१२ एकादशी

द्वादशो विलासः

एकादशी-निर्णयः

नमो भगवते तस्मै यस्य प्रियतमा तिथिः ।
एकादशी द्वादशी च सर्वाभीष्ट-प्रदा नृणाम् ॥१॥

श्री-चैतन्यम् अहं वन्दे यद्-आश्रय-रसाप्लुतः ।

वाञ्छातीतं फलत्य् एव मनोरथ-महीरुहः ॥

पूर्वं नित्य-कृत्य-लिखनेन नित्य-पूजा-विधिं लिखित्वा समाप्याधुना पक्ष-पूजा-विधिं लिखन् प्रारिप्सित-सुसिद्धये लेखा-प्रकरणानुसारेण देवं प्रणमति—नम इति । यस्य भगवतः प्रियतमा परम-वल्लभा एकादशी द्वादशी च तिथिर् एव नृणां सर्वाभीष्टं प्रकर्षेण ददातीत्य् अर्थः ॥१॥

अथ पक्ष-कृत्यानि

इत्थं च नित्यं कुर्वाणः क-पूजा-महोत्सवम् ।
हरेर् दिने विशेषेण कुर्यात् तं पक्षयोर् द्वयोः ॥२॥

इत्थं पूर्व-लिखित-प्रकारेण, क-पूजैव महोत्स्व-रतं, हरेर् दिनम् एकादशी द्वादशी चेत्य् उपवास-दिनं लक्ष्यते तस्मिन् । तं क-पूजा-महोत्सवम् ॥२॥

अत्र व्रतस्य नित्यत्वाद् अवश्यं तत् समाचरेत् ।
सर्व-पापापहं सर्वार्थदं श्री-कृष्ण-तोषणम् ॥३॥

तत्र हरि-दिने तद् व्रतं, तत्-फलं समासेनोल्लिहति—सर्वेति ॥३॥

अथ श्रीमद्-एकादशी-व्रतस्य नित्यत्वम्

तच् च कृष्ण-प्रीणनत्वाद् विधि-प्राप्तत्वतस् तथा ।
भोजनस्य निषधाच् चाकरणे प्रत्यवायतः ॥४॥

तत्र च श्री-भगवत्-तोषणत्वेन विधि-प्राप्तत्वेन भोजन-निषेधेन अकरणे प्रत्यवायोत्पत्त्या चेति चतुर्धा नित्यत्वं लिखितं तच् चेति । यद्यपि अकरणे प्रत्यवायत एव मुख्यं नित्यत्वं, तथापि श्री-विष्णु-पुराणानां श्री-भगवत्-प्रीणनत्वेनैव परमं मुख्यं तत् लिखितम् । तथा सामान्यतो विहित-निषेधातिक्रमेण सर्वत्र दोष-श्रवणात् विधि-निषेध-प्राप्ततया च नित्यत्वं सिध्येद् एव । तच् च श्री-हेमाद्रि-प्रभृतिभिर् विवृत्य लिखितम् एवास्तीत्य् अत्र तद्-विस्तारणेनालम् । एवं सर्वत्र्न्यत्राप्य् ऊह्यम् ।

तत्र श्री-भगवत्-प्रीति-हेतुत्वम्

मत्स्य-भविष्य-पुराणयोः—

एकादश्यां निराहारो यो भुङ्क्ते द्वादशी-दिने ।
शुक्ला वा यदि वा कृष्णा तद् व्रतं वैष्णवं महत् ॥५॥

आग्नेये—

एकादश्यां न भुञ्जीत व्रतम् एतद् धि वैष्णवम् ॥६॥

तत्र श्री-वैष्णवानां मुख्यतम-नित्यत्वम् अदौ लिखति एकादश्याम् इति । वैष्णवं विष्णु-प्रियतमम् इत्य् अर्थः ॥५-६॥

बृहन्-नारदीये एकादशी-माहात्म्यारम्भे [१.२३.२-३]—

ब्राह्मण-क्षत्रिय-विशां शूद्राणां चैव योषिताम् ।
मोक्ष-दं कुर्वतां भक्त्या विष्णोः प्रियतरं द्विज ॥७॥
एकादशी-व्रतं नाम सर्वाभीष्ट-प्रदं नृणाम् ।
कर्तव्यं सर्वथा विप्र विष्णु-प्रीति-करं यतः ॥८॥

कुर्वताम् एकारशी-व्रतम् इति ज्ञेयम् ॥७॥ विप्रैर् इति तेषां मुख्यत्वात् ॥८॥

अथ विधि-प्राप्तत्वम्

तत्र कण्वः—

एकादश्याम् उपवसेन् न कदाचिद् अतिक्रमेत् ॥९॥

आग्नेये—

उपोष्यकादशी राजन् यावद्-आयुः-प्रवृत्तिभिः ॥१०॥

अतएव विष्णु-रहस्ये—

द्वादशी न प्रमोक्तव्या यावद्-आयुः-प्रवृत्तिभिः ॥११॥

यावद्-आयुः-प्रवृत्तिभिर् इति यावज्-जीवम् इत्य् अर्थः ॥ एतेन न कदाचिद् अतिक्रमेद् इत्य् अनेन नित्यत्वं साधितम् एव । तद् एव त्याग-निषेधेन साधयति—द्वादशीति ॥११॥

अथ भोजन-निषेधः

श्री-नारदीये [२.२४.२३] पाद्मोत्तर-खण्डे [६.२३४.११] च—

रटन्तीह पुराणानि भूयो भूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे॥१२॥

रटन्ति घोषयन्ति । वरानने हे मोहिनीति श्री-रुक्माङ्गद-वाक्यम् । पाद्मोत्तर-खण्डे च श्री-दुर्गां प्रति श्री-शिवस्य ॥१२॥

किं च—

आगमाः शतशो राजन्न् इतिहासा रटन्ति हि ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे ॥१३॥
ऋषयः सङ्घशः सर्वे नारदाद्याश् च चुक्रुशुः ।
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरि-वासरे ॥१४॥

विष्णु-स्मृतौ—

एकादश्यां न भुञ्जीत कदाचिद् अपि मानवः ॥१५॥

शृङ्गि-ऋषि-प्रोक्ते च—

एकादश्यां न भुञ्जीत दृष्टे रजस्य् अपि ॥१६॥

बृहन्-नारदीये तत्रैव [१.२३.५]—

उपवास फलं लिप्सुर् जह्याद् भुक्ति-चतुष्टयम् ।
पूर्वापर-दिने रात्राव् अहो-रात्रं तु मध्यमे ॥१७॥

अन्यत्र च—

सायम् आद्य्-अन्तयोर् अह्नोः सायं प्रातश् च मध्यमे ।
उपवास-फलं प्रेप्सुर् जह्याद् भुक्त-चतुष्टयम् ॥१८॥

उपवासस्य फलं श्री-भगवत्-तोषणादि । तत् प्राप्तम् इच्छुः, पूर्वस्मिन् संयम-दिने अपरस्मिंश् च पारण-दिने रात्रौ जह्याद् इति भोजन-द्वयम् । तथा मध्यमे उपवास-दिने दिवा नक्तं चेति भोजन-द्वयम् एव भोजन-चतुष्टयं परित्यजेत् । भक्तेति पाठे’पि स एवार्थः । यच् चोक्तं—जह्याद् भक्त-द्वयं नित्ये काम्ये भक्त-चतुष्टयम् इति । तच् च वैष्णवेतरेषु कामिषु गृहिषु नित्य-काम्य-भेदाभिप्रायेणैव । वैष्णवेषु च सर्वथा न्तियम् एव फल-श्रवणादिकं च दर्श-पौर्णमासादिवन् नित्यत्वे’पि न विरुध्यत इति दिक् ॥१७-१८॥

अथाकरणे प्रत्यवायाः

श्री-नारदीये [१.२३.८]—

यानि कानि च पापानि ब्रह्म-हत्या-समानि च ।
अन्नम् आश्रित्य तिष्ठन्ति सम्प्राप्ते हरि-वासरे ।
तानि पापान्य् अवाप्नोति भुञ्जानो हरि-वासरे॥१९॥

किं च [२.३.१६]—

सोऽश्नाति पार्थिवं पापं योऽश्नाति हरि-वासरे॥२०॥

पार्थिवं पृथिव्यां वर्तमानं सर्वम् इत्य् अर्थः ॥२०॥

स्कान्दे—

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।
एकादश्यां तु यो भुङ्क्ते विष्णु-लोक-च्युतो भवेत्॥२१॥

यो भुङ्क्ते स मातृहादिर् भवति । तत्-तद्-वध-पापं प्राप्नोतीत्य् अर्थः । विष्णु-लोकात् वैकुण्ठात् च्युतो भवति, न कदाचिद् अपि गच्छतीत्य् अर्थः । यद् वा, विष्णु-लोकात् वैष्णवाच् च्युतो भवति । तत्-सङ्गं न प्राप्नोतीत्य् अर्थः ॥२१॥

किं च, तत्रैवोमा-महेश्वर-संवादे—

अग्निवर्णायसं तीक्ष्णं क्षिपन्ति यम-किङ्कराः ।
मुखे तेषां महादेवि ये भुञ्जन्ति हरेर् दिने ॥२२॥

हरेर् दिने हरि-वासरे ॥२२॥

ब्रह्म-वैवर्ते—

स केवलम् अघं भुङ्क्ते यो भुङ्क्ते हरि-वासरे ।
दिने’त्र सर्व-पापानि भवन्त्य् अन्न-स्थितानि तु ।
तानि मोहेन यो’श्नाति न स पापैर् विमुच्यते ॥२३॥

किं च—

पितरं को न वन्देत मातरं को न पूजयेत् ।
को हि दूषयते वेदं को भुङ्क्ते हरि-वासरे ॥२४॥

विष्णु-धर्मोत्तरे—

ब्रह्मचारी गृहस्थो वा वानप्रस्थो’थवा यतिः ।
एकादश्यां हि भुञ्जानो भुङ्क्ते गो-मांसम् एव हि ॥२५॥
ब्रह्मघ्नस्य सुरापस्य स्तेयिनो गुरु-तल्पिनः ।
निष्कृतिर् धर्म-शास्त्रोक्ता नैकादश्य्-अन्न-भोजिनः ॥२६॥

निष्कृतिः प्रायश्चित्तम् अस्ति ॥२६॥

एक एव नरः पापी नरके नृप गच्छति ।
एकादश्य्-अन्न-भोजी यः पितृभिः सह मज्जति ॥२७॥

नरके मज्जति ॥२७॥

पाद्मोत्तर-खण्डे—

भुङ्क्ष्व भुङ्क्ष्वेति यो ब्रूयात् सम्प्राप्ते हरि-वासरे ।
गो-ब्राह्मण-स्त्रियश् चापि जहीहि वदति क्वचित् ॥२८॥
मद्यं पिबेति यो ब्रूयात् तेषाम् एव अधो-गतिः ॥२९॥
पुरोडाशो’पि वामोरु सम्प्राप्ते हरि-वासरे ।
अभक्ष्यः सर्वदा प्रोक्तः किं पुनश् चान्न-संस्क्रिया ॥३०॥

अभक्ष्यम्—अभक्ष्य-भक्षणे यत् पापं तद् इत्य् अर्थः । अन्नस्य संस्क्रिया पाकः ॥३०॥

सनत्-कुमार-संहितायाम्—

एकादश्यां मुनि-श्रेष्ठ श्राद्धे भुङ्क्ते नरो यदि ।
प्रतिग्रासं स भुङ्क्ते तु किल्बिषं मूत्र-विण्-मयम् ॥३१॥

गौतमीय-तन्त्रे—

वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः ।
विष्ण्व्-अर्चनं वृथा तस्य नरकं घोरम् आप्नुयात् ॥३२॥

विष्णु-रहस्ये—

समादाय विधानेन द्वादशी-व्रतम् उत्तमम् ।
तस्य भङ्गं नरः कृत्वा रौरवं नरकं व्रजेत् ॥३३॥

अथ तत्रैव विधवाविषयको दोष-विशेषः

कात्यायन-स्मृतौ—

विधवा या भवेन् नारी भुञ्जीतैकादशी-दिने ।
तस्यास् तु सुकृतं नश्येद् भ्रूण-हत्या दिने दिने ॥३४॥

नारदीये—

एकादशीं विना रण्डा यतिश् च सुमहा-तपाः ।
पच्यते ह्य् अन्ध-तामिस्रे यावद् आहूत-सम्प्लवम् ॥३५॥

अथ पक्ष-द्वये’पि नित्यत्वम्

तत्र देवलः—

न शङ्खेन पिबेत् तोयं न खादेत् कूर्म-शूकरौ ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥३६॥

अधुना कृष्ण-पक्षे सङ्क्रान्य्-आदाव् अप्य् उपवास-विधानेन नित्यत्वम् एव द्रढयति—न शङ्खेनेत्य् अदिना श्र्द्धम् आचरेद् इत्य् अन्तेन ॥३६॥

विष्णु-रहस्य-सौर-पुराणयोः—

यथा शुक्ला तथा कृष्णा विशेषो नास्ति कश्चन ॥३७॥

विष्णु-रहस्ये ब्रह्मोक्तौ—

शुक्ला वा यदि वा कृष्णा विष्णु-पूजन-तत्-परः ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥३८॥
सर्व-पाप-प्रणाशाय विष्णु-सन्तोषणाय च ।
उपोष्या द्वादशी पुण्या सर्वैर् उभय-पक्षयोः ॥३९॥

वाराहे—

एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ।
द्वादश्याम् अर्चयेद् विष्णुं स मुक्ति-फल-भाग् भवेत् ॥४०॥

विष्णु-रहस्य-सौर-पुराणयोः—

यथा सुपूजितो गौरः कृष्णो वा वेदविद् द्विजः ।
सन्तारयति दातारं द्वादश्यां च तथा स्मृते ॥४१॥

विष्णु-रहस्ये स्कान्दे च—

तैलं शुक्लेतराणां वै तिलानां सदृशं तथा ।
कृष्णायाश् च सितायाश् च गोः क्षीरं सदृशं यथा ।
द्वादश्योः सदृशं तद्वत् पुण्यं स्यात् कृष्ण-शुक्लयोः ॥४२॥

किं च—

चन्द्र-सूर्य-ग्रहौ पुण्यौ यथैव मुनिभिः स्मृतौ ।
तथा सितासिते पुण्ये द्वादश्यौ विष्णु-तुष्टिदे ॥४३॥

द्वादश्यौ शुक्ला कृष्णा च ॥४३॥

यथा गो-तिल-विप्राणां कृष्णत्वं नैव दूषणम् ।
एकादशी तथा राजन्न् उपोष्या पक्षयोर् द्वयोः ॥४४॥
यथा विष्णुः शिवश् चैव सम्पूज्यौ मुनिभिः स्मृतौ ।
तथा पूज्यतमे प्रोक्ते द्वादश्यौ कृष्ण-शुक्लके ॥४५॥

नारद-स्मृतौ—

नित्यं शक्ति-समायुक्तैर् नरैर् विष्णु-परायणैः ।
पक्षे पक्षे तु कर्तव्यम् एकादश्याम् उपोषणम् ॥४६॥

विष्णु-धर्मोत्तरे च—

सपुत्रश् च सभार्यश् च स्वजनैर् भक्ति-संयुतः ।
एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥४७॥

कूर्म-पुराणे विष्णु-धर्मोत्तरे च—

स ब्रह्महा सुरापश् च कृतघ्नो गुरु-तल्पगः ।
विवेचयति यो मोहाद् एकादश्यौ सितासिते ॥४८॥

एवं द्वयोः साम्यं लिखित्वाधुना शुक्ल-कृष्ण-भेदे प्रत्यवायं लिखति न ब्रह्महेति पञ्चभिः ॥४८॥

कालिका-पुराणे—

सर्वेषाम् इह पापानाम् आश्रयः स तु कीर्तितः ।
विवेचयति यो मोहाद् एकादश्यौ सितासिते ॥४९॥

भविष्ये—

एवं ज्ञात्वा सदोपोष्ये द्वादश्यौ कृष्ण-शुक्लके ।
तयोर् भेदं न कुर्वीत भेदेन नरकं व्रजेत् ॥५०॥

गारुडे—

शुक्ला वा यदि वा कृष्णा विशेषो नास्ति कश्चन ।
विशेषं कुरुते यस् तु पितृहा स प्रकीर्तितः ॥५१॥

सनत्-कुमार-प्रोक्ते—

एकादश्योर् द्वयोर् यस् तु विशेषं कुरुते नरः ।
तस्योद्धारं न पश्यामि यावद् आहूत-रम्प्लवम् ॥५२॥

विष्णु-रहस्ये—

य इच्छेद् विष्णुना वासं पुत्र-सम्पदम् आत्मनः ।
एकादशीम् उपवसेत् पक्षयोर् उभयोर् अपि ॥ ५३॥

ननु, एकादशीषु कृष्णासु रवि-सङ्क्रमणे तथा । चन्द्र-सूर्य-परागे च न कुर्या पुत्रवान् गृही ॥ इत्य् आदि-वचनैः पुत्रवतां गृहिणां कृष्णैकादश्य्-उपवासो निषिध्यते । तत्र लिखति—य इच्छेद् इति । अतस् तद्-वचनानि धन-पुत्रादि-कामेन व्रतं किञ्चित् कुर्वतो गृहिणः प्रति तन्-निमित्तोपवास-निषेध-पराणि, न तु नित्यैकादश्य्-उपवास-निषेधकानि । इत्य् एतद् अग्रे व्यक्तं भावि ॥५३॥

तत्त्व-सागरे—

यथा शुक्ला तथा कृष्णा यथा कृष्णा तथोत्तरा ।
तुल्ये ते मनुते यस् तु स वै वैष्णव उच्यते ॥५४॥

विशेषतो वैष्णवैस् तु कथञ्चिद् अपि भेदो नैव कार्य इति लिखति—यथेति । अतः—शुक्लाम् एव सदा गृहीति वचनं स-काम-वैष्णव-गृहस्थ-विषयकम् एवेति ज्ञेयम् इति । एतच् चाग्रे विस्तरेण व्यक्तं भावि ॥५४॥

अथ सङ्क्रान्त्य्-आदाव् अपि नित्यत्वम्

कात्यायन-स्मृतौ—

सङ्क्रान्तौ रवि-वारे वा यदा चैकादशी भवेत् ।
उपोष्या सा महा-पुण्या सर्व-पाप-हरा तिथिः ॥५५॥

सङ्क्रान्त्य्-आदौ च यद्य् एकादशी भवेत्, तदापि सा उपोष्यैव ॥५५॥

किं च—

व्यतिपातो वैधृतिर् वा एकादश्यां यदा भवेत् ।
उपोष्या सा तु वीज्ञेया पुत्र-सम्पद्-विवर्धिनी ॥५६॥

सनत्-कुमार-तन्त्रे—

भानु-वारेण संयुक्ता तथा सङ्क्रान्ति-संयुता ।
एकादशी सदोपोष्या सर्व-सम्पत्-करी तिथिः ॥५७॥

नारदाच् च—

भानु-वार-समोपेता तथा सङ्क्रान्ति-संयुता ।
एकादशी सदोपोष्या पुत्र-पौत्र-विवर्धिनी ॥५८॥

पुत्र-सम्पद्-विवर्धिनीति सर्व-सम्पत्-करीति पुत्र-पौत्रादिक-वर्धिनीति चेत्य् अनेन कृष्ण-पक्षे तु सङ्क्रान्त्यां ग्रहणे च उपोषणम् । न कुर्वीत गृही राजन् सुत-बन्धु-धन-क्षयात्॥ इत्य् आदि-वचनतः प्राप्तः पुत्रादिमतां गृहिणां तत्र तत्रानुपवासः परिहृतः ॥५६-५८॥

अत एवोक्तं जैमिनिना—

आदित्ये’हनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः ।
पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ॥५९॥
तन्-निमित्तोपवासस्य निषेधो’यम् उदाहृतः ।
नानुषङ्गतो ग्राह्यो यतो नित्यम् उपोषणम् ॥६०॥

तर्हि तन्-निषेधः किं विषयको’स्तु ? तत्र लिखति—आदित्ये’हनीति द्वाभ्याम् । अयम् आदित्याहादाव् उपवासादि-निषेधः । तन्-निमित्तस्य आदित्य-वारादि-निमित्तस्योपवासादेः प्रैषेध उदाहृतः । न त्व् एकादश्याम् आदित्य-वारादि-सम्बन्ध-निबन्धनोपवास-प्रतिषेधः । यत एकादश्याम् उपोषणं नित्यम् एव । अतः काम्यस्य रवि-वाराद्य्-उपवासस्य निषेधो’यं, न चैकादश्य्-उपवास-निषेधो भवतीत्य् अर्थः ॥५९-६०॥

अतएव संवर्तेनाप्य् उक्तम्—

अमावस्या द्वादशी च सङ्क्रान्तिश् च विशेषतः ।
एताः प्रशस्तास् तिथयो भानुवारस् तथैव च ॥६१॥
अत्र स्नानं जपो होमो देवतानां च पूजनम् ।
उपवासस् तथा दानम् एकैकं पावनं महत् ॥६२॥

विशेषतः सङ्क्रान्त्य्-आदाव् उपवासः परम-प्रशस्त एवेति लिखति –अमेति द्वाभ्याम् ॥६१-६२॥

अतएव देवलः—

शनैर् वारे रवेर् वारे सङ्क्रान्त्यां ग्रहणे’पि च ।
त्याज्या नैकादशी राजन् सर्वदैवेति निश्चयः ॥६३॥

अथ सूतकादाव् अपि नित्यत्वम्

विष्णु-रहस्ये—

परमापदम् आपन्नो हर्षे वा समुपस्थिते ।
सूतके मृतके चैव न त्याज्यं द्वादशी-व्रतम् ॥६४॥

परमाम् आपदम् आपन्नो यदि स्यात्, तथापि द्वादशी-व्रतं त्याज्यं न भवति । आपन्नैर् इति वा पाठः ॥६४॥

वाराहे—

सूतके’पि नरः स्नात्वा प्रणम्य मनसा हरिम् ।
एकादश्या ं न भुञ्जीत व्रतम् एतन् न लुप्यते ॥६५॥

अत एवोक्तम्—

मृतके तु ण भुञ्जीत एकादश्यां सदा नरः ।
द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥६६॥

पाद्मे—

पूर्व-सङ्कलितं यच् च व्रतं सुनियत-व्रतैः ।
तत् कर्तव्यं नरैस् तद्वद् दानार्चन-विवर्जितम् ॥६७॥
यथा सङ्कलितं सम्यग् व्रतं विष्णु-परायणैः ।
कर्तव्यं च तथैवेह स्नात्वा संशय-वर्जितम् ॥६८॥

प्रणम्य मनसा हरिम् इति विष्णुं प्रणम्य चैत्य् अनेन सूतकादौ भगवत्-पूजा न कार्येत्य् आयातम् । किन्तु यस्य वैष्णवस्य नित्य-पूजा-नियमस् तेन तत्रापि पूजा कर्तव्येत्य् आह—यथेति। व्रतं नियमः । विष्णु-परायणैर् इति तद्-दोषा निरस्ताः ॥६५-६८॥

अथोपवास-दिने श्राद्ध-निषेधः

पाद्मे पुष्कर-खण्डे—

एकादश्यां यदा राम श्राद्धं नैमित्तिकं भवेत् ।
तद्-दिने तु परित्यज्य द्वादश्यां श्राद्धम् आचरेत् ॥६९॥

एकादश्यां यदा रामेत्य् आदिना उपवास-दिने श्राद्धं निषिद्धम् यच् च स्कान्दादौ—

श्राद्ध-दिनं समासाद्य उपवासो यदा भवेत् ।

तदा कृत्वा तु वै श्राद्धं भुक्त-शेषं तु यद् भवेत् ॥

तत् सर्वं दक्षिणे पाणौ गृहीत्वान्नं शिखि-ध्वज ।

अवजिघ्रेद् अनेनाथ भवेत् श्राद्धं शिखि-ध्वज ॥

पितॄणां तृप्तिदं तात व्रत-भङ्गो न विद्यते ॥ इत्य् आदि ।

तच् च वैष्णवेतर-विषयं मन्तव्यम् । वैष्णव-पितॄणाम् अपि श्री-विष्णु-दिने श्राद्ध-ग्रहणायोगाद् इति दिक् ॥६९॥

तत्रैव उत्तर-खण्डे [६.२३४.१३-१४]—

एकादश्यां च प्राप्तायां माता-पित्रोर् मृतेऽहनि ।
द्वादश्यां तु प्रदातव्यं नोपवास-दिने क्वचित् ।
गर्हितान्नं न वाश्नन्ति पितरश् च दिवौकसः ॥७०॥

स्कान्दे—

एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्याद् द्वादश्यां श्राद्धम् आचरेत् ॥७१॥

ब्रह्म-वैवर्ते—

ये कुर्वन्ति महीपाल श्राद्धं त्व् एकादशी-दिने ।
त्रयस् ते नरकं यान्ति दाता भोक्ता परेतकः ॥७२॥

एकादश्यां यदा राम इत्य् आदिना उपवास-दिने श्राद्धं निषिद्धम् । यच् च स्कान्दादौ—

श्राद्ध-दिनं समासाद्य उपवासो यदा भवेत् । तदा कृत्वा तु वै श्राद्धं भुक्त-शेषस् तु यद् भवेत् । तत् सर्वं दक्षिणे पाणौ गृहीत्वान्नं शिखिध्वज । अवजिघ्रेद् अनेनाथ भवेत् श्राद्धं शिखिध्वज । पितॄणां तृप्तिदं तात व्रत-भङ्गो न विद्यते ॥ इत्य् आदि ।

तच् च वैष्णवेतर-विषयं मन्तव्यम् । वैष्णव-पितॄणाम् अपि श्री-विष्णु-दिने श्राद्ध-ग्रहणायोगाद् इति दिक् ॥६९-७२॥

अथाधिकारिणः

आग्नेये—

गृहस्थो ब्रह्मचारी च आहिताग्निर् यतिस् तथा ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥७३॥

तत्रैव उत्तर-खण्डे शिव-पार्वती-संवादे [६.२३४.१२]—

वर्णानाम् आश्रमाणां च स्त्रीणां वर-वर्णिनी ।
एकादश्य्-उपवासस् तु कर्तव्यो नात्र संशयः ॥७४॥

एवं सर्वैर् एव सदोपवासः कर्तव्य इत्य् अधिकारं निर्णयन् प्रथमं चतुर्णाम् अप्य् आश्रमिणां तत्राधिकारं दर्शयति—गृहस्थ इति । पूर्वं च ब्राह्मण-क्षत्रिय-विशां शूद्राणां चैव योषिताम् इत्य् अनेन । तथाग्रे च—कुर्यान् नरो वा नारी वा इत्य् अनेन चतुर्वर्णानाम् अन्त्यजानां योषिताम् चाधिकारो दर्शितः । तत्र च विशेषतः—विधवा या भवेन् नारी इत्य् आदिना विधवायाः । तथा, स-पुत्रश् च स-भार्यश् च इत्य् अदिना स-धवाया अपि तत्राधिकारो लिखितः । यच् चोक्तं मनुना—नास्ति स्त्रीणां पृथक् यज्ञो न व्रतं नाप्य् उपोषणम् इति । विष्णुनापि—पत्यौ जीवति या नारी उपवास-व्रतं चरेत् । आयुः सा हरते भर्तुर् नरकं चैव गच्छति इति । तच् च भर्त्राद्य्-अननुमतोपवास-कर्तृ-स्त्री-विषयं ज्ञेयम् । अत एवोक्तं शङ्ख-लिखिताभ्याम्—कामं भर्तुर् अनुज्ञया व्रतोपवासादीन् आरभेत् इति । अथवा वैष्णवेतर-स्त्री-विषयं तद् इति मन्तव्यम् । स-पुत्रश् च स-भार्यश् च स्वजनैर् भक्ति-संयुतः । एकादश्याम् उपवसेत् इत्य् आदि-वचनात् श्री-रुक्माङ्गदादि-व्यवहार-श्रवणाच् चेति दिक्॥७३-७४॥

कात्यायन-स्मृतौ—

अष्टवर्षाधिको मर्त्यो अपूर्णाशीतिवत्सरः ।
एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥७५॥

तत्र च वयो-मर्यादां लिखति—अष्टेति त्रिभिः । अपूर्णेत्य् अत्राकारालोपो’विवक्षितत्वात् । एवम् अग्रे’पि ॥७५॥

नारदीये—

अष्टवर्षाधिको मर्त्यो ह्य् अशीतिर् नैव पूर्यते ।
यो भुङ्क्ते मामके राष्ट्रे विष्णोर् अहनि पापकृत् ॥७६॥
स मे वध्यश् च निर्वास्यो देशतः कालतश् च मे ।
एतस्मात् कारणाद् विप्र एकादश्याम् उपोषणम् ।
कुर्यान् नरो वा नारी वा पक्षयोर् उभयोर् अपि ॥७७॥

अष्टेत्य् आदि-नारदीय-सार्ध-पद्यं श्री-रुक्माङ्गद-पटहोद्घोषणम् ॥७६-७७॥

विष्णु-धर्मोत्तरे—

वैष्णवो वाथ सौरो वा कुर्याद् एकादशी-व्रतम् ॥७८॥

सौर-पुराणे—

वैष्णवो वाथ शैवो वा सौरो’प्य् एतत् समाचरेत् ॥७९॥

अत एवोक्तं स्कान्दे श्री-शिवेन—

न शैवो न च सौरो वा नाश्रमी तीर्थ-सेवकः ।
यो भुङ्क्ते वासरे विष्णोः श्वपचाद् अधिको हि सः ॥८०॥
विप्रियं तेन मे गौरि कृतं दुष्टेन पापिना ।
मद्-भक्ति-बलम् आश्रित्य यो वै भुङ्क्ते हरेर् दिने ॥८१॥

अधुना शैवसौरादीनामप्यधिकारं लिखति—वैष्णवो वेति सार्द्वद्वयेन । वैष्णव इत्यस्य दृष्टान्तार्थमुपादानम् ॥७८-८१॥

अथाशक्तो प्रतिनिधिः

वायु-पुराणे—

उपवासे त्व् अशक्तस्य आहिताग्नेर् अथापि वा ।
पुत्रान् वा कारयेद् अन्यान् ब्राह्मणान् वापि कारयेत् ॥८२॥

आहित्याग्नेः—यज्ञादौ दीक्षितस्य ॥८२॥

अथवा विप्रमुख्येभ्यः दानं दद्यात् स्व-शक्तितः ।
उपवासं तु कुर्वाणः पुण्यं शत-गुणं लभेत् ॥८३॥

उपवासं पित्राद्यर्थं कुर्वन्नपि स्वार्थोपवासात् शतगुणं पुण्यं प्राप्नोति ॥८३॥

यम् उद्दिश्य कृतं सो’पि सम्पूर्णं फलम् अश्नुते ।
नारी स्व-पतिम् उद्दिश्य एकादश्याम् उपोषिता ॥८४॥
पुण्यं शत-गुणं प्राहुर् मुनयः पारिदर्शिनः ।
उपवास-फलं तस्याः पतिः प्राप्नोत्य् असंशयम् ॥८५॥

वाराहे—

असामर्थ्ये शरीरस्य व्रते वा समुपस्थिते ।
कारयेद् धर्म-पत्नीं च पुत्रं वा विनयान्वितम् ।
भगिनीं भ्रातरं वापि व्रतम् अस्य न लुप्यते ॥८६॥

कात्यायन-स्मृतौ—

पितृ-मातृ-पति-भ्रातृ-गुर्व्-अर्थे तु विशेषतः ।
उपवासं प्रकुर्वाणः पुण्यं शत-गुणं लभेत् ।
दक्षिणात्र न दातव्या शुश्रूषा विहिता च या ॥८७॥
गृहस्थः क्षत्रियार्थे य एकादश्याम् उपोषतः ।
पुरोधाः स-प्रियैः सार्धं फलं प्राप्नोति निश्चितम् ॥८८॥
पितामहादीन् उद्दिश्य एकादश्याम् उपोषणम् ।
कृतं यैस् तु फलं विप्राः समग्रं ते समाययुः ॥८९॥
कर्ता दश-गुणं पुण्यं प्राप्नोत्य् अत्र न संशयः ।
यम् उद्दिश्य कृतं सो’पि सम्पूर्णं फलम् आप्नुयात् ॥९०॥

मार्कण्डेय-पुराणे—

एक-भक्तेन नक्तेन बाल-वृद्धातुरः क्षिपेत् ।
पयोमूल-फलैर् वापि न निर्द्वादशिको भवेत् ॥९१॥

पत्न्य्-आद्य्-अभावे चोपवासाशक्तैः किं कार्यम् ? तल् लिखति—एक-भक्तेनेत्य् आदिना कदाचनेत्य् अन्तेन । बालो वृद्धश् चातुरश् च क्षिपेत् दिनं नयेत् न निर्द्वादशिक एकादशी व्रत-रहितो न भवेत् । द्वादशीति एकादश्यां द्वादश्याम् अप्य् उपवास-साम्यात् द्वादशी-शब्देनैकादशी लक्ष्यते। अतएव द्वादशी दशमी-विद्धेत्य् आदि-वाचो युक्ताः । एवम् एकादशी-शब्देनापि कुत्रापि द्वादशी ज्ञेया ॥९१॥

बौधायन-स्मृतौ—

उपवासे त्व् अशक्तानाम् अशीतेर् ऊर्ध्व-जीवनाम् ।
एक-भक्तादिकं कार्यम् आह बौधायनो मुनिः ॥९२॥

किं च—

व्याधिभिः परिभूतानां पित्ताधिक-शरीरिणाम् ।
त्रिंशद्-वर्षाधिकानां च नक्तादि-परिकल्पनम् ॥९३॥

त्रिंशद्वर्षाधिकानामिति—षष्टिरेवोत्तमं वयः इत्युक्त्या तावदुत्तमवयसस्त्रिंशद्वर्षेरधिकानां नवतिवर्षक्यसामित्यर्थः । यद्वा वनं पञ्चाशतो व्रजेत् इति-वचनतो गृहस्थस्य गृहे पञ्चाशद्वर्षाणि स्थितिविहिता । तताऽपि तत्र त्रिंशद्वर्षाण्यधिकानि येषामिति अशीतिवर्षवयसामित्यर्थः । तच्च अशीतिर्न हि पूर्याने इत्यादिना उक्तमेव । पाठान्तरेऽपि पूर्ववदेवार्थः ॥९३॥ ।

कूर्म-पुराणे—

एक-भक्तेन नक्तेन बाल-वृद्धातुरः क्षिपेत् ।
नातिक्रमेद् द्वादशीं च उपवास-व्रतेन च ॥९४॥

भविष्य-पुराणे द्वादशी-कल्पे—

एकादश्यां प्रभुं विष्णुं समभ्यर्च्य कदाचन ।
उपोषितेन नक्तेन तथैवायाचितेन च ॥९५॥

उपवासेन व्रतेन यद्वा उपवासे यद्व्रतं कथञ्चिन्नियमस्तेन कदाचन असामथाद्यवस्थायाम् ॥९४-९५॥

एक-भक्तेन वा तात न निर्द्वादशिको भवेत् ।
तद् एक-नियमी नित्यं न सीदति कदाचन ॥९६॥

तस्यां द्वादश्यामेवैकस्याः नियमवान् ॥९६॥

अथ विशेषतो नक्तादिकम्

वायव्ये—

नक्तं हविष्यान्नम् अनोदनं वा
फलं तिलाः क्षीरम् अथाम्बु चाज्यम् ।
यत् पञ्च-गव्यं यदि वापि वायुः
प्रशस्तम् अत्रोत्तरम् उत्तरं च ॥९७॥

भविष्ये—

उपवासात् परं भैक्ष्यं भैक्ष्यात् परम-याचितम् ।
अयाचितात् परं नक्तं तस्मान् नक्तेन वर्तयेत् ॥९८॥

किं च—

सर्व-भूत-मयं व्याधिः प्रमादो गुरु-शासनम् ।
अव्रतघ्नानि पठ्यन्ते सकृद् एतानि शास्त्रतः ॥९९॥

सर्व-भूतेभ्यो व्याघ्रादि-दुष्ट-जन्तुभ्यो भयम् ॥९९॥

महाभारते उद्यम-पर्वणि—

अष्टैतान्य् अव्रत-घ्नानि आपो मूलं फलं पयः ।
हविर् ब्राह्मण-काम्या च गुरोर् वचनेमौषधम् ॥१००॥

तत्रापवादः

काश्यप-पञ्चरात्रे—

मद्-उत्थाने मच्-छयने मत्-पार्श्व-परिवर्तने ।
अत्र यो दीक्षितः कश्चिद् वैष्णवो भक्ति-तत्-परः ॥१०१॥
अन्नं वा यदि भुञ्जीत फल-मूलम् अथापि वा ।
अपराधम् अहं तस्य न क्षमामि कदाचन ।
क्षिपामि तरके घोरे यावद् आहूत-सम्प्लवम् ॥१०२॥

नक्तादिकेष्व् अपवादं लिखति—मद्-उत्थाने इत्य् आदिना । अन्नादि-भोजन-रूपम् अपराधम् । यद् वा, पूर्व-कृतम् आधुनिकम् एतच् च सर्वम् इति ॥१०१-१०२॥

अन्यत्र च—

मच्-छयने मद्-उत्थाने मत्-पार्श्व-परिवर्तने ।
फल-मूल-जलाहारी हृदि शल्यं ममार्पयेत् ॥१०३॥

एवं वैष्णवैर् वर्जनीयम् इति लिखितम् । अधुना च सामान्यतः सर्वैर् एव प्रयन्तो’वश्यं वर्ज्यम् इति लिखति—मच्-छयन इति । फलं मूलं जलम् वापि आहारं यः करोतीत्य् अर्थः । मम हृदि शल्यम् अर्पयेद् इति महापराधी स्याद् इत्य् अर्थः ॥१०३॥

इत्थं सुसिद्धे नित्यत्वे’प्य् अग्निहोत्रादिवत् फलम् ।
चित्रं स्याद् इति माहात्म्यम् एकादश्या विलिख्यते ॥१०४॥

एवं पक्ष-द्वयादाव् उपवासस्य नित्यत्वं साधयित्वा, तथाधिकार-निर्णयेनापि सर्वेषाम् एव कार्यत्वेन तद् एव द्रढयित्वा, तथा अशक्तादीनाम् अप्य् एक-भक्तादिना व्रत-पालनतश् च तद् एव नितरां दृढीकृतम् । एवं फलानपेक्षक-रूपं नित्यत्वं दर्शयित्वाधुना महा-फलान्य् अपि दर्शयन् लिखति—इत्थम् इति । ननु फलेन नित्यत्वं विरुध्यते, तत्राह—अग्निहोत्रादिवद् इति । आदि-शब्देन दर्शपौर्णमासादि, तत्र यथा नित्यत्वं फलं च संयोग-पृथक्त्वेन श्रूयते, तद्वद् अत्रापीत्य् अर्थः । तत्र च युक्त्र् मीमांसादि-प्रसिद्धा श्री-कृष्ण-देवाचार्य-वोपदेवाचार्यादिभिः स्पष्टं दर्शितास्तीति । किम् अत्र तद्-विस्तारेणेति चित्रम्—ऐहिकामुष्मिका-भेदेन बहु-विधम् अद्भुतम् इति वा ॥१०४॥

अथैकादशी-माहात्म्यम्

तत्त्व-सागरे—

मातेव सर्व-बालानाम् औषधं रोगिनाम् इव ।
रक्षार्थं सर्व-लोकानां निर्मितैकादशी तिथिः ॥१०५॥
नाना-दुःख-समाकीर्णे संसारे नर-जन्मनि ।
एकादश्य्-उपवासी यः स धन्यः स च बुद्धिमान् ॥१०६॥
एकादशीं परित्यज्य यो’न्य-व्रतम् उपासते ।
स कर-स्थं महा-रत्नं त्यक्ता लोष्ट्रं हि याचते ॥१०७॥
एकम् एकादशीं चापि समुपोष्य जनार्दनम् ।
तोयेनापि समभ्यर्च्य संसारान् मुक्तिम् आप्नुयात् ॥१०८॥
प्रसङ्गाद् अथवा दम्भाल् लोभाद् वा त्रिदशाधिप ।
एकादश्यां मनः कृत्वा सर्व-दुःखाद् विमुच्यते ॥१०९॥
समायास्य महा-रोगाद् दुःखिनां सर्व-देहिनाम् ।
एकादश्य्-उपवासो’यं निर्मितं परमौषधम् ॥११०॥

अस्य महा-रोगस्य शमाय उपशान्तये परमौषधम् ॥११०॥

संसार-सर्प-दष्टानां नराणां पाप-कर्मणाम् ।
एकादश्य्-उपवासेन सद्य एव सुखं भवेत् ॥१११॥

नारदीये वशिष्ठोक्तौ [२.१.१०-१९]—

एकादशी-समुत्थेन वह्निना पातकेन्धनम् ।
भस्मतां याति राजेन्द्र अपि जन्म-शतोद्भवम् ॥११२॥
नेदृशं पावनं किञ्चिन् नराणां भूप विद्यते ।
यादृशं पद्मनाभस्य दिनं पातक-हानि-दम् ॥११३॥
तावत् पापानि देहेऽस्मिंस् तिष्ठन्ति मनुजाधिप ।
यावन् नोपवसेज् जन्तुः पद्मनाभ-दिनं शुभम् ॥११४॥

जन्तुर् इति सर्वेषाम् अप्य् अधिकारः सूचितः ॥११४॥

अश्वमेध-सहस्राणि राजसूय-शतानि च ।
एकादश्य्-उपवासस्य कलां नार्हन्ति षोडशीम् ॥११५॥
एकादशेन्द्रियैः पापं यत् कृतं भवति प्रभो ।
एकादश्य्-उपवासेन तत् सर्वं विलयं व्रजेत् ॥११६॥
एकादशी-समं किञ्चित् पाप-नाशं न विद्यते ।
स्वर्ग-मोक्ष-प्रदा ह्य् एषा राज्य-पुत्र-प्रदायिनी ॥११७॥
सुकलत्र-प्रदा ह्य् एषा शरीरारोग्य-दायिनी ॥११८॥
न गन्गा न गया भूप न काशी न च पुष्करम् ।
न चापि कौरवं क्षेत्रं न रेवा न च देविका ।
यमुना चन्द्र-भागा च पुण्या भूप हरेर् दिनात् ॥११९॥

हरेर् दिनात् दिनेन तुल्या न भवति ॥११९॥

व्याजेनापि कृता राजन् न दर्शयति पातकम् ।
अनायासेन राजेन्द्र प्राप्यते वैष्णवं पदम् ॥१२०॥

न दर्शयति, नाशयतीत्य् अर्थः ॥१२०॥

चिन्तामणि-समा ह्य् एषा अथवापि निधेः समा ।
कल्प-पादप-प्रेक्षा वा सर्व-वेदोपमाथवा ॥१२१॥

वेदेष्व् अपि ये ये वेदा उपनिषद्-आदयस् तत्-समेत्य् अर्थः । क्वचित् सर्व-वेदेति पाठः ॥१२१॥

तत्रैवान्यत्र [२.१.८, २२-२४]—

सम्प्राप्य वासरं विष्णोर् यो नरः संयतेन्द्रियः ।
उपवास-परो भूत्वा पूजयेन् मधुसूदनम् ।
वहन्ति पूर्व-पापानि किं तपोभिः किम् अध्वरैः ॥१२२॥
एकादशीं प्रपन्ना ये नरा नर-वरोत्तम ।
ते’द्वन्द्व-बाहवो भूत्वा नागारि-कृत-केतनाः ॥१२३॥

अद्वन्द्व-बाहवः चतुर्भुजाः ॥१२३॥

स्रग्विणः पीत-वस्त्रा हि प्रयान्ति हरि-मन्दिरम् ।
एष प्रभावो हि मया द्वादश्याः परिकीर्तितः ।
पापेन्धनस्य घोरस्य पावकाख्यो मही-पते ॥१२४॥

किं च—

यद् योगैर् मत्-पदं साङ्ख्यैः प्राप्यते वा न वा द्विज ।
अनायासेन तत् प्राप्यं पदं हरि-दिनानुगैः ॥१२५॥
अन्नाभावे यदा विप्र एकादश्याम् उपोषितः ।
उपवास-फलं तेन समग्रं समवाप्यते ॥१२६॥

विप्र हे ब्राह्मण अविवक्षितत्वाद् असन्धिः ॥१२६॥

राज-बन्धाद् यदा विप्र एकादश्याम् उपोषितः ।
उपवास-फलं तस्य सम्यग् भवति निश्चितम् ॥१२७॥

तस्यापि भवति । सम्यक् सम्पूर्णम् ॥१२७॥

ब्रह्म-वैवर्ते—

यथा दावाग्निर् उदितः शुष्कम् आर्द्रं च गह्वरे ।
दहत्य् एव समस्तानि कलुषाणि हरेर् दिनम् ॥१२८॥

शुष्कं पापं चिर-काल-कृतम् । आर्द्रं च सम्प्रति-कृतम् । महाप-प्रायश्चित्ततया तयोर् भेदः ॥१२८॥

पापेन्धनस्य घोरस्य शुष्कस्यार्द्रस्य भार्गव ।
नान्यद् विनाशाय मतं विनैकादश्य्-उपोषणम् ॥१२९॥

किं च—

सर्व-प्रायश्चित्तम् इदं संसारोत्तार-कारकम् ।
एकादशी-व्रतं विप्र कुर्वन् मुक्तिम् अवाप्नुयात् ॥१३०॥
नरो दिनैर् यद् दशभिश् चतुर्भिश् च करोत्य् अघम् ।
उपोष्य पञ्चदशमं दिनं विष्णोर् हि मुच्यते ॥१३१॥

पञ्चदशमम् । एकादशी-लक्षणम् ॥१३१॥

इति सर्व-पुराणेषु मुनीनां निश्चितं मतम् ।
उपोष्यैकादशीं पापान् मुच्यते नात्र संशयः ॥१३२॥
कलाव् उच्छिन्न-मार्गाणां नृशंस-पातितात्मनाम् ।
एकादशीं विना विप्र न संसाराद् विमोक्षणम् ॥१३३॥

किं च—

एतत् सारम् इदं तत्त्वम् इदं सत्यम् इदं व्रतम् ।
प्रायश्चित्तम् इदं सम्यग् एकादश्याम् उपोषणम् ॥१३४॥

किं च—

गोविन्द-स्मरणं नॄणाम् एकादश्याम् उपोषणम् ।
प्रायश्चित्तम् इदं नूनं संसारोत्तार-कारकम् ॥१३५॥

तत्रैवान्ते—

स्नेहेन भक्त्या वैरेण प्रसङ्गेन यथा तथा ।
निहन्ति सर्वं कलुषम् एकादश्यां स्तुतो हरिः ॥१३६॥

किं च—

एवं समस्त-सुख-धर्म-गुणाश्रयं च
एकादशी-व्रतम् इदं कलिकेतुर् उक्तः ।
शास्त्रेषु शौनक जगत्-पतिषु प्रियं च
श्रद्धा-परः प्रकुरुते लभते न मुक्तिम् ॥१३७॥

कलि-केतुः कलि-काले सर्व-धर्मादि-श्रेष्ठम् इत्य् अर्थः । हेतुर् इति पाठे समस्त-सुखादि-करणं शास्त्रेषूक्तः शास्त्रान्वित इति पाठे शास्त्र-वेत्तेत्य् अर्थः । शास्त्रवित् फलम् अश्नुते इत्य् उक्तेः ॥१३७॥

तत्रैव सर्वान्ते—

एतच् छृणोति कुरुते’नुमतिं ददाति
श्रद्धां च कारयति यश् च तथा नराणाम् ।
एकादशी-व्रत-कृते कलुषैर् विमुक्तः
प्राप्नोति दिव्य-भुवनं गरुड-ध्वजस्य ॥१३८॥

पाद्मे वैशाख-माहात्म्ये देवदूत-विकुण्डल-संवादे—

उपोष्यैकादशीम् एकां प्रसङ्गेनापि मानवः ।
न याति यातनां यामीम् इति नो यमतः श्रुतम् ॥१३९॥
एकादशेन्द्रियैः पापं यत् कृतं वैश्य मानवैः ।
एकादश्य्-उपवासेन तत् सर्वं विलयं व्रजेत् ॥१४०॥
एकादशी-समं किञ्चित् पुण्यं लोके न विद्यते ।
व्याजेनापि कृता यैस् ते वशं यन्ति न भास्करेः ॥१४१॥

प्रसङ्गेन केषाम् अपि सङ्गत्या । यद् वा, राज-बोधाद्य्-अनुषङ्गेनापि । व्याजेन शाठ्येनापि । भास्करेर् यमस्य ॥१३९-१४१॥

«एवम् अन्यत्रापि नेदृशम्» इत्य् आदीनि सप्त-पद्यानि पूर्ववद् अत्र प्रवर्तते ।

पूर्ववद् इति यथा नारदीये तथात्र माघ-माहात्म्ये’पि सन्ति ।

किं च—

बालत्वे यौवने वापि वृद्धत्वे वा विशां वर ।
उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम् ॥१४२॥

पाद्मे वैशाख-माहात्म्ये देवदूत-विकुण्डल-संवादे—

एकादश्यां च विधिवद् उपवास-परायणाः ।
शुक्ले सितेतरे पक्षे ते नऋआः स्वर्ग-भागिनः ॥१४३॥

विधिवद् इति अग्रे लेख्येन पाप-वर्जनादि-विधिनेत्य् अर्थः । स्वर्ग-शब्देनात्रोर्ध्व-लोको लक्ष्यते । तेन च श्री-वैकुण्ठ-पदम् । यद् वा, वैकुण्ठ-लोक-गमने’पि क्रम-गत्या स्वर्ग-सुख-भोगात् स्वर्गेत्य् उक्तम् इति दिक् ॥१४३॥

«मातृवत् सर्व-बालानाम्» इति पूर्ववत् ।

पूर्ववद् यथा तत्त्व-सागरे तथा वैशाख-माहात्म्ये’पि इत्य् अर्थः । तत्र च मातेवेति । अत्र तु मातृवद् इति पदम् एकम् उदाहृतम् ॥

[Pअद्मP ५.९६.१००-१०१]

एकादशी-समं किञ्चित् पाप-त्राणं न विद्यते ।
ताम् उपोष्य विधानेन पुरुषाः स्वर्ग-गामिनः ॥१४४॥
एकादशेन्द्रियैः पापं यत् कृतं भवति द्विज ।
नरो निर्धूय तत् तूर्णं प्रीतः स्वर्-गतिमान् भवेत् ॥१४५॥

[Pअद्मP ५.९६.१०३-१०७]

एकतः क्रतवः सर्वे सर्व-तीर्थ-तपांसि च ।
महा-दानादि-दानानि व्रतं वैष्णवम् एकतः ॥१४६॥
वैष्णव-व्रतजो धर्मो धर्मो यज्ञादि-सम्भवः ।
एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद् गुरुः ।
हरि-वासर-भक्तानाम् अच्युतानन्त-भाषिणाम् ॥१४७॥

तयोः पूर्वः वैष्णव-व्रतजा धर्मः । अचुत्याच्युतेति भाषिणाम् इति दृष्टान्तत्वेनोक्तम् ॥१४७॥

नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्य् अहम् ।
येषां पुत्रश् च पौत्रश् च एकादश्याम् उपोषितः ।
स महात्मा स-पुरुषाञ् छतम् उद्धरते बलात् ॥१४८॥

अहं यमो’पि ॥१४८॥

उपोषणं ततः कुर्यात् पक्षयोर् उभयोर् अपि ।
एकादश्यां स पुरुषो भुक्ति-मुक्त्य्-एक-भाजनम् ॥१४९॥

अथ तत्रैव कार्त्तिक-माहात्म्ये श्री-यम-धूम्रकेतु-संवादे (६.२३४.४, ७)

एकादश्यां तु प्राप्तायां समुपोष्येह मानवः ।
सर्व-पाप-विनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥१५०॥
धर्मदा ह्य् अर्थदा चैव कामदा मोक्षदा किल ।
सर्व-काम-दुघा नॄणां द्वादशी-वर-वर्णिनी ॥१५१॥
एकादशी-व्रतं सौम्य यद्य् एकं सम्यग् अर्जितम् ।
किं दानैः किं तपस्-तीर्थैः सर्वदं विधिना कृतम् ॥१५२॥

दानादिभिः किम् ? तेनैव सर्व-सिद्धेः । कुतः ? विधिना यथा-विधि सर्वदं कर्म कृतम् । यद् वा, विधिना विधात्रा तत् सर्वदं कृतम् । अथवा, विधिन्; कृतं सर्वदं भवति । किं विशेषोक्त्या ? सर्वेषाम् एव सर्व-कामं परीपूरयतीत्य् आह—सर्वेति । तेन वैकुण्ठ-लोक-प्राप्त्यादिकम् अभिप्रेतम् ॥१५२॥

अथ तत्रैवोत्तर-खण्डे शिव-पार्वती-संवादे (६.२३४.९)—

एकादशीं परित्यज्य यो ह्य् अन्यद् व्रतम् आचरेत् ।
स कर-स्थं महा-राज्यं त्यक्त्वा भैक्ष्यं तु याचते ॥१५३॥

स्कान्दे—

विनपि ऋक्ष-संयोगाद् एकैवैकादशी नृणाम् ।
विनिहन्तीह चैतांसि कुनृपो विषयं यथा ॥१५४॥

ऋक्षाणि पुष्यादीनि । तत्-संयोगाद् विनापि । तेषां योग-माहात्म्य-विशेषो’ग्रे लेख्यः ॥१५४॥

न दानं न तपः स्नानं न चान्यत् सुकृतं क्वचित् ।
मुक्तये ह्य् अभवत् सुभ्रु मुक्त्वैकं हरि-वासरम् ॥१५५॥

सुभ्रु, हे पार्वति ॥१५५॥

सकृच् चोपोषणेनास्यां नश्यन्ति पाप-राशयः ।
एकतः पृथिवी-दानम् एकतो हरि-वासरः ।
न समं कविभिः प्रोक्तं वासरो ह्य् अधिकः स्मृतः ॥१५६॥

तत्रैवामृतसारोद्धारे श्री-यमस्य दूतानुशासने—

अगम्यागमने पापं मित्र-द्रोहे च पातकम् ।
इत्य् आदि पातकं यच् च यत्नैर् अन्यद् उपार्जितम् ॥१५७॥

आदि-शब्देन स्वर्ण-स्तेयादि । अन्यत् परम् अपि अभक्ष्य-भक्षणादिकम् ॥१५७॥

पाषाण्डालाप-जनितं पतितानां च सङ्गमात् ।
तन् मया मार्जितं सर्वम् एकादश्य्-उपवासिनाम् ॥१५८॥
प्रतिग्रहोत्थं यत् पापं दशाभ्रंशोद्भवं च यत् ।
तन् मया मार्जितं दूता एकादश्य्-उपवासिनाम् ॥१५९॥

दशा अवस्था ब्रह्मचर्यादि तद्-भ्रंशेनोद्भवो यस्य तत् ॥१५९॥

अत एव तत्र—

एकादश्य्-उपवासी यो नरो भवति भूतले ।
मुक्तं मया शतानन्द तेषां त्रिपुरुषं कुलम् ॥१६०॥
एकादश्याम् अभुञ्जाना युक्ताः पाप-शतैर् अपि ।
भवद्भिर् परिहर्तव्या हिता मे यदि सर्वदा ॥१६१॥

किं च—

वरं चाण्डाल-जातीय एकादश्य्-उपवास-कृत् ।
न तु विप्रश् चतुर्वेदी यो भुङ्क्ते हरि-वासरे ॥१६२॥

तत्रैव श्री-ब्रह्म-नारद-संवादे—

कल्प-वृक्ष-समाख्याता द्वादशी वाञ्छितार्थदा ।
सुगतेर् दायिनी पुंसां स्मृता च कृत-कीर्तया ॥१६३॥

वाञ्छितं कर्तुमिष्टम् ॥१६३॥

नाश्वमेध-सहस्रैश् च तीर्थ-कोट्य्-अवगाहनैः ।
यत् फलं प्राप्यते वत्स द्वादशी-वासरे कृते ॥१६४॥

द्वादशी-वासरे कृते सति यत् फलं प्राप्यते, अश्वमेधादिभिस् तन् न प्राप्यते ॥१६४॥

पूजाम् आप्नोति सर्वत्र न रोगेभ्यो भयं भवेत् ।
नोपसर्ग-भयं तस्य दुष्ट-जीव-समुद्भवम् ॥१६५॥
न दाहो न क्लमो नार्तिः स्मरणं सर्वदा हरेः ।
सन्ततेर् न वियोगश् च द्वादशी-कारिणां हरेः ॥१६६॥
कथा-रुचिर् भवेन् नित्यं न भयं विद्यते क्वचित् ।
रणे राज-कुले चैव सर्वत्र विजयी भवेत् ॥१६७॥
धर्मोपरि मतिर् नित्यं कृष्णे भक्तिः सुनिर्मला ।
पातकैर् नैव लिप्येत द्वादशी-भक्तितो नराः ॥१६८॥

उपसर्गा अरिष्टानि । तेभ्यो भयम् । सर्वदा हरेः स्मरणं भवति । हरेः कथायां रुचिर् इत्य् अन्वयः । भक्तिः श्रवणादि-रूपा प्रेम-लक्षणा वा । एवं द्वादशी-भक्तितः द्वादश्याः सेवया । यद् वा, द्वादश्यां प्रीति-मात्रेणापि पातकैः कथञ्चित् क्रियमाणैर् अपि न लिप्यते ॥१६५-१६८॥

इत्थं गुह्यं समाख्यातं दृष्ट्वा शास्त्र-समुच्चयम् ।
सर्व-धर्मान् परित्यज्य कलौ कार्यं हरेर् दिनम् ॥१६९॥
न भवेन् मानसी पीडा रोगाश् चात्यन्त-दुःखदाः ।
माहात्म्यं पठतः पुंसो द्वादशी-सम्भवं कलौ ॥१७०॥
न तत् पुण्यं कुरुक्षेत्रे प्रयागे च सतां कलौ ।
माहात्म्यं पठतां पुंसां यत् फलं द्वादशीभवम् ॥१७१॥

अस्तु तावद् द्वादशी-व्रतादि-निष्पादनं, तन्-माहात्म्य-पठनाद् अपि सर्व-दुःख-शान्तिः परम-पुण्य-प्राप्तिश् चेत्य् आह—न भवेद् इति द्वाभ्याम् ।

भविष्ये –

एकादशी महा-पुण्या सर्व-पाप-विनाशिनी ।
भक्तेस् तु दीपनी विष्णोः परमार्थ-गति-प्रदा ।
याम् उपोष्य नरो भक्त्या न संसारे भविष्यति ।१७२॥
एकादश्यां निराहारो यो भुङ्क्ते द्वादशी-दिने ।
न स दुर्गतिम् आप्नोति नरकाणि न पश्यति ॥१७३॥
कृत्वा पाप-सहस्राणि एकादश्याम् उपोषितः ।
द्वादश्याम् अर्चयेद् विष्णुं न स दुर्गतिम् आप्नुयात् ॥१७४॥
एषा तिथिः परा पुण्या विष्णोर् ईशस्य तुष्टिदा ।
तस्याम् एव जगन्नाथो अमूर्तो मूर्तिमान् स्थितः ।
तेन सा सर्व-पाप-घ्नी सर्व-दुःख-विनाशिनी ॥१७५॥

अमूर्तः अव्यक्तः । मूर्तिमान् स्थितः व्यक्तो’भूत् ॥१७५॥

या सा विष्णुमयी शक्तिर् अनन्ता व्याप्य या स्थिता ।
सा तेन तिथि-रूपेण द्रष्टव्यैकादशी सती ॥१७६॥

सनत्-कुमार-प्रोक्ते—

कृत्वा पाप-सहस्राणि ब्रह्म-हत्या-शतानि वै ।
एकाम् एकादशीं भक्त्या समुपोष्य शुचिर् भवेत् ॥१७७॥
एकादशी-व्रताद् अन्यद् यद् व्रतं क्रियते नरैः ।
तत् फलं तद् विजानीयाद् दुःखोद्भूतम् इवाङ्कुरम् ॥१७८॥

तस्य अन्य-व्रतस्य फलं तत एकादशी-व्रतम् एव विशेषेण जानीयात् । कथम् इव ? दुःखेन अन्य-व्रत-प्रयासेनोद्भूतम् अङ्कुरं पुण्य-बीजोद्भेदम् इव जानीयात् । यद् वा, तस्य फलं तद् विजानीयात् किम् इत्य् अपेक्षायाम् आह—दुःखस्योद्भूतम् अङ्कुरम् इव । एकादशी-व्रत-त्यागेनान्य-व्रत-करणाद् दुःखम् एवोपार्जितम् इत्य् अर्थः ॥१७७-१७८॥

सौर-धर्मे—

एकतश् चाग्नि-होत्रादि द्वदशीम् एकतः प्रभुः ।
तुलयातौलयत् तत्र द्वादशी च विशिष्यते ॥१७९॥

देवी-रहस्य-स्कन्द-पुराणयोः—

पापं पञ्च-विधं प्रोक्तं पातकं चातिपातकम् ।
उपपातक-सञ्ज्ञं च महा-पातकम् एव च ॥१८०॥
प्रकीर्णकं च तत् सर्वम् एकादश्याम् उपोषणात् ।
विलयं याति तोयस्थं यथा चैवाम् अभाजनम् ॥१८१॥

पातकं पातित्य-कारकम् । अतिपातकं स्नुषा-गमनादि । उपपातकं गो-वधादि । महा-पातकं ब्रह्म-हत्यादि । प्रकीर्णकं बहु-विध-क्षुद्र-पापं वा ॥१८०१-१८१॥

_ _देवी-रहस्ये—

गायत्रीह यथा सर्व-पाप-पञ्जर-भेदिनी ।
एकादशी तथा सर्व-पाप-पञ्जर-भेदिनी ॥१८२॥

वायव्ये स्कान्दे च—

अभोज्य-भोजनाज् जातम् अगम्या-गमनाच् च यत् ।
अयाज्य-याजनाद् यच् च अभक्ष्याणां च भक्षणम् ॥१८३॥
अस्पृश्य-स्पर्शनाद् यच् च परेषां निन्दया च यत् ।
आत्म-सम्भावनाद् यच् च पारदार्य-कृतं च यत् ॥१८४॥
विहिताकरणाद् यच् च पर-वित्तापहारतः ।
कामान्धेन कृतं यच् च पातकं चोपपातकम् ।
तत् सर्वं विलयं याति एकादश्याम् उपोषणात् ॥१८५॥

विष्णु-रहस्ये श्री-ब्रह्मोक्तौ—

मनसापि चिकीर्षन्ति द्वदशीं ये नरोत्तमाः ।
ते’पि घोरं न पश्यन्ति संसार-दुःख-सागरम् ॥१८६॥

विष्णु-पुराणे—

ओङ्कारः सर्व-देवानां यथा चाद्यः प्रपूजितः ।
तथा सर्व-व्रतानां च द्वादशी-व्रतम् उत्तमम् ॥१८७॥

द्वारका-माहात्म्ये श्री-कृष्णं प्रति श्री-चन्द्रशर्मणोक्तौ—

त्वत्-पादाम्बुज-भक्तानां न दुःखं पापिनाम् अपि ।
किं पुनः पाप-हीनानां द्वादशी-सेविनां नृणाम् ॥१८८॥

तत्रैव श्री-बलिं प्रति प्रह्लादोक्तौ—

नोष्णत्वं द्विज-राजे हि शीतत्वं न हुताशने ।
वैष्णवानाम् अपापत्वम् एकादश्य्-उपवासिनाम् ॥१८९॥

वैष्णव-तन्त्रे—

एकादशी महा-पुण्या विष्णोर् ईशस्य वल्लभा ।
तसाम् उपोषितो यस् तु द्वादश्यां पूजयेद् धरिम् ।
तस्य पापानि नश्यन्ति विष्णौ भक्तिश् च जायते ॥१९०॥

अधुना विशेषतो भगवद्-वल्लभत्वेन भगवद्-भक्ति-तल्-लोकादि-प्राप्ति-महा-फलं वैष्णव-तन्त्रादि-वचनैर् अन्ते दर्शयति—एकादशीत्य् आदिना स्वरूपताम् इत्य् अन्तेन ॥१९०॥

बृहन्-नारदीये, एकादशी-माहात्म्यारम्भे (१.२३.१०)—

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः ।
एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥१९१॥

वायु-पुराणे—

एकादशी-व्रतं यस् तु भक्तिमान् कुरुते नरः ।
सर्व-पाप-विनिर्मुक्तः स विष्णोर् याति मन्दिरम् ॥१९२॥

विष्णु-धर्मोत्तरे—

एकादश्य्-उपवासं यः श्रद्धया कुरुते नरः ।
स सर्व-पातकैः सद्यस् त्वचेवाहिर् विमुच्यते ॥१९३॥
न पश्यत्य् आमयं नापि नरकान्तर-यातनाम् ।
स नमस्यः प्रपूज्यश् च वासुदेव-प्रियो हि सः ॥१९४॥

गारुडे—

एकादशी-व्रतं भक्त्या यः करोति नरः सदा ।
स विष्णु-लोकं व्रजति याति विष्णोः स्वरूपताम् ॥१९५॥

आग्नेये—

एकादश्य्-उपवासं यः सदा तु कुरुते नरः ।
स याति परमं स्थानं यत्र देवो हरिः स्थितः ॥१९६॥

शिव-पुराणे—

यः करोति नरो भक्त्या एकादश्याम् उपोषणम् ।
स याति विष्णु-सालोक्यं प्राप्य विष्णोः स्वरूपताम् ॥१९७॥
ईदृङ्-माहात्म्य-रत्नानि शास्त्राम्भोधौ स्फुरन्त्य् अपि ।
कः सङ्ग्रहीतुं शक्तः स्याद् अत्र कृष्ण-कृपां विना ॥१९८॥

इदानीं माहात्म्य-लिखनम् उपसंहरन् परमोपादेयानाम् अपि तन्-माहात्म्य-वचनानां सर्वेषां लिखनासम्भवं व्यञ्जयति—ईदृग् इति । स्फुरन्ति प्रसिद्धतया प्रकाशमानान्य् अपि, अतो निजायोग्यत्वेन तद्-आनन्त्येन च तानि सर्वाण्य् अत्र सङ्गृह्य लिखितुं न शक्यन्त इत्य् अर्थः ॥१९८॥

अथोपवास-दिन-निर्णयः

एकादशी च सम्पूर्णा विद्धेति द्विविधा स्मृता ।
विद्धा च द्विविधा तत्र त्याज्या बिद्धा तु पूर्वजा ॥१९९॥

विद्धैकादशी च अग्रे लेख्येन वेधातिवेध-महा-वेधयोगा इति भेद-चतुष्टयेन सन्दिग्धता । संयुक्तादि-भेद-त्रयेण च । किं वा, स्वतः साम्य-न्यूनताधिक्यैर् नव-भेदतो नाना-विधा भवति । तत्र पूर्व-विद्दोत्तर-विद्धयोर् मध्ये पूर्वया दशम्या विद्धा त्याज्या नोपष्येत्य् अर्थः । अत्र च त्याज्येति सामान्य-निर्देशेन सर्वैर् एव परित्याज्येति बोद्धव्यम् । ततश् च—

शुद्धैव द्वादशी राजन्न् उपोष्या मोक्ष-काङ्क्षिभिः । सकामैर् गृहिभिः पूर्वाबिद्धापीति निश्चयः ॥

इति पुराण-समुच्चयादि-वचनार्थो निरस्तः । तद् युक्तिश् चाग्रे दर्शयितव्येति दिक् ॥१९९॥

तथा च पैठीनसिः—

नाग-विद्धा तु या षष्ठी शिव-विद्धा च सप्तमी ।
दशम्यैकादशी विद्धा तत्र नोपवसेद् बुधः ॥२००॥

नागः पञ्चमी । तेन विद्धा । शिवः षष्ठी तेन विद्धा ॥२००॥

सारदा-पुराणे—

एकादशी तथा षष्ठी पौर्णमासी चतुर्दशी ।
तृतीया च चतुर्थी च अमावस्याष्टमी तथा ।
उपोष्याः पर-संयुक्ता नोपोष्याः पूर्व-संयुताः ॥२०१॥

सौर-धर्मोत्तरे च—

एकादशीम् उपवसेद् द्वादशीम् अथवा पुनः ।
विमिश्रां वापि कुर्वीत न दशम्या युतां क्वचित् ॥२०२॥

विमिश्राम् एकादशीं द्वादशीं चान्योन्य-मिलिताम्, एकादशी-युक्तां द्वादशीम् इत्य् अर्थः ॥२०२॥

अथ सामान्यतो विद्धोपवास-दोषः

अत्र वार्षायणिः—

भूत-बिद्धा त्व् अमावस्या दशम्यैकादशी-युता ।
दिशा बिद्धा तु सा स्वर्गं हन्ति पुण्यं पुरा कृतम् ॥२०३॥

भूतेन चतुर्दश्या बिद्धा । एकादश्या युता दशमी च भवेत् । सा दशमी तु दिशया एकादश्या बिद्धा स्वर्गं पुण्यं च हन्ति ॥२०३॥

नारदः—

दशम्य्-अनुगता यत्र तिथिर् एकादशी भवेत् ।
तत्रापत्य-विनाशं च परेत्य नरकं व्रजेत् ॥२०४॥

अपत्यानां विनाशं व्रजेत् प्राप्नोति । विनाच इति वा पाठः ॥२०४॥

नोपोष्या दशमि-बिद्धा सदैवैकादशी तिथिः ।
समुपोष्य नरो जह्यात् पुण्यं वर्ष-चातोद्भवम् ॥२०५॥

किं च—

दशम्या चैव बिद्धायाम् एकादश्याम् उपोषितः ।
तस्यायुः क्षीयते नित्यं नारदो’हं ब्रवीमि वः ।
सत्यं सत्यं विनश्येत सन्ततिस् तु न चान्यथा ॥२०६॥

किं च—

मुहूर्तेनापि संयुक्ता दशम्यैकादशी तु या ।
ताम् उपोष्य नरो मोहात् सुखाद् धर्माच् च हीयते ॥२०७॥

वाशिष्ठश् च—

दशम्यैकादशी यत्र तत्र नोपवसेद् बुधः ।
अपत्यानि विनश्यन्ति स्वर्ग-लोकं न गच्छति ॥२०८॥

ब्राह्मे व्रत-खण्डे—

उपोष्यैकादशीं मोहाद् दशमी-शेष-संयुताम् ।
न नरः सुखम् आधत्ते इह-लोके परत्र च ॥२०९॥
धृतराष्ट्रेण मैत्रेयः पृष्टः प्राह नराधिपम् ।
यद्-अर्थं ते वियोगो’भूत् पुत्राणां भार्यया सह ॥२१०॥
पूर्वं त्वया सभार्येण दशमी-शेष-संयुता ।
कृता चैकादशी राजन् तस्येदं कारणं मतम् ॥२११॥

भार्यया सह गान्धारी-सहितस्य तव । तस्यास् तव च यद्-अर्थं पुत्र-वियोगो’भूत् । तस्येदं कारणम् इत्य् अन्वयः । तद् एवाह—पूर्वम् इति ॥२११॥

किं च तत्रैव—

न चाहं स्वैरिणी भार्या न चाहम् अपतिव्रता ।
न चेह कलुषं येन किं पापं त्व् अन्य-जन्मनि ॥२१२॥
राम-पत्न्या वचः श्रुत्वा वाल्मीकिर् मुनि-पुङ्गवः ।
चिरं ध्यात्वा महाराज ताम् उवाचेदृशं वचः ॥२१३॥

न चाहम् इत्यादि वचः ॥२१३॥

दशम्यैकादशीं पूर्वं समुपोष्य जनार्दनः ।
अभ्यर्चितस् त्वया देवि तस्येदं कर्मणः फलम् ॥२१४॥

दशमी-युक्ताम् एकादशीं, देवि हे श्रीमति ॥२१४॥

किं च—

वशिष्ठः समुवाचेदं पृष्टो मान्धातृ-भार्यया ।
दशम्यैकादशी देवि पुरा चोपोषिता त्वया ॥२१५॥

ताम् इति पाठे मान्धातृ-भार्या प्रत्युवाच । देवि, हे राज्ञि मान्धातृ-भार्ये ॥२१५॥

तेन ते कर्मणा चेह स्व-भर्तृ-सुत-बान्धवैः ।
वियोगः समनुप्राप्तः सत्यं विद्धि पतिव्रते ॥२१६॥
यानि यानीह पापानि त्रैलोक्ये सम्भवन्ति वै ।
तेषां स्थानं दशम्या वै सहितैकादशी मता ।
सप्त-जन्म-कृतं पुण्यं नश्येत नात्र संशयः ॥२१७॥

कौर्म-नारदीय-विष्णु-रहस्येषु—

दशमी-शेष-संयुक्तां यः करोति विमूढ-धीः ।
एकादशी-फलं तस्य न स्याद् द्वादश-वार्षिकम् ॥२१८॥
यैः कृता दशमी-बिद्धाविद्या-मोहेन मानवैः ।
ते गता नरकं घोरं युगानाम् एक-सप्ततिम् ॥२१९॥

किं च—

दशमी-बेध-संयुक्ताम् उपोष्यैकादशीं किल ।
संवत्सर-कृतेनेह नरो धर्मेण मुच्यते ॥२२०॥

मुच्यते परित्यज्यते ॥२२०॥

भविष्ये—

पूर्णा-बिद्धां पलार्धेन नन्दां पूर्णाम् अपि त्यजेत् ।
यदीच्छेद् आत्म-सन्तानं चतुर्षु नियमेष्व् अपि ॥२२१॥

पलार्धेनापि पूर्णया दशम्या बिद्धां नन्दाम् एकादशीं सुपूर्णाम् अपि चतुर्षु नियमेषु वक्ष्यमाणोपोषितादिषु त्यजेत् ॥२२१॥

नोपोषितं च नक्तं च नैक-भक्तम् अयाचितम् ।
नन्दायां पूर्व-बिद्धायां कुर्याद् ऐश्वर्य-मोहितः ॥२२२॥

एक-भक्तेन नक्तेनेत्य् आदिना कदाचिद् अशक्तादीनाम् एकादशी-व्रत-पालनार्थम् एक-भक्तादिकं विहितम् अस्ति, तद् अपि बिद्धायां वर्जनीयम् इत्य् आह—नोपोषितम् इति । उपवासं यथा तथेत्य् अर्थः ॥२२२॥

ब्रह्म-वैवर्ते—

गङ्गोदकस्य सम्पूर्णं यथा त्याज्यं घटं भवेत् ।
सुरा-बिन्दु-समायुक्तं तत् सर्वं मद्यतां व्रजेत् ॥२२३॥

त्याज्यत्वे हेतुः—सुरुत्यादिः ॥२२३॥

हालाहलं विषं रौद्रं कः पिबेन् मूढ-धीर् नरः ।
दशमी-शेष-संयुक्तां क उपोषति सद्-व्रती ॥२२४॥

एवं पर-लोके दुःख-हेतुत्वम् उक्तम् । इह-लोके’प्य् आह—हालेति । दशम्याः शेषेण संयुक्ताम् एकादशीम् इति शेषः ॥२२४॥

एवं ज्ञात्वा मुनिश्रेष्ठ दशमी-शेष-संयुता ।
वर्जिता मुनिभिः सर्वैर् वासुदेवम् अभीप्सुभिः ॥२२५॥

गारुडे—

बिद्धाम् एकादशीं विप्रास् तज्यन्त्य् एआं मनीषिणः ।
तस्याम् उपोषितो याति दारिद्र्यं दुःखम् एव च ॥२२६॥

नारदीये—

लव-बेधे’पि विप्रेन्द्र दशम्यैकादशीं त्यजेत् ।
सुराया बिन्दुना स्पृष्टं गङ्गाम्भः-कलसं यथा ।
श्वदृतौ पञ्च-गव्यं च दशम्या दूषितं त्यजेत् ॥२२७॥

शुनः दृटौ चर्मणि पञ्च-गव्यम् इव ॥२२७॥

स्कान्दे—

द्वापरान्ते तु गान्धारी कुरु-वंश-विवर्धिनी ।
करिष्यति च सेनानि मूढ-भावाच् छिखि-ध्वज ।
तेन पुत्र-शतं तस्या नाशम् एष्यत्य् असंशयम् ॥२२८॥
कला काष्ठापि या चैव दृश्यते दशमी विभो ।
एकादश्यां तु सेनानि कर्तव्या न कथञ्चन ॥२२९॥

किं च—

दशयैकादशी यत्र तत्र सन्निहितो’सुरः ।
द्वादश्यैकादशी यत्र तत्र सन्निहितो हरिः ॥२३०॥

अत्रासुरः सन्निहित इति दैत्यानां तद्-उपवास-फल-प्राप्तेः ॥२३०॥

किं च, तत्रैवोमा-महेश्वर-संवादे—

स्वर्गापेक्षा महा-देवि तेन त्यक्ता न संशयः ।
वाञ्छितं नारकं सौख्यं विद्धं कृत्वा हरेर् दिनम् ॥२३१॥
निहताः पितरस् तेन देवतानां वधः कृतः ।
दत्तं राज्यं तु दैत्यानां कृत्वा बिद्धं हरेर् दिनम् ॥२३२॥
पितृभिः सहितं वैरं तैस् तु सुरैः सह ।
कारापयन्ति बिद्धं ये कुर्वन्ति हरि-वासरम् ॥२३३॥

कारयन्तीति वक्तव्ये कारापयन्तीत्य् आर्षम् ॥२३३॥

किं च तत्रैव—

ये शंसन्ति दिनं विष्णोर् दशमी-वेध-दूषितम् ।
ज्ञेयास् ते पाप-पुरुषाः शुक्र-माया-विमोहिताः ॥२३४॥

शंसन्ति कर्तुम् उपदिशन्ति । ननु कथं ते पाप-पुरुषाः ? बिद्धाप्य् अबिद्धा विज्ञेयेत्य् आदि शास्त्र-विधानात् ? तत्राह—शुक्रेति । तद्-अग्रे व्यक्तं भावि ॥२३४॥

उपोषण-दिने विद्धे जागरः पूजनं हरेः ।
वृथा दानादिकं सर्वं कृतघ्नेषु कृतं यथा ॥२३५॥
उपोषण-दिने विद्धे प्रारब्धे जागरे सति ।
विहाय स्थानं तद् विष्णुः शापं दत्त्वापगच्छति ॥२३६॥

किं च—

एकादशीं यदा विद्धां कुरुते चारु-लोचने ।
दशमी-वेधजं पापं नश्यते कृष्ण-दर्शनात् ॥२३७॥
न चास्ति संशयं कश्चित् पुनर् न कुरुते यदि ।
कारापयन्ति ये त्व् अज्ञाः कूट-युक्तास् तु हैतुकाः ॥२३८॥

कृष्ण-दर्शनान् नश्यतीति पापस्य महत् तथा प्रायश्चित्तम् अपि दुर्घटं महद् उक्तम् । पुनर् न कुरुते यदि इत्य् अनेन पुनर् यदि विद्धां कुरुते, तदा पुनः पापोत्पत्तेर् निष्टम् एवेति विद्धाकरण-पापस्य महा-भयानकत्वम् उक्तम् । कूटं शाठ्यं, तद्-युक्ताः हैतुकाः शुष्क-तर्क-पराः ॥२३७-२३८॥

प्रेत-योनिं प्रपश्यन्ति पितृभिः सहिता नराः ।
द्वादशीं दशमी-विद्धा धन-सन्तान-नाशिनी ।
ध्वंसिनी सर्व-पुण्यानां कृष्ण-भक्ति-प्रणाशिनी ॥२३९॥

तत्रैव श्री-मार्कण्डेय-भगीरथ-संवादे—

न स भागवतो ज्ञेयो यः करोति हरेर् दिनम् ।
एकादशी-बेध-संयुक्तं पाप-म्ञ्लं सदैव हि ॥२४०॥
पुराणम् अन्यथा कृत्वा करोत्य् एकादशी-दिनम् ।
दशमी-शेष-संयुक्तं स नरः पशु-सन्ततिः ॥२४१॥
ब्रह्मघ्नस्य च यत् पापं स्त्री-बाल-गुरु-घातिनः ।
दशमी-शेष-संयुक्तां यः करोति तद् आप्नुयात् ॥२४२॥
वृषली-सेवनात् पापं स्वपची-गमने च यत् ।
तत् पापं जायते बिद्धं यः करोति हरेर् दिनम् ॥२४३॥
दशमी-शेष-संयुक्तं निषिद्धं विष्णुना पुरा ।
तस्माद् भागवतैर् भूप शोधयित्वा हरेर् दिनम् ।
उपोषितव्यं यत्नेन पूर्व-सङ्गति-वर्जितम् ॥२४४॥
पृथिव्यां यानि पापानि स्थूल-सूक्ष्माणि भूपते ।
तेषां फलम् अवाप्नोति स-शल्यैकादशी-व्रते ॥२४५॥
कुरुते वैष्णवो भूत्वा स-शल्यैकादशी-व्रतम् ।
ज्ञानतो’ज्ञानतो वापि न स विष्णु-प्रियो भवेत् ॥२४६॥

किं च, तत्रैवान्यत्र—

विद्धाम् एकादशीं मोहाद् दशमी-शेष-संयुताम् ।
कुर्वन् न सुखम् आधत्ते इह-लोके परत्र च ॥२४७॥
तस्माद् एकादशी युक्ता दशम्या नर-सत्तम ।
न कर्तव्या प्रयत्नेन निष्कला द्वादशी मता ॥२४८॥

निष्कला शुद्धा द्वादश्य् एव मता मुनिभिर् उपवासार्थम् अनुज्ञातेत्य् अर्थः ॥२४८॥

यथा चैकादशी राजन् द्वादशी च तथा नृणाम् ।
समाना तत्-फला प्रोक्ता व्रते’स्मिन् चक्र-पाणिनः ॥२४९॥

समाना विष्णु-दैवतेन, ततस् तत्-तत्-फलाः, तत्र हेतुः—व्रत इति । चक्रपाणेर् एव व्रत-द्वयम् एतत् । अतस् तत्र साम्यं युक्तम् एवेत्य् अर्थः ॥२४९॥

द्वारका-माहात्म्ये चन्द्रशर्माणं प्रति तत्-पितॄणाम् उक्तौ—

वर्जनीयः प्रयत्नेन बेधो दशमि-सम्भवः ।
नो चेत् पुत्र न सन्देहः प्रेत-योनिम् अवाप्स्यति ॥२५०॥

दशमीति ह्रसत्वम् आर्षम् ॥२५०॥

हत्या गच्छन्ति काश्यां तु गयायां पैतृकं ऋणम् ।
दशमी-बेधजं पापं न काश्यां न गयाशिरे ॥२५१॥
त्रैलोक्य-सम्भवं पापं तेषां भवति भूतले ।
सशल्यं ये कुर्वन्ति वासरं कृष्ण-सञ्ज्ञकम् ।
प्रेतत्वं दुःसहं पुत्र दुःसहा यम-यातना ॥२५२॥

तत्रैव तं प्रति श्री-भगवद्-उक्तौ—

पुण्यं सुसञ्चितं याति कल्प-कोटि-शतार्जितम् ।
सशल्यं ये प्रकुर्वन्ति मुक्तिदं मम वासरम् ॥२५३॥

अत एव तत्रैव भगवन्तं प्रति तत्-प्रार्थने—

दशमी-बेधजं पापं त्वद्-दिने मम पूर्वजैः ।
यत् कृतं नाशम् आयातु त्वत्-प्रसादाज् जनार्दनः ॥२५४॥
स-बिद्धं त्वद्-दिने कृष्ण यत् कृतं जागरं विभो ।
तत् पापं विलयं यातु लवणं तु यथाम्भसि ॥२५५॥

जागरम् इति नपुंसकत्वम् आर्षम् ॥२५५॥

स-बिद्धं वासरं यस्मात् कृतं मम पितामहैः ।
प्रेतत्वं तेन सम्प्राप्तं महा-दुःख-प्रदायकम् ॥२५६॥

बिद्धं बेधः । तेन सह वर्तमानम् । सा चाख्यायिका तत्रैव—चन्द्रशर्मा विप्रः श्री-रुद्रैक-भक्तः श्री-भगवद्-विमुखः कदाचित् स्वप्ने दृष्ट-बिद्ध-व्रतेन प्रेतत्वं गतैस् तत्-पितृ-गणैः श्री-भगवद्-भक्त्य्-अर्थम् उपदिष्टो द्वारकां गत्वा भगवन्तम् आराध्य सम्प्रार्थ्य सपितृको विमुक्तिं प्राप इति ॥२५६॥

पाद्मे श्री-भगवद्-ब्रह्म-संवादे—

शुक्रेण मोहिता विप्रा दैत्यानां कारणेन तु ।
पुष्ट्य्-अर्थं दशमी-विद्धं कुर्वन्ति मम वासरम् ॥२५७॥

हिरण्याक्ष-वध-प्रसङ्गे दैत्यानां वधं दुष्करं दृष्ट्वा ब्रह्मणा तत्-कारणं पृष्टः श्री-भगवान् आह—शुक्रेणेत्य् आदि । कारणम् एवाह—पुष्ट्य्-अर्थम् इति । मदीयं वासरम् एकादशी-दिनम् ॥२५७॥

वासरं दशमी-विद्धं दैत्यानां पुष्टि-वर्धनम् ।
मदीयं नास्ति सन्देहः सत्यं सत्यं पितामह ॥२५८॥
यावद् दशम्या संयुक्तं करिष्यन्ति दिनं मम ।
तत् पुण्यं दैत्य-जातीनां सुरैर् दत्तं पितामह ॥२५९॥
तेन पुण्येन सम्पुष्टो हिरण्याक्षः पितामह ।
निर्जित्य वासवं सङ्ख्ये हृतं राज्यं दिवौकसाम् ॥२६०॥

अत एव तेन राज्यादि हृतम् ॥२६०॥

शुक्रेण मोहिताः सर्वे दैत्यानां विजयाय वै ।
अतो विद्धं प्रकुर्वन्ति वासरं मम मानुषाः ॥२६१॥
मार्कण्ड गच्छ भद्रं ते भूर्लोकं तु ममाज्ञया ।
दशमी-वेध-विषये मायां शुक्रस्य नाशय ॥२६२॥

तत्राधुनोपायः कः ? तत्राह—मार्कण्डेति । मायां शुक्रस्य नाशयेति । विद्धिपवास-वचनानि शुक्र-माया-कृतान्य् एवेत्य् उपदिश्य तत्रोपवासं निषेधयतीत्य् अर्थः ॥२६२॥

श्री-विष्णोर् वचनं श्रुत्वा मार्कण्डो मुनि-सत्तमः ।
सम्प्राप्तो’निक्मिषारण्यं यत्र यज्ञ-पुमान् हरिः ॥२६३॥
मार्कण्ड-वचनं श्रुत्वा ऋषायो नैमिषालयाः ।
शुक्र-माया-विनिर्मुक्ता विस्मयं परमं गताः ॥२६४॥

परमं विस्मयं गता इति शास्त्रेष्व् अपि तादृश-माया-सम्भवात् ॥२६४॥

इन्द्रद्युम्नाय कथितं महाभागवताय वै ।
गत्वाश्रमेषु सर्वेषु कथितं वन-वासिनाम् ॥२६५॥

वन-वासिनां वन-वासिनः प्रति कथितं मार्कण्डेयेन ॥२६५॥

हित्वा शुक्रस्य वाक्यानि मार्कण्वचनाज् जनैः ।
त्यक्ता दशमि-संयुक्ता विप्राद्यैः पुण्य-काङ्क्षिभिः ॥२६६॥
पूर्णाबेध-कुठारेण नरा द्वादशी-पादपम् ।
छेदयन्ति च ये पापाः कल्पान्तं नारका हि ते ॥२६७॥

पूर्णया दशम्या बेध एव कुठारस् तेन छेदयन्ति, तत्र व्रत-द्वारा ॥२६७॥

भविष्ये, मार्कण्डेय-पुराणे च—

पूर्णाबिद्धाम् उपास्ते को नन्दां वेद-बलाद् अपि ।
को वेद वचनात् तात गोसवे गां निहन्ति वै ॥२६८॥

वेद-बलाद् अपीति । वेदेषु तादृशानि वचनानि न सन्त्य् एव, सत्स्व् अपि तद्-बलात् क उपास्ते ? अपि तु न को’पि । कथञ्चित् पूर्व-वृत्तानाम् अपि वचनानां पर-वचनैर् बाधितत्वात् । तत्र दृष्टान्तः—गो-मेधे पूर्व-वृत्तम् अपि गो-वधं कः कुर्यात् ? अधुना कलि-काले तन्-निषेधात्। एवं शुक्र-मायादिना कथञ्चित् पूर्वं वृत्तानाम् ऐ बिद्धोपवास-वचनानाम् अधुना श्री-भगवद्-आज्ञया मार्कण्डेय-वचनेन निषिद्धत्वात् पुनर् बिद्धोपवासं कः कुर्याद् इत्य् अर्थः ॥२६८॥

दशमी-शेष-संयुक्तम् आश्रयेत् को व्रतं व्रती ।
तस्माद् एकादशी त्याज्या दशमी-पल-मिश्रिता ।
उपोष्या द्वादशी शुद्धा त्रयोदश्यां तु पारणम् ॥२६९॥

कौर्मे ब्रह्म-वैवर्ते च श्री-व्यास-सूत-संवादे—

सुपुण्यैकादशी सूत यदि शल्य-विवर्जिता ।
कर्तुर् निरय-पाताय सशल्या समुपोषिता ।
शल्यं बेध इति प्रोक्तं पुराणार्थ-विचक्षणैः ॥२७०॥

यदि शल्य-विवर्जितैकादशी समुपोषिता, तदा सुपुण्या परम-मङ्गल-कारिणीत्य् अर्थः । सा चेत् सशल्या समुपोषिता । तदा कर्तुस् तद्-व्रत-कर्तुर् निरये पतनाय भवति सैव ॥२७०॥

किं च, तत्रैव श्री-सूत-शौनक-संवादे—

ये तु मिथ्याभिधानेन मोहयन्ति नरा भुवि ।
विमूढाः पापिनस् तेषां रौरवं शरणं चिरम् ॥२७१॥
अध्यापयन्त्य् अविज्ञेयं पण्डितं-मन्य-बुद्धयः ।
कारयन्त्य् अबुधा लोके द्वादशीं दशमी-युताम् ॥२७२॥

अधुना बिद्धोपवासोपदेशकान् निन्दति—ये त्व् इति सार्धश् चतुर्भिः । अविज्ञेयं स्वयं ज्ञातुम् अशक्यम् अप्य् अन्यान् अध्यापयन्तीति ॥२७१-२७२॥

ये कारयन्ति कुर्वन्ति द्वादशीं दशमी-युताम् ।
शुद्धये तन्-मुखं वीक्ष्य सूर्य-दर्शनम् आचरेत् ॥२७३॥
नमो नारायणायेति जेपेद् वा द्वादशाक्षरम् ।
वराकाः किम् उ जानन्ति प्राणिनः कार्य-निश्चयम् ।
धिग् धिङ् मूढ-धियः पापान् धर्म-विप्लव-कारिणः ॥२७४॥
हिंसितो भगवांस् तेन द्वादशी दशमी-युता ।
कृता येन द्विज-श्रेष्ठ सम्यग् उक्तं मया तव ॥२७५॥
संस्थितो भगवान् कृष्णो द्वादशी-रूप-धृग् यतः ।
तस्माद् असंशयं त्याज्या द्वादशी दशमी-युता ॥२७६॥

बिद्धा-करणे च महा-दोष-विशेषं पुनर् आह—हिंसित इति द्वाभ्याम् ॥२७५॥

किं च—

द्वयोर् विवदतोः श्रुत्वा द्वादशीं समुपोषयेत् ।
पारणं तु त्रयोदश्याम् एष शास्त्र-विनिर्णयः ॥२७७॥

कुतर्क-बलतो विवादेनानिश्चये’पि जाते बिद्धां परित्यज्य शुद्धा द्वादश्य् एवोपोष्येति सनिश्चयम् आह—द्वयोर् इति ॥२७७-२७८॥

द्वादशी दशमी-युक्ता यतः शास्त्रे प्रतिष्ठिता ।
न तत् शास्त्रम् अहं मन्ये यदि ब्रह्मा स्वयं वदेत् ॥२७८॥

ननु शास्त्र-दृष्टेर् अविवादः । तत्राह—द्वादशीति । अहं वेदव्यासः ॥२७८॥

अत एव नारदीये—

बहु-वाक्य-विरोधेन सन्देहो जायते यदा ।
उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥२७९॥

श्री-मार्कण्डेयेन चेन्द्रद्युम्नं प्रति श्री-भगवद्-आज्ञायाः प्रतिपालने—

विवादेषु च सर्वेषु द्वादश्यां समुपोषणम् ।
पारणं हि त्रयोदश्याम् आज्ञेयं मामकी मुने ।
हेतुवादो न कर्तव्यो हेतुना पतते नरः ॥२८०॥

अत एव पितामहः—

एकादशी-दिन-क्षये उपवासं करोति यः ।
तस्य पुत्रा विनश्यन्ति मघायां पिण्डतो यथा ॥२८१॥

बिद्धा-वर्जनम् एव तिथि-क्षय-दिनोपवास-दोष-दर्शनादिना साधयति—एकादशीत्य् आदिना । एकादशी-दिनस्य क्षयो दशम्याः शेषानुवृत्ताव् एव स्यात् । अतस् तद्-दिनं बिद्धम् एव । तस्मिन् य उपवासं करोति ॥२८१॥

दिन-क्षये तु सम्प्राप्ते नोपोष्या दशमी-युता ।
यदीच्छेत् पुत्र-पौत्राणां वृद्धिं सम्पदम् आत्मनः ॥२८२॥

दशमी-युतेति द्वादशी-क्षय-व्यावृत्त्य्-अर्थम् ॥२८२॥

व्यासः—

एकादशी-दिने क्षीणे उपवासी भवेद् गृही ।
अन्नाभावे निरुद्धो वा सङ्कल्पाद् वा विशेषतः ॥२८३॥
धर्म-हानिश् च भवति सन्ततिर् नश्यति ध्रुवम् ।
तस्यायुः क्षीयते नित्यं संवत्सरम् इति श्रुतिः ॥२८४॥

अत एव गोमिलः—

एकादश्यां यदा ब्रह्मन् दिन-क्षय-तिथिर् भवेत् ।
तदा ह्य् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ।
तत्र क्रतु-शतं पुण्यं त्रयदश्यां तु पारणम् ॥२८५॥

श्री-नारदीये—

क्षये वाप्य् अथवा वृद्धौ सम्प्राप्ते वा दिन-त्रये ।
उपोष्या द्वादशी शुद्धा पूर्व-बिद्धां विवर्जयेत् ॥२८६॥

क्षये तिथिक्षये दिनतये त्र्यहस्पर्श इत्यर्थः । एवं त्रयोदशीवियोगसंयोगाभ्यां भेदः ॥२८६॥

किं च—

दशम्यैकादशी बिद्धा परतो द्वादशी न चेत् ।
द्वादशी तु तदोपोष्या त्रयोदश्यां तु पारणम् ॥२८७॥

कौर्मे—

दिन-क्षये तु सम्प्राप्ते उपोष्या द्वादशी भवेत् ।
दशमी-शेष-संयुक्तां न कुर्वीत कदाचन ॥२८८॥

किं च—

तिथि-वृद्धौ तथा ह्रासे सम्प्राप्ते वा दिन-क्षये ।
सन्दिग्धेषु च वाक्येषु द्वादशीं समुपोषयेत् ॥२८९॥

ब्राह्मे—

तिथि-च्छेदे तु सम्प्राप्ते द्वादशीं समुपक्रमेत् ।
पारयेद् वै त्रयोदश्यां यदीच्छेच् छ्रेय आत्मनः ॥२९०॥

तिथिच्छेदे तिथिक्षये ॥२९०॥

जपे होमे तथा दाने ब्राह्मणानां च तर्पणे ।
पारणे चापि राजेन्द्र प्रशस्ता च त्रयोदशी ॥२९१॥

यच् चोक्तं विष्णु-रहस्यादौ—

पारणं तु न कर्तव्यम् उपोष्यैकादशीम् इह ।

त्रयोदश्यां नरैर् नित्यं धर्म-वृद्धिम् अभीप्सुभिः ॥ इत्य् आदि ।

तत्राह—जप इति । एवं त्रयोदशी-पारण-निषेध-वचनानि त्रयोदश्यां द्वादशी-सद्-भावे द्वादश्य्-अतिक्रमेण त्रयोदश्यां पारण-विषयाणि ज्ञातव्यानि । एतच् चाग्रे विवृतं भावि ॥२९१॥

स्कान्दे च—

एकादश्यां तु बिद्धायां नोपवासार्चनादिकम् ।
द्वादश्याम् एव तत् कुर्यात् त्रयोदश्यां च पारणम् ।
शत-यज्ञादिकं पुण्यं मुक्तिर् एव महा-फलम् ॥२९२॥

किं च—

ऊर्ध्वं हरि-दिनं न स्याद् द्वादशीं ग्राहयेत् ततः ।
द्वादश्याम् उपवासो’त्र त्रयोदश्यां तु पारणम् ॥२९३॥
एवं कुर्वन् नरो भक्त्या विष्णु-सायुज्यम् आप्नुयात् ।
अन्यथा कुरुते यस् तु स याति नरकं ध्रुवम् ॥२९४॥
एकादशी ऋषीणां तु द्वादशी चक्रपाणिनः ॥२९५॥

यद्यप्य् एकादश्य् अपि भगवत एव तिथिः, तथापि ऋषीणां सम्बन्धेनैव द्वादशी च साक्षाच् चक्रपाणेर् एवेति द्वादश्या माहात्म्य-विशेषार्थम् उक्तम् ॥२९५॥

अत एव मार्कण्डेयेन्द्रद्युम्न-संवादे—

एकादशी ऋषीणां तु द्वादशी चक्रपाणिनः ।
तत् कथं द्वादशी भूप नोपोष्या क्रयते जनैः ॥२९६॥

श्री-मार्कण्डेयेन पूर्वम् एकादश्य्-उपवासो द्वादश्यां च पारणम् इत्य् उक्त्वानन्तरं च वेध-संशयादौ सति द्वादश्य्-उपवासस् त्रयोदश्यां पारणम् इत्य् उक्तम् । तत्र सर्वत्र सुप्रसिद्धैकादशी-व्रत-परित्यागेन कथञ्चिद् दोषः स्याद् इत्य् आशङ्कया महाराजेन्द्र-द्युम्नेन पृष्टे सति द्वादश्य्-उपवासेनैव सर्व-दोष-क्षयो महा-फलं चेति द्वादशी-माहात्म्यं श्री-मार्कण्डेयेनोक्तं लिखति—एकादशीत्य् आदिना पाप-नाशिनीत्य् अन्तेन ॥२९६॥

एषा निःश्रेयसी भूप फल-भोग-विवर्धनी ।
मोक्षात्मिका पुरा प्रोक्ता द्वादशी प्रवरा तिथिः ॥२९७॥

फलं मोक्षादि, भोगश् च विषय-सुखादिस् तयोर् वर्धनी । पाठान्तरे फलं सवर्गादि-सुखं, तस्य भोगेन रहिता मोक्षत्मकत्वात् ॥२९७॥

एकादशी शरीरं तु पुरुषो द्वादशी स्मृता ।
द्वादश्याम् उपवासेन सिद्धा भूप सहस्रशः ॥२९८॥
चक्रवर्तित्वम् अतुलं सम्प्राप्ता अचलां श्रियम् ।
चतुर्दशैते स ज्ञाता बलिनश् चक्रवर्तिनः ॥२९९॥
विष्ण्व्-अंशास् ते महावीरा दुष्ट-दैत्य-निवर्हणाः ।
उपोष्य द्वादशीं शुद्धां यावज्-जीवं व्रतान्विताः ॥३००॥
चक्रवर्तित्वम् आपन्ना भुक्त्वा भोगान् सुखानि वै ।
कुवलाश्वो विश्व-गन्धिर् हरिश्चन्द्रो नलः पृथुः ॥३०१॥
मरुतो भरतश् चैव कार्तवीर्यश् च हैहयः ।
मान्धाता सगरो रामः ककुत्स्थो नहुषस् तथा ॥३०२॥
उपोष्य द्वादशीं पुण्याम् अपरां च विवर्ज्य तु ।
भुक्त्वा स्वर्ग-सुखान्य् एते चक्रवर्तित्वम् आगताः ॥३०३॥

अपराम् एकादशीम् ॥३०३॥

जनकानां महीपाल द्वादश्यां समुपोषणे ।
सप्तम्या सन्ततिर् युक्ता संसिद्धिं परमां गता ॥३०४॥
पुरु-कुत्सो महीपालो द्वादश्यां समुपोषणे ।
सिद्धिं गतः परित्यज्य कर्म-बन्धं दुरासदाम् ॥३०५॥

दुरासदाम् अन्यैर् दुर्लभां सिद्धिम् । पाठान्तरे दुष्परिहरं कर्म-बन्धम् ॥३०५॥

मान्धाता यौवनाश्वश् च द्वादश्यां समुपोषणे ।
सङ्ग्रामे निधनं प्राप्य सम्प्राप्तः परमं पदम् ॥३०६॥
शाकुन्तलो महीपालो दौष्मन्तिर् अपराजितः ।
द्वादश्याम् उपवासेन गतस् तद् वैष्णवं पदम् ॥३०७॥
वैण्यः पुरूरवा भूप पालयित्वा धरातलम् ।
धरणी-धरम् अभ्यर्च्य द्वादशीषु सदा पुनः ।
गतस् तद् वैष्णवं लोकं दाह-प्रलय-वर्जितम् ॥३०८॥
एते राजर्षयो भूप द्वादश्यां समुपोषणे ।
सिद्धिं परमिकां प्राप्त ये द्विजास् तान् शृणुष्व मे ॥३०९॥
याव-क्रीतश् च वैदर्भो माण्डव्यः कौशिको मुनिः ।
भरद्वाजस् तथा कण्वः कुम्भयोनिस् तथा मुनिः ॥३१०॥
अष्टाशीति सहस्राणि मुनीनाम् ऊर्ध्व-रेतसाम् ।
प्रयान्ति स्यन्दस्याग्रे तिमिरारेर् जनाधिप ॥३११॥
ते सर्वे परमां सिद्धिं द्वादश्यां समुपोषणे ।
मया सह गता भूप कथन्ते संशयो भवेत् ॥३१२॥
द्वादशी-वासरं राजन् हरि-गुह्यं प्रकीर्तितम् ।
निरापबाधं लोके’स्मिन् शुद्धं वैष्णव-वल्लभम् ॥३१३॥

निःशेषेण आ सम्यक् अपगता बाधा यस्मिन् । पाठान्तरे निर्गतम् आत्मापराधिद्भवं फलं यस्मात् तत् ॥३१३॥

तस्माद् भूप न सन्देहः कर्तव्यो द्वादशीं प्रति ।
विशेष-फलदा प्रोक्ता द्वादशी पाप-नाशिनी ॥३१४॥

अथ सम्पूर्णा-लक्षणेन बिद्धा लक्षणम्

स्कन्दे–

प्रतिपत्-प्रभृतयः सर्वा उदयाद् उदयाद् रवेः ।
सम्पूर्णा इति विख्याता हरि-वासर-वर्जिताः॥३१५॥

एवं सर्वथा विद्धा परित्याज्येति निश्चितम् । तत्रापेक्षितं विद्धा-लक्षणं सम्पूर्णा-लक्षण-भिन्नत्वेन लिखति प्रतिपद् इति त्रिभिः । रवेर् उदयात् एकम् उदयम् आरभ्य आ-उदयाद् अन्योदयावधि यदि स्युस् तदा सम्पूर्णा इत्य् अर्थः । हरिवासर एकादशी तद्-वर्जिताः । स च नैतादृशः, किन्तु उदयात् पूर्वं मुहूर्त-द्वयं यद्य् असौ भवति, तदैव सम्पूर्णः स्याद् इत्य् अर्थः ॥३१५॥

गारुडे शिव-रहस्ये च—

उदयात् प्राक् यदा विप्र मुहूर्त-द्वय-संयुता ।
सम्पूर्णैकादशी नाम तत्रैवोपवसेद् गृही॥३१६॥

तद् एव श्री-गरुड-पुराणादि-वचनैर् दर्शयति—उदयाद् इति द्वाभ्याम् । गृहीति विद्धायां केचिद् उपवासं व्यवस्थापयन्ति, तत्-परिहारार्थम् उक्तम् ॥३१६॥

भविष्ये च—

आदित्योदय-वेलायाः प्राङ्-मुहूर्त-द्वयान्विता ।
एकादशी तु सम्पूर्णा विद्धान्या परिकीर्तिता ॥३१७॥
अतएव परित्याज्य समये चारुणोदये ।
दशम्यैकादशी विद्धा वैष्णवेन विशेषतः ॥३१८॥

अन्या उक्त-लक्षण-सम्पूर्णेतरा विद्धोक्ता ॥ अतः पूर्व-विद्धा-त्यागाद् एव हेतोः । तत्र च उदयात् प्राक् मुहूर्त-द्वयान्तर्-दशमी-प्राप्त्या वेध-प्रसाङाद् धेतोर् एव अरुणस्योदयो यस्मिन् तस्मिन् समये दशम्या विद्धैकादशी परित्याज्या सर्वैर् एव । तत्र च वैष्णवेन विशेषतः परित्याज्येति वैष्णवेन न कर्तव्यं तद् धि चैकादशी-व्रतम् इति भविष्य-पुराणादि-विशेषोक्तेर् वैष्णवेतरेषां शैव-सौरादीनां केषाञ्चित् कथञ्चित् विद्धोपवास-व्यवस्थापनाभिप्रायेण । तच् चाग्रे व्यक्तं भावि ॥३१७-३१८॥

अथ अरुणोदय-विद्धा-परित्यागः

अत्र कण्वः—

अरुणोदय-वेलायां दशमी-संयुता यदि ।
अत्रोपोष्या द्वादशी स्यात् त्रयोदश्यां तु पारणम् ॥३१९॥

स्कान्दे—

अरुणोदय-वेलायां दशमी यदि सङ्गता ।
रुचि-चक्रार्ध-मात्रापि द्वादशीम् उपवासयेत् ।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥३२०॥

रवि-चक्रार्ध-मात्रापीति—सारथेर् अरुणस्योदयात् प्राग् एव रथ-चक्रोदयं तत्रार्ध-चक्रोदय-मात्र-प्राप्तत्वेन अत्यल्पापीत्य् अर्थः । यथोक्तं भविष्ये—अरुणोदये तु दशमी गन्ध-मात्रं भवेद् यदि इति ॥३२०॥

अतएव गारुडे—

उदयात् प्राक् त्रिघटिका-व्यापिन्य् एकादशी यदा ।
सन्दिग्धैकादशी नाम वर्जयेद् धर्म-काङ्क्षया ॥३२१॥
उदयात् प्राङ्-मुहूर्तेन व्यापिन्य् एकादशी यदा ।
संयुक्तैकादशी नाम वर्जयेद् धर्म-वृद्धये ॥३२२॥

त्रिघटिकेत्य् अनेन दशम्या घटिकैका अरुणोदये प्रविष्टेति ज्ञेयम् । एतच् च सञ्ज्ञा-विशेषार्थम् उक्तम् । एवम् अग्रे’पि तां च धर्म-काङ्क्षया वर्जयेद् इति । अन्यथा धर्म-हानिः स्याद् इत्य् अर्थः । एवम् अग्रे’प्य् ऊह्यम् ॥३२१-३२२॥

आदित्योदय-वेलाया आरभ्य षष्ठ-नाडिकाम् ।
सम्पूर्णैकादशी नाम त्याज्या धर्म-फलेप्सुभिः ॥३२३॥

एषां सर्वेषाम् अन्ते—

पुत्र-पौत्र-समृद्ध्य्-अर्थं द्वादश्याम् उपवासयेत् ।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥३२४॥

एषां गारुडोक्तानां त्रि-श्लोकानां पुत्राणां पौत्राणां च समृद्धये । यद् वा, पुत्राश् च पौत्राश् च समृद्धयश् च धनादि-सम्पत्तयस् तद्-अर्थम् ॥३२४॥

किं च, ब्रह्म-वैवर्ते सूत-शौनक-संवादे—

अरुणोदय-वेलायां या स्तोकापि तिथिर् भवेत् ।
पूर्णैवेत्य् अवगन्तव्या प्रभूता नोदयं विना ॥३२५॥

तिथिर् एकादशी । अरुणोदयं विना न प्रभूता न सम्पूर्णा । एकम् अरुणोदयम् आरभ्यान्यारुणोदयं यावद् व्यापिन्य् एव सती सम्पूर्णा स्याद् इत्य् अर्थः ॥३२५॥

तत्र चेद् दशमी-वेद्यो’तिवेधो वापि जायते ।
महावेधो’थवा योगो रक्षसां तत् फलं भवेत् ॥३२६॥

तत्र प्रश्नः—

कीदृशस् तु भवेद् वेधो योगो विप्रेन्द्र कीदृशः ।
योग-वेधौ समाचक्ष्व याभ्यां दुष्टम् उपोषणम् ॥३२७॥
चतस्रो घटिकाः प्रातर् अरुणोदय-निश्चयः ।
चतुष्टय-विभागो’त्र वेधादीनां किलोदितः ॥३२८॥

तत्र अरुणोदये ॥३२७॥

तत्रोत्तरम्—

अरुणोदय-वेधः स्यात् सार्धं तु घटिका-त्रयम् ।
अतिवेधो द्वि-घटिकः प्रभा-सन्दर्शनाद् वेधः ॥३२९॥
महोवेधो’पि तत्रैव दृश्यते’र्को न दृश्यते ।
तुरीयस् तत्र विहितो योगः सूर्योदये बुधैः ॥३३०॥

व्याख्यातं चेदं माधवीये—

वेधातिवेध-महा-वेध-योगाश् चत्वार उपवासस्य दूषकाः ।
तत्र रवेः सन्दर्शनात् पूर्वं सार्धं घटिका-त्रयम् एकादश्या व्याप्तम् ।
तत्र प्राचीने घटिकार्वे दशमी-सम्भावे वेधः ।
यदा घटिका-द्वयम् उपरितनम् एकादशी-व्याप्तं
पूर्वं तु घटिका-द्वयं दशमी-व्याप्तं तदानीम् अतिवेध इति ॥३३१॥

परन्तु सुगमम् ।

अथ तत्र दोषाः

तत्रैव—

राक्षसानां फलं योगे महा-वेधे तु वास्कलेः ।
जम्भासुरस्यातिवेधे मोहिना वेध-शिल्पिनी ॥३३२॥

गोभिलोक्तौ—

अरुणोदय-वेलायां दशमी यदि सङ्गता ।
संयुक्तैकादशीं तां तु मोहिन्यै दत्तवान् विभुः ॥३३३॥

पाद्मोत्तर-खण्डे—

अरुणोदय-वेलायां दशमी-मिश्रिता भवेत् ।
तां त्यक्त्वा द्वादशीं शुद्धाम् उपोष्येद् अविचारयन् ॥३३४॥

भविष्ये—

अरुणोदये तु दशमी-गन्ध-मात्रं भवेद् यदि ।
द्रष्टव्यं तत् प्रयत्नेन वर्जनीयं नराधिप ॥३३५॥

द्रष्टव्यं गणकादि-द्वारा विचार्य ज्ञातव्यम् ॥३३५॥

किं च—

दशमी-शेष-संयुक्तो यदि स्याद् अरुणोदयः ।
वैष्णवेन न कर्तव्यं तद्-दिनैकादशी-व्रतम् ॥३३६॥

तद्-दिने यद् एकादशी-व्रतं तत् ॥३३६॥

गारुडे—

दशमी-शेष-संयुक्तो यदि स्याद् अरुणोदयः ।
नैवोपोष्यं वैष्णवैस् तु तत्र चैकादशी-व्रते ॥३३७॥

तत्र तस्मिन् दिने एकादशी-व्रते निमित्ते नैवोपोष्यम् । व्रत इत्य् अत्र दिन इति वा पाठः ॥३३७॥

अथ अत्र वैष्णव-लक्षणम्

गृहीत-विष्णु-दीक्षाको विष्णु-सेवा-परो नरः ।
वैष्णवश् चात्र सङ्ग्राह्यः स्कान्दाद्य्-उक्तानुसारतः ॥३३८॥

ननु स च वैष्णवः कीदृशः ? पूर्वं भगवद्-भक्ति-लक्षणे यो लिखितः, उतान्यो वेत्य् अपेक्षायां लिखति—गृहीतेति । अत्र व्रत-विधो स एव ग्राह्यः, न तु पूर्व-लिखितो भक्ति-निष्ठा-प्राप्तः । तस्य व्रताद्य्-अनधिकारात् । एवं द्वादश्य्-आदौ क्षौद्रकांस्यादि-वर्जनादिष्व् अपि तथैव ज्ञेयम् ॥३३८॥

तथा च स्कान्दे—

परमापदम् आपन्ने हर्षे वा समुपस्थिते ।
नैकादशीं त्यजेद् यस् तु यस्य दीक्षास्ति वैष्णवी ॥३३९॥
समात्मा सर्व-जीवेषु निजाचाराद् अविप्लुतः ।
विष्ण्व्-अर्पिताखिलाचारः स हि वैष्णव उच्यते ॥३४०॥

सर्व-जीवेषु समात्मा सम-बुद्धिः हिंसा-निन्दादि-राहित्यात्, स्वात्मवद् धित-कारित्वाच् च । निजाचारो वैष्णव-धर्मस् तस्माद् अविप्लुतः अपरिभ्रष्टः । विष्णौ अर्पितो’खिल आचारः स्वधर्मादिर् येन सः ॥३४०॥

पाद्मे च—

सदीक्षावधि सन्यासं स-यन्त्रं द्वादशाक्षरम् ।
अष्टाक्षरम् अथान्यं वा ये मन्त्रं समुपासते ।
ज्ञेयास् ते वैष्णवा लोके विष्ण्व्-अर्चन-रतास् तथा ॥३४१॥

दीक्षा-विध्य्-आदिकं पूर्वं लिखितम् एवास्ति । दीक्षा-विधि-सहितं न्यासेन सहितं यन्त्रेण सहितं च । एतच् च पूजाङ्गम् एवेत्य् उक्तम् । अन्यं च श्री-गोपाल-देवादि-मन्त्रम् । तथेति समुच्चये । तथापि दीक्षादिं विना पूजा-सम्पत्त्य्-अभावाद् दीक्षाप्य् अस्तीत्य् एव ज्ञेयम् । यद् वा, तथा तेन दीक्षा-ग्रहणादि-प्रकारेण । विष्ण्व्-अर्चन-रता इति तेषाम् एव विशेषणम् । सदेति च क्वचित् पाठः ॥३४१॥

अरुणोदय-लक्षणम्

स्कान्दे—

उदयात् प्राक् चतस्रश् च घटिका अरुणोदयः ।
तत्र स्नानं प्रशस्तं स्यात् स वै पुण्यतमः स्मृतः ॥३४२॥

ब्रह्म-वैवर्ते—

चतस्रो घटिकाः प्रातर् अरुणोदय उच्यते ।
यतीनां स्नान-कालो’यं गङ्गाम्भः-सदृशः स्मृतः ॥३४३॥

प्रातर् उषसि याश् चतस्रो घटिकास् ताः । अरुणोदयः गङ्गाम्भः-सदृशः परम-पावनं इत्य् अर्थः ॥३४३॥

त्रि-यामां रजनीं प्राहुस् त्यक्त्वाद्य्-अन्त-चतुष्टयम् ।
नाडीनां ते उभे सन्ध्ये दिवसाद्य्-अन्त-सञ्ज्ञिते ॥३४४॥

रात्रि-शेषे चतुर्-घटिका व्याप्यारुणोदय इत्य् अत्र हेतुम् आह—त्रि-यामाम् इति । नाडीनाम् आद्य्-अन्तयोश् चटुष्टयं रात्रेर् आदौ नाडी-चतुष्टयम् अन्ते च नाडी-चतुष्टयं त्यक्त्वा । एवम् एक-याम-त्यागेन त्रियामाम् आहुर् मुनयः । यतः तन्-नाडीनाम् आद्य्-अन्त-चतुष्टयं च दिवसस्याद्य्-अन्त-सञ्ज्ञिते ते प्रसिद्धे उभे सन्ध्ये प्राहुः ॥३४४॥

अथारुणोदय-बिद्धोपवास-दोषाः

अथ कौत्सः—

अरुणोदय-वेलायां बिद्धा काचिद् उपोषिता ।
तस्याः पुत्र-शतं नष्टं तस्मात् तां परिवर्जयेत् ॥३४५॥

काचित् एका ययोपोषिता तस्याः ॥३४५॥

पाद्मे श्री-भगवद्-ब्रह्म-संवादे—

अरुणोदय-काले तु बेधं दृष्ट्वा चतुर्विधम् ।
मद्-दिनं ये प्रकुर्वन्ति यावद् आहूत-नारकाः ॥३४६॥

दृष्ट्वा ज्ञात्वापि । चातुर्विध्यं च बेधातिबेधादि-भेदेन प्राग् लिखितम् एव ॥३४६॥

कृते तु मद्-दिने तत्र सन्तानस्यापि सङ्क्षयः ।
सप्त-जन्मसु नश्यन्ति धर्माणि च धनानि च ॥३४७॥

भविष्ये च—

अरुणोदय-काले तु दशमी यदि दृश्यते ।
न तत्रैकादशी कार्या धर्म-कामार्थ-नाशिनी ॥३४८॥

किं च—

अरुणोदय-काले तु दशमी यदि दृश्यते ।
पाप-मूलं तदा ज्ञेयम् एकादश्य्-उपवासिनाम् ॥३४९॥
इति ।

तदा एकादश्य्-उपवासिनाम् उपवासः पापस्य मूलं ज्ञेयम् इत्य् अर्थः ॥३४९॥

बिद्धोपवास-दोषा ये सामान्याल् लिखिताः पुरा ।
ज्ञेयास् ते’त्रापि बिद्धाया लक्षणस्यानुसारतः ॥३५०॥

सामान्यात् अरुणोदय-बेधादि-विशेष-राहित्येन सामान्यतः पूर्वं लिखिताः । अरुणोदय-बिद्धोपवासे’पि । कुतः ? बिद्धाया लक्षणस्य पूर्व-लिखितस्यानुसारात् । उदयात् प्राक् मुहूर्त-द्वयापिनी सती सम्पूर्णा । अन्यथा बिद्धेति बिद्धा-लक्षणे’रुणोदय-बेधस्यैव सुसिद्धेः॥३५०॥

एवं ज्ञेयानि वाक्यानि बिद्धा-व्रत-पराणि तु ।
अवैष्णवाश्रयाण्य् एव शुक्र-माया-कृतानि वा ॥३५१॥

इत्थं सर्वथा बिद्धोपवासो निषिद्धः । तत्र च यद् उक्तम् ऋष्यशृङ्गेण—

एकादशी न लभ्येत सकला द्वादशी भवेत् ।

उपोष्या दशमी-बिद्धा ऋषिर् उद्दालको’ब्रवीत् ॥

किं च—

अबिद्धानि निषिद्धैश् चेन् न लभ्यन्ते दिनानि तु । मुहूर्तैः पञ्चभिर् बिद्धा ग्राह्यैवैकादशी तिथिः । तद् अर्ध-बिद्धान्य् अन्यानि दिनान्य् उपवसेद् बुधः ॥

अपि च—

पारणाहे न लभ्येत द्वादशी कलयापि चेत् । तदानीं दशमी-बिद्धा उपोषैकादशी तिथिः ॥ इति ।

पाद्मे च—

बिद्धाप्य् एकादशी ग्राह्या परतो द्वादशी न चेत् । द्वादशी द्वादशीर् हन्ति त्रयोदश्यां तु पारणम् ॥ बिद्धाप्य् अबिद्धा विज्ञेया परतो द्वादशी न चेत् ॥ इति ।

ईदृशान्य् अन्यानि च यानि वचनानि वर्तन्ते, तेषां विषयं व्यवस्थाप्य लिखति—एवम् इति लिखिताकारेण । अवैष्णवाः वैष्णवेतराः शैव-सौरादयः । कामिनो गृहस्य्थाश् चेतिविषयकाणि । तेषाम् अपि बिद्धिपवासे बहुल-दोष-श्रवणाद् अपरितोषेण पक्षान्तरं लिखति—शुक्रेति ॥३५१॥

इत्थं च जन्माष्टम्यादि-व्रतान्य् अपि न वैष्णवैः ।
बिद्धेष्व् अहःसु कार्याणि तादृग्-दोष-गानाश्रयात् ॥३५२॥

प्रसङ्गाद् वैष्णव-व्रतेषु सर्वेष्व् अपि स-बेध-दिनानीत्थं परित्याज्यणीत्य् आदिशन् लिखति—इत्थं चेति । नैवोपोष्यं वैष्णवैस् त्व् इत्य् आदि लिखित-प्रकारेण । आदि-शब्देन राम-नवमी-नृसिंह-चतुर्दश्य्-आदि । तादृशां बिद्धैकादशी-व्रतोक्त-सदृशानां दोषाणां गणाश्रयात् ॥३५२॥

अथार्ध-रात्र-बिद्धा-समाधानम्

अर्ध-रात्राच् च परतो वर्तेत दशमी यदि ।
तदाप्य् एकादशीं बिद्धां मन्यन्ते यच् च केचन ॥३५३॥

तथा च कौर्मे—

अर्ध-रात्रम् अतिक्रम्य दशमी यदि दृश्यते ।
तदा ह्य् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ॥३५४॥
इति ।

अभिज्ञास् तच् च मन्यन्ते पक्ष-वर्धन्य्-उपाश्रितम् ।
अतस् तच् च तथान्यं च महतां नैव सम्मतम् ॥३५५॥

एवम् अरुणोदय-बेधे सति न केनाप्य् उपवासः कार्य इति निश्चितम् । तत्र च केचिद् अर्ध-रात्रात् परतः । केचिच् चत्वारिंशद्-घटिकाभ्यश् च परतो’पि दशम्य्-अनुवृत्तौ बेधम् इच्छन्तीति तन्-मतम् उत्थाप्य निराकारोति—अर्ध-रात्राच् चेति षड्भिः । यन् मन्यन्ते तत् पक्षवर्धिनी नाम महा-द्वादशी । तद्-विषयकम् अभिज्ञा मन्यन्त इति उत्तरेणान्वयः । तद् अर्ध-रात्रात् परतो बेध-वचनं बिद्धत्वं वा । अन्यत् चत्वारिंशद्-घटिकोपरि बेध-विषयकं च । महतां श्री-व्यासादीनां नैव सम्मतं भवति ॥३५३-३५५॥

तथा ब्रह्म-वैवर्ते व्यासोक्तौ तत्रैव—

अर्ध-रात्रे’पि केषाञ्चिद् दशम्या बेध इष्यते ।
अरुणोदय-वेलायां नावकाशो विचारणे ॥३५६॥

अरुणोदय-वेलायां तु बेध-विचारणोपरि अवकाशो’पि नास्तीत्य् अनेनारुणोदय-बेध एव निश्चितः । न त्व् अर्ध-रात्रोपरि बेधः स्थापित इति कैमुतिक-न्याय-विचाराद् इति दिक् ॥३५६॥

कपाल-बेध इत्य् आहुर् आचार्या यं हरि-प्रियाः ।
न तन् मम मतं यस्मात् त्रियामा रात्रिर् उच्यते ॥३५७॥

नन्व् अर्ध-रात्रोपरि बेधो हि कपाल-बेधत्वेन प्रसिद्धो वैष्णवानां सम्मतः । अतः सो’पि वर्जनीय एव । तत्राह—कपालेति । यम् अर्ध-रात्रात् परतो बेधम् । आचार्याः कपाल-बेध इति वदन्ति । हरि-प्रिया इति हरि-प्रियतया बेध-श्रवण-मात्रेण दोषाशङ्ग्कयाहुर् न तु विचारेणेत्य् अर्थः । यद् वा, हरि-प्रिया इति तत्रत्यानां शौनकादीनां सम्बोधनम् । तेन चाखिल-विचार-नैपुण्यं समर्थयति । ये इति पाठे केचिद् आहुः । तच् च ये हरि-प्रिया आचार्यास् तेषां मम च वेदव्यासस्य सम्मतं न भवतीत्य् अर्थः । तत्र हेतुः—यस्माद् इति । एवं त्रियामाया रात्रेर् मध्ये एकादश्याः प्रवेश एव नास्ति । यतो दशम्या एव सा रात्रिः । अतस् तत्र यतो दशम्या बेधः स्यात् । अतो’रुणोदये एकादशी-सम्भावेन तत्-सम्पूर्णता-प्रतिपादनात् तत्रैव दशम्य्-अनुवृत्तौ बेधः कल्प्यत इत्य् अर्थः । अन्यथा अति-व्याप्त्यार्ध-रात्रात् पूर्वं ततो’पि पूर्वम् इत्य् एवं रात्रि-प्रथम-भागे’पि नियमाभावाद् बेधः स्यात् । ततश् चानवस्था-प्रसङ्ग-दोष एव स्याद् इति दिक् ॥३५७॥

पाद्मे च—

अर्ध-रात्रं स्पृशेत् पूर्णा पक्ष-वृद्धिर् यद् अग्रतः ।
कपाल-बेधनी सा च शुद्धां भद्राम् उपोषणम् ॥३५८॥

ननु तर्हि अर्ध-रात्रम् अत्रिक्रम्येत्य् आदि कूर्म-पुराण-वचनम्—

अर्ध-रात्रात् परं याम्याः कला-काष्ठादि-संयुता । मोहिनी साधिकारा च ब्रह्मणा निर्मिता पुरा ॥ निशीथात् परतो याम्या एकादश्याम् उपोषिता । स पतेन् नरके घोरे यावद् आहूत-सम्प्लवम् ॥ इत्य् आदि ।

स्मृत्य्-अर्थ-सार-वचनं यत्, तस्य को विषयः ? तत्राह—अर्ध-रात्रम् इति । यदाग्रतः पक्ष-वृद्धिर् भवति, तदा पूर्णा दशमी चेद् अर्ध-रात्रं स्पृशेत् । तदा सा कपाल-बेधनी नामैकादशी स्यात् । तदा च शुद्धां भद्रां द्वादशीम् एवोपवसेद् इत्य् अर्थः । अतश् च—

पूर्णैक-चत्वारिंशच् च घटिका दृश्यते यदि । तदा व्याल-मुखी ज्ञेया वर्जिता मत्-परायणैः ॥ द्विचत्वारिंशद्-घटिकाभया सा ह्य् अभिधीयते । पूर्णा चतुश्चत्वारिंशत् कथिता सा महाभया ॥ इत्य् आदि ।

श्री-कृष्णार्जुन-संवादे—

द्विपञ्चाशच् च घटिका दशमी दृश्यते यदि । छायाभिधा तु सा ज्ञेया नन्दा या वृद्धि-गामिनी ॥ त्रिपञ्चाशद् यदा पूर्णा ग्रस्ता सैव तु गीयते । चतुःपञ्चाशको ज्ञेयो’प्यत् बेधस् ततो’धिकः ॥ महा-बेधः षड्-अधिकस् तथोक्तः पूर्व-सूरिभिः । प्रलयः सप्त-पञ्चाशत् महान् प्रोक्तस् ततो’परः ॥ नवाधिका महा-घोरा सम्पूर्णा षष्टिराक्षसी । छायादि-नव-बेधेषु यः कुर्यात् समुपोषणम् । मृते स नरकं याति यावद् आहूत-सम्प्लवम् ॥

इत्यादीनि च वचनानि स्वत एव निरस्तानि । अर्ध-रात्र-बेध-पक्षस्यापि निरसनाद् विशेषतश् च प्राचीणैर् महद्भिर् अभिज्ञैर् असङ्गृहीतत्वात् तान्य् अमूलान्य् एवज्ञेयानि ॥३५८॥

अथ बेध-विहीनापि सम्पूर्णैकादशी तिथिः ।
अग्रतो वृद्धि-गामित्वात् परित्याज्यैव वैष्णवैः ॥३५९॥

एवम् अनेक-दोष-हेतुत्वात् विद्धोपवासः परित्याजितः । अधुना कदाचित् शुद्धापि परित्याज्येति लिखति—अथेति । दशमी-वेधेन विहीना परित्यक्ता कुतः पूर्णा सम्पूर्णा अरुणोदयाद् एव प्रवृत्तेत्य् अर्थः साप्य् एकादशी परित्याज्या । तत्र हेतुः—अग्रत इति । कदाचिद् एकादश्या द्वादशी-दिने कदाचित् द्वादश्याश् च त्रयोदशी-दिने कदाचित् पक्षान्त-तिथेश् च प्रतिपद्-दिने वृद्धि-गामित्वात् । वृद्धि-गामित्वाभावेन च त्रयोदश्यां सम्पूर्णायाम् अपि सत्यां तथा द्वादश्याम् अपि सम्पूर्णायां सत्यां पक्षान्तस्यापि वृद्ध्य्-अभावे च सति सम्पूर्णायाम् एकादश्याम् एवोपवासः । द्वादश्याञ् च लेख्य-लक्षण-हरि-वासर-त्यागेन पारणम् इति व्यवस्था । सा चैकादशी नोन्मीलन्य्-आदिषु कास्वपि भवतीति विशेषतो नो लिखिता । वैष्णवैर् इत्य् अनेन केचिद् अवैष्णवाश् च न परित्यजेयुर् इत्य् अग्रे व्यवस्थायां लेख्यम् ॥३५९॥

अथ शुद्धा-विशेष-परित्यागः

गारुडे—

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते ।
गृहस्थो’पि परां कुर्यात् पूर्वा नोपवसेत् तदा ॥३६०॥

सम्पूर्णा अरुणोदयम् आरभ्य पर-दिने सूर्योदयं यावद् व्याप्तेत्य् अर्थः । पुनर् अपि तत्-पर-दिने प्रभाते सा एकादशी भवति वर्धत इत्य् अर्थः । वैष्णवी द्वादशी । गृहस्थो’पीत्य् अपि-शब्दः ।

एकादशी प्रवृद्धा चेच् छुक्ले कृष्णे विशेषतः । तत्रोत्तरां यतिः कुर्यात् पूर्वाम् उपवसेद् गृही ॥

इत्य् आदि-वचन-प्राप्तो यतेर् एव पर-दिनोपवासो न गृहस्थस्येति पक्ष-निरासार्थः ॥३६०॥

किं च, श्री-नारदः—

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
अत्रोपोष्या द्वितीया तु पुत्र-पौत्र-विवर्धिनी ॥३६१॥

एवं त्रयोदश्यां द्वादश्या निष्क्रमे सति शुद्धैकादशी-त्यागो लिखितः । प्रायो’यम् अवैष्णवानाम् अपि सम्मतः । अधुना द्वाडश्य्-अनिष्क्रमे’पि महा-द्वादश्य्-अपेक्षया वैष्णवानां सम्मतं शुद्धा-परित्यागं लिखति—श्री-नारदाद्य्-उक्तैः सम्पूर्णेत्य् आदिभिः। प्रभाते द्वादशी-दिने सैवैकादशी पुनर् भवति, वृद्धि-गामित्वात् । एवं च द्वादशी-परतो वर्धतां न वेत्य् अपेक्षा नास्ति । अत एवोक्तं स्कान्दादौ—परतो द्वादशी न चेत् इत्य् आदि । अत्र अस्मिन् काले द्वितीयैवैकादशी उपोष्या । सम्पूर्ण-प्रथम-दिन-परित्यागेन निष्क्रमणादिनम् एवोपोष्यम् इत्य् अर्थः । एवं च—

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।

तत्रोपोष्या द्वितीया तु परतो द्वादशी यदि ॥ इत्यादि वचनैः ।

त्रयोदश्यां द्वादशी-सम्भावे सम्पूर्णैकादशी परित्याज्या, अन्यथा तु नेति व्यवस्थापितः पक्षो निरस्तः । ननु एकादशी प्रवृद्धा चेत् इति वचनानुसारेण यति-परो’यम् इति व्यवस्थापरितव्यं, तत्राह—पुत्रेति । एवं पुत्र-पौत्र-विवर्धिनीत्य् अनेन तथाग्रे लेख्येन गृहिभिः पुत्रवद्भिश् चेत्य् आदिना च एकादशी प्रवृद्धा चेद् इत्य् आदि-वचन-प्राप्तो गृहिणां द्वितीयैकादश्य्-उपवास-निषेधो’पि परिहृत इति दिक् ॥३६१॥

अत एव पाद्मे—

द्वादशी-मिश्रिता ग्राह्या सर्वत्रैकादशी तिथिः ।
द्वादशी च त्रयोदश्यां विद्यते यदि वा न वा ॥३६२॥

किं च—

सर्वत्रैकादशी कार्या द्वादशी-मिश्रिता नरैः ।
प्रातर् भवतु वा मा वा यतो नित्यम् उपोषणम् ॥३६३॥

प्रातस् त्रयोदश्यां द्वादशी भवतु वा, मा भवतु । नित्यम् उपोषणम् इति उक्त-प्रकारेणोक्त-लक्षणस्योन्मीलनी-व्रतस्य नित्यत्वाद् इत्य् अर्थः ॥३६३॥

स्कान्दे—

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
तत्र कृत-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥३६४॥

किं च—

एकादशी-कला यत्र परतो द्वादशी न चेत् ।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥३६५॥

एवं द्वादशी-वृद्धि-क्षययोर् अनपेक्षया शुद्धा-त्यागं लिखित्वा इदानीं द्वादशी-क्षयम् अपेक्ष्यैव उन्मीलनीं लिखन् शुद्धा-परित्यागम् एव लिखति—सम्पूर्णेत्य् आदि-स्कान्दादि-वचनैः । परतस् त्रयोदश्यां न वर्धते द्वादशी । फल-विशेषं दर्शयति—एकादशीति पञ्चभिः ॥३६४-३६५॥

कौर्मे—

एकादशी-कलाप्य् एका परतो द्वादशी न चेत् ।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥३६६॥

भविष्ये—

एकादशी-कलाप्य् एका परतो न च वर्धते ।
गृहिभिः पुत्रवद्भिश् च नैवोपोष्या सदा तिथिः ॥३६७॥

किं च, पाद्मे—

एकादशी-कला-युक्ता येन द्वादश्य्-उपोषिता ।
किं तस्य बहुभिर् यज्ञैर् अश्वमेधादिभिर् नृप ॥३६८॥
एकादशी द्वादशी च तत्र सन्निहितो हरिः ।
उपोष्य रजनीम् एकां ब्रह्म-हत्यां व्यपोहति ॥३६९॥

विष्णु-रहस्ये—

एकादशी-कला-प्राप्ता येन द्वादश्य्-उपोषिता ।
तुल्या क्रतु-शतेन स्यात् त्रयोदश्यां तु पारणम् ॥३७०॥

बौधायन-स्मृतौ—

एकादशी-कला-युक्ता उपोष्या द्वादशी नरैः ।
त्रयोदश्यां तु यो भुङ्क्ते तस्य विष्णुः प्रसादति ॥३७१॥
॥ इत्य् उन्मीलनी ॥

अथ वञ्जुली-द्वादशी-व्रत-विधिः

स्कान्दे—

एकादशी भवेत् पूर्णा परतो द्वादशी यदा ।
तदाह्य्-एकादशीं त्यक्त्वा द्वादश्यां समुपोषयेत् ॥३७२॥

एवं शुद्धा-परित्यागे उन्मीलनी महा-द्वादशी-विषयं दर्शयित्वाधुना वञ्जुली-महा-द्वादशी-विषयं लिखति—एकादशीति सार्ध-पञ्चभिः । पूर्णा सम्पूर्णा यदा एकादशी भवेद् इतिप्रायस् तस्याः सम्पूर्णत्वेनैव द्वादश्या अपि सम्पूर्णायाः सत्या वृद्धि-सम्भवात्, न त्व् अत्र द्वादशी-वृद्धि-मात्रापेक्षया । वञ्जुल्याम् एकादशी-सम्पूर्णतापेक्षणात् । यद् वा, पूर्णेति । अरुणोदयात् प्रवृत्तत्वेन शुद्धा-परित्यागो दर्शित इति दिक् ॥३७२॥

कालिका-पुराणे—

एकादशी तु सम्पूर्णा परतो द्वादशी भवेत् ।
उपोष्या द्वादशी तत्र तिथि-वृद्धिः प्रशस्यते ॥३७३॥

तिथेर् वृद्धिः प्रशस्यते, तत्र व्रतादिकं महा-फलम् इत्य् अर्थः । वञ्जुली-माहात्म्य-विशेषश् चाग्रे मुख्य-प्रसङ्गे लेख्यः । अत्र च शुद्धा-परित्याग-प्रकरणस्यैव मुख्यत्वाद् उन्मीलन्यादि-निरूपण-प्रकरणम् अथोन्मीलनीत्य् आदि-रूपेण स्पष्टतया मुख्यत्वेन न लिखितम् इति दिक् ॥३७३॥

भविष्ये—

उपोष्या द्वादशी शुद्धा द्वादश्याम् एव पारणम् ।
निर्गतायां त्रयोदश्यां कला च विकलापि वा ॥३७४॥
विकलायां तु द्वादश्यां पारणं यः करोति हि ।
ताम् उपोष्य महीपाल न गर्भे विशते नरः ॥३७५॥

भागवतादि-तन्त्रे च—

सम्पूर्णैकदशी त्याज्या परतो द्वादशी यदि ।
उपोष्या द्वादशी शुद्धा द्वादश्याम् एव पारणम् ।
न गर्भे विशते जन्तुर् इत्य् आह भगवान् हरिः ॥३७६॥

यच् चोक्तं—

पूर्णाप्य् एकादशी त्याज्या परतो वर्धते यदि । द्वादश्या पारणालाभे पूर्णैव परिगृह्यते ॥

इत्य् अनेन एकादशीवत् द्वादशी-वृद्धो पूर्णैकादशी-त्याग इति । अत एव स्कान्दे—

शुद्धा यदा समा हीना समा क्षीनाधिकोत्तरा । एकादशीम् उपवसेन् न तु शुद्धां तु वैष्णवीम् ॥

अस्यार्थः—शुद्धा एकादशी समा हीना वा उत्तरा द्वादशी समाक्षीणाधिकावा । तदा एकादशीम् एवोपवसेत्, न तु शुद्धां वैष्णवीं द्वादशीम् इति । तत्-परिहारार्थं भविष्य-पुराणादि-वचनं लिखति—उपोष्येति । शुद्धेत्य् अनेन एकादशी-संयोगाभावाद् एकादशी-वृद्धिर् नापेक्षिता । अत एवोक्तं ब्राह्मे—

एक-लिप्त्या समायुइक्ता यदि वृद्धि-परा तिथिः । अथवैकादशी नास्ति दशम्या वाथ सङ्गता ॥ द्वादशी तु कला काष्ठा यदि स्याद् अपरे’हनि । द्वादश-द्वादशीर् हन्ति पूर्वस्यां पारणं कृतम् ॥ इति ।

अस्यार्थः—तिथि-वृद्धि-परत्वेन एकादशी-पर-दिने एक-लिप्त्या समायुक्ता किञ्चिन् मात्राप्य् अस्तीत्य् अर्थः । अथवा नास्ति द्वादशी च किञ्चिन् मात्रा त्रयोदश्याम् अस्ति, तदा शुद्ध-द्वादश्याम् एवोपवासः, न त्व् एकादश्याम् । दशम्या सङ्गतेत्य् अत्र दान्तत्वेनोदाहृतम् । एकादशीम् उपोष्य सम्पूर्ण-द्वादश्यां च तदा पारणं कृतं सत् द्वादश-द्वादशी-पुण्यं हन्ति इति । न गर्भे विशते नरः इति । न गर्भे विशते जन्तुः इत्य् आदिना च वञ्जुल्या माहात्म्य-विशेष उक्तः, न तु तत्र मुमुक्षोर् एवाधिकारो दर्शित इति । तासाम् अष्ट-महा-द्वादशीनां सर्वासाम् एव नित्यत्वाद् इति दिक् । पूर्णाप्य् एकादशी त्याज्या इत्य् आदि वचनानां च विषय-व्यवस्थाग्रे लेख्या ॥३७४-३७६॥

॥ इति वञ्जुली ॥

अथ त्रिस्पृशा

नारदीये—

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी ।
त्रिस्पृशा नाम सा प्रोक्ता ब्रह्म-हत्यां व्यपोहति ॥३७७॥

अधुना त्रिस्पृशा-द्वादशीं लिखति—एकादशी इत्य् आदिना पारणम् इत्य् अन्तेन ॥३७७॥

कौर्मे—

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी ।
त्रिभिर् मिश्रा तिथिः प्रोक्ता सर्व-पाप-हरा स्मृता ॥३७८॥
उपवासः कृतस् तस्यां सदा पातक-नाशनः ।
एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी ।
तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥३७९॥

किं च—

त्रिस्पृशैकादशी यत्र तत्र सन्निहितो हरिः ।
ताम् एवोपवसेत् कामी अकामो विष्णु-तत्परः ॥३८०॥

ततश् च तद् उक्तम्—

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी । उपवासं न कुर्वीत पुत्र-पौत्र-समन्वितः ॥ इति ।

तत् परिहरति—त्रिस्पृशेति । कामी धन-पुत्रादि-काम-युक्तः । अकामो वैष्णवः । तत्र हेतुः—विष्णु-तत्-पर इति । यद् वा, अकामश् च मुमुक्षुः । विष्णु-तत्-परश् च वैष्णवः । एवं सर्वेषाम् एव तत्रोपवासो विहितः । एतद् एव ब्रह्म-हत्यां व्यपोहतीत्य् आदिना सर्व-दुःख-दोष-मूल-पाप-निरसनोक्त्या तथा तत्र क्रतु-शतं पुण्यं इत्य् आदिना सर्व-सुख-मङ्गल-हेतु-पुण्योत्पादनोक्त्या च पर्तिपादितम् इति दिक् ॥३८०॥

स्कान्दे—

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी ।
उपोष्या च प्रयत्नेन महा-पुण्य-विवर्धिनी ॥३८१॥

किं च—

एकादशी-कला-युक्ता द्वादशी क्षीयते यदा ।
उपोष्या च महा-पुण्या सर्व-पाप-हरा तिथिः ॥३८२॥

सुमन्तु-स्मृतौ—

एकादशी-कला-युक्ता द्वादशी लुप्यते यदा ।
एकादशी तदोपोष्या द्वितीया मोक्ष-काङ्क्षिभिः ॥३८३॥

भविष्ये—

एकादशी-कलाप्य् एका द्वादशी सकलं दिनम् ।
त्रयोदशी ऊषा-काले वैष्णवं तु दिन-त्रयम् ।
सर्व-पाप-हरं प्राप्तं तद् उपोष्यम् इति स्मृतिः ॥३८४॥

पाद्मे च—

द्वादशी-संयुता यत्र भवत्य् एकादशी-कला ।
दिन-क्षये’पि या पुण्या न दशम्या कदाचन ॥३८५॥
त्रिस्पृशैकादशी यत्र तत्र सन्निहितो हरिः ।
पुण्यं क्रतु-शतस्योक्तं त्रयोदश्यां तु पारणम् ॥३८६॥

द्वारका-माहात्म्ये—

पुरा चैकादशी स्वल्पा अन्ते चैव त्रयोदशी ।
सम्पूर्णा द्वादशी मध्ये त्रिस्पृशा सा हरि-प्रिया ॥३८७॥
त्रिस्पृशां द्वादशीं प्राप्य कुरुते पूर्व-वासरम् ।
तेनात्मनस् तु कल्याणं दग्धं पापाग्निना दृढम् ॥३८८॥
॥ इति त्रिस्पृशा ॥

अथ पक्ष-वर्धिनी

ब्रह्म-वैवर्ते व्यासोक्तौ—

तिथिः स-शल्या परिवर्जनीया
धर्मार्थ-कामैस् तु बुधैर् मनुष्यैः ।
विहीन-शल्यापि विवर्जनीया
यद्य् अग्रतो वृद्धिम् उपैति पक्षः ॥३८९॥

पक्ष-वर्धिनीं लिखति–तिथिर् इति द्वाभ्याम् । पक्ष इति पक्षान्तो’मावस्या पूर्णिमा वेत्य् अर्थः॥३८९॥

अन्यत्र च—

दर्शश् च पौर्णमासी च सम्पूर्णा वर्धते यदि ।
द्वितीये’ह्नि नृप-श्रेष्ठ सा भवेत् पक्ष-वर्धिनी ॥३९०॥

तद् एव स्पष्टयति—सम्पूर्णा सती द्वितीये’ह्नि प्रतिपद्-दिने यदि वर्धते ॥३९०॥

एवं महत्यो द्वादश्यश् चतस्रो दर्शिताः क्रमात् ।
उन्मीलनी वञ्जुली च त्रिस्पृशा पक्ष-वर्धिनी ॥३९१॥

एते च महा-द्वादशी-भेदा इति स्पष्टतया लिखति—एवम् इति । लिखित-शुद्धैकादशी-त्याग-प्रकारेण ॥३९१॥

अपराश् च चतस्रस् ता ज्ञेया नक्षत्र-योगतः ।
जया च विजया चैव जयन्ती पाप-नाशिनी ॥३९२॥

नन्व् अष्टौ महा-द्वादश्यः प्रसिद्धाः ? तत्र लिखति—अपराश् चेति । ता महा-द्वादश्यः ॥३९२॥

तत्र तत्र विशेषश् च यो’न्यः कृष्णार्चनादिकः ।
लेख्यः सो’ग्रे विशेषेण तत्-तन्-मुख्य-निरूपणे ॥३९३॥

ननु तत्र केन नक्षत्रेण कतमा स्यात् ? केन वा पूजाद्-विशेषेण तासां महत्त्वम् ? तत्र लिखति—तत्रेति । उन्मीलन्यादौ जयादौ च, विशेषेण असाधारणतया, तासां मध्ये निरूपणम् अग्रतो लेख्यं, तस्मिन् ॥३९३॥

अथ पूर्वोपवासादि-समाधानम्

एवं द्वादश्य्-अवृद्धौ च पूर्वोपोष्येति यद् वचः ।
तथा त्याज्या त्रिस्पृशा च कृष्णाप्य् एकादशीति यत् ॥३९४॥

तथ च स्कान्दे—

पूर्णा एकादशी त्याज्या वर्धते द्वितयं यदि ।
द्वादश्यां पारणालाभे पूर्वैव परिगृह्यते ॥३९५॥
एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी ।
त्रिस्पृशा तद् अहो-रात्रं नोपोष्यं तत् सुतार्थिभिः ॥३९६॥

एवं शुद्ध-त्यागे वैष्णवानां व्रत-निश्चय-वचनानि सङ्गृह्याधुना तद्-विरोधीन्य् अन्यान्य् अपि वचनानि व्यवस्थापयन् लिखति—एवम् इति । लिखित-वैष्णव-व्रत-निश्चय-प्रकारेण । द्वादश्या अवृद्धौ त्रयोदशी-दिने वृद्ध्य्-अभावे सति पूर्वा एकादशी एवोपोष्येति यद् वचः । पूर्णाप्य् एकादशी त्याज्येत्य् आदि-वचनम् । तथेति समुच्चये । त्रिस्पृशैकादशी त्याज्येत्य् अर्थे एकादशी द्वादशी चेत्य् आदिकं यद् वचः । तथा कृष्णैकादश्य् अपि त्याज्येत्य् अर्थे च—यथा शुक्ला तथा कृष्णा इत्य् आदि वचः । एतत् सर्वं वैष्णवेतरान् अवैष्णवान् गृहस्थान् प्रति मन्यताम् इत्य् उत्तर-श्लोकेनान्वयः । तत्-तद्-वचनम् एव लिखति—पूर्णेत्य् आदिना सदा गृहीत्य् अन्तेन । द्वितयं एकादशी द्वादशी च । पाठान्तरे परतः अग्रे यदि वर्धते एकादश्य् एव, द्वादश्यां पारणस्य व्रत-समाप्ति-कालस्यालाभे च सति । अभावे इति क्वचित् पाठः । एवं च द्वादशी वृद्धिर् अपेक्षितैव । पूर्वा एव एकादशी प्रथम-दिनम् । पूर्णेति पाठे’पि स एवार्थः । अत एवोक्तं भृगुणापि—

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा । तत्रोपोष्या द्वितीया तु परतो द्वादशी यदि ॥ इति ।

एतादृशान्य् अन्यानि वचनानि सन्ति तानि च वैष्णवानाम् अनुपादेयत्वात् न सङ्गृहीतानि । एवम् अग्रे’पि ज्ञेयम् । एवं द्वादश्य्-अवृद्धौ पूर्व-दिनोपवास-वचनं लिखितम् । अधुना पुत्रार्थिनां गृहस्थानां त्रिस्पृशानुपवास-वचनं लिखति—एकादशीति ॥३९४-३९६॥

अतो विष्णु-धर्मोत्तरे—

एकादशी यदा वृद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥३९७॥

स्कान्दे च—

एकादशी कला यत्र द्वादशी च क्षयं गता ।
तत्र नक्तं प्रकुर्वीत नोपवासं गृहाश्रमी ॥३९८॥

सुतार्थिनां त्रिस्पृशानुपवासम् एव तत्र नक्तं विधानतः साधयति—एकादशीति द्वाभ्याम् । नक्तं नक्त-भोजनं । तच् च किञ्चित् फलादिनैव । व्रतस्य नित्यत्वात् । एतच् चाग्रे व्यक्तं भावि ॥३९७-३९८॥

भविष्योत्तरे श्री-कृष्ण-युधिष्ठिर-संवादे—

यथा शुक्ला तथा कृष्णा द्वादशी मे सदा प्रिया ।
शुक्ला गृहस्थैः कर्तव्या भोग-सन्तान-वर्धिनी ॥३९९॥

किं च—

सङ्क्रान्त्याद्य्-उपवासेन पारणा न युधिष्ठिर ।
एकादश्यां च कृष्णायां ज्येष्ठः पुत्रो विनश्यति ॥४००॥

किं च—

शयनी-बोधनी-मध्ये या कृष्णैकादशी भवेत् ।
सैवोपोष्य गृहस्थेन नान्या कृष्णा कदाचन ॥४०१॥

अत एव गोभिलः—

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।
वनस्थ-यति-धर्मो’यं शुक्लाम् एव सदा गृही ॥४०२॥
इति ।

अधुना गृहस्थानां कृष्णैकादशी-त्याग-वचनानि लिखति—यथेत्य् आदिना । शुक्ला गृहस्थैः कर्तव्येति तथा कृष्णायां ज्येष्ठ-पुतो विनश्यति इत्य् आदिना कामिनः पुत्रवतो गृहस्थस्य कृष्णैकादश्य्-उपवासो निषिद्धः । तत्र च चातुर्मास्याः कृष्णैकादश्यस् तेनापि कर्तव्याः इत्य् आह—शयनीति । शयनी-बोधन्योर् एकादश्योर् मध्ये । शुक्लाम् एव सदा गृही इत्य् अनेन च नैवोपवासो निषिध्यते, व्रतस्य नित्यत्वात् । किन्तु तत्र पूजादि-नियम-विशेष एव निषिध्यतो तच् च श्री-कृष्ण-देवाचार्य-वोपदेवाचार्यादिभिर् एव स-विस्तरं व्याख्यातम् अस्त्वीत्य् अतस् तथात्र वैष्णव-कृत्य-लिखने’नपेक्ष्यत्वाच् च, किं तद्-विस्तारणेन ॥३९९-४०२॥

एतत् सर्वं तथान्यच् च वचनं वैष्णवेतरान् ।
गृहस्थान् पुत्र-वित्तादि-तत्-परान् प्रति मन्यताम् ॥४०३॥

एतत् लिखितं सर्वं वचनम् । तथेति समुच्चये । तादृशं वा अन्यत् महा-द्वादश्य्-अष्टकं काम्यम् इत्य् आदि-परं च यद् वचनं, पुत्र-वित्तादि-तत्-परान् इत्य् अवैष्णव-लक्षणम् । पूर्वं शुक्र-माया-कल्पितत्वेन बिद्धोपवास-वचनानां समाधानं कृतम् । इदानीं च वैष्णवावैष्णव-भेद-व्यवस्थया कदाचिच् छुद्धा-त्यागेन पर-दिनोपवासादि-विरोध-वचनानां कृतम् इति विशेषः । तत्र च, यद्यपि बिद्धोपवास-त्यागे वैष्णवेन न कर्तव्यं तद्-दिनैकादशी-व्रतम् इत्य् आदाव् इवात्र तथा उन्मीलन्यादिषु फल-विशेष-श्रवणात् । तथा क्वचिच् च तत्र सन्निहितो हरिः इत्यादि । क्वचिच् च विष्णु-तत्-परः इत्य् आदि शब्द-वृत्तेः । तथा श्री-विष्णु-प्रीणनत्वेन महा-द्वादश्य्-अष्टकस्य वैष्णवेषु नित्यत्वाच् च वैष्णवावैष्णव-भेदेनैव व्यवस्था साधीयसीति महतां सम्मतम् इति दिक् । अत एवाग्रे लेख्यं—वैष्णव-सम्मतेति ॥४०३॥

अत एव मार्कण्डेय-पुराणे—

सम्पूर्णैकादशी यत्र परतः पुनर् एव सा ।
पूर्वाम् उपवसेत् कामी निष्कामस् तूत्तरं वसेत् ॥४०४॥

एवं पूर्वोपवासादिकम् अवैष्णव-विषयकं पर-दिनोपवासं च वैष्णव-विषयकम् इति व्यवस्थाप्य लिखित, तद् एव श्री-मार्कण्डेयाद्य्-उक्त-व्यवस्थया साधयति—सम्पूर्णेति चतुर्भिः । कामी पुत्रादि-कामवान्, निष्काम-शब्देन गृहस्थो’पि ग्राह्यः । तस्यापि निष्कामता-सम्भवात् । अत एव स्कान्दादौ—निष्कामस् तु सदा गृही इत्य् आदि । अत्र च कामित्वेनावैष्णवत्वं निष्कामत्वेन च वैष्णवत्वं सुसिद्धम् एव ॥४०४॥

त्रिकाण्ड-मण्डलेन च—

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
उत्तरां तु यतिः कुर्यात् पूर्वाम् उपवसेद् गृही ॥४०५॥

यतिर् इव । यतिः निष्काम इत्य् अर्थः । गृही सकाम इत्य् अर्थः । लिखित-न्यायात् । तत्र च प्रायो यतेर् एव निष्कामतया गृहिणश् च सकामतया यति-गृहि-शब्द-प्रयोग इति दिक् ॥४०५॥

स्कान्दे—

निष्कामस् तु गृही कुर्याद् उत्तरैकादशीं सदा ।
प्रातर् भवतु वा मा वा द्वादशी च द्विजोत्तम ॥४०६॥

प्रातस् त्रयोदशी-दिने द्वादशी भवतु वा, न भवतु वा, तथा उत्तराम् एवैकादशीं निष्कामो गृहस्थः सदा कुर्यात् । न तु पूर्वाम् इत्य् अर्थः ॥४०६॥

विष्णु-रहस्ये व्यासेनापि—

**शुद्धैव द्वादशी राजन् उपोष्या मोक्ष-काङ्क्षिभिः ।
पारणस् तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥४०७॥ **इति ।

मोक्षो जन्म-मरणादि-संसार-बन्धतो मुक्तिः । यद् वा, मोक्षयतीति मोक्षः श्री-विष्णुः । यद् वा, अकार-प्रश्लेषेण अमोक्षं भगवत्-प्रेम । तद्-आकाङ्क्षावद्भिः । जनार्दनं पूजयित्वेति वैष्णव-तिथेर्द्वादश्या अभावे तस्यां पारणे कृत्यस्य भगवत्-पूजा-विशेषस्य त्रयोदश्याम् अपि विधानाज्ञया सन्देहो निरस्तः ॥४०७॥

तादृशो’पि गृहस्थो’त्र परं पुत्रादि-कामुकः ।
उपवासस्य नित्यत्वात् किञ्चिद् भक्ष्यं प्रकल्पयेत् ॥४०८॥

ननु, नक्तं तत्र विधीयते इत्य् आदिना पुत्रवतः कामिनो गृहस्थस्य नक्तं विहितं, तस्यापि कथं तत् सङ्गच्छतां न भोक्तव्यं इत्य् आदिनाधिकार-निर्णये सर्वेषाम् एव भोजन-निषेधात् ? सत्यं, तेनापि कथञ्चिद् अवश्यं व्रतं परिपालनीयम् एवेति लिखति—तादृशः अवैष्णवो’पि, अतएव परं केवलं पुत्रादि-कामुकः । त्रिस्पृशा-दिने किञ्चित् पयो-मूलं फलादिकं वा भक्ष्यं वा प्रकल्पयेत्, आहारं कुर्यात्, तच् च पूर्वं लिखितम् एव ॥४०८॥

तद् उक्तम्—

**उपवास-निषेधे तु किञ्चिद् भक्ष्यं प्रकल्पयेत् ।
नो दुष्यत्य् उपवासो’त्र उपवास-फलं लभेत् ॥४०९॥ **इति ।

अतः किञ्चिद् भक्ष्य-प्रकल्पनाद् धेतोर् उपवासो न दुष्यति । उपवास-फलं च लभेद् इति॥४०२॥

इत्थं शास्त्र-विचारेण शिष्टाचारानुसारतः ।
एकादशी-व्यवस्थेयं कृता वैष्णव-सम्मता ॥४१०॥

एवं वैष्णवावैष्णव-भेदेन व्यवस्थां लिखित्वा निर्णय-प्रकरण्म् उपसंहरन् लिखति—इत्थम् इति । शास्त्र-विचारेण यः शिष्टानाम् आचारस् तद्-अनुसारेण । यद् वा, न केवलं शास्त्र-विचारेण किन्तु शिष्टाचारानुसारतश् च । वैष्णवानां सम्मतेत्य् अनेन वैष्णवेतराणां गृहिणां बिद्धायाम् अप्य् उपवासस् तथा एकादशी-द्वादश्योर् वृद्ध्यैव सम्पूर्णैकादशि-त्यागः । तथा त्रिस्पृशायां चातुर्मास्य-वर्ति-व्यतिरिक्त-कृष्णैकादश्यां चानुपवासो व्यवस्थापितः । तच् च सङ्क्षेपेणादौ लिखितम् एव । वैष्णवानाम् अनुपादेयत्वाच् चात्र विस्तरेण नालेखीति ॥४१०॥

विद्वांसो’प्य् अत्र मूढाः स्युर् विना कृष्ण-प्रसादतः ।
अतः सदासौ निर्धार्या पृष्ट्वा भागवतोत्तमान् ॥४११॥

अत्र एकादशी-व्यवस्थायां विद्वांसः शास्त्र-विदो’पि विमूढाः स्युः शुक्र-मायादिना । तच् च भगवद्-अनुग्रहाभावाद् एवेति लिखति—विनेति । असौ व्यवस्था एकादशी वा ॥४११॥

तथा च मार्कण्डेन्द्रद्युम्न-संवादे—

द्वादश्या निर्णये भूप मूढम् अत्र जगत्-त्रयम् ।
अत्र मूढा महीपाल प्रायशो ये नराः पुरा ॥४१२॥

पुरा प्राचीना अपि नराः । किम् उतार्वाचीना इत्य् अर्थः । नरासुरा इति पाठे नर-रूपा असुरा दैत्य-प्रकृतयो मानुषा इत्य् अर्थः ॥४१२॥

अत एव सौरधर्मोत्तरे—

महा-पुण्यतमा ह्य् एषा द्वादशी फलतो’धिका ।
शोधयित्वा सदा कार्या सम्यग् दैवज्ञ-सत्तमैः ॥४१३॥

दैवज्ञ-सत्तमैर् गणक-श्रेष्ठैर् द्वार-भूतैः शोधयित्वा ॥४१३॥

अथ सन्देह-निरसन-विधिः

विष्णु-रहस्ये श्री-ब्रह्मोक्तौ—

अर्चयन्ति सदा विष्णुं मनो-वाक्-काय-कर्मभिः ।
तेषां हि वचनं कार्यं ते हि विष्णु-समा मताः ॥४१४॥

अत्र च गणकानां व्यवस्थापकानां च शास्त्र-विदां बहूनां विवादेन सन्देहे सति श्री-भगवद्-भक्ति-पराणां वचनेनैव व्यवहर्तव्यं, न त्व् अन्येषाम् इति लिखति । अर्चयन्तीत्य् आदिना यावत्-समाप्ति । अर्चयन्ति सेवन्ते । मनो-वाक्-कायानां कर्मभिश् चेष्टाभिः । स्मरण-कीर्तन-परिचर्यादिभिर् इत्य् अर्थः ॥४१४॥

कौर्मे श्री-भगवद्-उक्तौ—

संस्पृष्ट्वा वैष्णवान् विप्रान् विष्णु-शास्त्र-विशारदान् ।
चीर्ण-व्रतान् सदाचारांस् तद्-उक्तं यत्नतश् चरेत् ॥४१५॥

सम्पृच्छ्येति वक्तव्ये सम्पृष्ट्वेत्य् आर्षम् । चीर्ण-व्रतान्—समापित-स्व-नियमान् ॥४१५॥

पाद्मे वैष्णव-तन्त्रे—

इतिहास-पुराण-ज्ञाः स्मृति-सिद्धान्त-वेदिनः ।
वासुदेव-प्रिया ये च तद्-उक्तं वैदिकं भवेत् ॥४१६॥

वैदिकं वेदोक्तम् इव ॥४१६॥

अथ तत्र वर्ज्यम्

विष्णु-रहस्ये कौर्मे च—

येषां न कारणं वेदा न विप्रा न जनार्दनः ।
तन्त्राणि धर्म-शास्त्राणि तेषां वाक्यं विवर्जयेत् ॥४१७॥

वेदादया न कारणं प्रमाणम् । तन्त्राणि आगम-शास्त्राणि ॥४१७॥

वैष्णव-तन्त्रे—

येषां गुरौ न जप्ये वा विष्णौ च परमात्मनि ।
नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेत् ॥४१८॥

जप्ये मन्त्रे ॥४१८॥

स्कान्दे—

येषां विश्वेश्वरे विष्णौ शिवे भक्तिर् न विद्यते ।
न तेषां वचनं ग्राह्यं धर्म-निर्णय-सिद्धये ॥४१९॥

शिवे परम-मङ्गल-स्वरूपे । यद् वा, शिवे च श्री-रुद्रे ॥४१९॥

किं च—

पञ्चरात्र-पुराणानि सेतिहासानि मानवाः ।
ये विनिन्दन्ति तेषां वै वचनं परिवर्जयेत् ॥४२०॥

इतिहासा महाभारतादयस् तत्-सहितानि ॥४२०॥

अतएव याज्ञवल्क्यः—

पुराणं पञ्चरात्रं च वेदाः पाशुपतास् तथा ।
अतिप्रमाणान्य् एतानि न हन्तव्यानि हेतुभिः ॥४२१॥

हेतुभिः कुतर्क-विजृम्भित-हत-वादैर् न हन्तव्यानि न खण्डयितव्यानि ॥४२१॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

एकादशी-निर्णयो नाम

द्वादशो विलासः

॥१२॥