्वत्र भगवतः परामर्शः जप्यं मन्त्रः जपो मन्त्रस्य नाम्नो वा ध्यानं च भगवत इति विवेचनीयम् । कथायाः श्रवणं आदि-शब्देन तस्याः कथनादि च नाम्नः कीर्तनं श्रवणं च आदि-शब्देन बन्दनादयोऽग्रे भक्तिप्रकाराः ॥४६॥
उक्तं च विष्णुधर्मेषु—
**उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः । ** तज्जप्य-जापी तत्कर्मरतस्तद्गतमानसः । निष्कामो दैत्यवद्ब्रह्मपदमाप्नोत्यसंशयम् ॥४७॥
निष्कामश्चेत् यद् वा, सकामोऽपि निष्कामः सन्नित्य् अर्थः । दैत्यः श्रीप्रह्लादः तद्वत् । ब्रह्ममयं पदं श्रीवैकुण्ठलोकं प्राप्नोति ॥४७॥
अथोपवासदिनेऽन्येऽपि नियमाः
तत्र कात्यायनः—
ब्रह्मचर्यसमायुक्त उपवासं चरेन्नरः ॥४८॥
देवलञ्च—
**ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । ** व्रतेष्वेतानि चत्वारि चरितव्यानि नित्यशः ॥४९॥
आमिषवर्जनं च संयमदिने पारणायां च ज्ञेयम् । यद् वा, अष्टैतान्यव्रतघ्नानि इत्यादिवचनेन उपवासे औषधस्यादोषात् प्राप्तस्य औषधरूपस्यामिषस्य वर्जनं तत्रैव ज्ञेयम् तथा चोक्तं व्यासेन—वर्जयेत् पारणे मांसं व्रताहेऽप्यौषधं सदा इति औषधरूपमप्यामिषमुपवासदिने वर्जयेद् इत्य् अर्थः ॥४९॥
किञ्च—
**असकृज्जलपानाच्च सकृत् ताम्बुलभक्षणात् । ** उपवासः प्रदुष्येत दिवास्वापाच्च मैथुनात् ॥५०॥
एवं गुणानेव दर्शयित्वावश्यं परित्यागाय दोषान् लिखति—असकृदिति । यद्यपि दिवास्वापादिवर्जनं पूर्वं लिखितमेव तथाप्यवश्यवर्ज्यत्वेनात्र नियमेषु पुनर्लिखितमित्यदोषः ॥५०॥
किञ्च—
**दन्तधावन-ताम्बूल-दिवास्वापाच्च मैथुनात् । ** असकृज्जलपानाच्च नोपवासफलं लभेत् ॥५१॥
अथ ब्रह्मचर्यविधातानि
तनैवोक्तानि—
**स्त्रीणान्तु प्रेक्षणात् स्पर्शात्ताभिः सङ्कथनादपि । ** **विपद्यते ब्रह्मचर्यं न दारेष्वृतुसङ्गमात् ॥५२॥ इति । **
दारेषु निजभार्यासु च प्रेक्षणादिना ब्रह्मचर्यं न विपद्यते किन्तु ऋतुसङ्गमाद् व्यवायादेवेत्यर्थः । स्वदारेष्विति च क्वचित् पाठः ॥५२॥
**ततो नित्यार्चनं कृत्वा हरिघस्रोत्सवार्थिकाम् । ** कृत्वा सायं महापूजां कुर्याज्जागरणं निशि ॥५३॥
हरेर्घस्रो दिनमेकादशी तत्रोत्सवहेतुकाम अतएव महतीं पूजाम् ॥५३॥
अथ तत्र पूजादिकम्
ब्राह्मे—
**देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः । ** **नानापुष्पैर् मुनिश्रेष्ठ विशिष्टं पुष्पमण्डपम् ॥५४॥ **
किं च तत्रैव—
**एकादश्यामुभौ पक्षौ निराहारा समाहितः । ** स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥५५॥ **सम्पूज्य विधिवद्विष्णुं श्रद्धयातिसमाहितः । ** **पुष्पैर् गन्धैस्तथा धूपैर् दीपैर् नवेद्यकैः परैः ॥५६॥
उपहारैर् बहुविधैर् जपहोमप्रदक्षिणैः । स्तोत्रैर् नानाविधैर् नृत्यगीतवाद्यैर् मनोरमैः ॥५७॥ **
परैर् अन्यैश् च बहुविधैर् उपहारैः फलताम्बूलादिभिः ॥५६-५७॥
**दण्डवत्प्रणिपातैश् च जयशब्दैस्तथोत्तमैः । ** एवं सम्पूज्य विधिवद्रात्रौ कुर्यात् प्रजागरम् ॥५८॥ **कथां वा गीतिकां वापि कुर्याद्विष्णुपरायणः । ** याति विष्णोः परं स्थानं नरो नास्त्यत्र संशयः ॥५९॥
भविष्ये च—
**एकादश्युपरोधे तु रात्रौ सम्पूजयेद्धरिम् । ** तां च रात्रिं यथाशक्ति पुराणश्रवणादिना ॥६०॥
प्रजागरप्रकारमेवाह—कथां वा इति । रात्रिं नयेदिति शेषः ॥५९-६०॥
नयेत् इति शेषः ।
अथ जागरण-प्रकरणम्
वैष्णवान् जागरेऽभ्यर्च्य तीर्थं शङ्खोदकान्वितम् । **तेभ्यो दत्त्वा स्वयं प्राश्य विद्वान् स्तोत्रादिकं पठेत् ॥६१॥ **
तीर्थम्—श्रीचरणोदकम् ॥६१॥
**पुराणादि ततः श्रुत्वा गीतनृत्यादिकं स्वयम् । ** कुर्यात् पश्येच्च पारक्यं वारयेन्न हसेन्न च ॥६२॥
पारक्यं परेण क्रियमाणं न च हसेत् उपहसेत् ॥६२॥
अथ जागरणे गीतादिनिवारणादि-निषेधः
पाद्मे—
**निवारयति यो गीतं नृत्यं जागरणे हरेः । ** **षष्टियुगसहस्राणि पच्यते रौरवादिषु ॥६३॥ ** **नृत्यमानस्य मर्त्यस्य उपहासं करोति यः । ** जागरे याति निरयं यावदिन्द्राश्चतुर्दृशा ॥६४॥
निवारयतीत्यादि-श्लोकद्वयेन निवारणोपहासे दोषो दर्शितः ॥६३-६४॥
अथ जागरणदर्शनावश्यकता
स्कान्दे—
**यमेन सूचितं तस्य नरकं यातनाकुलम् । ** मुखं न तस्य द्रष्टव्यं येन दृष्टा न जागरः ॥६५॥
अधुना पश्येदिति यदुक्तं तन्नित्यत्वं तदकरणप्रत्यवायदर्शनेन लिखति—यमेनेति त्रिभिः । सूचितं पापादिशयादतिरुषा भ्रूभङ्ग्यादि-सङ्केतेन प्रतिपादितम् ॥६५॥
किञ्च—
**उद्धृतं नेत्रयुग्मन्तु दत्त्वा तु हृदये पदम् । ** कृतं ये नैव पश्यन्ति प्राणिनो हरिजागरम् ॥६६॥
किञ्च— **येषां चक्षुर्भवं तेजः प्रदग्धं कलिवह्निना । ** न ते पश्यन्ति कृष्णस्य जागरं न जनार्दनम् ॥६७॥
किञ्च— **कलिकल्मषजातेन परमेणावृते ध्रुवम् । ** चक्षुषी पापिनी नृणां ये न पश्यन्ति जागरम् ॥६८॥
उद्धृतमुत्पाटितं याम्यैः अतीतप्रत्ययोऽतिनिश्चयात् । यद् वा, नूनं केनाप्युद्धतमेव तत्र हेतुः-कृतमिति । जातं समूहः परमेण उद्रिक्तेन ॥६६-६८॥
अथ जागरण-विधिः
स्कान्दे ब्रह्मनारद-संवादे—
**शृणु नारद वक्ष्यामि जागरस्य तु लक्षणम् । ** येन विज्ञातमात्रेण दुर्लभो न जनार्दनः ॥६९॥
विज्ञातमात्रेणापि ॥६९॥
**गीतं वाद्यं च नृत्यं च पुराणपठनं तथा । ** **धूपं दीपं च नैवेद्यं पुष्पगन्धानुलेपनम् ॥७०॥ फलमर्ध्यं च श्रद्धा च दानमिन्द्रियनिग्रहः । ** **सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् ॥७१॥ ** **साश्चर्यञ्चैव सोत्साहं पापालस्यादिवर्जितम् । ** **प्रदक्षिणाभिः संयुक्तं नमस्कार-पुरःसरम् ॥७२॥ नीराजनसमायुक्तमनिर्विण्णेन चेतसा । ** यामे यामे महाभाग कुर्यादारात्रिकं हरेः । एतैर् गुणैः समायुक्तं कुर्याज्जागणं हरेः ॥७३॥
श्रद्धा विश्वासो भक्तिर्वा विनिद्रमिति कदाचिदपि किञ्चिन्निद्रया विरहितमित्य् अर्थः यद् वा, घूर्णावर्जितम् क्रियापरिचर्यादि तदन्वितम् आश्चर्याणि अभिनयादीनि तत्सहितम् उत्साहो मानसोल्लासस्तत्सहितम् । आदि-शब्देन द्यूतादि ग्राम्यवार्तादि वा नीराजनेन समायुक्तमित्युक्तम् । तत्रैव विशेषमाह—अनिर्विण्णेन निर्वेदरहितेन चेतसा । यामे यामे चतुष्प्रहरेषु हरेरारात्रिकं नीराजनं कुर्यादिति । षड्विंशगुण-संयुक्तमिति पाठे पापेन वर्जितम् आलस्यादिना च वर्जितमिति द्वयम्—एवं षड्विंशतिः गुणाः ॥७१-७३॥
किञ्च—
**य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः । ** **जागरं वासरे विष्णोर्लीयते परमात्मनि ॥७४॥ ** **धनवान् वित्तशाठ्येन यः करोति प्रजागरम् । ** **तेनात्मा हारितो नूनं कितवेन दुरात्मना ॥७५॥ **
तत्र च वित्तशाठ्यं नैव कार्यमित्यभिप्रायेण वित्ताशाठ्य-शाठ्याभ्यां क्रमेण महाफललाभार्थनाशने दर्शयति—य एवमिति द्वाभ्याम् । लीयते नित्यमत्यन्तसङ्गमं लभते आत्मा एव हारितो वञ्चितः ॥७४-७५॥
तत्रैव श्रीमदुमामहेश्वरसंवादे—
**सशास्त्रं जागरं यच्च नृत्यगान्धर्वसंयुतम् । ** सवाद्यं तालसंयुक्तं सदीपं साधुभिर् युतम् ॥७६॥ **उपचारैश् च संयुक्तं यथोक्तैर् भक्तभावितैः ।
मनसस्तुष्टिजननं समुदं लोकरञ्जनम् ॥७७॥ **
जागरं जागरणं निद्राराहित्यम् एतदेव पूर्वं विनिद्रमित्युक्तम् अतएवाग्रे जागरमिति पुनःप्रयोगः । अयमेको गुणः । एवं द्वादशभिर् गुणैर् युक्तम् । अत्र गान्धर्वं गीतं समुदं सोत्साहं लोकानां रञ्जनमनुरागवर्द्धनम् ॥७६-७७॥
**गुणैर् द्वादशभिर् युक्तं जागरं माधवप्रियम् । ** **कर्तव्यं तत् प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥७८॥ **
किञ्च—
**परापवादयुक्तन्तु मनः प्रशमवर्जितम् । ** **शास्त्रहीनमगान्धर्वं तथा दीपविवर्जितम् ॥७९॥ शक्त्योपचाररहितमुदासीनं सनिद्रकम् । ** **कलियुक्तं विशेषेण जागरं नवधाधमम् ॥८०॥ **
किं च तत्रैव—
**अभावे वाचकस्याथ गीतं नृत्यं च कारयेत् । ** वाचके सति देवेशि पुराणं प्रथमं पठेत् ॥८१॥
अत्रैव कञ्चिद्विशेषमाह—अभावे इति ॥८१॥
अथ जागरणनित्यत्वम्
स्कान्दे ब्रह्मनारद-संवादे—
**सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम् । ** अतीतानागतान् वापि पातयिष्यन्ति पूर्वजान् ॥८२॥ **अकुर्वाणाः प्रात्स्यन्ति पुत्रधर्मवसुक्षयम् । ** **जायते नरके वासः पितृभिः सह कालशः ॥८३॥ **
अकुर्वाणा जागरणाकारकाः प्रपत्स्यन्ति कालशः चिरकालमित्य् अर्थः ॥८३॥
**न पुरश्चरणात् पापं व्रतैर् दानैः समाधिभिः । ** **विलयं याति विप्रेन्द्रा विना द्वादशीजागरम् ॥८४॥ **
द्वादश्यां जागरणं विना पुरश्चरणादिभिर् अपि पापं न क्षीयत इति पापक्षपणेऽपि जागरणस्यावश्यापेक्षत्वान्नित्यत्वमेव सिद्धम् ॥८४॥
तत्रैवोमामहेश्वर-संवादे—
**सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागर । ** **भ्रश्यते सुकृतं तेषां वैष्णवानां च निन्दया ॥८५॥ **
वैष्णवानां निन्दयेति दृष्टान्तो ज्ञेयः ॥८५॥
**मतिर्न जायते यस्य द्वादश्यां जागरं प्रति । ** न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥८६॥
अस्तु तावज्जागराभावदोषः जागरणचिकीर्षाराहित्येनापि परमानर्थ इत्याह—मतिर्नेति ॥८६॥
अतएवोक्तं ब्रह्मणा तत्रैव—
**हृदये वर्तते यस्य सदा योगेश्वरो हरिः । ** **मतिरुत्पद्यते तस्य द्वादशीजागरोपरि ॥८७॥ इति । **
अतो भगवदनुग्रहेणैव जागरणं सम्पद्यत इत्याह—हृदये इति ॥८७॥
**सामान्येन पुरालेखि गीतवाद्यादिनित्यता । ** अधुना लिख्यते सोऽयं जागरे च विशेषतः ॥८८॥
प्रसङ्गाज्जागरणे गीतनृत्यादेर् अपि नित्यत्वं लिखन् पूर्वं नित्यपूजायां तन्नित्यत्वलिखनादधुना पुनर्लिखनादपि पौनरुक्त्यदोषमाशङ्क्य तन्निरसनाय लिखति—सामान्येनेति । एवं जागरणे अवश्यमेव गीतनृत्यादिकं कार्यमित्यभिप्रेतम् । आदि-शब्देन स्तुत्यादि ॥८८॥
अथ जागरे गीतादिनित्यत्वम्
स्कान्दे उमामहेश्वर-संवादे—
**मूकवत्तिष्ठते यो वै गानं पाठं च नाचरेत् । ** सप्तजन्मसु मूकत्वं जायते जागरे हरेः ॥८९॥
पाठं स्तोत्रादीनां जागरणे नाचरेत् ॥८९॥
**यो न नृत्यति मूढात्मा पुरतो जागरे हरेः । ** **पङ्गुत्वं जायते तस्य सप्तजन्मसु पार्वति ।९०॥ **
पाद्मे पक्षवर्धिनीव्रतप्रसङ्गे—
**स्तुवन्ति न प्रशंसन्ति ये जना जागरं हरेः । ** **नोत्सवो भवते तेषां गृहे जन्मानि सप्त च ॥९१॥ **
न स्तुवन्ति न श्लाघन्ते न प्रशंसन्ति न चानुमोदन्ते ॥९१॥
**स्तुवन्ति ये प्रशंसन्ति जागरं चक्रपाणिनः । ** नित्योत्सवो भवेत्तेषां जन्मानि दश पं च च ॥९२॥
तान् शोचन्निव स्तवनादिफलमाह—स्तुवन्तीति ॥९२॥
अथ जागरण-माहात्म्यम्
स्कान्दे श्रीब्रह्मनारदसंवादे श्रीप्रह्लादसंहितायाञ्च—
**न गयापिण्डदानेन न तीर्थैर् बहुभिर् मखैः । ** **पूर्वजा मुक्तिमायान्ति विना द्वादशि-जागरम् ॥९३॥ ** **सर्वावस्थोऽपि यः कुर्याद्द्वादश्यां जागरं हरेः । ** **यामैकैकेन दहतो पाप जन्मसहस्रजम् ॥९४॥ ** **यः कुर्याद्दीपदानन्तु रात्रौ जागरणे हरेः । ** **निमेषे निमेषे विप्र लभते गोशतं फलम् ॥९५॥ **
गोशतमिति गोशतप्रदानजमित्य् अर्थः । एवमग्रेऽपि ज्ञेयम् ॥९५॥
**यः कुर्याज्जागरे पूजां द्वादश्यां कुसुमैर् हरेः । ** **पुष्पे पुष्पेऽञ्चमेधस्य फलमाप्नोति मानवः ॥९६॥ ** **यो दहेच्चागुरुं विष्णोः पूजां कृत्वा तु जागरे । ** **निमेषार्द्धेन लभते तिलपात्रशतं फलम् ॥९७॥ ** **निमेषं च दहेद्धूपं सघृतं गुग्गुलुं हरेः । ** लभते जागरे विप्र पुण्यं माससमुद्भवम् ॥९८॥
माससमुद्भवमिति—अन्यत्र सघृतगुग्गुलुधूपदाहतो मासेनैकेन यत् पुण्यं स्यात् तदेकस्मिन्नेव जागरे सकृत्कृतेन तेन भवतीत्यर्थः । माघेति पाठे माघस्नानादिजम् ॥९८॥
**यो दद्याज्जागरे विष्णोर्हविष्यान्न-समुद्धवम् । ** **नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम् ॥९९॥ ** **पक्वान्नानि च यो दद्यात् फलानि विविधानि च । ** जागरे पद्मनाभस्य लभते गोऽयुतं फलम् ॥१००॥
गोऽयुतं गवायुतम् ॥१००॥
**सकर्पूरं च ताम्बूलं योददाति हि जागरे । ** **पद्मनाभप्रदानेन श्वेतद्वीपे वसेच्चिरम् ॥१०१॥ ** **जागरे पद्मनाभस्य यः कुर्यात् पुष्पमण्डपम् । ** स पुष्पक-विमानैस्तु कीडते ब्रह्मसद्मनि ॥१०२॥ **जागरे पद्मनाभस्त सकर्पूरं तथागुरुम् । ** **दहतो दहते पापं जन्मलक्षसमुद्भवम् ॥१०३॥ ** **स्नानं ददाति कृष्णस्य दधिक्षीरघृतादिभिः । ** रात्रौ जागरणे विप्र मुक्तिभागी भवेद्धि सः ॥१०४॥ **दिव्याम्बराणि यो दद्याज्जागरे समुपस्थिते । ** **मन्वन्तराणि वसते तन्तुसङ्ख्यासमानि वै ॥१०५॥ **
तन्तवोऽम्बराणां तत्सख्याभिः समानि मन्वन्तराणि ॥१०५॥
**दद्यादाभरणं विष्णोर्हेमजं रत्नसम्भवम् । ** सप्त कल्पानि वसते सोत्सङ्गे मत्प्रियो हि सः ॥१०६॥
रत्नसम्भवं च यद् वा, रत्नखचितमित्य् अर्थः । उत्सङ्गे क्रोडे विष्णोर्मम वासरे सति । विसर्गलोपे सन्धिरार्षः पाठान्तरेऽपि स एवार्थः ॥१०६॥
**श्रीचन्दनं सकर्पूरं सागुरुन्तु सकेशरम् । ** **युक्तं मृगमदेनापि यच्छते हरिजागरे ॥१०७॥ ** **एकैकं मुनिशार्दूल अश्वमेधाधिकं फलम् । ** **कलौ भवेन्न सन्देहो वासुदेवप्रसादतः ॥१०८॥ ** **घृतेन दीपकं विष्णोर्गव्येन च विशेषतः । ** **ज्वालयेज्जागरे रात्रौ निमेषे गोऽयुतं फलम् ॥१०९॥ ** **जागरे वासुदेवस्य कर्पूरेण च दीपकम् । ** यो ज्वालयति कोटीनां कपिलानां लभेत् फलम् ॥११०॥ **आरात्रिकं हरेर्यस्तु सकर्परन्तु जागरे । ** कुरुते मोक्षमाप्नोति कुलायुतसमन्वितः ॥१११॥ **विनापि यो हि कर्पूरं कुर्यादारात्रिकं हरेः । ** **निःस्वोऽपि जागरे विष्णोर्दाता भूरि फलं लभेत् ॥११२॥ ** वारिजं वारिणा पूर्णं शिरसि स्नापयेद्धरिम् । **विभर्ति शिरसा सोऽयं गङ्गास्नानकृतं फलम् ॥११३॥ ** **कृत्वा पूजां हरेर्यस्तु जागरे पुरतः शुचिः । ** पठेन्नामसहस्रं च गीतां नागविमोक्षणम् ॥११४॥ माङ्गल्यं स्नपनं पुण्यं स्तवराजमनुस्मरन् । **वैदिकानि च जप्यामि भक्त्या रात्रौ मुहुर्मुहुः ॥११५॥ ** **भवेत् प्रत्यक्षरं पुण्यं कपिलागोशतोद्भवम् । ** **जागरे यज्ञरूपस्य पुरतः पठनं हरेः ॥११६॥ **
वारिजं शङ्खं पूर्णं कृत्वेति शेषः । शिरसा विभर्तीति फलस्य स्थैर् यमभिप्रेत माङ्गल्येन स्नपयतीति तथा तत् एतच्च लिङ्गव्यत्ययादिना सर्वेषामेव विशेषणं ज्ञेयं तथा पुण्यमिति च । जागर इत्यर्द्धपद्यमुक्तन्यायेन व्याख्येयं क्वचिच्च न तिष्ठेदेव ॥११३-११६॥
**यः पुनः कुरुते गीतं सनृत्यं वाद्यसंयुतम् । ** **न तत् क्रतुशतैः पुण्यं व्रतदानशतैर् अपि ॥११७॥ ** **यः पुनः कुरुते गीतं विलजो नृत्यते यदि । ** **लभते निमिषार्द्धेन चतुराश्रमज फलम् ॥११८॥ **
चतुराश्रमधर्मसम्पत्तेर्जायते यत् फलं तद् इत्य् अर्थः ॥११८॥
**जागरे पद्मनाभस्य कुर्यात् पुस्तकवाचनम् । ** **श्लोकसङ्ख्यां वसेत् स्वर्गे युगानि हरिसन्निधौ ॥११९॥ **
श्लोकसङ्ख्यां प्रति यानि युगानि स्युस्तानि यावन्तः श्लोकास्तावन्ति युगानीत्यर्थः । एवमग्रेऽप्यूह्यम् ॥११९॥
**कुर्याद्वन्दनमालां यो रम्भास्तम्भैः सुशोभनैः । ** चूतवृक्षोद्भवैः पत्रैर् जागरे चक्रपाणिनः ॥१२०॥ **युगानि पत्रसङ्ख्यानां स्वर्गे तस्योत्सवो भवेत् । ** पूज्यते वासवाद्यैश् च क्रीडते चाप्सरोवृतः ॥१२१॥ **नृत्यमानस्य मर्त्यस्य ये केचिन्निरयं गताः । ** विमुक्ता धर्मराजेन मुक्तिं यान्ति हरेः पदम् ॥१२२॥
ये केचिद्वान्धवादयः ॥१२२॥
**गीतध्वनिषु सन्तुष्टा जागरे तु रमापतिः । ** वासवस्याधिकं सौख्यं दद्यान्मन्वन्तरं शतम् ॥१२३॥ **नृत्येन मर्त्ये सौख्यन्तु स्वर्गे नृत्येन जागरे । ** **रसातले तथा सौख्यं मुक्तिर्नृत्यादवाप्यते ॥१२४॥ **
जागरे यन्नृत्यं तेन मर्त्ये मनुष्यलोके पृथिव्यामित्य् अर्थः ॥१२४॥
**प्रेक्षणीयप्रदानेन यत् पुण्यं कथितं बुधैः । ** **न तत् कोटिमखैः पुण्यं योगैः साङ्ख्यैर् अवाप्येते ॥१२५॥ **
प्रेक्षणीयमैन्द्रजालिकं नर्तकादि-सम्प्रदायविशेषो वा तस्य प्रदानेन । योगैर् अष्टाङ्गैः साङ्ख्यैर् आत्मज्ञानैः ॥१२५॥
**दीपमालां हरेरग्रे यः करोति प्रजागरे । ** **विमानकोटि संयुक्तः कल्पान्तं वसते दिवि ॥१२६॥ ** **चरितं रामचन्द्रस्य यः शृणोति हरेर्दिने । ** रात्रौ वाल्मीकिना प्रोक्तं तत्समो न हि वैष्णवः ॥१२७॥ **यः पुनः पठते रात्रौ महाभारतसम्भवाम् । ** **कथां जागरणे विष्णोः कुलकोटिं नयेद्दिवम् ॥१२८॥ औत्तानपादेश्वरितं ध्रुवस्य च महात्मनः । ** कृष्णस्य बालचरितं जागरे पठते हि यः । युगकोटिसहस्रस्य क्षयः पापस्य जायते ॥१२९॥
युगकोटिसहस्रस्येति युगकोटिसहस्रैर् भोग्यस्य तेषु जातस्य वा पापस्य ॥१२९॥
**तस्माज्जागरणं कार्यं पक्षयोः शुक्लकृष्णयोः ॥१३०॥ श्रीमद्भागवतं भक्त्या पठते विष्णुसन्निधौ । ** जागरे तत्पदं याति कुलवृन्दसमन्वितः ॥१३१॥
जागरे पठति ॥१३१॥
**अष्टादश पुराणानि पुराणपुरुषस्य च । ** **दयितानि सदा विष्णोर्विशेषेण तु जागरे ॥१३२॥ ** **यो गोतां पठते रात्रौ विष्णोर्नामसहस्रकम् । ** वेदोक्तानां पुराणानां जागरी पुण्यमाप्नुयात् ॥१३३॥
पुराणानां सर्वेषां पठनाद्यत् पुण्यं तदाप्नुयाद् इत्य् अर्थः ॥१३३॥
**धेनुदानन्तु यः कुर्यात् जागरे चक्रपाणिनः । ** **लभते नात्र सन्देहः सप्तद्वीपावनीफलम् ॥१३४॥ ** **जागरे पद्मनाभस्य यः कुर्याच्छुभमण्डपम् । ** मण्डले ध्रुवलोकस्य यावत्तिष्ठति पद्मभूः ॥१३५॥
यावत् पद्मभूर्ब्रह्मा तिष्ठति तावत् ध्रुवलोकस्य मण्डले उपरि तिष्ठतीत्यर्थः ॥१३५॥
**सर्वेषामेव पुण्यानां महत् पुण्यं महीतले । ** **द्वादश्यां जागरे विप्र प्रसिद्धं भुवनत्रये ॥१३६॥ ** **जागरं ये चिकीर्षन्ति कर्मणा मनसा गिरा । ** न तेषां पुनरावृत्तिविष्णुलोकात् कथञ्चन ॥१३७॥ **जागरे नृत्यमानन्तु दृष्ट्वा वै द्वादशी दिने । ** रात्रौ मार्जयते शौरिः पापं तस्य युगार्जितम् ॥१३८॥ **प्रोत्साहयित्वा लोकान् यः कुरुते जागरं निशि । ** प्राप्नोति चक्रवर्तित्वं भरतेन यथा पुरा ॥१३९॥
प्रोत्साहयित्वा माहात्म्यश्रावणादिना प्रकर्षेण उत्साहं जनयित्वा यवभावोऽत्र आर्षः ॥१३९॥
श्वपचेन यथा विष्णुं तोषयित्वा तु जागरे । **प्राप्ता मुक्तिः पुरा विप्र गान्धर्वात् श्रूयते ध्रुवम् ॥१४०॥ ** **राज्यं प्राप्तं दिलीपेन नर्तनाद्वासरे हरेः । ** **नहुषेण च सम्प्राप्तमर्यदानेन जागरे ॥१४१॥ ** **फलदानात् सृञ्जयेन प्राप्तं राज्यमकण्टकम् । ** वञ्जुलीवासरे रात्रौ कृत्वा जागरणं हरेः ॥१४२॥ **वस्त्रदानाद्दिने विष्णोर्नाभागेन तु जागरः । ** राज्यं प्राप्तं मुनिश्रेष्ठ प्रसादान्माधवस्य हि ॥१४३॥ **शैलूषी नर्तनात् सिद्धा विख्याता मेनका दिवि । ** त्रिस्पृशा जागरे विप्र सत्यं ते कथितं मया ॥१४४॥
शैलूषी नर्तकी वेश्येत्यर्थः । विप्रेत्यत्र व्यासेति क्वचित् पाठे स्कन्दपुराण-प्रह्वादसंहितोक्तयोरैक्यात् प्रह्लादसंहितायां प्रह्लादव्याससवादोऽनुसन्धेयः ॥१४४॥
**तुलसीजागरात् प्राप्तं जागरे चक्रपाणिनः । ** अलर्केन क्षितीशत्वं यशःकीर्ति-समन्वितम् ॥१४५॥
चक्रपाणेर्जागरे मध्ये तुलस्यां तुलसीवनान्तिके यो जागरस्तस्मात् ॥१४५॥
**षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । ** अलर्को नाम राजासौ बुभुजे मेदनीं पुरा ॥१४६॥ शाण्डिली मार्जनात् सिद्धा एकादश्यान्तु मण्डलात् । **पुरतो वासुदेवस्य पक्षयोः शुक्लकृष्णयोः ॥१४७॥ **
मण्डलान् सर्वतोभद्रादि-मण्डलविधानात् । तत्रापि वासुदेवस्य पुरतः ॥१४७॥
**उन्मीलनीदिने प्राप्ते परदीपप्रबोधनात् । ** **इन्द्रद्युम्नेन सम्प्राप्तं राज्यं जागरणं हरेः ॥१४८॥ **
हरेर्जागरणे परदीपस्य प्रबोधनात् ॥१४८॥
**दोलादिने च सम्प्राप्ते वीणावाद्यात् पुरूरवाः । ** चक्रवर्तित्वमायातो दुष्प्रापं यत् सुरैर् अपि ॥१४६॥ सम्मानिताः ककुत्स्थेन रात्रौ जागरकारिणः । **स्वशक्त्या चैव दानेन प्राप्तं राज्यं सूदुर्लभम् ॥१५०॥ **
आयातः प्राप्तः स्वशक्त्या दानेन सम्मानिताः पाठान्तरे देहान्ते च देवदुर्लभं पदं प्राप्तवानित्य् अर्थः ॥१४९-१५०॥
**श्वपाकी च मृगी नाम गानं कृत्वा हरेर्दिने । ** गान्धर्वलोकनारीणां जाता राज्ञी प्रजागरात् ॥१५१॥ **वेणुवाद्यादृचीकस्तु विजयावासरे निशि । ** जागरे पुरतो विष्णोः पुना राजा भविष्यति ॥१५२॥ **ये केचिद्गायका विप्र वादका नर्तका नराः । ** नर्तकी-सहिता यान्ति कृत्वा जागरणं दिवम् ॥१५३॥ **वियोनिमागतैः सर्वैः कृत्वा जागरणं हरेः । ** सम्प्राप्तं पृथिवीशत्वं सकामैर् मुनिसत्तम ॥१५४॥ निष्कामैर् मुक्तिराप्ता च श्वपचाद्यैस्तु जागरात् । **विवक्षा नास्ति वर्णानां हरेर्जागरकारिणाम् ॥ १५५॥ ** **न कलौ पावनं ध्यानं न कलौ जाह्नवीजलम् । ** न कलौ पावनं जप्यं मुक्तै वकं जागरं हरेः ॥१५६॥ **आश्रमे वर्तमानानां न फलं हि द्विजन्मनाम् । ** संयष्टैर् अपि यज्ञैस्तु विना द्वादशि-जागरात् ॥१५७॥
जागरे विष्णोः पुरतो वेणुवाद्यात् मङ्गलाचरणादिति पाठे जयति जननिवासः (श्रीभा। १०.९०.४८) इत्यादिपठनाद् इत्य् अर्थः वेणूवाद्यस्वरूपविशेषणं वा । विवक्षा नास्तीति तेषां सङ्ख्यां वक्तुं न शक्यत इत्य् अर्थः । यद् वा, विवक्षा विचारः । विशेष इति पाठेऽधिकार्यापेक्षा नास्तीत्यर्थः । संयष्टैः सम्यगिष्टैः ॥१५२-१५७॥
**लक्ष्मीः पराङ्मुखी तेषां वासवाद्या दिवौकसः । ** पितरः कव्यपाल्याद्या मनुष्याः सनकादयः ॥१५८॥ एकोऽपि हि कुलोत्पन्नः किञ्जातैर् बहुभिः सुतैः । **द्वादशीजागरात् सर्वास्तारयिष्यति पूर्वजान् ॥१५९॥ **
तेषां जागरणहीनानाम् एकोऽपि कुले उत्पन्नः सन् सर्वास्तारयिष्यति अतः किं बहुभिर् इत्यन्वयः ॥१५८-१५९॥
**विशल्यवासरे विष्णोर्यः करोति सुजागरम् । ** स वै भागवतो लोके गीयते ब्रह्मवादिभिः ॥१६०॥ **यस्य प्रसन्नो भगवान् शीलेनोत्पद्यते सुतः । ** **एकोऽपि तारयेत् सर्वान् नरकस्थान पितामहान् ॥१६१॥ **
तारयेज्जागरणतः भागवतः जागरणादिकर्ता तत्समः प्रकरणबलादेवमग्रेऽपि ज्ञेयम् ॥१६०-१६१॥
**न सौरो न च शैवो वा न ब्राह्मो नव शाक्तिकः । ** न चान्यदेवता-भक्तो भवेद्भागवतोपमः ॥१६२॥ **गृहेऽपि वर्तते यस्य नित्यं यस्य च चेतसि । ** द्वादशीचरितं पुण्यं चतुर्वर्गफलप्रदम् ॥१६३॥
अथ जागरण-माहात्म्यफलम्
तत्रैव—
**उपोषितैर् हरिदिनैः संवत्सरशतं फलम् । ** तत् फलं नित्यमाप्नोति पठन् जागरणं हरेः ॥१६४॥
इदानीं जागरणमाहात्म्यफलपाठादिफलमाह—गृहेऽपीत्यादिना । चेतसि च वर्तते द्वादशीचरितं जागरणमाहात्म्यादिकं तस्य चतुर्वर्गफलप्रदं पुण्यं स्यात् । तत्र चतुर्वर्गो धर्मार्थकाममोक्षाः फलं च भक्तिः । जागरणं जागरणमाहात्म्यम् ॥१६३-१६४॥
माहात्म्यं यः पठेद्भक्त्या मयोक्तं जागरोद्भवम् । **द्वादशीसम्भवं पुत्र कुलानामुद्धरेच्जतम् ॥१६५॥ ** **चरितं बाललीलाया मथुरायां च यः पठेत् । ** द्वादश्यां देवकीसूनो रात्रौ जागरणे कलौ । **अयुतानां वसेत् कोटिं पितृभिः परिवारितः ॥१६६॥ **
दृष्टान्तत्वेन प्रसङ्गेन वा तत्रान्यपाठस्यापि फलगाह—चरितमिति । देवकीसूनोर्मथूरायां या बालवल्लीला तस्य सम्बन्धि चरितं कलौ द्वादश्याः रात्रौ जागरणे यः पठेत् सोऽयुतानां वर्षाणां कोटिं वसेद्वैकुण्ठलोक इति शेषः ॥१६६॥
वञ्जुलीसम्भवं यो वै माहात्म्यं जागरे हरेः । **कीर्तयिष्यति नित्यं वा तस्य पुण्यं वदाम्यहम् ॥१६७॥ दशभिर् वासरैर् विष्णोर्दशभिर् गणितैर् मुने । ** **कृतैर् भवति यत् पुण्यं नित्यमाप्नोति तत् फलम् ॥१६८॥ ** **जन्मकोटिं मखैर् यष्टैर् न मुक्तिर्जायते नृणाम् । ** **द्वादशी-जागरेणैव मुक्तिं गच्छति मानवः ॥१६९॥ **
जन्मकोटिं व्याप्य यष्टैः कृतैर् मखैः ॥१६९॥
**सर्वपापविशुद्धात्मा लभते वैष्णवं पदम् । ** सर्वे दुष्टाः समास्तस्य सौम्यास्तस्य सदा ग्रहाः । यः पठेज्जागरे विष्णोर्माहात्म्यं द्वादशीषु च ॥१७०॥
समाश्चरन्ति दुष्टतां विहाय मित्रतां यान्तीत्यर्थः । पाठान्तरे शान्ता भवन्तीत्यर्थः ॥१७०॥
अथ जागरणाकरणे दोषाः
तत्रैव श्रीमदुमामहेश्वर-संवादे—
**दष्टाः कलिभुजङ्गेन स्वपन्ति मधुहादिने । ** **कुर्वन्ति जागरं नैव मायापाशविमोहिताः ॥१७१॥ **
मधुहेत्याकारान्तत्वमार्षम् ॥१७१॥
**प्राप्ताप्येकादशी येषां कलौ जागरणं विना । ** **ते विनष्टा न सन्देहस्तस्माज्जीवनमध्रुवम् ॥१७२॥ **
जागरणं विना गतेति शेषः ॥१७२॥
**अश्वमेधसहस्रस्य वाजपेयायुतस्य च । ** **न पुण्यं कोटिगुणं गौरि विष्णोर्जागरणे कृते ॥१७३॥ ** **पितृपक्षे मातृपक्षे भार्यापक्षे च भामिनि । ** **कुलमुद्धरते चैतत् कृते जागरणे हरेः ॥१७४॥ ** **अविद्धवासरे विष्णोर्ये कुर्वन्ति प्रजागरम् । ** तेषां मध्ये प्रहृष्टः सन् नृत्यं प्रकुरुते हरिः ॥१७५॥ **यावद्दिनानि कुरुते जागरं केशवाग्रतः । ** **युगायुतानि तावन्ति वसते विष्णुवेश्मनि ॥१७६॥ ** **यावद्दिनानि वसते विना जागरणं हरेः । ** **नृत्यन्त्युद्धृतशस्त्राश् च तद्गृहे यमकिङ्कराः ॥१७७॥ ** **जागरे वासुदेवस्य पुराणं पठतीह यः । ** **प्राप्नोत्यभिमतान् कामान् प्रेतत्वं नैव जायते ॥१७८॥ ** **यः पुनः कुरुते गीतं नृत्यं जागरणे हरेः । ** ब्राह्म्यं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ॥१७६॥ **यः प्रबोधयते लोकान् विष्णुजागरणे ततः । ** वसेच्चिरन्तु वैकुण्ठे पितृभिः सह वैष्णवः ॥१८०॥ **मतिं प्रयक्छते यस्तु हरेर्जागरणं प्रति । ** षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः ॥१८१॥ यत् किञ्चित् क्रियते पापं कोटिजन्मानि मानवैः । **कृष्णस्य जागरे सर्वं रात्रौ दहति पार्वति ॥१८२॥ **
दह्यते पार्वतीति पाठे दह्यते स्वयमेव नश्यतीत्यर्थः ॥१८२॥
**शालग्रामशिलाग्रे तु ये कुर्वन्ति हि जागरम् । ** यामे यामे फलं प्रोक्तं कोट्यन्दवसमुद्भवम् ॥१८३॥
ऐन्दवं चान्द्रायणम् ॥१८३॥
**का आर्थसम्पदः पुत्राः कीर्तिर्लोकश् च शाश्वतः । ** **यज्ञायुतैर् न लभ्येत द्वादशीजागरं विना ॥१८४॥ ** **यावत् पदानि कुरुते केशवायतनं प्रति । ** **अश्वमेधसमानि स्युर्जागरार्थं प्रगच्छतः ॥१८५॥ ** **पादयोः पतितं यावद्धरण्यां पांशु गच्छतः । तावद्वर्षसहस्राणि जागरी वसते दिवि ॥१८६॥ ** **तस्माद्गृहात् प्रगन्तव्यं जागरे माघवालयम् । ** कलौ मलविनाशाय द्वादशी-द्वादशीषु च ॥१८७॥ **किं व्रतर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम् । ** द्वादशीवासरे प्राप्ते न कर्याजागरं यदि ॥१८८॥ **प्रवासे न त्यजेद्यस्तु पथि खिन्नोऽपि पार्वति । ** जागरं वासुदेवस्य स हि मेऽतिप्रियो नरः ॥१८६॥ **यः पुनः सुस्थचित्तोऽपि स्वस्थाने वसतेऽपि सन् । ** **न हरेर्जागरं कुर्यात् तेन कार्यं न मे क्वचित् ॥१९०॥ **
सन्नपि साधुर् अपि ॥१९०॥
**मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः । ** व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ॥१९१॥ **सवाह्याभ्यन्तरं देहं वेष्टितं पापकोटिभिः । ** मुच्यते वासरे विष्णोर्जागरे नृत्यतां निशि ॥१९२॥
वाह्यानि अङ्गानि आभ्यन्तराणि इन्द्रियाणि तैः सहितम् । मुच्यते पापकोटिभ्यस्ताभ्यः ॥१९२॥
प्राप्ते कलियुगे घोरे नरास्ते त्रिदशैः समाः । **विशल्ये वासरे विष्णोर्ये कुर्वन्ति हि जागरम् ॥१९३॥ ** **कूर्परं यमदूतानां दत्तं तेन यमस्य च । ** **कृत्वा जागरणं विष्णोरविद्धद्वादशीव्रतम् ॥१९४॥ ** **द्वादश्यां जागरे विष्णोर्यैः कृतं पुष्पमण्डपम् । ** **प्रतिपुष्पफल तेषां वाजिमेधसमं प्रिये ॥१९५॥ ** **द्वादश्यां कृष्णभवनं कदलोस्तम्भशोभितम् । ** ये कुर्वन्ति हरिस्तेषां स्वकीयं यच्छते पदम् ॥१९६॥ दीपदानं प्रकुर्वन्ति जागरे केशवस्य हि । **ते ध्वस्ततिमिरा गौरि यान्ति विष्णोः परं पदम् ॥१९७॥ **
कूर्परं दत्तं कूर्परेण प्रहत्य विष्णुलोकं प्रयातीत्यर्थः । ध्वस्तं नष्टं तिमिरमज्ञानं येषां ते ॥१९४-१९७॥
**ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च जागरे । ** हीनवर्णा अन्त्यजाश् च राक्षसा दैत्यदानवाः । **प्राप्तास्ते परम स्थानं श्रीविष्णोर्जागरे कृते ॥१९८॥ **
जागरे भवन्ति जागरं कुर्वन्तीत्यर्थः । हीनवर्णाः सङ्करजातयः ॥१९८॥
**अप्रेरितः स्वयं भक्त्या गीतं नृत्यं करोति यः । ** जागरे पद्मनाभस्य स किं नाकृत मानवः ॥१९९॥
स किं नाकृत अपि तु सर्वमेव कृत्यमकरोतित्य् अर्थः ॥१९९॥
**यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम् । ** गीतं कुर्वन् मुखेनापि दर्शयन् कौतुकान् बहूः ॥२००॥ **पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः । ** पठन् कृष्णचरित्राणि रञ्जयन् देवि वैष्णवान् ॥२०१॥ मुखेन कुरुते वाद्यं सम्प्रहृष्टतनूरुहः । **दर्शयन् विविधान् नृत्यान् स्वेच्छालापांश् च कुर्वति ॥२०२॥ ** **भावैर् एतैर् नरो यस्तु कुरुते जागरं हरेः । ** **निमेषे निमेषे पुण्यं तीर्थकोटिसमं स्मृतम् ॥२०३॥ ** **अविग्नमनसा यस्तु धूपं नीराजनं हरेः । ** कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत ॥२०४॥
कुर्वति करोति अविग्नेन अनुद्विग्नेन मनसा ॥२०२-२०४॥
किञ्च—
**अभावे कृष्णधिष्णस्य गत्वा मन्मन्दिरं शिवे । ** **कार्यं जागरणं रात्रौ विद्धि मां माधवप्रियम् ॥२०५॥ ** अभावे मम धिष्ण्यस्य गत्वा तु रवि-मन्दिरम् । **कार्यं जागरणं रात्रौ यथा विष्णुस्तथा रविः ॥२०६॥ ** **तदभावे विना प्राममरण्यकादशी यदि । ** तदाकाशे सूरेशानि विष्णोस्त्रीणि पदानि वै । **दृष्ट्वा देवि प्रकर्तव्यं जागरं चक्रपाणिनः ॥२०७॥ **
अधूना वर्त्मादौ मूख्याभावे जागरणस्थानमाह—अभाव इति सप्तभिः । अरप्ये यदि एकादशी स्यात् सन्धिरार्षः ॥२०५-२०७॥
**अथवा प्रतिमा विष्णोः शालग्रामशिलाऽथवा । ** तिष्ठते यदि देवेशि कार्यस्तत्र प्रजागरः ॥२०८॥
प्रतिमा चला ॥२०८॥
**मेघसञ्छादिते व्योम्नि विष्णोस्त्रीणि पदानि च । ** अदृष्ट्वा बोधिमूले तु कार्यं जागरणं हरेः ॥२०९॥
बोधिः—अश्वत्थवृक्षः ॥२०९॥
**रात्रिमूलेऽथवा गौरि तुलसीवनपार्श्वतः । ** यत्र वा तत्र वा कार्यं तीर्थे वा निम्नगा-जले ॥२१०॥ **सर्वाभावे महादेवि वैष्णवस्य च सन्निधौ । ** कर्तव्यं जागरं विष्णोर्मानसीं भक्तिमास्थितैः ॥२११॥ **विना जागरणं गौरि विष्णोर्दिनफलं न हि । ** नास्माकं भवति प्रीतिब्रह्मादीनां दिवौकसाम् ॥२१२॥ **यज्ञानामपि सर्वेषां महायज्ञः स कथ्यते । ** वासरे वासुदेवस्य यतो जागरसञ्ज्ञकः ॥२१३॥ तस्माज्जागरणं कार्यं त्यक्त्वा कार्यान्तराण्यपि ॥२१४॥
पाद्मे देवदूतविकुण्डलसंवादे—
**रात्रौ जागरणं कृत्वा समुपास्य जनार्दनम् । ** दश वै पैतृके पक्षे मातृके दश पूर्वजाः । **प्रियाया दश ये वैश्य तानुद्धरति निश्चितम् ॥२१५॥ **
श्रीमार्कण्डेयपुराणे—
**ध्यानध्येयविहीनस्य सञ्ज्ञातीतस्य भूपते । ** **कर्मभ्रष्टस्य कथितो मोक्षस्तु हरिजागरे ॥२१६॥ **
प्रह्लादसंहितायां प्रह्लादोक्तौ—
यानि कानि च पापानि ब्रह्महत्यादिकानि च । **कृष्णजागरणे तानि विलयं यान्ति खण्डशः ॥२१७॥ ** **एकतः क्रतवः सर्व समाप्तवरदक्षिणाः । ** एकतो देवदेवस्य जागरः कृष्णवल्लभः । **न समं कवयः प्राहुरधिकः कृष्णजागरः ॥२१८॥ ** **तत्र ब्रह्मा च रुद्रश् च शक्राद्या देवतागणाः । ** **नित्यमेव समायान्ति जागरे कृष्णवाल्लभे ॥२१९॥ ** **ऋषयो नारदाद्यास्तु व्यासाद्या मुनयस्तथा । ** अहं च तत्र गच्छामि कृष्णपूजारतः सदा ॥२२०॥ **तत्र काशी पुष्करं च प्रयागो नैमिषं गया । **
अह—प्रह्लादः ॥२२०॥
**शालग्राममहाक्षेत्रमर्वुदारण्यमेव च ॥२२१॥ ** **सुपुण्या मथुरा तत्र सर्वतीर्थानि चैव हि । ** यज्ञा वेदाश् च चत्वारो व्रजन्ति हरिजागरम् ॥२२२॥ **गङ्गा सरस्वती रेवा यमुना वै शतद्रुका । ** चन्द्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै ॥२२३॥ **सरांसि च ह्रदाः सर्वे समुदाः सर्व एव हि । ** एकादश्यां द्विजश्रेष्ठ गच्छन्ते कृष्णजागरम् ॥२२४॥ **स्पृहणीया हि देवानां ये नराः कृष्णजागरे । ** **नृत्यन्ति गीतं कुर्वन्ति वीणावाद्यप्रहर्षिताः ॥२२५॥ इति । **
जन्माष्टमी-प्रबोधन्यादिकेऽन्यच्च महोत्सवे ।
माहात्म्यं जागरस्याग्रे लेख्यं तत्तत्प्रसङ्गतः ॥२२६॥
एवम् एकादशीजागरणमाहात्म्यं लिखितम् तर्हि किं जन्माष्टम्यादि-जागरणमहिमा नास्ति तत्र लिखति—जन्मेति । आदि-शब्देन श्रीरामनवम्यादि ॥२२६॥
**ततः प्रभाते भगवद्रात्रिक्रीडारसात्मिकाम् । ** कौशिकीं प्रमुदा गायेच्छ्रीकृष्णपरितोषणीम् ॥२२७॥
कौशिकी शृङ्गाररसप्रधानगीतवृत्तिविशेषस्ताम् अतएव भगवतो रात्रौ या क्रीडा रासादिस्तद्रसात्मिकाम् यया श्रीगीतगोविन्दे—रजनि जनितगुरुजागर— इत्यादि । अतएव श्रीकृष्णस्य परमरसिक-शिरोमणेः परितोषणीम् ॥२२७॥
तथा च स्कान्दे—
**प्रभाते कौशिकीं यस्तु प्रगायेज्जागरे हरेः । ** स समुद्धरते सर्वान् श्वपचान् ब्राह्मणो यथा ॥२२८॥ इति।
यथ पारणदिनकृत्यम् मङ्गलाररात्रिकं कृत्वाभ्यर्च्य प्रस्थाप्य वैष्णवान् । **प्रातः पूजां च निष्पाद्य कृष्णे तत् सर्वमर्पयेत् ॥२२९॥ **
अभ्यर्च्य महाप्रसादादिना सम्मान्य प्रस्थाप्य च स्वस्वगृहं तत् उपवासादिकम् केचिच्च पारणानन्तरमेव समर्पणमिच्छन्ति ॥२२९॥
तदुक्तं कात्यायनेन—
**प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् । ** पारणन्तु ततः कुर्याद्व्रतसिद्धौ हरिं स्मरन् ॥२३०॥
अथ तत्र समर्पणमन्त्रः **अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । ** **प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥२३१॥ इति । ** **तत्र स्नानोपचारन्तु प्रातैर् व समाचरेत् । ** प्रामाणिकानां केषाञ्चिद्वैष्णवानामिदं मतम् ॥२३२॥
तत्र द्वादश्यां भगवत्पूजायां प्रामाणिकानां श्रीकृष्णदेवाचार्यादीनामित्यनेन तेषां मतं पालनीयमित्यभिप्रेतम् । केषाञ्चिद् इत्यनेन सर्वेषामिति सूचितं श्रीवैष्णवादीनां तादृशाचारादर्शनात् ॥२३२॥
अथ तत्र श्रीभगवतः प्रातरस्नपनम्
पाद्मे व्रतखण्डे—
**जन्मप्रभृति यत्किञ्चित् सुकृतं समुपार्जितम् । ** नश्यति द्वादशिदिने हरेर् निर्माल्यलङ्घनात् ॥२३३॥
तन्मतमेव प्रमाणयति—जन्मेति । निर्माल्यस्य लङ्घनात् अतिक्रमात् उत्तारणाद् इत्य् अर्थः । न च पद्भ्यां यल्लङ्घनं तस्माद् इत्य् अर्थः तस्य सर्वदा सर्वदेवसम्बन्धिनोऽपि निषिद्धत्वेन द्वादशी हरिपदयोर्वैयर्थ्यापत्तेः अतएव द्वादश्यां वर्जनीयमध्ये स्कान्दादौ निर्माल्य-लङ्घनमप्युक्तम् । तच्चाग्रे नियमेषु लेख्यं लिखितं च पूर्वं पक्षकृत्यविधौ समयेषु मध्ये द्वादश्यां निषिद्धेषु तत्र विष्णोर्दिवा न स्नानमिति ॥२३३॥
त्रैलोक्यमोहन-पञ्चरात्रे च—
**स्नानं न हरये दद्याद्द्वादश्यां वैष्णवो दिवा । ** पक्षपूजाफलं सर्वं वास्कलायोपगच्छति ॥२३४॥ इति ।
एतदेव पञ्चरात्रवचनेन साधयति—स्नानमिति ॥२३४॥
अतो दिवा निषिद्धत्वाद्रजन्यां स्नापयेत् प्रभुम् । पवित्रदमनद्वादश्युत्सवे तु न निश्यपि ॥२३५॥
पवित्रारोपण-दमनकारोपणद्वादश्योरुत्सवे तु रात्रावपि न स्नापयेत् । एतदपि केषाञ्चिदेव प्रामाणिकाणां मतम् ॥२३५॥
**नित्यकृत्यं समाप्याथ शक्त्या विप्रांश् च भोजयेत् । ** कुर्वीत द्वादशीमध्ये तुलसीं प्राश्य पारणम् ॥२३६॥
नित्यकृत्यं वैश्वदेवादिकं जपादिकं वा । तुलसीं प्राश्येति तुलसी प्राशनपूर्वं भोजन कुर्याद् इत्य् अर्थः । यद्यपि नैवेद्यशेषं तुलसीविमिश्रम् इत्यादिना सदा तुलसीयुक्तमेव भोजनं विहितमस्ति तथापि पारणे विशेषतोऽवश्यमेवेति ज्ञेयम् ॥२३६॥
तथा च स्कान्दे—
**कृत्वा चैवोपवासन्तु योऽश्नाति द्वादशीदिने । ** नैवेद्यं तुलसीमिश्रं पापकोटिविनाशनम् ॥२३७॥
तदेव स्कन्दपुराणोक्त्याभिव्यञ्जयति—कृत्वेति ॥२३७॥
अथ पारणे द्वावश्य्-अपेक्षणम्
यत उक्तं पाद्मे—
**महाहानिकरी ह्येषा द्वादशी लङ्घिता नृणाम् । ** करोति धर्महरणमस्नातेव सरस्वती ॥२३८॥
लङ्घिता पारणायामतिक्रान्ता । अस्नाता सरस्वती वेति—गङ्गाद्यास्त्वन्या नदीरुत्तीर्य परे पारे स्नानं कार्यं सरस्वत्यान्तु प्रथमं स्नात्वैव परं पारं गन्तव्यमिति विधेः स्नानमकृत्वोल्लङ्घिता सरस्वती यथा धर्महरणं करोति तद्वद् इत्य् अर्थः ॥२३८॥
स्कान्दे—
**पारणाहनि सम्प्राप्ते द्वादशीं यो व्यतिक्रमेत् । ** त्रयोदश्यान्तु भुञ्जानः शतजन्मानि नारकी ॥२३६॥
तत्रैव श्रीमार्कण्डेयभगीरथ-संवादे—
**यो हि भागवतो भूत्वा द्वादशीं न हि साधयेत् । ** कृतस्य पूर्वपुण्यस्य दत्तस्तेन विभावसुः ॥२४०॥
कौर्मे—
**एकादश्यामुपोष्यैव द्वादश्यां पारणं स्मृतम् । ** त्रयोदश्यां न तत् कुर्याद्द्वादशद्वादशीक्षयात् ॥२४१॥
द्वादशद्वादशीक्षयादिति द्वादशद्वादशीषु कृतं पुण्यं क्षीयत इति-हेतोरित्य् अर्थः ॥२४१॥
किञ्च—
**कलाद्वयं त्रयं वापि द्वादशीं न त्वतिक्रमेत् । ** अतिक्रान्ता द्वादशी तु हन्ति पुण्यं पुराकृतम् ॥२४२॥
भविष्ये—
**यो द्वादशीमतिक्रम्य पारणं कुरुते नरः । ** द्वादशाब्दकृतं तस्य तत्क्षणादेव नश्यति ॥२४३॥
देवीरहस्ये—
**द्वादशीं समतिक्रम्य पारणं यः करोति हि । ** स्नानदानादिकं सर्वं निष्फलं तस्य जायते ॥२४४॥ **अल्पा चेद्द्वादशी कुर्यान्नित्यकर्मारुणोदये । ** अत्यल्पा चेन्निशीथोर्द्धमामध्याह्निकमेव तत् ॥२४५॥
अरुणोदये नित्यकर्म कुर्यात् आमध्याह्निकं मध्याह्नकृत्यपर्यन्तं तन्नित्यकर्म निशीथादूर्ध्वमर्धरात्रोपर्येव कुर्यात् । आमध्याह्निकमित्येतत् पूर्वमपि द्रष्टव्यम् ॥२४५॥
अथ द्वादश्यल्पत्वे कृत्यसमाधानम्
भविष्ये—
**स्वल्पायामथ भूपाल द्वादश्यामरुणोदये । ** स्नानार्चनक्रियाः कार्या दानहोमादि-संयुताः ॥२४६॥
पाद्मे—
**यदा भवति स्वल्पा हि द्वादशी पारणे दिने । ** ऊषःकाले द्वयं कुर्यात् प्रातर्माध्याह्निकं तथा ॥२४७॥
तथा नारदीये—
**अल्पायामथ विप्रेन्द्र द्वादश्यामरुणोदये । ** स्नानार्चनक्रियाः कार्या दानहोमादि-संयुताः ॥२४८॥ देवलोक्तौ अतएवोक्तं सारदापुराणे— **दिनकर्मदिने सर्वं कत्तव्यं यदि तद्दिने । ** नैव सिद्धिमवाप्नोति तदा रात्रौ विधीयते ॥२४६॥ इति ।
अथ सङ्कटे पारणसमाधानम्
स्कान्दे—
**कलार्द्धां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव हि । ** आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात् ॥२५०॥
अरुणोदये नित्यकर्माचरणे भविष्यपुराणादिवचनानि प्रमाणत्वेन लिखित्वा अत्यल्पायां निशीथादूर्ध्वमेव तत्करणे स्कन्दपुराणादिवचनानि प्रमाणयति—कलार्धमिति आमध्याह्ना मध्याह्नावधि याः क्रियाः कृत्यानि ताः सर्वाः ॥२५०॥
**अशक्त्या सङ्कटे प्राप्ते पारणं वारिणा चरेत् । ** तद्धि नैवासितं नैवानशितं च विदुर्बुधाः ॥२५१॥
तत् वारिणा पारणमशितं भुक्तमिति न विदूर्मुनय इति । पश्चाद्भोजनेऽपि द्विर्भोजनदोष-परिहारः । अनशितं च न विदुः इत्यनेन द्वादशीलङ्घनदोषपरिहारः ॥२५१॥
अतएव तत्र—
**कलाद्वयं त्रयं वापि द्वादशी यदि दृश्यते । ** स्नानार्चनादिकं कर्म तदा रात्रौ विधीयते ॥२५२॥
कालिका-सारदापुराणयोः—
**स्वल्पैव द्वादशी यत्र स्नानदानादिकाः क्रियाः । ** रजन्यामेव कर्तव्या दानहोमादिसंयुताः ॥२५३॥ सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत् कथम् । **अद्भिस्तु पारणं कुर्यात् पुनर्भुक्तं न दोषकृत् ॥२५४॥ **
कात्यायनोक्तौ च—
**मन्त्रं जपित्वा हरये निवेद्योपोषणं व्रती । ** अद्भिस्तु पारणं कुर्यात् सङ्कटे विषमे सति ॥२५५॥
किञ्च—
सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । **अद्भिस्तु पारयित्वा तु कुर्यात् सन्ध्यादिकं पुनः ॥२५६॥ इति । ** **द्वादशीपूर्वपादीयस्तत्र चेद्धरिवासरः । ** द्वादश्याधिक्यतस्तिष्ठेत् पारणं तत्र नाचरेत् ॥२५७॥
द्वादश्याः पूर्वपादसम्बन्धी हरिवासरः । तत्र पारणदिने द्वादश्या आधिक्यतः बाहुल्यात् पञ्चचत्वारिशद्घटिकोपरि वृद्धिश्चेद्यदि तिष्ठेत् तत्र हरिवासरे पारणं नाचरेत् ॥२५७॥
विष्णुधर्मोत्तरे—
**द्वादश्याः प्रथमः पादो हरिवासरसञ्ज्ञकः । ** **तमतिक्रम्य कुर्वीत पारणं विष्णुं तत्परः ॥२५८॥ **
क्वचिच्च—
**द्वादश्येकादशीयोगे विख्यातो हरिवासरः । ** **एकादश्यान्त्यपादश् च द्वादश्याः पूर्व एव हि । ** हरिवासर इत्याहुर्भोजनं न समाचरेत् ॥२५९॥
अथान्येऽपि द्वादशीनियमाः
स्कान्दे—
**क्षौद्रं मांसं सुरां तैलं व्यायामं क्रोधमैथुने । ** परान्नं कांस्य-ताम्बूले लोभ निर्माल्यलङ्घनम् । **द्वादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत् ॥२६०॥ **
एवं द्वादश्यां पूजादिनियमं लिखित्वान्यानपि नियमान् लिखति—क्षौद्रमिति षड्भिः ॥२६०॥
ब्रह्माण्डपुराणे—
कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामं च प्रवासं च दिवास्वप्नमथाञ्जनम् ॥२६१॥ **शिलापिष्टं मसूरं च द्वादशैतानि वैष्णवः । ** द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते ॥२६२॥
बृहस्पतिरपि—
कांस्यं मांसं सुरां धृतं व्यायामं क्रोधमैथुनम् । हिंसामसत्यं लौल्यं च तैलं निर्माल्यलङ्घनम् । **द्वादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत् ॥२६३॥ **
असत्यम्—अनृतभाषणम् ॥२६३॥
क्वचिच्च—
कांस्यं मांसं मसूरं च चणकं कोरदूषकम् । रत्यौषधपरान्नं च द्वादश्यामष्ट वर्जयेत् ॥२६४॥
अथोन्मीलन्याद्यष्टमहाद्वादशीनां विशेषतो निरूपणम् ब्रह्मवैवर्ते श्रीसूतशौनक-संवादे— **उन्मीलनी वञ्जुली च त्रिस्पृशा पक्षवर्द्धिनी । ** **जया च विजया चैव जयन्ती पापनाशिनी ॥२६५॥ **
उन्मीलनी तथा वञ्जुलीत्यत्र व्यञ्जुलीति क्वचित् पाठः ॥२६५॥
**द्वादश्योऽष्टौ महापुण्याः सर्वपापहरा द्विज । ** **तिथियोगेन जायन्ते चतस्रश्चापरास्तथा । ** नक्षत्रयोगाच्च बलात् पापं प्रशमयन्ति ताः ॥२६६॥
तत्र उन्मीलनीनिरूपणम् **एकादशी तु सम्पूर्णा वर्द्धते पुनरेव सा । ** द्वादशी च न वर्धत कथितोन्मीलनीनि सा ॥२६७॥
अय वञ्जुलीनिरूपणम् **द्वादश्येव विवर्धेत न चैवैकादशी यदा । ** वञ्जुली तु भृगुश्रेष्ठ कथिता पापनाशिनी ॥२६८॥
पुनः परदिनमित्य् अर्थः । वञ्जुल्या एव विशेषणं पापनाशिनीति ॥२६७-२६८॥
अथ त्रिस्पृशा-निरूपणम्
**अरुणोदय आद्या स्याद्द्वादशी सकलं दिनम् । ** अन्ते त्रयोदशी प्रातस्त्रिस्पृशा सा हरेः प्रिया ॥२६९॥
अरुणोदय सूर्योदये आद्या एकादशी पाठान्तरेऽपि सैव अरुणोदयं व्याप्यम् ॥२६९॥
अथ पक्षवर्धिनी
**कुहूराके यदा वृद्धिं प्रयाते पक्षवर्धिनी । ** **विहायैकादशीं तत्र द्वादशीं समुपोषयेत् ॥२७०॥ पुण्यश्रवणपुष्याद्यरोहिणीसंयुतास्तु ताः । ** उपोषिताः समफला द्वादश्योऽष्टौ पृथक् पृथक् ॥२७१॥
पुष्पाद्यं पुनर्वसुनक्षत्रं समफला इति सर्वासां नित्यत्वात् ॥२७१॥
**ब्रह्मघ्नमपि सा पूर्वा विशोधयति भार्गव । ** वञ्जुलोति द्वितीया सा हत्यायुतविनाशिनी ॥२७२॥ **महापापानि चत्वारि शोधयेत् त्रिस्पृशा कृता । ** **कुरुतेऽशेषकलुषविच्छेदं पक्षवर्धिनी ॥२७३॥ ** **जया जयन्ती विजया प्रेतमोक्षं तथापरा । ** जयन्ती नरकच्छेदमपि दुष्कृतकारिणाम् । **अष्टमी तु भृगुश्रेष्ठ यथार्था पापनाशिनी ॥२७४॥ **
पूर्वा उन्मीलनी तथापरा जयन्ती चेत्यर्थः । पुनर्जयन्त्या विशेषं दर्शयति—जयन्तीति । पाठान्तरे जयादित्रयं प्रेतमोक्षं कुरुते । तथा परेत्यस्य परेणान्वयः । परा सर्वश्रेष्ठा यत इत्य् अर्थः । अष्टमी पापनाशिनी ॥२७२-२७४॥
किञ्च—
**अथेति महता पुण्यप्रमारेण हरेर्दिनम् । ** **शुक्लपक्षे भृगुश्रेष्ठ विशेषव्रतसंयुतम् ॥२७५॥ ** **तदायतमपि त्यक्तं यदि पुण्यं वहिःश्रुतैः । ** **तदेतदमृतं प्राप्तं कराद्विगलितं क्षणात् ॥२७६॥ ** **एकादशीस्वरूपेण धर्मः साक्षाज्जनार्दनः । ** तच्छरीरसमं प्राहुर्वञ्जुल्युन्मीलनीव्रतम् ॥२७७॥ **विहाय वञ्जुली पापाः कारयन्त्यवरां तिथिम् । ** हिंसितस्तैर् असौ कृष्णाक्षर इत्यवधारय ॥२७८॥ **ये कारयन्त्यविद्वांसः शास्त्रमुल्लङ्घ्य हैतुकाः । ** प्राणिनस्तत्कृतं पापं तेषां गच्छत्यसंशयम् ॥२७६॥ **तेषां निरभिमानैस्तु भूत्वा शास्त्रानुगामिभिः । ** **यथावटुपदेष्टव्यं न भाव्यं कलुषाशयः ॥२८०॥ **
हरेर्दिनम् उतमीलन्यादि बहिःश्रुतैः अश्रुतशास्त्रैर् इत्य् अर्थः । अक्षरेति पाठे अक्षरो जनार्दन एव । तत्तस्मात् अङ्गुर इति वा पाठः । ततः पदाविर्भावस्थानं तुल्यमित्य् अर्थः । तेषां गच्छति तान् प्राप्नोति । भाष्यमिति पाठे मलिनाशयैर् भूत्वा न वक्तव्यमित्य् अर्थः ॥२७५-२८०॥
ब्राह्मे वसिष्ठमान्धातृसंवादे—
**जया च विजया चैव जयन्ती पापनाशिनी । ** सर्वपापहरा ह्येताः कर्तव्याः फलकाङ्क्षिभिः ॥२८१॥
फलं तत्रोक्तं यत्तत्काङ्क्षिभिः ॥२८१॥
अथाष्टमहाद्वादशीनित्यत्वम्
ब्रह्मवैवर्ते—
**द्वादश्योऽष्टौ समाख्याता याः पुराणविचक्षणैः । ** तासामेकापि च हता हन्ति पुण्यं पुराकृतम् ॥२८२॥
तासां मध्ये हता अतिक्रान्ता पाठान्तरेऽपि स एवार्थः ॥२८२॥
पाद्मे मार्कण्डेयपुराणे च श्रीभगवदुक्तौ—
**न करिष्यन्ति ये लोके द्वादश्योऽष्टौ ममाज्ञया । ** तेषां यमपुरे वासो यावदाहूतसम्प्लवम् ॥२८३॥
या अष्टौ द्वादश्यस्ता ये न करिष्यन्ति ॥२८३॥
स्कान्दे च ब्रह्मनारदसंवादे जागरणप्रसङ्गे—
**उन्मीलनी परित्यक्ता वञ्जुली पक्षवर्धिनी । ** **नरके वसते तावद्यावदिन्द्राश्चतुर्दश ॥२८४॥ ** **त्रिस्पृशा विष्णुदयिता ये न कुर्वन्ति भूतले । ** **तावद्यमपुरे वासो यावन्नद्यः ससागराः ॥२८५॥ इति । **
स्कान्दोक्तोन्मीलन्यादीनां साहचर्यात् जयादीनामपि चतसृणां नित्यत्वं सिद्धमेव । किंवा तास्वष्टसु मध्ये उन्मीलन्यादीनामेव चतसृणां प्राधान्याभिप्रायेण तत्र तासामेव नित्यत्व युक्तमिति दिक् ॥२८४-२८५॥
अथ ऋक्षप्रयुक्तानां व्रतकर्तव्यता
**जयादीनां चतसृणां तथा व्यक्तं निरूप्यते । ** भान्यर्कोदयमारभ्य प्रवृत्तान्यधिकानि चेत् । **समा न्यूनानि वा सन्तु ततोऽमीषां व्रतौचित्ती ॥२८६॥ ** **किंवा सूर्योदयात् पूर्वं प्रवृत्तान्यधिकानि चेत् । ** समानि वा तदाप्येषा व्रताचरणयोग्यता ॥२८७॥ **श्रवणाव्यतिरिक्तेषु नक्षत्रेषु खलु त्रिषु । ** **सूर्यास्तमनपर्यन्तं कार्यं द्वादश्यपेक्षणम् ॥२८८॥ ** **श्रवणे त्वस्तमनतः प्राग्द्वादश्यां समाप्तताम् । ** गतायामपि तत्रैव व्रतस्योचितता भवेत् ॥२८९॥
अथ पारणकालनिर्णयः वृद्धौ भतिथ्योरधिका तिथिश्चेत् पारणन्ततः । **अन्ते स्याच्चेत्तिथिर्न्यूना तिथिमध्ये तु पारणम् ॥२९०॥ ** **द्वादश्यननुवृत्तौ तु वृद्धौ ब्रह्माच्युतर्क्षयोः । ** **तन्मध्ये पारणं वृद्धौ शेषयोस्तदतिक्रमे ॥२९१॥ श्रीद्वादशीचतुष्कस्य महतोऽसौ विनिर्णयः । ** नृसिंहपरिचर्यादि ग्रन्थदृष्ट्या निरूपितः ॥२६२॥
अथोन्मीलन्यादीनां विशेषतो माहात्म्यं तासु पूजाविधिविशेषश्च
अथ तत्रादौ उन्मीलनीव्रतम्
पाद्मे श्रीसूत उवाच—
**राज्यं प्रकुर्वतः पूर्वमम्बरीषस्य वेश्मनि । ** गौतमस्तपसा श्रेष्ठः समायातो महामुनिः ॥२६३॥ दृष्ट्वा तमागतं राजा समुत्तस्थौ निजासनात् । **दत्त्वार्ध्यं परया भक्त्या प्रोवाचासनसंस्थितम् ॥२९४॥ **
श्रीअम्बरीष उवाच—
**स्वागत मुनिसार्दूल प्रसादं कर्तुमर्हसि । ** **धन्यानामपि धन्योऽहं यत्त्वं मद्गृहमागतः ॥२९५॥ ** **तपसः कुशलं तेऽद्य भक्तिः श्रीकेशवापरि । ** **निश्चला मुनिशार्दूल हृदयान्नापसर्पति ॥२९६॥ **
ते तव अद्य इदानीं तपसः कुशलं किमिति प्रश्नः । तथा भक्तिश्चेति च ॥२९६॥
श्रीगौतम उवाच—
**तपसः कुशलं राजन् भक्तिः कृष्णे सुनिश्चला । ** कुशलं तव राजेन्द्र ब्राह्मणान् पासि सर्वदा ॥२९७॥ **भक्तिण् भागवतीं नित्यं किं करोषि नराधिप । ** **शालग्राममयं बिम्बं किं त्वं पश्यसि प्रत्यहम् ॥२९८॥ ** **किं त्वं वन्दयसे नित्यं शालग्रामशिलाजलम् । ** गृहीत्वा स्नानतोयन्तु किं त्वं पिबसि प्रत्यहम् ॥२९९॥
भक्तिमेव प्रपञ्चयति शालेग्रामेत्यादिना प्रयत्नत इत्यन्तेन । विम्बं श्रीमूर्तिम् किमित्यग्रे सर्वत्रैवानुवर्तनीयं प्रश्नप्रकरणबलात् ॥२९८-२९९॥
**दत्त्वा वै वैष्णवानान्तु प्रोक्षणं कुरुषे गृहे । ** **तद्विलेपनशेषेण अङ्गानि परिमार्जसि ॥३००॥ **
दत्त्वा वैष्णवेभ्य इति शेषः ॥३००॥
**शालग्रामशिलामालां दत्त्वा मूर्धनि प्रत्यहम् । ** किं धारयसि भूपाल कण्ठे नित्यं सुभक्तितः ॥३०१॥ **धूपशेषन्तु कृष्णस्य भक्त्या भजसि भूमिप । ** **कृत्वा चारात्रिकं विष्णोर्भक्त्या वन्दयसे नृप ॥३०२॥ ** शङ्खोदकं हरेमूर्ध्नि भ्रामथित्वा सुभक्तितः । **विभर्षि शिरसा नित्यं शेषं यच्छसि वैष्णवान् ॥३०३॥ **
वैष्णवानिति पाठे तान् प्रति शेषं निर्माल्यं किं यच्छसि ॥३०३॥
**नैवेद्यं देवदेवस्य सर्वोपस्करसंयुतम् । ** **विष्वक्सेनाय दत्त्वा त्वं भुञ्जसे वैष्णवैः सह ॥३०४॥ **
उपस्करा व्यञ्जनादीनि ॥३०४॥
**नित्यं नामसहस्रेन भक्त्या स्तौषि जनार्दनम् । ** **दीपार्ध्यदानं देवस्य कुरुषे गीतनर्तनम् ॥३०५॥ ** **दूर्वाङ्कुरैः पूजयित्वा पूजान्ते मधुसूदनम् । ** **अक्षतैर् नृपषार्दूल किमर्चयसि केशवम् ॥३०६॥ ** **पक्षे पक्षे नृपश्रेष्ठ विधिवद्द्वादशीव्रतम् । ** **दशमीवेधरहितं कुरुषे जागरान्वितम् ॥३०७॥ ** **तुलसीपत्रनिकरैर् नित्यं पूजयसे हरिम् । ** **पुण्ड्रं विभर्षि देहे त्वं गोपीचन्दनसम्भवम् ॥३०८॥ ** **विभर्षि कण्ठे त्वं नित्यं धात्रीफलसमुद्भवाम् । ** मालां मखायुतसमां तुलसीपत्रसम्भवाम् ॥३०९॥
तुलसीपत्रसम्भवां च मालाम् ॥३०९॥
**शालग्रामशिलायुक्तं द्वारकायाः समुद्भवम् । ** **नित्यं पूजयसे भूप भूक्तिमुक्तिफलप्रदम् ॥३१०॥ **
द्वारकायाः समुद्भवं द्वारकासम्बन्धि चक्राङ्कम् ॥३१०॥
**पुराणं त्वं भागवतं पठसे पुरतो हरेः । ** **चरितं दैत्यराजस्य प्रह्लादस्य च भूपते ॥३११॥ ** **वासरं वासुदेवस्य सवेधं कुर्वतो नरान् । ** **निवारयसि भूपाल शास्त्रदृष्ट्या प्रयत्नतः ॥३१२॥ ** **सवेधं वासरं विष्णोर्यस्मिन् राष्ट्रे प्रवर्तते । ** लिप्यते तेन पापेन राजा भवति नारकी ॥३१३॥ **वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम् । ** **कुलकोटिं समुद्धृत्य नरकाद्व्रजते दिवम् ॥३१४॥ **
अम्बरीष उवाच—
**त्वया यदुक्तं विप्रेन्द्र तत् सर्वं प्रकरोम्यहम् । ** **पश्याम्यहं विष्णुमयं जगदेतच्चराचरम् ॥३१५॥ ** **विष्णुरूपी त्वमायातो मद्गृहं मुनिसत्तम । ** **व्रतं कथय मे विप्र वैष्णवं सर्वकामदम् ॥३१६॥ ** **यत् कृत्वा न पुनः कृत्यं भवते ऋषिसत्तम । ** पुनर्गतिर्यथा विप्र विष्णुलोकाद्भवेन्न हि ॥३१७॥
श्रीगौतम उवाच—
**शृणु भूपाल वक्ष्यामि व्रतं यद्वैष्णवं महत् । ** द्वादशीसम्भवं पुण्यं मयाख्यातं न कस्यचित् ॥३१८॥ वैष्णवोऽसि महाराज भक्त्या भागवतां नृणाम् । **वैष्णवं यन्महागुह्यं तद्व्रतं त्वं निशामय ॥३१९॥ **
भागवतानामिति वक्तव्ये भागवतामित्यार्षम् ॥३१९॥
**उन्मीलनी नाम पुरा मम भक्त्या तु विष्णुना । ** कथिता सुप्रसन्नेन तान्ते भूप वदाम्यहम् ॥३२०॥ **सम्पूर्णैकादशी प्रातर्द्वितीयेऽह्नि प्रवर्द्धते । ** उन्मीलनीति सा प्रोक्ता पापपङ्कौघनाशिनी ॥३२१॥ त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च । **कोट्यंशेनैव तुल्यानि मखा वेदास्तपांसि च ॥३२२॥ **
कोटीनामंशानामेकेनैवांशेन तीर्थादीनि तुल्यानीत्यर्थः । यद् वा, कोट्यंशे विषयेऽपि नैव तुल्यानि ॥३२२॥
**उन्मीलनीसमं किञ्चिन्न दृष्टं न श्रुतं मया । ** प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करम् ॥३२३॥ **न रेवा ब्रह्मतनया कालिन्दी मथुरा न हि । ** पिण्डारकं प्रभासं च न क्षेत्रं हाटकेश्वरम् ॥३२४॥
तदेव प्रपञ्चयति—उन्मीलनीति षड्भिः । प्रयागमित्यादीनां नपुसकत्वमार्षम् एवं सर्वत्रैवोह्यम् । ब्रह्मतनया—सरस्वती ॥३२३-३२४॥
**शैलो हिमाचलो नैव न मेरुर्गन्धमादनः । ** **शैलो नैवेह मलयो न विन्ध्यो नैव नैषधः ॥३२५॥ ** **गोदावरी च कावेरी चन्द्रभागा न देविका । ** न तापी न पयोष्णी च न शिप्रार्नैव चन्दना ॥३२६॥ **चर्मण्वती च सरयूश्चन्द्रभागा न गण्डकी । ** गोमती च विपाशा च शोणश्चैव महानदः ॥३२७॥ **किमत्र बहुनोक्तेन भूयो भूयो नराधिप । ** **नोन्मीलनीसमं किञ्चिन्न देवः केशवात् परः ॥३२८॥ उन्मीलनीमनुप्राप्य यैः कृतं केशवार्चनम् । ** पापचक्रसमूहस्य दत्तस्तेन दवानलः ॥३२९॥ **यस्मिन् मासे महीपाल तिथिरुन्मीलनी भवेत् । ** **तन्मासनास्ना गोविन्दः पूजनीयो यथाविधि ॥३३०॥ **
एवं माहात्म्यमुक्त्वा तत्र पूजाविधिविशेषमाह—यस्स्मिन्नित्यादिना कथानकैर् इत्यन्तेन । तन्मासनाम्नेति—मार्गादिद्वादशमाशेषु क्रमेण केशवाद्या दामोदरान्ताः केशवादिन्यासादौ लिखिता द्वादश देवताः । अतस्तन्मासदेवतानाम्नेत्यर्थः । अतश् च तत्तदायुधादिकमपि तथैव कर्तव्यमित्युहम् एवमग्रे’पि ॥३३०॥
**जातरूपमयः कार्यो मासनाम्नाम्ना तु माधवः । ** स्वशक्त्या विश्वरूपं च श्रद्धाभक्तिसमन्वितैः ॥३३१॥ **पवित्रोदकसंयुक्तं पञ्चरत्न-समन्वितम् । गन्धपुष्पाक्षतैर् युक्तं कुम्भं स्रग्दामभूषितम् ॥३३२॥ पात्रमौडम्बरं कार्यं गोधूमश्चापि पूरितम् । ** **तण्डुलैर् वा महीपाल स्थापनीयं घटोपपि ॥३३३॥ ** **स्नापयित्वा तु गोविन्दं कुङ्कुमागुरुचन्दनैः । ** **कृत्वा विलेपनं विष्णुः स्थापनीयो घटोपरि ॥३३४॥ **
स्वशक्त्या निजशक्त्यनुसारेण विश्वरूपं समग्रसौन्दर्यं यथा स्यात् । यद् वा, तदीयाखिल युधाद्युपाङ्गञ्चेत्यर्थः । कुम्भं स्थापयेदिति शेषः स्नापयित्वा पञ्चामृतादिना घटोपरि स्थापनीय इति घटोपरि यत्ताम्रपात्रं तदुपरीत्यर्थः । तत्रापि घटोपरि तस्याव्यभिचारात् । स्थापनञ्च—एह्येहि त्वं जगन्नाथ वैकुण्ठ पुरुषोत्तम । परिवारगणोपेत लक्ष्म्या सह जगत्पते ॥ इत्यावाहनेन तथा मनोज्योतिरिति प्रतिष्ठादिना च ज्ञेयम् । गन्धपुष्पादिसमर्पणं च तन्नाममन्त्रेणैव ॥३३१-३३४॥
**प्रदद्याद्वस्त्रयुग्मन्तु सोपवीतं च सोत्तरम् । ** **उपानहौ च राजर्षे आतपत्रं शिरोपरि ॥३३५॥ **
सात्तरम् उत्तरीयसहितम् ॥३३५॥
**भाजनं जलपात्रं च सप्तधान्यं तिलैः सह । ** **रूप्यञ्चैव च कार्पासं पायसं मुद्रिकां हरेः ॥३३६॥ ** **धेनुं वा निष्क्रयं वापि दद्यान्माधवतुष्टये । ** शय्यां सोपस्करां दत्त्वा माधवाय तु भत्ति तः ॥३३७॥ **धूपदीपन्तु नैवेद्यां फलं पत्रं निवेदयेत् । ** पूजनीयो महाभक्त्या मन्त्रैर् एभिस्तु वैष्णवैः । **तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैर् हरिः ॥३३८॥ ** **मासनाम्ना तु पादौ हि जानुनी विश्वरूपिणे । ** गुह्यन्तु कामपतये कटिं च पीतवाससे ॥३३९॥
अवयवपूजामाह—मासेति त्रिभिः । मासनाम्ना स्वनाम्नेत्यर्थः अत्र सर्वत्रैव नमः-शब्दः प्रयोज्यः । अतएव मन्त्राः पादौ पूजयेदिति शेष । एवमग्रेऽपि सर्वत्र ॥३३९॥
**ब्रह्ममूर्तिभृते नाभिमुदरं विश्वयोनये । ** **हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठमूर्तये ॥३४०॥ ** **उरुगाय ललाटन्तु बाहू क्षत्रान्तकारिणे । ** उत्तमाङ्गं सुरेशाय सर्वाङ्गं सर्वमूर्तये ॥३४१॥ **स्वनाम्ना चायुधादीनि पूजनीयानि भत्ति तः । ** अर्घ्यदानं प्रकर्तव्यं नारिकेलादिभिः फलैः ॥३४२॥
स्वनाम्ना—सुदर्शनाय नम इत्यादिरूपेण ॥३४२॥
**शङ्खोपरि फलं कृत्वा गन्धपुष्पफलान्वितम् । ** सूत्रेण वेष्ठनं कृत्वा दद्यादर्ध्यां विधानतः ॥३४३॥ **देवदेव महादेव महापुरुष पूर्वज । ** **सुब्रह्मण्य नमस्तेऽस्तु पुण्यकीर्तिविवर्द्धन ॥३४४॥ शोकमोहमहापापान्मामुद्धर भवार्णवात् । ** सुकृतं न कृतं किञ्चिज्जन्मान्तरशतैर् अपि । **तथापि मां जगन्नाथ समुद्धर भवार्णवात् ॥३४५॥ ** **व्रतेनानेन देवेश ये चान्ये मन पूर्वजाः । ** वियोनिं च गताश्चान्ये पापान्मृत्युवशं गताः । **ये भविष्यन्ति येऽतीताः प्रेतलोकात् समुद्धर ॥३४६॥ ** **आर्तस्य मम दीनस्य भक्तिरव्यभिचारिणी । ** दत्तमर्ध्यं मया तुभ्यं भक्त्या गृह्ण गदाधर ॥३४७॥ **दत्त्वार्ध्यं धूपदीपाध्यैर् नैर् वेद्यैर् हविरुद्भवैः । ** **स्तोत्रैर् नीराजनैर् गीतैर् नृत्यैः सन्तोषयेद्धरिम् ॥३४८॥ ** **वस्त्रदानैश् च गोदानैर् भोजनैस्तोषयेद्गुरुम् । ** अकुर्वन् वित्तशाठ्यन्तु व्रतं कुर्यात्तु वैष्णवः ॥३४६॥ **तुष्ट्यर्थं पद्मनाभस्य कार्यं जागरणन्तथा । ** **निशान्ते व्रतकृत्यन्तु गुरवे तन्निवेदयेत् ॥३५०॥ ** **गुरौ निवेदिते भूप परिपूर्णं भवेद्द्व्रतम् । ** कृत्वा दिनकृतं कर्म भोजनं ब्राह्मणैः सह । कर्तव्यं नृपशार्दूल दिनं नेयं कथानकैः ॥३५१॥
विधानत इति सजलकुङ्कुमशङ्खोपरि एकसूत्रवेष्टितं गन्धादिसहितं फल कृत्वार्घ्यं दद्यादिति विधानं ज्ञेयम् । तत्र मन्त्रः देवदेवेतादि । व्रतकृत्यं व्रतोपस्करं श्रीमूर्त्यादिकं दिनकृतं दिनकृत्य कथानकैः । भगवद्वार्तादिभिः ॥३४३-३५१॥
**अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम् । ** कल्पकोऽटिसहस्राणि वसते विष्णु सन्निधौ ॥३५२॥
एवं व्रतस्य पुनः फलविशेषमाह—अनेनेति द्वाभ्याम् ॥३५२॥
किञ्च—
**उन्मीलनीव्रतं कुर्यादेवं यः स धनी भवेत् । ** दीर्घायुः पुत्रवान् विद्वान् न कर्ता निरयं व्रजेत् ॥३५३॥
ब्रह्मवैवर्त सूतशौनक-संवादे—
**तावत् पापानि देहेषु दुःसहा यमयातनाः । ** **प्राणिनां कुरुते तावद्यावन्नोन्मीलनीव्रतम् ॥३५४॥ **
यावदुन्मीलनीव्रतं न कुरुते जनः तावदेव प्राणिनां देहेषु पापानि तावच्च यमयातना दुःसहा भवन्तीत्यन्वयः । नकाराभावपाठेऽपि उन्मीलनीव्रताचरणं यावदेव पापादयस्तिष्ठन्ति तावदेव तस्मिन् सति च न तिष्ठन्तोति तथैवार्थः ॥३५४॥
**यदत्र दीयते दानं हूयते वात्र यद्धविः । ** सर्वं तदक्षयं प्राहुरुन्मीलन्यां महर्षयः ॥३५५॥
इत्युन्मिलनीव्रतम् ।
अथ वञ्जुलीव्रतम्
पाद्य एव श्रीगौतमाम्बरीषसंवादे—
**सम्पूर्णैकादशी यन्त्र द्वादशी च यदा भवेत् । ** **त्रयोदश्यां मुहूर्तार्धं वञ्जुली सा हरिप्रिया ॥३५६॥ **
द्वादशी च सम्पूर्णा सती त्रयोदश्यां मुहूर्तार्धं किञ्चिद्भवतीत्यर्थः ॥३५६॥
**शुक्लपक्षे तथा कृष्णे यदा भवति वञ्जुली । ** एकादशीदिने भुक्त्वा द्वादश्यां कारयेद्व्रतम् ॥३५७॥ **पारणं द्वादशीमध्ये त्रयोदश्यां न कारयेत् । ** **एव कृते महीपाल यज्ञायुतफलं लभेत् ॥३५८॥ ** **द्वादश्यान्तु निराहारः पारणा चापरेऽहनि । ** धर्मार्थकाममोक्षार्थं करिष्ये वञ्जुलीव्रतम् ॥३५९॥
इति नियममन्त्रः । **स्नात्वा नद्यां नदे वाथ तडागे वा हृदेऽपि वा । ** कृत्वा स्नानं गृहे वापि नित्यकर्म च कारयेत् ॥३६०॥ **माषकेण सुवर्णेन कृत्वा नारायणीं तनूम् । ** रत्नगर्भघटे कृत्वा ताम्रपात्रोपरि स्थितम् ॥३६१॥ **आतपत्रन्तु मायूरं वैणवं वा स्वशक्तितः । ** **उपानहौ प्रकर्तव्यं कांस्यपात्रं कृतान्वितम् ॥३६२॥ ** **गोधूमैः पूरयेत् पात्रं स्नाप्य देवं न्यसेत्ततः । ** **वस्त्रयुग्मेन सञ्छाद्य कार्यञ्चैव विलेपनम् ॥३६३॥ अर्चयेदुदकुम्भस्थं पुष्पमाल्याभिवेष्टितम् । ** **ततः पूजा प्रकर्तव्या सुगन्धैः कुसुमैः शुभैः ॥३६४॥ ** **नारायणाय पादौ तु जानुनी केशवाय च । ** उरुभ्यां माधवायेति गुह्यं कामाधिपाय च ॥३६५॥
तनूं श्रीमूर्तिं घटस्थापनादिकमत्रापि पूर्ववत् ज्ञेयं विशेषश्चान्यः स्वयमेव वक्ष्यते । नारायणेत्याद्यर्घ्यमन्त्रः ॥३६१-३६५॥
**गोविन्दाय कटिं पूज्य नाभिं माधवमूर्तये । ** **उदरं विश्वरूपाय वक्षः कौस्तुभधारिणे ॥३६६॥ ** **वैकुण्ठाय नमः कण्ठं चक्षुषी ज्योतिरूपिणे । ** सहस्रशीर्षाय शिरः सर्वाङ्गं विश्वरूपिणे ॥३६७॥ **आयुधानि स्वनाम्नैव एवं देवार्चने विधिः । ** शुभेन नारिकेलेन दद्यादर्ध्यं विधानतः ॥३६८॥ **शङ्खे कृत्वा तु पानीयं साक्षतं कुसुमान्वितम् । ** नारायण जगन्नाथ पीताम्बर जनार्दन । **मामुद्धर महाविष्णो नरकाब्धेः सनातन ॥३६९॥ ** सप्तकल्पगतं पापं यत् कृतं मम पूर्वजैः । अनेनार्ध्यप्रदानेन सकलं तत् प्रणश्यतु । **मुक्तिं प्रयान्तु पितरो मया सह जगत्पते ॥३७०॥ ** **मया तवार्घ्यदानेन ये चान्ये पितरो गताः । ** **वसन्तु त्वत्समीपेऽद्य देवदेव जनार्दन ॥३७१॥ ** **व्रतं सम्पूर्णतां यातु वञ्जुलीसम्भवं मम । ** दशमीसंयुतं देव यत् कृतं द्वादशीद्वतम् । अज्ञानादथवा ज्ञानान् परिपूर्णं तदस्तु मे ॥३७२॥ **अनेन विधिना सम्यग्दत्त्वार्ध्यं मधुसूदने । ** **वसेत् कल्पसहस्त्रन्तु विष्णोर्लोके महेश्वरि ॥३७३॥ ** **अग्निष्टोमसहस्रेभ्यः अश्वमेधो विशिष्यते । ** **अश्वमेधसहस्रेभ्यो वाजपेयो विशिष्यते ॥३७४॥ ** **वाजपेयसहस्रेभ्यः पुण्डरीको विशिष्यते । ** **पुण्डरीकसहस्रेभ्यः सौत्रामणिर्विशिष्यते ॥३७५॥ सौत्रामणिसहस्रेभ्यो राजसूयो विशिष्यते । ** राजसूयसहस्रेभ्यो वञ्जुली चाधिका नृप ॥३७६॥ **वञ्जुलीति कृतोच्चारैः कलिकाले तु मानवैः । ** **जन्मयुतसहस्रेतु कृतः पापस्य सङ्क्षयः ॥३७७॥ ** **दत्त्वा पूजार्घ्यदानन्तु धूपनैवेद्यदीपकम् । ** **कृत्वा नीराजनं विष्णोर्गुरुं सम्पूजयेत्ततः ॥३७८॥ ** **दद्याद्वस्त्राणि गां भूमिं धान्यं चैव सदक्षिणम् । ** कुर्या द्वित्तानुसारेण सम्पूणार्थं व्रतस्य हि ॥३७९॥
कुर्यादेवम् ॥३७९॥
**सन्तुष्टे तु गुरौ विष्णुः प्रीतो भवति नान्यथा । ** गुरुं सम्पूजयेत्तस्मात् तुष्ट्यर्थं चक्रपाणिनः ॥३८०॥ **रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा ॥३८१॥ गीतानामसहस्रन्तु पुराणं शुकभाषितम् । ** **पठनीयं प्रयत्नेन हरेः सन्तोषकारणम् ॥३८२॥ ** **प्रत्येकं गोसहस्रस्य पठतां शृण्वतां फलम् । ** गीतं नृत्यन्तु वादित्रं कारयेत् पुरतो हरेः ॥३८३॥ **दातव्यं गुरवे सर्वं प्रभाते देवतादिकम् । ** क्षमापयित्वा देवेशं गुरुञ्चैव विशेषतः ॥३८४॥ **कृत्वा नैमित्तिकं सर्वं भोक्तव्यं बन्धुभिः सह ॥३८५॥ **
स्कान्दे श्रीब्रह्मनारदसंवादे जागरणप्रसङ्गे—
**अगम्यागमने पापमभक्ष्यस्थापि भक्षणे । ** पापं विलयमायाति कीर्तिते वञ्जुलीदिने ॥३८६॥ **यत् पापं भूमिहरणे देवस्वहरणे तथा । ** मणिकूटं तुलाकूटं स्वर्णस्तेयादिकं च यत् ॥३८७॥ अज्ञानाद्यत कृतं पापं ज्ञात्वा यत् पातकं कृतम् । **पूर्वजन्मार्जितं पापमिह जन्मनि यत् कृतम् ॥३८८॥ ** **सर्वं च क्षयमभ्येति कृत्वैकं वञ्जुलीदिनम् । ** न भवेन्मानसी पीडा रोगाश्चात्यन्तदुःखदाः ॥३८९॥
ब्रह्मवैवर्त श्रीसूतशौनकसंवादे—
**वञ्जुलीवासरे विप्र सम्प्राप्ते गरुडध्वजः । ** स्वस्थानाद्वसुधामेत्य कुरुते च स्थितिं विशन् ॥३९०॥
विशन् वञ्जुलीव्रतकारिणां मध्ये प्रविशन् स्थितिं कुरुते वसतीत्यर्थः । आस्थितमिति पाठेऽपि भावोक्तप्रत्ययात् स एवार्थः । पाठान्तरे तु विशां धनिनां प्रजानां वा इष्टं ददातीत्यर्थः यद् वा, विशां च धनिनां धनसम्बन्धिवाञ्छां पूरयतीत्यर्थः ॥३९०॥
**वञ्जुली-विमुखं विप्रमालोक्य रविनन्दनः । ** **कुरुते सम्विदं साकं चित्रगुप्तेन हर्षितः ॥३९१॥ **
सम्विदम्—मन्त्रणाम् ॥३९१॥
**अयमेष्यति मन्दात्मा विष्णुव्रतवहिष्कृतः । ** वशं ममेति तत्पुण्यं मार्जयाद्धा पुराकृतम् ॥३९२॥ **शिरोऽर्तिर्नितरामेषा मां सदैव प्रबाधते ॥३९३॥ **
शिरसोऽर्तिः पीडा ॥३९३॥
किञ्च—
**सर्वव्रतानां चरणं सर्वतीर्थाभिषेचनम् । ** **सर्वदानप्रदानं च समं स्याद्वञ्जुलीव्रतम् ॥३९४॥ ** **तत्रान्नदानं विप्राय विधाय श्रद्धयान्वितः । ** प्राप्नोति पुरुषो विप्र कलुषः कृष्णसन्निधिम् ॥३९५॥
कलुषः पापरूपोऽपि ॥३९५॥
लक्ष्मी नारायणं देवं सौवर्णं तत्र पूजयेत् । यथाशक्त्यन्नदानं च दत्त्वा वैकुण्ठमाप्नुयात् ॥३९६॥ **अधमर्णतया कामाल्लोभाद्दम्भादपि द्विज । ** **हन्ति त्रिपुरुषं पापं वञ्जुली पुरुषैः कृता ॥३९७॥ **
अधमं धनाभावेन परमदोषावहम् ऋणं यस्य तस्य भावस्तत्ता तया ऋणवश्यतयेत्यर्थः । अतः त्रिपुरुषसम्बन्धि पापं हन्ति । यद् वा, ऋणित्वेनापि कृत्वा आगमादिभिर् न मोक्षो भवति ॥३९७॥
**स एष सर्वशास्त्रार्थः सर्वबुद्धिमतां मतम् । ** हितं सर्वसमीचीनं यद्वञ्जुल्यामुपोषणम् ॥३९८॥ **उपवासं यथाशक्त्या दानं ब्राह्मणपूजनम् । ** विधाय वञ्जुली चैवं पुरुषो याति सद्गतिम् ॥३९९॥
इति वञ्जुलीव्रतम् ।
अथ त्रिस्पृशाव्रतम्
तत्रैव—
**शुक्ला वैशाखमासे तु सम्प्राप्ता मधुसूदनी । ** **द्वादशी त्रिस्पृशा नाम पापकोटिक्षयावहा ॥४००॥ ** **धन्याः सर्वे मनुष्यास्ते वैशाखे मधुसूदनी । ** **सम्प्राप्ता त्रिस्पृशा यैस्तु बुधवारेण संयुता ॥४०१॥ **
द्वारका-माहात्म्ये तत्रैव—
**आदौ नन्दा जया चान्ते मध्ये भद्रा भवेद्यदि । ** **उपवासार्चने गीते दुर्लभा कृष्णसन्निधौ ॥४०२॥ ** **एकेनैवोपवासेन उपवासायुतं फलम् । ** जागरे शतसाहस्र्ंअ नृत्ये कोटिगुणं कलौ ॥४०३॥ **गृहेऽपि कुर्वतामेतां किं पुनः कृष्णसन्निधौ ॥४०४॥ **
पाद्मे श्रीसनत्कुमार-व्याससंवादे—
**सर्वपापप्रशमनं महापातकनाशनम् । ** **शृणु कृत्वाऽवधानं त्वं त्रिस्पृशाख्यं महाव्रतम् ॥४०५॥ ** **कामदं सस्पृहाणां च निस्पृहाणान्तु मोक्षदम् । ** निस्पृशाख्यं व्रतं विष्णोः शृणुष्व गदतो मम ॥४०६॥ **प्रत्यक्षमर्चितस्तेन कलिकालेऽपि केशवः । ** **त्रिस्पृशाकीर्तनं नित्यं यः करोति महामुने ॥४०७॥ ** **न पुरश्चरणे चीर्णे सर्वप पक्षयो भवेत् । ** **त्रिस्पृशा-नाममात्रेण भवते नात्र संशयः ॥४०८॥ ** **नागमैर् न पुराणश् च समस्तैस्तीर्थकोटिभिः । ** **बहुभिर् व्रतसङ्कैश् च पूजितैस्त्रिदशर् अपि ॥४०९॥ ** **मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि । ** मोक्षार्थं देवदेवेन सृष्टा देवी तिथीश्वरी ॥४१०॥ **विषयैर् विप्र युक्तानां ध्यानधारणवर्जिनाम् । ** कामभोगप्रसक्तानां निस्पृशा मोक्षदा सदा ॥४११॥
हे विप्र विषयैर् युक्तानाम् ॥४११॥
**शङ्करस्य पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे । ** क्षीरोदे प्रणतानान्तु मत्समीये तु चक्रिणा ॥४१२॥
प्रणतानामन्येषां च प्रोक्ता ॥४१२॥
**विस्पृशां ये करिष्यन्ति विषयैर् अपि निर्जिताः । ** **तेषामपि मया दत्तं मोक्षं साङ्घ्यविवर्जितम् ॥४१३॥ ** कुरुष्व त्वं मुनिश्रेष्ठ त्रिस्पृशां मोक्षदायिनीम् । **बहुभिर् मुनिसङ्घैस्तु त्यक्त्वा साङ्ख्यं महामुने ॥४१४॥ **
कुरुत्वेत्यादि सनत्कुमारवाक्यं मुनिसङ्घैः सह ॥४१४॥
**कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा भवते यदा । ** सोमेन सोमजेनापि पापकोटविनाशिनी ॥४१५॥ **यस्यामुपोषणं कृत्वा हत्यामुक्तो महेश्वरः ॥४१६॥ ** **हस्ताद्ब्राह्मकपालन्तु तत्क्षणात् पतितं मुने । ** गत्वा भृगूपदेशेन निस्पृशा-समुपोषणात् ॥४१७॥ **ब्रह्महत्या-सहस्राणि त्रिस्पृशासमुपोषणात् । ** हित्वाष्टौ बाहुवीर्यस्तु पूर्वजातो महामुने ॥४१८॥ **कलिकल्मषपापात्तु मुक्ता देवी त्रिमार्गगा । ** **उपदेशात्माधवरय त्रिस्पृशासमुपोषणात् ॥४१९॥ ** **ब्रह्महत्यासहस्राणि त्रिस्पृशासमुपोषणात् । ** विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा ॥४२०॥ न प्रयागे न काश्यान्तु गोमत्यां कृष्णसन्निधौ । **मोक्षो भवति विप्रेन्द्र त्रिस्पृशासमुपोषणात् ॥४२१॥ ** **मरणेन प्रयागे तु मुक्तिः काश्यान्तथैव च । ** स्नानमात्रेण गोमत्यां मुक्तिर्भवति नान्यथा । **गृहे चैव भवेन्मुक्तिः त्रिस्पृशायामुपोषणात् ॥४२२॥ ** **विषये वर्तमानस्य कामभोगान्वितस्य च । ** निवृत्तविषयस्यापि मुक्तिः साङ्ख्येन दुर्लभा । **तस्मात् कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम् ॥४२३॥ **
श्रीवेदव्यास उवाच—
कीदृशी स्यान्मुनिवर त्रिस्पृशा द्वादशी वद । **विमुक्तिदा या मर्त्यानां त्वया प्रोक्ता ममाधूना ॥४२४॥ **
श्रीसनत्कुमार उवाच—
**जाह्नव्याः पुरतो विप्र त्रिस्पृशा माधवेन तु । ** प्राची-सरस्वती-तीरे कथिता सुमहाफला ॥४२५॥
श्रीजाह्नव्युवाच—
**कलिकल्मषपापौधैर् ब्रह्महत्यादिकैर् युताः । ** **कलिकाले हृषीकेश स्नानं कुर्वन्ति मज्जले ॥४२६॥ ** **तेषां पापशतैर् दग्धं मद्देहं कलुषीकृतम् । ** **कथं यास्यति मे देव पातकं गरुडध्वज ॥४२७॥ **
श्रीप्राचीमाधव उवाच—
**कथयामि न सन्देहो मा पुत्रि रोदनं कुरु । ** श्रीस्थलं नाम मे स्थानं प्राचीदेवी ममाग्रतः ॥४२८॥ **वहते ब्रह्मतनयः मद्दृष्ट्यग्रे सुरेश्वरि । ** **स्नानं कुरुष्व नित्यं त्वं मन्त्रपूता भविष्यसि ॥४२९॥ ** **यत्र प्राची ब्रह्मसुता तत्राहं नास्ति संशयः । ** **तीर्थकोटिशतैर् युक्तः सुरैः सह वसाम्यहम् ॥४३०॥ ** **तत्र नश्यन्ति पापानि यत्र प्राची सरस्वती । ** विशेषतो ममाग्रे तु कलिकाले विशेषतः ॥४३१॥
श्रीजाह्नव्युवाच—
**नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि । ** कथं नश्यन्ति पापानि कथयस्वेह माधव ॥४३२॥
श्रीप्राचीमाधव उवाच—
सरस्वत्यधिका या च तीर्थकोटिशताधिका । **मखकोट्यधिका याऽपि व्रतदानाधिका च या ॥४३३॥ ** **तपोजपाधिका नित्यं चतुर्वर्गफलप्रदा । ** साङ्ख्ययोगाधिका या च त्रिस्पृशां कुरु तां शुभे ॥४३४॥ यस्मिन् मासे समायाति सिता चाप्यसिताथवा । **कर्तव्या सा सरित्श्रेष्ठे तव पापं हरिष्यति ॥४३५॥ **
श्रीमन्दाकिन्युवाच—
**कीदृशी त्रिस्पृशा देव ममाचक्षस्व माधव । ** ईदृशी महिमा यस्यास्त्वया प्रोक्ता ममाधुना ॥४३६॥ **दशम्येकादशी भद्रा दिनैकस्मिन् यदा भवेत् । ** त्रिस्पृशा सा भवेद्देव न वेद्मि वद मे प्रभो ॥४३७॥
भद्रा—द्वादशी ॥४३७॥
श्रीप्राचीमाधव उवाच—
**आसुरी त्रिस्पृशा देवि या त्वया परिकीर्तिता । ** वर्जनीया प्रयत्नेन व्रतहीनो यथा यतिः ॥४३८॥ **असुराणां राक्षसानामायूर्बलविवर्धिनी । ** **वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥४३९॥ ** **यथा रजस्वलासङ्गमन्याय्यं वर्जितं सदा । ** **तथा दशमिसंयुक्तं मद्दिनं वैष्णवैर् नरैः ॥४४०॥ हत्यायुतशतं हन्ति मत्प्रसादेन लभ्यते । ** **मत्प्रसादविहीनानां निस्पृशा याति जाह्नवि ॥४४१॥ **
मत्प्रसादेनैव निस्पृशा लभ्यते । यानि व्यर्थतामिति शेषः ॥४४१॥
**एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । ** निस्पृशा सा तु विज्ञेया दशमी-संयुता न हि ॥४४२॥ **भुक्तं हलाहलं तेन श्वविष्ठाभक्षण कृतम् । ** **दशमीमिश्रितं येन कृतमेकादशीव्रतम् ॥४४३॥ ** **इति ज्ञात्वा न कर्तव्यं मद्दिनं दशमीयुतम् । ** जन्मकोटिकृतं पुण्यं सन्तानं याति च क्षयम् ॥४४४॥ **पक्षवृद्धौ विशेषेण सन्देहे समुपस्थिते । ** **ममाज्ञया प्रकर्तव्या द्वादशी वल्लभा सदा ॥४४५॥ ** **ममाज्ञया प्रकर्तव्यं मद्दिनं मत्परायणैः । ** **मद्दिनं तद्विजानीयाद्दशमीवेधवर्जितम् ॥४४६॥ **
श्रीवेदव्यास उवाच—
विधानं ब्रूहि मे ब्रह्मन् मुने येन करोम्यहम् ॥४४७॥
श्रीसनत्कुमार उवाच—
**दामोदरं हेममयं कृत्वा विभवसारतः । ** **पात्रं ताम्रमयं कार्यं तण्डुलैः परिपूरितम् ॥४४८॥ **
विभवसारतः—निजधनाद्यनुसारेण ॥४४८॥
**सजलन्तु घटं शुद्धं पञ्चरत्नसमन्वितम् । ** **वेष्टितं पुष्पमालाभिः कर्पुरागुरुवासितम् ॥४४९॥ ** **न्यसेत्ताम्रमयं देवं स्नापयित्वा विलेपितम् । ** परिधानं ततः कार्यं वस्त्र-युग्मेन भक्तितः ॥४५०॥
पात्रं घटं च न्यसेद् इत्यन्वयः तच्च पूर्ववदूह्यम् ॥४४९-४५०॥
**मन्त्रैस्तु पूजनं कार्य गुरुणा समुदीरितैः । ** **पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीदलकोमलैः ॥४५१॥ ** **छत्रन्तु वैणवं दद्यात् पादुकाऽम्बरसंयुतम् । ** नैवेद्यानि विचित्राणि फलानि सुबहून्यपि ॥४५२॥ **उपवीतं तु दातव्यं सोत्तरीयं नरं दृढम् । ** **वेणवं दापयेद्दण्डं सुरूपं सून्नतं शुभम् ॥४५३॥ दामोदराय पादौ तु जानुनी माधवाय तु । ** **गुह्यन्तु कामपतये कटिं वामनमूर्तये ॥४५४॥ ** **पद्मनाभाय नाभिन्तु उदरं विश्वमूर्तये । ** **हृदयं ज्ञानगम्याय कण्ठं श्रीकण्ठसञ्ज्ञके ॥४५५॥ सहस्राबाहवे बाहुं चक्षुषी योगनायके । ** ललाटमुरुगायेति सहस्रशिरसे शिरः ॥४५६॥
श्रीकण्ठसञ्ज्ञकमिति श्रीकण्ठाय नम इति ज्ञेयम् एवमन्यत्रापि । उपगायेति पाठे उरगशयनायेति ज्ञेयम् ॥४५५-४५६॥
स्वनाम्ना चायुधादीनि सर्वाङ्गं चारुरूपिणे । **सम्पूज्य विधिवद्भक्त्या अर्ध्यं दद्याद्विधानतः ॥४५७॥ ** **शुभ्रेण नारिकेलेन शङ्खोपरि-स्थितेन हि । ** सूत्रेण वेष्टितेनैव उभाभ्यां पाणिसंस्थितम् ॥४५८॥
उभाभ्यां पाणिभ्यामर्घ्यं दद्यादिति पूर्वेणान्वयः । अर्घ्यमेव विशिनष्टि—पाण्योः संस्थितमिति ॥४५८॥
**स्मृतो हरसि पापानि सत्यं यदि जनार्दन । ** दुःस्वप्नं दुर्निमित्तं च मनसो दुर्विचिन्तितम् ॥४५९॥
स्मृत इत्याद्यर्घ्यमन्त्रः ॥४५९॥
**नारकं च भयं देव भयं दुर्गतिसम्भवम् । ** **भयमन्यत् महादेव ऐहिकं पारलौकिकम् ॥४६०॥ ** **सर्वं नाशय मे विष्णो गृहाणार्ध्यं जनार्दन । ** मम भक्तिः सदैवास्तु दामोदर तवोपरि ॥४६१॥ धूपदीपन्तु नैवेद्यं कुर्यान्नीराजनं ततः ॥४६२॥ **शिरोपरि मुनिश्रेष्ठ भ्रामयेज्जलजं हरेः । ** **कृत्वा विधानमेतद्धि पूजयेत् स्वगुरुं ततः ॥४६३॥ **
शिरसः उपरि विसर्गलोपेऽपि पुनः सन्धिरार्षः । जलजं शङ्खम् ॥४६३॥।
**दद्याद्वस्त्राणि शुभ्राणि गन्धमाल्यादिनार्चयेत् । ** उपानहौ च छत्रं च मुद्रिकां च कमण्डलुम् ॥४६४॥ **भोजनञ्चैव ताम्बूलं सप्तधान्यं सुदक्षिणम् । ** **सम्पूज्य देवदेवेशं कुर्याज्जागरणं हरेः ॥४६५॥ **
भोजनं—भोज्यम् ॥४६५॥
**गोतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् । ** **निशान्ते पुनरीशाय दत्त्वा चार्ध्यं विधानतः । ** स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्ब्राह्मणैः सहः ॥४६६॥
इति त्रिस्पृशाव्रतम् ।
अथ पक्षवर्धिनीव्रतम्
पाद्मे ब्रह्मोक्तौ—
अमा वा यदि वा पूर्णा सम्पूर्णा जायते यदा । भूत्वा च षष्टिघटिका दृश्यते प्रतिपद्दिने । **अश्वमेधायुतैस्तुल्या सा भवेत् पक्षवर्धिनी ॥४६७॥ **
षष्टिघटिका व्याप्य भूत्वा सम्पूर्णा यदि दृश्यते । अतएव प्रतिपद्दिने च किञ्चिद्दृश्यते ॥४६७॥
पूजाविधिन्तु विप्रेन्द्राः श्रोतुमर्हथ साम्प्रतम् ॥४६८॥ **मन्त्रैः सम्पूजितो विष्णुरर्घ्यदानेन तुष्यति ॥४६९॥ ** जलपूर्णं नवं कुम्भं चन्दनेनैव चर्चितम् । पञ्चरत्नसमायुक्तं पुष्पमालाविभूषितम् । **स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ॥४७०॥ ** **सौवर्णं कारयेद्देवं माससञ्ज्ञाविधानकम् । ** **पञ्चामृतेन स्नपनं कर्तव्यं माधवस्य च ॥४७१॥ ** **विलेपनन्तु कर्तव्यं कुङ्कुमागुरुचन्दनैः । ** **वस्त्रयुग्मन्तु दातव्यं छत्रोपानत्-सुसंयुतम् ॥४७२॥
पूजयेद्देवतामीशं कुम्भपात्रोपरि स्थितम् । ** **पद्मनाभ य पादौ तु जानुनी योगमूर्तये ॥४७३॥ ** **ऊरुयुग्मं नृसिंहाय कटिं ज्ञानप्रदाय च । ** **उदरं विश्वनाथाय हृदयं श्रीधराय च ॥४७४॥ ** **कण्ठं कौस्तुभकण्ठाय बाहू क्षत्रान्तकाय च । ** ललाटं व्योममूर्ताय शिरो वै सर्वरूपिणे । **स्वनाम्ना चैव शास्त्राणि सर्वाङ्गं दिव्यरूपिणे ॥४७५॥ ** **एवं सम्पूज्य विधिवत् ततोऽर्ध्यं सम्प्रदापयेत् । ** नारिकेलेन शुभ्रेण देवदेवस्य चक्रिणः ॥४७६॥
तत्र अर्घ्यमन्त्रः **संसारार्णवपोताय पापकक्षामहानल । ** **नरकाग्निप्रशमन जन्ममृत्युजरापह ॥४७७॥ **
अर्घ्यमन्त्रः—संसारेत्यादिः ॥४७७॥
**मामुद्धर जगन्नाथ पतितं भवसागरे । ** **गृहाणार्ध्यं मया दत्तं पद्मनाभ नमोऽस्तु ते ॥४७८॥ ** **नैवेद्यानि प्रदेयानि घृतपक्वानि चक्रिणे । ** फलानि सुमनोज्ञानि स्वादूनि रसवन्ति च ॥४७९॥ **सागुरुं च सकर्पूरं दद्याद्धूपन्तु माधवे । ** **सघृतं गुग्गुलुञ्चापि दद्याद्वित्तानुसारतः ॥४८०॥ ** **ताम्बूलन्तु सकर्पूरं दद्याद्देवस्य भक्तितः । ** **घृतेन दीपकं दद्यात्तिलतैलेन वा पुनः ॥४८१॥ ** **कृत्वा सम्यग्विधानेन गुरुपूजान्तु कारयेत् । ** वस्त्राणि चैव सोष्णीषं कञ्चुकं च प्रदापयेत् ॥४८२॥ **दक्षिणां च यथाशक्ति गुरवे सम्प्रदापयेत् । ** **भोजनञ्चैव ताम्बूलं दत्त्वार्ध्यं सम्प्रतोषयेत् ॥४८३॥ स्ववृत्तैर् वर्तमानैस्तु यथाशक्त्या च निर्धनैः । ** **कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्धिनी । ** ततो जागरणं कुर्याद्गीतनृत्य-समन्वितम् ॥४८४॥
इति पक्षवर्द्धिनी-व्रतम् ।
अथ जयान्वतम्
ब्रह्मपुराणे श्रीवशिष्ठमान्धातृसंवादे—
द्वादश्यान् तु सिते पक्षे ऋक्षं यदि पुनर्वसुः । **नाम्ना सा तु जया ख्याता तिथीनाम् उत्तमा तिथिः ॥४८५॥ ** **तम् उपोष्य नरो घोरे नरके नैव मज्जति । ** अग्निष्टोमादि-यज्ञानां फलम् आप्नोत्य् असंशयम् ॥४८६॥ इति । **
जयाव्रतम् अनुष्ठेयं यथैवोन्मीलनी-व्रतम् ॥४८७॥ **
तदुक्तं मार्कण्डेयेन—
**शालग्रामशिलावारि तुलसीजलमेव च । ** सममेवोद्धरेत्तत्र विजयाव्रतमाचरेत् ॥४८८॥
घोर इति स्वरूपमात्रनिर्देशः उन्मीलनीव्रतमिव जयाव्रतं कार्यमिति तत्र यो विधिरुक्तः सोऽत्रापि द्रष्टव्य इत्य् अर्थः । विजयाव्रतन्तु नद्यादिसङ्गम एव कार्यम् ॥४८६-४८८॥
अथ विजयाव्रतम्
ब्रह्मपुराणे तत्रैव—
**यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । ** विजया सा तिथिः प्रोक्ता तिथीनामुत्तमा तिथिः ॥४८९॥
विष्णुधर्मोत्तरे च—
**यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । ** तदा सा तु महापुण्या द्वादशी विजया स्मृता ॥४९०॥ **तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः । ** **सम्पूज्ये वर्षपूजायाः सकलं फलमश्नुते ॥४९१॥ ** **एकजप्यात् सहस्रस्य जप्तस्याप्नोति यत् फलम् । ** दानं सहस्रगुणितं तथा वै विप्रभोजनम् । होमस्तत्रोपवासश् च सहस्रगुणितो भवेत् ॥४९२॥
अथ विजयाव्रतविधिः **आदौ गुरुं नमस्कृत्य ततः सङ्कल्पमाचरेत् । ** शरशार्ङ्गधरं देवं सौवर्णं रचयेत्तथा ॥४९३॥
शरं शार्ङ्गञ्चायुधं धारयतीति तथा तम् ॥४९३॥
अथ विजयाव्रत-सङ्कल्पमन्त्रः
**द्वादश्यान्त निराहारः स्थित्वाऽहमपरेऽहनि । ** भोक्ष्ये त्रिविक्रमानन्त शरणं मे भवाच्युत ॥४९४॥ **सोपवीतन्तु कलसं पूर्ववत् स्थापयेद्व्रती । ** **पात्रं तदुपरि न्यस्येत्ताम्रं वैणवमेव वा ॥४९५॥ ** **तत्रोपवेश्य संस्थाप्य देवं विषदचन्दनैः । ** **आलिप्य शुभ्रं वसनं दद्याच्छत्रं च पादुके ॥४९६॥ ** **वासुदेवायेति शिरः श्रीधरायेति वै मुखम् । ** कृष्णायेति च कण्ठं वै वक्षः श्रीपतये इति ॥४९७॥ **शस्त्रास्त्रधारिणे बाहुं कक्षे च व्यापकाय वै । ** गिरीशायोदरं मेढ्रं त्रैलोक्यजननाय च ॥४९८॥ **जघनं चार्चयेद्विद्वान् सर्वाधिपतये इति । ** सर्वात्मने इति पदावेवमङ्गानि पूजयेत् ॥४९९॥
अवयवपूजामन्त्रं लिखति—वासुदेवायेति द्वाभ्याम् । पूर्ववत् सर्वत्रैव नमःशब्द-प्रयागो ज्ञेयः । पूजयेद् इत्युत्तरेण शिरआदीनां सर्वेषामन्वयः ॥४९७-४९९॥
अथ तत्र विजयाव्रतार्घ्यमन्त्रः
**शङ्खचक्रगदापद्म-सारङ्गशरभूषित । ** **गृहाणार्ध्यं मया दत्तं पाङ्गर्पाणे नमोऽस्तु ते ॥५००॥ ** इत्यर्ध्यं पूर्ववत् कृत्वा धूपदीपौ समर्प्य च । घृतपक्वप्रधानानि नैवेद्यानि निवेदयेत् ॥५०१॥ **ताम्बूलादीनि दत्त्वाथ कृत्वा जागरणं निशि । ** प्रातः स्नात्वार्चयित्वेशं पुष्पाञ्जलिमथार्पयेत् ॥५०२॥
अथ तत्र विजयाव्रते प्रार्थनामन्त्रः **नमस्ते अस्तु गोविन्द बुधश्रवणसञ्ज्ञक । ** अघोरं चाक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥५०३॥ **इति प्रार्थ्य ततः सर्वं दत्त्वा चार्ध्यं प्रतोष्य हि । ** **भक्त्या विप्रान् भोजयित्वा सुखं पारणमाचरेत् ॥५०४॥ **
अर्घ्यमन्त्रः—शङ्खेत्यादिः । सर्वं श्रीमूर्त्यादिकम् ॥५००-५०४॥
**भाद्रे मासि बुधस्याह्नि यदि स्याद्विजयाव्रतम् । ** तदा सर्वव्रतेभ्योऽस्य माहात्म्यतिरिच्यते ॥५०५॥
अथ जयन्तीव्रतम्
ब्रह्मपुराणे—
यदा तु शुक्लद्वादश्यां प्राजापत्यं प्रजायते । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥५०६॥ सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । **तत् क्षयं याति गोविन्दं तस्यामभ्यर्च्य भक्तितः ॥५०७॥ **
स्कान्दे च श्रीब्रह्मनारद-संवादे—
**सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् । ** **द्वादश्यां रोहिणीयोगे जयन्ती नाम सुव्रतम् ॥५०८॥ **
किञ्च—
**जीवतां याति यत्कालो जयन्तीवासरं विना । ** तत् खण्डमायूषो व्यर्थं नराणामुपजायते ॥५०९॥
कालविशेषे चास्य व्रतस्य फलविशेषं लिखति—भाद्र इति । तदानीं श्रीवामनदेव-प्रादुर्भवात् एवमग्रेऽपि । प्राजापत्यं रोहिणीनक्षत्रम् जयन्तीवासरं तद्व्रतं विनेत्यर्थः ॥५०५-५०९॥
अथ तद्व्रतविधिः
**गुरुं प्रणम्य सम्प्रार्थ्य गृह्णीयान्नियमं कृती । ** कृष्णस्तिलैश् च मध्याह्ने स्नायाद्धात्रीफलेन च ॥५१०॥
गुरुं सम्प्रार्थ्य च प्रार्थना प्रकारश्चोक्तः स्कान्दे नारदं प्रति श्रीब्रह्मणा—आदौ गुरुगृहं गत्वा पश्चान्नियममाचरेत् । शिरस्तत्पादयोः कृत्वा पादौ स्पृष्टा च मौलिना ॥ कृनाञ्जलिपुटो भूत्वा प्रार्थयेत गुरुं ततः । नियमं देहि विप्रेन्द्र द्वादश्यां च मम प्रभो ॥ इति नियमं व्रतसङ्कल्पं गृह्णीयाच्छ्रद्धयाचरेत् तथा च तत्रैव—गृह्णीयान्नियमं पूर्वं दन्तधावनपूर्वकम् । नियमान् फलमाप्नोति न श्रेयो नियमं विना ॥ इति । एतच्च पूर्वलिखितानुसारेण एकादश्यामेवेति बोद्धव्यम् । अथ द्वादशीकृत्यमाह—कृष्णैर् अत्यादिना । कृष्णतिलैर् धात्रीफलेन स्नायादिति धात्रीफलेन शिरोऽभ्यङ्गं कृष्णतिलैश् च गात्रपरिमार्जनं कुर्याद् इत्य् अर्थः । तथा च तत्रैव—उपोषितश् च मध्याह्ने स्नायात् कृष्णतिलैस्ततः । कृत्वा मूर्ध्न फलं धात्र्या महापुण्यविवृद्धये ॥ इति ॥५१०॥
अथ सङ्कल्पमन्त्र
**जयन्त्यान्तु निराहारः श्वोभूते परमेश्वर । ** **भोक्ष्यामि पुण्डरीकाक्ष शरणञ्चरणौ तव ॥५११॥ इति। ** पूर्ववत् स्थापयेत् कुम्भं तस्योपरि च भाजनम् । **हैर् अण्यं राजतं ताम्रं वैणवं वा तिलैर् भूतम् ॥५१२॥ **
पूर्ववदिति—जलपूर्णं नवं कुम्भं चन्दनेनैव चर्चितम् । पञ्चरत्नसमायुक्तं पुष्पमालाविभूषितम् ॥ इति यथा पक्षवर्धिनीव्रते प्रोक्तं तद्वद् इत्य् अर्थः । तथा च स्कान्दे तत्रैव—कृत्वा माध्याह्निकं कर्म स्थापयेदव्रणं घटम् । पञ्चरत्नसमायुक्तं पवित्रोदकपूरितम् ॥ सचन्दनं गन्धयुक्तं कर्पूरेण सुवासितम् । सुधूपवासितं शुभ्रपुष्पमालाभिशाभितम् ॥ इति । तस्य कुम्भस्योपरि भाजनं च पात्रं स्थापयेत् । तदेव विशिनष्टि—हैर् अण्यमिति । तत्र पूर्वपूर्वाभावे उत्तरोत्तरं स्थापयेदिति ज्ञेयम् । तथा च तत्रैव—तस्योपरि न्यसेत् पात्रं सौवर्णं श्रद्धयान्वितः । तदभावेन वै रूप्यं ताम्रं वेणुमयं मुने ॥ इति ॥५१२॥
**तत्र च स्नापितं हैमं देवकीस्तनपायिनम् । ** मातृवक्त्रेक्षकं देवं निवेश्यावाहयेव्रती ॥५१३॥
देवकीस्तनपायिनमिति—हेम्ना श्रीदेवक्याः प्रतिमां कृत्वा तदङ्के स्तनपानतरां श्रीभगवन्मूर्तिं शास्त्रोक्तलक्षणां कृत्वा तत्र पात्रे निवेश्यावाहयेद् इत्य् अर्थः । कथम्भूतम् स्नापितं क्षीरादिना कारितस्नानम् । तल्लक्षणं किञ्चिदुल्लिखति—मातुर्देवक्या वक्तेक्षकं मुखमवलोकयन्तमित्य् अर्थः । तथा च तत्रैव—तस्योपरि न्यसेद्देवीं हैमीं लक्षणसंयुताम् । ददमानान्तु पुत्त्रस्य स्तन्यं वै विस्मिताननाम् ॥ पिबन्मातुः स्तनं भद्रमाननं पाणिना स्पृशन् । अवलोकमानः प्रेम्णा वै मुखं मातुर्मुहुर्मुहुः ॥ इति ॥५१३॥
अथ तत्र जयन्तीव्रते आवाहनमन्त्रः
**एहि एहि जगन्नाथ वैकुण्ठ पुरुषोत्तम । ** **परिवारगणोपेत लक्ष्म्या सह जगत्पते ॥५१४॥ इति । ** प्रतिष्ठाप्य मनोज्योतिरिति मन्त्रेण वैष्णवः । पाद्यादीनुपकल्प्यानुलेपनैर् अनुलेपयेत् ॥५१५॥
अनुलेपनैस्तुलसीकाष्ठचन्दनमिश्रित-मलयजकुङ्कुमकर्पूरागुरुकस्तूरिकादिपङ्कैः अनुलेपयेद्देवम् । तथा च स्कान्दे तत्रैव—तुलसीदारुजातेन चन्दनेन विलेपनम् । कुङ्कुमेन महाभाग कर्पूरागुरुचर्चितम् । पद्मकाश्मीरगन्धैश् च मृगनाभिविमिश्चितम् ॥ इति । अत्र च प्रकल्पयेदिति पूर्वश्लोकस्थक्रिययान्वयः ॥५१५॥
**वस्त्रयुग्मं सितं दत्त्वा पुष्पादीनि समर्पयेत् । ** **दीपान् प्रज्वालयेच्छक्त्या कुर्यात् कुसुममण्डपम् ॥५१६॥ **
पुष्पाणि मल्लिकामालती-चम्पकादीनि शब्देन तुलसी-मञ्जरीदल-बिल्वपत्रादीनि । तथा कुष्माण्डनारिकेलफलादीनि च ग्राह्याणि । तथा च तत्रैव—मल्लिकामालतीपूष्पैश्चम्पकैः केतकीदलैः । बिल्वपत्रैर् अखण्डैश् च तुलसीदलकोमलैः ॥ अन्यैर् नानाविधैः पूष्पैः करवीरैः सितासितैः । यूथिकाशातपत्रैश् च तथान्यैः कालसम्भवैः ॥ पूजनीया महाभागो महाभक्त्या जनार्दनः । कुष्माण्डैर् नारिकेलैश् च खर्जूरैर् दाडिमैस्तथा ॥ बीजपूरैः पूगफलैः सुनिष्पन्नैः सुशोभनैः । द्राक्षाफलैर् जातिफलैर् अम्भावृक्षसमुद्भवैः ॥ इति ॥५१६॥
**गीतवाद्यादिभिः शान्तिपाठैः स्तोत्रैश् च कीर्तनैः । ** आरभेताशठः पूजां गुरुं सम्पूज्य भक्तितः ॥५१७॥
स्तोत्रादीनि च तत्रैवोक्तानि—शान्तिपाठं शास्त्रपाठं गीतापाठं तृतीयकम् । सहस्रनाम चातुर्थं पञ्चमं गजमोक्षणम् । बालस्य चरितं विष्णोः पठनीयं पुनः पुनः ॥ इति । अशठः भगवदर्चनगुरुपूजादौ वित्तादिशाठ्यहीनः सन् । तथा च तत्रैव—श्राद्धे दाने तथा पर्वतीर्थव्रतमखेषु च । वित्तशाठ्यं न कुर्वीत सर्वधर्म प्रयोजने ॥ भविष्ये च—विभवे सति यो मोहान्न कुर्याद्विधिविरतरम् । न तत्फलमवाप्नोति देवद्रोही स उच्यते ॥ प्रथमं भक्त्या गुरुं सम्यक् पूजयित्वा पश्चात् पूजामारभेत तथा स्कान्दे तत्रैव—अतिक्रम्य नरो यस्तु गुरुं धर्मोपदेशकम् । विप्रेन्द्र स्वेच्छया पुण्यं कुर्वाणो नरकं व्रजेत् ॥ अभिवाद्य गुरु तस्माद्धर्मकार्याणि कारयेत् । धर्ममर्थं च कामं च यदीच्छेदात्मनो हितम् ॥ वद्यात् स्वशत्ति तो भक्त्या गां महीं काञ्चनं वसु । शुक्लं धान्यं च वस्त्रं च भूषणं मधुरं वचः । ततः पूजा विधातव्या देवक्याः केशवस्य च ॥ इति ॥५१७॥
अथ तत्रादौ श्रीदेवकोपूजा
**अदिते देवमातस्त्वं सर्वपापप्रणाशिनि । ** अतस्त्वां पूजयिष्यामि भीतो भवभयस्य तु ॥५१८॥ **पूजितासि यथा देवैः प्रसन्ना त्वं वरानने । ** **पूजिता मे तथा भक्त्या प्रसादं कुरु सुव्रते ॥५१९॥ ** **यथा पुत्रं हरिं लब्ध्वा प्राप्ता ते निर्वृति परा । ** तामेव निर्वृतिं देवि स्वपुत्रात् दर्शयस्व मे ॥५२०॥ **मन्त्रेणानेन सम्पूज्य देवकीं कृष्णमर्चयेत् । ** ततः समातृकायार्ध्यं तस्मै पूर्ववदर्पयेत् ॥५२१॥
अथ तत्र पूजामन्त्रः **अवतारसहस्राणि करोषि मधुसूदन । ** **न ते सङ्ख्यावताराणां कश्चिज्जानाति वै भुवि ॥५२२॥ ** **देवा ब्रह्मादयो वापि स्वरूपं न विदुस्तव । ** अतस्त्वां पूजयिष्यामि मातुरुत्सङ्ग संस्थितम् ॥५२३॥ **वाञ्छितं कुरु मे देव दुष्कृतं चैव नाशय । ** कुरुष्व मे दयां देव संसारार्तिभयापह ॥५२४॥ इति ।
अथ अर्घ्यमन्त्रः **जातः कंसबधार्थाय भूभारोत्तारणाय च । ** **देवतानां हितार्थाय धर्मसंस्थापनाय च ॥५२५॥ ** **कौरवाणां विनाशाय दैत्यानां निधनाय च । ** गृहाणार्ध्यं मया दत्तं देववया सहितो हरे ॥५२६॥ इति ।
अनेन अदिते इत्यादिनादौ देवकीं सम्पूज्य ततः कृष्णं पूजयेत् समातृकाय देवकीसहिताय । तथा च तत्रैव—कृष्णाय प्रथमं दद्याद्देवकीसहिताय च । अर्घ्यं मुनिवरश्रेष्ठ सर्वकामफलप्रदम् ॥ इति । अतएव मन्त्रेऽपि देवक्या सहितो हरे इति । मन्त्रविशेषश् च तत्रैव—श्रीकृष्णाय देवकीसहिताय सगणाय सपरिवाराय लक्ष्मीसहिताय अर्घ्यं नमः इति पूर्ववत् इति नारिकेलेन शुभ्रेणेत्यादिकं यत् पक्षवर्धिनीव्रतादावप्युक्तं तदनुसारतः पुष्पादिसहितं शुभ्रनारिकलशस्यं शङ्खेनिधाय तेनार्घ्यं दद्याद् इत्य् अर्थः ॥५१८-५२६॥
अथ अर्घ्यमाहात्म्यञ्च
स्कान्दे तत्रैव—
**दत्त्वा च सकलामुर्वीं ससागरनगान्विताम् । ** **अर्घ्यदानेन तत् पुण्यं लभते मानवो भुवि ॥५२७॥ इति । **
सकलां पृथ्वीं दत्त्वा यत् पुण्यं लभते तदर्घ्यदानेन लभते इत्य् अर्थः ॥५२७॥
**धूपदीपौ समर्प्याथ नैवेद्यं विविधं शुभम् । ** फलानि च विचित्राणि ताम्बूलादीनि चार्पयेत् ॥५२८॥
विविधं घृतपक्वपायसाद्यनेकप्रकारं शुभं परमोत्कृष्टं फलानि च कुष्माण्डादीनि तानि स्कान्दोक्तानि लिखितान्येव । आदि-शब्देन दर्पणच्छत्रचामरादीनि च ॥५२८॥
**कृत्वा नीराजनं गीतं नृत्याद्युत्सवमाचरन् । ** कुर्याज्जागरणं कृष्णबाल्यलीलाकथादिना ॥५२९॥
कृष्णस्य बाल्यलीलायाः कथा कथनं तदादिना आदि-शब्देन तच्छ्रवणादि प्रौढलीलाकथादि च । तथा च तत्रैव बालस्याचरितं विष्णोः इति लिखितमेव । किं च जागरणप्रसङ्गे—चरितं देवकीसूनोर्वाचनीयं विचक्षणैः इति ॥५२९॥
अथ तन्माहात्म्यम्
स्कान्दे तत्रैव—
**जागरे पद्मनाभस्य पुराणं पठते तु यः । ** जन्मकोटिकृतं पापं दहते तुलराशिवत् ॥५३०॥ इति ।
दहते दहति तूलराशिवदिति यथाग्निस्तूलराशिं सद्यो दहेत्तद्वद् इत्य् अर्थः । हरत इति पाठेऽपि तथैवार्थः । यद् वा, वायुर्यथा तूलराशिं हरतीति ॥५३०॥
प्रातः कृत्वा कियां नित्यां तन्मुर्तिं गुरुवेऽर्पयेत् । **वस्त्रादिकं दक्षिणां च दत्त्वा कुर्वीत पारणम् ॥५३१॥ **
किं च तत्रैव—
**विधिनानेन संयुक्तां जयन्तीं च करोति यः । ** नारी वोद्धरते भक्त्या पुरुषानेकर्विशतिम् ॥५३२॥ **सङ्क्षेपेण च यः कुर्याज्जयन्तीं हरिवल्लभाम् । ** मानसेष्टफलं प्राप्य विष्णुलोकं स गच्छति ॥५३३॥
तां मूर्तिं पूर्वनिम्मितां पूजितां श्रीदेवकीसहितां भगवत्प्रतिकृतिम् एवं विसर्जनं कृतमस्तीति बोद्धव्यम् । तच्च सर्वत्र साधारणतया प्राप्तत्वान्न स्पष्टं लिखितम् आदि-शब्देन शक्तौ कुण्डलकञ्चुकोष्णीषमुद्रिकादि ॥५३१-५३३॥
अथ पापनाशिनीव्रतम्
ब्रह्मपुराणे तत्रैव—
**यदा तु शुक्लद्वादश्यां पुष्या भवति कर्हिचित् । ** तदा सा तु महापुण्या कथिता पापनाशिनी ॥५३४॥ **सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना । ** तस्यामाराधितः कृष्णो दत्तवानखिलां भुवम् ॥५३५॥ **वाचिकान्मानसात् पापात् कायिकाच्च विशेषतः । सप्तजन्मकृताद्घोरान्मुच्यते नात्र संशयः ॥५३६॥ इमामेकामुपौष्यैव पुष्यानक्षत्रसंयुताम् । ** एकादशीसहस्रस्य फलमाप्नोति मानवः ॥५३७॥ **स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । ** **यदस्यां क्रियते किञ्चित्तदनन्तगुणं भवेत् ॥५३८॥ ** तस्मादेषा प्रयत्नेन कर्तव्या फलकाङ्क्षिभिः ॥५३९॥
अथ तद्व्रतविधिः गुरुं प्रणम्य नियमं स्वीकुर्याद्व्रतहेतुकम् । कुम्भमामलकीमूले पूर्ववत् स्थापयेद्व्रती ॥५४०॥
अथ तत्र सङ्कल्पमन्त्रः **द्वादश्यान्तु निराहारः स्थित्वाऽहमपरेऽहनि । ** भोक्ष्यामि जामदग्न्येश शरणं मे भवाच्युत ॥५४१॥ इति । **वारिपूर्णं ततः पात्रं न्यसेत् कुम्भोपरि व्रत्तो । ** **सुन्दरं ताम्ररचितं वेणुरचितमेव वा ॥५४२॥ ** **माषकेण तदर्द्धेन तदर्द्धेनाथवा कृतम् । ** **हैमं परशुरामं च स्नपितं स्थापयेत्ततः ॥५४३॥ **
माषकेण सुवर्णस्येति ज्ञेयम् हैममिति विशेषणान् । कृतम्—विनिर्मितम् ॥५४३॥
**दत्त्वा वस्त्रयुगच्छत्रपादुकाः श्वेतचन्दनैः । ** आलिप्य तुलसीपुष्पैर् अभ्यर्च्याङ्गानि पूजयेत् ॥५४४॥
अथ तत्राङ्ग्पूजा **विशोकायेति चरणौ जानुनी विश्वरूपिणे । ** **हयग्रीवायेति चोरू कटिं दामोदराय च ॥५४५॥ ** **कन्दर्पायेति वै गुह्यं नाभिं वै पद्ममालिने । ** **अनन्तायेति जठरं श्रीकण्ठायेति वै गलम् ॥५४६॥ ** **बाहू हैमाङ्गदायेति वैकुण्ठायेति मस्तकम् । ** **ज्योतीरूपायेति नेत्रे नासाग्रं शोकनाशिने ॥५४७॥ ** **ललाटं वामनायेति रामायेति श्रुवौ यजेत् । ** सर्वात्मने समस्ताङ्गं शस्त्राणि स्वस्वसञ्ज्ञया ॥५४८॥ **प्रदाय पूर्ववच्चार्ध्यं धूपदीपौ समर्प्य च । ** नैवेद्यादि प्रदायाथ देवं सम्प्रार्थयेच्च तम् ॥५४९॥
विशोकाय नमः इति चरणौ यजेत् पूजयेद् इत्युत्तरेणान्वयः । एवं पूर्ववत् सर्वत्रैवोन्नेयम् । अतो यत्रेतिशब्दो नास्ति तत्र सोऽध्याहार्य इति । यत्र एते सर्वे मन्त्रा इति । तम्-श्रीपरशुरामरूपम् ॥५४५-५४९॥
अथ तत्र अर्घ्यमन्त्रः
**नमस्ते देवदेवेश जामदग्न्य नमोऽस्तु ते । ** गृहाणार्ध्यां मया दत्तमामल्या सहितो हरे ॥५५०॥
अथ तत्र प्रार्थनामन्त्रः **जामदग्न्य नमस्तेऽस्तु क्षत्रियान्तकराय च । ** सर्वाणि यानि पापानि सप्तजन्मकृतान्यपि ॥५५१॥ **क्षयं यान्तु ममैवाद्य त्वत्प्रसादाच्च भार्गव । ** वाचिकं मानसं पापं ज्ञानतोऽज्ञानतोऽपि वा ॥५५२॥ **आयुर्यशस्तथारोग्यं धनं धान्यं च सम्पदम् । ** सौभाग्यं तव भक्तस्य सन्तानं विपुलं भवेत् ॥५५३॥ सर्वान् कामानाप्नुवानि दिव्यं सौख्यं निरन्तरम् । **अन्तेऽप्यस्तु ममेशान भक्तिस्त्वच्चरणे प्रभो ॥५५४॥ ** **जनार्दन हृषीकेश लक्ष्मीनाथ सुरार्चित । ** **राम राम महाबाहो कार्तवीर्यविनाशन ॥५५५॥ ** **एतत् सर्वं मया दत्तं ज्ञानं ज्ञेयं तवाच्युत । ** मामुद्धर जगन्नाथ दयां कृत्वा ममोपरि ॥५५६॥
ज्ञानादिकं च सर्वं तव तुभ्यं दत्तमर्पितम् ॥५५६॥
अथ धात्रीपूजा
**पिता पितामहाश्चान्ये अपुत्रा ये च गोत्रिणः । ** वृक्षयोर्नि गता ये च ये च कीटत्वमागताः ॥५५७॥ **रौरवे नरके ये च महारौरवसञ्ज्ञके । ** **वियोनिं च गता ये च ये च ब्रह्माण्डमध्यगाः ॥५५८॥ ** **पिशाचत्वं गता ये च ये च प्रेतत्वमागताः । ** ते पिबन्तु मया दत्तं धात्रीमूले सदा पयः ॥५५९॥ **ते सर्वे तृप्तिमायान्तु धात्रीमूलनिषेचनात् ॥५५०॥ ** **इति धात्रीं चाभिषिच्य वारानष्टोत्तरं शतम् । ** **तां च प्रदक्षिणीकृत्य कुर्याज्जागरणं व्रती ॥५६१॥ ** **प्रातश् च देवं नीराज्य नित्यं कर्म समाप्य च । ** **मूर्त्यादि गुरवे दत्त्वा प्राम्वत् पारणमाचरेत् ॥५६२॥ **
प्राग्वत्—शक्त्या ब्राह्मणभोजनादिना ॥५६२॥
**फाल्गुने मासि यद्येषा द्वादशी पापनाशिनी । ** भवेत्तदा व्रतस्थास्य महिमा स्याद्विशेषतः ॥५६३॥ **इति क्रमेण लिखितं विजयादिव्रतत्रयम् । ** भविष्योत्तरस्कान्दाभ्यां श्रीब्रह्माण्डपुराणतः ॥५६४॥
विजयादि-व्रतत्रयं तत्तद्विधिश् च भविष्योत्तरादितोलिखितमिति तत्र तत्रोक्तं सङ्क्षिप्यार्थतो लिखितं न तु तत्तद्वचनानि सङ्गृहीतानि ग्रन्थविस्तरभयाद् इत्य् अर्थः । अतएव तत्तद्विधिलिखने भविष्योत्तर इत्यादिकं नोल्लिखितम् । क्रमेणेति भविष्योत्तरतो विजयाव्रतं स्कन्दपुराणाज्जयन्तीव्रतं ब्रह्माण्डपुराणाच्च पापनाशिनीव्रतमिति ॥५६४॥
**अन्येऽपि द्वादशीभेदा बहवः सन्ति विश्रुताः । ** अग्रतो लेखनीयास्ते तत्तन्मासप्रसङ्गतः ॥५६५॥
अन्येऽपि मत्स्यादि-द्वादश्यो निर्जलाद्याश् च ॥५६५॥
इति त्रयोदशो विलासः ।
इति श्रीगोपालभट्ट-विलिखिते श्रीभगवद्भक्तिविलासे विष्णुव्रतीत्सवो नाम त्रयोदशो विलासः ।