११ नित्य-क्रिया-समापनम्

श्री-हरि-भक्ति-विलासः

एकादश-विलासः – नित्य-क्रिया-समापनः

श्री-सनातन-गोस्वामि-विरचित-दिग्-दर्शनी-नाम-टीका-संवलितः

एकादश-विलासः

नित्य-कृत्य-समापनः

श्री-चैतन्यं प्रपद्ये तं महाश्चर्य-प्रभावकम् ।
प्रसादे यस्य दुष्टो’पि भगवद्-भक्तिमान् भवेत् ॥१॥

श्रीमच्चैतन्यदेवं तं वन्दे यस्य प्रभावतः ।

जडोऽपि भगवद्भक्तिं नित्यकृत्यं समापयेत् ।

नित्यकृत्यसाङ्गाशेषभगवद्भक्तिप्रचारलिखनं परमगुरोर्भगवतः प्रभावेणैव सम्पद्यत इत्याशयेन तं शरणं याति—श्रीचैतन्यमिति । महाश्चर्यः परमाद्भुतः प्रभावः शक्तिर्यस्य तं अभिव्यञ्जयति—यस्य प्रसादे सतीति ॥१॥

ततो दिनान्त्य-भागेषु बाह्येषु सुर-सद्मसु ।
यात्रां कृत्वा द्विजः सन्ध्याम् उपासीत यथा-विधि ॥२॥

बाह्येषु बहिःस्थितेषु देवालयेषु ॥२॥

श्री-विष्णु-पुराणे और्व-सगर-संवादे [वि।पु। ३.११.१००-१, १०५]—

दिनान्त-सन्ध्यां सूर्येण पूर्वा मृक्षैर् युतां बुधः । उपतिष्ठेद् यथान्यायं सम्यग् आचम्य पार्थिव ॥३ ॥

दिनान्तसन्ध्यामित्यत्र स्मृतिः—प्रातःसन्ध्यां सनक्षत्रामुपासीत यथाविधि । सादित्यां पश्चिमां सन्ध्यां पर्यस्तमितभास्करः ॥ इति ॥३॥

सर्व-कालम् उपस्थानम्भा सन्ध्यायाः पार्थिवेष्यते । अन्यत्र सूतिका-शौच-विभ्रमातुर-भीतितः ॥४ ॥

सूचकं पुत्रजन्मादि अशौचं शावञ्च विभ्रमः उन्मादादिवैचित्त्यम् आतुरं रोगावस्था भीतिश्च ॥४॥

उपतिष्ठन्ति वै सन्ध्यां ये न पूर्वां न पश्चिमाम् । व्रजन्ति ते दुरात्मानस् तामिस्रं नरकं नृप ॥५ ॥ इति । ततो यथाश्रमाचारं कर्म सायन्तनं कृती । निर्वर्त्य पूर्ववत् कुर्याद् भक्त्या भगवद्-अर्चनम् ॥६॥

ततोऽन्यत्र यथाश्रमाचारं यो यस्याश्रमस्तस्मिन् य आचारः कर्म तमनतिक्रम्य पूर्ववत् पूर्वलिखितानुसारेण शक्तश्चेत्तथि सन्ध्यायामपि कुर्यात् ॥६॥

श्री-कृष्ण-भक्त्यासक्त्या तु सन्ध्योपास्यादिकं यदि । पतेत् कर्म न पातित्य-दोष-शङ्का कथञ्चन ॥७॥

अन्योपासनादिकं निष्पाद्यैव पश्चाद्भगवन्तमर्चयेदिति लिखितम् अधुना भगवत्पूजापरेण कदाचित् सन्ध्योपासनादि-कर्माण्युपेक्षणीयानीति लिखति—श्रीकृष्णेति । श्रीकृष्णभक्तौ आसक्तिस्तत्परता तया पातित्यरूपदोषशङ्कापि कथञ्चिदपि नास्ति ॥७॥

अथ श्री-भगवद्-भक्तानां कर्म-पातित्य-परिहारः

पाद्मे (?) श्री-भगवद्-उक्तौ—

मत्-कर्म कुर्वतां पुंसां क्रिया-लोपो भवेद् यदि । तेषां कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥८॥

मम कर्म पूजादि अग्रतः भक्ति-माहात्म्ये तावत्कर्माणीत्यादिना लेख्यम् ॥८॥

आदि-पुराणे च—

स्मरन्ति मम नामानि ये त्यक्त्वा कर्म चाखिलम् । तेषां कर्माणि कुर्वन्ति ऋषयो भगवत्-पराः ॥९॥ इति । मृदु-श्रद्धस्य भक्तस्य प्रौढताम् अनुपेयुषः । किञ्चित् कर्माधिकारित्वात् कर्मास्यैतत् प्रपञ्चितम् ॥१०॥ प्रौढ-श्रद्धस्य भक्तस्यकर्मस्व् अनधिकारतः । पातित्यं न भवत्य् एव लेखनीयं तद्-अग्रतः ॥११॥ किञ्चिद् ध्यानादि-भेदेन त्रिसन्ध्यं च पृथक् पृथक् । प्रोक्तः पूजा-विधिः प्राज्ञैस् तत्-तत्-कामाशु-सिद्धये ॥१२॥

अथ त्रिकालार्चन-विधि-विशेषतः

श्री-गौतमीय-तन्त्रे—

आराधन-विधिं वक्ष्ये प्रातः-काले विशेषतः । वरं वृन्दावनं ध्यायेत् पुण्य-वृक्षादि-सेवितम् ॥१३ ॥ पुन्नागैर् नाग-वृक्षैश् च पनसैश् चैव काञ्चनैः । बकुलैश् चैव बिल्वैश् च वन्यैः कुर्वकैर् अपि ॥१४ ॥ सर्व-र्तु-कुसुमोपेतैः पुष्पावनत-शाखिभिः । तन्-मध्ये पुलिनं ध्यायेद् बहु-पुष्पक-चम्पकम् ॥१५॥ धूप-दिपैर् वितानेन पुष्प-माला-विभूषितम् । मुक्तादाम-पताकाभिर् वन्य-पुष्पैर् अलङ्कृतम् ॥१६॥ तन्-मध्ये कल्प-वृक्षस्य च्छायायां पङ्कजासने । सुस्थितं वेणु-गीताढ्यं सर्वाभरण-भूषितम् ॥१७॥
वन-माला-परिवृतं गोपिका-शत-वेष्टितम् । देवासुरैश् च सिद्धैश् च गन्धर्वैर् अप्सरो-गणैः ॥१८॥ यक्षैर् विद्याधर-गणैर् विहगैर् भुवि संस्थितैः । ब्रह्मर्षिभिः स्तूयमानं कृष्णं चैव शुचि-स्मितम् ॥१९॥ नाना-विधैश् च गोपालैर् मृग-पक्षि-विभूषितम् । लेलिह्यमानं प्रणयात् पशूनां शत-कोटिभिः ॥२०॥ इन्दीवर-निभं दिव्यं सुन्दरं त्व् इन्दिरालयम् । सम्पूर्ण-चन्द्र-वदनं पद्म-पत्र-निभेक्षणम् ॥२१॥ पद्माभ-पाणि-पादं च पद्म-राग-वरार्चितम् । शरण्यं सर्व-लोकानां गोपीनां प्राण-वल्लभम् ॥२२॥ एवं ध्यात्वार्चयेन् नित्यं षोडशेनोपचारतः । दुग्धं च दधि-खण्डेन सहितं सन्निवेदयेत् ॥२३॥ सौवर्ण-पात्रे गोपानां ग्रासं कांस्ये निवेदयेत् । एवं समर्चयेद् भक्त्या जपन् मन्त्रं समाहितः ॥२४॥ मध्याह्ने सम्प्रवक्ष्यामि पूजां सर्वार्थ-सिद्धिदाम् । सौवर्ण-पर्वते मूले धातुभिः समलङ्कृते ॥२५॥ पुण्य-वृक्ष-समाकीर्णे पुण्य-पक्षि-निनादिते । पद्मोत्पलादि-सङ्कीर्णे वापीभिः समलङ्कृते ॥२६॥ तस्मिन् सत्-पुलिने रम्ये छायायां पङ्कजासने । सौवर्ण-मण्डपे सम्यग्-वितानादि-विभूषिते ॥२७॥ मालादि-रचिते रम्ये मणिभिः पुष्प-शोभितैः । सुवर्ण-रत्न-सन्दोहैर् अन्तरान्तर-शोभिते ॥२८॥ सिंहासने समासीनं विश्रान्तं कंस-सूदनम् । मुक्तामयैः सुरुचिरैर् हारैर् दाम-विभूषितम् ॥२९॥ ध्यात्वा सम्यग् विशुद्धात्मा जाती-पुष्पैः समर्चयेत् । महारजत-पात्रे तु नैवेद्यान्नं निवेदयेत् ॥३०॥ दद्याद् ग्रासं सखीनां च गोपीनां विजितेन्द्रियः । देवकी-परमानन्दम् एवं ध्यायेत् सुखासनम् ॥३१॥ रात्रि-पूजा-विधिं वक्ष्ये रुक्मिणी-वल्लभस्य च । अधस्तात् कल्प-वृक्षस्य सर्व-पुष्प-फलस्य च ॥३२॥ रत्न-मण्डप-मध्य-स्थं दिव्य-पीताम्बरं हरिम् । दिव्य-चन्दन-लिप्ताङ्गं दिव्याभरण-भूषितम् ॥३३॥ अनेक-दिव्य-मालाभिर् मण्डितं पङ्कजेक्षणम् । रत्न-मण्डप-मध्यस्थं सुन्दरं सुन्दर-स्मितम् ॥३४॥ शोभयन्तं स्व-वपुषा सर्व-लोकान् निज-श्रिया । गोपी-जनानां हृदय-वल्लभं प्रोक्त-वर्चसम् ॥३५॥ सुगन्धि-पुष्पैर् आराध्यं श्री-कृष्णं सर्व-नायकम् । राजते तु पयः शुद्धं पक्वं पात्रे निवेदयेत् ॥३६॥ एवम् अभ्यर्च्य मनसा जपेन् मन्त्रं समाहितः । काल-त्रयार्चने चैव सहस्रं साष्टकं जपेत् । एष नित्य-क्रमः प्रोक्तः कृष्ण-मन्त्रस्य सूरिभिः ॥३७॥

तत्रैवादौ सङ्क्षिप्त-त्रि-काल-पूजोक्त्य्-अनन्तरम्—

मनसा वा समभ्यर्च्य त्रिषु सन्ध्यासु संयमी । प्रत्यहं तु जपेन् मन्त्रम् अष्टोत्तर-सहस्रकम् । असामर्थ्ये जपेन् मन्त्रं नित्यम् अष्ट-शतं तथा ॥३८॥ इति ।

अथ नक्तं कृत्यानि

ततो यथा-सम्प्रदायं होमं निष्पाद्य वैष्णवः । गीत-नृत्यादिकं भक्त्या विधाय प्रार्थयेत् प्रभुम् ॥३९॥
तथा चोक्तम्—
बलीयसा पदा स्वामिन् पदवीम् अवधारय । आगच्छ शयन-स्थानं प्रियाभिः सह केशव ॥४०॥ इति ।

प्रियाभिः श्रीराधिकादिभिः ॥४०॥

एवं प्रार्थ्य समर्प्यास्मै पादुके शयनालयम् । आनीय देवं तत्रत्यान् उपचारान् प्रकल्पयेत् ॥४१॥

तत्रत्यान् शयनालये कृत्यान् ॥४१॥

विशेषतो’र्पयेत् तत्र घनं दुग्धं सशर्करम् । ताम्बूलं च स-कर्पूरं दिव्य-माल्यानुलेपनम् ॥४२॥ इत्थं भक्त्या समाराध्यं भगवन्तं स्व-शक्तितः । तत्-प्रीत्यै सर्व-कर्माणि तत् फलं वार्पयेत् कृती ॥४३॥

अथाहोरात्राखिल-कर्मार्पण-विधिः

एकादश-स्कन्धे [भा।पु। ११.२.३६]—

कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत् तत् ॥४४॥

आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस् तस्मात् । अयम् अर्थः—न केवलं विधितः कृतम् एवेति नियमः स्वभावानुसारि-लौकिकम् अपीति । तथा च श्री-भगवद्-गीतासु—

यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।

यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता ९.२७] इति ।

यद् वा, ननु कायादीनाम् एव कर्म नात्मन इत्य् आशङ्क्याह—अध्यासेनानुसृताद् ब्राह्मणत्वादि-स्वभावाद् यद् यत् करोतीत्य् अर्थः । यद् वा, अनुसृतः आश्रितो यः स्वभावः वैष्णवत्वम्, तस्माद् धेतोः कायादिना य यत् भगवद्-आराधन-कर्मेत्य् अर्थः । तत् सकलं परस्मै परमेश्वराय नारायणाय समर्पयेत् इत्य् अनेन वचनेन कायेनेत्य् आदि नारायणायेत्य् अन्त-पद्यम् इदं पठित्वेत्य् अर्थः । यद् वा, नारायण-प्रीत्य्-अर्थं भवत्व् इति समर्पयेत् ॥४४॥

किं चात्र—

साधु वासाधु वा कर्म यद् यद् आचरितं मया । तत् सर्वं भगवन् विष्णो गृहाणाराधनं परम् ॥४५॥

कर्म भगवदाराधनलक्षणं साधु सम्यक्तया असाधू असम्यक्तया वा कृतमित्यर्थः । श्रीभगवति भक्तैरसत्कर्मणामर्पणस्यायोग्यत्वात् एवम् आराधनं परमाराधनत्वेन गृहाण स्वीकुरु ॥४५॥

किं च—

अपां समीपे शयनासने गृहे दिवा च रात्रौ च यथा च गच्छता । यद् अस्ति किञ्चित् सुकृतं कृतं मया जनार्दनस् तेन कृतेन तुष्यतु ॥४६॥

अत एवोक्तं तृतीय-स्कन्धे ब्रह्माणं प्रति श्री-भगवता [भा।पु। ३.९.४१]—

पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना ।
राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥४७॥ इति ।

न च मत्-प्रीतेर् अधिकं किञ्चिद् अस्तीत्य् आह—पूर्तेनेति । पूर्तादिभी राद्धं सिद्धं यन् निःश्रेयसं फलम् । मत्-प्रीतिर् एवेति तत्त्व-विदां मतम् ॥४७॥

इत्थम् आराधयेन् नित्यं भगवन्तं यथा विधि ।
न्यायार्जिताप्त-वित्तेन समग्र-फल-सिद्धये ॥४८॥

इत्थं लिखितप्रकारेण यथाविधि नित्यमाराधयेत् । तच्च न्यायार्जितेन आत्मन एन वित्तेन धनेन समग्रस्य सम्पूर्णस्य फलस्य सिद्धये अन्यथा शास्त्रोक्तपूजाफलं सम्पूर्णं न सम्पद्यत इत्यर्थः ॥४८॥

**अथ पूजा-फल-सम्प्राप्त्य्-उपायः **

दशम-स्कन्धे [भा।पु। १०.८४.३७]—

अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः ।
यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥४९॥

स्वस्त्य्-अयनं स्वस्ति क्षेमम् अयते’नेनेति तथा, श्रद्धया निष्कामतया भक्त्या वा, शुक्लेन शुद्धेन आप्तेन न्यायार्जितेन वित्तेन पुरुष ईश्वर इज्येतेति यत् अयं पन्थाः ॥४९॥

अगस्त्य-संहितायां च—

**न्यायाज् जितैः साधनैश् च दान-होमार्चनादिकम् ।
कुर्यान् न चेद् अधो याति भक्त्या कुर्वन्न् अपि द्विज ॥५०॥ **इति ।

नचेत् अन्यायार्जितैर्यदि कुर्यात्तदेत्यर्थः । द्विज हे सुतक्षण ॥५०॥

यत्नात् सिद्धैर् निजैः शुद्धैर् द्रव्यैर् धन्यो’र्चयेत् प्रभुम् ।
पूजा-द्रव्याण्य् अशक्तश् चेद् दह्याद् ईक्षेत वार्चनम् ॥५१॥

यश्च श्रद्धाविशेषेण यत्नतो विशुद्धसाधनानि सम्पाद्य पूजामाचरेत् स च परमभाग्यवानिति लिखतियत्नादिति । अशक्तश्चेद्यदि तथार्चनेऽसमर्थस्तदा पूजाद्रव्याणि दद्यात् तत्राशक्तौ च पूजादर्शनमपि कुर्यादित्यर्थः ॥५१॥

अथाशक्तस्य पूजा-प्राप्त्य्-उपायः

अगस्त्य-संहितायां—

आराधनासमर्थ्यश् चेद् दद्याद् अर्चन-साधनम् । यो दातुं नैव शक्नोति कुर्याद् अर्चन-दर्शनम् ॥५२॥ निस्ताराय तद् एवालं भवाब्धेर् मुनि-सत्तम । नैकं च यस्य विद्येत सो’धो यात्य् एव नान्यथा ॥५३॥

एतदेवागस्त्याद्युक्तया प्रमाणयन् आदौ पूजामाधनदातापि समग्रमेव फलं प्राप्नुयादिति लिखति—आराधनेति । अप्यर्थे एव—शब्दः तत् अर्चनदर्शनमपि भवाब्धेः सकाशान्निस्ताराय अल समर्थम् ॥५२-५३॥

किं च तत्रैव—

यस् तु भक्त्या प्रयत्नेन स्वयं सम्पाद्य चाखिलम् । साधनं चार्चयेद् विद्वान् समग्रं लभते फलम् ॥५४॥

फलभेदमाह—यस्त्विति द्वाभ्याम् ॥५४॥

यो’र्चयेद् विधिवद् भक्त्या परानीतैश् च साधनैः । पूजा-फलार्धम् एव स्यान् न समग्रं फलं लभेत् ॥५५॥

किं च, पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये (६.११२.२१)—

धर्मोद्देशेन यो द्रव्यम् अपरं याचते नरः । तत्-पुण्य-कर्मजं तस्य धनदस् त्व् आप्नुयात् फलम् ॥५६॥

स्वयन्तु पूजार्थं द्रव्यमन्यजनं नैव याचेतेत्यत्र पाद्मवचनं लिखति—धर्मेति । तस्य द्रव्ययाचकस्य ॥५६॥

अथ दर्शन-माहात्म्यम्

पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे—

पूजितं पूज्यमानं च ये पश्यन्ति जनार्दनम् । कपिला-शत-दानस्य नित्यं भवति तत् फलम् ॥५७॥

अधुना स्वपरद्रव्यार्चनात् पूजादर्शने श्रीभगवतो दर्शनं स्यादिति प्रसङ्गात्तन्माहात्म्यं लिखति—पूजितमित्यादिना ॥५७॥

आग्नेये—

पूजितं पूज्यमानं वा यो पश्येद् भक्तितो हरिम् । श्रद्धया मोदयेद् यस् तु सो’पि याग-फलं लभेत् ॥५८॥

मोदयेत् अनुमोदं कुर्यात् ॥५८॥

सम्पूज्यमानं विधिना यः पश्येत् श्रद्धया हरिम् । सो’पि याग-फलं कृत्स्नं प्राप्नुयात् नात्र संशयः ॥५९॥ दृष्ट्वा सम्पूजितं देवं नृत्यमानो’नुमोदयेत् । असंशय-मतिः शुद्धः परं ब्रह्माधिगच्छति ॥६०॥

अथ श्री-भगवन्-मूर्ति-दर्शन-नित्यता

विष्णु-धर्मोत्तरे—

तावद् भ्रमन्ति संसारे मनुष्या मन्द-बुद्धयः । यावद् रूपं न पश्यन्ति केशवस्य महात्मनः ॥६१॥

तथा सुप्रतिष्ठिताया भक्तैः पूज्यमानायाः सन्निहितायाः श्रीभगवन्मूर्तेः सन्दर्शनमवश्यं कार्यमिति लिखति–तावदित्यादिना । रूपं श्रीमूर्तिम् ॥६१॥

पाद्मे च तत्रैव—

पूज्यमानं हृषीकेशं ये न पश्यन्ति वैष्णवाः । तेषां दत्तं हुतं जप्तं दैतेयायोपतिष्ठति ॥६२॥

किं च, तत्रैव नारायण-नारद-संवादे पूजा-विधि-कथने—

यत्र कुत्रापि प्रतिमां वेद-धर्म-समन्विताम् । न पश्यन्ति जना गत्वा ते दण्ड्या यम-किङ्करैः ॥६३॥

यत्र कुत्रापि दुर्गमे स्थाने सुगमे वेति ज्ञेयम् वेदधर्मसमन्वितां वेदोक्तधर्मेण प्रतिष्ठादिपूर्वकं यथाविधिपूज्यमानामित्यर्थः ॥६३॥

अथ भगवद्-अर्थे द्रव्य-दान-माहात्म्यम्

स्कान्दे—

विष्णुम् उद्दिश्य यत् किञ्चिद् विष्णु-भक्ताय दीयते । दानं तद् विमलं प्रोक्तं केवलं मोक्ष-साधनम् ॥६४॥

कौर्मे—

यत् किञ्चिद् देयम् ईशानम् उद्दिश्य ब्राह्मणाय च । प्रभवे विष्णवे चाथ तद् अनन्त-फलं स्मृतम् ॥६५॥

विष्णु-धर्मोत्तरे —

अनुग्रहेण महता प्रेतस्य पतितस्य च । नारायण-बलिः कार्यस् तेनास्यानुग्रहो भवेत् ॥६६॥
अनादि-निधनो देवः शङ्ख-चक्र-गदाधरः । अक्षयः पुण्डरीकाक्षस् तत्र दत्तं न नश्यति ॥६७॥ यथा कथञ्चिद् यद् दत्तं देवदेवे जनार्दने । अविनाशि तु तद् विद्धि पात्रम् एको जनार्दनः ॥६८॥

तत्रैव तृतीय-काण्डे —

सामान्य-भक्त्या यद् दत्तं तद् धि पद्भ्यां प्रतीच्छति । एकान्त-भावोपगमैर् मूर्ध्ना दिव्ज-वरोत्तमाः ॥६९॥ अनन्तो भगवान् विष्णुस् तस्य काम-विवर्जितैः । यद् एव दीयते किञ्चित् तद् एवाक्षयम् उच्यते ॥७०॥

पूजाद्रवाणि वा दद्यादति समतपूजान्साधदानेनापि समग्रं पूजाफलं लभत इति लिखितं तत्र श्रीभगवदर्थकिञ्चिद्दानेनापि महाफलं सिध्येदित्याशयेन सामान्यतो लिखति—विष्णुमित्यादिना स्वयमित्यन्तेन ॥६४-७०॥

पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् । मूर्ध्ना प्रतीच्छते दत्तम् अकामेन द्विजोत्तमाः ॥७१॥

प्रतीच्छते स्वीकरोति ॥७१॥

तथैवोक्तं मोक्ष-धर्मे श्री-नारदेन—

ब्रह्मा यद् ऋषयश् चैव स्वयं पशुपतिश् च यत् । अन्ये च विबुध-श्रेष्ठा दैत्य-दानव-राक्षसाः ॥७२॥ नागाः सुवर्णाः गन्धर्वाः सिद्धा राजर्षयस् तथा । हव्यं क्रव्यं च सततं विधि-युक्तं प्रभुञ्जते । कृत्स्नं तु तस्य देवस्य चरणाव् उपतिष्ठति ॥७३॥ याः क्रियाः सम्प्रयुक्तास् तु एकान्त-गत-बुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥७४॥

यत् हव्यं देवेभ्यो देयं कव्यञ्च पितृभ्यो देयं चरणौ प्रति एकस्मिन्नेव भगवति अन्तं गता निष्ठां प्राप्ता बुद्धिर्येषां तैः ॥७२-७४॥

ब्रह्म-वैवर्ते—

एकाम् अपि नरो धेनुं स-वत्सां विधि-पूर्वकम् । दत्त्वोद्देशेन कृष्णस्य प्राप्नोत्य् एवाभिवाञ्छितम् ॥७५॥

नारसिंहे—

यो गां पयस्विनीं विष्णोः कृष्ण-वर्णां प्रयच्छति । अश्वमेधस्य यज्ञस्य फलं प्राप्य हरिं व्रजेत् ॥७६॥ सर्व-पापैर् विरहितः सर्व-भूषण-भूषितः । गवां सहस्र-दानस्य प्राप्यं दिव्यं व्रजेत् ॥७७॥

विष्णु-धर्मोत्तरे (३.३४१.७६-)—

गवां लोकम् अवाप्नोति धेनुं दत्त्वा पयस्विनीम् । दधि-क्षीर-घृतार्थाय वासुदेवस्य चालये । दत्त्वा गां मधुपर्काय महत् फलम् अवाप्नुयात् ॥७८॥ जलाशयं तथा कृत्वा सर्व-पापैः प्रमुच्यते ॥७९॥ स-पुष्पैः सफलैर् वृक्षैर् युतं कृत्वा जलाशयम् । उद्यानैः पद्मिनी-षण्डैर् आश्रमैश् च मनोहरैः । श्वेदद्वीपम् अवाप्नोति पुनर् नावर्तते ततः ॥८०॥ देवाग्रे कारयेद् यस् तु रम्याम् आपण-वीथिकाम् । राजा भवति लोकेषु विजितारिर् महाशयाः ॥८१॥ नगरं च तथा कृत्वा साम्राज्यम् अधिगच्छति । शिविकां ये प्रयच्छन्ति ते प्रयान्त्य् अमरावतीम् ॥८२॥ अश्वदाः स्वर्ग-लोकस्था राजन्ते दिवि सूर्यवत् । कवीन्द्र-दानाच् छक्रस्य चिराल् लोकाच्युतो नरः ॥८३॥

अधुना द्रव्यविशेष-दानेन फल-विशेषं लिखति—एकामित्यादिना सुखं भवेदित्यन्तेन । यद्यपि गोदानादिकमेतत् कादाचित्कत्वान्नित्यकर्ममध्येऽत्र लिखितुं नोपयुज्यते तथापि तत्तद्दानेन नित्यपूजासिद्धेः पूजाद्रव्यदानलिखनाच्च तत्तत्फलविशेषोपेक्षया प्रसङ्गतोऽत्रैव लिखितमिति दिक् ॥७५-८३॥

राजा भवति धर्मात्मा पृथिव्यां पृथिवी-पतिः ॥८४॥ विष्णोर् आयतने दत्त्वा तत्-कथा-पुस्तकं नरः । ब्रह्म-लोकम् अवाप्नोति बहु-काल-स्थिरं द्विजाः ॥८५॥

तस्य विष्णोः कथायाः पुस्तकं श्रीभागवतादि ॥८५॥

पुस्तकांश् च तथैवान्यान् यः प्रदद्यान् नरस् त्व् इह । सारस्वतम् अवाप्नोति लोकं कालं तथा बहुम् ॥८६॥

इह विष्ण्वायतने ॥८६॥

स्वभृतं वाचकं कृत्वा देवागारे नरः सदा । विद्या-दान-फलं प्राप्य ब्रह्म-लोके महीयते ॥८७॥

स्वभृतं वेतनादिना स्वायत्तीकृतम् ॥८७॥

विष्णोः शङ्ख-प्रदानेन वारुणं लोकम् अश्नुते । मानुष्यम् आसाद्य तथा ख्यात-शब्दश् च जायते ॥८८॥ घण्टा-प्रदानेन तथा महद्-यश उपाश्नुते । कूटागारं तथा दत्त्वा नगराधिपतिर् भवेत् ॥८९॥

कूटागारं मञ्चगृहम् ॥८९॥

दत्त्वा तु देव-कर्मार्थं नवां वेदीं दृढां शुभाम् । पार्थिवत्वम् अवाप्नोति वेदी हि पृथिवी यतः ॥९०॥

वेदीं भगवदग्रतः पूजोपाकरण-स्थापनार्थमिष्टकादिनिर्मितं स्थानविशेषम् ॥९०॥

तोरणं कारयेद् यस् तु देवदेवालये नरः । लोकेषु तस्य द्वाराणि भवन्ति विवृतानि वै ॥९१॥ देव-वेश्मोपयोग्यानि शिल्प-भाण्डानि यो नरः । दद्याद् वा वाद्य-भाण्डानि गणेशत्वम् अवाप्नुयात् ॥९२॥

शिल्पभाण्डानि शिल्पनिर्माणोचितद्रव्यादीनि वाद्यादीनि च ॥९२॥

यः कुम्भं देव-कर्मार्थं नरो दद्यान् नवं शुभम् । वारुणं लोकम् आप्नोति सर्व-पापैः प्रमुच्यते ॥९३॥

शुभमुत्कृष्टद्रव्यनिर्मितं सुन्दरं वा ॥९३॥

चतुरः कलसान् दद्याद् यस् तु देव-गृहे नरः । चतुः-समुद्र-वलयां स हि भुङ्क्ते वसुन्धराम् ॥९४॥ दत्त्वैकम् अपि विप्रेन्द्राः कलसं सुसमाहितः । राजा भवति धर्मात्मा भूतले नात्र संशयः ॥९५॥ वारिधानीं तथा दत्त्वा वारुणं लोकम् अश्नुते । कमण्डलु-प्रदानेन यज्ञस्य फलम् आप्नुयात् ॥९६॥

वारिधानीं लघुघटम् ॥९६॥

मात्रां तु परिचर्यार्थं निवेद्य हरये तथा । सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥९७॥

मात्रां देवोपचारसामग्रीं तदाधारद्रव्यं वा ॥९७॥

ताल-वृन्त-प्रदानेन निर्वृतिं प्राप्नुयात् पराम् । माल्याधारं तथा दत्त्वा धूपाधारं तथैव च । गन्धाधारं तथा पात्रं कामानां पात्रतां व्रजेत् ॥९८॥ सौम्द्रजानि पात्राणि दत्त्वा वै तैजसानि वा । पात्रं भवति कामानां विद्यानां च धनस्य च ॥९९॥

कामानामैश्वर्यभोगानां पात्रतामाश्रयताम् ॥९९॥

शयनासन-दानेन स्थितिं विन्दति शाश्वतीम् । उत्तर-च्छद-दानेन सर्वान् कामान् अवाप्नुयात् ॥१००॥ नरः सुवर्ण-दानेन सर्वान् कामान् अवाप्नुयात् । रूप्यदो रूपम् आप्नोति विशेषाद् भुवि दुर्लभम् ॥१०१॥ रत्न-दानेन लोकेषु प्रामाण्यम् उपगच्छति । अनड्वाह-प्रदानेन दश-धेनु-फलं लभेत् ॥१०२॥

रत्नानि मौक्तिक-हीरकगामेदेन्द्रनील-पुष्परागवैदुर्य-विद्रुम-मरकत-पद्मरागादीनि ॥१०२॥

आज्ञा-विमहिषोष्ट्राणां दानम् अश्वतरस्य च । सहस्र-गुणितं दानात् पूर्व-प्रोक्तात् प्रकीर्तितम् ॥१०३॥

पूर्वप्राक्तात् ब्राह्मणसम्प्रदानकाद्दानात् ॥१०३॥

वारुणं लोकम् आप्नोति दत्त्वा वस्तुं द्विजोत्तमाः । अविप्रदानाच् च तथा तम् एनं लोकम् अश्नुते ॥१०४॥ उष्ट्रं वा गर्दभं वापि खरं वा यः प्रयच्छति । अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ॥१०५॥

वस्तं छागं अविर्मेषः खरं गर्दभविशेषं पश्चिमदेशे गोखरेति प्रसिद्धम् ॥१०४-१०५॥

आरण्य-मृग-जातीनां तथा दानाच् च पक्षिणाम् । अग्निष्टोमम् अवाप्नोति सुभगश् च तथा भवेत् ॥१०६॥ दासं दत्त्वा सुखे लोके नेष्ट-भ्रष्टो विजायते । दासीं दत्त्वा तथा विप्रा नात्र कार्या विचारणा ॥१०७॥ गणिकां ये प्रयच्छन्ति नृत्य-गीत-विशारदाम् । सर्व-दुःख-विनिर्मुक्तास् ते प्रयान्त्य् अमरावतीम् ॥१०८॥ नृत्यं दत्त्वा तथ्âप्नोति रुद्र-लोकम् असंशयम् ॥१०९॥ प्रेक्षणीय-प्रदानेन शक्र-लोके महीयते । गीतं दत्त्वा तथाप्नोति ब्रह्म-लोकम् असंशयम् ॥११०॥ दुन्दुभिं ये प्रयच्छन्ति कीर्तिमन्तो भवन्ति ते ॥१११॥ दत्त्वा धान्यानि बीजानि शस्यानि विविधानि च । रूपकानि च तान्य् एव प्राप्नुयात् सुर-पूज्यताम् ॥११२॥

प्रेक्षणीयमिन्द्रजालादि गीतं दत्त्वा गायनद्वारा गीतं गापयित्वा बीजानि शाकादीनां बीजानि बीजरूपाणि धान्यानि वा शस्यानि भोज्यानि यवादीनि रूपकाणि अङ्कुरितानि ॥११०-११२॥

दत्त्वा शाकानि रम्यानि विशोकस् त्व् अभिजायते । दत्त्वा च व्यञ्जनार्थाय तथोपकरणानि च ॥११३॥ पुष्प-वृक्षं तथा दत्त्वा देशस्याधिपतिर् भवेत् । फल-वृक्षं तथा नगराधिपतिर् भवेत् ॥११४॥

पुष्पवृक्षं पुष्पप्रधानकं वृक्षम् एवं फलवृक्षम् ॥११४॥

तथा—

सुगन्ध-साधनानीह पट-वासानि यो नरः । ददाति देवदेवस्य सो’श्वमेध-फलं लभेत् ॥११५॥ कङ्कतस्य प्रदानेन विरोमस् त्व् अभिजायते । कूर्च-प्रसाधनं कृत्वा परं मङ्गलम् अश्नुते ॥११६॥ विस्मापनीयं यत् किञ्चिद् दत्त्वात्यन्तं सुखं लभेत् ॥११७॥

विस्मापनीय शवर्यावहम् ॥११७॥

वस्त्रालङ्करणादीनां कृष्णार्पण-फलं च यत् । उपचार-प्रयोगे प्राक् तत्र तत्र व्यलेखि तत् ॥११८॥

अत्रालिखितोऽपि वस्त्रादिद नफलभेदः पूर्ववत् तदर्पण-प्रकरणे लिखितोऽत्रापि तथैव ज्ञेयः इत्याशयेन लिखति—वस्त्रेति ॥११८॥

उपचाराश् च विविधाः श्रीमद्-भगवद्-अर्चने । शक्यशक्त्यादि-भेदेन तान्त्रिकैर् वैष्णविर् मताः ॥११९॥

पूर्ववत् कुर्यान् शक्तो भगवदर्चनम् इति सायं पूजायां लिखितं तत्र शक्तौ पूर्वलिखितैः सर्वैरेवोपचारैरर्चनं कार्यम् अशक्तौसङ्क्षेपेण कतिभिश्चदेव कर्तव्यमित्राशयेनोपचारराणां बहुविधत्वं लिखति—आचाराश्चेति । शक्तेरशक्तेश्च भेदेन आदि—शब्दात् कालदेशश्रद्धादिभेदेन च विविधा मताः ॥११९॥

अथ विविधोपचाराः

आगमे—

आसन-स्वागते सार्घ्ये पाद्यम् आचमनीयकम् ।
मधुपर्काचम-स्नान-वसनाभरणानि च ॥१२०॥ सुगन्ध-सुमनो-धूप-दीप-नैवेद्य-वन्दनम् । प्रयोजयेद् अरचनाज्ञाम् उपचारांस् तु षोडश ॥१२१॥

सार्ध्ये अर्ध्ये—सहिते अर्घ्यञ्चैकमित्यर्थः एवं षोडश ॥१२०-१२१॥

अर्घ्यं च पाद्याचमन-मधुपर्काचमान्य् अपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥१२२॥

अर्घ्यादीनि पञ्च गन्धादयश्च पञ्च—इत्येवं दश ॥१२२॥

गन्धादिभिर् निवेद्यान्तैः पूजा पञ्चोपचारिकी । सपर्यास् त्रिविधाः प्रोक्तास् तासाम् एकां समाचरेत् ॥१२३॥

त्रिविधा आचाराणां षोडशादिना भेदत्रयेण त्रिणकाराः ॥१२३॥

क्वचिच् च—

आसनावाहनं चैव पाद्यार्घ्याचमनीयकम् । स्नानं वासो भूषणं च गन्धः पुष्पं च धूपकः ॥१२४॥ प्रदीपश् चैव नैवेद्यं पुष्पाञ्जलिर् अतः परम् । प्रदक्षिणं नमस्कारो विसर्गश् चैव षोडश ॥१२५॥

षोडशस्वेव मतान्तरं लिखति—आसनेति । पुष्पस्य पुष्पाञ्जलेश्चैवयेन षोडश ॥१२४-१२५॥

केचिच् चाहुश् चतुःषष्टिम् उपचारान् ममार्चने । तेष्व् अनेक-प्रकारेषु प्रकारैको’त्र लिख्यते ॥१२६॥

अनेके प्रकारा भेदा येषां तेषु चतुःषष्ट्युपचारेषु मध्ये एकः प्रकारोऽत्र ग्रन्थे लिख्यते ॥१२६॥

सुख-सुप्तस्य कृष्णस्य प्रातर् आदौ प्रबोधनम् । वेद-घोषण-वीणा-विवाद्यैर् वन्दि-स्तवैर् अपि ॥१२७॥ जय-शब्दा नमस्कारा मङ्गलारात्रिकं ततः । आसनं दन्त-काष्ठं च पाद्यार्घ्याचमनान्य् अपि ॥१२८॥ ततश् च मधुपर्काढ्याचमनं पादुकार्पणम् । अङ्ग-मार्जनम् अभ्यङ्गोद्वर्तने स्नपनं जलः ॥१२९॥ क्षीरेण दध्ना हविषा मधुना सितया तथा । मन्त्र-पूतैः पुनर् वार्भिर् अङ्ग-वासो’थ वाससी ॥१३०॥ उपवीतं पुन¨च् चाचमनीयं चानुलेपनम् । भूषणं कुसुमं धूपो दीपो दृष्ट्य्-अपसारणम् ॥१३१॥ नैवेद्यं मुख-वासस् तु ताम्बूलं शयनोत्तमम् । केश-प्रसाधनं दिव्य-वस्त्राणि मुकुटं महत् ॥१३२॥ दिव्य-गन्धानुलेपश् च कौस्तुभादि-विभूषणम् । विचित्र-दिव्य-पुष्पाणि मङ्गलारात्रिकं ततः ॥१३३॥ आदर्शः सुखयानेन मण्डपागमनोत्सवः । सिंहासनोपवेशश् च पाद्याद्यैः पुनर् अर्चनम् ॥१३४॥ पुनर् धूपाद्य्-अर्पणेन प्राग्वन् नैवेद्यम् उत्तमम् । ततश् च दिव्य-ताम्बूल-महा-नीराजनं पुनः ॥१३५॥ चामर-व्यजन-च्छत्रं गीतं वाद्यं च नर्तनम् । प्रदक्षिणं नमस्कारः स्तुतिः श्री-चरणाब्जयोः ॥१३६॥

प्रबोधनमित्यादिभिः प्रथमान्तपदैरूपचाराः । तत्रैकवचनान्तेनैकः द्वन्द्वसमासे द्विवचनान्तेन द्वौ बहुवचनान्तेन च बहवः । तृतीयान्ते-पदैश्च प्राय उपचारस्य साधनं क्वचिच्च तस्य भेदोऽपि ज्ञेयः । मधुपर्केणाढ्यं सहितमाचमनमिति तयोर्द्वित्वेऽपि मधुपर्कानन्त माचमनस्यावश्यापेक्षत्वादैव्याभिप्रायेणैक एवोपचारः । अङ्गमार्जनं पर्युषितानुलेपनादिरूप-श्रीगात्रमलोत्तारणम् अभ्यङ्गस्तैलाभ्यञ्जनं तैलमर्दनमिति वा पाठः । अभ्यङ्गो विशेषतः तैलादिना श्रीमस्तकाभ्यञ्जनम् उद्वर्तनञ्च तैलाद्यपसारणं जलैः सुगन्धपुष्पोदकादिभिः स्नानस्यैकविधत्वेऽपि जलभेदेन क्षीरादिभेदेन च सप्तधा सप्तोपचारा इत्येव विशिष्ट-सम्प्रदायाचारोऽनुसर्तव्यः । अङ्गवासः श्रीमदङ्गजलमार्जनार्थं वस्त्रं वाससी परिधानोत्तरीये दृष्टैः दृष्टलोकावलोकस्य अपसारणं सर्षपादिर्भिर्तमञ्छनेनोत्तानणं शयनोत्तमं दिव्यशया महाराजोपचारान् लिखति—दिव्य वस्त्राणीत्यादिना आदर्श इत्यन्तेन । दिव्यानि विचित्राणि कञ्चुकोणीषादिरूपाणि बहूनि वस्त्राणि मण्डपे बहिःप्रासादे आगमतमेवोत्सवः विशेषतोऽत्रोत्सवप्रयोगेण गीतवाद्यादिपूर्वकता सूचिता । पाद्यादीनां पृथक्त्वेन पुनर्युगपदर्पणादैक्येनैवैक एवोपचारः कचिच्च नित्यसाहचर्याभावान् पृथगु चारनिर्देश इति दिक् ॥१२७-१३६॥

तयोश् च स्थापनं मूर्ध्नि तीर्थ-निर्माल्य-धारणम् । उच्छिष्ट-भोजनं पाद-सेवोद्देशोपवेशनम् ॥१३७॥ नक्तं शय्या-विनिर्माणं दिव्यैर् विविध-साधनैः । हस्त-प्रदानं शयन-स्थानागम-महोत्सवः ॥१३८॥ शय्योपवेशनं श्रीमत्-पाद-क्षालन-पूर्वकम् । गन्ध-प्रसून-ताम्बूलार्पण-नीराजनोत्सवः ॥१३९॥

पादयोः श्रीचरणाब्जयोः या सेवा संवाहनादिरूपा तदुद्देशेनोपवेशनमु वेशः विविधैः सुगन्धिचूर्णादिसुवासित कोमलवस्त्रान्तःपुष्पविरचनादिभिः साधनैः हस्तप्रदानं शयनस्थाने शुभागमनार्थं हस्तयोजनम् शयगायामुपवेशनं श्रीमत्पादयोः क्षालनं पूर्वमादौ यस्य तादृशं गन्धाद्यर्पणेन नीराजनरूपोत्सवः ॥१३७-१३९॥

शेष-पर्यङ्क-शयन-पाद-संवाहनादिकम् । क्रमेणैते चतुः-षष्ठिर् उपचाराः प्रकीर्तिताः ॥१४०॥ सदाचारानुसारेण यद् यद् आचर्यते स्वयम् । नित्य-कर्मादिकं तत् तत् श्री-कृष्णस्यापि कारयेत् ॥१४१॥

तत्र तत्रानुक्तमप्युपचारादिकं शिष्टाचारद्दृष्ट्या लिखति—सदाचारेति द्वाभ्याम् । यद्यन्नित्यकर्म आदिशब्दा जन्मादिकृत्यञ्च तथा तत्र तत्र काल—देशादिभेदेन यद्यथा स्वयं क्रियते तच्च सर्वम् ॥१४१॥

अतो’त्रालिखितं यद् यद् उपचारादिकं परम् । सर्वं तत् तच् च जानीयाल् लोक-रीत्य्-अनुसारतः ॥१४२॥

अतोऽमाद्धेतोः परमन्यदुपचारादिम् अत्र ग्रन्थे यद्यल्लिखितं नास्ति तच्च स्नानात् पूर्वं केशप्रसाधनं स्नानार्थञ्च धौतवस्त्रपरिधापनं भोजने चादौ पीठाद्यर्पणं भोजनान्ते च जलगण्डुषार्पणं सुगन्धि-ताम्बूलमित्येवमादिकं नित्यकर्म तथा जन्मदिने तिलस्नानादि तथा नवान्नादिकाले नवान्नप्राशनादिकं चेत्येवमादिकं मासादिकृत्यं जानीयात् । तच्च लोकस्य रीतेर्व्यवहारक्रमस्यानुसारतः । शीतकाले उस्णद्रव्यं शीतनिवारणार्थं तद्योग्यवस्त्रं ज्वलदङ्गारस्थाल्यादिकमुष्णकाले च शीतलं द्रव्यं हिमादिकञ्च समर्पयेत् । भोजनानन्तरं क्षणं सुखविश्रामार्थं शयाविस्तारणादि-विविक्ततापादनं तत्रापि च शीतकालेऽल्पकालं ग्रीष्मे च बहुकालमुत्यापनानन्तरञ्च पाद्याचमनीयादिकं किञ्चिद्भक्ष्यपेयादिकञ्चार्यमित्यादि-शिष्टाचाराद्वोद्धव्यमित्यर्थः ॥१४२॥

उक्तानां चोपचाराणाम् अभावे भगवान् सदा । भक्तेनार्च्यो यथा-लब्धैस् तैर् अन्तर्-भावितैर् अपि ॥१४३॥

ननु पञ्चस्वप्युपचारेषु यदि कश्चिन्न सिध्येत्तर्हि किं कार्यम्? इत्यपेक्षायां लिखति—उक्तानामिति शास्त्रप्रतिपादितानाम् तैरुपचारैः यथालब्धैः येऽनायासतः प्राप्तास्तैर्ये चालब्धास्तैरन्तर्भावितैर्मानसिकैरित्यर्थः ॥१४३॥

अथालब्ध-समाधानम्

तन्त्रे—

उपचारोक्त-वस्तूनाम् उपसङ्ग्रहणे विधिः । द्रव्याणाम् अप्य् अभावे तु पुष्पाक्षत-यवैः क्रियाः ॥१४४॥ अर्चोपचार-वस्तूनाम् अभावे समुपस्थिते ।

उपसङ्ग्रहणे समाधाने विधिरयं तमेवाह—द्रव्याणामिति । पुष्पादिभिरपि क्रियाः पूजाकर्माणि भवन्ति तत्तद्द्रव्यस्थाने पुष्पादिनैवार्चयेदित्यर्थः ॥१४४॥

निर्मलेनोदकेनैव द्रव्य-सम्पूर्णता भवेत् ॥१४५॥ उपचारेषु द्रव्येषु यत् किञ्चिद् दुष्करं बुधः ।

पुष्पाद्यभावे च जलेनैव सिध्यन्तीत्याह—अर्चेति ॥१४५॥

तत् सर्वं मनसा बुद्ध्या पुष्प-क्षेपेण कल्पयेत् ॥१४६॥ एतेषु चोपचारेषु वित्त-शाठ्य-विवर्जितम् ।

जलाभावे च तत्तद्ध्यानेनैव सिध्यन्तीत्याह—उपचारेष्विति । मनसा या बुद्धिर्भावना तया यद्वा बुद्ध्या यत् पुष्पं तस्य मनसैव प्रक्षेपणं कल्पयेदित्यर्थः ॥१४६॥

यद् असम्पन्नम् एतेषां मनसा तु प्रकल्पयेत् ॥१४७॥

किन्तु तत्र वित्तशाठ्यं न कार्यमित्याह—एतेष्विति । वित्तशाठ्यं वित्ते सति गौणोपचारेऽकिञ्चनवत् प्रवृत्तिस्तद्विवर्जितं यथा स्यात्तथा प्रकल्पयेत् । विवर्जित इति प्रथमान्तो वा पाठः ॥१४७॥

अगस्त्य-संहितायां श्री-तुलसी-माहात्म्ये—

यद् यन् न्यूनं भवत्य् एव रामाराधन-साधनम् । तुलसी-दल-मात्रेण युक्तं तत् परिपूर्यते ॥१४८॥

युक्तं सम्बद्धं सत् ॥१४८॥

एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे (११.२६.१५)—

द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः । भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि ॥१४९॥

प्रसिद्धैः प्रकर्षेण सिद्धैः सुशोभनैरित्यर्थः । यद्वा प्रख्यातैरेव गन्धचन्दन—पुष्पादिभिः अतस्तत्तद्विशेषनिर्देशेनालमित्यर्थः । अमानिनः निष्कामस्य भक्तस्य चेति सम्बन्धः यद्वा शाठ्यहीनस्य जनस्येति तत्र वित्तशाठ्यमवश्यं वर्जयेदित्यर्थः । भक्तस्य तु यथालब्धैः यथोपपन्नैः यत्तु चन्दनादि सर्वथा न लभ्यते तस्य हृदि भावेन भावनया ॥१४९॥

ततो’नुज्ञां प्रभोः प्रार्थ्य दण्डवत् तं प्रणम्य च ।
सायं भुक्त्वा यथान्यायं सुखं स्वप्यात् प्रभुं स्मरेत् ॥१५०॥

अथ शयन-विधिः

आगमे—

निर्गुणो निष्कलश् चैव विश्व-मूर्ति-धरो’व्ययः । अनाद्यन्ते सदानन्ते फणा-मणि-विशोभिते । क्षीराब्धि-मध्ये यः शेते स मां रक्षतु माधवः ॥१५१॥ स-बाह्याभ्यन्तरं देहम् आपाद-तल-मस्तकम् । सर्वात्मा सर्व-शक्तिश् च पातु मां गरुड-ध्वजः ॥१५२॥ इति रक्षां पुरस्कृत्य स्वपेद् विष्णुम् अनुस्मरन् ॥१५३॥

किं चान्यत्र—

अद्भिः शौच-विधिं विधाय चरणौ प्रक्षाल्य् चोपस्पृशेद् द्विः संस्मृत्य जगत्पतिं व्रजपतिं श्री-वल्लभी-वल्लभम् । राधायाः सुचिरं पिबन्तम् अमृतासारायमाणां गिरं वस्त्रेणाङ्घ्रि-युगं प्रमृज्य शयनं त्व् आपाद्य सद्यः स्वपेत् ॥१५४॥

द्विरुपस्पृशेत् वारद्वयमाचमनं कुर्यात् अमृतस्य सुधायाः आसारः धारासम्पातः तद्वदाचरन्तीं गिरं सुचिरं पिबन्तं संस्मृत्य शयनं शय्याम् ॥१५४॥

किं च—

रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेन् नित्यं दुःस्वप्नस् तस्य नश्यति ॥१५५॥

अपि च स्कान्द-पाद्मयोः (प।पु। ५.९.४४-४७)—

ऋतु-कालाभिगामी यः स्व-दार-निरतश् च यः । सर्वदा ब्रह्मचारीह विज्ञेयः स गृहाश्रमी ॥१५६॥

इह गृहाश्रमेऽपि स एव सन् उत्तमः गृहाश्रमी च गृही विज्ञेयः ॥१५६॥

ऋतुः षोडश-यामिन्यश् चतस्रस् तासु गर्हिताः । पुत्र-दास् तासु या युग्मा अयुग्माः कन्यका-प्रदाः ॥१५७॥

तासु अगर्हितास्वपि यामिनीषु मध्ये युग्माः ऋतुदर्शनात् परा षष्ठ्याद्या यामिन्यः पुत्राः पुत्रोत्पादिका इत्यर्थः ॥१५७॥

त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च । शुचिः सन्निर्विशेत् पत्नीं पुं-नामर्क्षे विशेषतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थ-प्रसाधनम् ॥१५८॥

पुन्नामर्क्षं नक्षत्रदशकम् तदुक्तं बार्हस्पत्ये—सर्पाच्चतुष्कं रौद्रञ्च याम्यं त्वाष्ट्रत्रिकं तथा । वैश्वैन्द्रवासवं पौष्णं स्त्रीलिङ्गाः समुदाहृताः ॥ सौम्य-वारुण-मूलानि नपुंसकदिनान्यपि । शेषाः पुंलिङ्गतां प्राप्तास्ताराः सुरशचीपते ॥ इति । अनोऽश्विनी-कृतिका-रोहिणी-पुनर्वसुपुष्या-हस्तानुराधा-श्रवणा-पूर्वभाद्रोत्तरपदानीति दश ॥१५८॥

विष्णु-पुराणे और्व-सगर-संवादे (३.११.१११-१२७)-—

कृत-पादादि-शौचश् च भुक्त्वा सायं ततो गृही । गच्छेच् छय्याम् अस्फुटिताम् एक-दारु-मयीं नृप ॥१५९॥ नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तु-मयीं शय्याम् अधितिष्ठेद् अनास्तृताम् ॥१६०॥

शय्यां खट्टाम् अस्फुटितामविदीर्णाम् ॥१६०॥

प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥१६१॥ ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठ-युग्मासु रात्रिषु ॥१६२॥ नास्नातां तु स्त्रियं गच्छेन् नातुरां न रजस्वलाम् ।

ऋतुदर्शनात् परासु षष्ठ्याद्यासु युग्मासु रात्रिषु तत्रापि ज्येष्ठासु उत्तरोत्तर शुभासु ॥१६२॥

नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्विणीम् ॥१६३॥ नादक्षिणां नान्यकामां नाकामां नान्य-योषितम् ।

अस्नातां चण्डालादिस्पर्शेऽप्यकृतस्नानां रजस्वलां चतुर्थरात्रि-प्रभृत्यनुपरतरजसम् अनिष्टां सद्योनिविष्टां अप्रशस्तां परिवादादियुताम् ॥१६३॥

क्षुत्-क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः ॥१६४॥

अदक्षिणामननुकूलाम् ॥१६४॥

स्नातः स्रग्-गन्ध-धृक्-प्रीतो नाध्यातः क्षुधितो’पि वा । सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत् ॥१६५॥

आध्यातः अतितृप्तः सकामः रिरंसुः सानुरागः स्त्रियां प्रीतिमान् व्यवायं सुरतम् ॥१६५॥

चतुर्दश्य्-अष्टमी चैव अमावस्याथ पूर्णिमा । पर्वाण्य् एतानि राजेन्द्र रवि-सङ्क्रान्तिर् एव च ॥१६६॥ तैल-स्त्री-मांस-सम्भोगी पर्वस्व् एतेषु वै पुमान् । विण्-मूत्र-भोजनं नाम प्रयाति नरकं नृप ॥१६७॥ नान्य-योनाव् अयोनौ वा नोपयुक्तौषधस् तथा । देव-द्विज-गुरूणां च व्यवायी नाश्रमी भवेत् ॥१६८॥

अन्ययोनौ गवाश्वादियोनौ देव-द्विज-गुरूणामाश्रमी तेषां गृहे स्थितः ॥१६८॥

चैत्य-चत्वर-तीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥१६९॥ प्रोक्त-पर्व-स्व-शेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद् व्यवायं मतिमान् न मूत्रोच्चार-पीडितः ॥१७०॥ पर-दारान् न गच्छेत मनसापि कदाचन । किम् उ वाचास्थि-बन्धो’पि नास्ति तेषु व्यवायिनाम् ॥१७१॥

परदारेषु व्यवायिनामस्थिबन्धोऽपि नास्ति केवलमनस्थिकृमिकीटयोनिषु परिवर्तत इत्यर्थः ॥१७१॥

मृतो नरकम् अभ्येति हीयते चात्र चायुषः । पर-दार-रतिः पुंसाम् उभयत्रापि भीतिदा ॥१७२॥ इति मत्वा स्व-दारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्त-दोष-हीनेषु सकामेष्व् अनृताव् अपि ॥१७३॥ इति ।

तेषां भक्त्य्-उपयोगित्वं न स्याद् यद्यपि कर्मणाम् ।
तथापि कृत उल्लेखो गृहिष्व् आवश्यकं ततः ॥१७४॥
इत्थं हि प्रातरु त्थानात् प्रत्यहं शयनावधि ।
श्री-कृष्णं पूजयन् सिद्ध-सर्वार्थो’स्य प्रियो भवेत् ॥१७५॥

सिद्धाः सर्वे अर्थाः पुरुषार्था यस्य सः अस्य श्रीकृष्णस्य प्रियश्च ॥१७५॥

अथ श्री-भगवद्-अर्चन-माहात्म्यम्

श्री-कूर्म-पुराणे—

न विष्ण्व्-आराधनात् पुण्यं विद्यते कर्म वैदिकम् । तस्माद् अनादि-मध्यान्तं नित्यम् आराधयेद् धरिम् ॥१७६॥

विष्णोराराधनादन्यत् वैदिकं कर्म पुण्यं नास्ति विष्ण्वाराधनमेव पुण्यमित्यर्थः । अनादि-मध्यान्तमपरिच्छिन्नमित्यर्थः । अनेन तदाराधनपुण्यस्याप्यपरिच्छिन्नताभिप्रेता । अतः परिच्छिन्न-स्वर्गादिफलकवैदिक-यज्ञादिकर्मतः श्रेष्ठ्यं युक्तमेवेति भावः ॥१७६॥

तत्रैव भृग्व्-आदीन् प्रति साक्षात् श्री-भगवद्-उक्तौ—

ये’र्चयिष्यन्ति मां भक्त्या नित्यं कलि-युगे द्विजाः । विधिना वेद-दृष्टेन ते गमिष्यन्ति तत्-पदम् ॥१७७॥

वेददृष्टेन सदाचारानुसारेणेत्यर्थः । यद्वा अकारप्रश्लेषतः अवेद-दृष्टेन स्वच्छन्दकृतेनापीत्यर्थः । तत् अनिर्वचनीयं श्रीवैकुण्ठाख्यम् ॥१७७॥

विष्णु-रहस्ये—

श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥१७८॥ इति ।

तत्रैव श्री-भगवद्-उक्तौ—

न मे ध्यान-रताः सम्यग्-योगिनः परितुष्टये । तथा भवन्ति देवर्षे क्रिया-योग-रता यथा ॥१७९॥

मे मम परितुष्टये न भवन्ति क्रिया पूजा परिचर्यादिः तद्रूपो योगो भक्तियोग इत्यर्थः तद्रताः ॥१७९॥

क्रिया-योगो हि मे’भीष्टः पर-योगात् स्वनुष्ठितात् । तुष्टिर् मे सम्भवेत् पुम्भिर् भक्तिमद्भिर् अमत्सरैः ॥१८०॥

स्वनुष्ठितात् सुष्ठु विहितादपि परयोगात्—परो भक्तियोगादन्ययोगः ध्यानधारणादिरूपस्तस्मात् मे ममाभीष्टः प्रियतमः ॥१८०॥

ये’र्चयन्ति नरा नित्यं क्रिया-योग-रताः स्वयम् । ध्यायन्ति ये च मां नित्यं तेषां श्रेष्ठाः क्रिया मताः ॥१८१॥ क्रिया-हीनस्य देवर्षे तथा ध्यानं न मुक्तिदम् । न तथा मां विदुर् विप्रा ध्यानिनस् तत्त्वतो विना । क्रिया-योग-रताः सम्यग् लभन्ते मां समाधिना ॥१८२॥

तत्त्वतः क्रियायुक्तयोगान् विना तदाश्रयेणैव जानन्तीत्यर्थः । क्रियायोगस्तु स्वतन्त्र एवेत्याशयेनाह—क्रियेति । समाधिना चित्तस्थैर्येण क्रियायोगेन सुखं चित्तस्थैर्य स्यादतो मां सम्यग्लभन्त इत्यर्थः । तत्त्वत इति पाठे तत्त्वज्ञानं विनापि मां सम्यग्लभन्ते । अन्यत् समानम् ॥१८२॥

यथा हि कामदं नॄणां मम तुष्टि-करं परम् । भक्तियोगं महापुण्यं भुक्ति-मुक्ति-प्रदं शुभम् ॥१८३॥ संवत्सरेण यत् पुण्यं लभन्ते ध्यानिनो मम । प्राप्यन्ते तद् इहैकाहात् क्रिया-योग-परैर् नरैः ॥१८४॥

आदि-पुराणे—

न कर्म-सदृशं ध्यानं न कर्म-सदृशं फलम् । न कर्म-सदृशस् त्यागो न कर्म-सदृशं तपः । न कर्म-सदृशं पुण्यं न कर्म-सदृशी गतिः ॥१८५॥

यथा यथावत् शुभं स्वत एव परमफलरूपञ्च जानीहीति शेषः । कर्म भगवत्परिचर्यादि फलं स्वर्गादि गतिराश्रयः ॥१८३-१८५॥

नारदीये [ना।पु। २.३.३-४]

भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर । भक्त्या सम्पूजितो विष्णुः प्रददाति मनोरथम् ॥१८६॥

समीहितं वाञ्छितम् ॥१८६॥

तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥१८७॥

हरि-भक्ति-सुधोदये —

कृतापि दम्भ-हास्यार्थे सेवा तारयते जनान् । विफला नान्य-कर्मेव कृपालुः को न्व् अतः परः ॥१८८॥

विफला वैगुण्येऽपि न फलहीना ॥१८८॥

ब्रह्म-वैवर्ते —

स समाराधितो देवो मुक्ति-कृत् स्याद् यथा तथा । अनिच्छयापि हुत-भुक् संस्पृष्टो दहति द्विज ॥१८९॥ धनवान् पुत्रवान् भोगी यशस्वी भय-वर्जितः । मेधावी मतिमान् प्राज्ञो भवत्य् आराधनाद् धरेः ॥१९०॥

धीर्धारणावती मेधा तद्वान् मतिर्ज्ञानमात्मानात्मादिविषयकं तद्वान् प्राज्ञश्च आत्मतत्त्वाद्यनुभाववान् भक्तिमाहात्म्याभिज्ञो वा ॥१९०॥

स्कान्दे सनत्कुमार-मर्कण्डेय-संवादे—

विशिष्टः सर्व-धर्माच् च धर्मो विष्ण्व्-अर्चनं नॄणाम् । सर्व-यज्ञ-तपो-होमस् तीर्थ-स्नानैश् च यत् फलम् ॥१९१॥ तत् फलं कोटि-गुणितं विष्णुं सम्पूज्य चाप्नुयात् । तस्मात् सर्व-प्रयत्नेन नारायणम् इहार्चयेत् ॥१९२॥

तत्रैव श्री-शिवोमा-संवादे —

यः प्रदद्यद् द्विजेन्द्रय सर्वं भुमिं स-सगरम् । अर्चयेद् यः सकृद् विष्णुं तत् फलं लभते नरः ॥१९३॥ मसर्धम् अपि यो विष्णुं नैरन्तर्येन पूजयेत् । पुरुषोत्तमः स विज्ञेयो विष्णु-भक्तो न संशयः ॥१९४॥ मध्यन्दिन-गते सुर्ये यो विष्णुं परिपूजयेत् । वसु-पूर्ण-महि-दतुर् यत् पुन्यं तद् अवाप्नुयात् ॥१९५॥ प्रातर् उत्थय यो विष्णुं सततं परिपूजयेत् । अग्निस्तोम-सहस्रस्य लभते फलम् उत्तमम् ॥१९६॥ यो विष्णुं प्रयतो भूत्वा सयङ्कले समर्चयेत् । गवं मेधस्य यज्ञस्य फलम् आप्नोति दुर्लभम् ॥१९७॥ एवं सर्वासु वेलासु अवेलासु च केशवम् । सम्पूजयन् नरो भक्त्या सर्वान् कामान् अवाप्नुयात् ॥१९८॥

वेलासु मध्याह्नादिकालेषु अवेलासु तदन्यकालेष्वपि ॥१९८॥

किं पुनर् यो’र्चयेन् नित्यं सर्व-देव-नमस्कृतम् । धन्यः सः कृत-कृत्यश् च विष्णु-लोकम् अवाप्नुयात् ॥१९९॥

एवं मध्याह्नादौ कदाचित् कृतार्चनस्य फलमुक्त्वा नित्यपूजाफलमाह—किमिति ॥ १९९॥

किं च —

दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै । किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नरः ॥२००॥

तत्रैव श्री-ब्रह्म-नरद-संवादे

संसारे’स्मिन् महा-घोरे जन्म-मृत्यु-भयाकुले । पूजनं वासुदेवस्य तारकं वादिभिः स्म्र्तम् ॥२०१॥

वादिभिः स्मृतं सर्ववादिनामेव सम्मतमित्यर्थः ॥२०१॥

स नाम सुकृति लोके कुलं तेन ह्य् अलङ्कृतम् । आधारः सर्व-भूतानां येन विष्णुः प्रसदितः ॥२०२॥

शा प्रसादितः आराधितं ॥२०२॥

यज्ञानां तपसां चैव शुभानाम् अपि कर्मणाम् । तद् विशिष्ट-फलं नॄणां सदैवाराधनं हरेः ॥२०३॥

हरेर्यदाराधनं तदेव यज्ञादीनां विशिष्टं फलम् ॥२०३॥

कलौ कलि-मलाक्रान्ता न जानन्ति हरिं परम् । ये’र्चयन्ति तम् ईशानं कृत-कृत्यस् त एव हि । नास्ति श्रेयोत्तमं नॄणां विष्णोर् आराधनत् परम् ॥२०४॥

उत्तमं श्रेयः फलं सन्धिरार्षः पाठान्तरं स्पष्टम् ॥२०४॥

युगे’स्मिन् तमसे तस्मात् सततं हरिम् अर्चयेत् । अर्चिते देव-देवेसे शङ्ख-चक्र-गदा-धरे ॥२०५॥ अर्चितः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः । अर्चिते सर्व-लोकेशे सुरासुर-नमस्कृते । केशवे केशि-कंस-घ्ने न याति नरकं नरः ॥२०६॥

नरः पापकृदपि नरकं न याति ॥२०६॥

सकृद् अभ्यर्चितो येन हेलयापि नमस्कृतः । स याति परमं स्थानं यत् सुरैर् अपि पूजितम् ॥२०७॥ समस्त-लोक-नाथस्य देव-देवस्य शार्ङ्गिणः । साक्षाद् भगवतो नित्यं पूजनं जन्मनः फलम् ॥२०८॥

तत्रैवग्रे —-

असारे खलु संसारे सारम् एतन् निरूपितम् । समस्त-लोक-नाथस्य श्रद्धयाराधनं हरेः ॥२०९॥

किं च —

यत्र विष्णु-कथा नित्यं यत्र तिष्ठन्ति वैष्णवाः । कलि-बाह्या नरास् ते वै ये’र्चयन्ति सदा हरिम् ॥२१०॥

काशी-खण्डे

हरेर् आराधनं पुंसां किं किं न कुरुते बत । पुत्र-मित्र-कलत्रार्थं राज्य-स्वर्गापवर्ग-दम् ॥२११॥ हरत्य् अघं ध्वम्सयति व्याधीन् आधीन् निरस्यति । धर्मं विवर्धयेत् क्षिप्रं प्रयच्छन्ति मनो-रथम् ॥२१२॥

अत एव स्कान्दे ध्रुवं प्रति मर्कण्डेयस्य वचनं —-

सकृद् अभ्यर्चितो येन देव-देवो जनार्दनः । स प्राप्नोति परं स्थानं सत्यम् एतन् मयोदितम् ॥२१३॥

तथाङ्गीरसः—

यस्यान्तः सर्वम् एवेदं यस्य नान्तो महात्मनः । तम् आराधय गोविन्दं स्थानम् आग्र्यं यद् इच्छसि ॥२१४॥

पुलस्तस्य—

परं ब्रह्म परं धाम यो’सौ सस्वत-पूरुषः । तम् आराध्य हरिं याति मुक्तिम् अप्य् अति-दुर्लभम् ॥२१५॥

पुलहस्य—

ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्-पतिम् । प्राप यज्ञ-पतिं विष्णुं तम् आराधय सु-व्रत ॥२१६॥

वसिष्ठस्य -

प्राप्नोत्य् आराधिते विष्णौ मनसा यद् यद् इच्छति । त्रैलोक्यान्तर्-गतं स्थानं किम् उ सर्वोत्तमोत्तमम् ॥२१७॥

सर्वोत्तमोत्तमं स्थानं श्रीवैकुण्ठलोकमपि प्राप्नोति त्रैलोक्यान्तर्गतं प्राप्नोतीति किमुत वक्तव्यमित्यर्थः ॥२१७॥

यन् यन् कामयते कामान् नारी वा पुरुषो’पि वा । तन् समाप्नोति विपुलान् समाराध्य जनार्दनम् ॥२१८॥

अगस्त्य-संहितायां —

आराध्यैव नरो विष्णुं मनसा यद् यद् इच्छति । फलं प्राप्नोत्य् अविहतं भूरि स्वल्पम् अथापि वा ॥२१९॥

स्वल्पं भूरि वा यद्यदिच्छति तत् फलमाराध्यैव आराधन-मात्रं कृत्वा सद्य एव अविहतं सर्वोपद्रवरहितं अनश्वरञ्च प्राप्नोति ॥२१९॥

इद्र्सं विष्णु-पुरने’पि किञ्चिद् अधिकं चेदम्, श्री-मरीचेः

अनाराधित-गोविन्दैर् नरैर् स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम् ॥२२०॥

किं च तत्रैव—

भौमान् मनोरथान् स्वर्गं स्वर्ग-वन्द्यं तथास्पदम् । प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम् ॥२२१॥

स्वर्गवन्द्यमास्पदं श्रीवैकुण्ठलोक मुमुक्षुश्चेत् निर्वाणमपि प्राप्नोति यद्वा स्वर्गवन्द्यं श्रीध्रुवलोकं ब्रह्मलोकं वा उत्तम निवाणं मुक्तिविशेषरूपं श्रीवैकुण्ठलोकम् यद्वा निर्वाणं मोक्षं तस्मादुत्तमञ्च श्रीवैकुण्ठलोकमपि ॥२२१॥

तथा ब्रह्म-वैवर्ते—

यत्-पादोदकम् आधाय शिवः शिरसि नृत्यति । यन्-नाभि-नलिनाद् आसीद् ब्रह्मा लोक-पितामहः ॥२२२॥ यद्-इच्छा-शक्ति-विक्षोभाद् ब्रह्मण्डोद्भव-सङ्क्षयौ । तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि ॥२२३॥

नारसिंहे मर्कण्डेय-सहस्रनिक-संवादे—

यस् तु सम्पूजयेन् नित्यं नरसिंह नरेश्वर । स स्वर्ग-मोक्ष-भागी स्यान् नात्र कार्या विचारणा ॥२२४॥ तस्माद् एक-मना भूत्वा यावज्-जीवं प्रतिज्ञया । अर्चनान् नरसिंहस्य सम्प्राप्नोत्य् अभिवाञ्छितम् ॥२२५॥

तत्रैव श्री-व्यास-शुक-संवादे श्री-मार्कण्डेय-मृत्युञ्जय-संवादानन्तरं—

नरके पच्यमानस् तु यमेन परिभाषितः । किं त्वया नार्चितो देवः केशवः क्लेश-नाशनः ॥२२६॥ उदकेनाप्य् अलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥२२७॥

द्रव्याणां पाद्यादीनामलाभे सति उदकेनापि पूजितः सन् ॥२२७॥

नरसिंहो हृषीकेशः पुण्डरीक-निभेक्षणः । स्मरनान् मुक्ति-दो नृणां स त्वया किं न पूजितः ॥२२८॥

बृहन्-नारदीये’दिति-माहात्म्ये श्री-सूतोक्तौ—

यत्र पूजा-परो विष्णोस् तत्र विघ्नो न बाधते । राजा च तस्करश् चापि व्याधयश् च न सन्ति हि ॥२२९॥

स्मरणादपि मुक्तिदः राजा तत्कृतोपद्रव इत्यर्थः ॥२२८-२२९॥

प्रेताः पिशाचाः कुष्माण्डा ग्रहा बालग्रहास् तथा । डाकिन्यो राक्षसाश् चैव न बाधन्ते’च्युतर्चकम् ॥२३०॥

तत्रैव यम-भगीरथ-संवादे—

पत्रैः पुष्पैः फलैर् वार्च्य पूजा-रहितम् अच्युतम् । स याति विष्णु-सालोक्यं कुल-सप्तति-संयुतः ॥२३१॥

आर्च्य सम्यगीषद्वार्चयित्वा पूजारहितमरण्यान्तर्गतत्वादिना केनाप्यपूजावानम् ॥२३१॥

तत्रैव ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतानाम् उक्तौ—

उत्क्रान्ति-काले यन्-नाम श्रुतवन्तो’पि वै सकृत् । लभन्ते परमं स्थानं किम् उ शुश्रूषणे रतः ॥२३२॥

उत्क्रान्तिकाले मरणसमये ॥२३२॥

मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे । स याति परमं स्थानं किम् उ शुश्रूषणे रतः ॥२३३॥

तत्रैव विभाण्डक-मुनेः सुमति-नृपं प्रति —

अवशेनापि यत् कर्म कृतं तु सु-महत् फलम् । ददाति नॄणां राजेन्द्र किं पुनः सम्यग्-अर्चना ॥२३४॥

यस्य कर्म किञ्चित् परिचर्यादिरूपम् ॥२३४॥

प्रायश्चित्त-प्रकारणान्ते —-

सम्पर्काद् यदि वा मोहाद् यस् तु पूजयते हरिम् ।

सर्व-पाप-विनिर्मुक्तः स याति परमं पदम् ॥२३५॥

हे सत्तमाः यद्वा परमोत्तमा इति यज्ञादीनां विशेषणम् ॥२३५॥

सर्वान्तराया नश्यन्ति मनः-सुद्धिश् च जायते । परं मोक्षं लभेच् चैव पूज्यमाने जनार्दने ॥२३६॥ धर्मार्थ-काम-मोक्षाख्या पुरुषार्थाः सनातनाः । हरि-पूजा-पराणां तु सिध्यन्ते नात्र संशयः ॥२३७॥ सर्व-तीर्थानि यज्ञाश् च साङ्गा वेदाश् च सत्तमाः । नारायणर्चनस्यैते कालं नर्हन्ति सोदसिम् ॥२३८॥

श्री-विष्णु-तोष-विधि-प्रश्नोत्तरे—

सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः ।

असारोदग्र-संसारे सारं यद् विष्णु-पूजनम् ॥२३९॥

उपलेपन-माहात्म्यन्ते—

अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते न तेषाम् । भव-बन्धस् तु कदाचिद् अपि जायते ॥२४०॥

यज्ञध्वजोपाख्यानान्ते—

तस्मात् शृणुत विप्रेन्द्र देवो नारायणो’व्ययः । जानतो’जानतो वापि पूजकानां विमुक्ति-दः ॥२४१॥ ते वन्द्यास् ते प्रपूज्याश् च नमस्कार्या विशेषतः । ये’र्चयन्ति महा-विष्णुं प्रपन्नार्ति-प्रणाशनम् ॥२४२॥ ये यजन्ति स्पृहा-शून्या हरिं वा हरम् एव वा । त एव भुवनं सर्वं पुनन्ति विबुध-र्षभाः ॥२४३॥

हे विबुधर्षभाः यद्वा त एव विबुधर्षभा विद्वद्वरा देवोत्तमा वा ॥२४३॥

पाद्मे श्री-नारायण-नारद-संवादे पूज-विधि-प्रसङ्गे—

मद्-भक्तो यो मद्-अर्चां च करोति विधि-दृष्टये ।

तस्यान्तरायः स्वप्ने’पि न भवत्य् अभयो हि सः ॥२४४॥

तत्रैव वैशाख-माहात्म्ये नारदाम्बरीष-संवादे—

पुत्रान् कलत्रान् दीर्घायू राज्यं स्वर्गापवर्गकम् । स दद्याद् ईप्सितं सर्वं भक्त्या सम्पूजितो’जितः ॥२४५॥ नरके’पि चिरं मग्नाः पूर्वजा ये कुल-द्वये । तत्रैव यान्ति ते स्वर्गं यदार्चेत सूतो हरिम् ॥२४६॥

यदा तेषां सुतः कुलोत्पन्नो हरिमर्चयति ॥२४६॥

तत्रैव श्री-यम-ब्रह्म-संवादे—

अनाराध्य हरिं भक्त्या को लोकान् प्राप्नुयाद् बुधः । आराधिते हरौ कामाः सर्वे कर-तल-स्थिताः ॥२४७॥

विष्णु-धर्मोत्तरे श्री-कृष्णामृत-स्तोत्रे—

सो’पि धन्यतमो लोके यो’र्चयेद् अचुत्यं सकृत् । किं पुनः श्रद्धया युक्तः स-पुष्पैः प्रतिवासरम् ॥२४८॥ वैष्णवान् अपि ये नित्यं प्रपश्यन्त्य् अर्चयन्ति च । ते’पि विष्णु-पदं यान्ति किं पुनर् विष्णु-सेवकाः ॥२४९॥ स योगी स विशुद्धात्मा स शान्तः स महा-मतिः । स शुद्धः स च सम्पूर्णः कृष्णं सेवेत यो नरः ॥२५०॥

अगस्त्य-संहितायाम्—

अनन्य-मनसः शश्वद् गणयन्तो’क्ष-मालया । जपन्तो राम-रामेति सुखामृत-निधौ मनः । प्रविलाप्यामृतीभूय सुखं तिष्ठन्ति केचन ॥२५१॥

अमृतीभूय जीवन्मुक्तो भूत्वा ॥२५१॥

परिचर्या-पराः केचित् प्रासादादिषु शेरते । मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥२५२ ॥

तेभ्योऽपि पूजापराणां माहात्म्यमाह—परिचर्येति । प्रासादेष्वेव शेरत इति सदा भगवत्सान्निध्येन परमनैश्चिन्त्यादिना चैहिक-परमसुखमुक्तम् । तं श्रीरामं मनुष्यमिव लोक-व्यवहाराद्यनुसारिणं द्रष्टुम् अतो बन्धुवन् तेन सह व्यवहर्त्तुञ्च विहर्तुमपि प्रेमविशेष-सम्पत्त्या पारलौकिक परमसुखं चोक्तम् । एतच्च श्रीभगवतामृतोत्तरखण्डे सम्यक् निरूपितमस्ति । अनन्येत्यादयः श्लोका यद्यपि भगवद्भक्ति-माहात्म्ये लिखितुं युज्यन्ते तथापि परिचर्यापरा इति उपासकमिति चेत्युक्त्या परिचर्योपासनयोः प्राधान्येन पूजापरतामात्राभिधानादत्र लिखिताः । एवमग्रेऽप्यूह्यम् ॥२५२॥

किं च—

यथा विधि-निषेधौ तु मुक्तं नविओपसर्पतः । तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥२५३॥

श्री-भगवद्-गीतासु (१२.१)—

एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥२५४॥

पूर्वं मत्-कर्म-कृन् मत्-परम [गीता ११.५५] इत्य् एव भक्ति-निष्ठस्य श्रेष्ठत्वम् उक्तम् । कौन्तेय प्रतिजानीहीत्य् न मे भक्तः [गीता ९.३१] इत्य्-आदिना च तत्र तस्यैव श्रैष्ठ्यं वर्णितम् । तथा, तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यत [गीता ७.१७] इत्य्-आदिना, सर्वं ज्ञान-प्लवेनैव [गीता ४.३६] इत्य्-आदिना च ज्ञान-निष्ठस्य श्रैष्ठ्यम् उक्तम् । एवम् उभयोः श्रैष्ठ्ये’पि विशेष-जिज्ञासया श्री-भगवन्तम् अर्जुनः पृच्छति—एवम् इति । एवं सर्व-कर्मार्पणादिना सततं युक्तास् तन्-निष्ठाः सन्तो ये भक्तास् त्वां पर्युपासते संसारा ध्यायन्ति । ये चाप्य् अक्षरं ब्रह्माव्यक्तं निर्विशेषम् उपासते, तेषाम् उभयेषां मध्ये के’तिशयेन योग-विदः श्रेष्ठा इत्य् अर्थः ॥२५४॥

इत्य् अर्जुनेन पृष्टः श्री-भगवान् उवाच (१२.२)—

मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥२५५॥

तत्र प्रथमाः श्रेष्ठा इत्य् उत्तरं श्री-भगवान् उवाच—मयीति । मयि परमेश्वरे सर्वज्ञतादि-गुण-विशिष्टे साक्षाद्-भगवति श्री-कृष्णे मन आवेश्यैकाग्रं कृत्वा नित्यं युक्ता मद्-अर्थ-कर्मानुष्ठानादिना मन्-निष्ठाः सन्तः श्रेष्ठया श्रद्धया युक्ता ये माम् आराधयन्ति, ते युक्ततमा मे’भिमताः ॥२५५॥

चतुर्थ-स्कन्धे [भा।पु। ४.२१.३१]—

यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥२५६॥

यस्य मम पादयोः सेवायाम् अभिरुचिर् अपि तपस्विनां संसार-तप्तानाम् । यद् वा, तपः स्व-धर्माचरणं चित्तैकाग्रता वा, तद्-युक्तानाम् अपि अशेष-जन्मभिः संवृद्धं धियो मलं सद्यः क्षपयति । कथं-भूता ? अहन्य् अहनि वर्धमाना सती सात्त्विकी परमोत्तमा वा । एवं मल-क्षपणम् आनुषङ्गिकं, मुख्यं च फलं नित्यम् एधमानोत्तमा वा । तत्-पाद-सम्बन्धस्यैवैष महिमेति दृष्टान्तेनाह—यथेति । पदाङ्गुष्ठ-विनिःसृतेत्य् अयं भावः—वाम-पादस्याङ्गुष्ठात् विनिःसृता निर्गत्य भुवं गता, सा च एक-रूपैव, न च नित्यं वर्धमाना, तथाप्य् अनेक-जन्मोपचितं मलं सद्यः क्षपयति । एषा च पादयोः सेवासु अभिरुचिः, तत्र संलग्नो मनसो भावः । तं सद्यः क्षिणोतीति किं चित्र ? किन्तु नित्यं वर्धमाना चोत्तमा सती फल-रूपतां प्राप्नोतीत्य् उक्तिम् एवेति ॥२५६॥

किं च, नारदोक्तौ [भा।पु। ४.३१.१४]—

यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या ॥२५७॥

श्री-भगवद्-अर्चनेनैव जगतः सन्तोष इति स-दृष्टान्तम् आह—यथेति । मूलात् प्रथम-विभागाः स्कन्धाः, तद्-विभागा भुजाः, तेषाम् अप्य् उपशाखाः उपलक्षणम् एतत्, पत्र-पुष्पादयो’पि तृप्यन्ति, न तु मूलम् एकं विना स्व-स्व-निषेचनेन । प्राणस्योपहारो भोजनम् । तस्माद् एवेन्द्रियाणां तृप्तिः, न तु तत्-तद्-इन्द्रियेषु पृथक्-पृथग्-अन्न-लेपनात् । तथा चाच्युताराधनम् एव सर्व-देवताराद्धनं, न पृथग् इत्य् अर्थः ॥२५७॥

एकादश-स्कन्धे च कवि-योगेश्वरस्य वाक्यं [भा।पु। ११.२.३३]—

मन्ये’कुतश्चिद्-भयम् अच्युतस्य
पादाम्बुजोपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धेर् असद्-आत्म-भावाद्
विश्वात्मना यत्र निवर्तते भीः ॥२५८॥

आत्यन्तिकं क्षेमं कथयति—मन्य इति । न कुतश्चिद् अपि भयं यस्मात् तद् अकुतश्चिद् भयम् । अत्र संसारे’सद्-आत्म-भावाद् असति देहादाव् आत्म-भावनातो नित्यं सर्वदोद्विग्न-बुद्धेर् जनस्य विश्वात्मना सर्वथा निःशेषं यत्र पादाम्बुजोपासने भीर् निवर्तते । यद् वा, यत्र यस्मिन् सति, रसदात्म-भावात् रसदश् चासाव् आत्मा च हरिः श्री-कृष्ण इत्य् अर्थः । तस्मिन् भावः प्रेमा तस्माद् धेतोर् नित्यम् उद्विग्न-बुद्धेर् अपि विश्वात्मना भीर् न वर्तते । अन्यत् समानम् ॥२५८॥

श्री-भगवतश् च [भा।पु। ११.२७.४९]—

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥२५९॥

एवं पूर्वोक्त-प्रकारैः क्रिया-योग-रूप-मार्गैः । यद् वा, क्रिया-योग-प्रकारैः अर्चन् अर्चयन् । उभयत्र इहामुत्र च ॥२५९॥

किं च [भा।पु। ११.२७.५३]

माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥२६०॥

नैरपेक्ष्येण अहैतुकेन प्रेम-लक्षणेनेत्य् अर्थः । ननु नैरपेक्ष्यो भक्ति-योगः कथं भवति ? तत्राह—भक्ति-योगम् इति ॥२६०॥

गौतमीय-तन्त्रे श्री-नारदस्य—

तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥२६१॥

विक्रीणीते—वश्यं करोति ॥२६१॥

अथ पूजा-नित्यता

महाभारते—

मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् । यो नार्चयति देवेशं तं विद्याद् ब्रह्म-घातकम् ॥२६२॥

अत एवोक्तं बृहन्-नारदीये पादोदक-माहात्म्याख्यानारम्भे—

हरि-पूजा-विधानं तु यस्य वेश्मनि नो द्विजः । श्मशान-सदृशं विद्यान् न कदापि विशेच् च तत् ॥२६३॥

हरेः पूजाविधानं पूजनम् हे द्विजाः ॥२६३॥

अत एवोक्तं विष्णु-धर्मोत्तरे —

पुष्पैर् वा यदि वा पत्रैह् फलैर् वा यदि वाम्बुभिः । यष्टव्यः पुण्डरीकाक्षस् त्यक्त्वा कार्य-शतानि च ॥२६४॥

किं च नारदीये—

निमित्तेषु च सर्वेषु तत्-तत्-काल-विशेषतः । पूजयेद् देव-देवेशं द्रव्यं सम्पाद्य यत्नतः ॥२६५॥

निमित्तेषु—जन्माष्टम्यादिषु ॥२६५॥

अत एवोक्तं भगवता हायग्रीवेण हायशीर्ष-पञ्चरात्रे—

प्रतिष्ठितार्चा न त्याज्या यावज्-जीवं समर्चयेत् । वरं प्राणस्य वा त्यागः शिरसो वापि कर्त्तनम् ॥२६६॥

अर्चा प्रतिमा या काचिदपि एवमर्चन-नित्यता स्वत एव सिद्धा ॥२६६॥

पूजया नित्यतालेखि प्राक् च नैवेद्य-भक्षणे । माहात्म्यं च परं शालग्राम-चक्र-प्रसङ्गतः ॥२६७॥

अत्रालिखितमप्यन्यत् पूजाया नित्यत्वस्य माहात्म्यस्य च वचनजातं पूर्वलिखितेनकीकुर्वन् लिखति—पूजाया इति द्वाभ्याम् । प्रागलेखि अनर्चयित्वा गोविन्दं यैर्भुक्तं धर्मवर्जितैः इत्यादिभिः । परमन्यच्च माहात्म्यं शालग्रामशिलारूपस्य चक्रिणश्चक्रयुक्तस्य भगवतः प्रसङ्गे तथा च शालग्रामशिलामाहात्म्ये—यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे । राजसूय-सहस्रेण तेनेष्टं प्रतिवासरम् ॥ इत्यादि ॥२६७॥

पूजाङ्गानां च माहात्म्यं यद् यद् विलिखितं पुरा । तत् सर्वम् इह पूजायां पर्यवस्यति हि स्वतः ॥२६८॥

पूजाङ्गानां तत्तदुपचारसमर्पणादीनाम् स्वत एव पर्यवस्यति पूजाया एव माहात्म्यमिति ज्ञेयमित्यर्थः अङ्गानां माहात्म्येनाङ्गिन एव माहात्म्यापत्तेः । एवं सर्वस्यैव पूजाङ्गत्वात् तत्तन्माहात्म्यं सर्वमेव पूजाया माहात्म्यमिति भावः ॥२६८॥

पूजा-महिम-मत्तेभाह् शास्त्रारण्य-विहारिणः । कीटेन कति सङ्ग्राह्याः प्रभावं श्री-हरेर् विना ॥२६९॥

एवमनन्तान्येव पूजामाहाम्यवचनानि ज्ञानक्रियाशक्तिहीनेन मया कति लिखितुं शक्यन्ते? यच्च तत्र किञ्चित् लिखितं तत श्रीभगवन्महिम्नैवेति निजोद्धत्यं परिहरन् पूजाया माहात्म्यविशेषं दर्शयति—पूजेति पूजाया महिमान एव मत्तेभा मत्तहस्तिनः दुर्ग्रहत्वात् कथम्भूताः? शास्त्राण्येवारण्यानि अर्थतः शब्दतश्चानन्त्येन परमदुर्गमत्वात् तेषु विहर्तुमितस्ततः सर्वत्र क्रीडितुं शीलं येषां ते । अतएव कीटतुल्येन परमासमर्थेन जानेन कति सङ्ग्राह्याः सङ्ग्रहीतुं शक्याः? श्रीहरेः प्रभावं विनेति तेनैव सङ्ग्राह्या भवन्ति नान्येनेत्यर्थः । अत्र च यथा वनान्तर्वर्तिनो मत्तगजाः कीटेन सङ्ग्राह्या न भवन्ति किन्तु सिंहस्यैव शक्त्या भवन्तीति दृष्टान्तः स्पष्ट एव ॥२६९॥

अथ श्री-भगवन्-नाम सदा सेवेत सर्वतः ।
तन्-माहात्म्यं च विख्यातं सङ्क्षेपेनात्र लिख्यते ॥२७०॥

एवं पूजामाहात्म्यं लिखित्वा मधुरेण समापयेत् इति न्यायेनान्ते नाम-माहात्म्यं लिखन् तत्रादौ ब्राह्मे मुहूर्ते उत्थानतो नक्तं शयनपर्यन्ते निजकर्मणि तथा श्रीभगवतः प्रबोधनतो नक्तं स्थापनपर्यन्ते सेवाप्रकारे च सर्वत्रैव विघ्ननिवारकतया न्यूनसम्पूर्तिकारकत्वेन पूजाङ्गतया तथा सर्वकर्मणां गुणविशेषापादकतया तथा स्वतः परमफलरूपतया चादौ मध्ये अन्ते च श्रीभगवन्नाम-कीर्तनं कुर्यादिति लिखति—अथेति आनन्तर्यो मङ्गले वा । सर्वतः सर्वत्र सर्वथा सर्वार्थञ्चेत्यर्थः । एवं कालविशेषकृतकृत्यताद्याभावात् सर्वपरिपोषकत्वाच्चाप्यन्ते लिखनमिति भावः ॥२७०॥

अथ श्री-भगवन्-नाम-माहात्म्यं

तत्र श्री-भगवन्-नाम-विशेषस्य च सेवनम् ।
ऋषिभिः कृपयादिष्टं तत्-तत्-काम-हतात्मनाम् ॥२७१॥

तत्रादौ नामविशेषस्य माहात्म्यं विशेषतो लिखति—तत्रेति । तेन तेनाग्रे लेख्येन कामेन हत आत्मा वित्तं येषां तेषामादिष्टं तान् प्रति ज्ञापितम् ननु महाफलं भगवन्नामसेवनं सर्वज्ञैः ऋषिभिस्तत्तत् तुच्छफलार्थं किमित्यादिष्टम्? तत्र लिखति—कृपयेति । तेनैव शीघ्रं सम्यक् कृततत्तत्सिद्धेः यद्वा तत्तत्कामेनापि कथञ्चित्तेषां तत्र प्रवृत्त्यर्थमिति दिक् ॥२७१॥

अथ काम-विशेषेण श्री-भगवन्-नाम-विशेष-सेवा-माहात्म्यं

तत्र पाप-क्षयार्थं

श्री-कौर्मे—

श्री-शब्द-पूर्वं जय-शब्द-मध्यं जय-द्वयाद् उत्तरतस् तथा हि । त्रिः-सप्त-कृत्वो नरसिंह-नाम जप्तं निहन्याद् अपि विप्र-हत्याम् ॥२७२॥

जयशब्दयोर्मध्यम् अन्तर्वर्ति जय नरसिंह जयेति । जयद्वयादुत्तरतः जय जय नरसिंहेति नरसिंहस्य नाम नरसिंहेति नाम वा ॥२७२॥

महा-भय-निवरनर्थं

तत्रैव—

श्री-पूर्वो नरसिंहो द्विर् जयाद् उत्तरतस् तु सः ।

त्रिः-सप्त-कृत्वो जपतो महाभय-निवारणः ॥२७३॥

स नरसिंहः द्विर्वारद्वयं यत् जयेति तस्मादुत्तरतश्च जय जय नरसिंहेति । पाठान्तरेऽपि स एवार्थः ॥२७३॥

काल-विशेषे तु मङ्गलार्थम्, विष्णु-धर्मोत्तरे मार्कण्डेय-वज्र-संवादे

पुरुषं वासुदेवं च तथा सङ्कर्षणं विभुम् । प्रद्युम्नम् अनिरुद्धं च क्रमाद् अब्देषु कीर्तयेत् ॥२७४॥

पुरुषादीन् पञ्च अब्देषु संवत्सरादि-भेदेन पञ्चसु क्रमात् कीर्तयेत् । पञ्चाब्दाश्चोक्ता ब्रह्मवैवर्ते—संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इडावत्सरस्तृतीयश्चतुर्थश्चानुवत्सरः । उद्वत्सरः पञ्चमस्तु कालस्य युगसञ्ज्ञितः ॥ इति । यद्यप्यत्राग्रे च फलं विशेषतो न श्रूयते तथाप्यन्ते वरदस्येत्युक्त्या तथा सर्वार्थसिद्धिमाप्नोतीत्याद्युक्त्या च सामान्यतः फलं महदस्तीति ज्ञेयमेव ॥२७४॥

बलभद्रं तथा कृष्णं कीर्तयेद् अयन-द्वये । मधवं पुण्डरीकाक्षं तथा वै भोग-सयिनम् ॥२७५॥ पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् । क्रमेन रज-सर्दुल वसन्तदिसु कीर्तयेत् ॥२७६॥

माधवादीन् षट्सु वसन्तादि-षडृतुषु क्रमेण कीर्तयेत् ॥२७५-२७६॥

विष्णुं च मधु-हन्तारं तथा देवं त्रिविक्रमम् । वामनं श्रीधरं चैव हृषीकेशं तथाइव च ॥२७७॥ दामोदरं पद्मनाभं केशवं च यदूत्तमम् । नारायणं माधवं च गोविन्दं च तथा क्रमात् ॥२७८॥ चैत्रादिषु च मासेषु देव-देवम् अनुस्मरेत् । प्रद्युम्नम् अनिरुद्धं च पक्षयोः कृष्ण-शुक्लयोः ॥२७९॥ सर्वः शर्वः सिवः स्थाणुर् भूतादिर् निधिर् अव्ययः । अदित्यादिषु वरेषु क्रमाद् एवम् अनुस्मरेत् ॥२८०॥

विष्ण्वादीन् द्वादश चैत्रादि-द्वादशमासेषु क्रमादनुस्मरेत् । तत्र च यदूत्तममिति विशेषणं ज्ञेयम् अन्यथा त्रयोदश स्युः । यदूत्तमेति वा पाठः । ततश्च सम्बोधनं हे वज्रेति । यद्वा कदाचित् मलमासे सति त्रयोदश मासा भवन्ति तदपेक्षया यदूत्तमेन सह त्रयोदशेति ज्ञेयम् ॥२७७-२८०॥

विश्वं विष्णुर् वषट्-कारो भूत-भव्य-भवत्-प्रभुः । भूत-भृद् भूत-कृद् भवो भूतात्मा भूत-भवनः ॥२८१॥ अव्यक्तः पुण्डरीकाक्षो विस्वकर्म सुचिस्रवः । सद्-भवो भवनो भर्त प्रभवः प्रभुर् इस्वरः ॥२८२॥ अप्रमेयो हृषीकेशह् पद्मनभो’मर-प्रभुः । अग्रह्यः सस्वतो धत कृष्णश् चैतन्य् अनुस्मरेत् । देव-देवस्य नामानि कृत्तिकदिसु यदव ॥२८३॥

विश्वमित्यादीनि सप्तविंशति नामानि कृत्तिकादिषु सप्तविंशतिनक्षत्रेषु क्रमादेवानुस्मरेत् ॥२८१-२८३॥

ब्रह्माणं श्री-पतिं विष्णुं कपिलं श्रीधरं प्रभुम् । दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥२८४॥ भूधरं गदिनं देवं सङ्खिनं पद्मिनं तथा । चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥२८५॥

प्रथमा तिथिः प्रतिपत् तदादिषु पञ्चदशतिथिषु ब्रह्मादीन् पञ्चदश क्रमेणैव संस्मरेत् ॥२८४-२८५॥

सर्वं वा सर्वदा नाम देव-देवस्य यादव ॥२८६॥

नामानि सर्वाणि जनार्दनस्य कालश् च सर्वः पुरुष-प्रवीराः । तस्मात् सदा सर्व-गतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन् ॥२८७॥

ननु चिन्तामणेरिव सर्वस्यापि भगवन्नाम्नः समानफलं श्रूयते तत् कि विशेषनिद्देशतो माहात्म्यसङ्कोचापादनेन? सत्यम् अत्यन्तकामाद्युपहतचित्तानां श्रद्धासम्पत्तये तथोक्तम् । वस्तुतस्तु सर्वदा सर्वमेव नाम सेव्य मित्याह—सर्वमिति । संस्मरेदिति पूर्वया क्रियया ग्राह्यमिति परया वा सम्बन्धः । तदेव सहेतुकमाह—नामानीति ॥२८६-२८७॥

विविध-काम-सिद्धये च

पुलस्त्योक्तौ—

कामः काम-प्रदः कान्तः काम-पालस् तथा हरिः । आनन्दो माधवश् चैव काम-संसिद्धये जपेत् ॥२८८॥

काम इत्यादि नामानि जपेत् ॥२८८॥

रामः परशुरामश् च नृसिंहो विष्णुर् एव च । विक्रमश् चैवम् आदीनि जप्यान्य् अरि-जिगीषुभिः ॥२८९॥ विद्याम् अभ्यस्तता नित्यं जप्तव्यः पुरुषोत्तमः । दामोदरं बन्ध-गतो नित्यम् एव जपेन् नरः ॥२९०॥ केशवं पुण्डरीकाक्षम् अनिशं हि तथा जपेत् । नेत्र-बाधासु सर्वासु हृषीकेशं भयेषु च ॥२९१॥

नेत्रबाधासु—चक्षुःपीडास ॥२९१॥

अच्युतं चामृतं चैव जपेद् औषध-कर्माणि । सङ्ग्रामाभिमुखो गच्छन् संस्मरेद् अपराजितम् ॥२९२॥ चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा । क्षेमार्थी प्रवसन् नित्यं दिक्षु प्रच्यादिषु स्मरेत् ॥२९३॥

प्रवसन् विदेशं गच्छन् चक्रादीन् चतुरः प्राच्यादिचतुर्दिक्षु क्रमात् स्मरेत् ॥२९३॥

अजितं चाधिपं चैव सर्वं सर्वेश्वरं तथा । संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥२९४॥

व्यवहारेषु—वाणिज्यादिषु ॥२९४॥

नारायणं सर्व-कालं क्षुत-प्रस्खलनादिषु । ग्रह-नक्षत्र-पीडासु देव-बाधासु सर्वतः ॥२९५॥

देवबाधासु—अतिवृष्ट्यादिषु ॥२९५॥

दस्यु-वैरि-निरोधेषु व्याघ्र-सिंहादि-सङ्कटे । अन्धाकारे तमस्-तीव्रे नरसिंहम् अनुस्मरेत् ॥२९६॥ अग्नि-दाहे समुत्पन्ने संस्मरेज् जल-शायिनम् । गरुडध्वजानुस्मरनाद् विष-वीर्यं व्यपोहति ॥२९७॥ स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिने । कीर्तयेद् भगवन्-नाम वासुदेवेति तत्-परः ॥२९८॥ स्थापने वित्त-धान्यादेर् अपध्याने च दुष्टजे । कुर्वीत तन्-मना भूत्वा अनन्ताच्युत-कीर्तनम् ॥२९९॥

दुष्टजेऽपध्याने—दुष्टजनचिन्तितानिष्टे ॥२९९॥

नारायणं शार्ङ्ग-धरं श्रीधरं पुरुषोत्तमम् । वामनं खड्गिनं चैव दुष्ट-स्वप्ने सदा स्मरेत् ॥३००॥ महार्णवादौ पर्यङ्क-शायिनं च नरः स्मरेत् । बलभद्रं समृद्ध्य्-अर्थं सर्व-कर्माणि संस्मरेत् ॥३०१॥ जगत्-पतिम् अपत्यार्थं स्तुवान् भक्त्या न सीदति । श्रीशं सर्वाभ्युदयिके कर्मन्य् आशु प्रकीर्तयेत् ॥३०२॥ अरिष्टेषु ह्य् अशेषेषु विशोकं च सदा जपेत् । मरु-प्रपाताग्नि-जल-बन्धनादिषु मृत्युषु । स्वतन्त्र-परतन्त्रेषु वासुदेवं जपेद् बुधः ॥३०३॥

मरुर्निर्जलदेशस्तस्मिन् प्रपातः अकस्मात् गमनम् । मरुदिति पाठे वात्यासु तदादिषु मृत्युषु मरणहेतुषु कथम्भूतेषु? स्वतन्त्र-परतन्त्रेषु स्वाधीन-पराधीनेषु स्वतःप्राप्तेषु परैर्वा प्रापितेषु ॥३०३॥

सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः । यथाभिरोचते नाम तत् सर्वार्थेषु कीर्तयेत् ॥३०४॥ सर्वार्थ-सिद्धिम् आप्नोति नाम्नाम् एकार्थता यथा ।

सर्वाण्य् एतानि नामानि परस्य ब्रह्मणो हरेः ॥३०५॥

यस्य च यन्नाम्नि प्रीतिः तेन तदेव सेव्य तेनैव तस्य सर्वार्थसिद्धिरित्याह—सर्वार्थेति द्वाभ्याम् ॥३०४-३०५॥

एवं विष्णु-धर्मोत्तरे च मार्कण्डेय-वज्र-संवादे किं च—

कूर्मं वराहं मत्स्यं वा जल-प्रतरणे स्मरेत् । भ्राजिष्णुम् अग्नि-जनने जपेन् नाम त्व् अखण्डितम् ॥३०६॥

अखण्डिनम्—अविच्छिन्नम् ॥३०६॥

गरुडध्वजानुस्मरणाद् आपदो मुच्यते नरः । ज्वर-जुष्ट-शिरो-रोग-विष-वीर्यं च शम्यति ॥३०७॥

ज्वरादीनां वीर्यं प्रभावश्च शाम्यति ॥३०७॥

बलभद्रं तु युद्धार्थी कृश्यारम्भे हलायुधम् । उत्तरानां वाणिज्यार्थी रामम् अभ्युदये नृप ॥३०८॥ मङ्गल्यं मङ्गलं विष्णुं मङ्गल्येषु च कीर्तयेत् । उत्तिष्ठन् कीर्तयेद् विष्णुं प्रस्वपन् मधवं नरः ।

भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥३०९॥

तत्रैवान्यत्र—

औषधे चिन्तयेद् विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च मैथुने च प्रजापतिम् ॥३१०॥ सङ्ग्रामे चक्रिणं क्रुद्धं स्थान-भ्रंशे त्रिविक्रमम् । नारायणं वृषोत्सर्गे श्रीधरं प्रिय-सङ्गमे । जल-मध्ये च वाराहं पावके जलशायिनम् ॥३११॥ कानने नरसिंहं च पर्वते रघुनन्दनम् । दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् । मायासु वामनं देवं सर्व-कार्येषु माधवम् ॥३१२॥

विशुद्धौ—शुद्धिविशेषार्थम् ॥३१२॥

किं च—

कीर्तयेद् वासुदेवं च अनुक्तेष्व् अपि यादव । कार्यारम्भे तथा राजन् यथेष्टं नाम कीर्तयेत् ॥३१३॥ सर्वाणि नामानि हि तस्य राजन् सर्वार्थ-सिद्ध्यै तु भवन्ति पुम्सः । तस्माद् यथेष्टं खलु कृष्ण-नाम सर्वेषु कार्येषु जपेत भक्त्या ॥३१४॥

तत्राखिल-पापोन्मूलनत्वं

अथ सामान्यतः श्री-भगवन्-नाम-कीर्तन-माहात्म्यं

विष्णु-धर्मे हरि-भक्ति-सुधोदये चोक्तं नारदेन—

अहो सु-निर्मल यूयं रागो हि हरि-कीर्तने ।

अविधूय तमः कृत्स्नं नृणाम् उदेति सूर्यवत् ॥३१५॥

सुनिर्मलाः अत्यन्तमलहीनाः हि यस्मात् हरिकीर्तने रागः श्रद्धा नृणां तमः पापमलं कृत्स्नमविधूय अनिरस्य नोदेति अपि तु विधूयैवोदेति । यथा सूर्योऽन्धकारं सर्वं विधूयैवोदेति तद्वत् ॥३१५॥

गरुदे—

पापानलस्य दीप्तस्य मा कुर्वन्तु भयं नराः । गोविन्द-नाम-मेघौघैर् नश्यते नीर-बिन्दुभिः ॥३१६॥

गोविन्दस्य नामैव मेघौघास्तैर्ये नीरविन्दवस्तैर्हेतुभिर्नश्यते नश्यति ॥३१६॥

अवशेनापि यन्-नाम्नि कीर्तने सर्व-पातकैः । पुमान् विमुच्यते सद्यः सिंह-त्रस्तैर् मृगैर् इव ॥३१७॥

अवशेनापि यदृच्छयापि यस्य नाम्नि कीर्तिते सति यथा अकस्मादागतं सिंहं दृष्ट्वा त्रस्ता हरिणमवरुधन्तो वृकास्तं विसृज्य पलायन्ते तद्वत् । यद्वा मृगयार्थं वनं प्रविष्टः कश्चित् पुमान् वृकैरावृतोऽकस्मादागतं सिंहं दृष्ट्वा त्रस्तैस्तैर्यथासौ विमुच्यते तद्वदिति ॥३१७॥

यन्-नाम-कीर्तनं भक्त्या विलापनम् अनुत्तमम् । मैत्रेयाशेष-पापानां धातूनाम् इव पावकः ॥३१८॥

भक्त्या तत्कीर्तनफलमाह—यन्नामेति । द्वादशाब्दादिप्रायश्चित्तैः पापमेव विनश्यति तत्संस्कारस्त्ववशिष्यते इदं त्वशेषाणां संस्काराणां पापानां विलापनं विनाशकं न चान्येन निःशेषपापक्षयः स्यादिति दृष्टान्तेनाह—यथा धातूनां सुवर्णादीनामुद्वर्तनप्रक्षालनादि धात्वन्तरसंयोगजं मलं न नाशयति किन्तु पाठक एव अतः सर्वोत्तममिदमेवेत्यर्थः ॥३१८॥

यस्मिन् न्यस्त-मतिर् न याति नरकं स्वर्गो’पि यच्-चिन्तने विघ्नो यत्र निवेशितात्म-मनसो ब्राह्मो’पि लोको’ल्पकः । मुक्तिं चेतसि यः स्थितो’मल-धियां पुंसां ददात्य् अव्ययः किं चित्रं यद्-अघं प्रय्âति विलयं तत्राच्युते कीर्तिते ॥३१९॥

हरिकीर्तनमात्रेण सर्वपापक्षयो भवतीति यदुक्तं तत् कैमुतिकन्यायेनोपपादयनि—यस्मिन्निति । न्यस्ता निक्षिप्ता मतिर्येन अच्युतैकचित्त इति यावत् स प्रमादादिवृत्तैरघैर्नरकं न याति तस्मिन्नघसंश्लेषासम्भवात् । यस्य चिन्तने ध्याने क्रियमाणे स्वर्गप्राप्तिरपि विघ्नप्राया यस्मिन्निवेशित आत्मा मनश्च समाधिना येन तस्य ब्रह्मलोकोऽप्यतितुच्छः तस्माद्यथाकथञ्चिदपि । यश्चेतसि स्थित अतएव निर्मलधियाम् यद्वा अकारप्रश्लेषं विना मलिनमतीनामपि मुक्तिमपि ददाति । यदैवं स्वैकहितकारिणां स्मृतिमात्रेणाच्युतनिष्ठानामीदृशं फलगौरवं तदा तन्नामकीर्तनेन परेषाप्यघं क्षपयतां स्वकीयाघनाशः किं चितमित्यर्थः । अघ इति प्रथमान्तपाठे पापोऽपि जनः विलयं मोक्षम् अन्यत् समानम् । एवञ्च सति मुक्ति-प्रदत्वेऽयं श्लोको द्रष्टव्यः ॥३१९॥

विष्णु-धर्मोत्तरे —

सायं प्रातस् तथा कृत्वा देव-देवस्य कीर्तनम् । सर्व-पाप-विनिर्मुक्तः स्वर्ग-लोके महीयते ॥३२०॥

वामने—

नारायणो नाम नरो नराणां प्रसिद्ध-चौरः कथितः पृथिव्याम् । अनेक-जन्मार्जित-पाप-सञ्चयं हरत्य् अशेषं श्रुत-मात्र एव ॥३२१॥

नारायण इति नरश्चेति नाम यद्वा हे नरः भो जताः तामस्वरूपो नकारायणः यद्व नारायणनामा नर इत्यर्थः ॥३२१॥

स्कान्दे—

गोविन्देति तथा प्रोक्तं भक्त्या वा भक्ति-वर्जितैः । दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः ॥३२२॥

तथात्वमेव व्यञ्जयति भक्त्याः वा प्रोक्तं भक्तिवर्जितैर्जनैर्वा’भक्त्या प्रोक्तमिति ॥३२२॥

गोविन्द-नाम्ना यः कश्चिन् नरो भवति भू-तले । कीर्तनाद् एव तस्यापि पापं याति सहस्रधा ॥३२३॥

काशी-खण्डे—

प्रमादाद् अपि संस्पृष्टो यथानल-कणो दहेत् । तथौष्ठ-पुट-संस्पृष्टं हरि-नाम दहेद् अघम् ॥३२४॥

बृहन्-नारदीये लुब्धकोपख्यानान्ते—

नराणां विषयान्धानां ममताकुल-चेतसाम् ।

एकम् एव हरेर् नाम सर्व-पाप-विनाशनम् ॥३२५॥

अत एव तत्रैव यमेनोक्तम्—

हरि हरि सकृद् उच्चारितं दस्यु-च्छलेन यैर् मनुष्यैः । जननी-जठर-मार्ग-लुप्ता न मम पट-लिपिं विशन्ति मर्त्याः ॥३२६॥

हृतं हृतमित्यास्य मध्यदेशे लौकी भाषा हरिहरीति । जनन्या जठरस्य मार्गोऽपि लुप्तायेषां ते मुक्ता इत्यर्थः । मम पटलिपिं विशन्ति मदधिकारं न गच्छन्तीत्यर्थः ॥३२६॥

पाद्मे वैशाख-माहात्म्ये देवशर्मोपाख्यानान्ते श्री-नारदोक्तौ—

हत्यायुतं पान-सहस्रम् उग्रं गुर्व्-अङ्गना-कोटि-निषेवनं च । स्तेयान्य् अनेकानि हरि-प्रियेण गोविन्द-नाम्ना निहतानि सद्यः ॥३२७॥

अनेकानि—विप्रस्वर्ण चौर्यादीनि ॥३२७॥

अनिच्छयापि दहति स्पृष्टो हुत-वहो यथा । तथा दहति गोविन्द-नाम व्याजाद् अपीरितम् ॥३२८॥

व्याजात् पुत्रह्वानादिच्छलादप्यूक्तं ॥३२८॥

तत्रैव श्री-यम-ब्राह्मण-संवादे—

कीर्तनाद् एव कृष्णस्य विष्णोर् अमित-तेजसः । दुरितानि विलीयन्ते तमांसीव दिनोदये ॥३२९॥ नान्यत् पश्यामि जन्तूनां विहाय करि-कीर्तनम् । सर्व-पाप-प्रशमनं प्रायश्चित्तं द्विजोत्तम ॥३३०॥

सर्वपापप्रशमनरूपं प्रायश्चित्त्वमन्यं न पश्यामि । अन्यस्य सवासनपापक्षपणाशक्तेः ॥३३०॥

षष्ठ-स्कन्धे [भा।पु। ६.२.७]

अयं हि कृत-निर्वेशो जन्म-कोट्य्-अंहसाम् अपि ।
यद् व्याजहार विवशो नाम स्वस्त्य्-अयनं हरेः ॥३३१॥

अयम् अजामिलः कृतोकृतो निर्वेशः प्रायश्चित्तं येन, यत् यस्माद् विवशो’पि हरेर् नाम व्याजहार उच्चारितवान् । न केवलं प्रायश्चित्त-मात्रम्मात्रं हरेर् नाम, अपि तु स्वस्त्ययनं मोक्ष-साधनम् अपि । यद् वा, परमयद् वा, परम-मङ्गलायनम् अपि ॥३३१॥

[भा।पु। ६.२.९-१०]

स्तेनः सुरा-पो मित्र-ध्रुग् ब्रह्म-हा गुरु-तल्प-गः ।
स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनो ऽपरे ॥३३२॥
सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् ।
नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः ॥३३३॥

ननु कामकृतानां बहूनां महापातकानां सहस्रश आवर्तितानां द्वादशाब्दादिकोटिभिरप्यनिर्वर्त्यानां कथमिदमेकमेव प्रायञ्चित्तं स्यात् तत्राहुः श्रीविष्णुपार्षदाः—स्तेन इति द्वाभ्याम् । सुनिष्कृतं श्रेष्ठं प्रायश्चित्तमिदमेव तत्र हेतुः—यतो नामव्याहरणात् नामोच्चारपुरुषविषया मदीयोऽयं मया सर्वतो रक्षणीयो नितरामनुग्राह्यः इति विष्णोर्मतिर्भवति ॥३३२-३३३॥

[भा।पु। ६.२.११]

न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस्
तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः ।
यथा हरेर् नाम-पदैर् उदाहृतैस्
तद् उत्तमश्लोक-गुणोपलम्भकम् ॥३३४॥

श्रेष्ठत्वमेवोपपादयन्ति—नेति । ब्रह्मवादिभिर्मन्वादिभिरुक्तैर्व्रतादिभिर्निष्कृतैस्तथा न शुध्यति उदाहृतैरुच्चारितैर्यथा नामपदैः । इत्यनेन अत्र च नमामीत्यादिक्रियायोगोऽपि नापेक्षित इति दर्शितम् । किञ्च तन्नामपदोच्चारणमुत्तमःश्लोकगुणानामुपलम्भकं ज्ञापकं भवति न तु कृच्छ्रचान्द्रायणादिवत् पापनिवृत्तिमात्रेणोपक्षीणमित्यर्थः ॥३३४॥

[भा।पु। ६.२.१४-१५]

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा ।
वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः ॥३३५॥

नन्वयं पुत्रनामाग्रहीन न तु भगवन्नाम तत्राहुः—साङ्केत्यं पूत्रादौ सङ्केतितम् पारिहास्यं परिहासेन कृतं स्तोभं गीतालापपूरणाद्यर्थे कृतं हेलनं किं विष्णुना इति सावज्ञमपि वा वैकुण्ठनामोच्चारणम् ॥३३५॥

पतितः स्खलितो भग्नः सन्दष्टस् तप्त आहतः ।
हरिर् इत्य् अवशेनाह पुमान् नार्हति यातनाः ॥३३६॥

ननु नायं सङ्कल्पपूर्वकं वैकुण्ठनामाग्रहीत किन्तु पुत्रस्नेहपरवशः सन् तत्राहुः—पतित इति । अवशेनापि यो हरिरित्याह—स यातना नार्हति पुमानित्यनेन नात्र वर्णाश्रमादि-नियम इत्युक्तम् । अवशत्वमेवाहुः—पतितः प्रासादादिभ्यः स्खलितो मार्गे भग्नो भग्नगात्रः सन्दष्टः सर्पादिभिः तप्तो ज्वरादिना आहतो दण्डादिना ॥३३६॥

[भा।पु। ६.२.१८]

अज्ञानाद् अथवा ज्ञानाद् उत्तमश्लोक-नाम यत् ।
सङ्कीर्तितम् अघं पुंसो दहेद् एधो यथानलः ॥३३७॥

ननु तथापि पापप्रायश्चित्तमिदमिति ज्ञात्वा नोच्चारितमिति चेत्तत्राहुः यद्वा कृष्णस्य नामेदमप्ययं न जानाति कथं तस्य सर्वपापक्षयः तत्राहुः—अज्ञानादिति । अस्य श्रीविष्णोर्ज्ञानादज्ञानाद्वा बालकेनाज्ञानादपि प्रक्षिप्तोऽग्निर्यथा काष्ठराशिं दहति तद्वत् ॥३३७॥

[भा।पु। ६.१३.८]

ब्रह्म-हा पितृ-हा गो-घ्नो मातृ-हाचार्य-हाघवान् ।
श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥३३८॥

अघवान् अन्योऽपि यः पापकर्मयुक्तः यश्च जात्या पापः श्वादः पुक्वशो वापि ॥३३८॥

लघु-भागवते—

वर्तमानं तु यत् पापं यद् भूतं यद् भविष्यति ।
तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात् ॥३३९॥

गोविन्दस्यं अनलवत् यत् कीर्तनम् ॥३३९॥

सदा द्रोह-परो यस् तु सज्जनानां मही-तले ।
जायते पावनो धन्यो हरेर् नामानुकीर्तनात् ॥३४०॥

अधुना निष्यायश्चित्तो भगवदक्षम्यो भोगैकनाश्यो महानपराधोऽपि नाममाहात्म्यतोऽप्यातीत्याह—सदेति । नाम्नोऽनु निरन्तरं कीर्तनात् धन्यः पावनः परमशुद्ध इत्यर्थः यद्वा न केवलं स्वयमेव ततः पवित्रो भवेदिति किन्तु परानपि पावयति प्रेमलक्षणभगवद्भक्तिधनयोग्यश्च भवतीति । यद्यपि नामापराधस्तोत्रादौ सतां निन्दा नाम्नः परममपराधं वितनुते इत्यादिना निन्दापि नामापराध उक्तः किमुत सदा द्रोहपरतेति । अतः परममहदपराधादस्मान्महानरकपात एव नाम्नोऽपि सर्वसुहृदो ह्यपराधात् पतत्यधः इत्यादिभिरभिहितः तथापि तत्रैव नामापराधयुक्तानां नामान्येव हरन्त्यघम् इत्याद्युक्तेर्नामपराणां न कोऽपि दोषो घटते प्रत्युत भक्तिविशेष एवोदेतीति । अतः सम्यगेवोक्तम्—जायते पावनो धन्यः इति ॥३४०॥

कौर्मे—

वसन्ति यानि कोटिस् तु पावनानि महीतले ।

न तानि तत्-तुलां यान्ति कृष्ण-नामानुकीर्तने ॥३४१॥

अतएव परमपावनत्वं कौर्मवचनेन लिखति—वसन्तीति ॥३४१॥

बृहद्-विष्णु-पुराणे—

नाम्नो’स्य यावती शक्तिः पाप-निर्हरणे हरेः । तावत् कर्तुं न शक्नोति पातकं पातकी जनः ॥३४२॥

एतदेवोपपादयति—नारनोऽस्येति द्वाभ्याम् । पातकी सर्वदा पातकयुक्तोऽपि ॥३४२॥

इतिहासोत्तमे—

स्वादो’पि न हि शक्नोति कर्तुं पापानि यत्नतः । तावन्ती यावती शक्तिर् विष्णोर् नाम्नो’सुभ-क्षये ॥३४३॥

श्वादो नित्यकुक्कुर भक्षणशीलः परमपापजातिरपि अशुभस्य अमङ्गलस्य तन्मूलस्य च पापस्य क्षये ॥३४३॥

विशेषतः कलौ, स्कान्दे—

तन् नास्ति कर्मजं लोके वाग्-जं मानसम् एव वा । यन् न क्षपयते पापं कलौ गोविन्द-कीर्तनम् ॥३४४॥

एवं सामान्यत्रः सर्वकाले अशेषपापोन्मूलनं लिखित्वा इदानीं विशेषतः कलिकाले दुस्तरविविध—पापवर्गव्याकुलातामगतीनां कलौ लोकानां प्रभावविशेषप्रकटनपर-श्रीमन्नामकीर्तनेनैवाशेषपापोन्मूलनं भवतीति लिखति——तन्नास्तीत्यादिना ॥३४४॥

विष्णु-धर्मोत्तरे —

शमायालं जलं वह्नेस् तमसो भस्करोदयः । शान्त्यै कलेर् अघौघस्य नाम-सङ्कीर्तनं हरेः ॥३४५॥

यथा वह्नेः शमाय जलमेव अलं समर्थं तमसश्च शमाय भास्करोद्य एवालं तथा कलेर्यदघौघः तस्य शान्त्यै नामसङ्कीर्तनमेवालं कलौ नामसङ्कीर्तनस्यैव प्राधान्यात् । शान्तिरिति पाठे शान्तिरूपमेव ॥३४५॥

नाम्नां हरेः कीर्तनतः प्रयाति संसार-पारं दुरितौघ-मुक्तः । नरः स सत्यं कलि-दोष-जन्म पापं निहत्य् आशु किम् अत्र चित्रम् ॥३४६॥

नित्यं महापापरतोऽपि दुरितौधान्मुक्तः सन् सल्यं निश्चितं यो नरः संसारपारं प्रयाति कलिदोषाज्जन्म यस्य तत् पापं स आशु निहन्तीत्यत्र किं चित्रमाश्चर्यम् असम्भावितं न स्यादित्यर्थः ॥३४६॥

ब्रह्माण्ड-पुराणे—

वराक-चान्द्रायण-तप्त-कृच्छ्रैर् न देहि-शुद्धिर् भवतीह तादृक् । कलौ सकृन् माधव-कीर्तनेन गोविन्द-नाम्ना भवतीह यादृक् ॥३४७॥

देहिनां पापतः शुद्धिः देहेति पाठे स एवार्थः सकृत् यत् माधवस्य कीर्तनं तेन तच्च गोविन्देति नाम्नेति कलो गोविन्द-नाममाहात्म्यमभिप्रेतम् । यद्वा गोविन्देति नाममात्रेणेति कीर्तनस्य बाहुल्यं विविधत्वञ्च परिहृतमिति दिक् ॥३४७॥

कीर्तन-कर्त्र्-कुल-सङ्ग्य्-आदि-पवनत्वं

तत्रैव—

महा-पातक-युक्तो’पि कीर्तयेन्न् अनिशं हरिम् । शुद्धान्तःकरणो भूत्वा जायते पङ्क्ति-पावनः ॥३४८॥

एवं सर्वपापोन्मूलनरूपं माहात्म्यं लिखित्वा इदानीं नामकीर्तन-सम्बन्धिनामपि सर्वदोषान्मूलनेन परमशोधकत्वं लिखति–महेति पञ्चभिः ॥३४८॥

लघु-भागवते—

गोविन्देति मुदा युक्तः कीर्तयेद् यस् त्व् अनन्य-धीः । पावनेन च धन्येन तेनेयं पृथिवी धृता ॥३४९॥

अनन्यधीः—तदेकमना विश्वस्तः सन्नित्यर्थः ॥३४९॥

हरि-भक्ति-सुधोदये—

न चैवम् एकं वक्तारं जिह्वा रक्षति वैष्णवी । आश्राव्य भगवत्-ख्यातिं जगत् कृत्स्नं पुनाति हि ॥३५०॥

भगवतः ख्यातिं कर्तिं नामात्मिकां नामैव वा ॥३५०॥

दशम-स्कन्धे (१०.४.१७)—

यन्-नाम गृह्णन्न् अखिलन् श्रोतॄन् आत्मानम् एव च ।
सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥३५१॥

अत एवोक्तं प्रह्लादेन नारसिंहे—

ते सन्तः सर्व-भूतानां निरुपाधिक-बान्धवाः ।
ये नृसिंह भवन्-नाम गायन्त्य् उच्चैर् मुदान्विताः ॥३५२॥

सर्व-व्यधि-नसित्वं

बृहन्-नारदीये भगवत्-तोष-प्रसङ्गे—

अच्युतानन्द-गोविन्द-नामोच्चरण-भीषितः ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्य् अहम् ॥३५३॥

पराशर-संहितायां साम्बं प्रति व्यासोक्तौ—

न साम्ब व्याधिजं दुःखं हेयं नान्यौषधैर् अपि ।
हरि-नामौषधं पीत्वा व्याधिस् त्याज्यो न संशयः ॥३५४॥

हेयं त्याज्यं न भवतीत्यर्थः ॥३५४॥

स्कान्दे—

आधयो व्याधयो यस्य स्मरणान् नाम-कीर्तनात् ।
तदैव विलयं यान्ति तम् अनन्तं नमाम्य् अहम् ॥३५५॥

वह्नि-पुराणे—

महा-व्याधि-समाच्छन्नो राज-वधोपापिदितः ।
नारायणेति सङ्कीर्त्य निराटङ्को भवेन् नरः ॥३५६॥

सर्व-दुःखोपशमनत्वम्

ब्र्हद्-विष्णु-पुराणे—

सर्व-रोगोपशमनं सर्वोपद्रव-नाशनम् ।
शान्तिदं सर्वारिष्टानां हरेर् नामानुकीर्तनम् ॥३५७॥

ब्रह्म-वैवर्ते—

सर्व-पाप-प्रशमनं सर्वोपद्रव-नाशनम् ।
सर्व-दुःख-क्षय-कारं हरि-नामानुकीर्तनम् ॥३५८॥

द्वादश-स्कन्धे (१२.१२.४८)—

सङ्कीर्त्यमानो भगवान् अनन्तः
श्रुतनुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्य् अशेषं
यथा तमो’र्को’भ्रम् इवाति-वातः ॥३५९॥

सङ्कीर्त्यमानः । किं वा, श्रुतो’नुभावो यस्य ।तथा-भूतः सन् । यद् वा, को’सौ भगवान् ? तत्राह—श्रुतः अनुभावः पूतना-मुक्ति-प्रदानादि-प्रभावो यस्येति । पुंसां चित्तं प्रविश्य निःशेषं दुःखं विधुनोति । हीति सताम् अनुभवं प्रमाणयति । अर्को गिरि-गुहादि-ध्वान्तं न धुनोतीत्य् अपरितोषाद् दृष्टान्तान्तरम् आह—अतिवातो’भ्रम् इवेति ॥३५९॥

विष्णु-धर्मोत्तरे—

आर्ता विषण्णाः शिथिलाश् च भीता
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायण-शब्दम् एकं
विमुक्त-दुःखाः सुखिनो भवन्ति ॥३६०॥

आर्ता विष-भक्षणादिना व्याकुलाः, विषण्णाः दारिद्र्यादिना दुःखिताः । शिथिला भग्नाङ्गाः । भीताः शत्र्व्-आदिभ्यः ॥३६०॥

कीर्तनद् देव-देवस्य विष्णोर् अमित-तेजसः ।
यक्ष-रक्षस-वेतल-भूत-प्रेत-विनयकः ॥३६१॥
दकिन्यो विद्रवन्ति स्म ये तथान्ये च सिंहकः ।
सर्वानर्थ-हरं तस्य नाम-सङ्कीर्तनं स्मृतम् ॥३६२॥

किं च—

नाम-सङ्कीर्तनं कृत्वा क्षुट्-तृट्-प्रस्खलितादिषु ।
वियोगं शीघ्रम् आप्नोति सर्वानर्थैर् न संशयः ॥३६३॥

सर्वैर् अनर्थैर् वियोगं शुद्धिम् आप्नोति ॥३६३॥

पाद्मे देवहुति-स्तुतौ—

मोहानलोल्लसज्-ज्वाल-ज्वलल्-लोकेषु सर्वदा ।
यन्-नामाम्भोधर-च्छायां प्रविष्टो नैव दह्यते ॥३६४॥

सर्वदा मोहो’ज्ञानां गृहादि-विषयको ममता वा स एवानलः, तस्य उल्लसन्त्या नित्यं वर्धमानया ज्वालया ज्वलत्सु लोकेषु मध्ये यस्य भगवतो नामैव अम्भोधरः वर्षन्-मेघः, तस्य छायां प्रविष्टः सन् नैव दह्यते, तेन मोहानलेन न दग्धो भवति, मोह-कृतं दुःखं किम् अपि नानुभवतीत्य् अर्थः । पाठान्तरे ना नरः, अर्थः स एव ॥३६४॥

कलि-बाधापहारित्वम्

स्कान्दे—

कलि-काल-कुसर्पस्य तीक्ष्ण-दंष्ट्रस्य मा भयम् ।
गोविन्द-नाम-दावेन दग्धो यास्यति भस्मताम् ॥३६५॥

पूर्वं कलौ विशेषतः पापोन्मूलनं लिखितम्, इदानीं कलेः पाप-कार्य-कारणाद्य्-अखिल-परिकरस्य विनाशित्वं लिखति—कलि-कालेत्य्-आदिना नरान् इत्य् अन्तेन । मा भयं, भयं नास्ति ॥३६५॥

बृहन्-नारदीये कलि-धर्म-प्रसङ्गे—

हरि-नाम-परा ये च घोरे कलि-युगे नराः ।
त एव कृत-कृत्याश् च न कलिर् बाधते हि तान् ॥३६६॥
हरे केशव गोविन्द वासुदेव जगन्-मय ।
इतीरयन्ति ते नित्यं न हि तान् बाधते कलिः ॥३६७॥

विष्णु-धर्मोत्तरे—

ये’हर्-निशं जगद्-धातुर् वासुदेवस्य कीर्तनम् ।
कुर्वन्ति तान् नर-व्याघ्र न कलिर् बाधते नरान् ॥३६८॥

ये नरा अहर्निशं नित्यं, ते न अहर् वा निशां वेत्य् अर्थः ॥३६८॥

नारक्य्-उद्धारकत्वम्

नारसिंहे—

यथा यथा हरेर् नाम कीर्तयन्ति स्म नारकाः ।
तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥३६९॥

एवं पापाद् रक्षत्वं लिखित्वा, इदानीं पाप-फल-भोगाद् अपि वर्तमानाद् रक्षां लिखति—यथेति द्वाभ्याम् । नारका नरक-वर्तिनो जनाः । दिवं श्री-विष्णु-लोकम् इत्य् अर्थः । एतद् आख्यायिका च तत्रैव प्रसिद्धा, यथा हि—धर्मराजतो नाम-माहात्म्यम् आकर्ण्य श्री-नारदेन गत्वोपदिष्टं भगवन्-नाम-कीर्तनं कुर्वन्तो नरक-भोगात् ताः सद्यः सुखिनो भूत्वा सर्वे श्री-वैकुण्ठ-लोकं ययुर् इति ॥३६९॥

इतिहासोत्तमे—

नरके पच्यमानानां नराणां पाप-कर्मणाम् ।
मुक्तिः सञ्जायते तस्मान् नाम-सङ्कीर्तनाद् धरेः ॥३७०॥

तस्मान् नरकान् मुक्तिः ॥३७०॥

प्रारब्ध-विनाशित्वम्

षष्ठ-स्कन्धे (६.२.४६)—

नातः परं कर्म-निबन्ध-कृन्तनं
मुमुक्षतां तीर्थ-पदानुकीर्तनात् ।
न यत् पुनः कर्मसु सज्जते मनो
रजस्-तमोभ्यां कलिलं ततो’न्यथा ॥३७१॥

एवं दुष्प्रारब्ध-निवारकत्वेन दर्शितम् । तद् एवाभिव्यज्य लिखति—नातः परम् इत्य्-आदिना, भासते नर (ह।भ।वि। ११.३७४) इत्य् अन्तेन । कर्म-निबन्धनस्य पाप-मूलस्य कृन्तनं छेदकम् अतः परं नास्ति । कस्मात् परं ? तीर्थ-पदस्य भगवतो’नुकीर्तनात् । तत्र हेतुः—यद् यतो’नुकीर्तनात् । ततो’नुकीर्तनात् । अन्यथा प्रायश्चित्तान्तरे रजस्-तमोभ्यां कलिलं मलिनम् एव तिष्ठति यत् तन्-मनः ।

यद्यपि कर्म-निबन्ध-कृन्तनम् इत्य् अशेष प्रारब्ध-कर्म-छेदनम् एवात्रोक्तं, तथाप्य् अखिल-प्रारब्ध-क्षये देह-पातापत्त्या भगवद्-भजनासम्भवाद् दुष्प्रारब्ध-क्षय एवाभिप्रेतः । अत एव नाम-श्रुति-भाष्ये लिखितम्—प्रारब्ध-पाप-निवर्तकत्वं च कदाचिद् उपासकेच्छा-वशात् इति । अन्यथात्र प्रस्तुताजामिलादिभिर् विरोधापत्तेः । अथवा रोगादि-विलापनादिना नारक्य्-उद्धार-पर्यन्तेन दुष्प्रारब्ध-क्षयेण देह-पातापत्तौ सत्याम् अपि नाम-सङ्कीर्तन-प्रभावतो नित्य-प्रलयादि-न्यायेन तदानीम् एव भगवद्-भजनार्थं तद्-योग्य-देहान्तरोत्पत्त्या, किं वा, पूर्व-देहम् एव सद्यो-जात-भगवद्-भजनोचित-गुण-विशेषवत्तया नवीनम् इवासौ प्रापेत्य् ऊह्यम् । यथा श्री-ध्रुवेण परम-पदारोहण-समये निज-पूर्व-देहम् एव पार्षदोचित-देह-गुण-युक्ततया भिन्नम् इव प्राप्तम् । तच् च बिभ्रद् रूपं हिरण्मयं [भा।पु। ४.१२.२९] इत्य्-आदिषु श्री-स्वामि-पादैर् व्यक्त-व्याख्यातम् एव । एवम् एव सुरवद् भषते नरः (ह।भ।वि। ११.३७४) इत्य्-आदि-वचनं सुसङ्गच्छते । यच् च बहिः सुख-दुःख-फलके प्रारब्धे क्षीणे’पि पश्चात् तस्य कदाचित् कस्यचित् किञ्चिद् देहादौ बाह्य-सुखं दुःखं च दृश्यते, तच् च लोके भक्ति-माहात्म्य-सङ्गोपनार्थं श्री-भगवता भक्तेन वा तेनैवात्माच्छादनार्थं शक्त्या सम्प्रदर्श्यत इति ज्ञेयम् । एवं सर्वम् अनवद्यम् ॥३७१॥

द्वादशे (१२.३.४४) च—

यन्-नाम-धेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्त-कर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥३७२॥

तत्र च यत् फलोन्मुखं कर्म, तद् एव प्रारब्धम् उच्यते । तच् च द्विविधं—वर्तमान-देहोपभोग्यम् एकम्, अन्यच् च शरीरान्तरोपभोग्यम् । यथा—भरतस्य मृग-शरीर-कारणं, तच् च श्री-भागवते श्री-बादरायणेनैव सिद्धान्तितम् अस्ति । मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशित इत्य्-आदिभिः । तत्र नातः परं [भा।पु। ६.२.४६] इति पूर्व-श्लोकेन वर्तमान-शरीर-भोग्य-प्रारब्ध-नाशनं लिखित्वा, इदानीं शरीरान्तरे’वश्य-भोग्यस्यापि प्रारब्धस्य क्षपणं लिखति । यद् वा, द्वाभ्याम् एव श्लोकाभ्याम् अशेष-प्रारब्ध-विनाशित्वम् एव दर्शयति—यन्-नामेति । विवशो’पि गृणन् उच्चारयन् सन् । विमुक्ताः कर्म-रूपा अर्गला अवश्य-भोग्यत्वेन दुर्वारा अपि प्रतिबन्धा यस्य सः । उत्तमां श्री-वैकुण्ठ-प्राप्ति-लक्षणां गतिं फलं, तं न यक्ष्यन्ति, नाम-सङ्कीर्तनादिना न सेविष्यन्त इति कलि-दोष उक्तः ॥३७२॥

उक्त्य कर्म-निबन्धेति तथा कर्मार्गलेति च ।
अवश्य-भोग्यतापत्तेः प्रारब्धे पर्यवस्यति ॥३७३॥

अत एव बृहन्-नारदीये—

गोविन्देति जपन् जन्तुः प्रत्य्-अहं नियतेन्द्रियः ।
सर्व-पाप-विनिर्मुक्तः सुरवद् भासते नरः ॥३७४॥

जन्तुः सत्-कर्माद्य्-अभावेन कीटादि-सदृशो’तिनीचो’पीत्य् अर्थः । अन्वहं नियतेन्द्रियः सन् सर्व-पापेभ्यो’शेष-दुष्प्रारब्ध्येभ्यो विशेषेण निर्मुक्तश् च सन् नरो’पि सुरवद् भासते, तस्मिन्न् एव देहे इन्द्रादिवत् । यद् वा, सुशोभनं पदं राति ददातीति सुरो भगवत्-पार्षदस् तद्वद् विराजते । अत्र पाप-शब्देन स्वर्गादि-फलकं पुण्यम् अपि सङ्गृह्यते, क्षयिष्णु-फलकत्वादिना तस्यापि पापेष्व् एव पर्यवसानात् । अथवात्र श्लोके दुष्प्रारब्ध-मात्र-विनाशित्वम् एवोक्तम् । ततश् च सुरवद् देववद् इत्य् एव ॥३७४॥

सर्वपाराध-भजनत्वम्

विष्णु-यामले श्री-भगवद्-उक्तौ—

मम नामानि लोके’स्मिन् श्रद्धया यस् तु कीर्तयेत् ।
तस्यापराध-कोटिस् तु क्षमाम्य् एव न संशयः ॥३७५॥

एवं विहिताकरण-निषिद्धाचरण-जाताखिल-पापोन्मूलन-रूप-माहात्म्यं लिखितम् । तच् च पापं कथञ्चिद् भगवद्-आश्रयणाद् अपि विनश्यत्य् एव । यच् च श्री-भगवति तन्-नामि चापराध-रूपं परम-महा-पातकं, तद् अपि नाम-कीर्तनात् क्षीयत इति माहात्म्य-विशेषं लिखति—ममेति । अवश्य-भोग्यस्यापि नामापराधस्य क्षमायां पूर्व-लिखित एव सिद्धान्तो द्रष्टव्यः ॥३७५॥

सर्व-सम्पूर्ति-कारित्वम्

अष्टम-स्कन्धे (८.२३.१६) श्री-भगवन्तं प्रति श्री-शुक्रोक्तौ—

मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः । सर्वं करोति निश्छिद्रम् अनुसङ्कीर्तनं तव ॥३७६॥

इत्थं सर्व-दोषोन्मूलन-रूपं माहात्म्यं लिखित्वा इदानीम् अखिल-गुणाधायकत्वादि-रूपं लिखति—मन्त्रत इत्य् आदिना यावत्-समाप्तिः । मन्त्रतः स्वरादि-भ्रंशेन, तन्त्रतः व्युत्क्रमादिना, देशतः कालतश् च अर्हतः पात्रतः अशौचादिना । वस्तुतश् च दक्षिणादिना, यच् छिद्रं न्यूनम्, तत् सर्वं तव नाम-सङ्कीर्तनम् एव निश्छिद्रं करोति, रिक्तं पूरयति, अधिक-फलं च जनयतीत्य् अर्थः ॥३७६॥

स्कान्दे च—

यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु ।
न्यूनं सम्पूर्णताम् एति सद्यो वन्दे तम् अच्युतम् ॥३७७॥

सर्व-वेदाधिकत्वम्

विष्णु-धर्मोत्तरे श्री-प्रह्लादोक्तौ—

र्ग्-वेदो हि यजुर्-वेदः साम-वेदो’प्य् अथर्वणः ।
अधीतस् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥३७८॥

हरिर् इत्य् अक्षर-द्वयोक्त्यैव सर्व-वेदाध्ययन्-सिद्धेः सर्व-वेदेभ्य आधिक्यं व्यक्तम् एव ॥३७८॥

स्कान्दे श्री-पर्वत्य्-उक्तौ—

मा ऋचो मा यजुस् तात मा साम पठ किञ्चन ।
गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥३७९॥

गेयं गान-योग्यम् । अनेन ऋग्-आदि-पाठ-निषेधेन च सर्व-वेदाधिकत्वं सिद्धम् एव ॥३७९॥

पाद्मे च श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे—

विष्णोर् एकैक-नामापि सर्व-वेदाधिकं मतम् ।
तदृङ्-नाम-सहस्रेण राम-नाम समं स्मृतम् ॥३८०॥

एकैकम् अपि नाम सर्व-वेदेभ्ह्यो’धिकम् ॥३८०॥

सर्व-तीर्थाधिकत्वम्

स्कान्दे—

कुरुक्षेत्रेण किं तस्य किं कस्य पुस्करेण वा ।
जिह्वाग्रे वसते यस्य हरिर् इत्य् अक्षर-द्वयम् ॥३८१॥

वामने—

तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च ।
तनि सर्वाण्य् अवाप्नोति विष्णोर् नामानुकीर्तनात् ॥३८२॥

विश्वामित्र-संहितायाम्—

विश्रुताणि बहून्य् एव तीर्थानि बहुधानि च ।
कोत्य्-अंशेनापि तुल्यानि नाम-कीर्तनतो हरेः ॥३८३॥

बहुधानीत्य् आर्षम् । बहुविधानि । जल-स्थलादि-भेदेन नदी-नद-सरः-कूपादि-भेदेन च । षष्ठ्यां तत्-प्रत्ययः । नाम-सङ्कीर्तनस्य कोट्य्-अंशानाम् एकेनाप्य् अंशेन तुल्यानि न भवन्तीत्य् अर्थः ॥३८३॥

लघु-भागवते—

किं तात वेदागम-शास्त्र-विस्तरैस्
तीर्थैर् अनेकैर् अपि किं प्रयोजनम् ।
यद्य् आत्मनो वाञ्छसि मुक्ति-कारणं
गोविन्द गोविन्द इति स्फुतं रट ॥३८४॥

गोविन्द इतीत्य् अत्राविवक्षितत्वाद् असन्धिः । यद् वा, हे गोविन्देति गोविन्द इति च ॥३८४॥

सर्व-सत्-कर्माधिकत्वम्

गो-कोटि-दानं ग्रहणे खगस्य
प्रयाग-गङ्गोदक-कल्प-वासः ।
यज्ञायुतं मेरु-सुवर्ण-दानं
गोविन्द-कीर्तेर् न समं शतांशैः ॥३८५॥

खगस्य सूर्यस्य ग्रहणे, मेरु-तुल्य-सुवर्ण-दानं च । गोविन्दस्य कीर्तिः कीर्तनम्, तस्याः शतांशैः शतांशानाम् एकेनाप्य् अंशेन समं न स्याद् इत्य् अर्थः । एवं कुत्रचित् पद्ये फल-विशेष-प्रदत्वेन कुत्रचिच् च फल-रूपत्वेन सर्व-कर्मभ्यो’धिकत्वं द्रष्टव्यम् ॥३८५॥

बौधयन-संहितायाम्—

इष्ट-पूर्तानि कर्माणि सु-बहूनि कृतान्य् अपि ।
भव-हेतूनि तान्य् एव हरेर् नाम तु मुक्तिदम् ॥३८६॥

गारुडे श्री-शौनकाम्बरीष-संवादे—

वाजपेय-सहस्राणां नित्यं फलम् अभीप्ससि ।
प्रातर् उत्थाय भूपाल कुरु गोविन्द-कीर्तनम् ॥३८७॥
किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक ।
मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥३८८॥

साङ्ख्येन आत्मानात्म-विवेकेन । योगैर् अष्टाङ्गादिभिः । तेषाम् अपि कर्म्पन्तर्गतत्वाद् अत्रास्य पद्यस्य लिखनम्, एवम् अग्रे’प्य् ऊह्यम् ॥३८८॥

तृतीय-स्कन्धे (३.३३.७) श्री-कपिल-देवं प्रति देवहूत्य्-उक्तौ—

अहो बत श्वपचो’तो गरीयान्
यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुर् सस्नुर् अर्या
ब्रह्मानूचुर् नाम गृह्णन्ति ये ते ॥३८९॥

अहो बतेत्य् आश्चर्ये । यस्य जिह्वाग्रे तुभ्यं तव त्वद्-अर्थम् अपि वा नाम वर्तते, श्रद्धादि-राहित्येनापि यथा-कथञ्चिद् अपि असम्यक्तयापि नामाभासम् अपि य उच्चारयतीत्य् अर्थः, स श्वपचो’पि जात्या कर्मणा च श्व-मांस-भक्षणाद् अनिवृत्तेर् उभयथा पापो’पि, अतो’स्माद् एव हेतोर् गरीयान् । यद् यस्माद् वर्तते, अत इति वा । कुतः ? इत्य् अत आह—त एव तपस् तेपुः सम्यक् कृतवन्तः । जुहुवुर् होमं कृतवन्तः । सस्नुः तीर्थेषु स्नाताः । आर्यास् त एव सदाचाराः । ब्रह्म वेदम् अनूचुर् अधीतवन्तः । त्वन्-नाम-कीर्तने तप-आदिकं सर्वं सत्-कर्मान्तर्-भूतं, अतस् ते पुण्यतमा इत्य् अर्थः । यद् वा, जन्मान्तरेषु तैस् तपो-होमादि सर्वं कृतम् अस्तीति त्वन्-नाम-कीर्तन-महा-भाग्योदयाद् अवगम्यत इत्य् अर्थः । तप-आदीनां सर्वेषां नाम-कीर्तन-फलतोक्त्या सर्व-सत्-कर्माधिकत्वं व्यक्तम् एव ॥३८९॥

सर्व-तीर्थ-प्रदत्वं

स्कान्दे ब्रह्म-नारद-संवादे चातुर्मास्य-माहात्म्ये—

एतत् सद्-वर्ग-हरणं रिपु-निग्रहणं परम् । अध्यात्म-मूलम् एतद् धि विष्णोर् नामानुकीर्तनम् ॥३९०॥

षड्वर्गः कामक्रोधादिः तस्य हरणं नाशकम् । आत्मानमधिकृत्य वर्तमानमात्मतत्त्वमध्यात्मं तस्य मूलं तत्प्राप्तिकारणमित्यर्थः ॥३९०॥

विष्णु-धर्मोत्तरे —

हृदि कृत्वा तथा कामम् अभीष्टं द्विज-पुङ्गवः । एकं नाम जपेद् यस् तु शतं कामान् अवाप्नुयात् ॥३९१॥

तत्रैव श्री-कृष्णामृत-स्तोत्रे—

सर्व-मङ्गल-मङ्गल्यम् आयुष्यं व्याधि-नाशनम् । भुक्ति-मुक्ति-प्रदं दिव्यं वासुदेवस्य कीर्तनम् ॥३९२॥

दिव्यं लोकातीतं वैकुण्ठलोकप्रापणात् सच्चिदानन्दरूपत्वाद्वा ॥३९२॥

श्री-नारायण-व्यूह-स्तवे—

परिहासोपहासाद्यैर् विष्णोर् गृह्णन्ति नाम ते । कृतार्थास् ते’पि मनुजास् तेभ्यो’पीह नमो नमः ॥३९३॥

परिहासो नर्मः उपहासस्तिरस्कारः आद्य-शब्दात् सङ्केतस्तोभादि ॥३९३॥

वाराहे च—

ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम् । तैर् आप्तं जन्मनः प्राप्यं ये काले कीर्तयन्ति माम् ॥३९४॥

काले स्नानादिसमये यद्वा अकास्प्रश्लेषेण अकाले अशौचादिसमयेऽपि ॥३९४॥

विशेषतः कलौ—

सकृद् उच्चारयन्त्य् एतद् दुर्लभं चाकृतात्मनाम् । कलौ युगे हरेर् नाम ते कृतार्था न संशयः ॥३९५॥

सकृदप्युच्चारयन्ति ये ते कृतार्थाः सिद्धसर्वार्था इत्यर्थः ॥३९५॥

एकादश-स्कन्धे (११.५.३६) च—

कलिं सभाजयन्त्य् आर्या गुण-जाः सार-भागिनः ।
यत्र सङ्कीर्तनेनैव सर्वः स्वर्थो’भिलभ्यते ॥३९६॥

सभाजयन्ति श्रेष्ठं मन्यन्ते, गुणज्ञाः कलेर् गुणं जानन्ति ये ते । ननु दोषाणां बहुत्वात् कथं सभाजयन्ति ? तत्राह—सार-भागिनः गुण-ग्राहिणः । को’सौ गुणः ? तम् आह—यत्रेति । तद् उक्तम् एव—ध्यायन् कृते यजन् यज्ञैः इत्य्-आदिना ॥३९६॥

स्कान्दे तत्रैव—

तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् । कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत् ॥३९७॥

उत्तमं तपः स्वधर्माचरणं चित्तैकाग्रता वा ॥३९७॥

सर्व-शक्तिमत्त्वम्

यथा स्कान्दे—

दान-व्रत-तपस्-तीर्थ-यात्रादीनां च याः स्थिताः । शक्तयो देव-महतां सर्व-पाप-हराः शुभाः ॥३९८॥

देवानां महताञ्च साधूनां शुभाश्च मङ्गलावहाः राजसूयादीनाञ्च याः शक्त्यस्ताः सर्वाः ॥३९८॥

राज-सूयाश्वमेधानां ज्ञानस्याध्यात्म-वस्तुनः । आकृष्य हरिणा सर्वाः स्थापिताः स्वेषु नामसु ॥३९९॥ वातो’प्य् अतो हरेर् नाम्न उग्राणाम् अपि दुःसहः । सर्वेषां पाप-राशीनां यथैव तमसां रविः ॥४००॥

एवमशेषदोष-दुःखहरणे सकलगुणश्रेयःप्रापणे च परमसमर्थस्य भगवन्नाम्नो महापातकसञ्चयक्षपणमप्यत्यन्तसुकरमेवेत्याह—वात इति । अतः अस्मादुक्ताद्धेतोर्नाम्नां वातोऽपि यथा कथञ्चिदीषत्सम्बन्धोऽपि उग्राणां भयानकानां सर्वेषां सवासनानां पापराशीनामपि दुःसहः दूरादेवात्यन्तक्षयकृदित्यर्थः । रविर्यथा तमसां दुःसहस्तद्वत् एतच्चानुषङ्गिकं फलमुक्तम् ॥४००॥

अतएव ब्रह्माण्डे—

सर्वार्थ-शक्ति-युक्तस्य देवदेवस्य चक्रिणः । यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत् ॥४०१॥

सर्वार्थशक्तियुक्तस्येत्यनेन नाम-नामिन रभेदान्नाम्नोऽपि सर्वस्य सर्वार्थशक्तियुक्तता सूचितैव । अभिरुचितं निजाभीष्टं यन्नाम एतच्च भक्तिविशेषेणाचिरात सम्यक् सर्वार्थसिद्ध्यपेक्षयोक्तम् ॥४०१॥

जगद्-आनन्दकत्वम्

श्रीमद्-भगवद्-गीतासु [११.३६]—

स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥४०२॥

स्थाने इत्य् अव्ययं युक्तम् इत्य् अस्मिन्न् अर्थे । हे हृषीकेश ! यत एवं त्वम् अद्भुत-प्रभावो भक्त-वत्सलश् च । अतस् तव प्रकीर्त्या माहात्म्य-सङ्कीर्तनेन न केवलम् अहम् एव प्रहृष्यामि, किन्तु जगत् सर्वं प्रकर्षेण हृष्यति हर्षं प्राप्नोति । एतत् स्थाने युक्तम् इत्य् अर्थः । तथा जगद् अनुरज्यते चानुरागं चोपैतीति यत् । तथा रक्षांसि भीतानि सन्ति । दिशः प्रति द्रवन्ति, वेगेन पलायन्ते इति यत् । तथा सर्वे योग-तपो-मन्त्रादि-सिद्धानां सङ्घा नमस्यन्ति प्रणमन्तीति यत् । एतच् च स्थाने युक्तम् एव । न चित्रम् इत्य् अर्थः॥४०२॥

जगद्-वन्द्यतापादकत्वम्

बृहन्-नारदीये—

नारायण जगन्नाथ वासुदेव जनार्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥४०३॥

श्री-सूतेनोक्तं तत्रैव यज्ञध्वजोपाख्यानान्ते—

स्वपन् भुञ्जन् व्रजंस् तिष्ठंश् च वदंस् तथा । ये वदन्ति हरेर् नाम तेभ्यो नित्यं नमो नमः ॥४०४॥

वदन् अन्यवार्ता कुर्वन् वदन्तीत्यादि बहुत्वमार्षम् किंवा स्वप्नादिक्रियाणां बहुत्वेन बहुत्वान्तर्भावात् । नमो नम इत्यन्तेन वन्द्यता सिद्धैव ॥४०४॥

श्री-नारायण-व्यूह-स्तवे—

स्त्री शूद्रः पुक्कशो वापि ये चान्ये पाप-योनयः । कीर्तयन्ति हरिं भक्त्या तेभ्यो’पीह नमो नमः ॥४०५॥

अगत्य्-एक-गतित्वम्

पाद्मे बृहत्-सहस्र-नाम-कथनारम्भे—

अनन्य-गतयो मर्त्या भोगिनो’पि परन्तपाः । ज्ञान-वैराग्य-रहिता ब्रह्मचर्यादि-वर्जिताः ॥४०६॥

न विद्यते अन्या नामव्यतिरिक्ता कापि गतिराश्रयोऽत्यन्तपापजात्यादिना कर्मादावनधिकारात् येषान्तेऽपि । अपि- शब्दस्य सर्वत्रैव सम्बन्धः । भोगिनः विषयभोगरताः परमन्यं जनं तापयन्तीति परन्तपाः नाममात्रमेवैकं जल्पन्ति यथाकथञ्चिदश्रद्धयापि वाङ्मात्रेणोच्चा यन्ति तथा ते ॥४०६॥

सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वे’पि धार्मिकाः ॥४०७॥

सदा सर्वत्र सेव्यत्वम्

विष्णु-धर्मे क्षत्र-बन्धूपाख्याने—

न देश-नियमस् तस्मिन् न काल-नियमस् तथा । नोच्छिष्ठादौ निषेधो’स्ति श्री-हरेर् नाम्नि लुब्धक ॥४०८॥

हे लुब्धक तस्मिन् उक्तप्रभावे अनिर्वचनीयमाहात्म्ये वा नाम्नि ॥४०८॥

स्कान्दे, पाद्मे वैशाख-माहात्म्ये, विष्णु-धर्मोत्तरे च—

चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्र-करो यतः ॥४०९॥

तस्य चक्रायुधम्य कीर्तने अशौचं नास्ति शुचिनैव कीर्तनं कार्यं नैवाशुचिनेति व्यवस्था न विद्यते इत्यर्थः । तस्येति—नाम-नामिनोरभेदाभिप्रायेण यतः स्वनामात्मकश्चक्रायुध एव पवित्रं करोतीति तथा । यथाचमनादिव्यतिरेकेणाशुद्धस्य श्रीयमुनादिजलाचमनादिनैव शुद्धः यथा च तत्राशुद्धेन कथं श्रीयमुनादिजलं स्प्रष्टव्यमिति शङ्का न सम्भवेत् अनन्य गतित्वात् तथात्रापीत्यर्थः । यद्वा यतः स नामकीर्तकपुरुष एव अन्यमपि पवित्रं करोति किं वक्तव्यं तस्याशौचमित्यर्थः ॥४०९॥

पुनः स्कन्धे—

न देश-कालावस्थासु शुद्ध्य्-आदिकम् अपेक्षते । किन्तु स्वतन्त्रम् एवैतन् नाम कामित-कामदम् ॥४१०॥

देशादीनां शुद्ध्या दकं नाम कर्तृनापेक्षते । तत्र अवस्थाः बाल्यादयो जागरादयः प्रमादोन्मादादयो वा । आदि-शब्देन स्वधर्माचरणादि एतस्य भगवतो नाम यद्वा प्रकरणवशाद्भगवत एव नाम एतत् सुप्रसिद्धानिर्वचनीयमाहात्म्यमित्यर्थः । कामितं वाञ्छित कामं पुरुषार्थविशेषं यद्वा काम्यत इति कामं फलं यद्वा कामितस्य कामयुक्तस्य काममभीष्टं ददातीति तथा तत् ॥४१०॥

वैश्वानर-संहितायाम्—

न देश-काल-नियमो न शौचाशौच-निर्णयः । परं सङ्कीर्तनाद् एव राम रामेति मुच्यते ॥४११॥

परं केवलं राम रामेति कीर्तनादेव ॥४११॥

वैष्णव-चिन्तामणौ श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्यं—

न देश-नियमो राजन् न काल-नियमस् तथा । विद्यते नात्र सन्देहो विष्णोर् नामानुकीर्तने ॥४१२॥ कालो’स्ति दाने यज्ञे च स्थाने कालो’स्ति सज्-जपे । विष्णु-सङ्कीर्तने कालो नास्त्य् अत्र पृथिवी-तले ॥४१३॥

पृथिवीतले सर्वत्रेत्यर्थः ॥४१३॥

द्वितीय-स्कन्धे [भा।पु। २.१.११]—

एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥४१४॥

एवं सदा-सेव्यत्वं लिखित्वा सर्व-सेव्यत्वं लिखति—एतद् इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां मुमुक्षूणां मोक्ष-साधनम् एतद् एव । तत्र तत्र च न काचिद् अपि विघ्नादि-शङ्केत्य् आह—न कुतश्चिद् अपि भयं यस्मिन् तत् । योगिनां ज्ञानिनां मुक्तानां वा फलं चैतद् एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः । एवं साधकानां सिद्धानां च सेव्यत्वं दर्शितम् ॥४१४॥

मुक्ति-प्रदत्वम्

वाराहे**—**

नारायणाच्युतानन्त वासुदेवेति यो नरः । सततं कीर्तयेद् भूमि याति मल्लयतां स हि ॥४१५॥
गारुडे—
किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक । मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥४१६॥

हे भूमि मल्लयतां सायुज्यमुक्तिं साङ्ख्येन आत्मानात्मविवकेन योगैरष्टाङ्गादिभिः ॥४१५-४१६॥

यथा, पद्म-पुराणे उत्तर-खण्डे—

सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् । बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥४१७॥

मोक्षाय गमनं प्रति आशुमोक्षप्राप्तये परिकरो बद्धः साधनं सम्यगनुष्ठितमित्यर्थः ॥४१७॥

ब्रह्म-पुराणे—

अप्य् अन्य-चित्तो’शुद्धो वा यः सदा कीर्तयेद् धरिम् । सो’पि दोष-क्षयान् मुक्तिं लभेच् चेदि-पतिर् यथा ॥४१८॥

द षाः कामक्रोधादयस्तेषां क्षयात् चेदिपतिः शिशुपालः ॥४१८॥

पाद्मे देवहूति-स्तुतौ—

सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः । शुद्धान्तःकरणो भूत्वा विर्वाणम् अधिगच्छति ॥४१९॥

अतन्द्रितः नामोच्चारणादावनलस सन् ततश्च शुद्धान्तःकरणो भूत्वा ॥४१९॥

मात्स्ये—

पर-दार-रतो वापि परापकृति-कारकः । स शुद्धो मुक्तिम् आप्नोति हरेर् नामानुकीर्तनात् ॥४२०॥

शुद्धः परदाररतत्वादिपापात् पवित्रः सन् ॥४२०॥

वैशम्पायन-संहितायाम्—

सर्व-धर्म-बहिर्-भूतः सर्व-पाप-रतस् तथा । मुच्यते नात्र सन्देहो विष्णोर् नामानुकीर्तनात् ॥४२१॥

बृहन्-नारदीये [१.२.४९]—

यथा कथञ्चित् यन् नास्ति कीर्तिते वा श्रुते’पि वा । पापिनो’पि विशुद्धाः स्युः शुद्धा मोक्षम् अवाप्नुयुः ॥४२२॥

विशेषेण शुद्धाः सवासनसर्वपापतः पवित्राः शुद्धा निष्पापास्तु मोक्षं प्राप्नुवन्ति । पापिनां विलम्बेन मोक्षः सुकृतीनाञ्च सद्य एवेति ज्ञेयम् । यद्वा विशुद्धाः सन्तः किं प्राप्नुवन्तीत्यपेक्षायामाह—शुद्धा इति अनुवादमात्रम् ॥४२२॥

भारत-विभागे—

प्राण-प्रयाण-पाथेयं संसार-व्याधि-भेषजम् । दुःख-शोक-परित्राणं हरिर् इत्य् अक्षर-द्वयम् ॥४२३॥

प्राणस्य प्रयाणे पाथेयं पथि भक्ष्यसम्बलं परलोके सहायमित्यर्थः । संसाररूपस्य व्याधेर्भेषजं नाशकं मोक्षप्रदमित्यर्थः । इह लोके च दुःखशोकाभ्यां परित्राणं यस्मात्तत् यद्वा तयोः परित्राणरूपमेव यद्वा भगवदप्राप्त्या यौ दुःखशोकौ ताभ्यां परित्राणं यस्मादिति श्रीवैकुण्ठलोकप्रापकत्वम् । यद्वा किं बहुनोक्तेन ऐहिकामुष्मिकाशेषदुःखशोकपरित्राणमेवेत्युपसंहारः । विष्णुधर्मे च—प्राणकान्तारपाथेयम् इति श्रीप्रह्लादेनोक्तम् अर्थः स एव ॥४२३॥

नारदीये—

नव्यं नव्यं नाम-धेयं मुरारेर् यद् यच् चैतद् गेय-पीयूष-पुष्टम् । ये गायन्ति त्यक्त-लज्जाः स-हर्षं जीवन्-मुक्ताः संशयो नास्ति तत्र ॥४२४॥

किं वक्तव्यं देहान्ते मुक्तिं ददातीति देहे सत्यपि सद्यो ददातीति लिखति— नव्यमित्यादिना नव्यं नव्यं प्रतिक्षणनूतनमित्यर्थः अनेन माधुरीविशेषो दर्शितः । तमेवाह—गेयानां गानयोग्यानां गाथादीनाम् यद्वा गेयं परमश्लाघ्यं यत् पीयूषं मधुररसविशेषस्तेन पुष्टम् । एवम्भूतं मुरारेर्यत् नामधेयम् एतद्ये गायन्ति ते जीवन्मुक्ता एव यद्यपीति पाठे यद्यपि गेयपीयूषपूष्टं परममादकमित्यर्थ इति जीवन्मुक्तताविरोधिचित्तक्षोभहेतुतोक्ता तथापि जीवन्मुक्ता एव तेनैव स्वतः संसारविस्मरणात् ॥४२४॥

प्रथम-स्कन्धे [भा।पु। १.१.१४]—

आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥४२५॥

संसृतिम् आपन्नः प्राप्तः । विवशो’पि, ततः संसृतेः गृणन्न् एव सद्यो विमुच्येत इति जीवन्-मुक्ततोक्ता । अत्र हेतुः—यद् यतो नाम्नो भयम् अपि स्वयं बिभेति ॥४२५॥

तृतीये [भा।पु। ३.९.१५] ब्रह्म-स्तुतौ—

यस्यावतार-गुण-कर्म-विडम्बनानि
नामानि ये’सु-विगमे विवशा गृणन्ति ।
ते’नैक-जन्म-शमलं सहसैव हित्वा
संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥४२६॥

अवतारादीनां विडम्बनम् अनुकरणम् अवलम्बनं वास्ति येषु । तत्रावतार-विडम्बनानि देवकी-नन्दन इत्य्-आदीनि । गुण-विडम्बनानि सर्व-ज्ञो भक्त-वत्सल इत्य्-आदीनि । कर्म-विडम्बनानि गोवर्धनोद्धरणः कंस-निषूदन इत्य्-आदीनि । असु-विगमे ’पि विवशा अपि गृणन्त्य् उच्चारयन्ति केवलम् । शमलं पापम् । अपावृतं निरस्तावरणम् । ऋतं ब्रह्म । सहसा सद्य एव प्राप्नुवन्ति । जीवन्-मुक्ता भवन्तीत्य् अर्थः ॥४२६॥

षष्ठे [भा।पु। ६.३.२४]—

एतावतालम् अघ-निर्हरणाय पुंसां
सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् ।
विक्रुश्य पुत्रम् अघवान् यद् अजामिलो’पि
नारायणेति म्रियमाण इयाय मुक्तिम् ॥४२७॥

भगवतो गुणानां कर्मणां च नाम्नां च । यद् वा, गुण-कर्म-सम्बन्धिनां विचित्राणां नाम्नां बहूनां सम्यक् कीर्तनं पुंसाम् अघ-निर्हरणाय पाप-क्षय-मात्राय भवतीति यत्, एतावता उक्तेन अलं प्रयोजनं नास्ति । कुतः ? अजामिलो मह-पातक्य् अपि नारायणेत्य् एव विक्रुश्य, न त्व् अवतार-सम्बन्धि-गुण-कर्म-माधुरी-वैशिष्ट्यं नाम-विशेषं सम्यक् कीर्तयित्वा । तत्र च पुत्रं विक्रुश्य, न तु हरिम् । अघवान् अशुचिर् अपि अकृत-प्रायश्चित्तो’पीति वा । म्रियमाणो’स्वस्थ-चित्तो’पि मुक्तिम् अवाप, न त्व् अघ-निर्हरण-मात्रम् । तदानीम् अजामिलस्य देहस्य वर्तमानत्वेन जीवन्मुक्ततैव सिद्धा । अतो नामाभासेनापि यथा-कथञ्चिज् जातेन मुक्तिर् अपि स्यात् । किम् उत पाप-क्षय इति भावः ॥४२७॥

श्री-वैकुण्ठ-लोक-प्रापकत्वम्

उक्तं च लैङ्गे श्री-नारदं प्रति श्री-शिवेन—

व्रजंस् तिष्ठन् स्वपन्न् अश्नन् श्वसन् वाक्य-प्रपूरणे । नाम-सङ्कीर्तनं विष्णोर् हेलया कलि-मर्दनम् । कृत्वा स्वरूपतां याति भक्ति-युक्तं परं व्रजेत् ॥४२८॥

हेलयापि कृत्वा स्वरूपतां ब्रह्मत्वं प्राप्नोति मुक्तो भवतीत्यर्थः । भक्तियुक्तस्तु सन् नाम-सङ्कीर्तनं कृत्वा पर परमेश्वरं श्रीवैकुण्ठनाथं यद्वा उत्कृष्टापदं श्रीवैकुण्ठलोकं व्रजेत् ॥४२८॥

नारदीये श्री-ब्रह्मणा—

ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण रजस्वलाम् । अश्नाति सुरया पक्वं मरणे हरिम् उच्चरन् ॥४२९॥ अभक्ष्यागम्ययोर् जातं विहायाघौघ-सञ्चयम् । प्रयाति विष्णु-सालोक्यं विमुक्तो भव-बन्धनैः ॥४३०॥

मरणेऽपि भवबन्धनैः दुष्परिहारसंसारदुःखर्विशेषेण मुक्तः सन् ॥४२९-४३०॥

बृहन्-नारदीये [१.११.१०१] शुक्रं प्रति श्री-बलिना—

जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् । विष्णोर् लोकम् अवाप्नोति पुनर् आवृत्ति-दुर्लभम् ॥४३१॥

पुनरावृत्तिदुर्लभमपुनरावृत्तिकमित्यर्थः ॥४३१॥

पाद्मे—

यत्र तत्र स्थितो वापि कृष्ण कृष्णेति कीर्तयेत् । सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम् ॥४३२॥

तत्रैव वैशाख-माहात्म्ये अम्बरीषं प्रति नारदेन—

तद् एव पुण्यं परमं पवित्रं गोविन्द-गेहे गमनाय पत्रम् । तद् एव लोके सुकृतैक-सत्रं यद् उच्यते केशव-नाम-मात्रम् ॥४३३॥

गोविन्दगेहे श्रीवैकुण्ठलोके गमनार्थं पत्रं वाहनं सहायमित्यर्थः सुकृतस्य एकं सत्रं स्थानम् ॥४३३॥

ब्रह्म-वैवर्ते—

एवं सङ्ग्रहणी-पुत्राभिधान-व्याजतो हरिम् । समुच्चार्यान्त-काले’गाद् धाम तत् परमं हरेः ॥४३४॥

एवमुक्तप्रकारेणेति तत्रापि श्रीभागवतवदजामिलोपाख्यानस्योपसहारे प्रोक्तत्वात् । सग्रहणी कामक्षोमेण सङ्गृहीता वेश्या तस्यां यो नारायणसञ्ज्ञः पुत्रः तस्याभिधानमाह्वानं तद्व्याजेन अन्तकालेऽपि तत् अनिर्वचनीयम् ॥४३४॥

नारायणम् इति व्याजाद् उच्चार्य कलुषाश्रयः । अजामिलो’प्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥४३५॥

कलुषाणां सर्वपापानामाश्रयोऽपि ॥४३५॥

षष्ठ-स्कन्धे [भा।पु। ६.२.४९]—

म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् ।
अजामिलो’प्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥४३६॥

धाम हरेः ॥४३६॥

वामने—

ये कीर्तयन्ति वरदं वर-पद्मनाभं
शङ्खाब्ज-चक्र-शर-चाप-गदासि-हस्तम् ।
पद्मालया-वदन-पङ्कज-षट्-पदाक्षं
नूनं प्रयान्ति सदनं मधु-घातिनस् ते ॥४३७॥

आङ्गिरस-पुराणे—

वासुदेवेति मनुज उच्चार्य भव-भीतितः । तन्-मुक्तः पदम् आप्नोति विष्णोर् एव न संशयः ॥४३८॥

तत् नाम धामविशेषणं वा ॥४३८॥

नन्दि-पुराणे—

सर्वदा सर्व-कालेषु ये’पि कुर्वन्ति पातकम् । नाम-सङ्कीर्तनं कृत्वा यान्ति विष्णोः परं पदम् ॥४३९॥

सर्वदा सर्वावस्थायां सर्वत्रेति वा पाठः परं वैकुण्ठलोकम् ॥४३९॥

विशेषतः कलौ, द्वादश-स्कन्धे [भा।पु। १२.३.५१]—

कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः ।
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥४४०॥

न व्याख्यातम् ।

यथा गारुडे—

यद् इच्छसि परं ज्ञानं ज्ञानाद् यत् परमं पदम् । तद्-आदरेण राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥४४१॥

परम्—उत्कृष्टं भगवद्भक्तिमाहात्म्यादिविषयकं ज्ञानम् ॥४४१॥

श्री-भगवत्-प्रीणनत्वम्

वाराहे—

वासुदेवस्य सङ्कीर्त्या सुरापो व्याधितो’पि वा । मुक्तो जायेत नियतं महा-विष्णुः प्रसीदति ॥४४२॥

व्याधितो रोगी ॥४४२॥

बृहन्-नारदीये [१.३४.२३]—

नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु । करोति सततं विप्रास् तस्य प्रीतो ह्य् अधोक्षजः ॥४४३॥

विष्णु-धर्मोत्तरे—

नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु । यः करोति महाभाग तस्य तुष्यति केशवः ॥४४४॥

क्षुत्तडादिष्वपि यः करोति यद्यपि क्षुत्तृडादिभिर्वैवल्ये सति नामसङ्कीर्तनमत्यन्ताभ्यासबलादेव जायते अतस्तत्र तस्य प्राशस्त्यं सदा नामपरत्वं चोक्तं स्यात् तथापि विवशत्वमात्रविवक्षया क्षुत्तृडादिष्वित्युक्तमिति ज्ञेयम् एवमन्यत्राप्यूह्यम् ॥४४४॥

अथ श्री-भगवद्-वशीकारित्वम्

विष्णु-रहस्ये—

यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि । फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात् ॥४४५॥

आदि-पुराणे**—**

गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतो’हं तस्य चार्जुन ॥४४६॥ गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इति ब्रवीमि ते सत्यं क्रीतो’हं तस्य चार्जुन ॥४४७॥ इति ।

दूरवासिनं दूरे वसन्तमपि अतः साक्षादिव सम्बोधनं न घटते । तथापि हे गोविन्देति चुक्रोश आकारयामास यदेतत् मम ऋणं प्रवृद्धं तस्याः परमवश्योऽस्मीत्यर्थः परमार्त्या कीर्तनात् । अतः हृदयान्नापसर्पति सदा तदेव विचारयामीत्यर्थः । तेषां तैर्जनार्दनोऽहं जनैर्जीवैः सर्वैः सेवितुमर्द्यते याच्यते न तु प्राप्यते तादृशोऽप्यहं परिक्रीतः सर्वतोभावेन वशीकृतोऽहम् ॥४४५-४४७॥

एवं च श्रुत्वा च मम नामानीत्य् आदि ॥४४८॥

विष्णु-धर्मे प्रह्लादेन—

जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् ॥४४९॥

तेन जितं भगवान् वशीकृत इत्यर्थः । मुहुरुक्तिर्भक्तिविशेषोदयात् ॥४४९॥

स्वतः परम-पुरुषार्थत्वम्

स्कान्दे काशी-खण्डे, पाद्मे च वैशाख-माहात्म्ये—

इदम् एव हि माङ्गल्यम् एतद् एव धनार्जनम् । जीवितस्य फलं चैतद् यद् दामोदर-कीर्तनम् ॥४५०॥

माङ्गल्यं मङ्गलसमूहः सर्वमङ्गलकर्मफलं वा धनस्य पुरुषार्थत्वेन धनार्जनस्यापि पुरुषार्थतया तत्स्वरूपस्य नामकीर्तनस्यापि स्वतः परमपुरुषार्थत्वं सिद्धमेव । यद्वा प्रेमलक्षणं धनमत्र ज्ञेयम् ॥४५०॥

प्रभास-खण्डे—

मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥४५१॥

एतत् कृष्णनाम कृष्णेति नाम कृष्णस्य नामेति वा मधुरादपि मधुरम् चित् चैतन्यं ब्रह्म तत्स्वरूपमिति परमफलरूपतोक्ता । अतो यथाकथञ्चित् सकृत् तत्कीर्तनादप्यानुषङ्गिकत्वेन सर्वस्यापि मोक्षो भवेदेवेत्याह—सकृदपीति । परीत्यर्द्धे अव्यक्तमसम्पूर्णमुच्चारितमपीत्यर्थः । हेलयापि वा हे भृगुवर ॥४५१॥

विष्णु-रहस्ये**—**

एतद् एव परं ज्ञानम् एतद् एव परं तपः । एतद् एव परं तत्त्वं वासुदेवस्य कीर्तनम् ॥४५२॥

तपश्वित्तैकाचग्रह्यं समाधिरित्यर्थः । तत्त्वं वस्तु एवं साध्यानां परमज्ञानादीनां तादात्म्योक्त्या नामसङ्कीर्तनस्य परमफलता सिद्धैव ॥४५२॥

वैष्णव-चिन्तामणौ श्री-शिवोमा-संवादे—

अघच्छित्-स्मरणं विष्णोर् बह्व्-आयासेन साध्यते । ओष्ठ-स्पन्दन-मात्रेण कीर्तनं तु ततो वरम् ॥४५३ ॥

इत्थं नामकीर्तनस्य परमसाधनत्वं साध्यत्वञ्च लिखित्वा इदानीं स्वतः परमपुरुषार्थरूपाणां श्रवण कीर्तनस्मरणादि-भक्तिप्रकाराणामपि मध्ये श्रीमन्नामकीर्तनस्य श्रेष्ठ्यं लिखन् तत्रादौ तेष्वेव परमश्रेष्ठत्वेन श्रीमुक्ताफलादिग्रन्थकाराणां सम्मतात् स्मरणादपि श्रेष्ठ्यं लिखति—अधेति । विष्णोः स्मरणमघं संसारदुःखं तन्मूलं पापं वा छिनत्तीति अघच्छिद्भवत्येव किन्तु बहुलायासेनैव तत् साध्यते मनसो दुर्निग्रहत्वेन स्मरणस्य दुष्करत्वान् । कीर्तनन्तु ओष्ठस्पन्दनमात्रेणाघच्छित अतस्ततस्तस्मात् स्मरणात् कीर्तनं वरं श्रेष्ठम् । यद्वा किञ्च ततः स्मरणान् कीर्तनं वरं सर्वथा श्रेष्ठमेव मनःश्रवणवागिन्द्रियादिव्याप्य-सुखविशेषस्यापादनात् । तच्च श्रीभागवतामृतोत्तरखण्डे विवृतमस्ति ॥४५३॥

अन्यत्र च—

येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः । तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥४५४॥

अधुना स्मरणादीनामपि पूजाङ्गत्वात् पूजायाः श्रेष्ठ्यमभिप्रेत्य तस्या अपि सकाशान्नामसङ्कीर्तनस्य श्रेष्ठ्यं लिखति—येनेति । समर्चितः सम्यक् पूजितः ॥४५४॥

विशेषतः कलौ, रहस्ये—

यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि । फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात् ॥४५५॥

कृते सत्ययुगे इति तदानीं विशुद्धाशेषद्रव्यादि-सामग्रीसंसिद्धेः । तत्र च क्रतुशतैरित्यर्थः । यद्वा ऋतुः कर्म उपचारशतैरित्यर्थः । तत्रापि भक्त्या अभ्यर्च्य अभितः पूजयित्वा यद्वा अभ्यर्च्येति पूजायां यत् फलं प्राप्नोतीत्यर्थः । अनन्यया भक्त्या श्रवण-स्मरण-भक्तिप्रकारेण च यत् यज्ञशतैरपि यत् तद्गोविन्देतिकीर्तनात् अविकलं सम्पूर्णं सकलं प्राप्नोतीत्यर्थः । तत्र च कलावित्यत्रेदं निगूढतत्त्वं स्थानेष्विति श्रीमथुरादिस्थानवत् कालेषु च मध्ये यथा श्रीकार्त्तिकाद स्त्रयो मासाः यथा च तिथिषु एकादश्यादयः तथा युगेषु मध्ये कलियुगं श्रीभगवत्प्रियं तत्र च यथा कार्त्तिकादिमासेषु एकादश्यादिषु च स्वल्पमपि कृतं कर्म बहुलफलं भवति तथा कलावपि । एवमन्ययुगापेक्षया तस्य श्रेष्ठत्वेन तत्र कृतकर्मणां विशेषतो भगवद्भजनस्य श्रैष्ठ्यं युक्तमेवेति । अनेनैवाभिप्रायेणोक्तं श्रीविष्णुपुराणे श्रीव्यासदेवेन कलिर्धन्यः इति द्वादशस्कन्धे च श्रीव्यासनन्दनेन गुणज्ञाः इत्यादि प्रथमस्कन्धे श्रीसूतेन (१८.७) कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत् इति एकादशस्कन्धे (५.३८) च श्रीकरभाजनेन—कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ इत्यादि । अतएवास्मिन् युगश्रेष्ठ निजैश्वर्यविशेषप्रकट-नामरूपो भगवतो मुख्यावतारः अतोऽस्य कलौ माहात्म्यविशेषो युक्त एव । ये च तत्र पापोपद्रवादिका विविधधधर्मादि-विघ्ना श्रूयन्ते येभ्यो बहिर्दृष्ट्या कलेर्निन्दादिकं कथ्यते ते तु श्रीमथुरादि-पुरपालकाः श्रीरुद्रगणादयो दैत्यराक्षसा अपि यथा श्रूयन्ते तथैव ज्ञेयाः । इत्थमेव माहात्म्यविशेषोऽपि सुसिध्येत् सर्वञ्चाविरुद्धं स्यादिति दिक् ॥४५५॥

विष्णु-पुराणे [वि।पु। ६.२.१७]—

ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे’र्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥४५६॥

कृतयुगे परमशुद्धचित्ततया ध्यानस्य त्रेतायाञ्च सर्ववेदप्रवृत्त्या यज्ञानां द्वापरे च श्रीमूर्तिपूजाविशेषप्रवृत्त्याऽर्चनस्य श्रेष्ठ्यमपेक्ष्य तत्तत्र पृथक् पृथगुक्तम् । एवमग्रेऽपि त्रेयम् । तच्च सर्वं समुचितं कलौ श्रीकेशवनाम-कीर्तनान्तर्भूतमेवेति सुखमाप्नोतीत्यर्थः । सङ्कीर्त्य सम्यक् उच्चैरुच्चार्येति सद्यः स्वपरानन्दविशेषार्थमुक्तं तेन च माहात्म्यविशेष एव सम्पद्यते ॥४५६॥

द्वादश-स्कन्धे [भा।पु। १२.३.५२]

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥४५७॥

विष्णुं ध्यायत इति विष्णुध्यान कर्तुर्जनस्य यत् फलं स्यादिति कालत्रयसम्बन्ध्यशेष-सत्कर्मफलमभिप्रेतं । एवमग्रेऽपि । एतेन श्रीविष्णुपुरण-वचनादस्य विशेषो द्रष्टव्यः पुराणगुह्यत्वात् । परिचर्यायां पूजायां वर्तमानस्य जनस्य हरेर्भगवतः हरीत्यक्षरद्वयस्य वा कीर्तनमात्रेण तत् सरं कलौ भवतीति ॥४५७॥

एकादशे [भा।पु। ११.५.३२]—

कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥४५८॥

त्विषा कान्त्या अकृष्णम् इन्द्रनील-मणिवद् उज्ज्वलम् इति रक्षतां व्यावर्तयति । यद् वा, त्विषा विशिष्टं कृष्णम् इति श्री-कृष्णावतारस्य तत्र प्राधान्यं दर्शयति । अङ्गानि हृदयादीनि । उपाङ्गानि कौस्तुभादीनि । अस्त्राणि सुदर्शनादीनि । पार्षदाः सुनन्दादयः, तत्-सहितम् । एकान्ति-पक्षे, उपाङ्गानि वेण्व्-आदीनि । अस्त्राणि षष्ठ्य्-आदीनि, पार्षदाः श्रीदामादय इति पूर्ववद् विज्ञेयम् । यज्ञैः अर्चनैः । सङ्कीर्तनं नामोच्चारणं गीतं स्तुतिश् च नाम-मयी, तत्-प्रधानैः । सुमेधसः विवेकिनः । एवम् अपि कलौ पूजातः श्रीमन्-नाम-सङ्कीर्तनस्य माहात्म्यम् एव सिद्धम् । द्रव्य-शुद्ध्य्-आदेर् असम्भवात् । लिखित-न्यायेन माहात्म्य-विशेषाच् चेति दिक् ॥४५८॥

स्कान्दे च—

महा-भागवता नित्यं कलौ कुर्वन्ति कीर्तनम् ॥४५९॥

बृहन्-नारदीये [१.४०.११५] नारदोक्तं—

हरेर् नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥४६०॥

अतएवोक्तम्—

सकृद् उच्चारयन्त्य् एव हरेर् नाम चिद्-आत्मकम् । फलं नास्य क्षमो वक्तुं सहस्र-वदनो विधिः ॥४६१॥

उपसंहरन् फलितं लिखति—सकृदिति त्रिभिः सहस्रवदनः शेषः विधिश्च ब्रह्मा यद्वा सहस्रवदनः सन्नपि विधिः ॥४६१॥

पाद्मोत्तर-खण्डे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे श्री-शिवेन—

र-कारादीनि नामानि शृण्वतो देवि जायते । प्रीतिर् मे मनसो नित्यं राम-नाम-विशङ्कया ॥४६२॥

रामनाम्नो विशङ्क्या आशङ्क्या नित्यं मम मनसः प्रीतरानन्दो जायते सम्पूर्णनामकीर्तनस्य तु माहात्म्यं किं वक्तव्यमिति भावः ॥४६२॥

वैष्णव-चिन्तामणौ—

ईशो’हं सर्व-जगतां नाम्नां विष्णोर् हि जापकः । सत्यं सत्यं वदाम्य् एष हरेर् नाम गतिर् नॄणाम् ॥४६३॥

गतिः शरणं फलं वा ममापि सेव्यत्वात् ॥४६३॥

आदि-पुराणे च श्री-कृष्णार्जुन-संवादे—

श्रद्धया हेलया नाम रटन्ति मम जन्तवः । तेषां नाम सदा पार्थ वर्तते हृदये मम ॥४६४॥ न नाम सदृशं ज्ञानं न नाम सदृशं व्रतम् । न नाम सदृशं ध्यानं न नाम सदृशं फलम् ॥४६५॥ न नाम सदृशस् त्यागो न नाम सदृशः शमः । न नाम सदृशं पुण्यं न नाम सदृशी गतिः ॥४६६॥

किं च—

नामैव परमा मुक्तिर् नामैव परमा गतिः । नामैव परमा शान्तिर् नामैव परमा स्थितिः ॥४६७॥ नामैव परमा भक्तिर् नामैव परमा मतिः । नामैव परमा प्रीतिर् नामैव परमा स्मृतिः ॥४६८॥ नामैव कारणं जन्तोर् नामैव प्रभुर् एव च । नामैव परमाराध्यो नामैव परमो गुरुः ॥४६९॥

फलं स्वर्गादि गतिराश्रयः स्थितिर्निष्ठा परमाराध्यो जनो नामैव ॥४६५-४६९॥

किं च—

नाम-युक्तान् जनान् दृष्ट्वा स्निग्धो भवति यो नरः । स याति परमं स्थानं विष्णुना सह मोदते ॥४७०॥

विष्णुना मयैव ॥४७०॥

तस्मान् नामानि कौन्तेय भजस्व दृढ-मानसः । नाम-युक्तः प्रियो’स्माकं नाम-युक्तो भवार्जुन ॥४७१॥

अथ श्री-भगवन्-नाम-जपस्य स्मरणस्य च ।
श्रवणस्यापि माहात्म्यम् ईषद् भेदाद् विलिख्यते ॥४७२॥

एवं नाम्नां कीर्तनमाहात्म्यं लिखित्वा जपादिमाहात्म्यलिखनमपि प्रतिजानीते—अथेति । ईषद्भेदात् कीर्तनेन सह जपादेरल्पभेदाद्धेतोर्विशेषेण लिख्यते । तत्राग्रे लेख्यस्य वाचिकोपांश—मानसिकभेदेन त्रिविधस्य जपस्य मध्ये ईषदोष्ठचालनेन शनैरुच्चारणस्पोपांशुजपोऽत्र ग्राह्यः वाचिकस्य कीर्तनान्तर्गतत्वात् मानसिकस्य च स्मरणात्मकत्वात् । क्वचिच्च नाम्नः स्मरणं शनैः शनैरीषदुच्चारणं ज्ञेयम् । तच्चाग्रे जन्माष्टमीव्रतविध्यन्तरकथने हरिं स्मरन् इत्यादिना व्यक्तं भावि ॥४७२॥

अथ श्रीमन्-नाम-जप-माहात्म्यम्

विष्णु-रहस्ये श्री-भगवद्-उक्तौ—

सत्यं ब्रवीमि मनुजाः स्वयं ऊर्द्वस्वयं ऊर्ध्व-बाहुर् यो मां मुकुन्द नरसिंह जनार्दनेति । जीवन् जपत्य् अनुदिनं मरणे ऋणीव पाषाण-काष्ठ-सदृशाय ददाम्य् अभीष्टम् ॥४७३॥

ऋणीवेति—हा हन्त अमुकस्य ऋणं धारयामि न हि शोधितवानस्मि इति यथा नित्यमृणदातुर्नाम जीवनसमये मरणेश्च जपति तथा जीवन् सन् मरणे म्रियमाणश्च सन् यो जपति तस्मै पाषाणकाष्ठसदृशाय परमनीरसहृद्यायापि ज्ञानादिराहित्येनाचेतनतुल्यायापि वा अभीष्टं तस्य मम वा परमप्रियं वस्तु ददामि यद्वा मरणे देहान्ते सति ददामि ऋणी तस्य वश्यतां प्राप्तः सन् । इवेति लोकोक्तरीत्या । यद्वा सकृन्नामैककीर्तननापि पाषाणादि-सदृशायाभीष्टं ददामि योऽहं सोऽहं नित्यं जीवने मरणे च बहुविधनामजपेन ऋणीव भवामि । अन्यत् समानम् ॥४७३॥

काशी-काण्डे अग्नि-बिन्दु-स्तुतौ—

नारायणेति नरकार्णवतारणेति दामोदरेति मधुहेति चतुर्भुजेति । विश्वम्भरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतान्त-भीतिः ॥४७४॥

नारायणेत्यादि-जस्तां जनानां जन्म क्वास्ति? अपि तु न कुत्रापि मुक्तो भवतीत्यर्थः । अतएव कृतान्ताद्यमात् कालाद् वा भीति क्व? अपि तु न कुत्राप्यस्तीत्यर्थः । अत्र विगतं रजो यस्मादिति तत्सम्बोधनं——हे विरजः मन्धिरार्षः रजशब्दो वाऽदन्तः ॥४७४॥

पाद्मे वैशाख-माहात्म्ये [५.९६.८३] यम-ब्राह्मण-संवादे—

वासुदेव-जपासक्तान् अपि पाप-कृतो जनान् । नोपसर्पन्ति तान् विप्र यमदूताश् च दारुणाः ॥४७५॥

विघ्नाः कामादयः त्रितापा वा ॥४७५॥

बृहद्-विष्णु-पुराणे—

क्व नाक-पृष्ठ-गमनं पुनर्-आवृत्ति-लक्षणम् । क्व जपो वासुदेवेति मुक्ति-बीजम् अनुत्तमम् ॥४७६॥

क्व द्वयस्य विरोधोक्ततया भगवन्नामजपस्य स्वर्गप्राप्तिरतितुच्छत्वात् फलं न स्यादित्यभिप्रेतम् । तर्हि किन्तस्य फलं तदाह—मुक्तेर्बीजं कारणमनुत्तमं परमोत्कृष्टमिति । योगाभ्यासादेरपि तस्मान्निकृष्टत्वं सूचितम् ॥४७६॥

श्रीमन्-नाम-स्मरण-माहात्म्यम्

इतिहासोत्तमे—

स्वप्ने’पि नाम-स्मृतिर् आदि-पुंसः क्षयं करोत्य् आहित-पाप-राशेः । प्रयत्नतः किं पुनर् आदि-पुंसः प्रकीर्तिते नाग्निर् जनार्दनस्य ॥४७७॥

आहितस्य सञ्चितस्य पापराशेः क्षयं करोति प्रयत्नतो नाम्नि सङ्कीर्तिते सति पापराशेः क्षयः स्यादिति किं पुनर्वक्तव्यमित्यर्थः ॥४७७॥

लघु-भागवते—

ते स-भाग्या मनुष्येषु कृतार्था नृप निश्चितम् । स्मरन्ति ये स्मारयन्ति हरेर् नाम कलौ युगे ॥४७८॥

पाद्मे देवहूति-स्तुतौ—

प्रयाणे चाप्रयाणे च यन्-नाम-स्मरणान् नॄणाम् । सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥४७९॥

प्रयाणे मरणे अप्रयाणे जीवने च ॥४७९॥

तत्रैवोत्तर-खण्डे—

यन्-नाम-स्मरणाद् एव पापिनाम् अपि सत्वरम् । मुक्तिर् भवति जातूनां ब्रह्मादीनां सुदुर्लभा ॥४८०॥

ब्रह्म-वैवर्ते—

यद्-अनुध्यानदावाग्नि-दग्ध-कर्म-तृणः पुमान् । विशुद्धः पश्यति व्यक्तम् अव्यक्तम् अपि केशवम् ॥४८१॥

यस्य नाम्नोऽनुध्यानं चिन्तनमेव दावाग्निस्तेन कृत्वा दग्धानि कर्माण्येव तृणानि शीघ्रसमूलसुखदह्यत्वात् येन सः । तन्नाम अस्य साक्षान्निरन्तर-दुःखमनुभवतो भवाम्बुधौ पतितस्य जीवस्य हस्तावलम्बनदानाय समूद्धरणाय भवतीति द्वाभ्यामन्वयः । व्यक्ताव्यक्तत्वञ्च एकस्यैव सगुण-निर्गुणत्वादिना तच्च श्रीभागवतामृतोत्तरखण्डे विवृतमेवास्ति । अतो हरेरन्यः प्रवीणः श्रेष्ठा नास्ति स एव सर्वश्रेष्ठ इत्यर्थः ॥४८१॥

तद् अस्य नाम जीवस्य पतितस्य भवाम्बुधौ । हस्तावलम्ब-दानाय प्रवीणो नापरो हरेः ॥४८२॥

जावालि-संहितायाम्—

हरेर् नाम परं जप्यं ध्येयं गेयं निरन्तरम् । कीर्तनीयं च बहुधा निर्वृतीर् बहुधेच्छता ॥४८३॥

अथ श्री-भगवन्-नाम-माहात्म्यम्

बृहन्-नारदीये श्री-नारदोक्तौ—

यन्-नाम-श्रवणेनापि महा-पातकिनो’पि ये । पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि खिन्न-धीः ॥४८४॥

इतिहासोत्तमे—

श्रुतं सङ्कीर्तितं वापि हरेर् आश्चर्य-कर्मणः । दहत्य् एनांसि सर्वाणि प्रसङ्गात् किम् उ भक्तितः ॥४८५॥

षष्ठ-स्कन्धे [भा।पु। ६.१६.४४] चित्रकेतूक्तौ—

**न हि भगवन्न् अघटितम् इदं
त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः ।
यन्-नाम सकृच् छ्रवणात्
पुक्कशो’पि विमुच्यते साक्षात् ॥४८६॥ **इति ।

साक्षात्साक्षात्1 स्वयम् एव विमुक्तो भवतिभवति, इत्य् अनन्य-साधनतोक्ता । यद् वा, साक्षाद्यद् वा, साक्षाद् इति वर्तमान-तच्-छरीर एवेत्य् अर्थः । एतच् च प्रारब्ध-विनाशित्वे पूर्वम्पूर्वं लिखितार्थम् एव ॥४८६॥

श्रीमन्-नाम्नां च सर्वेषां माहात्म्येषु समेष्व् अपि ।
कृष्णस्यैवावतारेषु विशेषः को’पि कस्यचित् ॥४८७॥

एवं सामान्यतो नाम्नां सर्वेषामपि माहात्म्यं लिखित्वा इदानीं विशेषतो लिखन् तत्र माहात्म्यस्य साम्येऽपि किञ्चिद्विशेषं दृष्टान्तेन साधयति-श्रीमदिति श्रीमतो भगवतः श्रीमतां वा अशेषशोभासम्पत्त्यतिशययुक्तानां नाम्नां कस्यचिन्नाम्नः कोऽपि माहात्म्यविशेषोऽस्ति । ननु चिन्तामणेरिव भगवन्नाम्नां महिमा सर्वोऽपि सम एव उचित इत्याशङ्क्य दृष्टान्तेन साम्येऽपि किञ्चिद्विशेषं दर्शयति—कृष्णस्यैवेति । यथा श्रीनृसिंह-रघुनाथादीनां महावताराणां सर्वेषां भगवत्तया साम्येऽपि कृष्णस्तु भगवान् स्वयम् (श्रीभा। १.३.२८) इत्युक्त्या कृष्णस्यावतारत्वेऽपि साक्षाद्भगवत्त्वेन कश्चिद्विशेषो दर्शितः तद्वदित्यर्थः । एतच्च श्रीधरस्वामिपादैर्व्याख्यातम् श्रीभागवतामृतोत्तरखण्डे विशेषतो निरूपितमस्त्येव । पूर्वं बहुविधकामोपहतचित्तान् प्रति तत्तत् कामसिद्ध्यर्थं तत्तन्नाम-विशेषमाहात्म्यं लिखितमत्र च सर्वफलसिद्धये नामविशेष-माहात्म्यमिति भेदो द्रष्टव्यः ॥४८७॥

अथ विशेषतः श्री-कृष्णावतार-माहात्म्यम्

ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-माहात्म्ये—

सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥४८८॥

कृष्णस्य कृष्णावतारसम्बन्धि नामैवमपि तत्फलम् ॥४८८॥

इदं किरीटी सञ्जप्य जयी पाशुपतास्त्र-भाक् । कृष्णस्य प्राण-भूतः सन् कृष्णं सारथिम् आप्तवान् ॥४८९॥ किम् इदं बहुना शंसन् मानुषानन्द-निर्भरः । ब्रह्मानन्दम् अवाप्यान्ते कृष्ण-सायुज्यम् आप्नुयात् ॥४९०॥

इदं श्रीकृष्णावतारसम्बन्धि नाम बहुना किम् इदं श्रीकृष्णावतार नाम । श्रीकृष्णेन सायुज्यं नित्यसंयोगम् ॥४९०॥

वाराहे च श्री-माथुर-माहात्म्ये—

तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये । पुण्यानि च पवित्राणि संसार-च्छेदनानि च ॥४९१॥

तत्रैव विशेषतः श्री-कृष्णेति नाम-माहात्म्यम्

द्वारका-माहात्म्ये प्रह्लाद-बलि-संवादे—

अतीताः पुरुषाः सप्त भविषाश् च चतुर्दश । नरस् तारयते सर्वान् कलौ कृष्णेति कीर्तनात् ॥४९२॥ कृष्ण कृष्णेति कृष्णेति स्वपन् जाग्रद् व्रजंस् तथा । यो जल्पति कलौ नित्यं कृष्ण-रूपी भवेद् धि सः ॥४९३॥

ब्रह्म-वैवर्ते—

हनन् ब्राह्मणम् अत्यन्तं कामतो वा सुरां पिबन् । कृष्ण कृष्णेत्य् अहो-रात्रं सङ्कीर्त्य शुचिताम् इयात् ॥४९४॥

गुह्यानीति माहात्म्यविशेषो दर्शितः आनुषङ्गिव फलञ्चाह—पुण्यानि मङ्गलावहानि पवित्राणि परमशोधकानि संसारच्छेदकानि मुक्तिदानीति । यद्वा गुह्यत्वमेवाह—पुण्यस्वरूपाणि पवित्ररूपाणि च तथा सम्यक् सारस्य म क्षस्य छेदनानि मुमुक्षानिवर्तनेनैव तदेव निष्ठतापादकानीत्यर्थः । तत्र च हनन् घ्नन्निति वर्तमाननिर्देशेनानिवृत्तिं बोधयति । एवमन्यत्राप्यूह्यम् । अहोरात्रमेकमेव सङ्कीर्त्य इति सङ्कीर्तनस्य बाहुल्यमात्रमभिप्रेतम् । यद्वा अहोरात्रं सुरां पिबन्नपीति सम्बन्धः ॥४९४॥

विष्णु-धर्मे—

कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥४९५॥

यस्य वाचि प्रवर्तते श्रद्धादिकमन्तरेण साङ्केत्यादिना कथञ्चिदपि जिह्वायां स्वयमेवोदेतीत्यर्थः । तस्य सद्यो भस्मीभवन्ति । न केवलमेतावदेव किन्तु परमशुभावहं परमसुखात्मकं चेत्याह—मङ्गलमिति ॥४९५॥

नारसिंहे श्री-भगवद्-उक्तौ—

कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकाद् उद्धराम्य् अहम् ॥४९६॥

गारुडे पाद्मे च—

संसार-सर्प-सन्दष्टं नष्ट-चेष्टैक-भेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥४९७॥

कृष्णेति नामैकं वा सकृन् प्रत्यहं स्मरति जलमेकार्णवोदकं भित्त्वा पद्मं भूपद्मं पृथिवीमण्डलं यथा उद्धरामि यद्वा जलं भित्त्वा यथा पद्ममुद्भवति तथा नरकनिमग्नमप्युद्धरामि । तत्र यथा पद्मस्य जलसम्पर्को न स्यादेव तस्य पुनर्नरकसम्बन्धो नैवेति मोक्षोऽभिप्रेतः प्रारब्धकर्मनाशश्च दर्शितः । ससार एव सर्पस्तेन सम्यक् दष्टस्य अतएव नष्टचेष्टस्य एकमद्वितीयं भेषजं तन्निवर्तकमित्यर्थः । वैष्णवमिति गारुडादिमन्त्रतो विशिष्टतोक्ता ॥४९६-४९७॥

प्रभास-पुराणे—

नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप । प्रायश्चित्तम् अशेषाणां पापानां मोचकं परम् ॥४९८॥

परं मोचकं परममुक्तिकरमित्यर्थः ॥४९८॥

पाद्मे—

यत्र यत्र स्थितो वापि कृष्ण-कृष्णेति कीर्तयेत् । सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम् ॥४९९॥

परमां गतिं वैकुण्ठलोकमित्यर्थः ॥४९९॥

विष्णु-धर्मोत्तरे श्री-कृष्ण-सहस्र-नाम-स्तोत्रे—

बल्लवी-कान्त किं तैस् तैर् उपायैः कृष्ण-नाम ते । किन्तु जिह्वाग्रगं जाग्रन् निरुन्धे हि महा-भयम् ॥५००॥

तैस्तैः कर्मज्ञानादिभिः श्रवणादिभक्तिप्रकारैश्च किम् जाग्रत् सदा प्रकाशमानं जिह्वाग्रगमपि सत् महाभयं संसारे निरुन्धे व्यावर्तयति यद्वा महत् अभयं मोक्षस्तमपि निरुन्धे ततोऽपि परमानन्दरसविशेषमयत्वान् ॥५००॥

तत्रैवान्यत्र—

सत्यं ब्रवीमि ते शम्भो गोपनीयम् इदं मम । मृत्यु-सञ्जीवनीं नाम कृष्णाख्याम् अवधारय ॥५०१॥

मृत्युसञ्जीवनीं मृत्युतोऽपि सम्यक् जीवयति या विद्या ओषधिर्वा ताम् । मृतसञ्जीवनीति पाठो वा ॥५०१॥

भारत-विभागे—

कृष्णः कृष्णः कृष्ण इत्य् अन्त-काले जल्पन् जन्तुर् जीवितं यो जहाति । आद्यः शब्दः कल्पते तस्य मुक्त्यै व्रीडा-नम्रौ तिष्ठतो’न्यावृणस्थौ ॥५०२॥

अन्तकाले मरणसमयेऽपि आद्यः प्रागुक्तः शब्दः कृष्णनाम अन्यौ द्वौ शब्दौ ऋणस्थौ ऋणिनौ सन्तौ तिष्ठतः तद्वश्यतया कृष्णकृष्णेति सदा तन्मुखादिषु प्रादुर्भवतीति भावः । नाम-नामिनोरभेदेन नाम्न ऋणस्थत्वात् नामिनोऽपि ऋणस्थतता भगवद्वशीकारित्वं ज्ञेयम् ॥५०२॥

अन्यत्रापि—

नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो’भिन्नत्वान् नाम-नामिनोः ॥५०३॥

कृष्णेति नाम चिन्तामणिर् इव चिन्तामणिः । सेवकस्य चिन्तितार्थ-प्रदत्वात् । कृष्ण-नाम्नः स्वरूपम् आह—चैतन्येत्य्-आदि-विशेषण-चतुष्केण । यद्यपि नाम-विशेषणत्वेन चैतन्य-रस-विग्रहादि-पदानां नपुंसकत्वम् उपयुज्यते, तथापि नाम-नामिनोर् अभेद-विवक्षया कृष्ण इत्य् अस्य विशेषणत्वेन पुंस्त्वं, यथा नारायणो नाम नरो नराणां प्रसिद्ध-चौरः कथितः पृथिव्याम् इत्य् आदि ॥५०३॥

अत एवोक्तम्—

तेभ्यो नमो’स्तु भव-वारिधि-जीर्ण-पङ्क-
सम्मग्न-मोक्षण-विचक्षण-पादुकेभ्यः ।
कृष्णेति वर्ण-युगलं श्रवणेन येषां
आनन्दथूर्भवति नर्तित-रोम-वृन्दः ॥५०४॥

एवं कृष्ण-नाम-माहात्म्य-विशेषं लिखित्वा अधुना तच्-छ्रवणानन्दितान् प्रणमन् तम् एव परिपोषयन् लिखति—तेभ्य इति । भव-वारिधेर् जीर्णे पुरातने पङ्क्ते सम्मग्नस्य मोक्षणे विचक्षणा अभिज्ञा पादुकापि येषां तेभ्यः ॥५०४॥

किं च द्वितीय-स्कन्धे [भा।पु। २.३.२४]—

तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥५०५॥

इत्थं परम-माहात्म्य-विशेषवतो भगवन्-नाम्नः श्रवणादिनाप्य् आनन्द-रहितान् प्रसङ्गान् निन्दति—तद् अश्मेति द्वाभ्याम् । अश्मवत् सारः स्थिरांशः काठिन्यं यस्य तत् । विक्रिया-लक्षणम्—अथेति । गात्र-रुहेषु रोमसु हर्ष उद्गमः ॥५०५॥

इतिहासोत्तमे च—

नाम्नि सङ्कीर्तिते विष्णोर् यस्य पुंसो न जायते ।
सरोम-पुलकं गात्रं स भवेत् कुलिशोपमः ॥५०६॥

कात्यायन-संहितायाम्—

नाम-सङ्कीर्तनाज् जातं पुण्यं नोपचयन्ति ये ।
नाना-व्याधि-समायुक्ताः शत-जन्मसु ते नराः ॥५०७॥
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥५०८॥

तेषु तेषु असङ्ख्येषु जन्मसु नाना-विध-व्याधि-युक्ता भवन्ति । मुहूर्तं क्षणं वापि वासुदेवं न कीर्तयेद् इति यत्, सैव हानिः पुरुषार्थ-क्षयः, तद् एव महच् छिद्रं, कर्म-साङ्गताया अन्तरायो वा । स एव मोहो’ज्ञानं, स एव च विभ्रमः भ्रान्ति-विशेषः, संसार-भ्रमणं मरणं वा ॥५०८॥

पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे—

अवमत्य च ये यान्ति भगवत्-कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥५०९॥

एवं नाम-सङ्कीर्तनस्य नित्यतां लिखित्वा नाम-कीर्तन-श्रवणानुमोदनादि-नित्यताम् अपि लिखति—अवमत्येति । ये भगवत्-कीर्तनम् अनादृत्यान्यतो यान्ति ॥५०९॥

श्रुतयः—

ओम् आस्य जानन्तो नाम चिद् विविक्तन्
महस् ते विष्णो सुमतिं भजामहे ॥५१०॥

चैतन्यदेवं तं वन्दे यस्य नाम-समाश्रयात् । प्राप्नुयादधिवारित्वं सर्वत्रानधिकार्ययि ॥ स्मृत्युक्तमेवार्थं श्रुतिभिः प्रमाणयन् लिखति—श्रुतयश्चेति । आस्य एतदित्यर्थः हे विष्णो एतन्नाम जानन्तः । यद्वा आ अस्येति पदद्वयम् अस्य प्रकटानन्ताद्भुतमाहात्म्यस्य तव नाम आ सम्यक् जानन्तः विचारयन्तः नामैव विविक्तन ब्रुवाणा नामेव भजामहे । तच्च कतमन् चित् किञ्चित् न तत्र नियम इत्यर्थः । अनेन सर्वस्यैव नाम्नः साम्यमभिप्रेतम् । यद्वा कीदृशम् चित्ज्ञानस्वरूपं महः सर्वप्रकाशकं तत एव सर्ववेदाद्याविर्भावात् । तथा चोक्तं श्रीब्रह्मणा नाममयाष्टादशाक्षरमन्त्रप्रसङ्गं तापनीयश्रुतौ (१.२८)—तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयत् इति । यद्वा महः परमानन्दम् एवं ब्रह्मस्वरूपमित्यर्थः । पुनश्च कीदृशम् सुमतिं सुष्ठु मन्यत इति तथा तत् सुज्ञेयं न चात्मस्वरूपादिवत् दुर्ज्ञेयं न चात्मस्वरूपादिवत् दुर्ज्ञेयमित्यर्थः । यद्वा मतिर्विद्या शोभनविद्यारूपम् एवं साध्यत्वं साधनत्वं चोक्तम् । अतस्तदेव भजनीयं भजामह इति ॥५१०॥

ओं तत् सत् ओं पदं देवस्य नमसा
व्यन्तः श्रवस्य् अवश्रव आपन्नम् ऋक्तम् ।
नामानि चिद् दधिरे यज्ञियन्ति
भद्रायान्ते रणयन्तः सन्दृष्टौ ॥५११॥

किञ्च देवस्य मायया क्रीडतोऽपि यद्वा परमपूज्यस्य तव पद्यते ज्ञायत इति पदं स्वरूपं पदारविन्दं वा प्रति नमसा नत्या व्यन्तः तन्निर्वचने विवादं कुर्वाणाः । यद्वा पदमेव नमस्कारद्वारा व्यन्तः सन्तन्वन्तः प्रकटयन्त इत्यर्थ । तदेव रणयन्तः अन्योऽन्यं कीर्तयन्तश्च । सन्दृष्टौ सम्यगवधारणे सति अन्ते पश्चात् यद्वा तन्निष्ठायाञ्च सत्यां भद्राय आत्मनः श्रेयसे यद्वा भद्रायेत्यस्यैव विवरणं सन्दृष्टाविति सम्यक् दर्शने निमित्ते त्वां साक्षाद्द्रष्टुमित्यर्थः । तव नामान्येव चित् चैतन्यरूपाणि दधिरे धृतवन्तः निश्चयेनाश्रितवन्त इत्यर्थः । कीदृशं पदम् अवश्रवे समस्तात् श्रूयमाणे श्रवसि कीर्तौ विषये आपन्नानां भक्तानां यशो गायतामित्यर्थः । मृक् मृजा परिशोधनं तां तनोतीति आपन्नमृक्तम् । यद्वा मार्ष्टि शुध्यतीति मृक् तस्य भावो मृवता आपन्नानां मृक्ता यस्मात् पुनः कीदृशम् तत् सत् परब्रह्मस्वरूपमित्यर्थः । यद्वा श्रवस्यवश्रव इति नामान्येव दधिर इत्यत्र हेतुः—नाम्नामेव माहात्म्यविशेषे श्रूयमाण सतीत्यर्थः ॥५११॥

**ओं तम् उ स्तोतारः पूर्वं यथाविद
ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद् विविक्तन्
महस् ते विष्णो सुमतिं भजामहे ॥५१२॥ **

इत्य् आद्या इति ।

ईदृशे नाम-माहात्म्ये श्रुति-स्मृति-विनिश्चिते ।
कल्पयन्त्य् अर्थ-वादं ये यान्ति घोर-यातनाम् ॥५१३॥

किञ्च उ विस्मये निर्द्धारे वा । त प्रसिद्धं भगवन्त श्रीकृष्ण स्तोलारः स्तूध्वमित्यर्थः । कथम् यथाविद यथा जानीथ तथैव न तत्स्तोत्रादिनियम इत्यर्थः । कथम्भूतम् पूर्वं पुरातनं न ताधूनावतीर्णत्वेन नूतनमित्यर्थः । एवमवतारित्वमुक्तम् । किञ्च ऋतस्य वेदस्य गर्भं तात्पर्यगोचरमित्यर्थः । यद्वा ऋतस्य ब्रह्मणः गर्भं सारभूतं सच्चिदानन्दघनमित्यर्थः । ततश्च जनुषा पिपर्तन पूर्णा भवत जन्मानि समापयतेत्यर्थः । यद्वा तं देवं जनुषा पिपर्तन स्वच्छन्दचरितेन बहुविधेन जन्मना पूरयत मत्स्याद्यवतारैरन्वितं परिपूर्णं वर्णयतेत्यर्थः । किञ्च अस्य देवस्य नाम च आ विविक्तन सम्यक् कीर्तयत । हे जानन्तः भो विद्वांसः यद्वा आजानन्तः सर्वोत्कृष्टतयाऽवधारयन्तः सन्तः । हे विष्णो वयन्तु स्तोतुं चासमर्थाः केवलं तव नामैव भजामहे । अन्यत् पूर्ववत् । यद्वा हे विष्णो यथा विदन्तीति यथाविदः सन्तो यथाविद्मस्तथेत्यर्थः । तं नामरूपं त्वां स्तोतारः स्तुवन्तः । अतएव जनुषा पिपर्तनः जन्मनः पूर्तिं कुर्वाणाः । आजामन्तः विचारयन्तः विविक्तन कीर्त्यन्यश्च तव नाम भजामहे । तमित्यत्र तदिति वा पाठः । ततश्च तन्न मैवैकं स्तोतार इत्यादीनां कर्म । तस्यैव विशेषणं पूर्वमित्यादि । यद्वा हेतौ शतृङ् । तं त्वां स्तोतुमाज्ञातुं कीर्तयितुञ्च तव नामैव भजामहे त्वन्नामसेवनेनैव तव स्तूतिः सम्यक् ज्ञानं कीर्तनञ्च सम्पद्यत इत्यर्थः । अन्यत् समानम् । अलमतिविस्तरेण ॥ एवं बहुल-स्मृति-श्रुतिवचनैः श्रीमन्नाम माहात्म्यं निर्धार्य तत्र कथञ्चिदप्यर्थवादो न कल्पयितव्य इति दुष्टमीमांसकान् शिक्षयन्निव लिखति—ईदृश इति । अर्थवादकल्पना चात्र न घटत इति अजामिलोपाख्याने श्रीधरस्वामिपादैस्तथा भगवन्नामकौमुदीकार-श्रीलक्ष्मीधर-स्वामिपादादिभिश्च सन्यायं व्याख्यात्मस्त्येवेति किमत्र लिखनप्रयासेन ॥५१३॥

अथ श्री-भगवन्-नामार्थ-वाद-कल्पना-दूषणम्

श्री-कात्यायन-संहितायाम्—

अर्थ-वादं हरेर् नाम्नि सम्भावयति यो नरः ।
स पापिष्ठो मनुष्याणां निरये पतन्ति स्फुटम् ॥५१४॥

यः सम्भावयत्यपि किं पुनः कल्पयेदिति ॥५१४॥

ब्रह्म-संहितायां बौधायनं प्रति श्री-भगवद्-उक्तौ—

यन्-नाम-कीर्तन-फलं विविधं निशम्य
न श्रद्दधाति मनुते यद् उतार्थ-वादम् ।
यो मानुषस् तम् इह दुःख-चये क्षिपामि
संसार-घोर-विविधार्ति-निपीडिताङ्गम् ॥५१५॥

यद् इति य इत्य् एव वा पाठः । न श्रद्दधाति, न विश्वसिति, प्रत्युत यो’र्थ-वादं मनुते, संसारे विविधा या आर्तयः, ताभिर् निपीडिताङ्गं यथा स्यात् तथा क्षिपामि ॥५१५॥

जैमिनि-संहितायां च—

श्रुति-स्मृति-पुराणेषु नाम-माहात्म्य-वाचिषु ।
ये’र्थ-वाद इति ब्रूयुर् न तेषां निरय-क्षयः ॥५१६॥

निरयाणां क्षयो नाशो न भवति, किन्तु सदा निरयेषु वसन्तीत्य् अर्थः ॥५१६॥

तस्मिंश् च भगवन्-नाम्नि जगद्-एकोपकारिणि ।
विश्वैक-सेव्ये मतिमान् अपराधान् विवर्जयेत् ॥५१७॥

एवं श्री-भगवन्-नाम्नो’शेष-दोष-हरणाखिल-गुण-मयत्वादि-माहात्म्य-विशेषं विलिख्य तेन चाविनीतानाम् उच्छृङ्खलतया श्री-वैष्णवादिष्व् अप्राधम् आशङ्क्य तन्-निवारणाय नामापराधान् विलिख्यन् आदौ विभीषिकार्थम् अपराफलम् अग्रे दर्शयन्, तांस् त्याजयति—तस्मिंश् चेति । अपराधा-विवर्जने हेतुः—जगद्-एकोपकारिणीति । विश्वैक-सेव्य इति च ॥५१७॥

यत उक्तं पाद्मे श्री-नारदं प्रति सनत्-कुमारेण—

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ॥५१८ ॥
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ।
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ॥५१९ ॥
नाम्नो’पि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥५२० ॥

सर्वान् अपराधान् पापानि करोतीति तथा सो’पि हरि-संश्रयः । भगवन्तं प्रपन्नः सन् मुच्यते, ततो मुक्तो भवति । हरेर् अपराधान् पूर्व-लिखितान् श्री-वाराहोक्तान् द्वात्रिंशद्-आदीन्। द्विपदेषु नरेषु पांशनः अधमः । स यदि कदाचिन् नामाश्रयः नाम-कीर्तन-कृत् स्यात्, तदा नाम-प्रभावतः तरति, हरि-विषयकापराधेभ्यो’पि मुच्यत एव । सर्व-सुहृदः जगद्-उपकार-परस्यापि नाम्नो’पराधात् हि निश्चितम् अधः पतति, नरकं गच्छति ॥५१८-५२०॥

अथ नामापराधाः

तं प्रति तेनैवोक्ताः—

सतां निन्दा नाम्नः परमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥५२१॥

यतः सद्भ्यः ख्यातिं प्रसिद्धिं प्राकट्यं वा प्राप्तं नाम । उ खेदे । तेषां विगर्हां कथं सहते ? अपि तु सोढुं न शक्नुयाद् एव । अतो’यम् एको’पराधः । अस्य च मुख्यत्वाद् आदौ निर्देशः । आदि-शब्देन रूप-लीलादि धियापि हरि-नाम्नापि अहितम् अपराधं करोतीति तथा सः ॥५२१॥

गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनं
तथार्थ-वादो हरि-नाम्नि कल्पनम् ।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ॥५२२॥

श्रुतीनां धर्म-शास्त्राणां च निन्दनम् । तथेत्य् उक्त-समुच्चये । अर्थ-वादो यस् तस्य कल्पनम् । यद् वा, हरि-नाम्नार्थ-वादः कल्पनम् एव, न तु तत्त्वतो घटत इत्य् अर्थः । कल्प्यत इति वा पाठः । यद् वा, हरि-नाम्नि कल्पनं च, तन्-माहात्म्यार्थ-परित्यागेन दुर्बुद्ध्या वृथार्थान्तर-कल्पना चैको’पराध इत्य् अर्थः । नाम्नो बलात् नाम-ग्रहणेन पाप-क्षयो भवेद् इति नाम्नां प्रभाव-ज्ञानेन पापे बुद्धिर् अपि, किं पुनः प्रवृत्तिः । यद् वा, अ-कार-प्रश्लेषेण नाम्ना बलम् अज्ञात्वा यस्य पापे बुद्धिर् इत्य् अर्थः । तस्य यमैः बहु-व्रतादिभिर् अहिंसादिभिर् द्वादशभिर् वा । यद् वा, धर्म-राजैः चिर-कालं तत्-कृत-यातना-भोगेनापीत्य् अर्थः ॥५२२॥

धर्म-व्रत-त्याग-हुतादि-सर्व-
शुभ-क्रिया-साम्यम् अपि प्रमादः ।
अश्रद्दधाने विमुखे’प्य् अशृण्वति
यश् चोपदेशः शिव-नामापराधः ॥५२३॥

धर्मादीनां सर्वासां शुभ-क्रियाणां साम्यं नाम्ना तुल्यत्वम् अपि प्रमादो’पराध इत्य् अर्थः । यद् वा, धर्मादि-शुभ-क्रिया-साम्यम् एको’पराधः । प्रमादः—नाम्न्य् अनवधानताप्य् एव । एवम् अत्रापराध-द्वयम् । ततश् च तथार्थ-वादो हरि-नाम्नि कल्पनम् इत्य् अत्रैकापराधो ज्ञेयः । किं च, अश्रद्दधानादौ जने य उपदेशः, स शिव-नाम्नि अपराधः । श्री-भगवता सह श्री-शिवस्याभेदेन शिवेत्य् उक्तिः ॥५२३॥

श्रुते’पि नाम-माहात्म्ये यः प्रीति-रहितो’धमः ।
अहं-ममादि-परमो नाम्नि सो’प्य् अपराध-कृत् ॥५२४॥

नाम्नि प्रीतिः श्रद्धा भक्तिर् वा, तया रहितः सन् । यः अहं-ममादि-परमः, अहन्ता ममता च, आदि-शब्देन विषय-भोगादिकं चैव परमं प्रधानम्, न तु नाम-ग्रहणं यस्य तथा-भूतः स्यात्, सो’प्य् अपराध-कृत् । यद् वा, धर्म-व्रतेत्य्-आद्य्-अर्ध-श्लोकेनैक एवापराधः । अहं-ममादीत्य् अर्ध-श्लोके चास्मिन् एकः । एवम् अपराधा दश, ये ज्ञात्वापि न वर्जयन्ति, सहसा नाम्नो’पराधान् दशेति तत्रैवोक्तेः । ततश् चायम् अर्थः—यः प्रीति-रहितो नाम्न्य् एव, सो’धमः नामापराधीत्य् अर्थः । यद् वा, यो’धमः प्रीति-रहितः, सो’पराध-कृद् इत्य् उतंरेणान्वयः । किं च, नाम्न्य् एव विषये यो’हं-ममादि-परमः । अहं बहुतर-नाम-कीर्तक इतस् ततो नाम-कीर्तनं च मत्-प्रवर्तितम् एव, मया समो नाम-कीर्तन-परो’न्यः कः ? मदीय-जिह्वाधीनम् एव नामेत्य्-आदिकम् एव परमं प्रधानम् । नाम-कीर्तनं च कदाचित् सिध्यति न वा यस्य तथा-भूतो यः, सो’पीति । अत एवादिष्टं भगवता—

तृणाद् अपि सुनीचेन तरोर् अपि सहिष्णुना । अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ इति ॥५२४॥

जाते नामापराधे’पि प्रमादेन कथञ्चन ।
सदा सङ्कीर्तयन् नाम तद्-एक-शरणो भवेत् ॥५२५॥

कथञ्चन प्रमादेन भ्रमेण जाते सति, तत् नामैकं शरणम् आश्रयो यस्य तथा तथाभूतो भवेत्, सर्वथा नाम-परो भवेद् इत्य् अर्थः ॥५२५॥

अपराध-भञ्जनं

उक्तं च तेनैव तत्र—

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥५२६॥

यस्माद् अविश्रान्तं सततं प्रयुक्तानि कीर्तितानि सन्ति, तानि नामान्य् एवार्थ-कराणि सर्व-प्रयोजन-सम्पादकानि ॥५२६॥

नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा
शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् ।
तच् चेद् देह-द्रविण-जनता-लोभ-पाषण्ड-मध्ये
निक्षिप्तं स्यान् न फल-जनकं शीघ्रम् एवात्र विप्र ॥५२७॥

एतद् एव परिपोषयन् नाम-कीर्तने लाभ-पूजाख्यात्यर्थतां परित्याजयति—नामैकम् इत्य् आदि । वाचि गतं प्रसङ्गाद् वाङ्-मध्ये प्रवृत्तम् अपि, स्मरण-पथ-गतं कथञ्चिन्-मनः-स्पृष्टम् अपि, श्रोत्र-मूलं गतं किञ्चित् श्रुतम् अपि, शुद्ध-वर्णं वा अशुद्ध-वर्णम् अपि वा, व्यवहितं शब्दान्तरेण यद् व्यवधानं, वक्ष्यमाण-नारायण-शब्दस्य किञ्चिद् उच्चारणानन्तरं प्रसङ्गाद् आपतितं शब्दान्तरं तेन रहितं सत् । यद् वा, यद्यपि “हलं रिक्तं” इत्य्-आद्य्-उक्तौ ह-कार-रि-कारयोर् वृत्त्या हरीति नामास्त्य् एव, तथा राज-महिषी इत्य् अत्र राम-नामापि, एवम् अन्यद् अप्य् ऊह्यम्, तथापि तत्-तन्-नाम-मध्ये व्यवधायकम् अक्षरान्तरम् अस्तीत्य् एतादृश-व्यवधान-रहितम् इत्य् अर्थः ।

यद् वा, व्यवहितं च तद्-रहितं चापि वा तत्र व्यवहितं नाम्नः किञ्चिद् उच्चारणानन्तरं कथञ्चिद् आपतितं शब्दान्तरं समाधाय पश्चान् नामावशिष्टाक्षर-ग्रहणम् इत्य् एवं-रूपं, मध्ये शब्दान्तरेणान्तरितम् इत्य् अर्थः । रहितं पश्चाद् अवशिष्टाक्षर-ग्रहण-वर्जितं, केनचिद् अंशेन हीनम् इत्य् अर्थः । तथापि तारयत्य् एव, सर्वेभ्यः पापेभ्यो’पराधेभ्यश् च संसाराद् अप्य् उद्धारयत्य् एवेति सत्यम् एव । किन्तु नाम-सेवनस्य मुख्यं यत् फलं, तन् न सद्यः सम्पद्यते ।

तथा देह-भरणाद्य्-अर्थम् अपि नाम-सेवनेन मुख्यं फलम् आश्य् न सिध्यतीत्य् आह—तच् चेद् इति । तन्-नाम चेद् यदि देहादि-मध्ये निक्षिप्तं, देह-भरणाद्य्-अर्थम् एव विन्यस्तं, तदापि फल-जनकं न भवति किं ? अपि तु भवत्य् एव, किन्तु अत्र इह-लोके शीघ्रं न भवति, किन्तु विलम्बेनैव भवतीत्य् अर्थः ॥५२७॥

अत एवोक्तं श्री-नारदेन बृहन्-नारदीये—

मह्मिनाम् अपि यन्-नाम्नः पारं गन्तुम् अनीश्वरः ।
मनवो’पि मुनीद्राश् च कथं क्षुण्ण-धीर् भजे ॥५२८ ॥ इति ।

एवम् उ संहरन् श्रीमन्-नाम-माहात्म्यस्यानन्त्यम् एव द्रढयन् लिखति—महिम्नाम् इति । पारं गन्तुम् अपि, किं पुनस् तत्त्वम् अनुभवितुम् इति ॥५२३॥

इत्थं श्री-कृष्ण-पादाब्जे भक्तिः कार्या सदा बुधैः ।
सा च तस्य प्रसादेन महा-पुण्यात् प्रजायते ॥५२९॥

चैतन्य-चन्द्रं तं वन्दे वर्षन् भक्ति-रसं निजम् ।

त्रायते यवनान्तं यो’करोद् भक्ति-प्लुतं जगत् ॥

एवं भक्त्याङ्गानि लिखित्वा इदानीं समग्रां भक्तिं लिखन् आदौ तस्य माहात्म्य-विशेषार्थं परम-दौर्लभ्यं लिखति—इत्थम् इति । महा-पुण्यात् यस् तस्य श्री-कृष्ण-पादाब्जस्य प्रसादस् तेनैव प्रकर्षेण जायते । एतच् च पुण्य-विशेषार्थ-प्रयत्नाय लिखितम् । यद् वा, तस्य प्रसादेन यन् महा-पुण्यं, तस्माद् एव प्रजायत इति यथा-क्रमम् एवान्वयः । यद्यपि तस्य प्रसाद एव भक्ति-प्रादुर्भावे स्वतन्त्रो निरपेक्षो हेतुः, तथापि तत्-कर्तृक-पुण्य-विशेषाज् जातायाः सत्यास् तस्याः समूलता शोभा-विशेषश् च सम्पद्यत इति तथा लिखितम् । यथा मुमुक्षुर् भक्ति-सिद्धान्ते भक्त्या ज्ञान-द्वारा मोक्षो जन्यत इति, अत एव प्र-शब्दः । एवं च जन्म-कोटि-सहस्रेषु यैः पुण्यं समुपार्जितम् इत्य् आदि-वचनान्य् अप्य् उपपद्यन्त इति दिक् ॥५२९॥

अथ श्रीमद्-भक्तेर् दुर्लभत्वम्

स्कान्दे श्री-पराशरोक्तौ—

न ह्य् अपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।
भक्तिर् भवति गोविन्दे स्मरणं कीर्तनं तथा ॥५३०॥

अपुण्यवताम् एव लक्षणं—मूढानाम् इति कुटिलात्मनाम् इति च । भक्तिः पूजा परिचर्यादि-लक्षणा, सुख-साध्यं स्मरणं कीर्तनं च न भवति, सिध्यति । यद् वा, भक्तिः समग्रा न भवतीति किं वक्तव्यं, तद्-अङ्गम् अपि स्मरणं कीर्तनं च न भवतीत्य् अर्थः । यद् वा, सर्वेषु अङ्गेषु स्मरण-कीर्तनयोर् एव परम-मुखत्वात् भक्तेस् तत्-प्रधानता-विवक्षया लीलम् एवोद्दिष्टम्—स्मरणं कीर्तनं चेति । यद् वा, समुच्चये तथा-शब्दः । तथा तेन विशुद्धत्वादि-प्रकारेण स-कामत्वादि-प्रकारेणापीति वा ॥५३०॥

तत्रैव श्री-ब्रह्मोक्तौ—

निमिषं निमिषार्धं वा मर्त्यानाम् इह नारद ।
नादग्धाशेष-पापानां भक्तिर् भवति केशवे ॥५३१॥

निमिषम् अपि निम्षार्धम् अपि भक्तिर् न भवति ॥५३१॥

योग-वाशिष्ठे—

जन्मान्तर-सहस्रेषु तपो-ज्ञान-समाधिभिः ।
नराणां क्षीण-पापानां कृष्णे भक्तिः प्रजायते ॥५३२॥

एवं पुण्य-हीनानां पापिनां च कदाचिद् अपि न जायत इति दौर्लभ्यं लिखितम् । अधुना समूलाखिल-पाप-क्षयेणैव जायत इति लिखति—जन्मान्तरेति । क्षीणानि स-वासनं क्षयं गतानि पापानि येषां तेषाम् एव ॥५३२॥

आदि-वाराहे—

जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् ।
वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति ॥५३३॥

अधुना महा-पुण्यं चयेनैव जायत इति परमं दौर्लभ्यं लिखति—जन्मेत्य्-आदिना साध्यत इत्य् अन्तेन ॥५३३॥

बृहन्-नारदीये [१.३९.५१-५२] यज्ञ-ध्वज-नृपोपाख्यानान्ते—

जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् ।
तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने ॥५३४॥

शुद्धा ज्ञान-कर्माद्य्-असम्मिश्रिता ॥५३४॥

सुलभं जाह्नवी-स्नानं तथैवातिथि-पूजनम् ।
सुलभाः सर्व-यज्ञाश् च विष्णु-भक्तिः सुदुर्लभा ॥५३५॥

सुदुर्लभेति । गङ्गा-स्नानादि-जनित-पुण्यतो’पि, विशिष्टतर-पुण्येनैव जायत इति सूचितम् । तत्र लिखितम् एव—सा च तस्य प्रसादेन महा-पुण्यात् प्रजायते इति ॥५३५॥

इतिहास-समुच्चये शिलोञ्छ-वृत्ति-वाक्ये—

गङ्गायां मरणं चैव दृढा भक्तिश् च केशवे ।
ब्रह्म-विद्या-प्रबोधश् च नाल्पस्य तपसः फलम् ॥५३६॥

ब्रह्म-विद्या-प्रबोधः—भक्ति-तत्त्व-ज्ञानम् ॥५३६॥ \

अगस्त्य-संहितायाम्—

व्रतोपवास-नियमैर् जन्म-कोट्याप्य् अनिष्ठितेः ।
यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति केशवे ॥५३७॥

येषां पुण्य-व्रतानि षष्ठ-काल-भोजनादि-नियमाः, चान्द्रायणादीनि वा, उपवासा एकादश्य्-आदिषु अन्न-वर्जनादि-लक्षणा, नियमाश् चातुर्मास्यादि-व्रतानि शौचादयो वा द्वादश, तैः । अपि-शब्द एव-शब्दार्थे ॥५३७॥

विष्णु-धर्मोत्तरे—

दिवसं दिवसार्धं वा मुहूर्तं चैकम् एव वा ।
नाशाच् चाशेष-पापस्य भक्तिर् भवति केशवे ॥५३८॥
अनेक-जन्म-साहस्रैर् नाना-योन्य्-अन्तरेषु च ।
जन्तोः कलुष-हीनस्य भक्तिर् भवति केशवे ॥५३९॥

दशम-स्कन्धे गोपीः प्रति उद्धवोक्तौ [भा।पु। १०.४७.२४]—

दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥५४०॥

श्रेयोभिः—श्रेयः-साधनैः । सर्व-पुरुषार्थैर् वा ॥५४०॥

श्री-भगवद्-गीतासु [७.२८]—

येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढव्रताः ॥५४१॥

येषां तु पुण्याचरण-शीलानां सर्व-श्रेयः-प्रतिबन्धकं पापम् अन्त-गतं विनष्टं, ते द्वन्द्व-निमित्तेन मोहेन, यद् वा, द्वन्द्वैः, सुख-दुःखादिभिः तत्-कारणाज्ञानेन च विनिर्मुक्ताः, यद् वा, अ-कार-प्रश्लेषेण अद्वन्द्व-मोहाश् च ते निर्मुक्ताश् च निःशेषेण मुक्ताः सन्तः, दृढ-व्रता एकान्तिनः सन्तो मां भजन्ते ॥५४१॥

पञ्चम-स्कन्धे परीक्षितं प्रति श्री-बादरायणिना [भा।पु। ५.६.१८]—

राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥५४२॥

अधुना श्री-भगवतो’प्य् अदेयत्वेन दौर्लभ्य-विशेषं लिखति—राजन्न् इति । अङ्ग हे राजन् ! भवतां पाण्डवानां यदूनां च पतिः पालकः । गुरुर् उपदेष्टा । दैवम् उपास्यः । प्रियः सुहृत् । कुल-पतिर् नियन्ता । किं बहुना ? क्व च कदाचिद् वः पाण्डवानां किङ्करो’प्य् आज्ञानुवर्ती । अस्तु नामैवं, तथाप्य् अन्येषां नित्यं भजताम् अपि मुक्तिं ददाति, न तु कदाचिद् अपि स-प्रेम-भक्ति-योगम् ।

यद् वा, भजतां यज्ञादिना सेवमानानाम् । यद् वा, स्व-धर्माचरणादिना भगवद्-आज्ञा-प्रतिपालन-रूपां भक्तिं कुर्वताम् अपि श्रवणादि-भक्ति-योगं न ददाति । एवं भगवत्-प्रसादैक-लभ्यता, अन्यथा च परम-दौर्लभ्यम् इति दर्शितम् । एवं च श्रवणादिकम् अपि यो न ददाति, स वो वश्य इति पाण्डवानां माहात्म्यं च सिद्धम् इति दिक् ॥५४२॥

पाद्मे श्रीप्रह्लादस्तुतौ—

लक्षेषु श्रृणुते कश्चित् कोटिष्वेकस्तु बुध्यते ।
भक्तितत्त्वं परिज्ञाय कश्चिदेव समाचरेत् ॥५४३॥

भक्तस्तत्त्वं परमानन्दघनत्वं माहात्म्यं वा लक्षेषु लोकेषु मध्ये कश्चिदेव शृणोति बुध्यते अवधारयति समाचरेत् भक्ति कराति ५४३॥

पूजया हसते भक्तिर्जपतस्त्रस्यति स्फुटम् ।
समाधियोगाच्च बहिः सा भक्तिः केन गृह्यते ? ॥५४४।

या भक्तिः पूजया सकामजपाङ्गपूजाविधिना हसति तामुपहसतीत्यर्थः तया प्रायस्तुच्छफलावाप्तेः । जपतो मन्त्रजपात् त्रस्यति विभेति दूरमपसरतीत्यर्थः । प्रायो मन्त्रजपे विविधकामानामेव कच्चिन्मुक्तरेव च सिद्ध्युक्तेः । समाधिलक्षणान् योगाच्च बहिः तेनाप्यप्राप्येत्यर्थः । तस्य शून्यमयत्वेन तत्र श्रवणादिभक्तेरप्रवृत्तेः । केन गृह्यते आत्मसात् क्रियते अपि तु भगवत्प्रसादं विना न केनाप्यात्मसात् कर्तुं शक्यते इत्यर्थः ॥५४४॥

षष्ठ-स्कन्धे वृत्रोपाख्यानान्ते [भा।पु। ६.१४.२]—

देवानां शुद्ध-सत्त्वानाम् ऋषीणां चामलात्मनाम् ।
भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥५४५॥

शुद्ध-सत्त्व-मयानाम् अपि देवानाम् अमलात्मनां निर्मल-चित्तानाम् अपि ऋषीणाम् । प्रायेणेति कदाचित् कस्यचिद् एव जायत इत्य् अर्थः ॥५४५॥

श्रीमद्-भक्त्यै नमस् तस्यै यस्या माहात्म्य-मन्दरम् ।
यत्-प्रभावेण लोलो’यं कीटो’प्य् उद्धर्तुम् इच्छति ॥५४६॥

एवं परम-दौर्लभ्येन भक्तेर् माहात्म्यं लिखित्वा, इदानीं परम् अपि कियन्-माहात्म्य-विशेषं ल्लिखन् आदौ भक्त्या भक्तिम् एव तत्-सिद्धये प्रणमति—श्रीमद् इति । माहात्म्यम् एव मन्दरो नाम महा-पर्वतः परम-विस्तीर्णत्व-गुणत्वादिना, तं कीट-तुल्यः क्षुद्रतरो’प्य् अयं जनो यस्याः भक्तेः प्रब्रह्मा लोलः सन् उद्धर्तुं समाहर्तुम् इच्छति । अतो’शक्यो’पि कर्मणि प्रवृत्तिस् तच्-छक्ति-प्रेरणयैव, न मे स्वत इति तन्-महिम्नैव तन्-माहात्म्यं किञ्चिल् लेख्यम् इति भावः ॥५४६॥

अथ श्री-भगवद्-भक्ति-माहात्म्यं

तत्रादौ भक्तिमतः कथञ्चिद् आपतिते’पि पापे प्रायश्चित्तान्तर-निरसनत्वम् ।

पाद्मे वैशाख-माहात्म्ये नारदाम्बरीष-संवादे [प।पु। ५.८५.३१]—

यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात् ॥५४७॥

पाकाद्यर्थमपि प्रज्ज्वलितोऽग्निर्यथा काष्ठानि भस्मीकरोति तथा भगवदर्थमप्यनुष्ठीयमाना भक्तिः सर्वाण्येव पापानि तत्क्षणात् पापोत्पत्तिसमकाल एव दहति ॥५४७॥

षष्ठे अजामिलोपाख्यानारम्भे [भा।पु। ६.१.१५]—

केचित् केवलया भक्त्या वासुदेव-परायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥५४८॥

तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्य-शौचाभ्यां यमेन नियमेन वा ॥ देह-वाग्-बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्य् अघं महद् अपि वेणु-गुल्मम् इवानलः ॥ [भा।पु। ६.१.१३-१४]

इत्य् उक्तस्य प्रायश्चित्तस्यातिदुष्करत्वान् मुख्यम् एवान्यत् प्रायश्चित्तम् आह—केचिद् इति । केचिद् इत्य् अनेनैवं-भूता भक्तिः प्रधाना विरला इति दर्शयति । केवलया तप-आदि-निरपेक्षया । वासुदेव-परायणा इति नाधिकारि-विशेषणम् एतत्, किन्त्व् अन्येषाम् अश्रद्धया तत्राप्रवृत्तेर् अर्थात् तेष्व् एव पर्यवसानाद् अनुवाद-मात्रम् । कार्त्स्न्येन मूलतो’ङ्गतश् चेत्य् अर्थः । तदानुरूपो दृष्टान्तः—भास्करो नीहारं तत्-कृततम इव । एवम् अत्र समूल-साङ्गाशेष-पाप-नाशो’भिप्रेतः । पूर्वं च अनलो वेणु-गुल्मम् इवेति अनलस्य भूम्य्-अन्तर्गत-दहनाशक्त्या भस्मादेर् अपि विद्यमानतया समूलाशेष-पाप-निवृत्तिर् उक्ता । एवम् अपि पूर्वतो’स्य विशेषो’वगन्तव्यः ॥५४८॥

एकादशे च श्री-भगवद्-उद्धव-संवादे [भा।पु। ११.१४.१९]—

यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥५४९॥

आस्तां तावद् उत्तम-भक्तेः कथा । यथा कथञ्चित् भक्त्यापि स्वत एव समूलाशेष-पाप-क्षयः स्याद् इत्य् आह—यथेति । पाकाद्य्-अर्थम् अपि प्रज्ज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति, तथा रागादिनापि कथञ्चिन् मद्-विषया सती भक्तिः समस्त-पापानीति । भगवान् अपि स्व-भक्तम् आश्चर्येण सम्बोधयति—अहो उद्धव विस्तरेण शृण्व् इति ॥५४९॥

अत एवोक्तं तत्रैव श्री-करभाजनेन [भा।पु। ११.५.४२]—

स्व-पाद-मूलं भजतः प्रियस्य
त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥५५०॥

देवर्षि-भूताप्त-नृणां [भा।पु। ११.५.४१] इति निरन्तर-पूर्व-श्लोकेन विहित-कर्म-निवृत्तिम् उक्त्वा निषेध-निमित्त-प्रायश्चित्त-निवृत्तिम् आह—स्व-पादएति । त्यक्तो’न्यस्मिन् देहादौ देवतान्तरे भावो येन । अत एव तस्य विकर्मणि प्रवृत्तिर् न सम्भवति । यच् च कथञ्चित् प्रमादादिना उत्पतितम् अकस्मात् प्राप्तं भवेत्, तद् अपि हरिर् धुनोति । ननु, यमस् तन् न मन्येत ? तत्राह—परेशः परमेश्वरः । ननु, श्रुति-स्मृती ममैवाज्ञे इति भगवद्-वचनात् स्वाज्ञा-भङ्गं कथं सहेत ? तत्राह—प्रियस्य । ननु, नायं पाप-क्षयार्थं भजते ? तत्राह—हृदि सन्निविष्टः । न हि वस्तु-शक्तिर् अर्थिताम् अपेक्षते इत्य् अर्थः॥५५०॥

द्वारका-माहात्म्ये चन्द्र-शर्माणं प्रति श्री-भगवता—

मद्-भक्तिं वहतां पुंसाम् इह लोके परे’पि वा ।
नाशुभं विद्यते किञ्चित् कुल-कोटिं नयेद् दितम् ॥५५१॥

अशुभं पापम् अमात्रं वा पाप-मूलकं, तेषां कुल-कोटिं भक्तिर् एव दिवं श्री-वैकुण्ठ-लोकं प्रापयति ॥५५१॥

विषय-भोगे’पि तद्-दोष-निराकरत्वम्

एकादश-स्कन्धे तत्रैव [भा।पु। ११.१४.१८]—

बाध्यमानो’पि मद्-भक्तो विषयैर् अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥५५२॥

विषयैर् बाध्यमान आकृष्यमाणो’पि । अतः प्रायोऽजितेन्द्रियः । प्रगल्भया समर्थया । परम-पद-प्रदान-शक्ताया अपि भक्तेर् विषयाभिभवतो रक्षणं कतरत् प्रयोजनम् इति भावाह् ॥५५२॥

कर्माधिकार-निरसनत्वं

तत्रैव [भा।पु। ११.२०.९]—

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥५५३॥

भक्तितः कर्मानधिकारात् कर्म-त्यागेऽपि न दोषः स्याद् इति भक्तैर् माहात्म्यं लिखति—तावद् इति । कर्माणि नित्य-नैमित्तिकादीनि । यावता यवत् न निर्विद्यते, कर्म-फलेषु ऐहिकामुष्मिक-विषय-भोगेषु वा विरक्तो न स्यात् । श्रद्धा विश्वासः प्रीतिर् वा । आदि-शब्देन कीर्तनादि-भक्ति-प्रकाराः । निर्वेदे जाते मत्-कथा-श्रवणादि-श्रद्धायां वा जातायां न कुर्याद् इत्य् अर्थः । कर्मणां सावधित्वेन साध्ये सिद्धे साधन-परित्यागोपपत्तेः । वा-शब्देन पूर्वतोऽस्य पक्षस्याधिक्यं सूचितम् । ये वा मयीशे [भा।पु। ५.५.३] इतिवत् । वैराग्ये जातेऽपि कर्म-त्यागो युक्तः । किं पुनर् वैराग्यस्य फले श्रवणादौ जाते सतीति भावः ॥५५३॥

अत एवोक्तं प्रथम-स्कन्धे [भा।पु। १.५.१७]—

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वो’थ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तो’भजतां स्व-धर्मतः ॥५५४॥

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं [भा।पु। १.५.१२] इत्य् आदिना काम्य-कर्मादेर् अनर्थ-हेतुत्वात् तं विहाय हरेर् लीलादि-वर्णना-रूपा भक्तिः कार्येत्य् उक्त्वा । इदानीं तु नित्य-नैमित्तिकादि-स्वधर्म-निष्ठाम् अप्य् अनादृत्य केवलं हरि-भक्तिर् एव कार्येत्य् आह—त्यक्त्वेति । स्वधर्मं निज-निज-वर्णाश्रम-धर्मं त्यक्त्वा । ननु स्वधर्म-त्यागेन भजन-भक्ति-परिपाकेन यदि कृतार्थो भवेत्, तर्हि न काचिच् चिन्ता, यदि पुनर् अपक्व एव म्रियेत, ततो भ्रश्येत वा, तदा च स्वधर्म-त्याग-निमित्तो’नर्थः स्याद् इत्य् आह—ततो भजनात् पतेत् कथञ्चित् भ्रश्येत् म्रियते वा । यदि तथापि भक्ति-रसिकस्य कर्मानधिकारान् नानर्थ-शङ्का । अङ्गीकृत्याप्य् आह । वा-शब्दः कटाक्षे । यत्र क्व वा नीच-यानाव् अप्य् अमुष्य भक्ति-रसिकस्याभद्रम् अभूत् किं ? नाभूद् एवेत्य् अर्थः । भक्ति-वासना-सम्भावनाद् इति भावः । अभजद्भिस् तु केवलं स्वधर्मतः को वा अर्थः प्राप्तः ? अभजताम् इति षष्ठी सम्बन्ध-मात्र-विवक्षया । अत एव श्री-भगवद्-गीतासु सर्वान्ते सर्वोपदेश-सारः—सर्व-धर्मान् परित्यज्य [गीता १८.६६] इति । एकादश-स्कन्धे च—तस्मात् त्वम् उद्धवोत्सृज्य [भा।पु। ११.१२.१४] इत्य् आदि । तच् च सर्वम् अग्रे शरणापत्तौ लेख्यम् एव ॥५५४॥

एकान्ति-लक्षणे यच् च लिखितं शरणागतौ ।
लेख्यं च तत्-तद्-वचनैर् एतत् सुदृढताम् इयात् ॥५५५॥

मनः-प्रसादकत्वम्

प्रथम-स्कन्धे [भा।पु। १.२.६]—

स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे ।
अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति ॥५५६॥

अत एवोक्तम् एकादशे [भा।पु। ११.१४.२२]—

धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥५५७॥

अपेतं रहितम् ॥५५७॥

तत्रैव [भा।पु। ११.१४.२१]—

भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् ॥५५८॥

सम्भवाज् जाति-दोषाद् अपि पुनाति ॥५५८॥

षष्ठे [भा।पु। ६.३.२२]—

एतावान् एव लोके’स्मिन् पुंसां धर्मः परः स्मृतः ।
भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥५५९॥

तस्य भगवतो नाम-ग्रहणादिभिर् इति भक्तेर् नाम-ग्रहण-प्रधानताभिप्रेता ॥५५९॥

अतएवोक्तं पाद्मे—

किं तस्य बहुभिः मन्त्रैः शास्त्रैः किं बहु-विस्तरैः ।
वाजपेय-सहस्रैः किं भक्तिर् यस्य जनार्दने ॥५६०॥

मन्त्रैः साधितैः किं ? ॥५६०॥

सर्व-गुणादि-सेव्यता-कारित्वम्

पञ्चम-स्कन्धे प्रह्लादोक्तौ [भा।पु। ५.१८.१२]—

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः ॥५६१॥

अकिञ्चना निष्किञ्चना शुद्धा वा । सर्वे देवाः सर्वैर् गुणैर् धर्म-ज्ञानादिभिः सह सम्यग् आसते नित्यं वसन्ति । महतां गुणा ज्ञान-वैराग्यादयः प्रेम-विकारा वा, कुतो भवन्ति ? तत्र हेतुः—असति विषय-सुखे तुच्छ-मोक्ष-सुखे वा मनो-रथेन बहिर् भक्तेर् दूरे धावतः ॥५६१॥

चतुर्थे श्री-ध्रुवं प्रति मनूक्तौ [भा।पु। ४.११.३०]—

त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ।
भक्तिं विधाय परमां शनकैर् अविद्या-
ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् ॥५६२॥

आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृक् [भा।पु। ४.११.२९] इति पूर्वम् उक्तं तद्-अन्वेषण-फलम् आह—त्वम् इति । तदान्वेषण-काल एव, प्रत्यग्-आत्मनि परमात्मनि सर्वान्तर्यामिणीत्य् अर्थः । अनन्ते अपरिच्छिन्ने, आनन्द-मात्रे सुख-घन-मुक्तौ भगवति श्री-कृष्णे, परमां निष्कामां विशुद्धां वा, शनकैर् विधायेति परम-भक्तेर् दुष्करतया क्रमेणैव तत्-सिद्धेः । यद् वा, शनकैः चिरं क्रमेण यो’विद्या-रूपो ग्रन्थिः, तम् इति दुर्भेद्यतोक्ता ।

ननु तादृशस्य तदैव कथं विभेदो घटते ? तत्राह—उपपन्नाः सम्पन्नाः समस्ताः शक्तयो यस्मिन् । यद् वा, उपपन्नानां प्रपन्नानां समस्ताः शक्तयो यस्मात् तस्मिन्न् इति । एवं प्रत्यग्-आत्मादि-भगवन्-माहात्म्याज्ञानेन पूर्वं निष्काम-भक्त्यैव रणाद् अहङ्काराद्य्-अनपगमेन वैरेण कुवेरानुचरास् त्वया घातिता इति श्री-ध्रुवं प्रति मनो-वाक्याभिप्रायः । स च केवलं श्री-शिव-सखानुग-रक्षार्थम् एव विभीषिकयान्यथाभासत इत्य् ऊह्यम् । यथा कथञ्चिद् भक्त्या मुक्तेर् अपि सुसिद्धेः ॥५६२॥

श्री-पृथुं प्रति श्री-सनकादिभिः [भा।पु। ४.२२.३९]—

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयो’पि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥५६३॥

एवं तादृश-ज्ञानेन परम-भक्त्याहङ्कारोन्मूलनं लिखित्वा इदानीं कथञ्चिद् अपि भजनेन तच् च स्याद् इति दर्शयति—यत् पादेति । यस्य पाद-पङ्कजयोः पलाशानि

अङ्गुलयः, तेषां विलासः कान्तिः, तस्य भक्त्या स्मृत्या । यद् वा, नृत्य-गीतादि-विलास-रूपस्यापि भक्त्या, कर्माण्य् आशेरते यस्मिन्न् इति कर्माशयो’हङ्कारः, तद्-रूपं हृदय-ग्रन्थिं कर्मभिर् एव ग्रथितम्, दृढं बद्धम् । सन्तो वैष्णवा उद्ग्रथयन्ति मोचयन्ति । रिक्ता निर्विशेषा सर्व-मूऋधन्या मतिर् येषाम्, निरुद्धः प्रत्याहृतः स्रोतो-गण इन्द्रिय-वर्गो यैः । अरणं शरणम् ।

स्रोतो-गण-शब्देनेदं सूच्यते, यथा गङ्गादि-प्रवाहस्य कथञ्चिद् अपि यत्नान् निरोधः सम्भवेदे एवम् इन्द्रियस्यापि । भवतु वा कस्यचिद् इन्द्रियस्य, सर्वस्य तु न भवत्य् एव । यदि वा कदाचित् कस्यचिद् यतेः सर्व-निरोधो भवतु नाम, तथाप्य् अहङ्कारोन्मूलनं सम्यग् न स्याद् एवेति । अतः श्लेषेण रिक्त-मतयः निर्बुद्धय एवेत्य् उक्तम् । यथा सन्तो भक्त्योद्ग्रथयन्ति, यतयश् च तद्वन् नेति सद्भ्यः पृथक्त्वेन निर्देशाद् भक्ति-विमुखानां यतीनां तद्-इतरत्वम् अप्य् उक्तम् । एवं तेषां भक्त्य्-अनादरेण निन्देति दिक् ॥५६३॥

सर्व-मार्गाधिकत्वम्

तृतीये श्री-कापिलेये [भा।पु। ३.२५.१९]—

न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि ।
सदृशो’स्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥५६४॥

योगिनाम् अपि ब्रह्म-सिद्धये आत्म-तत्त्व-परिस्फूर्तये मुक्तये इत्य् अर्थः । भक्त्या सदृशः शिवो निर्विघ्नो मङ्गल-रूपो वा पन्था नास्ति ॥५६४॥

षष्ठे च [भा।पु। ६.१.१७]—

सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो’कुतो-भयः ।
सुशीलाः साधवो यत्र नारायण-परायणाः ॥५६५॥

अयं पन्था भक्ति-मार्गः सध्रीचीनः समीचीनः । यतः क्षेमःकल्याणम् । क्षेमत्वे हेतुः—न कुतश्चिद् विघ्नादेर् भयं यस्मिन् । यद् वा, क्षेमः मङ्गल-रूपो’कुतश्चिद् भयं च । तद् एवाह—यत्र यस्मिन् मार्गे सुशीलाः कृपालवः साधवो निष्कामाः, अतो न ज्ञान-मार्गवद् असहायता-निमित्तं भयम्, नापि कर्म-मार्गवन् मत्सरादि-युक्तेभ्यो भयम् । तेषां सङ्गत्या च सर्वथा क्षेमम् एवेति भावः॥५६५॥

अत एवोक्तं द्वितीये श्री-बादरायणिना [भा।पु। २.२.३३-३४]—

न ह्य् अतो’न्यः शिवः पन्था विशतः संसृताव् इह ।
वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥५६६॥
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन्य् अतो भवेत् ॥५६७॥

अधुना सर्व-मार्ग-फलत्वेन भक्तेः सर्व-मार्गाधिकत्वं द्रढयति—न हीति द्वाभ्याम् । सन्ति च संसरतः पुंसो बहवो मोक्ष-मार्गाः, किन्तु यतः पथो’नुष्ठिताद् भक्ति-योगो भवेत्, अतो’न्यः शिवः सुख-रूपो निर्विघ्नश् च नास्त्य् एवेत्य् अर्थः ॥५६६॥

अतस् तद् आह—भगवान् ब्रह्मा । कूटस्थो निर्विकारः, एकाग्र-चित्तः सन्न् इत्य् अर्थः । त्रिस् त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदम् अन्वीक्ष्य विचार्य । यत आत्मनि हरौ रतिर् भवेत् तद् एव मनीषया अध्यवस्यत् सन्-मार्गत्वेन सद्-वस्तुत्वेन वा निश्चितवान् । एवं रति-हेतुत्वेन भक्ति-योगस्यैव सन्-मार्गत्वं दर्शितम् । यद् वा, कार्य-कारणयोर् अभेद-विवक्षया रतिर् एव भक्ति-योग इत्य् अभिप्रेतम् । यद् वा, यतो भक्ति-योगात्, तद् इति तम् इति भक्ति-योग-माहात्म्यम् उक्तम् ॥५६७॥

बृहन्-नारदीये श्री-नारदोक्तं (१.४.४, ३०)—

यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् । तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते ॥५६८॥

समस्तानां सिद्धीनामर्थानां जीवनं भक्तिरेवेति तां विना न स्युरित्यर्थः ॥५६८॥

जीवन्ति जन्तवः सर्वे यथा मातरमाश्रिताः । तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्मिकाः ॥५६९॥

जीवन्ति—सिध्यन्ति ॥५६९॥

ध्वजारोपण-माहात्म्ये श्री-विष्णु-दूतोक्तौ—

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । ईप्सितां भगवद्-भक्त्या लभते परमां गतिम् ॥५७०॥

ईप्सितामभीष्टां परमामुत्कृष्टां गतिं फलम् ॥५७०॥

पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे—

अपत्यं द्रविणं दारा हारा हर्म्यं हया गजाः । सुखानि स्वर्ग-मोक्षौ च न दूरे हरि-भक्तितः ॥५७१॥

हारा मनोहराः मुक्तावल्यो वा तैश्च सर्वाणि भूषणानि उपलक्ष्यन्ते सुखानि राज्यादिसम्पत्तयो हरिः भक्तितो दूरे न भवन्ति किन्तु तदाश्रितानि अतएव लभ्यन्त इत्यर्थः ॥५७१॥

प्रथम-स्कन्धे [भा।पु। १.२.७]—

वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥५७२॥

अहैतुकं शुष्क-तर्काद्य्-अगोचरम् औपनिषदम् इत्य् अर्थः । यद् वा, निष्काम-जन-प्राप्य-पदं यत् मोक्षाख्यं वा श्री-वैकुण्ठाख्यं तच् च । यद् वा, फलाभिसन्धि-रहितं प्रेम च जनयतीत्य् अर्थः ॥५७२॥

एकादशे च [भा।पु। ११.२०.३२-३३]—

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥५७३॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते’ञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥५७४॥

इतरैस् तीर्थ-यात्रा-व्रतादिभिर् अपि श्रेयः-साधनैर् यद् भाव्यं सत्त्व-शुद्ध्य्-आदि तत् सर्वम् अनायासेनैव लभते । तथा स्वर्गम् अपवर्गं मद्-धाम च वैकुण्ठं लभत एव । यदि वाञ्छतीति वाञ्छा तु नास्तीत्य् उक्तम् । तत्र कथञ्चिद् इति स्वर्गापवर्गयोस् तुच्छताम् अनुभवितुम् । किं वा, स्वर्गे देवताः श्री-विष्णुं द्रष्टुं स्वर्गं भक्ति-विघ्न-सांसारिक-दुःख-तरणार्थं चापवर्गं वैकुण्ठ-लोके साक्षात् मत्-सेवार्थं चेत्य् एवं-प्रकारेण वाञ्छन्ति चेद् इत्य् अर्थः । वैकुण्ठ-वाञ्छा च तत्रत्य-विभूति-श्रवणाद् भक्ति-रस-प्लुतत्वेनानन्यापेक्ष्यत्वाद् वा ॥५७३-५७४॥

अत एवोक्तं द्वितीये [भा।पु। २.३.१०]—

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥५७५॥

अकाम एकान्त-भक्तः । सर्व-कामः ब्रह्म-वर्चस-कामस् तु [भा।पु। २.३.२] इत्य्-आद्य्-अष्ट-श्लोक-ब्रह्म-वर्चस-कामः । उक्तानुक्ताखिल-कामो वा । उदार-धीर् महा-बुद्धिश् चेत्, तदा परं पुरुषं श्री-कृष्णं भजेत् । तीव्रेण दृढेन । यद् वा, अकामो वैराग्य-कामः । उदार-धीः भगवद्-एक-प्राप्ति-कामो वा । अन्यत् समानम् ॥५७५॥

मोक्षाधिकत्वम्

तृतीये कापिलेये [भा।पु। ३.२५.३३]—

अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।
जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा ॥५७६॥

अनिमित्ता निष्कामाः । सिद्धेर् मुक्तेर् अपि गरीयसी । मुक्तिश् चानुषाङ्गिकी भवत्य् एवेत्य् आह—या भक्तिः कोषं लिङ्ग-शरीरं जरयति क्षपयति । प्रयत्नं विनैव सिद्धौ दृष्टान्तः—निगीर्णं भुक्तम् अन्नं जाठरो’ग्निर् यथा जरयतीति । देवानां गुण-लिङ्गानां [भा।पु। ३.२५.३२] इत्य्-आदि-श्लोको’त्र न सङ्गृहीतः । तत्र भक्ति-लक्षणोक्तेर् गरीयस्त्वं च। भक्तेस् तत्रैवोक्तं नैकात्मतां ये स्पृहयन्ति केचित् [भा।पु। ३.२५.३४] इत्य्-आदि-श्लोक-पञ्चकेन । तद् अत्रानुपयोगान् न सङ्गृहीतम् । एवम् अन्यद् अप्य् ऊह्यम् ॥५७६॥

पञ्चमे श्री-ऋषभदेव-चरितान्ते [भा।पु। ५.६.१७]—

यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः ॥५७७॥

भगवति तस्मिन् वासुदेवे एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तत इति पूर्व-गद्याद् भक्तिर् अनुवर्तत एव । अतो यस्यां भक्ताव् एव, न तु योगादिषु अनुसवनम् अविरतं चात्मानं स्नापयन्त इति परमानन्द-रस-मयत्वं सूचितम् । आत्यन्तिकं परम-पुरुषार्थम् अपि । यद् वा, आत्यन्तिकं सायुज्य-रूपम् अपि । अतः परम-पुरुषार्थम् अप्य् अपवर्गं मोक्षम् । यद् वा, अपवर्गं मोक्षम् आत्यन्तिकं परम-पुरुषार्थं श्री-वैकुण्ठ-लोकम् अपि । एवं सतीदं गद्यम् अग्रे स्वतः परम-पुरुषार्थतायां द्रष्टव्यम् । एवम् अन्यद् अपि ज्ञेयम् । स्वयम् आसादितम् आत्मनैव प्राप्तम् । यद् वा, भगवता स्वयम् एव दीयमानम् अपि । अनादरे हेतुः—भगवदीयत्वेनैव परितः समाप्ताः सम्यक् प्राप्ताः सर्वे पुरुषार्था यैः ॥५७७॥

द्वादशे च श्री-मार्कण्डेयम् उद्दिश्य श्री-शिवोक्तौ [भा।पु। १२.१०.६]—

नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषे’व्यये ॥५७८॥

आशिषो ’भ्युदय-लक्षणाः । उत स्मितौ । तत्र हेतुः—भक्तिम् इति । अव्यये परिपूर्णे पुरुषे श्री-कृष्णे ॥५७८॥

अत एवोक्तं पञ्चमे श्री-भगवन्तम् उद्दिश्य बादरायणिना [भा।पु। ५.१४.४३]—

यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो’पि फल्गुः ॥५७९॥

य एवं-भूतो’सौ नृपः । स क्षित्य्-आदीन् नैच्छद् इति यत्, तद् उचितम् । सद्यावलोकां भरतस्य दया यथा भवति एवम् अल्को यस्यास् ताम् इति परिजनावलोकः श्रियम् उपचर्यते । यद् वा, साक्षाद्-भूतां भरतं कृपयावलोकयन्तीम् अपि सर्व-सम्पद्-अधिष्ठात्री लक्ष्मीम् एव । यतो मधु-द्विषः सेवायां भक्तौ कस्याञ्चिद् वा परिचर्यायाम् अपि अनुरतं मत्तो’पि, न तु प्रवृत्तं सर्वेन्द्रियं येषां तेषां महताम् अभवः मोक्षो’पि फल्गुः, तुच्छ एव ॥५७९॥

एकादशे च भगवता [भा।पु। ११.१४.१४]—

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥५८०॥

रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्-भवं मोक्षम् अपि । पारमेष्ठ्याद्य्-अपुनर्-भवान्तेष्व् एषु क्रमेण श्री-भगवद्-भक्तेर् न्यूनतया तेषां न्यूनताभिप्रायेणैवं व्याख्येयम् । पारमेष्ठ्यम् अपि नेच्छति । किं पुनर् महेन्द्र-धिष्ण्यम् इत्य् आदि । मद्-विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य श्रेष्ठ इत्य् अर्थः । यद् वा, मद्-विना मद्-भक्तिं विना अन्यत् श्री-वैकुण्ठ-वासादिकम् अपि नेच्छतीत्य् अर्थः ॥५८०॥

अत एवोक्तं षष्ठे श्री-रुद्रेण [भा।पु। ६.१७.३२]——

वासुदेवे भगवति भक्तिम् उद्वहतां नॄणाम् ।
ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥५८१॥

तद् एव सर्व-नैरपेक्ष्येण द्रढयति—वासुदेव इति द्वाभ्याम् । ज्ञान-वैराग्ययोर् वीर्यं बलं येषाम् । तयोर् अपि वीर्यं येभ्य इति वा । व्यपाश्रयो विशिष्ट-बुद्ध्या आश्रयणीयो’र्थो नास्ति ॥५८१॥

विष्णु-पुराणे च श्री-प्रह्लादेन [वि।पु। १.२०.२७]—

धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता । समस्त-जगतां मूले यस्य भक्तिः स्थिता त्वयि ॥५८२॥

करे स्थिता अधीनाभूदित्यर्थः । अतस्तस्यामादरो नास्तीति भावः । यद्वा स्वाश्रितेभ्यो मुमुक्षुभ्यो दातुं करे गृहीतेत्यर्थः । अतस्तस्यां स्वार्थाभावान्नैरपेक्ष्यमेव सिद्धम् । समस्तजगतां साधकानां सिद्धानाञ्च सर्वेषां मूले आश्रये अतो मूलापेक्षया पत्रादिस्थानीयान्युपेक्ष्याण्येवेति भावः ॥५८२॥

अतएवोक्तं नारसिंहे—

पत्रेषु पुष्पेषु फलेषु तोयेस्व् अक्रीत-लभ्येषु सदैव सत्सु । भक्त्या सुलभ्ये पुरुषे पुराणे मुक्तौ किम् अर्थं क्रियते प्रयत्नः ॥५८३॥

अक्रीतेषु च तेषु तथापि लभ्येषु सत्सु । यद्वा भावोक्तः क्रयं विनापि लभ्येष्वित्यर्थः । एवं भक्तिसाधनानां सुलभता दर्शिता भक्तया च सुलभे पुरारि नवः पुराणः श्रीकृष्ण इत्यर्थः तस्मिन् इति भजनीयस्य सुसाध्यता दर्शिता । मुक्त्यै प्रयत्नः किमर्थं क्रियते आनुसङ्गिकत्वेन तस्याः स्वत एव सिद्धेः । किंवा साध्ये सिद्धे साधनप्रयासानुपयोगात् । परमवस्तुनि सुलभे तुच्छवस्त्वर्थं प्रयासोऽनुचित इति ॥५८३॥

अतएवोक्तं प्रथम-स्कन्धे [भा।पु। १.७.१०]—

आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्भूत-गुणो हरिः ॥५८४॥

आत्मारामा ब्रह्म-निष्ठा अपि । अत एव निर्ग्रन्था ग्रन्थेभ्यो निर्ग्रन्थाः । तद् उक्तं—

यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता। २.४२] इति ।

यद् वा ग्रन्थिर् एव ग्रन्थः, निर्वृत्त-हृदय-ग्रन्थय इत्य् अर्थः । ननु मुक्तानां किं भक्त्येत्य्-आदि-सर्वाक्षेप-परिहारार्थम् आह—इत्थं-भूत-गुण इति । अत्यनिर्वचनीय-परमाकर्षक-भक्ति-गुणत्वाद् इत्य् अर्थः । तच् च श्री-भागवतामृतोत्तर-खण्डे व्युत्पादितम् एवास्ति ॥५८४॥

श्री-वैकुण्ठ-लोक-प्रापकत्वम्

वामने—

येषां चक्र-गदा-पाणौ भक्तिर् अव्यभिचारिणी ।
ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥५८५॥

योगेश्वरो भक्ति-योग-प्राप्यः ॥५८५॥

स्कान्दे—

मुनिर् जाप्य-परो नित्यं दृढ-भक्तिर् जितेन्द्रियः ।
स्व-गृहे’पि वसन् याति तद् विष्णोः परमं पदम् ॥५८६॥

जाप्यं भगवतो मन्त्रो नाम वा । तत्-परः, अतो दृढ-भक्तिः । अत एव जितेन्द्रियः । विपरीतो वा हेतु-हेतुमद्-भावः ॥५८६॥

तृतीय-स्कन्धे श्री-वैकुण्ठ-वर्णने [भा।पु। ३.१५.२५]—

यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।
भर्तुर् मिथः सुयशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥५८७॥

यच् च नो’स्माकं सर्व-देवानाम् उपरि-स्थितं व्रजन्ति । के ? अनिमिषां देवानाम् ऋषभ्ः श्रेष्ठो हरिस् तस्यानुवृत्त्या भक्त्या दूरे यमो येषां ते । यद् वा, दूरीकृत-यम-नियमाः । दूरे’हम् इति पाठे दूरीकृताहङ्कारा इत्य् अर्थः । स्पृहणीयं करुणादि भगवद्-भजनादि वा शीलं स्वभावो येषाम् । यद् वा, अस्मत्-प्रार्थ्यं शीलं येषाम् । किं च, भर्तुर् हरेर् यत् सुयशस् तस्य मिथः कथनेन यः प्रेमाविर्भावस् तेन वैक्लव्यं वैवश्यं, तेन या बाष्प-कला, तया सह पुलकीकृतम् अङ्गं येषां ते । इत्य् अनुवृत्ति-लक्षणम् उक्तम् । यद् वा, ।तथा-भूताः सन्तो व्रजन्तीति गमन-प्रकारः । यद् वा, न उपरीति व्रजतां विशेषणम् । निरहङ्कारत्वाद् अप्य् अस्मत्तो’पि ये’धिकास् ते इत्य् अर्थः ॥५८७॥

दशमे च श्री-ब्रह्म-स्तुतौ [भा।पु। १०.१४.५]—

पुरेह भूमन् बहवो’पि योगिनस्
त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरे’ञ्जो’च्युत ते गतिं पराम् ॥५८८॥

भक्त्यैव वैकुण्ठ-प्राप्तिर् नान्यथेत्य् अत्र सद्-आचारं प्रमाणयति—पुरेति । भूमन् ! हे अपरिच्छिन्न-माहात्म्य ! इह लोके पूर्वं योगिनो’पि सन्तो योगैर् ज्ञानम् अप्राप्य पश्चात् त्वद्-अर्पितेहाः, त्वय्य् अर्पिता लौकिक्य् अपीहा चेष्टा यैस् ते, निज-कर्म-लब्धया, त्वद्-अर्पितैर् निजैः कर्मभिर् धर्म-लक्षणैर् लब्धया । अर्पिता लौकिक्य् अपि ईहा च निज-कर्माणि च तैर् लब्धयेत्य् एकं वा पदम् । कथोपनीतया कथया त्वत्-समीपं प्रापितया । यद् वा, कथया उपस्थापितया कथा-प्रधानयेत्य् अर्थः । यद् वा, कथा-प्रवर्तितयेत्य् अर्थः । भक्त्यैव विबुध्य तत्त्वं ज्ञात्वा अञ्जः सुखेनैव ते परां परमां गम्यत इति गतिं गम्य-पदं प्राप्ताः ॥५८८॥

बृहन्-नारदीये भगवत्-तोष-प्रश्नोत्तरे [१.१.५०]—

सर्व-देव-मयो विष्णुः शरणार्ति-प्रनाशनः ।
स्व-भक्त-वत्सलो देवो भक्त्या तुष्यति नान्यथा ॥५८९॥

सप्तम-स्कन्धे श्री-प्रह्लादस्य बालोपदेशे [भा।पु। ७.७.५१-५२]—

नालं द्विजत्वं देवत्वम् ऋषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता ॥५९०॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयते’मलया भक्त्या हरिर् अन्यद् विडम्बनम् ॥५९१॥

हे असुरात्मजाः ! देवत्वादिकं मुकुन्दस्य प्रीणनाय नालं न समर्थम् । वृत्तं सद्-आचारः। अमलया निष्कामया विशुद्धया वा । विडम्बनं नटन-मात्रम्, न तु तात्त्विकम् इत्य् अर्थः ॥५९०-५९१॥

श्री-नृसिंह-स्तुतौ च [भा।पु। ७.९.९]—

मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गज-यूथपाय ॥५९२॥

अभिजनः सत्-कुले जन्म । रूपं सौन्दर्यम् । तपः स्व-धर्माचरणम् । श्रुतं पाण्डित्यम् । ओज इन्द्रिय-नैपुण्यम् । तेजः कान्तिः । प्रभावः प्रतापः । बलं शरीर-शक्तिः । पौरुषम् उद्यमः । बुद्धिः प्रज्ञा । योगो’ष्टाङ्गः । एते धनादयो द्वादशापि गुणाः परस्य पुंसः तवाराधनाय साधनाय भजनोपकरणायापि न भवन्ति, किम् उत त्वत्-तुष्ट्यै । हि यतः । केवलया भक्त्यैव गजेन्द्राय तुष्टो’भवत् ॥५९२॥

अन्यत्रापि [पद्यावली ८]–

व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का
कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् ।
वंशः को विदुरस्य यादव-पतेर् उग्रस्य किं पौरुषं
भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः ॥५९३॥

व्याधस्याचरणं किं ? ध्रुवस्य च वयः किं ? विदुरस्य वंशः कुलं कः ? अपि तु न को’पि । दास्यां जातत्वात् । यादव-पतेर् उग्रसेनस्य । अतः कर्म-वयो-विद्यादिभिर् गुणैर् न तुष्यति, किन्तु केवलं भक्त्यैव । यतः भक्तिर् एव प्रिया प्रीति-करी यस्य सः ॥५९३॥

अत एवोक्तं श्री-भगवता [गीता ९.२६]—

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥५९४॥

भक्त्या प्रीत्या उपहृतं स्वीकृतं यथा स्यात् तथा अश्नामि । प्रयतात्मनो निष्कामस्य ॥५९४॥

प्रथम-स्कन्धे* श्री-हनुमतोक्तम्—

न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः ।
तैर् यद् विसृष्टान् अपि नो वनौकसश्
चकार सखे बत लक्ष्मणाग्रजः ॥५९५॥

न तस्य तोष-हेतुः सत्-कुल-जन्मादि, किन्तु भक्तिर् एवेत्य् आह—न जन्मेति । महतः पुरुषाज् जन्म । यद् वा, महतो वैष्णवस्यापि न तोष-हेतुः । कुतो भगवत इत्य् अर्थः । सौभगं सौन्दर्यम् । आकृतिर् जातिः । यद् यस्मात् तैर् जन्मादिभिर् विसृष्टान् त्यक्तान् अपि नो वन-चरान् बत अहो लक्ष्मणाग्रजो’पि सखित्वेन कृतवान् ॥५९५॥

श्री-भगवत्-सङ्गमकत्वम्

श्री-भगवद्-गीतासु [११.५४]—

भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो’र्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥५९६॥

तर्हि केनोपायेन त्वं प्राप्टुं शक्यः ? तत्राह भक्त्येति । अनन्यया मद्-एक-निष्ठया विशुद्धया वा भक्त्या । एवम्भूतो विश्वरूपो’परिच्छिन्नो’थ च श्री-देवकी-गर्भ-जातः श्री-यशोदा-लालितो दामोदरो नित्य-किशोरश् चेत्य्-आदि-रूपः । तत्त्वेन परमार्थतो ज्ञातुं शक्यः शास्त्रतः प्रवेष्टुं यन्-मयत्वेन नित्य-निकट-वर्तित्वादिना वाहं ज्ञातुं शक्यः, न चान्यैर् उपायैः ॥५९६॥

एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे [भा।पु। ११.१४.२५]—

यथाग्निना हेम-मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्-भक्ति-योगेन भजत्य् अथो माम् ॥५९७॥

भक्त्यैव सकल-मलापगमतो भगवत्-सङ्गमो नान्यथेति सदृष्टान्तम् आह—यथेति । यथाग्निना ध्मातं तापितम् एव हेम सुवर्णम् अन्तर्-मलं जहाति, न क्षालनादिभिः । स्वं निजं रूपं च भजते । कर्मानुशयं कर्म-वासनाम् । मां भजते । मया सङ्गमम् आपद्यते ॥५९७॥

किं च [भा।पु। ११.१८.४५]—

भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् ।
सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥५९८॥

महेश्वरत्वे हेतुः—सर्वस्योत्पत्त्य्-अप्ययौ यस्मात् तम् । अत एव तस्य कारणं मा मां ब्रह्म सच्चिदानन्द-विग्रहम् । यद् वा, ब्रह्मणो वेदस्य जीव-तत्त्वस्य वा कारणं पर-ब्रह्म-रूपं मां देवकी-नन्दनम् उपयाति सामीप्येन प्राप्नोति, नित्य-सङ्गितया मिलतीत्य् अर्थः ॥५९८॥

श्री-भगवद्-वशीकारत्वम्

पाद्मे कार्त्तिक-माहात्म्ये श्री-नारद-शौनक-संवादे—

भुक्तिं मुक्तिं हरिर् दद्यात् अर्चितो’न्यत्र सेविनाम् ।
भक्तिं च ददात्य् एष यतो वश्य-करी हरेः ॥५९९॥

अन्यत्र श्री-मथुरेतर-स्थाने अर्चितः सन् सेविनां भजताम् अपि भक्तिं प्रेम-लक्षणाम् । यद् वा, सेविनां पूजा-परिचर्या-कारिणाम् अपि समग्रां भक्तिं न ददाति ॥५९९॥

तत्रैव वैशाख-माहात्म्ये (५.८५.३९) श्री-नारदाम्बरीष-संवादे—

मायाजानिर् अमायो’सौ भक्त्या राजन् न मायया ।
साध्यते साधु-पुरुषैः स्वयं जानाति तद् भवान् ॥६००॥

माया जाया अधीना यस्य स मायाजानिः, अतः स्वयम् अमायः माया-विकार-रहितः । यद् वा, न विद्यते माया यस्मात् सः भक्तानां माया-निवर्तक इत्य् अर्थः । अमायया विशुद्धया भक्त्या, साधुभिः पुरुषैः । यद् वा, साधु यथा स्यात् तथा, यत् साध्यते वशीक्रियते, तद् भवान् एव स्वयं जानाति । भवता तद्-वशी-करणात्, अतस् तन् मया किं निर्वचनीयम् इत्य् अर्थः ॥६००॥

एकादश-स्कन्धे च तत्रैव [भा।पु। ११.१४.२०-२१]—

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥६०१॥
धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥६०२॥

न साधयति न वशीकरोति । ऊर्जिता परम-समर्था ॥६०१॥

श्रद्धया या भक्तिस् तया, सतां भक्तानां प्रिय आत्मा आत्मनोऽपि सकाशात् प्रिय इत्य् अर्थः । यद् वा, आत्मापि अप्रियो यस्मात् स परम-प्रियतम इत्य् अर्थः ॥६०२॥

स्वतः परम-पुरुषार्थता

तृतीय-स्कन्धे श्री-कापिलेये [भा।पु। ३.२९.१३]—

सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥६०३॥

सालोक्यं मया सहैकस्मिन् लोके वासम् । सार्ष्टिं समानैश्वर्यम् । सामीप्यं निकट-वर्तित्वम् । सारूप्यं समान-रूपताम् । एकत्वं सायुज्यम् । उत अपि दीयमानम् अपि मया । मत्-सेवनं मद्-भक्तिम् ॥६०३॥

नवम-स्कन्धे चाम्बरीषोपाख्याने श्री-भगवद्-उक्तौ [भा।पु। ९.४.६७]—

**मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतो’न्यत् काल-विप्लुतम् ॥६०४॥ **इति ।

वशे कुर्वन्ति मां भक्त्या [भा।पु। ९.४.६६] इति दुर्वाससं प्रति श्री-भगवता पूर्व-श्लोकत उक्तम् । ननु तेषाम् अपेक्षितं किञ्चिद् अन्यत् प्रदायात्मानं स्वतन्त्रयति चेत्, तत्राह—मत्-सेवयेति । प्रतीतं स्वतः प्राप्तम् अपि । आदि-शब्देन सारूप्य-सामीप्य-सायुज्यानि । सेवया मद्-भक्त्यैव पूर्णाः परिपूर्ण-कामाः । परमानन्द-रस-भूता वा । सेवां विना नान्यत् किम् अपि वाञ्छन्तीत्य् अर्थः । भक्तेर् एव स्वतः परम-फलत्वात् । सदा भक्त्यैकासक्तत्वात् तेषाम् अहं वश्य एवेति । दुर्वाससं प्रति वाक्य-तात्पर्यम् ॥६०४॥

माहात्म्यं यच् च भगवद्-भक्तानां लिखितं पुरा ।
तद्-भक्तेर् अपि विज्ञेयं तेषां भक्त्यैव तत्त्वतः ॥६०५॥
तथा पूजा तद्-अङ्गानां श्रीमन्-नाम्नो’परस्य च ।
द्रष्टव्यम् इह माहात्म्यं तेषां भक्त्य्-अङ्गता यतः ॥६०६॥

एवं पाप-प्रायश्चित्त-निरसम् आरभ्य स्वतः परम-पुरुषार्थता-पर्यन्तं श्रीमद् भक्तेर् माहात्म्यं लिखित्वा इदानीं पूर्व-लिखितम् अखिलं तत्-तन्-माहात्म्यम् अपि भक्ति-माहात्म्य एव पर्यवसाययति—माहात्म्यम् इति द्वाभ्याम् । तत् माहात्म्यम् । यतो यस्मात् तेषां भक्तानां तन्-माहात्म्य-भक्त्यैव हेतुना भवति ॥६०५-६०६॥

अथ श्रीमद्-भगवद्-भक्ति-नित्यता

यावज् जनो भजति नो भुवि विष्णु-भक्ति-
वार्ता-सुधा-रस-विशेष-रसैक-सारम् ।
तावज् जरा-मरण-जन्म-शताभिघात-
दुःखानि तानि लभते बहु-देहजानि ॥६०७॥

एवम् अनुष्ठाने गुण-समुदयं लिखित्वा इदानीम् अकरणे प्रत्यवायं लिखति—यावद् इत्य्-आदिना । पतन्त्य् अधः (६१०) इत्य् अन्तेन । विष्णु-भक्तेर् वार्ता अन्यो’न्य-कथनम् अपि सुधा-रसस् तं यावज् जनो न भजति, भक्त्या नाश्रयति, जरा-मरण-जन्मनां शतं बाहुल्यम् अभिघातश् च नरकादिषु प्रहारः । यद् वा, जरादि-शतस्य यानि दुःखानि तानि अनिर्वचनीयानि । एवं संसार-महा-दुःख-ज्वाला-निवृत्तिर् उक्ता ॥६०७॥

दशमे ब्रह्म-स्तुतौ [भा।पु। १०.१४.४]—
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवेल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥६०८॥

भक्तिं विना तु ज्ञानं नैव सिध्येत्, अथ च केवलं दुःखम् एव स्याद् इत्य् आह—श्रेय इति । श्रेयसाम् अभ्युदयापवर्ग-लक्षणानां सृतिः स्रवणं यस्याः सरस इव निर्झराणाम् । तां ते तव भक्तिम् उदस्य त्यक्त्वा । श्रेयसां मार्ग-भूताम् इति वा । तेषां क्लेशलः क्लेश एव शिष्यते । अयं भावः—यथा स्वल्प-प्रमाण-धान्यं परित्यज्यान्तः-कण-हीनान् स्थूल-धान्याभासांस् तुषान् ये’वघ्नन्ति, तेषां न किञ्चित् फलम्, एवं भक्तिं तुच्छीकृत्य केवल-बोधाय ये प्रयतन्ते, तेषाम् अपीति ॥६०८॥

एकादशे [भा।पु। ११.५.२-३]—

मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥६०९॥
य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥६१०॥

स्व-जनकस्य भगवतो’भजनाद् गुरु-द्रोहेण दुर्गतिं यान्तीति वक्तुं भगवतः सकाशाद् वर्णाश्रमाणाम् उत्पत्तिम् आह—मुखेति । गुणैः सत्त्वेन विप्रः, सत्त्व-रजोभ्यां क्षत्रियः, रजस्-तमोभ्यां वैश्यः, तमसा शूद्र इति । यद् वा, गुणैर् वृत्तिभिश् च सह । तथा च तृतीय-स्कन्धे—

मुखतो’वर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस् तून्मुखत्वाद् वर्णानां मुख्यो’भूद् ब्राह्मणो गुरुः ॥ बाहुभ्यो’वर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः । यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् ॥ विशो’वर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः । वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् ॥ पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये । तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः ॥ [भा।पु। ३.६.३०-३३] इति ।

तथा, आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः [भा।पु। ३.१२.४१] इति । यद् वा, गुणैः यथा-सङ्ख्यं शान्ति-वीर्य-धनार्जन-परिचर्यादि-रूपैश् च सह ॥६०९॥

एषां मध्ये ये’ज्ञात्वा न भजन्ति, ये च ज्ञात्वाप्य् अवजानन्ति । यद् वा, न भजन्ति, अत एवावजानन्ति, अत एव ते स्थानाद् वर्णाश्रमाद् वृत्तेश् च भ्रष्टाः सन्तोऽधो नरकेषु पतन्ति । कुतः ? आत्मनः प्रभवो जन्म यस्मात् तम् । एवं तद्-अभजने गुरु-द्रोहितोक्ताः । कृतघ्नताम् अप्य् आह—ईश्वरम् इति ॥६१०॥

अत एवोक्तं श्री-भगवता [गीता ७.१५]—

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥६११॥

न व्याख्यातम्।

नित्यत्वं यद् यद् अङ्गानां भक्तेर् विलिखितं पुरा ।
तेन तेनैव नित्यत्वम् अस्यां संसाधितं परम् ॥६१२॥
लक्षणानि च तद्-भक्तेः श्रीमद्-भागवतादिषु ।
ख्यातानि श्रवणादीनि लिख्यन्ते’थापि कानिचित् ॥६१३ ॥

एवं भक्तेः स्वतो नित्यतां लिखित्वा इदानीं पूर्व-लिखितेन श्रवणादि-नित्यत्वेनापि भक्तेः परम-नित्यत्वम् अवगन्तव्यम् इति लिखिअति—नित्यत्वम् इति । भक्तेर् अङ्गानां श्रवणादीनां, अस्याः भक्तेः परं परमं नित्यत्वं सम्यक् साधितम् ॥६१२॥ तस्या निखिल-माहात्म्याया भक्तेः श्रवणादीनि लीलानि श्रीमद्-भागवतादिषु ख्यातान्य् एव, तथापि कानिचिद् लक्षणानि लिख्यन्ते ॥६१३॥

अथ श्रीमद्-भक्ति-लक्षणानि

तत्र सामान्य-लक्षणम्

तृतीय-स्कन्धे श्री-कापिलेये [भा।पु। ३.२५.३२]—

देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् ।
सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ।
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ॥६१४॥

देवानां द्योतनात्मकानाम् इन्द्रियाणां तद्-अधिष्ठातॄणां वा सत्त्वे सत्त्व-मूर्तौ श्री-भगवत्य् एव या वृत्तिः सा भक्तिः । एवं श्रवणादि-लक्षणान्य् एवोद्दिष्टानीति सामान्यतो लक्षणम् । गुणाविषया लिङ्ग्यते जायन्ते यैस् तेषाम् इति सदा विषय-निष्ठता दर्शिताः । तेषाम् एवं-विध-वृत्तौ हेतुम् आह—गुरोर् उच्चार्णम् अनुश्रूयते इत्य् अन्श्रवो वेदस् तद्-विहितम् आनुश्रविकम्, तद् एव कर्म येषाम् । अत एव एकम् एक-रूपम् अविकृतं मनो यस्य पुंसः शुद्ध-सत्त्वस्य सत इत्य् अर्थः । यद् वा, एकस्मिन् भगवत्य् एव मनो यस्य । अस्य पदस्य परेण वा सम्बन्धः । सा च भगवती भगवत्-सम्बन्धिनी भक्तिर् एक-मनसः पुंसः सती । अत एव अनिमित्ता निष्कामा सती । अत एव स्वाभाविकी अयत्न-सिद्धा च सती सिद्धेर् मोक्षाद् अपि गरीयसी भवतीत्य् अन्वयः । एवम् आदौ सामान्य-लक्षणम् उक्त्वा पश्चाद् उत्तमत्वम् उक्तम् । काचित् त्वय्य् उचिता भक्तिः [भा।पु। ३.२५.२८] इति श्री-देवहूत्योत्तम-भक्तेः पृष्टत्वात् ॥६१४॥

अथ विशेष-साधन-भक्ति-लक्षणानि

गौतमीय-तन्त्रे—

देवतायां च मन्त्रे च तथा मन्त्र-प्रदे गुरौ ।
भक्तिर् अष्ट-विधा यस्य तस्य कृष्णः प्रसीदति ॥६१५॥
तद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् ।
सुमना अर्चयेन् नित्यं तद्-अर्थे दम्भ-वर्जनम् ॥६१६॥
तत्-कथा-श्रवणे रागस् तद्-अर्थे चाङ्ग-विक्रिया ।
तद्-अनुस्मरणं नि
त्यं यस् तन्-नामोपजीवति ॥६१७**॥
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छे’पि वर्तते ।
स मुनिः सत्य-वादी च कीर्तिमान् स भवेन् नरः ॥६१८॥**

सुमनाः शुद्ध-चित्तः श्रद्धा-भक्ति-युक्तश् च सन् नित्यम् एकः प्रकारः । तद्-अर्थे भगवद्-अर्थं सुमनस्त्वेनार्चनार्थं वा । अङ्ग-विक्रिया नृत्यादिः ॥ मुनिः जीवन्-मुक्तः सत्यं भगवन्-नाम वदितुं शीलम् अस्य स तथा । स्वत एव कीर्तिमान् देवादि-गीयमान-माहात्म्य इत्य् अर्थः ॥६१५-६१८॥

सप्तम-स्कन्धे प्रह्लादोक्तौ [भा।पु। ७.५.२३-२४]—

श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्य्
अं सख्यम् आत्म-निवेदनम् ।।६१९॥
इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा
तन् मन्ये’धीतम् उत्तमम् ।।६२०॥

पाद-सेवनं परिचर्या । अर्चनं पूजा । दास्यं कर्मार्पणम् । सख्यं तद्-विश्वासादि । आत्म-निवेदनं देह-समर्पणम् । यथा विक्रीतस्य गवादेर् भरण-पालनादि-चिन्ता न क्रियते, तथा देहं तस्मै तच्-चिन्ता-वर्जनम् इत्य् अर्थः ॥६१९-६२०॥

तत्रैव श्री-नारद-युधिष्ठिर-संवादे [भा।पु। ७.११.११]—

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
सेवेज्यावनतिर् दास्यं सख्यम् आत्म-समर्पणम् ॥६२१॥

अस्य महतां गतेः श्री-कृष्णस्य । इज्या पूजा ॥६२१॥

पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्र-केतु-संवादे—

श्रवणं कीर्तनं पूजा सर्व-कर्मार्पणं स्मृतिः ।
परिचर्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥६२२॥

सर्वस्य कर्मणो’र्पणम् । एतद् एव सप्तम-स्कन्धे श्री-प्रह्लादेन दास्यम् इत्य् उक्तम् । प्रेम विश्वासः । भाव-विशेषाभिधेयस्य प्रेम-शब्दस्य परम-अंएअस्य मुख्य-वृत्तेः, अत एवैतत् तेन तत्रैव सख्यम् इत्य् उक्तम् । प्रेम-सख्यम् एवं स्थान-त्रये नव-लक्षणा भक्तिर् उक्ता । श्रवणादीनाम् एषाम् एव नव-प्रकाराणां मुख्यत्वात् ॥६२२॥

तत्रैवोत्तर-खण्डे श्री-शिव-पार्वती-संवादे [प।पु। ६.२२४.२३-२७]—

**आद्यं तु वैष्णवं प्रोक्तं शङ्ख-चक्राङ्कनं हरेः ।
धारणं चोर्ध्वर्पुण्ड्राणान्तन्मन्त्राणां परिग्रहः ॥६२३ ॥
अर्चनं च जपो ध्यानं तन्-नाम-स्मरणं तथा ।
कीर्तनं श्रवणं चैव वन्दनं पाद-सेवनम् ॥६२४ ॥
तत्-पादोदक-सेवा च तन्-निवेदित-भोजनम् ।
तदीयानां च सेवां च द्वादशी-व्रत-निष्ठितम् ॥६२५ ॥
तुलसी-रोपणं विष्णोर् देव-देवस्य शार्ङ्गिणः ।
भक्तिः षोडशधा प्रोक्ता भव-बन्ध-विमुक्तये ॥६२६ ॥ **इति ।

अथान्यान् अपि कांश्चिन् मुख्यान् दर्शयन् षोडश-प्रकारान् लिखति—आद्यम् इति चतुर्भिः । वैष्णवं विष्णु-भक्ति-लक्षणम् इत्य् अर्थः । हरेः शङ्ख-चक्राभ्याम् अङ्कनं, तच् च तप्ताभ्याम् इति ज्ञेयम् । तद्-अङ्कनस्यैव मुख्यत्वात् । तस्य हरेर् मन्त्राणां, तस्य हरेर् नाम्नां स्मरणम् । लघु लघु शनैः कीर्तनं मनसि वा चिन्तनम् । एवं ध्यानेन कीर्तनेन वा गृहीतस्यापि नाम-स्मरणस्य पृथङ्-निर्देशः, तस्य स्वातन्त्र्य-विवक्षया । तदीयानां श्री-वैष्णवानां सम्यक् सेवा ॥६२३-६२५॥ \

किं च—
दर्शनं भगवन्-मूर्तेः स्पर्शनं क्षेत्र-सेवनम् ।
आघ्राणं धूप-शेषादेर् निर्माल्यस्य च धारणम् ॥६२७॥
नृत्यं भगवद्-अग्रे च तथा वीणादि-वादनम् ।
कृष्ण-लीलाद्य्-अभिनयः श्री-भागवत-सेवनम् ॥६२८॥
पद्माक्ष-माला-विधृतिर् एकादश्य्-आदि-जागरः ।
प्रासाद-रचनाद्य् अन्यज् ज्ञेयं शास्त्रानुसारतः ॥६२९॥

एवं तत्र तत्र स्पष्टम् एकत्रोक्तानि भक्तेर् लक्षणानि लिखित्वा इदानीम् अनुक्तान्य् अपि लक्षणानि पूर्व-लिखिताद्य्-अनुसारेण लिखन् श्रवणेन्द्रियादीनाम् इव चक्षुर्-आदीन्द्रियाणाम् अपि भगवन्-निवृत्त्या, तथा मस्तकाद्य्-अङ्गानाम् अपि भगवद्-अर्थ-चेष्टया भक्तित्वेन, तथा पूजाङ्गानाम् अपि भक्त्य्-अन्तर्-गतत्वेन श्री-मूर्ति-दर्शनादीन्य् अपि भक्ति-लक्षणान्य् एवेति लिखति—दर्शनम् इति त्रिभिः । क्षेत्रस्य श्री-मथुरादेः सेवनं, तत्र गमनं भ्रमणं निवासश् चेत्य् अर्थः । इति प्रायः पादेन्द्रिय-वृत्तिर् दर्शिता । धूप-शेषस्य, आदि-शब्देन निर्माल्य-तुलस्य्-आदेश् चाघ्राणम् । एवं चक्षुस्-त्वक्-पाद-नासेन्द्रिय-वृत्ति-रूप-लक्षणानि लिखितानि । पूर्वं नव-लक्षणेषु श्रवण-वाक्य-मनो-हस्तेन्द्रिय-वृत्ति-लक्षणानि । षोडश-लक्षणेषु च पादोदक-पान-निवेदित-भोजनाभ्यां रसनेन्द्रिय-वृत्ति-रूप-लक्षणं लिखितम् । पायूपस्थयोश् च तत्र साक्षाद् अयोग्यत्वात् तद्-वृत्ति-रूप-लक्षणं न लिखितम् ।

इदानीं मस्तकाद्य्-अङ्ग-चेष्टा-रूप-लक्षणानि लिखति—निर्माल्य-सेवेत्य्-आदिना । तत्र च क्वचिद् एकस्याङ्गस्य क्वचित् द्वयोः, क्वचिद् बहूनां, तत्रापि क्वचित् संहतानाम् अपीत्य् एवं विवेचनीयम् । यद्यपि वन्दनेन शिरश् चेष्टा-रूप-लक्षणं, परिचर्यया च हस्तादि-चेष्टा-रूप-लक्षणानि गृहीतान्य् एव, तथापि तत्र तत्रैव विशेषान्तरापेक्षया पुनस् तच्-चेष्टा-रूप-लक्षणानि निर्माल्य-धारण-वीणा-वादनादीनि लिखितानीति दिक् । भगवद्-अग्रत इति अन्यत्र नर्तनादेर् भगवद्-भक्ति-लक्षणत्वाभावात् प्रेम-वैवश्य-नृत्यादेश् च फल-परिकरान्तर्-गतत्वाद् इति दिक् ।

अत्र यद्यपि नृत्यं प्रायो हस्त-पादयोर् एव चेष्टा, तथापि सङ्घातैर् एवाङ्गैर् अन्यैर् अपि स्याद् इति संहतानाम् एव ज्ञेयम् । एवम् अग्रे’प्य् ऊह्यम् । तथेति भगवद्-अग्र एवेत्य् अर्थः । सिद्धान्तश् चात्र पूर्ववद् एव । आदि-शब्देन वंश्य्-आदि । कृष्णस्य लीला, आदि-शब्देन रूपादि, तद्-अनुकरणम् । श्री-भागवतस्य सेवनं, श्रवण-कीर्तनादि-परता । पद्माक्ष-मालायाः, आदि-शब्देन तुलसी-मालादीनां च धारणम् । एकादश्याम्, आदि-शब्दाज् जन्माष्टम्य्-आदिषु च रात्रौ जागरणम् । प्रासादस्य भगवद्-आलयस्य रचनं निर्माणम् । तद्-आदिकं चान्यद् यात्रोत्सवादि शास्त्रोक्तानुसारेण भक्ति-लक्षणं ज्ञेयम् ॥६२७-६२९॥

लिखिता भगवद्-धर्मा भक्तानां लक्षणानि च ।
तानि ज्ञेयानि सर्वाणि भक्तेर् वै लक्षणां न हि ॥६३०॥

तद् एव आदि-शब्द-सूचितम् अभिव्यञ्जयति—लिखिता इति । भगवद्-धर्मा ये पूर्वं लिखिता, यानि च भगवद्-भक्तानां लक्षणानि लिखितानि, तानि सर्वाण्य् एव भक्ति-लक्षणानि ज्ञेयानि । वै प्रसिद्धौ ॥६३०॥

तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः ।
बहिरङ्गान्तरङ्गाणि प्रेम-सिद्धौ च तानि यत् ॥६३१॥

तेष्व् एव किञ्चिद् विशेषं दर्शयति—तेष्व् इति । श्रवणादि-सर्वेषु एव लीखितेषु भक्ति-लक्षणेषु मध्ये कानिचित् गौणानि अप्रधानानि, कानिचिच् च मुख्यानि प्रधानानि विविच्य ज्ञेयानीत्य् अर्थः । यत् यस्मात् तानि लक्षणानि प्रेम्णः सिद्धौ साधने बहिरङ्गानि अन्तरङ्गानि च । यानि बहिरङ्गाणि, तानि गौणानि । यानि चान्तरङ्गानि, तानि मुख्यानीत्य् अर्थः । विवेकिभिर् इत्य् अनेन श्रवणादीनि नव मुख्यानि, तत्र च श्रवण-कीर्तन-स्मरणानि—श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नॄणां [भा।पु। २.२.३६] इति सारोपदेशात् । तत्रापि कीर्तन-स्मरणे—भक्तिर् भवति गोविन्दे स्मरणं कीर्तनं तथा इति स्कान्दे भक्ति-विशेषणतया तयोर् उक्तेः । तत्रापि श्री-भगवन्-नाम-सङ्कीर्तनम्—अघच्छित्-स्मरणम् इत्य्-आदि-वचनात् । तच् च सर्वं पूर्वं लिखितम् । श्री-भागवतामृतोत्तर-खण्डे च विवृतास्ति । सख्यात्म-निवेदने च फल-परिकरान्तर्गतत्वेन मुख्यतमे इत्य् एवं विवेचनम् अभिप्रेतम् । एतच् चाखिलं श्री-वोपदेवाचार्यादिभिर् मुक्ता-फलादि-ग्रन्थेषु, श्रीमन्-महानुभावैश् च भक्ति-रसार्णवे विशेषेण विविच्य दर्शितम् एवास्तीति विस्तरतो न लिखितम् ॥६३१॥

भेदास् तु विविधा भक्तेर् भक्त-भावादि-भेदतः ।
मुक्ता-फलादि-ग्रन्थेभ्यो ज्ञेयास् तल् लिखनैर् अलम् ॥६३२॥

किं च, भक्तानां भगवत्-सेवकानां भावः—तामसो राजसः सात्त्विकश् च, तथा कर्म-ज्ञान-वैराग्य-मिश्रः शुद्धश् चेत्य् एवं भेदेन, आदि-शब्दात् साधन-साध्यादि-भेदेन च भक्तेर् बहु-विधा भेदा भवन्ति । ते चोक्ता कतिचित् स्पष्टं श्री-कपिल-देवेन तृतीय-स्कन्धे—

अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा । संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः ॥ विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा । अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः ॥ कर्म-निर्हारं ऊद्दिश्य परस्मिन् वा तद्-अर्पणम् । यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः ॥ [भा।पु। ३.२९.८-१०] इत्य् आदिभिः ।

एषु च प्रत्येकम् अपि त्रिधावान्तर-भेदो द्रष्टव्यः । एवम् एकाशीतिर् भेदाः प्रसिद्धाः । अन्ये च बहवो लिखितानुसारेण भवन्त्य् एव । तत्र च कर्म-ज्ञान-मिश्रादयः पूर्वं भक्त-लक्षणेषु सङ्क्षेपेण लिखिता एव, विशेषतश् च सर्वे’प्य् एते भेदाः श्री-वोपदेवाचार्यादिभिर् निरूपिता एव सन्ति । अतस् ते मुक्ता-फलादि-ग्रन्थेभ्यो’वगन्तव्याः । आदि-शब्देन विष्णु-भक्ति-चन्द्रोदय-भक्ति-रसार्णवादयः । अतो’त्र तेषां भेदानां लिखनैर् अलं, प्रयोजनं नास्तीत्य् अर्थः । वैष्णवानाम् अवश्य-कृत्य-लिखन-ग्रन्थे’स्मिन् तद्-अपेक्षा-विशेषाभावात् ॥६३२॥

प्रेम-भक्तौ च सिद्धायां सर्वे’र्थाः सेवकाः स्वयम् ।
भगवांश् चातिवश्यः स्याल् लिख्यते’स्याः सुलक्षणम् ॥६३३॥

इत्थं श्रवणादि-लक्षणायाः साधन-भक्तेर् माहात्म्यं लक्षणं च लिखित्वा इदानीं प्रेम-लक्षणाया एव रूपाया भक्तेस् तल् लिखिष्यन् आदौ सङ्क्षेपेण माहात्म्यं दर्शयन् लक्षण-विशेष-लिखनं प्रतिजानीते—प्रेमेति । प्रेम-लक्षण-भक्तौ सिद्धायां च सर्वे अर्था धर्मादयः पुरुषार्थाः स्वयम् एव सेवकाः प्रेम-भक्तिमतो जनस्याधीना भवन्ति । अप्य्-अर्थे च-कारः । भगवान् परमेश्वरः श्री-कृष्णो’पि अतिवश्यः परमायत्तः स्याद् इति सङ्क्षेपतो माहात्म्यम् । यद्यपि श्रवणादि-साधन-भक्त्या तद्-वशीकरणं पूर्वं लिखितम् अस्ति, तथापि भक्त-मनोरथ-पूरणार्थं प्रेम-प्रदानार्थं वा तद् विज्ञेयम् । प्रेम्णा च वशीकरणं, प्रेमवतो मनोरथे सम्पादिते’पि सत्सङ्गं कदापि न परित्यक्तुं शक्नोतीत्य् एवं विवेचनीयम् । अत एवात्रापि-शब्द-प्रयोगः । अस्याः प्रेम-भक्तेः सुशोभनं लक्षणं, सु-शब्दो मुक्ता-फलादि-ग्रन्थ-कार-लिखितापेक्षया ॥६३३॥

अथ प्रेम-भक्ति-लक्षणम्

नारद-पञ्चरात्रे—

**अनन्य-ममता विष्णौ ममता प्रेम-सम्प्लुता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥६३४॥ **इति ।

विष्णौ भगवति प्रेम-सम्प्लुता प्रेम-रस-व्याप्ता या ममता ममायम् इति भावः, सा भक्तिः प्रेम-लक्षणेति भीष्मादिभिस् तत्त्व-विद्भिर् उच्यते । कथं-भूता ममता ? न विद्यते अन्यस्मिन् देह-गेहादौ ममता यस्यां सा प्रेम-लक्षणैव प्रसिद्धा ॥६३४॥

अथ श्रीमद्-भक्तेर् दुर्लभत्वम्

प्रेम-भक्तेश् च माहात्म्यं भक्तेर् माहात्म्यतः परम् ।
सिद्धम् एव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥६३५॥

ननु ईदृश्या भक्तेर् माहात्म्यं विस्तरतो’पेक्ष्यते, तत्र लिखति—प्रेम-भक्तेश् चेति । परम् अन्यच् च उत्कृष्टं वा माहात्म्यं सिद्धम् एव, साधन-भक्तेर् अपि दौर्लभ्यादिना साध्य-भक्तेः स्वत एव परम-दौर्लभ्यादि-सिद्धेः । तत्र यद्यपि पापोन्मूलनादिकम् अत्यन्त-तुच्छत्वात् तन्-माहात्म्येनातीव सङ्गच्छते, तथापि प्रेम-भक्तिमतः कथञ्चित् सम्बन्धिनाम् अपि विदूरतः सद्यो’शेष-समूल-पापोन्मूलनादिकं भवतीत्य् एवं ऊह्यम् । यतः प्रेमैव फलं निश्चितं, न तु वैकुण्ठ-वासादिकम् अपीत्य् अर्थः । यद्यपि वैकुण्ठ-लोकेप्य् असौ प्रेम-भक्तिमय एव, तथापि प्रेमवतां तत्र नातीवापेक्षेति श्री-भागवतामृतोत्तर-खण्डे विवृतम् एवास्ति ।

किं च, यद्यपि प्रेम-स्वभावेन कदापि श्रवणादि-भक्तेः परित्यागो न स्यात्, अथवा विवृद्धा एव, तद्-वृद्ध्या च पुनः प्रेम-विशेषः सम्पद्यते इति परस्परं कार्य-कारणता प्रकटैव, अत एव दासी-शता अपि विभोर् विदधुः स्म दास्यं [भा।पु। १०.५९.४५] इत्य्-आदिना श्री-महिषीणां विविध-सेवात्मिका, श्री-नारदादीनां च कीर्तनादि-रूपा भक्तिः श्रूयते । तथाप्य् अत्र श्रवणादि-भक्त्य्-अनन्तरं प्रेम-लक्षण-भक्तेः सिद्धत्वात्, भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१] इत्य्-आद्य्-अनुसारेण फलं प्रेमैवेति लिखितम् इति दिक् ॥६३५॥

चिह्नानि प्रेम-सम्पत्तेर् बाह्यान्य् अभ्यन्तराणि च ।
कियन्त्य् उल्लिखता तस्या महिमैव विलिख्यते ॥६३६॥

एवं प्रेम-भक्तेः परमं माहात्म्यं दर्शितम् एव, परम् अपि तत्-सम्पत्ति-लक्षणानुषङ्गेन परम-मधुर-माहात्म्य-विशेषं दर्शयन् प्रेम-भक्ति-सम्पत्त्या जायमान-बाह्यान्तर-विकाराणां सङ्क्षेपतो लिखनम् । ततश् च तस्या माहात्म्य-लिखनम् अपि प्रतिजानीते—चिह्नानीति । उल्लिखिता—उत् उद्देशेन सङ्क्षेपेण लिखिता । तस्याः प्रेम-भक्तेर् माहात्म्यम् एव विशेषतो लिख्यते, प्रेम-भक्ति-सिद्धस्य स्वाभाविक-लक्षणानाम् अपि साधकेषु परम-साध्यत्वात् ॥६३६॥

सप्तम-स्कन्धे श्री-प्रह्लादस्य प्रह्लादस्य बालानुशासने [भा।पु। ७.७.३४-३६]—

निशम्य कर्माणि गुणान् अतुल्यान्
वीर्याणि लीला-तनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रु-गद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥६३७॥
यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य्
आक्रन्दते ध्यायति वन्दते जनम् ।
मुहुः श्वसन् वक्ति हरे जगत्-पते
नारायणेत्य् आत्म-मतिर् गत-त्रपः ॥६३८॥

गुणान् भक्तवात्सल्यादीन् वीर्याणि दैत्यमारणादीनि पराक्रमांश्च । अतिहर्षेणोदगताः पुलका अश्रूणि च तैर्गद्गदं यथा भवति एवं प्रोत्कण्ठ उच्चैर्गायति । आत्मनि भगवति मतिर्यस्य तथाभूतः सन् अतएव गतत्रपः निर्लजः सन् ॥६३७-६३८॥

तदा पुमान् मुक्त-समस्त-बन्धनस्
तद्-भाव-भावानुकृताशयाकृतिः ।
निर्दग्ध-बीजानुशयो महीयसा
भक्ति-प्रयोगेण समेत्य् अधोक्षजम् ॥६३९॥

तस्य भावश् चेष्टादिस् तस्य भावो भावना, तेनानुकृते । यद् वा, तस्मिन् हरौ भावः, प्रेमा येषां जनानां तेषां भावो बाह्याभ्यन्तर-चेष्टा, तस्य अनुकृतम् अनुकारो ययोस् ।तथा-भूते आशयाकृती मनः-शरीरे यस्य । निर्दग्धं बीजम् अज्ञानम् अनुशयो वासना च यस्य सः । सम्यग् एति प्राप्नोति, नित्य-सङ्गी भवतीत्य् अर्थः । इति बाह्यान्तर-विक्रिया-रूप-लक्षणं माहात्म्यं चोक्तम् । एवम् अग्रे’प्य् ऊह्यम् ॥६३९॥

एकादशे च श्री-कवि-योगेश्वरोत्तरे [भा।पु। ११.२.३९-४०]—

**शृण्वन् सुभद्राणि रथाङ्ग-पाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तद्-अर्थकानि
गायन् विलज्जो विचरेद् असङ्गः ॥६४०॥
तद्-अर्थकानि तानि जन्मानि कर्माणि **चार्थो येषां नाम्नाम् । अनेन च नाम-गानेनैव जन्म-कर्म-गान-सिद्धेर् नाम-गानस्य प्राधान्यम् अभिप्रेतम् । यद् वा, तद्-अर्थकानि रथाङ्ग-पाण्य्-अर्थम् एव, तत्-प्राप्तये इत्य् अर्थः । एतान्य् अपि साकल्येन ज्ञातुम् अशक्यानीत्य् आशङ्क्याह—यानि लोके गीतानि प्रसिद्धानि । यद् वा, लौकिक-गाथाः । यद्यपि तासां जन्माद्य्-अन्तर्गतत्वेन पृथग्-उक्तिर् न घटते, तथापि शास्त्रोक्त-व्यतिरिक्त-लोक-प्रसिद्ध-कर्माद्य्-अपेक्षया राग-तालादि-रसाद्य्-अपेक्षया वा ज्ञेयाः । तानि शृण्वन् गायंश् च विचरेत् । असङ्गो निःस्पृहस् त्यक्त-परिग्रहो वा इति साधनम् उद्दिष्टम् ॥६४०॥

एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्माद-वन् नृत्यति लोक-बाह्यः ॥६४१॥

एवं भजतः सम्प्राप्त-प्रेम-लक्षण-भक्ति-योगस्य संसार-धर्मातीतां गतिम् आह—एवम् इति । एवं व्रतं वृत्तं नियमो यस्य सः । स्व-प्रियस्य हरेर् नाम-कीर्त्या । यद् वा, स्व-प्रियं यत् कृष्ण-नाम । तस्य कीर्तनेन जातो’नुरागः प्रेमा यस्य सः । नाम-कीर्तनस्य पुनर्-उक्तिः प्रेम-सम्पत्तौ प्रिय-नाम-कीर्तनस्यात्यन्तान्तरङ्गत्व-विवक्षया । किं वा, प्रेम-सम्पत्तेर् लक्षण-विशेष-विज्ञापनाय तेन तस्य फले पर्यवसानार्थम् । ततश् च कीर्त्या विशिष्ट इत्य् अर्थः । अत एव द्रुत-चित्तः श्लथ-हृदयः । कदाचिद् भगवन्तं भक्त-पराजितं बाल्यादि-विनोदम् अनुसन्धाय वा उच्चैर् हसति । एतावन्तं कालम् उपेक्षितोऽस्मीति, यद् वा, प्रेम-भाव-स्वभावित-विरहि-भावेन रोदिति । अत्यौत्सुक्याद् तेनैव वा रौति आक्रोशति । अतिहर्षेण आर्ति-विशेषेण वा गायति । सुस्वरेण करुण-स्वरेण वा गुणादिकं कीर्तयति । जितं जितम् इति नृत्यति । यद् वा, साक्षद्-भूतम् इव दृष्ट्वा नृत्यति । किं दाम्भिकवत् परान् प्रति प्रकाशयितुं ?प्रकाशयितुं ? न, उन्मादवत् ग्रह-गृहीतवत् । लोक-बाह्यो विवशः । यद् वा, उन्मादवद् इत्य् अनेन हासादेर् अनियतत्वम्, लोक-बाह्य इत्य् अनेन चालौकिकत्वं दर्शितम् ॥६४१॥

तत्रैव श्री-प्रबुद्ध-योगेश्वरोत्तरे [भा।पु। ११.३.३१-३२]—

स्मरन्तः स्मारयन्तश् च मिथो’घौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥६४२॥

अघौघ-हरं संसार-दुःख-परम्परा-विनाशकम् । भक्त्या साधन-भक्त्या । सञ्जातया प्रेम-लक्षणया भक्त्या ॥६४२॥

क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥६४३॥

अजं हरिम् अनुशीलयन्ति, तल्-लीला अभिनयन्ति । एवं परं परमेश्वरम् एत्य प्राप्य निर्वृताः सन्तस् तूष्णीं भवन्ति । यद् वा, परमेश्वरार्थम् अत्यनिर्वृताः परमार्ताः सन्तः तूष्णीं भवन्ति निश्चेष्टाः स्युर् इत्य् अर्थः ॥६४३॥

श्री-भगवद्-उद्धव-संवादे च [भा।पु। ११.१४.२३-२४]—

कथं विना रोम-हर्षं द्रवता चेतसा विना
विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥६४४॥

रोमहर्षादिकं विना कथं भक्तिः प्रेम-लक्षणा गम्यते ? भक्त्या च विना कथम् आशयः शुद्धेत् ? भक्त्य्-एक-परः सदा सर्वत्र साक्षाद् इव श्री-कृष्ण-परिस्फूर्तिमयो वा स्याद् इत्य् अर्थः ॥६४४॥

वाग् गद्गदा द्रवते यस्य चित्तं
रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।
विलज्ज उद्गायति नृत्यते च
मद्-भक्ति-युक्तो भुवनं पुनाति ॥६४५॥

किं च, भक्तिः स्वाश्रयं शोधयतीति किं वक्तव्यं ?वक्तव्यं ? यतो गद्गद-वाग्-आदि-लक्षण-मत्-प्रेम-भक्ति-युक्तो लोकं सर्वं पुनातीत्य् आह—वाग् इति । गद्गदा गद्गद-स्वर-युक्ता, अभीक्ष्णं रुदतीति प्रेम-परिपाक-स्वभावेन निरन्तर-विरहाद्य्-उत्पत्तेः । क्वचित् कदाचित् । अय्स परेणेत्य् अन्वयः । पुनाति संसार-मलात् अद्वैत-दुर्वासन-मलाद् वा शोधयति, भगवद्-भक्ति-प्रवर्तनात्, भगवन्-मयता सम्पादनाद् वा, इति लक्षणं माहात्म्यं चोक्तम् ॥६४५॥

यथोक्त-भक्त्य्-अशक्तौ तु भगवच्-चरणाम्बुजम् ।
शरणागत-भावेन कृत्स्न-भीति-घ्नम् आश्रयेत् ॥६४६॥

एवं साधन-साध्यरूपां भक्तिं लिखित्वाधुना श्रवणाद्यसमर्थस्य शरणागतत्वमात्रेणापि कृतार्थता स्यादिति शरणगातिं लिखति—यथोक्तेति । यद्यपि सख्यात्मनिवेदनयोर्भक्तिप्रकारयोरन्तरेव शरणागतत्वं पर्यवस्यति तथापि तयोर्मनोवृत्तिविशेषोऽपेक्ष्यते । शरणागतत्वे च केवल भगवदीयोऽहम् इत्येतवन्मात्रमिति अतः पृथगस्य लिखनं तच्चाग्रे व्यक्तं भावि ॥६४६॥

अथ शरणापत्तिः

श्रीमद्-भगवद्-गीतासु [१८.६६]

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६४७॥

सर्वान्ते सर्वतः परम-गुह्यतमम् उपदिशति—सर्वेति । मद्-भक्तैव मत्-प्रपत्त्यैव वा सर्वं भविष्यतीति । दृढ-विश्वासेन विधि-कैङ्कर्यं हित्वा मद्-एक-शरणो भव । एवं वर्तमानं कर्म-त्याग-निमित्तं पापं स्याद् इति । मा शुचः शोकं मा कार्षीः । यद् वा, शरणागतत्व-मात्रेण परम-फल-विशेष-रूपा भक्तिर् मे न सिद्धेति मा शुचः । शरणागतत्वस्यैव परम-विश्वासात्मक-भक्ति-विशेष-रूपत्वाद् इति दिक् । इदं चान्य-लोक-शिक्षार्थम् एवार्जुनम् अधिकृत्योक्तं, न तु तं प्रति तथोपदेशः । तस्य नरावतारत्वेन परम-सख्यादिना च स्वत एव परम-भागवतत्वात् ॥६४७॥

एकादश-स्कन्धे च श्री-भगवद्-उद्धव-संवादे [भा।पु। ११.१२.१४-१५]—

तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥६४८॥
माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥६४९॥

यस्माद् एवम्भूतो मदीय-जन-प्रभावस् तस्मात् । चोदनां श्रुतिम् । प्रतिचोदनां स्मृतिं च। यद् वा विधि-निषेधां चोत्सृज्य सर्वम् एव परित्यज्येत्य् अर्थः । माम् एवैकं शरणं याहि । मयैवाकुतोभयः स्या भव । सर्व-देहिनाम् आत्मानम् अन्तर्यामित्वेन हृदि नित्य-सन्तम् इत्य् अर्थः । अनेन त्वदीय-क्षेत्र-विशेषाश्रयण-नियमो निरस्तः । सर्वेणात्मनो भावेन भावनया इति तद्-एक-निष्ठोक्त्यान्याखिल-परित्यागेन सुकरत्वम् अपि दर्शितम् इति दिक् । केचिच् च भगवतः सर्वात्नर्यामित्व-दृष्ट्या सर्वेषु जीवेषु यो’पृथग्-भावो भगवद्-दृष्टिर् वा । तद् एव शरणागतत्वं मन्यन्ते । तच् च ज्ञान-भक्त्य्-अन्तर्गतम् एवेति ज्ञान-भक्ति-लक्षणे सर्व-भूतेषु यः पश्येत् [भा।पु। ११.२.४५] इत्य् अत्र विवृतम् एवास्ति । एवं साक्षात्-श्री-भगवद्-वाक्येन शरणागतत्वस्य विधेयत्वं लिखितम् ॥६४८-६४९॥

तन्-नित्यता च

ब्रह्म-वैवर्ते—

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥६५०॥
अशीति-चतुरश् चैव लक्षांस् तान् जीव-जातिषु ।
भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात् ॥६५१॥
तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् ।
वराकानाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥६५२॥

तच् चावश्यम् एव कार्यम्, अन्यथा परम-दोषापत्तेर् इति तस्य नित्यतां लिखति—प्राप्येति त्रिभिः । आत्मैव चिरं वञ्चितः । विविध-दुःख-सागरे सदा निपातित इत्य् अर्थः । लक्षानित्यादि-पुंस्त्वादिकम् आर्षम् । चतुरशीति-लक्ष-सङ्ख्यकास् त्व् इत्य् अर्थः । जन्म-पर्ययात् तत्र तत्र पर्यायेण जन्म प्राप्तेर् अनन्तरं प्राप्य भवति । आत्माभिमानिनां देहाभिमानवतां वराकाणां तुच्छ-बुद्धीनां शरणागतत्वेनाप्य् अप्रपन्नानाम् असताम् इत्य् अर्थः । एवं भक्त्य्-अशक्तेनावश्यं शरणागतेनापि भाव्यम् । अन्यथा मनुष्य-जन्म-वैफल्येन तद्-अशेष-कर्म-वैफल्यापत्तेः । इति नित्यत्वं सिद्धम् ॥६५०-६५२॥

अथ शरणापत्ति-माहात्म्यम्

उक्तं च रामायणे श्री-रघुनाथेन विभीषण-गमन-प्रसङ्गे—

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥६५३॥

अप्य् अर्थे एव-शब्दः । यः प्रपन्नः शरणागतः सन् तवास्मि भवामीति सकृद् अपि याचते । यद् वा, कथं प्रपन्नस् तद् आह—तवेत्य् आदिना । एवं शरणागतत्व-लक्षणं चेदं ज्ञेयम् । एवम् अग्रे’प्य् ऊह्यम् ॥६५३॥

नारसिंहे वैकुण्ठ-नाथेन—

त्वां प्रपन्नो’स्मि शरणं देव-देवं जनार्दनम् ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥६५४॥

नामापराध-प्रसङ्गे पाद्मे श्री-नारदं प्रति श्री-सनत्-कुमारेण—

सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चका
दम्भाहङ्कृति-पान-पैशुन-पराः पापान्त्यजा निष्ठुरा ।
ये चान्ये धन-दार-पुत्र-निरताः सर्वाधमास् ते’पि हि
श्री-गोविन्द-पदारविन्द-शरणा मुक्ता भवन्ति द्विज ॥६५५॥

व्रात्याः संस्कार-हीना द्विजाधमाः । पानम् अपेयस्य । पापा अधर्मिक-शूद्रा अन्त्यजाश् च ये । यद् वा, अन्त्यजेष्व् अपि पापा ये इत्य् अर्थः । सर्वेभ्यः सर्वथा वाधमाः ॥६५५॥

ब्रह्म-वैवर्ते—

न हि नारायणं नाम नराः संश्रित्य शौनक ।
प्राप्नुवन्त्य् अशुभ सत्यम् इदम् उक्तं पुनः पुनः ॥६५६॥

हि-शब्दोऽवधारणे अशुभममङ्गलमनिष्टं वा किञ्चिन्नैव प्राप्नुवन्तिकिन्तु सर्वश्रेय एव लभन्त इत्यर्थः । नाम प्राकाश्ये यद्वा नारायणमिति नामाश्रित्य ततश्च नाममाहात्म्ये श्लोकोऽयं द्रष्टव्यः । यद्वा नामाश्रयणमपि भगवदाश्रयणमेवेति तयोरभेदाभिप्रायेण ॥६५६॥ ।

बृहन्-नारदीये कलि-प्रसङ्गे—

परमार्थम् अशेषस्य जगताम् आदि-कारणम् ।
शरण्यं शरणं यातो गोविन्दः नावसीदति ॥६५७॥

परमार्थं परमफलरूपं परमतत्त्वं वा नावसीदति किञ्चिद्दुःखं नाप्नोति ॥६५७॥

शान्ति-पर्वणि [म।भा। १२.१११.२६-२७] राज-धर्मे भीष्म-युधिष्ठिर-संवादे—

स्थितः प्रियहिते जिष्णोः स एव पुरुषर्षभ । राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥६५८॥ य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । ते तरन्तीह दुर्गाणि न मे’त्रास्ति विचारणा ॥६५९॥

तव प्रिये हिते च नित्यं स्थितः अवस्थितः पुरुषेषु ब्रह्मादिषु त्रिषु मध्ये तेभ्यो वा ऋषभः श्रेष्ठः अवतारित्वात् । अतो वैकुण्ठः अकुण्ठप्रभावः । किञ्च पुरुषोत्तमः यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः (श्रीगी। १५.१८) इत्याद्युक्तलक्षणः । अतएव नारायणं सर्वजीवैकाश्रयं हरिञ्च आश्रयणमात्रेण सर्वदोषदुःखहरं मनोहरञ्च दुर्गाणि दुस्तरसंसारदुःखानि ॥६५८-६५९॥

तृतीय-स्कन्धे विदुर-मैत्रेय-संवादे [भा।पु। ३.२२.३७]—

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥६६०॥

दिव्या आन्तरिक्षाः । मानुषाः शत्रु-प्रभवाः । भौतिकाः शीतोष्णादि-प्रभवाः । यद् वा, शारीरा मानसाश् चेत्य् आध्यात्मिकाः । दिव्या आधिदैविकाः । मानुषा अन्य-भौतिकाश् चेत्य् आधिभौतिकाः इति त्रिविधा अपि तापाः । वैयासे हे विदुर ॥६६०॥

वामने श्री-प्रह्लाद-बलि-संवादे—

ये संश्रिता हरिम् अनन्तम् अनादि-मध्यं नारायणं सुर-गुरुं शुभदं वरेण्यम् । शुद्धं खगेन्द्र-गमनं कमलालयेशं ते धर्म-राज-करणं न विशन्ति धीराः ॥६६१॥

संश्रिताः शरणं याताः धर्मराजस्य करणं कायस्थं तल्लिखनाधिकारमित्यर्थः । सर्वपापक्षयात् तद्धेतुत्वेनानन्तादिविशेषणैर्माहात्म्यमुक्तम् । एषां यथासम्भवं हेतुहेतुमत्तोह्या एवमग्रेऽपि ॥६६१॥

ये शङ्ख-चक्राब्ज-करं स-शार्ङ्गिणं खगेन्द्र-केतुं वरदं श्रियः पतिम् । समाश्रयन्ते भव-भीति-नाशं तेषां भयं नास्ति विमुक्ति-भाजाम् ॥६६२॥

न केवलमेवं नरकभयं क्षीणं किन्तु संसारभयञ्च विनष्टं परमपदप्राप्तिरपि जातेत्याह—ये शङ्खेति । सम्यगाश्रयन्ते शरणं यान्ति विशिष्टा मुक्तिर्वैकुण्ठवासस्तद्भाजामिति मुख्यं फलम् ॥६६२॥

बृहन्-नारदीये प्रायश्चित्त-प्रकरणान्ते—

संसारे’स्मिन् महा-घोरे मोह-निद्रा-समाकुले । ये हरिं शरणं यान्ति ते कृतार्था न संशयः ॥६६३॥

कृतार्थाः—सिद्धसर्वार्थाः ॥६६३॥

ब्रह्म-पुराणे—

कर्मणा मनसा वाचा ये’च्युतं शरणं गताः । न समर्थो यमस् तेषां ते मुक्ति-फल-भागिनः ॥६६४॥

तेषां न समर्थः जातेऽपि पापे किञ्चित् कर्तुं न शक्नुयादित्यर्थः । यतो मुक्तेः फलं भक्तिः श्रीवैकुण्ठ-लोकप्राप्तिर्वा तद्भागिनः ॥६६४॥

दशम-स्कन्धे [भा।पु। १०.१४.५८]—

समाश्रिता ये पद-पल्लव-प्लवं
महत्-पदं पुण्य-यशो मुरारेः ।
भवाम्बुधिर् वत्स-पदं परं पदं
पदं पदं यद् विपदां न तेषाम् ॥६६५॥

एवं श्रीकृष्णस्यैव परमार्थत्वात् परममाहात्म्याच्च तदेकशरणानामयत्नसिद्धमेव परमपदमिति प्रकरणार्थमुपसंहरन्नाह—समाश्रिता इति । पुण्यं यशो यस्य स पुण्ययशाः स चासौ मुरारिश्च तस्य पदपल्लव एव प्लवः तं सम्यगाश्रिताः । महत्पदं महतां पदमाश्रयम् यद्वा महच्च सर्वोत्कृष्टञ्च तत्पदञ्चेति तथा तेषां भवाम्बुधिर्वत्सपदमात्रं भवति अनायासेन मोक्षः स्यादित्यर्थः । तस्यानुषङ्गिकत्वेन स्वतः सिद्धेः । किञ्च परं पदं श्रीवैकुण्ठाख्यं पदं स्थानं भवति विपदां यत् पदं विषयस्तत् पुनः कदाचिदपि तेषां न भवति न ततः पुनरावर्तन्त इत्यर्थः ॥६६५॥

प्रथमे [भा।पु। १.१.१५]—

यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः ।
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपो’नुसेवया ॥६६६॥

एवं श्रीभगवच्छरणापन्नानां क्रमेण भवदुःखाद्यभावं परमपदप्राप्तिञ्च लिखित्वाधुना तेऽन्यानपि निस्तारयन्तीति लिखति—यत्पादेति । हे सूत यस्य भगवतः पादावेव संश्रयो येषां ते शरणागता इत्यर्थः अतएव प्रशमः प्रकृष्टशान्तिरूपमयनं वर्त्म शरणापत्तिलक्षणं येषाम् । यद्वा प्रशमोऽयनं शरणापत्तिसाधन येषाम् यद्वा प्रकृष्टः शमः सुखं यस्मात् स प्रशमः प्रेमा तमयन्ते प्राप्नुवन्तीति तथाभूता मुनयः उपस्पृष्टाः सन्निधिमात्रेण सेविताः सन्तः पुनन्ति । यद्वा मुनयः पूर्वमात्मारामा अपि मुनित्वं विहाय यत्पादसंश्रयाः सन्त एव । अन्यत् समानम् । स्वर्धुनी गङ्गा तस्या आपस्तु तत्पादनिःसृता एव न तु तत्रैव तिष्ठन्ति विशेषतश्च विषमपथवर्तिन्यः सागरगामिन्य एव वा । अतस्तत्पादसम्बन्धेन पुनन्त्योऽपि अनुसेवयैव पुनन्ति तदपि न सद्य इति शरणागतानामुत्कर्षः ॥६६६॥

द्वितीये श्री-शुकोक्तौ [भा।पु। २.४.१८]—

किरात-हूणान्ध्र-पुलिन्द-पुल्कशा
आभीर-शुम्भा यवनाः खसादयः ।
ये’न्ये च पापा यद्-अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥६६७॥

किञ्च किरातेति किरातादयो ये पापजातयः अन्ये च ये कर्मतः पापरूपा यदुपाश्रयाः शरणागतास्तदाश्रयाः सन्तः शुध्यन्ति असम्भावनाशङ्कां परिहरति प्रभविष्णवे—प्रभवणशीलायेति ॥६६७॥

तृतीये मैत्रेयोक्तौ [भा।पु। ३.२३.४२]—

किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् ।
यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः ॥६६८॥

यतस्तेषां किञ्चिदप्यसाध्यं नास्तीति लिखति—किमिति । दुरापादनं दुष्करं किम् अपि तु सर्वमेव सुकरम् । उद्दामचेतसां धीराणाम् उद्दामचेतस्त्वमेव दर्शयति—यैरिति । यद्वा उद्दामचेतसां विविधमनोरथेनासङ्कोचत इतस्ततो गच्छन्मानसानामपीत्यशेषमनोरथसिद्धिरभिप्रेता । तत्र हेतुमाह—यैरिति । तीर्थपदो भगवतः एकतीर्थाश्रयणादपि सर्वं सुसिध्यति किं पुनः सर्वतीर्थमय्या गङ्गायाः प्रभवाश्रयादिति भावः । व्यसनं संसारस्तस्यात्ययो नाशो यस्मात् यद्वा अकार-प्रश्लेषेण अव्यसनो मोक्षस्तस्याप्यत्ययोऽतिक्रमो यस्मात् सः भक्तिरसविस्तारणात् ॥६६८॥

दशमे नागपत्नी-स्तुतौ [भा।पु। १०.१६.३७]—

न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥६६९॥

एवं शरणापत्तेः साधनत्वं विलिख्य साध्यत्वञ्च दर्शयन् तद्वतां परिपूर्णतां लिखति—न नावेति । रसाधिपत्यं पातालादि-स्वाम्यं योगसिद्धीः त्रिकालज्ञत्वाद्याः क्षुद्राः महतीश्चाणिमाद्याः यद्वा रसाधिपत्यं विचित्ररससिद्धाद्यैश्वर्यं योगसिद्धीरणिमाद्या एवेति यथोत्तरमेषां श्रेष्ठ्यम् तत्र नाकपृष्ठतः सार्वभोमस्य श्रैष्ठयं भूमौ कर्मक्षेत्रे वैराग्यादिविशेषसम्भवेन ज्ञान-भक्त्यादि-सूसिद्धेः कदाचित् ककुत्स्थादिचक्रवर्ति साहायेनेन्द्रस्य स्वाराज्यप्राप्तेश्च । अन्यत् स्पष्टमेव । पादरजः प्रपन्नाः शरणागतत्वेन कञ्चिदेकं सम्बन्धमाश्रिता इत्यर्थः ॥६६९॥

एकादशे च श्री-करभाजन-योगेश्वरोत्तरे [भा।पु। ११.५.४१]—

देवर्षि-भूताप्त-नॄणां पितॄणां
नायं किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥६७०॥

एवं विधि-निषेध-निवृत्तेः कृत-कृत्यतां—देवर्षीति । आप्ताः पोष्याः कुटुम्बानि, देवादयः पञ्च-यज्ञ-देवता एतेषां यथा भक्त ऋणी । अत एव तेषां किङ्करः । तद्-अर्थं नित्यं पञ्च-यज्ञादि-कर्ता । तथा च स्मृतिः, हीन-जातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् इति । अयं तु न तथा । को’सौ ? यः सर्व-भवेन मुकुन्दं सर्वतो मोक्षदं परमानन्द-प्रदं च भगवन्तं शरणं गतः । कर्तं कृत्यं परिहृत्य । यद् व, कर्तं भेदं कृती छेदने इत्य् अस्मात् वासुदेवः सर्वम् इति [गीता ७.१९] इति बुद्ध्वेत्य् अर्थः । यद् वा, अद्वैत-निष्ठोऽपि भूत्वेत्य् अर्थः ॥६७०॥

अत एवोक्तं श्री-भगवन्तं प्रति उद्धवेन [भा।पु। ११.१९.९]—

ताप-त्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि-
द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥६७१॥

ताप-त्रयेणाभितस्य, अतः सन्तप्यमानस्य । अङ्घ्रि-द्वन्द्वम् एवातपत्रम्, तस्मात् । न केवलम् आतपात्रात्, किन्त्व् अमृतं परमानन्द-रसम् अप्य् अभितो वर्षति यत् तस्मात् । एवं शरणागतानां सर्व-दुःख-हानिः, सुख-प्राप्तिश् चोक्ता ॥६७१॥

इत्थं च बोध्यं विद्वद्भिः शरणापत्ति-लक्षणम् ।
वाचा हृदा च तन्वापि कृष्णैकाश्रयणं हि यत् ॥६७२॥

एवं माहात्म्यलिखनद्वारा लिखितमपि शरणागतलक्षणं पृथक् स्पष्टयन् लिखति—इत्थञ्चेति । अनेन लिखितप्रकारेण सकृदेव प्रपन्नो यस्तवास्मीति च याचते इत्यादिना व्यासादिभिः कृष्णदेवस्याश्रयणमेव यत् तदेव शरणागतलक्षणं बोद्धव्यम् । तत्र वाचाश्रयणं—तवास्मि इत्यादिवचनं मनसाश्रयणं—तस्यैवाहम् इत्यादि-चिन्तनम् कायेनाश्रयणं—तत्क्षेत्रसेवनादि एतच्च सर्वमग्रे व्यक्तं भावि ॥६७२॥

अथ शरणापत्ति-लक्षणम्

स्कन्धे—

**गोविन्दं परमानन्दं मुकुन्दं मधुसूदनम् ।
त्यक्त्वान्यं वै न जानामि न भजामि स्मरामि न ॥६७३॥
न नमामि न च स्तौमि न पश्यामि स्व-चक्षुषा ।
न स्पृहामि न गायामि न वा यामि हरिं विना ॥६७४॥ **इति ।

अन्यं देवतान्तरं, तत्र भगवतः पृथक्त्वेनेति सत्-सम्प्रदायः । गोविन्दम् इत्य्-आदि-विशेषणैर् माहात्म्य-विशेषेण तद्-एक-निष्ठता युक्तेति दर्शितम्, एवं सर्वथा तद्-एकाश्रयणं शरणागत-लक्षणम् इत्य् अभिव्यञ्जितम् । तत्-प्रकारश् च दर्शितः ॥६७३-६७४॥

केचिद् आहुश् च शरणागतत्वं षट्-प्रकारकम् ।
प्रायः सख्य-प्रकारे तत् पर्यवस्येद् विचारतः ॥६७५॥

तत्र मतान्तरं लिखति—केचिद् इति । सख्य-रूपो य एको भक्तेः प्रकारस् तस्मिन् । तत् षट्-प्रकारक-शरणागतत्वं विचारतः पर्यवस्येत् । तच् चाग्रे’भिव्यञ्जयितव्यम् ॥६७५॥

तच् चोक्तं वैष्णव-तन्त्रे—

**आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा ।
आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥६७६॥ **इति ।

आनुकूल्यस्य भगवद्-भजनानुकूलतायाः सङ्कल्पः, कर्तव्यत्वेन नियमः । प्रातिकूल्यस्य तद्-वैपरीत्यस्य वर्जनम् । गोप्तृत्वेन पतित्वेन वरणं स्वीकरणं प्रार्थनं वा । आत्मनो निःक्षेपः समर्पणम् । कार्पण्यं च, भगवन् रक्ष रक्ष इत्य्-आदि-प्रकारेणार्तत्वम् । ततश् च विश्वास-रूपे प्रीति-रूपे च सख्ये रक्षिष्यतीति विश्वासः । तत एव गोप्तृत्व-वरणं चेति द्वयं, तथा प्रीति-स्वभावेन आनुकूल्यस्य सङ्कल्पः, प्रातिकूल्य-वर्जनञ्चेति द्वयं पर्यवस्यत्य् एव । तथा मां प्रपन्नो जनः कश्चिन् न भूयो’र्हति शोचितुम् इति । आर्तानां शरणं त्व् अहम् इति भगवद्-वचन-विश्वासेनात्म-निक्षेप-कार्पण्ये अपि तत्रैव पर्यवस्यतः । तत्र सूक्ष्म-विचारापेक्षया प्र-शब्दः । तेनात्म-निवेदने आत्म-निक्षेपः । कार्पण्यं च प्रीति-विशेष-स्वाभाविक्तया प्रीत्य्-आत्मके सख्य एव द्रष्टव्यम् इत्य् एषा दिक् ॥६७६॥

तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥६७७ ॥

एवं फलितं सङ्क्षेपेणाभिव्यञ्जयन् शरणागत-कृत्यं च दर्शयन् तन्-माहात्म्यम् एव लिखति—तवेति । तन्वा देहेन तस्य भगवतः स्थानं श्री-मथुरादिकम् आश्रितः सन् मोदते। आनन्दम् अनुभवति, सर्वथा सख्य-सिद्धेः ॥६७७॥

अत एवोक्तं दशमे श्री-भगवन्तं प्रति अक्रूरेण [भा।पु। १०.४८.२६]—
कः पण्डितस् त्वद्-अपरं शरणं समीयाद्
भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् ।
सर्वान् ददाति सुहृदो भजतो’भिकामान्
आत्मनम् अप्य् उपचयापचयौ न यस्य ॥६७८॥

त्वत् त्वत्तो’परं कः समीयात् ? दीर्घत्वं परस्मैपदं वा आर्षम् । सम्यक् इयाद् गच्छेत् । तत्र हेतुत्वेन विशेषण-चतुष्टयम्—भक्त एव प्रियो यस्य, ऋता सत्या गीर् वाग् यस्य, सुहृदः निरुपाधि-कृपा-कारिणः, कृतम् आत्मनो भक्तस्य च जानातीति तथा तस्मात् । अत एव भवान् भजतो जनस्य, अत एव सुहृदः सच्-चित्तस्य । यद् वा, प्रियत्वेन स्वीकृतस्य जनस्य सर्वान् अभितः कामान् अभि अभयं यथा स्याद् इति वा । आत्मानम् अपि ददाति । भजनेन यस्य भवतः स्वत उपचयो लाभो नास्ति, नित्य-परिपूर्णत्वात्, अभजने चापचयो नास्ति, नित्यं स्वतः परिपूर्णत्वेनानन्यापेक्षत्वात् । सो’पि भवान् भक्ति-परवशः सन् आत्मानं ददाति । यद् वा,, तेन निजोपचयापचयौ परम-कारुण्यादिना मन्यमानम् अपि भगवन्तं प्रति निज-भक्तत्व-दृष्ट्या परम-विनयेन श्रीमद्-अक्रूरस्य तादृश्य् उक्तिर् ज्ञेया । यद् वा, उपचयापचयौ नेति वृद्धि-ह्रास-हीनतया परम-महत्तमतायाः पराकाष्ठा दर्शिता, भक्त-वश्यं करोतीत्य् अर्थः । अयम् अपि शरण-गमने हेतुर् ज्ञेयः ॥६७८॥

तृतीये श्री-उद्धवेन [भा।पु। ३.२.२३]—

**अहो बकी यं स्तन-काल-कूटं
जिघांसयापाययद् अप्य् असाध्वी ।
लेभे गतिं धात्र्य्-उचितां ततो’न्यं
कं वा दयालुं शरणं व्रजेम ॥६७९॥ **इति ।

इदानीं परम-दुष्टेष्व् अपि परम-कृपां दर्शयन् तस्यैवैकस्य शरण्यतां निर्धारयन् निज-बन्धु-वर्गेण सह स्वयम् अपि तं शरणं गच्छन्न् उपसंहरति । अहो इति आश्चर्ये । हन्तुम् इच्छयापि स्तनयोः सम्भूतं कालकूटं महा-दुर्विषं यम् अपाययत्, बकी पूतना असाध्वी दुष्टापि धात्र्या यशोदाया श्री-यशोदा-धात्रीत्वेन प्रसिद्धायाः श्री-मुखराया वा देवकी-धात्र्या वा कस्याश्चित् उचितां गतिं तस्माद् एव लेभे । भक्त-वेष-मात्रेण यः सद्-गतिं ददाव् इत्य् अर्थः ।

यद् वा, मरण-समये तस्या आर्त-नादम् आकर्ण्य गात्रास्फालनादि-दुःखम् अवलोक्य च केवलं पर-दुःखासहिष्णुतया यस् तादृशीं गतिम् अदाद् इत्य् अर्थः । तत्र च धात्री-गति-दाने स्तन्य-दान-कपटेनापि मातृ-भावानुकरणं च कारणं ऊह्यम् । तच् च तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टिताम् इति श्लोकोक्त्या मातृ-वल् लालनादि-परम-रम्य-चेष्टया व्यञ्जितम् एवास्ति । व्याख्यातं च श्री-स्वामि-पादैः । अहम् अस्य जननी, इयं वेति मोहिते सत्याव् इति । तस्मात् श्री-कृष्णाद् अन्य् अन्यं कं दयालुं शरणं व्रजेम ? सम्भावनायां सप्तमी । वा-शब्दः कटाक्षे । अतो’न्यं को’पि दयालुर् नास्ति, अतस् तम् एव वयं दीनाः शरणं गच्छाम इत्य् अर्थः ।

यद्यपि शरणापत्ति-लिखनं कादाचित्क-कृत्य-लिखनानन्तरम् एवोपपद्यते, सकृद् एव प्रपन्नो यः इत्य्-आदि-वचनतः सकृत्-प्रवृत्त्यैव शरणागतत्व-सिद्धेः, तथापि शरणागतत्वस्य नित्य-भगवत्-स्थानश्रयणादि-लक्षणत्वेन नित्यम् आनुकूल्य-सङ्कल्पादि-लक्षणत्वेन च नित्य-कृत्यान्तर् एव पर्यवसानाद् अत्रैव लिखितम् इति दिक् ॥६७९॥

अथाचारा बहु-विधाः शिष्टाचारानुसारतः ।
श्री-वैष्णवानां कर्तव्या लिख्यन्ते’त्र समासतः ॥६८०॥

समुद्रं दुस्तरं यस्य दयया सुखम् उत्तरेत् ।

भाराक्रान्तः खरो’प्य् एष तं श्री-चैतन्यम् आश्रये ॥

एवं नित्य-कृत्यानि क्रमेण विविच्य लिखित्वा इदानीम् एकत्रैव नाना-विधानि कृत्यानि वर्ज्यानि लिखितुं प्रतिजानीते—अथेति । श्री-वैष्णवानां कर्तव्याः कार्या इत्य् अत्र हेतुः—शिष्टानां साधूनाम् आचारस्यानुसारत इति । प्राक् लिखितेन सदाचारस्य नित्यत्वेनावश्यं वैष्णवैः सदाचारो’नुसर्तव्य इत्य् अतो हेतोर् इत्य् अर्थः । अत्र ग्रन्थे समासतः सङ्क्षेपेण, यद्यपि कर्तव्या इत्य् अनेन विधेयानाम् एव लिखनम् आयाति, न तु वर्ज्यानां, तथापि वर्ज्येष्व् अपि निवृत्ति-रूपा क्रियास्त्य् एवेति, ते’पि कर्तव्येषु प्रविशन्त्य् एवेति । यद् वा, कृत्य-लिखने’कृत्य-लिखनम् अप्य् अपेक्षेतेति साहचर्याद् वर्ज्या अपि लेख्याः स्युर् एव । तत्र देवादीन् अर्चयेत् इत्य् एवम् आदयः कर्तव्याः । पर-स्वं न हरेत् इत्य् एवम् आदयो वर्ज्या ऊह्याः ॥६८०॥

अथाचाराः

श्री-विष्णु-पुराणे और्व-सगर-संवादे गृहस्थाचार-कथनारम्भे [वि।पु। ३.१२.१-२०]—

देव-गो-ब्राह्मणान् सिद्धान् वृद्धाचार्यांस् तथार्चयेत् ।
द्विकालं च नमेत् सन्ध्याम् अग्नीन् उपचरेत् तथा ॥६८१॥

वृद्धान् वयो-जाति-विद्यादिना बृहत्तरान् आचार्यांश् च गुरून् ॥६८१॥

सदानुपहते वस्त्रे प्रशस्तां च तथौषधीः ।
गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥६८२॥
प्रस्निग्धामल-केशश् च सुगन्धश् चारु-वेश-धृक् ।
किञ्चित् परस्वं न हरेत् नाल्पम् अप्य् अप्रियं वदेत् ॥६८३॥
प्रियं च नानृतं ब्रूयान् नान्य-दोषान् उदीरयेत्
नान्य-स्त्रियं तथा वैरं रोचयेत् पुरुषर्षभ ॥६८४॥

ओषधीः विष्णुक्रान्ता दूर्वाद्याः ॥६८२॥ प्रसिद्धा अलङ्कृता अमलाश् च केशा यस्य सः । प्रस्निग्धेति पाठः क्वचित् ॥६८३॥ न रोचयेत् नैच्छत् ॥६८४॥

न दुष्टं यानम् आरोहेत् कुल-च्छायां न संश्रयेत् ॥६८५॥
विद्विष्ट-पतितोन्मत्त-बहु-वैरादि-कीटकैः ।
बन्धकी बन्धकी-भर्तुः क्षुद्रानृत-कथैः सह ॥६८६॥

बहुभिर् वैरं यस्य, अतिकीटकः अत्यन्त-कीटवत् पीडकः । कण्टकैर् इति पाठे स एवार्थः । बन्धई असती ॥६८६॥

तथातिव्यय-शीलैश् च परिवाद-रतैः शठैः ।
बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत् ॥६८७॥
नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर ।
प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः ॥६८८॥
न कुर्याद् दन्त-सङ्घर्षं कुष्णीयाच् च न नासिकाम् ।
नासंवृत-मुखो जृम्भेच् छ्वासकासौ विसर्जयेत् ॥६८९॥
नोच्चैर् हसेत् स-शब्दं च न मुञ्चेत् पवनं बुधः ।
नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत् ॥६९०॥
न श्मश्रु भक्षयेल् लोष्टं न मूद्नीयाद् विचक्षणः ॥६९१॥

न कृष्णीयात् सतत-मलाद्य्-अपसरणार्थं न निष्कर्षेत् । न महीं लिखेन् नखैर् इति ज्ञेयम् । न नखैर् विलिखेद् भूमिम् इति कौर्मोक्तेः ॥६८९-६९०॥ श्मशुर् न भक्षयेद् दन्तैर् न च्छेदयेद् इत्य् अर्थः । तथा च कौर्मे—न दन्तैर् नख-लोमानि च्छिन्द्यात् इति ॥६९१॥

ज्योतींष्य् अमेध्य-शस्तानि नाभिवीक्षेत च प्रभो ॥६९२॥
न हुङ्कुर्याच् छवं गन्धं शव-गन्धो हि सोमजः ॥६९३॥
चतुष्पथं चिअत्य-तरुं श्मशानोपवनानि च ।
दुष्ट-स्त्री-सन्निकर्षं च वर्जयेन् निशि सर्वदा ।
पूज्य-देव-द्विज-ज्योतिश्-छायां नातिक्रमेद् बुधः ॥६९४॥

ज्योतींषि नाशुचिर् अभिवीक्षेत, अमेध्यानि अप्रशस्तानि चामङ्गलानि सदा निभिवीक्षेत । अमेध्य इति पाठः कस्यैच्न् मते ॥६९२॥ न हुङ्कुर्यात् । शवं तद्-गन्धं च न जुगुप्सेत इत्य् अर्थः ॥६९३॥ चैत्य-तरुं बद्ध-वेदिक-पूज्य-वृक्षम् । ज्योतिः प्रदीपः ॥६९४॥

नैकः शून्याटवीं गच्छेत् तथा शून्य-गृहे वसेत् ॥६९५॥
केशास्थि-कण्टकामेध्य-बलि-भस्म-तुषांस् तथा ।
स्नानार्द्र-धरणीं चैव दूरतः परिवर्जयेत् ॥६९६॥
नानार्थानाश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः ॥६९७॥
उपसर्पेन् न वै व्यालं चिरं तिष्ठेन् न चोत्थितः ।
यथेष्ट-भोजकांश् चैव तथा देव-पराङ्मुखान् ।
वर्णाश्रम-क्रियातीतान् दूरतः परिवर्जयेत् ॥६९८॥
अतीव जागर-स्वप्नौ तद्वत् स्थानासने बुधः ।
न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥६९९॥
दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् ॥७००॥
अवश्यायं च राजेन्द्र पुरो वातातपौ तथा ।
न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः ॥७०१॥
मुक्त-कच्छश् च नाचामेद् देवाद्य्-अर्चां च वर्जयेत् ।
नैक-वस्त्रः प्रवर्तेत द्विज-वाचनिके जपे ॥७०२॥

नैको गच्छेत् । जिह्मं कौटिल्यं न रोचयेत्, न ग्राहयेत् । स्थानं ऊर्ध्वावस्थितिम् । तथेत्य् अनेन अतीवेति परामृश्यते, शय्यां नातीव सेवेत, तद्-उपरि चिरं निपत्य न तिष्ठेत् । अवश्यायं हिमं नोपस्पृशेत् । आचमनं न कुर्यात् ॥६९५-७०२॥

किं च [वि।पु। ३.१२.२४-३१, ३६, ३८-९]—

न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः ।
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ॥७०३॥

केशान् स्नानानन्तरम् आर्द्रान् सतः । पादं न नयेत् ॥७०३॥

अपसव्यं न गच्छेच् च देवागार-चतुष्पथान् ।
मङ्गल्य-पूज्यांश् च तथा विपरीतान् न दक्षिणाम् ॥७०४॥
सोमार्काग्न्य्-अम्बु-वायूनां पूज्यानां च न सम्मुखम् ।
कुर्यान् निष्ठीव-विण्-मूत्र-समुत्सर्गं च पण्डितः ॥७०५॥
तिष्ठन् न मूत्रयेत् तद्वत् पथिष्व् अपि न मूत्रयेत् ।
श्लेष्म-विण्-मूत्र-रक्तानि सर्वदैव न लङ्घयेत् ॥७०६॥
श्लेष्म-ष्टीवनकोत्सर्गो नान्न-काले प्रशस्यते ।
बलि-मङ्गल-जप्यादौ न होमे न महाजने ॥७०७॥
योषितो नावमन्येत न चासां विश्वसेद् बुधः ।
न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन ॥७०८॥
मङ्गल्य-पुष्प-रत्नाज्य-पूज्याननभिवाद्य च ।
न निष्क्रामेद् गृहात् प्राज्ञः सदाचार-परो नरः ॥७०९॥

उपसव्यम् अदक्षिणं न गच्छेत् । प्रदक्षिणं कृत्वैव गच्छेद् इत्य् अर्थः । मङ्गल्यान् मधु-घृत-दधि-सिद्धार्थ-जल-पूर्ण-घटादीन् पूज्यांश् च गुरु-विप्र-धेनु-वृद्धादीन् । तथा च कशी-खण्डे—

देवतायतनं विप्रं धेनुं मधु मृदं घृतम् । जाति-वृद्धं वयो-वृद्धं तपस्विनम् । अश्वत्थं चैत्य-वृक्षं च गुरुं जल-भृतं घटम् । सिद्धान्नं दधि-सिद्धार्थं गच्छन् कुर्यात् प्रदक्षिणम् ॥ इति ।

विपरीतान् अमङ्गल्यादीन् । नाधिकुर्यात्, अधिकारं न कुर्यात् । यद् वा, स्त्रीभ्यो’धिकारं न दद्याद् इत्य् अर्थः । सदाचार-पर इति सर्वत्रैवान्वेति । तच् चोक्तानां सर्वेषाम् एव नित्यत्वम् अभिप्रैति ॥७०४-७०९॥

अकाल-गर्जितादौ तु पर्वस्वशौचकादिषु ।
अनध्यायं बुधः कुर्याद् उपरागादिके तथा ॥७१०॥

पर्वसु अष्टम्य्-आदिषु आदि-शब्द-त्रय-गृहीतो विशेषः काशी-खण्डे—

अकाल-विद्युत्-स्तनिते वर्षतो पांशु-वर्षणे । महा-वात-ध्वनौ रात्राव् अनध्यायाः प्रकीर्तिताः ॥ उल्का-पाते च भू-कम्पे दिग्-दाहे मध्य-रात्रिषु । सन्ध्ययोर् वृषलोपान्ते राज-चन्द्रस्य सूतके ॥ दर्शे’ष्टकासु भूतायां श्राद्धिकं प्रतिगृह्य च । प्रतिपद्य् अपि पूर्णायां मार्जारेण कृतान्तरे । खरोष्ट्र-क्रोष्टु-विरुते समवाये रुदत्य् अपि । उपाकर्मणि चोत्सर्गे पथि मार्ग-तरौ जले । आवश्यकम् अधीयापि बाण-साम्नोर् अपि ध्वनौ । अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित् ॥ कृतान्तरायो न पठेत् भेकाखुश्वाहि-बभ्रुभिः ॥ इति ।

एते अनध्यायाः प्रायो वेद-पाठ-विषया एव ज्ञेयाः ॥७१०॥

वर्षातपादिके छत्री दण्डी रात्र्य्-अटवीषु च ।
शरीर-त्राण-कामो वै सोपानत्कः सदा व्रजेत् ॥७११॥
नोर्ध्वं न तिर्यग्-दूरं वा निरीक्षन् पर्यटेद् बुधः ।
युग-मात्रं मही-पृष्ठं नरो गच्छेद् विलोकयन् ॥७१२॥

छत्री सन्, दण्डी च सन् व्रजेद् इत्य् अन्वयः ॥७११॥

किं च [वि।पु। ३.१२.४४-४५]—

प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् ।
श्रेयस् तद्-रहितं वाच्यं यद्यप्य् अत्यन्त-विप्रियम् ॥७१३॥
प्राणिनाम् उपकाराय यद् एवेह परत्र च ।
कर्मणा मनसा वाचा तद् एव मतिमान् भजेत् ॥७१४॥

तत्-प्रियं न वदेत् । तत्र हेतुम् आह—श्रेय इति । अत्र श्री-विष्णु-पुराणे क्रमेण वर्तमानानाम् अपि केषाञ्चित् वचनानां परित्याग-पूर्वं कस्मिंश्चिद् योग्य-प्रकरणे लिखितत्वात् केषाञ्चिद् अत्रानुपयोगात् । एवम् अग्रे’प्य् ऊह्यम् ॥७१३॥ \

बृहन्-नारदीये सद्-आचार-प्रसङ्गे— [१.२५.३५-४३]

असाव् अहम् इति ब्रूयाद् द्विजो वै ह्य् अभिवादने ।
श्राद्धं व्रतं तथा दानं देवताभ्यर्चनं तथा ।
यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ॥७१५॥
तथा स्नानं प्रकुर्वन्तं धावन्तम् अशुचिं तथा ।
भुञ्जानं च अभ्यक्त-शिरसं तथा ॥७१६॥
भिक्षान्न-धारिणं चैव रमन्तं जल-मध्य-गम् ।
कृतेऽभिवादने यस् तु न कुर्यात् प्रतिवादनम् ।
नाभिवाद्यः स विज्ञेयो यथा शूद्रस् तथैव सः ॥७१७॥

अभिवादने वर्ज्यान् आह—श्राद्धम् इति त्रिभिः । श्राद्धादि कुर्वन्तम् ॥७१५॥ प्रतिवादनं प्रत्यभिवादनम् । अभिवादन-प्रत्यभिवादनयोः प्रकारः प्रसिद्ध एव ॥७१७॥

मार्कण्डेय-पुराणे मद्राल-सालर्क-संवादे—

असत्-प्रलापम् अनृतं व्क्-पारुष्यं च वर्जयेत् ।
असच्-छास्त्रम् असद्-वादम् असत्-सेवां च पुत्रक ॥७१८॥
केश-प्रसाधनादर्श-दर्शनं दन्त-धावनम् ।
पूर्वाह्न एव कार्याणि देवतानां च तर्पणम् ॥७१९॥

असन्तं असाधुम् असद्भिर्वा सह वादं गोष्ठीमुद्ग्राहं वा । आदर्शो दर्पणस्तस्य दर्शनम् ॥७१८-७१९॥

उदक्या दर्शनं स्पर्शं वर्जेत सम्भाषणं तथा ॥७२०॥
न चाभीक्ष्णं शिरः-स्नानं कुर्यान् निष्कारणं नरः ।

वर्जेत् वर्जयेत् ॥७२०॥

शिरः-स्नातश् च तैलेन नाङ्गं किञ्चिद् अपि स्पृशेत् ॥७२१॥
पन्था देयो ब्राह्मणानां राजो दुःखातुरस्य च ।

सिरःस्नातः कृतशिरःस्नानः सन् अङ्गं तैलेन न स्पृशेत् न लेपयेत् ॥७२१॥

विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः ॥७२२॥
मूकान्ध-वधिराणां च मत्तस्योन्मत्तकस्य च ।

दुःखिनः क्षुधादिपीडितस्य आतुरस्य च रुग्णस्य । पाठान्तरे रोगादिदुःखेन विवशस्य महीयसः वैष्णवस्या ॥७२२॥

पुंश्चल्याः कृत-वैरस्य बालस्य पतितस्य च ॥७२३॥
उपानद्-वस्त्र-माल्यानि धृतान्य् अन्यैर् न धारयेत् ।
उपवीतम् अलङ्कारं कवलं चैव वर्जयेत् ॥७२४॥
न क्षिप्त-बाहु-जङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन ।
न चापि विक्षिपेत् पादौ वाससा न च धूनयेत् ॥७२५॥
मूर्खोन्मत्त-व्यसनिनो विरूपान् मायिनस् तथा ।

उपवीतादिकमन्यैर्धृतं वर्जयेत् वाससी परिधानोत्तरीये स्नातः सन् न धूनयेत् न नर्तयेत् न चापि धूनयेत् केशान् इत्येतदनन्तरोक्तेः । एवमन्यश्लोक वर्त्यप्ययं श्लोकपादः पुनर्लिखनपरिहारार्थमत्र संयोज्य लिखितः । अन्यथा तन्मध्यवर्तिनां श्रीविष्णुपुराणादावप्युक्तानां पुनर्लिखनेन वैयर्थ्यापत्तेः । एवमन्यदप्यूह्यम् । तच्च स्वयमग्रे मूले परिहार्यमेव ॥७२४-७२५॥

न्यूनाङ्गानधमांश् चैव नोपहासेन् न दूषयेत् ॥७२६॥
परस्य दण्डं नोद्यच्छेत् शिक्षार्थं पुत्र-शिष्ययोः ।

उपहासेत् उपहसेत् ॥७२६॥

नानुलेपनम् आदद्याद् अस्नातः स्नातकी क्वचित् ॥७२७॥
न चापि रक्त-वासाः स्याच् चित्र-वास-धरो’पि वा ।

स्नातकी स्नानार्थोद्यतः ॥७२७॥

क्षुर-कर्मणि चान्ते च स्त्री-सम्भोगे च पुत्रक ।
स्नायीत चेलवान् प्राज्ञः कट-भूमिम् उपेत्य च ॥७२८॥

केलवान् सचेल एव स्नायात् कटभूमिं श्मशानम् ॥७२८॥

युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः ।
नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ॥७२९॥
शौच-कालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः ।
न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥७३०॥

धयन्तीं जलं पिबन्तिं नाचक्षीत कस्मैचिन्न कथयेत् नाह्वयेदिति वार्थः यद्वा वत्सं पाययन्तीमित्यर्थः । न मुखेनानलं धमेदित्येतत् पाकादिविषयं यच्च कौर्मे—मुखेनैव धमेदग्निं मुखादग्निरजायत इति । तत्तु अग्निहोत्रादिविषयम् ॥७२९-७३०॥

विपुर्षो मक्षिकाद्याश् च हस्त-सङ्गाद् अदोषिणः ।
अजाश्वौ मुहतो मेध्यौ न गोर् वत्सस्य चाननम् ॥७३१॥
मातुः प्रस्नवने मेध्यं शकुनिः फल-पातने ।
उदक्याशौचिनग्नांश् च सूतिकान्त्याचसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृत-हारिणः ॥७३२॥

आननं न मेध्यं मातुर्धेनोः मेध्यं वत्सस्याननं शकुनिर्मेध्यः ॥७३१-७३२॥

नारं स्पृष्ट्वास्थि स-स्नेहं स्नातः शुध्यति मानवः ।
आचम्यैव तु निस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥७३३॥

ईक्ष्य निरीक्ष्य ॥७३३॥

न चालपेज् जनं द्विष्टं वीर-हीनां तथा स्त्रियम् ।
देवतातिथि-सच्-छास्त्र-यज्ञ-सिद्धादि-निन्दकैः ॥७३४॥
कृत्वा तु स्पर्शतालापं शुध्येद् अर्कावलोकनात् ।
अवलोक्य तथोदक्याम् अन्त्यजान् पतितं शठम् ।
विधर्मि-सूतिका-षण्ड-विवस्त्रान्यावसायिनः ॥७३५॥

नालपेत् न सम्भाषेत् लोकद्विष्टं जनम् अन्त्यजान् चण्डालादीन् विवस्त्रान् नग्नान् अन्त्यावसायिनश्च यवनादीन् ॥७३४-७३५॥

मृत-निर्यातकाश् चैव पर-दार-रताश् च ये ।
एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः ॥७३६॥

एतदेव अवलोकनमित्यर्थः ॥७३६॥

किं च—

यच् चापि कुर्वतो नात्मा जुगुप्साम् एति पुत्रक । तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजने ॥७३७॥

किं बहुनोक्तेन सङ्क्षेपतः कृत्यं वर्ज्यञ्च सर्वं शृण्वित्याह—यच्चेति । आत्मा मनः वर्ज्यञ्च तद्विपरीतमेवेत्यर्थः ॥७३७॥

भविष्योत्तरे श्री-कृष्ण-युधिष्ठिर-संवादे—

उपासते न ये पूर्वां द्विजाः सन्ध्यां न पश्चिमाम् । सर्वाम्स् तान् धार्मिको राजा शूद्र-कर्मणि योजयेत् ॥७३८॥ दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । उच्छिष्टोत्सर्जनं भूप सदा कार्या हितैषिणा ॥७३९॥ उच्छिष्टौ न स्पृशेच् छीर्षं सर्वे प्राणास् तद्-आश्रयाः । केश-ग्राहान् प्रहारांश् च शिरस्य् एतानि वर्जयेत् । न पाणिभ्याम् उभाभ्यां तु कण्डूयाज् जातु वै शिरः ॥७४०॥

शिरः आत्मन एव न परस्येति बोद्धव्यं न संहताभ्यां कण्डूयादात्मनः शिरः इति कौर्मोक्तेः ॥७४०॥

किं च—

सुवासिनीर् गुर्विणीश् च वृद्धं बालातुरौ तथा । भोजयेत् संस्कृतान्न् एव प्रथमं चरमं गृही ॥७४१॥ अघं स केवलं भुङ्क्ते वृद्धे गो-वाहनादिके । यो भुङ्क्ते पाण्डव-श्रेष्ठ प्रेक्षताम् अप्रदाय च ॥७४२॥

सुवासिनीः स्वगृहवर्तिविवाहितकन्याः चरमं पश्चात् गृही भुञ्जीत । वाहनमश्वः आदि-शब्दात् वत्सवृषादिः तान् प्रति जलादिकमदत्त्वेत्यर्थः ॥७४१-७४२॥

वर्जयेद् दधि-शक्तुं च रात्रौ धानाश् च वासरे ॥७४३॥

किं च—

स्रजश् च नावकर्षेत न बहिर् धारयेत च । गृहे पारावता धन्याः शुकाश् च सह-सारिकाः ॥७४४॥

कौर्मे व्यास-गीतायाम्—

तृणं वा यदि वा शाकं मूलं वा जलम् एव वा । परस्यापहरन् जन्तुर् नरकं प्रतिपद्यते ॥७४५॥ न राज्ञः प्रतिगृह्णीयान् न शूद्रात् पतिताद् अपि । नान्यस्माद् याचकत्वं च निन्दिताद् वर्जयेद् बुधः ॥७४६॥ नित्यं याचनको न स्यात् पुनस् तत्रैव याचयेत् । प्राणान् अपहरत्य् एष याचकस् तस्य दुर्मतिः ॥७४७॥ न देव-द्रव्य-हारी स्याद् विशेषेण द्विजोत्तमाः । ब्रह्मस्वं च नापहरेद् आपद्य् अपि कदाचन ॥७४८॥ न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते । देवस्वं वापि यत्नेन सदा परिहरेत् ततः ॥७४९॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्म-वादिभिः ॥७५०॥

धाना भृष्टयवांश्च दिवसे वर्जयेत् न खादेत् तत् कारणं चोक्तं तत्रैव—दिवा धानासु वसति रात्रौ च दधिशक्तुषु । अलक्ष्मीः कोविदारेषु नित्यमेव कृतालया । इति । नावकर्षेन स्वयमाकृष्य न छिन्द्यादित्यर्थः । स्वयं नोत्तारयेदिति केचिदाहुः । धन्याः ते तत्र रक्ष्या इत्यर्थः । अतस्तत्रैवार्द्धपद्यम्—भवन्त्येते न पापाय यथा वै तैलपायिकाः इति । तृणादिकमपहरन् नरकं याति । यच्चोक्तमत्रैव—पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे । अदत्त्वा दानमस्तेयं मनुराह इति तच्च धमार्थमेवेत्यविरुद्धम् । यतस्तत्रैवाग्रे—तृणं काष्ठं फलं पुष्पं प्रकाश्यं वै हरेद्बुधः । धर्मार्थं केवलं विना ह्यन्यथा पतितो भवेत् ॥ इति । स्त्रीशूद्रयोर्दम्भनं वञ्चनं कुर्वन् तयोरज्ञत्वेन वञ्चनसम्भवात् । यद्वा स्त्री-शूद्रवत् कष्टं कुर्वन् ॥७४३-७५०॥

देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः । ज्ञानापवाओ नास्तिक्यं तस्माद् कोटि-गुणाधिकम् ॥७५१॥

ज्ञानं शास्त्रं तस्य अपवादः खण्डनं निन्दा वा ॥७५१॥

किं च—

हिमवद्-विन्ध्ययोर् मध्ये पूर्व-पश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर् देशं नान्यत्र निवसेद् द्विजः ॥७५२॥ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश् च विश्रुता नद्यस् तत्र वा निवसेद् द्विजः । अर्ध-क्रोशान् नदी-कुलं वर्जयित्वा द्विजोत्तमाः ॥७५३॥

कथं निवसेत् तत्राह—अर्द्धेति ॥७५३॥

किं च—

अग्निना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भ-मार्गेण पद्भिः पङ्क्तिर् विभिद्यते । पर-क्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् ॥७५४॥

पतितादिभिः सह एकशय्यासनभोजनादिना सङ्करदोषापत्तेः सहभोजनादिकं पूर्वं निषिद्धं तत्र कदाचित् सहभोजने भस्मादिना पङ्क्तिभेदात् सङ्करदोषापलापः स्यादित्याह—अग्निनेति । पद्भिः त्रि-चतुरैः पदैः । षड्भिरिति पाठे अग्न्यादिभिः षड्भिः ॥७५४॥

नषुर्य-परिवेशं वा नेन्द्रचापं न चाग्निकम् । परस्मै कथयेद् विद्वान् शशिनं वा कथञ्चन । तिथिं पक्षस्य न ब्रूयान् नक्षत्राणि विनिर्दिशेत् ॥७५५॥

तिथिं परस्मै यं कञ्चित् न ब्रूयात् अन्यथा गणकवृत्त्यापत्तेः । एवमग्रेऽपि ॥७५५॥

न देव-गुरु-विप्राणां दीयमानं तु वारयेत् । निन्दयेद् यो गुरून् देवान् वेदं वा सोपबृंहितम् । कल्प-कोटि-शतं साग्रं रौरवे पच्यते नरः ॥७५६॥

देवादिभ्यो दीयमानं यत्किञ्चिद्देयम् उपबृंहणानि पुराणागमस्मृत्यादिशास्त्राणि तत्सहितम् ॥७५६॥

तूष्णीम् आसीत निन्दायां न ब्रूयात् किञ्चिद् उत्तरम् । कर्णौ पिधाय गन्तव्यं न चैनम् अवलोकयेत् ॥७५७॥

एतान् निन्दकान् एनमिति वा पाठः ॥७५७॥

वर्जयेद् रहस्यं च परेषां गूहयेद् बुधः । विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन ॥७५८॥

रहस्यं रहःकृत्यं परानिष्टादि ॥७५८॥

न पापं पापिनं ब्रूयाद् अपापं वा द्विजोत्तमाः ॥७५९॥

पापमत्यन्तपापकर्तारमपि जनं पापिनमिति न ब्रूयात् ॥७५९॥

नेक्षेतोद्यन्तम् आदित्यं शशिनं वा निमित्ततः ॥७६०॥

निमित्ततः केनापि हेतुनेति अतोऽकस्माद्दर्शने न दोष इति भावः ॥७६०॥

आस्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् । तिरोहितं वाससा वा न दर्शान्तर-गामिनम् ॥७६१॥

उपसृष्टं राहुग्रस्तं मण्डलादिव्याप्तं वा ॥७६१॥

नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रम् एव वा । पतित-व्यङ्ग-चाण्डालान् उच्छिष्टानुच्छिष्टान् नावलोकयेत् ॥७६२॥

पुमांसं वा नग्नं पुरीषं मूत्रमन्यदीयं स्वकीयञ्च तथा च कौर्मै—न पश्येदात्मनः शकृत् इति ॥७६२॥

न मुक्त-बन्धनां गां वा नोन्मत्तं मत्तम् एव वा । स्पृशेन् न भोजने पत्नीं नैनाम् ईक्षेत मेहतीम् ॥७६३॥

भोजने तत्समये आत्मनः पत्न्या वा ॥७६३॥

क्षुबन्तीं जृम्भमाणां वा नासनस्थां यथा सुखम् । नोदके चात्मनो रूपं नकुलं श्वभ्रम् एव वा ॥७६४॥

रूपादिकञ्च नेक्षेतेति पूर्वणान्वयः ॥७६४॥

न शूद्राय मतिं दद्यात् कृषरं पायसं दधि । नोच्छिष्टं वा घृत-मधु न च कृष्णाजिनं हविः ॥७६५॥

हविः—यज्ञीयद्रव्यम् ॥७६५॥

न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् । नात्मानम् अवमन्येत दैन्यं यत्नेन वर्जयेत् । न च शिष्यान्नं सत्कुर्यान् नात्मानं शंसयेद् बुधः ॥७६६॥

शंसयेत् प्रशंसयेदित्यर्थः स्तावयेदिति वा ॥७६६॥

न नदीं च नदीं ब्रूयात् पर्वतेषु न पर्वतम् । आवसेत् तेन नैवापि यस् त्यजेत् सहवासिनम् ॥७६७॥

नदीं न ब्रूयात् किन्तु गङ्गामिति कालिन्दीमिति चेत्येवं ब्रूयादित्यर्थः । एवमग्रेऽपि ॥७६७॥

शिरो’भ्यङ्गावशिष्टेन तलेनाङ्गं न लेपयेत् । रोमाणि च रहस्यानि स्वानि खानि न च स्पृशेत् ॥७६८॥

खानि इन्द्रियच्छिद्राणि न स्पृशेत् आचमनव्यतिरिक्तकाल इति ज्ञेयम् ॥७६८॥

न पाणि-पाद-वाङ्-नेत्र-चापलानि समाश्रयेत् । नाभिहन्याज् जलं पद्भ्यां पाणिना न कदाचन ॥७६९॥ न घातयेद् इष्टकाभिः फलानि न फलेन च । न म्लेच्छ-भाषणं शिक्षेन् न कर्षेच् च पदासनम् ॥७७०॥ नोत्सङ्गे भक्षयेद् भक्ष्यान् गां च संवेशयेन् न हि । नाक्षैः क्रीडेन् न धावेत स्त्रीभिर् वादं च चाचरेत् ॥७७१॥ न दन्तैर् नख-लोमानि छिन्द्यात् सुप्तं न बोधयेत् । न बालातपम् आसेवेत् प्रेत-धूमं विवर्जयेत् ॥७७२॥

बालातपमुद्यद्रविरश्मितापम् । यद्वा बाला कन्या तद्राशिगतसूर्यतापमित्यर्थः ॥७७२॥

नैकः सुप्यात् शून्य-गृहे स्वयं नोपानहौ हरेत् । नाकारणाद् वा निष्ठीवेन् न बाहुभ्यां नदीं तरेत् ॥७७३॥

हरेत् वहेत् बहेदित्येव वा पाठः ॥७७३॥

न पाद-क्षालनं कुर्यात् पादेनैव कदाचन । नाग्नौ प्रतापयेत् पादौ न कांस्ये धारयेद् बुधः ॥७७४॥ नाभिप्रतारयेद् देवान् ब्राह्मणान् गाम् अथापि वा । न स्पृशेत् पानिनोच्छिष्टो विप्रा गो-ब्राह्मणानलान् । न चैवान्नं पदा वापि न देव-प्रतिमां स्पृशेत् ॥७७५॥

पाणिना न स्पृशेत् हे विप्राः उक्छिष्टः सन् देवप्रतिमाञ्च न स्पृशेत् ॥७७५॥

नोत्तरेद् अनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् । चैत्यं बृह्मं नैव छिन्द्यान् नाप्सु ष्ठीवनम् उत्सृजेत् । न चाग्निं लङ्घयेद् धीमान् नोपदध्याद् अधः क्वचित् ॥७७६॥

अनुपस्पृश्य अनाचम्य स्रवन्तीं नदीं क्षुद्रामपि न लट्ययेत् ॥७७६॥

न चैनं पादतः कुर्यात् तिल-बद्धं निशि त्यजेत् । न कूपम् अवरोहेत नाचक्षीताशुचिः क्वचित् ॥७७७॥

तिलैर्बद्ध द्रव्यं मोदकादि त्यजेत् न भक्षयेत् नाचक्षीत किञ्चिदपि न वदेत् ॥७७७॥

अग्नौ न प्रक्षिपेद् अग्निं नाद्भिः प्रशमयेत् तथा । सुहृन्-मरणम् आर्तिं वा न स्वयं श्रावयेत् परान् । अपण्यम् अथ पण्यं वा विक्रयं न प्रयोजयेत् ॥७७८॥

अपण्यमविक्रेयं विक्रयं न प्रयाजयेत् न विक्रीणीयादित्यर्थः ॥७७८॥

पुण्य-स्थानोदक-स्थाने सीमान्तं वा कृषेन् न तु । भिन्द्यात् पूर्व-समयं सत्र्योपेतं कदाचन ॥७७९॥ परस्परं पशून् व्यालान् पक्षिणो न च योधयेत् । कारयित्वा स्व-कर्माणि कारून् विद्वान् न वञ्चयेत् ॥७८०॥

कारून् शिल्पिनः कर्मकरानित्यर्थः ॥७८०॥

बहिर् गन्धं च कुद्वार-प्रवेशं च विवर्जयेत् । नैकश् चरेत् सभां विप्रः समवायं च वर्जयेत् ॥७८१॥

समवायं बहुभिः सह सदैकवासम् ॥७८१॥

न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् । नाग्नि-गो-ब्राह्मणादीनाम् अन्तरेण व्रजेत् क्वचित् ॥७८२॥ नाक्रामेत् कामतश् छायां ब्राह्मणानां गवाम् अपि । स्वान्तु नाक्रामयेच् छायं पतिताद्यैर् न रोगिभिः ॥७८३॥

वस्त्रोदकं स्नानघटादकञ्च ॥७८३॥

नाश्नीयात् पयसा तक्रं न बीजान्य् उपबीजयेत् । विवत्सायाश् च गोः क्षीरम् औष्ट्रं वा निर्दशस्य च । आविकं सन्धिनी-क्षीरम् अपेयं मनुर् अब्रवीत् ॥७८४॥

अनिर्दशस्य अनिष्क्रान्तदशदिनस्य वत्सस्य भक्ष्यं यत् क्षीरं तदित्यर्थः दशदिनमध्येऽपेयत्वात सन्धिनी वृषभाक्रान्ता गौस्तस्याः क्षीरम् ॥७८४॥

हन्त-कारम् अथाग्र्यं वा भिक्षां वा शक्तितो द्विजः । दद्याद् अतिथये नित्यं बुध्येत परमेश्वरम् ॥७८५॥ भिक्षाम् आहुर् ग्रास-मात्रम् अग्र्यं तस्माच् चतुर्गुणम् । पुष्कलं हन्त-कारं तु तच् चतुर्गुणम् इष्यते ॥७८६॥

मार्कण्डेये—

भोजनं हन्त-कारं वा अग्र्यं भिक्षाम् अथापि वा । अदत्त्वा तु न भोक्तव्यं यथा-विभवम् आत्मनः ॥७८७॥

काशी-खण्डे—

नैवोत्कटासने’श्नीयान् नाग्नौ वस्त्व् अशुचि क्षिपेत् । श्राद्धं कृत्वा पर-श्राद्धे यो’श्नीयाज् ज्ञान-वर्जितः । दातुः श्राद्ध-फलं नास्ति भोक्ता किल्बिष-भुग् भवेत् ॥७८८॥ नोत्पाटयेल् लोम-नखं दशनेन कदाचन । करजैः करज-च्छेदं करेणैव विवर्जयेत् ॥७८९॥

दातूः अन्नदातुः करजैः नखैः ॥७८८-७८९॥

अपद्वारे न गन्तव्यं स्व-वेश्म-पर-वेश्मनोः । उत्कोच-द्युत-दौत्यार्थ-द्रव्यं दूरात् परित्यजेत् ॥७९०॥ निष्ठीवनं च श्लेष्माणं गृहाद् दूरे विनिक्षिपेत् । उद्धृत्य पञ्च मृत्-पिण्डान् स्नायात् पर-जलाशये । अनुद्धृत्य च तत्-कर्तुर् एनसः स्यात् तुरीय-भाक् ॥७९१॥

ब्राह्मे—

यस् तु पाणि-तले भुङ्क्ते यस् तु फुत्कार-संयुतम् । प्रसृताङ्गुलिभिर् यस् तु तस्य गो-मांसवच् च तत् ॥७९२॥

अत्रि-स्मृतौ—

न्यूनाधिक-स्तनी या गौर् याथवाभक्ष्य-चारिणी । तयोर् दुग्धं न होतव्यं न पातव्यं कदाचन ॥७९३॥ अजा गावो महिष्यश् च यामेध्यम् अपि भक्षयेत् । हव्ये कव्ये च तद्-दुग्धं गोमयं च विवर्जयेत् ॥७९४॥ अङ्गुल्या दन्त-काष्ठं च प्रत्यक्ष-लवणं तथा । मृत्तिका-प्राशनं चैव तुल्यं गोमांस-भक्षणैः ॥७९५॥

अत्रापवादो मनु-स्मृतौ—

सामुद्रं सैन्धवं चैव लवणे परमाद्भुते । प्रत्यक्षे अपि ते ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥७९६॥

अत्रि-स्मृतौ—

दिवा कपित्थ-च्छाया च निशायां दधि-भोजनम् । कार्पासं दन्त-काष्ठं च शक्राद् अपि हरेत् श्रियम् ॥७९७॥

विष्णु-स्मृतौ च—

कपिलायाः पयः पीत्वा शूद्रस् तु नरकं व्रजेत् । होम-शेषं पिबेद् विप्रो विप्रः स्याद् अन्यथा पशुः ॥७९८॥

अभक्ष्यं विष्टादि तच्चारिणी अजादयस्तासां मध्ये या अमेध्यं भक्षयेत् तस्या दूग्धं गोमयञ्च दन्तकाष्ठं दन्तशोधनं होमशेषं होमावशिष्टमेव पयः ॥७९३-७९८॥

परिहर्तुं पुनर् लेखं तत्-तत्-शास्त्रोक्तम् अन्यथा ।
यद् अत्र लिखितं किञ्चित् तत् क्षन्तव्यं महात्मभिः ॥७९९॥

अथोपसंहरन् श्रीविष्णुपुराणादिवर्ति-पाठपरित्यागादिनोच्चावचोपचाराणामेषामन्यथा लिखनतो निजापराधं मत्वा साधून् क्षमापयति—परिहर्तुमिति । अन्यथेति कुत्रापि श्लोकादि परित्यागेन क्वचिदन्यत्रस्थितश्लोकपादादेरन्यत्र योजनेन क्वचिच्चान्याक्षरैस्तदर्थलिखनेनेत्यर्थः । तच्च पुनर्लिखनं परिहर्तुमेव अन्यथा प्रकरणान्तरेऽत्रैव लिखितस्य पुनर्लिखनेन वैयर्थ्यापत्तेर्ग्रन्थबाहुल्यापत्तेश्च । अतो महात्मभिर्विवेकिभिः क्षन्तव्यम् ॥७९९॥

आचाराश् चेदृशाः सन्ति परे’पि बहुलाः सताम् ।
ते लोक-शास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥८००॥

ईदृशाः उच्चावचाः सतामाचाराः अश्वत्थच्छायायां गोष्ठे च रात्रौ न स्वपेत् । प्रातरेकेन हस्तेनैकमक्षि न सम्मर्दयेदित्यादयः । वैष्णवैर्यद्यपेक्ष्या इति तेषू केषाञ्चिदाचाराणामलक्ष्मीपरिहारपरत्वेन केषाञ्चिच्च रोगादिपरिहारपरत्वेन निजधार्मतिक्रमणशङ्क्या वैष्णवानामनपेक्ष्यत्वात् ॥८००॥

नित्यत्वम् एषां माहात्म्यम् अप्य् अत्र लिखितात् पुरा ।
सद्-आचारस्य नित्यत्वान् माहात्म्याच् च सुसिध्यति ॥८०१॥

ननु तर्हि ते किं न परिपाल्यास्तैः तत्र लिखति—नित्यत्वमिति । पूरा सदाचारलिखनारम्भे लिखितात् अतो नित्यत्वात् माहात्म्याच्च वैष्णवैस्ते ते परिपाल्या एवेत्यर्थः । अलक्ष्म्या रोगादिना च कदाचिद्भक्तिविघ्नापत्तेः । अन्यथा प्रथमप्रतिज्ञातवैष्णवावश्यककृत्यलिखनग्रन्थेऽरिमन्नेते लेख्या एक न स्युरिति भावः ॥८०१॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
नित्य-कृत्य-समापनो नाम
एकादशो विलासः
॥११॥

Nओतेस्

हरि-भक्ति-विलास-स्थित-पाठानुसारेण ।


  1.  ↩︎