**नवम-विलासः
महा-प्रसादः
स प्रसीदतु चैतन्य-देवो यस्य प्रसादतः ।
महा-प्रसाद-जातार्हः सद्यः स्याद् अधमो’प्य् अहम् ॥१॥
सनातनः- **अधुना महा-प्रसाद-प्रकरणं लिखन् परमगुरु-श्री-भगवत्-प्रसादं प्रार्थयते—स इति । महाप्रसादो नाम भगवद्-उच्छिष्टादि, तस्य जातं समुच्चयः तद्-योग्यः स्यात् । एवेम् एतल्-लिखने परमायोग्यस्याप्यात्मनो भगवत्-प्रसादेनैव योग्यता सम्भावितेति पूर्ववद् ऊह्यम् । एवम् अग्रेऽपि बोद्धव्यम् ॥१॥
**अथ शङ्खोदकं तच् च कृष्ण-दृष्टि-सुधोक्षितम् ।
वैष्णवेभ्यः प्रदायाभिवन्द्य मूर्धनि धारयेत् ॥२॥
सनातनः- **तच्चेति यत् पूर्वं पूजोपकरणाद्य्-अभ्युक्षणानन्तरं पुनर् भूतजले श्री-भगवद्-अग्रतो न्यस्ते शङ्ख स्थितं पश्चाच्च तेन शङ्खेन त्रिर् भ्रामणतो भगवन्-नीराजनम् अनुष्ठितं, तदा तत्-स्थजलस्यापि नीराजनेन सौभाग्यं जातम् अस्ति तद् इत्यर्थः । अत एव पूर्वं भगवद्-अग्रतो न्यस्तत्वात् कृष्णस्य दृष्टि-रूपया सुधया उक्षितं सिक्तं चेति महासौभाग्य-जातं दर्शितम् । यदि च शङ्खान्तरेण सद्योजलभृतेन भगवन्-नीराजनमेव द्रष्टव्यं, तथापि तच्-छङ्ख-जलस्य नीराजनेन भगव-दृष्टि-गोचरता-वाप्त्या, किंवा नीराजनान्तरं स्तवन-वन्दनाद्यर्थम् अवश्यं भगवद्-अग्रतो धार्यत्वेन तद्-दृष्टि-सुधोक्षितत्वं सम्पद्यत एव; एवञ्च पूर्व-स्थापितेनैव शङ्खेन क्षीरादि-स्नपनं बोद्धव्यम्, अन्यथा शङ्ख-बाहुल्यापत्तेः । ततश्च स्नपनानन्तरं तस्य रिक्तत्वात्, तथा नीराजन-शङ्खस्य जल-ग्रहणाच्च पुनर् अग्रे लेख्यं भगवद्-अग्रतः शङ्ख-स्थापनं युक्तमेव । न च वक्तव्यम् इदं पूर्वं शङ्खः स्थापितोऽस्त्येव, क्षीर-स्नपनादिकं नीराजनञ्च शङ्खान्तरेणैवेति पुनः शङ्कस्थापनेनालम् इति, यतः शिष्टाचारानुसारेण विष्णु-भक्ति-चन्द्रोदयादौ ग्रन्थे श्री-नृसिंहारण्यादिभिः प्रामाणिक-वर्गैर् लिखितम्—पूजा-समाप्तौ पूष्पादिना पूजा-पूर्वकं शङ्खस्य विशेषतः स्थापनम् अपेक्ष्यत एव । पूर्वं तु पूजोपकरणाद्य्-अभ्युक्षणोपक्षीण-जलः शङ्खः पूजारम्भे मङ्गलार्थं केवलं जलेनापूर्य स्थापित आसीदिति विशेषः ॥२॥
**शङ्खोदक-माहात्म्यं **
स्कान्दे ब्रह्म-नारद-संवादे——
शङ्खोदकं हरेर् भक्तिर् निर्माल्यं पादयोर् जलं । चन्दनं धूप-शेषं तु ब्रह्म-हत्यापहारकम् ॥३॥
**सनातनः- **भक्तिः—श्रवण-कीर्तनादि-नव-विधा ॥३॥
तत्रैव शङ्ख-माहात्म्ये—
शङ्ख-स्थितं तु यत् तोयं भ्रामितं केशवोपरि । वन्दते शिरसा नित्यं गङ्गा-स्नानेन तस्य किम् ॥४॥
**सनातनः- **यो वन्दते, तस्य ॥४॥
न दाहो न क्लमो नार्तिर् नरकाग्नि-भयं न हि । यस्य शङ्खोदकं मूर्ध्नि कृष्ण-दृष्ट्य्-अवलोकितम् ॥५॥ न ग्रहा न च कुष्माण्डाः पिशाचोरग-रक्षसाः । दृष्ट्वा शङ्खोदकं मूर्ध्नि विद्रवन्ति दिशो दश ॥६॥
**सनातनः- **यस्य मूर्ध्नि वर्तते; ग्रहादयः मूर्धि स्थितं शङ्खोदकं दृष्ट्वा न किञ्चित् कर्तुं शक्नुवन्ति, प्रत्युत विद्रवन्ति पलायन्त इत्यर्थः ॥५-६॥
कृष्ण-मूर्ध्नि भ्रामितं तु जलं तच्-छङ्ख-संस्थितम् । कृत्वा मूर्धन्य् अवाप्नोति मुक्तिं विष्णोः प्रसादतः ॥७॥ भ्रामयित्वा हरेर् मूर्ध्नि मन्दिरं शङ्ख-वारिणा । प्रोक्षयेद् वैष्णवो यस् तु नाशुभं तद्-गृहे भवेत् ॥८॥ नीराजन-जलं यत्र यत्र पादोदकं हरेः । तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥९॥
तत्रैवाग्रे—
नीराजन-जलं विष्णोर् यस्य गात्राणि संस्पृशेत् । यज्ञावभृत-लक्षणं स्नान-जं लभते फलम् ॥१०॥
तत्रैव श्री-शिवोक्तौ—
पादोदकेन देवस्य हत्यायुत-समन्वितः । शुध्यते नात्र सन्देहस् तथा शङ्खोदकेन हि ॥११॥
बृहद्-विष्णु-पुराणे च—
तीर्थाधिकं यज्ञ-शताच् च पावनं जलं सदा केशव-दृष्टि-संस्थितम् । छिनत्ति पापं तुलसी-विमिश्रितं विशेषतश् चक्र-शिला-विनिर्मितम् ॥१२॥
**सनातनः- **चक्र-शिलाविनिर्मितं भगवच्-चरणामृतम् इत्यर्थः ॥१२॥
**अथ तीर्थ-धारानं
कृष्ण-पदब्ज-तीर्थं च वैष्णवेभ्यः प्रदाय हि ।
स्वयं भक्त्य्-अभिवन्द्यादौ पीत्वा शिरसि धारयेत् ॥१३॥
तस्य मन्त्र-विधिश् च प्राक् प्रातः-स्नान-प्रसङ्गतः ।
लिखितो ह्य् अधुना पाने विशेषो लिख्यते कियान् ॥१४॥
सनातनः- **विधि-धारण-प्रकारश्च; कियान् सङ्क्षिप्तो विधि-विशेषो लिख्यते ॥१४॥
स चोक्तः—
ओं चरणं पवित्रं विततं पुराणं येन पूतस् तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूता अपि पाप्मानम् अरातिं तरेम ॥१५॥ लोकस्य द्वारम् आर्चयत् पवित्रं ज्योतिष्मत् विभ्राजमानं महस् तद् अमृतस्य धारा बहुधा दोहमानं चरणं लोके सुधितं दधतु ॥१६॥ इति ।
**सनातनः- **चरणं चरणारविन्दं, तद्-उदकम् इत्यर्थः । अरातिं संसार-लक्षणम्; सुधितां सुधावदादरणीयताम् इत्यर्थः ॥१५-१६॥
इमं मन्त्रं समुच्चार्य सर्व-दुष्ट-ग्रहापहम् ।
प्राश्नीयात् प्रोक्षयेद् देहं पुत्र-मित्र-परिग्रहम् ॥१७॥
किं च—
**विष्णोः पादोदकं पीतं कोटि-हत्याघ-नाशनम् ।
तद् एवष्ट-गुनं पापं भुमौ बिन्दु-निपतनत् ॥१८॥
सनातनः- **तत् तस्मात् पानोक्त-पुण्याद् अष्ट-गुणम् इत्यर्थः ॥१८॥
**अथ श्री-चरनोदक-पन-माहात्म्यं **
पाद्मे गौतमाम्बरीष-संवादे—
हरेः स्नानावशेषस् तु जलं यस्योदरे स्थितम् । अम्बरीष प्रणम्योच्चैः पाद-पांशुः प्रगृह्यताम् ॥१९॥
तत्रैव देवदूत-विकुण्डल-संवादे—
ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् ।
पञ्च-गव्य-सहस्रैस् तु सेवितैः किं प्रयोजनम् ॥२०॥
कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । नित्यं यदि पिबेत् पुण्यं शालग्राम-शिला-जलम् ॥२१॥ शालग्राम-शिला-तोयं यः पिबेद् बिन्दुना समम् । मातुः स्तन्यं पुनर् नैव न पिबेद् भक्ति-भाङ् नरः ॥२२॥
किं च—
दहन्ति नरकान् सर्वान् गर्भ-वासं च दारुणम् । पीतं यैस् तु सदा नित्यं शालग्राम-शिला-जलम् ॥२३॥
तत्रैव श्री-यम-धुम्रकेतु-संवादे—
शालग्राम-शिला-तोयं बिन्दु-मात्रं तु यः पिबेत् । सर्व-पापैः प्रमुच्येत भक्ति-मार्गे कृतोद्यमः ॥२४॥
तत्रैव पुलस्त्य-भगीरथ-संवादे—
पादोदकस्य माहात्म्यं भगीरथ वदामि ते । पावनं सर्व-तीर्थेभ्यो हत्या-कोटि-विनाशकम् ॥२५॥ धृते शिरसि पीते च सर्वास् तुस्यन्ति देवताः । प्रायश्चित्तं तु पापानां कलौ पादोदकं हरेः ॥२६॥
किं च—
त्रिभिः सारस्वतं तोयं सप्ताहेन तु नार्मदम् । सद्यः पुनाति गाङ्गेयं दर्शनाद् एव यामुनम् ॥२७॥ पुनन्त्य् एतानि तोयानि स्नान-दर्शन-कीर्तनैः । पुनाति स्मरणाद् एव कलौ पादोदकं हरेः ॥२८॥
किं च—
अर्चितैः कोटिभिर् लिङ्गैर् नित्यं यत् क्रियते फलम् । तत् फलं शत-सहस्रं पिते पादोदके हरेः ॥२९॥ अशुचिर् वा दुराचारो महा-पातक-संयुतः । स्पृष्ट्वा पादोदकं विष्णोः सदा शुध्यति मानवः ॥३०॥ पाप-कोटि-युतो यस् तु मृत्यु-काले शिरो-मुखे । देहे पादोदकं तस्य न प्रयाति यमालयम् ॥३१॥
**सनातनः- **तस्य शिरसि मुखे च पादोदकं चेत् तर्हि स न प्रयातीत्यर्थः ॥३१॥
न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् । ते ऽपि पादोदकं पीत्वा प्रयन्ति परमां गतिम् ॥३२॥
**सनातनः- **हविः-शब्देन होमाद्य्-उपलक्ष्यते ॥३२॥
कार्त्तिके कार्त्तिकी-योगे किं करिष्यति पुष्करे । नित्यं च पुष्करं तस्य यस्य पादोदकं हरेः ॥३३॥ विशाखा-ऋक्ष-संयुक्त वैशाखी हि करिष्यति । पिण्डारके महा-तीर्थे उज्जायिन्यां भगीरथ ॥३४॥ माघ-मासे प्रयागे तु स्नानं किं करिष्यति । प्रयागं सततं तस्य यस्य पादोदकं हरेः ॥३५॥ प्रबोध-वासरे प्राप्ते मथुरायां च तस्य किम् । नित्यं च यामुनं स्नानं यस्य पादोदकं हरेः ॥३६॥
**सनातनः- **यस्य पादोदकं सेव्यं स्याद् इति शेषः, स देशो मतः सद्भिः । बिन्दुः बिन्दुमात्रम् ॥३३-३६॥
कस्याम् उत्तर-वाहिन्यां गङ्गायां तु मृतस्य किम् ।
यस्य पादोदकं विष्णोर् मुखे चैवावतिष्ठते ॥३७॥
किं च—
हित्वा पादोदकं विष्णोर् यो’न्य-तीर्थानि गच्छति । अनर्घं रत्नम् उत्सृज्य लोष्ट्रं वाञ्छति दुर्मतिः ॥३८॥ कुरुक्षेत्र-समो देशो बिन्दुः पादोदकं मतः ॥३९॥ पतेद् यत्राक्षयं पुण्यं नित्यं भवति तद्-गृहे । गया-पिण्ड-समं पुण्यं पुत्राणाम् अपि जायते ॥४०॥ पादोदकेन देवस्य ये कुर्युः पितृ-तर्पणम् । नासुराणां भयं तस्य प्रेत-जन्यं च राक्षसम् ॥४१॥ न रोगस्य भयं चैव नास्ति विघ्न-कृतं भयम् । न दुष्टा नैव घोराक्षाः स्वापदोत्थ-भयं न हि ॥४२॥ ग्रहाः पीदां न कुर्वन्ति चौरा नश्यन्ति दारुणाः । किं तस्य तीर्थ-गमने देवर्षीणां च दर्शने ॥४३॥ यस्य पादोदकं मूर्ध्नि शालग्राम-शिलोद्भवम् । प्रीतो भवति मार्तण्डः प्रीतो भवति केशवः । ब्रह्मा भवति सु-प्रीतः प्रीतो भवति सङ्करः ॥४४॥ पादोदकस्य माहात्म्यं यः पठेत् केशवग्रतः । स याति परमं स्थानं यत्र देवो जनर्दनः ॥४५॥
ब्रह्माण्ड-पुराणे श्री-ब्रह्म-नारद-संवादे——
प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्व् अघ-मर्षणम् । सो’पि पादोदकं पीत्वा शुद्धिं प्राप्नोति तत्-क्षणात् ॥४६॥ अशौचं नैव विद्येत सूतके मृतके ऽपि च । येषां पादोदकं मूर्ध्नि प्राशनं ये च कुर्वते ॥४७॥ अन्त-काले ऽपि यस्येह दीयते पादयोर् जलम् । सो’पि सद्-गतिम् आप्नोति सद्-आचारैर् बहिष्कृतः ॥४८॥
**सनातनः- **सदाचारैर् बहिष्कृतोऽपि चेत् ॥४८॥
अपेयं पिबते यस् तु भुङ्क्ते यश् चाप्य् अभोजनम् । अगम्यागमना ये वै पापाचाराश् च ये नराः । ते ऽपि पूज्या भवन्त्य् आशु सद्यः पादाम्बु-सेवनात् ॥४९॥
**सनातनः- **अभोजनम् अभक्ष्यम् ॥४९॥
किं च—
अपवित्रं यद्-अन्नं स्यात् पानीयं चापि पापिनाम् ।
भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं हरेः ॥५०॥
तप्त-कृच्छ्रात् पञ्च-गव्यान् महा-कृच्छ्राद् विशिष्यते । चान्द्रायणात् पार-कृच्छ्रात् पराकाद् अपि सुव्रत । काय-शुद्धिर् भवत्य् आशु पीत्वा पादोदकं हरेः ॥५१॥
**सनातनः- **तप्त-कृच्छ्र-महाकृच्छादिकं नाम व्रत-विशेषः ॥५१॥
अगुरुं कुङ्कुमं चापि कर्पूरं चानुलेपनम् । विष्णु-पादाम्बु-संलग्नं तद् वै पावन-पावनम् ॥५२॥ दृष्टि-पूतं तु यत् तोयं विष्णुना प्रभविष्णुना । तद् वै पाप-हरं पुत्र किं पुनः पादयोर् जलम् ॥५३॥
**सनातनः- **विष्णुना कर्त्रा दृष्ट्या कृत्वा पूतं पावितम् इत्यर्थः यद्वा, विष्णुना विष्णोर् इत्यर्थः ॥५३॥
एतद्-अर्थम् अहं पुत्र शिरसा विष्णु-तत्-परः । धारायामि पिबाम्य् अद्य माहात्म्यं विदितं मम ॥५४॥ प्रियस् त्वम् अग्रजः पुत्रस् तद्-अर्थं गदितं मया । रहस्यं मे त्व् अनर्हस्य न वक्तव्यं कदाचन ॥५५॥
**सनातनः- **अनर्हस्य अयोग्यस्य अवैष्णवस्येत्यर्थः, तं प्रति न वक्तव्यम् ॥५५॥
धारयस्व सदा मूर्ध्नि प्राशनं कुरु नित्यशः ।
जन्म-मृत्यु-जरा-दुःखैर् मोक्षं यास्यसि पुत्रक ॥५६॥
विष्णु-धर्मोत्तरे—
सद्यः फल-प्रदं पुण्यं सर्व-पाप-विनाशनम् । सर्व-मङ्गल-मङ्गल्यं सर्व-दुःख-विनाशनम् ॥५७॥ दुःस्वप्न-नाशनं पुण्यं विष्णु-पादोदकं शुभम् । सर्वोपद्रव-हन्तारं सर्व-व्याधि-विनाशनम् ॥५८॥
**सनातनः- **हन्तारम् इत्य् आर्षं, हन्तृ ॥५८॥
सर्वोत्पात-प्रशमनं सर्व-पाप-निवारणम् । सर्व-कल्याण-सुखदं सर्व-काम-फल-प्रदम् ॥५९॥ सर्व-सिद्धि-प्रदं धन्यं सर्व-धर्म-विवर्धनम् ।
सर्व-शत्रु-प्रशमनं सर्व-भोग-प्रदायकम् ॥६०॥
सर्व-तीर्थस्य फल-दम् मूर्ध्नि पादाम्बु-धारणम् । प्रयागस्य प्रभासस्य पुष्करस्य च सेवने । पृथूदकस्य तीर्थस्य आचान्तो लभते फलम् ॥६१॥
**सनातनः- **सेवने यत् फलं तत्, आचान्तः कृत-पादोदकाचमनः ॥६१॥
चक्र-तीर्थं फलं यादृक् तादृण् पादाम्बु-धारणात् । सरस्वत्यां गयायां च गत्वा यत् प्राप्नुयात् फलम् । तत् फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बु-धारणात् ॥६२॥
स्कान्दे—
पादोदकस्य माहात्म्यं देवो जानाति शङ्करः । विष्णु-पाद-च्युता गङ्गा शिरसा येन धारिता । स्थानं नैवास्ति पापस्य देहिनां देह-मध्यतः ॥६३॥
**सनातनः- **देहिनां मध्ये तस्यैकस्य देह-मध्ये पापस्य स्थानं नैवास्ति । देहिनः इति वा पाठः ॥६३॥
स-बाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै । पादोदं विष्णु-नैवेद्यम् उदरे यस्य तिष्ठति ॥६४॥
**सनातनः- **बाह्यं मस्तकादि, तेन सहितमाभ्यन्तरं जठरान्तनाड्यादि, तत्र बाह्यं मस्तकादौ धारणेन, आभ्यन्तरञ्च पानेन व्याप्तम् इत्यर्थः ॥६४॥
नाश्रयं लभते पापं स्वयम् एव विनश्यति । महा-पाप-ग्रह-ग्रस्तो व्याप्तो रोग-शतैर् यदि ॥६५॥ हरेः पादोदकं पीत्वा मुच्यते नात्र संसयः । शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ॥६६॥ किं करिष्यति ते लोके तीर्थ-कोटि-मनोरथैः । अयम् एव परो धर्म इदम् एव परं तपः । इदम् एव परं तीर्थं विष्णु-पादाम्बु यत् पिबेत् ॥६७॥
तत्रैव श्री-शिवोमा-संवादे—
विलयं यान्ति पापानि पीते पादोदके हरेः । किं पुनर् विष्णु-पादोदं शालग्राम-शिला-च्युतम् ॥६८॥ विशेषेन हरेत् पापं ब्रह्म-हत्यादिकं प्रिये । पीते पादोदके विष्णोर् यदि प्राणैर् विमुच्यते । हत्वा यम-भटान् सर्वान् वैष्णवं लोकम् आप्नुयात् ॥६९॥
**सनातनः- **हरेः प्रतिमा-रूपस्येत्यर्थः । किं पुनर् इति प्रतिमातः श्री-शालग्राम-शिलायाः माहात्म्य-विशेषाभिप्रायेण । अत एवाह—विशेषेणेति स-मूलं सर्वम् एवेत्यर्थः; यद्वा, हरेः पादोदके गङ्गा-जल-रूपे, अन्यत् समानम् ॥६८-६९॥
तत्रैव श्री-शिव-कार्त्तिकेय-संवादे श्री-शालग्राम-शिला-माहात्म्ये—
छिन्नस् तेन महा-सेन गर्भावासः सु-दारुणः । पीतं येन सदा विष्णोः शालग्राम-शिला-जलम् ॥७०॥ ये पिबन्ति नरा नित्यं शालग्राम-शिला-जलम् । पञ्च-गव्य-सहस्रैस् तु प्राशितैः किं प्रयोजनम् ॥७१॥ प्रायश्चित्ते समुत्पन्ने किं दानैः किम् उपोषणैः । चान्द्रायणैश् च तीर्थैश् च पीत्वा पादोदकं शुचि ॥७२॥
बृहन्-नारदिये लुब्धकोपाख्यानारम्भे—
हरि-पादोदकं यस् तु क्षण-मात्रं च धारयेत् । स स्नातः सर्व-तीर्थेसु विष्णोः प्रियतरस् तथा ॥७३॥
अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् ।
सर्व-दुःखोपशमनं हरि-पादोदकं शुभम् ॥७४॥
तत्रैव तद्-उपाख्यानान्ते—
हरि-पादोदक-स्पर्शाल् लुब्धको वीत-कल्मषः । दिव्यं विमानम् आरुह्य मुनिम् एनम् अथाब्रवीत् ॥७५॥ हरि-पादोदकं यस्मान् मयि त्वं क्षिप्तवान् मुने ।
प्रापितो’स्मि त्वया तस्मात् तद् विष्णोः परमं पदम् ॥७६॥
हरि-भक्ति-सुधोदये—
पादं पूर्वं किल स्पृष्ट्वा गङ्गाभूत् स्मर्तृ-मोक्ष-दा । विष्णोः सद्यस् तु सत्-सङ्गि पादाम्बु कथम् ईड्यते ॥७७॥ ताप-त्रयानलो यो’सौ न शाम्येत् सकलाब्धिभिः । द्रुतं शाम्यति सो’ल्पेन श्रीमद्-विष्णु-पदाम्बुना ॥७८॥ युद्धास्त्राभेद्य-कवचं भवाग्नि-स्तम्भनौषधम् । सर्वाङ्गैः सर्वथा धार्यं पाद्यं शुचि-पदः सदा ॥७९॥
**सनातनः- **सर्वाङ्गैर् इति नाभेर् ऊर्ध्वाङ्गैर् ज्ञेयम् ॥७९॥
अमृतत्वावहं नित्यं विष्णु-पादाम्बु यः पिबेत् । स पिबत्य् अमृतं नित्यं मासे मासे तु देवताः ॥८०॥ माहात्म्यम् इयद् इत्य् अस्य वक्ता यो’पि स निर्भयः । नन्व् अनर्घ-मणेर् मूल्यं कल्पयन्न् अघम् अश्नुते ॥८१॥
अन्यत्रपि—
स ब्रह्मचारी स व्रती आश्रमी च सदा-शुचिः । विष्णु-पादोदकं यस्य मुखे शिरसि विग्रहे ॥८२॥ जन्म-प्रभृति-पापानां प्रायश्चित्तं यदीच्छति । शालग्राम-शिला-वरि पाप-हारि निषेव्यताम् ॥८३॥
अत एव तेजोद्रविन-पञ्चरत्रे श्री-ब्रह्मणोक्तम्—
पीठ-प्रणालाद् उदकं पृथग् आदाय पुत्रक । सिञ्चयेन् मूर्ध्नि भक्तानां सर्व-तीर्थ-मयं हि तत् ॥८४॥ इति ।
**सनातनः- **पीठं श्री-भगवद्-आसनं, तस्य प्रणालात् ॥८४॥
**पादोदकस्य माहात्म्यं विख्यातं सर्व-शास्त्रतः ।
लिखितुं शक्नुयत् को हि सिन्धूर्मीन् गणयन्न् अपि ॥८५॥
विशेषतश् च पादोदं तुलसी-दल-संयुतम् ।
शङ्खे कृत्वा वैष्णवेभ्यो दत्त्वा प्राग्वत् पिबेत् स्वयम् ॥८६॥
सनातनः- **प्राग्वदिति—तन्-मन्त्रोच्चारणादि-विधिनेत्यर्थः ॥८६॥
**अथ शङ्ख-कृत-पादोदक-माहात्म्यं **
स्कान्दे श्री-ब्रह्म-नारद-संवादे—
कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् । यो दद्यात् तुलसी-मिश्रं चान्द्रायण-शतं लभेत् ॥८७॥ गृहीत्वा कृष्ण-पादाम्बु शङ्खे कृत्वा तु वैष्णवः । यो वहेत् शिरसा नित्यं स मुनिस् तपसोत्तमः ॥८८॥
पाद्मे देवदूत-विकुण्डल-संवादे—
शालग्राम-शिला-तोयं यदि शङ्ख-भृतं पिबेत् । हत्या-कोटि-विनाशं च कुरुते नात्र संसयः ॥८९॥
अगस्त्य-संहितायाम्—
शालग्राम-शिला-तोयं तुलसी-दल-वासितम् । ये पिबन्ति पुनस् तेषां स्तन्य-पानं न विद्यते ॥९०॥ इति । श्री-विष्णोर् वैष्णवानां च पावनं चरणोदकम् । सर्व-तीर्थ-मयं पीत्वा कुर्याद् आचमनं न हि ॥९१॥
**सनातनः- **आचमनं न हि नैव कुर्याद् इति अस्पृश्य-स्पर्शनादिना कथञ्चित् प्राप्तम् आचमनं चरणोदक-पानानन्तरं पुनस् तच्-छुद्धये न कुर्यात् । यद्वा, स्नात्वा भुक्त्वा पयः पीत्वा इत्यादिना जल-पानानन्तरं स्मृति-विहितं यद्-आचमनं तच्-छ्री-चरणोदक-पानानन्तरं न कार्यम् इत्यर्थः । एवञ्च पिपासया चरणोदकस्य पानं विज्ञेयं, न च प्राशन-रूपम् आचमन-मात्रम् इति ॥९१॥
तद् उक्तं स्कान्दे शिवेन—
विष्णोः पादोदकं पीत्वा पश्चाद् अशुचि-शङ्कया ।
आचमति च यो मोहाद् ब्रह्म-हा स निगद्यते ॥९२॥
**सनातनः- **अशुचि-शङ्कया अशुद्धयाशङ्कयेत्यर्थः ॥९२॥
स्रुतिश् च—
भगवान् पवित्रं भगवत्-पादौ पवित्रं, भगवत्-पादोदकं पवित्रं, न तत्-पान आचमनीयम् । यथा हि सोम इति ॥९३॥
सौपर्णे च—
विष्णु-पादोदकं पीत्वा भक्त-पादोदकं तथा । य आचमति सम्मोहाद् ब्रह्म-हा स निगद्यते ॥९४॥ इति ।
ततः शुद्धं पयः-पूर्णं गन्ध-पुष्पाक्षतान्वितम् ।
अधरोपरि सन्न्यसेच् छङ्खं भगवद्-अग्रतः ॥९५॥
**अथ श्री-भगवद्-अग्रतः शङ्ख-स्थपन-महतम्यं **
स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये—
पुरतो वासुदेवस्य स-पुष्पं स-जलाक्षतम् । शङ्खम् अभ्यर्चितं पश्येत् तस्य लक्ष्मीर् न दुर्लभा ॥९६॥ स-पुष्पं वारि-जं यस्य दुर्वाक्षत-समन्वितम् । पुरतो वासुदेवस्य तस्य श्रीः सर्वतो-मुखी ॥९७॥ इति ।
**सनातनः- **वारिजं शङ्खः । पुरतस् तिष्ठतीति शेषः ॥९७॥
**भूत्वाथ भक्तिमान् श्रीमत्-तुलस्या कानने प्रभुम् ।
सम्पूज्याभ्यर्चयेत् तं च श्री-कृष्ण-चरण-प्रियम् ॥९८॥
सनातनः- **तां तुलसीं च ॥९८॥
**अथ श्री-तुलसी-वन-पूजा
प्राग् दत्त्वार्घ्यं ततो’व्यर्च्य गन्ध-पुष्पाक्षतादिना ।
स्तुत्वा भगवतीं तां च प्रणमेत् प्रार्ह्त्य दण्डवत् ॥९९॥**
**अथार्घ्य-मन्त्रः
श्रियः श्रिये श्रियावासे नित्यं श्रीधारा-सत्कृते ।
भक्त्या दत्तं मया देवि अर्घ्यं गृह्ण नमो’स्तु ते ॥१००॥
सनातनः- **गृह्ण गृहाण ॥१००॥
**पूजा मन्त्रः
निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः ।
तुलसी हर मे पापं पूजां गृह्ण नमो’स्तु ते ॥१०१॥
सनातनः- **तुलसीति—दीर्घान्त-पाठे सम्बोधनेऽपि छन्दोभङ्गभिया दैर्घ्यम् आर्षम्; यद्वा, त्वम् इत्यस्य विशेषणम् ॥१०१॥
**स्तुतिश् च
महा-प्रसाद-जननी सर्व-सौभाग्य-वर्धिनी ।
आधि-व्याधि-हरो नित्यं तुलसी त्वं नमो’स्तु ते ॥१०२॥**
**प्रार्थना
श्रीयं देहि यशो देहि कीर्तिम् आयुस् तथा सुखम् ।
बलं पुष्टिं तथा धर्मं तुलसी त्वं प्रसीद मे ॥१०३॥**
प्रणाम-वाक्यम्
अवन्ती-खण्डे—
या दृष्टा निखिलाघ-सङ्घ-शमनी स्पृष्टा वपुः-पावनी रोगाणाम् अभिवन्दिता निरसिनी सिक्तान्तक-त्रासिनी । प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥१०४॥
**सनातनः- **प्रत्यासत्तिः सम्बन्ध-विशेषः; विमुक्तिः विशिष्टा मुक्तिः, श्री-वैकुण्ठलोक-प्राप्ति-लक्षणा, तदेव फलम्; यद्वा, विमुक्तेर् मोक्षस्य फलं प्रेम-भक्तिः तत् ददातीति तथा सा ॥१०४॥
भगवत्यास् तुलस्यास् तु माहात्म्यामृत-सागरे । लोभात् कूर्दितुम् इच्छामि क्षुद्रस् तत् क्षम्यतां त्वया ॥१०५॥
**सनातनः- **श्री-ब्रह्माद्य्-अनिर्वाच्यम् अपि भगवत्-पादपद्म-प्रियतमायाः श्री-तुलस्या माहात्म्यं परमोपादेयत्वेन लोभतो लिखन्न् आदौ निज-चापल्यापराधं क्षमापयति—भगवत्या इति । कूर्दितुम् उत्प्लुत्य निपतितुं क्षुद्रोऽप्य् अहम् ॥१०५॥
**अथ तुलसि-वन-पुज-महत्म्यम् **
स्कान्दे—
श्रावण-द्वादशी-योगे शालग्राम-शिलार्चने । यत् फलं सङ्गमे प्रोक्तं तुलसी-पूजनेन तत् ॥१०७॥
**सनातनः- **धात्री-फलेनेति—तद्-भक्षणादिनेत्यर्थः । जयन्त्यां जन्माष्टम्यां महा-द्वादशी-भेदे वा उपवासे च यत् पुण्यम्; यद्वा, जयन्त्य् उपोषणे धात्री-फल-स्नानादिना यत् पुण्यं भवते भवति ॥१०७॥
गारुडे—
धात्री-फलेन यत् पुण्यं जयन्त्यां समुपोषणे । खगेन्द्र भवते नृणां तुलसी-पूजनेन तत् ॥१०७॥ प्रयाग-स्नान-निरतौ कस्यां प्राण-विमोक्षणे । यत् फलं विहितं देवैस् तुलसी-पूजनेन तत् ॥१०८॥
अगस्त्य-संहितायाम्–
चतुर्णाम् अपि वर्णानाम् आश्रमाणाम् विशेषतः । स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति हि ॥१०९॥ तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् । आराधिता प्रयत्नेन सर्व-काम-फल-प्रदा ॥११०॥
**अथ तुलसी-वन-पूज-माहात्म्यं
प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः ।
न तेषां दुरितं किञ्चिद् अक्षीणम् अवशिष्यते ॥१११॥**
बृहन्-नारदिये यज्ञध्वजोपाख्यानान्ते—
पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति ।
तस्य सर्वाणि श्रेयांसि वर्धन्ते ऽहर्-अहर् द्विजाः ॥११२॥
अत एव पाद्मे देवदूत-विकुण्डल-संवादे—
पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्य-सत्तम । ब्रह्मादयो’पि कुर्वन्ति तुलसी-वन-पूजनम् ॥११३॥
**अत एव श्री-तुलसी-स्तुति-महिमा
अनन्य-मनसा नित्यं तुलसीं स्तौति यो नरः ।
पितृ-देव-मनुष्याणां प्रियो भवति सर्वदा ॥११४॥**
**अथ तुलसी-वन-माहात्म्यं **
स्कान्दे—
रतिं बध्नाति नान्यत्र तुलसी-काननम् विना । देव-देवो जगत्-स्वामी कलि-काले विशेषतः ॥११५॥ हित्वा तीर्थ-सहस्राणि सर्वान् अपि शिलोच्चयन् । तुलसी-कानने नित्यं कलौ तिष्ठति केशवः ॥११६॥ निरीक्षिता नरैर् यैस् तु तुलसी-वन-वाटिका । रोपिता यैश् च विधिना सम्प्राप्तं परमं पदम् ॥११७॥ न धात्री स-फला यत्र न विष्णुस् तुलसी-वनम् । तत् श्मशान-समं स्थानं सन्ति यत्र न वैष्णवाः ॥११८॥ केशवार्थे कलौ ये तु रोपयन्तीह भू-तले । किं करिष्यत्य् असन्तुष्टो यमो’पि सह किङ्करैः ॥११९॥ तुलस्या रोपणं कार्यं श्रवणेन विशेषतः । अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥१२०॥ देवालयेषु सर्वेषु पुण्य-क्षेत्रेषु यो नरः । वापयेत् तुलसीं पुण्यां तत् तीर्थं चक्र-पाणिनः ॥१२१॥ घटैर् यन्त्र-घटीभिश् च सिञ्चितं तुलसी-वनम् । जल-धाराभिर् विप्रेन्द्र प्रीणितं भुवन-त्रयम् ॥१२२॥
**सनातनः- **जल-धाराभिः सिञ्चितं सिक्तम् ॥१२२॥
तत्रैव श्री-ब्रह्म-नारद-संवादे—
तुलसी-गन्धम् आदाय यत्र गच्छति मारुतः । दिशो दश च पूताः स्युर् भूत-ग्रामाश् चतुर्-विधाः ॥१२३॥
**सनातनः- **चतुर्विधः, जरायु-जाण्डज-स्वेदजोद्भिज्ज-भेदेन ॥१२३॥
तुलसी-काननोद्भूता छाया यत्र भवेद् द्विज । तत्र श्राद्धं प्रदातव्यम् पितॄणां तृप्ति-हेतवे ॥१२४॥ तुलसी-बीज-निकराः पतते यत्र नारद ।
पिण्ड-दानं कृतं तत्र पितॄणां दत्तम् अक्षयम् ॥१२५॥
तत्रैवाग्रे—
दृष्टा स्पृष्टा तथा ध्याता कीर्तिता नमिता श्रुता । रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥१२६॥
**सनातनः- **नमिता नता, सेविता जल-सेकादिना ॥१२६॥
नवधा तुलसीं नित्यं ये भजन्ति दिने दिने । युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥१२७॥ रोपिता तुलसी यावत् कुरुते मूल-विस्तरं । तावत् कोटि-सहस्रं तु तनोति सुकृतं कलौ ॥१२८॥ यावच् छाखा-प्रशाखाभिर् बीज-पुष्पैः फलैर् मुने । रोपिता तुलसी पुम्भिर् वर्धते वसुधा-तले ॥१२९॥ कुले तेषां तु ये जाता ये भविष्यन्ति ये मृतः । आकल्पं युग-साहस्रं तेषां वासो हरेर् गृहे ॥१३०॥
**सनातनः- **प्रशाखा उपशाखाः; तेषां कुले यावन्तः पुरुषाः; तान् एवाह—ये जाता इत्यादि । आकल्पं ब्रह्मदिनं व्याप्य यत् युग-साहस्रं, तत् प्राप्य ॥१२९-१३०॥
तत्रैव चावन्ती-खण्डे—
तुलसीं ये विचिन्वन्ति धन्यास् तत्-कर-पल्लवाः । केशवार्थे कलौ ये च रोपयन्तीह भू-तले ॥१३१॥
**सनातनः- **ये च रोपयन्ति, ते धन्या इत्यादि ॥१३१॥
स्नाने दाने तथा ध्याने प्राशने केशवार्चने । तुलसी दहते पापं रोपणे कीर्तने कलौ ॥१३२॥
काशी-खण्डे स्व-दूतान् प्रति श्री-यमानुशासने—
तुलस्य्-अलङ्कृता ये ये तुलसी-नाम-जापकाः ।
तुलसी-वन-पाला ये ते त्याज्या दूरतो भटाः ॥१३३॥
तत्रैव ध्रुव-चरिते—
तुलसी यस्य भवने प्रत्य्-अहं परिपूज्यते ।
तद्-गृहे नोपसर्पन्ति कदाचिद् यम-किङ्कराः ॥१३४॥
पाद्मे देवदूत-विकुण्डल-संवादे—
न पश्यन्ति यमं वैश्य तुलसी-वन-रोपणात् । सर्व-पाप-हरं सर्व-कामदं तुलसी-वनम् ॥१३५॥ तुलसी-काननं वैश्य गृहे यस्मिंस् तु तिष्ठते । तद्-गृहं तीर्थी-भूतं हि नो यान्ति यम-किङ्कराः ॥१३६॥ तावद् वर्ष-सहस्राणि यावद् बीज-दलानि च । वसन्ति देव-लोके तु तुलसीं रोपयन्ति ये ॥१३७॥ तुलसी-गन्धम् आघ्राय पितरस् तुष्ट-मानसाः । प्रयान्ति गरुडारूढास् तत् पदं चक्र-पाणिनः ॥१३८॥
**सनातनः- **तत् श्री-वैकुण्ठाख्यम् अनिर्वचनीयं वा पदम् ॥१३८॥
दर्शनं नर्मदायास् तु गङ्गा-स्नानं विशां वर । तुलसी-दल-संस्पर्सः समम् एतत् त्रयं स्मृतम् ॥१३९॥ रोपणात् पालनात् सेकाद् दर्शनात् स्पर्शनान् नृणाम् । तुलसी दहते पापं वाङ्-मनः-काय-सञ्चितम् ॥१४०॥ आम्र-वृक्ष-सहस्रेण पिप्पलानां शतेन च । यत् फलं हि तद् एकेन तुलसी-वितपेन तु ॥१४१॥ विष्णु-पूजन-संयुक्तस् तुलसीं यस् तु रोपयेत् । युगायुत-दशैकं स रोपको रमते दिवि ॥१४२॥
तत्रैव वैशाख-माहात्म्ये—
पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस् तथा । वासुदेवादयो देवा वसन्ति तुलसी-दले ॥१४३॥ दारिद्र्य-दुःख-रोगार्ति-पापानि सु-बहून्य् अपि ।
तुलसी हरति क्षिप्रं रोगान् इव हरीतकी ॥१४४॥
तत्रैव कार्त्तिक-माहात्म्ये—
यद्-गृहे तुलसी भाति रक्षाभिर् जल-सेचनैः । तद्-गृहे यम-दूताश् च दूरतो वर्जयन्ति हि ॥१४५॥
**सनातनः- **रक्षाभिः कण्टकावरणादिभिः ॥१४५॥
तुलस्यास् तर्पणं ये च पितॄन् उद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस् तृप्ता वर्षयुतं जलैः ॥१४६॥ परिचर्यां च ये तस्य रक्षयाबाल-बन्धनैः । शुश्रूषितो हरिस् तैस् तु नात्र कार्या विचारणा ॥१४७॥
**सनातनः- **आबालम् आलबालं तद्-बन्धनैर् या रक्षा, तया परिचर्यां ये कुर्वन्तीति शेषः ॥१४७॥
नावज्ञा जातु कार्यास्या वृक्ष-भावान् मनीषिभिः । यथा हि वासुदेवस्य वैकुण्ठ-भोग-विग्रहः ॥१४८॥ शालग्राम-शिला-रूपम् स्थावरं भुवि दृश्यते । तथा लक्ष्म्य्-ऐक्यम् आपन्ना तुलसी भोग-विग्रहा ॥१४९॥ अपरं स्थावरं रूपं भुवि लोक-हिताय वै । स्पृष्टा दृष्टा रक्षिता च महा-पातक-नाशिनी ॥१५०॥
अगस्त्य-संहितायाम्–
विष्णोस् त्रैलोक्य-नाथस्य रामस्य जनकात्मजा । प्रिया तथैव तुलसी सर्व-लोकैक-पावनी ॥१५१॥
**सनातनः- **तथैवेति—यथा जनकात्मजा सीता प्रिया, तथा तुलसी चेत्यर्थः ॥१५१॥
तुलसी-वाटिका यत्र पुष्पान्तर-शतावृता । शोभते राघवस् तत्र सीतया सहितं स्वयम् ॥१५२॥ तुलसी-विपिनस्यापि समन्तात् पावनं स्थलम् । क्रोश-मात्रं भवत्य् एव गाङ्गेयस्यैव पाथसः ॥१५३॥ तुलसी-सन्निधौ प्राणान् ये त्यजन्ति मुनीश्वर । न तेषां नरक-क्लेशह् प्रयान्ति परमं पदम् ॥१५४॥
किं च—
अनन्य-दर्शनाः प्रातर् ये पश्यन्ति तपो-धन । अहो-रात्र-कृतं पापं तत्-क्षणात् प्रहरन्ति ते ॥१५५॥
**सनातनः- **प्रहरन्ति प्रकर्षेण हरन्ति विनाशयन्ति, स्वस्यान्येषाम् अपि वा ॥१५५॥
गारुडे—
कृतं येन महा-भाग तुलसी-वन-रोपणम् । मुक्तिस् तेन भवेद् दत्ता प्राणिनां विनता-सुत ॥१५६॥ तुलसी वापिता येन पुण्यारामे वने गृहे । पक्षीन्द्र तेन सत्योक्तं लोकाः सप्त प्रतिष्ठिताः ॥१५७॥
**सनातनः- **सत्योक्तं सत्य-वचनम् एवैतद् इत्यर्थः ॥१५७॥
तुलसी-कानने यस् तु मुहूर्तम् अपि विश्रमेत् । जन्म-कोटि-कृतात् पापान् मुच्यते नात्र संशयः ॥१५८॥ प्रदक्षिणां यः कुरुते पठन् नाम-सहस्रकम् । तुलसी-कानने नित्यं यज्ञायुत-फलं लभेत् ॥१५९॥
हरि-भक्ति-सुधोदये—
नित्यं सन्निहितो विष्णुः स-स्पृहस् तुलसी-वने । अपि मे’क्षत-पत्रैकं कश्चिद् धन्यो’र्पयेद् इति ॥१६०॥
बृहन्-नारदीये गङ्गा-प्रसङ्गे—
संसार-पाप-विच्छेदि गङ्गा-नाम प्रकीर्तितम् । तथा तुलस्या भक्तिश् च हरि-कीर्ति-प्रवक्तरि ॥१६१॥
**सनातनः- **यथा तुलस्या नाम च, हरि-कीर्ति-प्रवक्तरि भक्तिश्च ॥१६१॥
तुलसी-काननं यत्र यत्र पद्म-वनानि च ।
पुराण-पठनं यत्र तत्र सन्निहितो हरिः ॥१६२॥ \
तत्रैव श्री-यम-भगीरथ-संवादे—
तुलसी-रोपणं ये तु कुर्वते मनुजेश्वर । तेषां पुण्य-फलं वक्ष्ये वदतस् त्वं निशामय ॥१६३॥ सप्त-कोटि-कुलैर् युक्तो मातृतः पितृतस् तथा । वसेत् कल्प-शतं साग्रं नारायण-समीपगः ॥१६४॥ तृणानि तुलसी-मूलात् यावन्त्य् अपहिनोति वै । तावतीर् ब्रह्म-हत्या हि छिन्नत्त्य् एव न संशयः ॥१६५॥
**सनातनः- **अपहिनोति दूरीकरोति ॥१६५॥
तुलस्या सिञ्चयेद् यस् तु चुलुकोदक-मात्रकम् । क्षीरोदशायिना सार्धं वसेद् आचन्द्र-तारकम् ॥१६६॥ कण्टकावरणं वापि वृतिं काष्ठैः करोति यः । तुलस्याः शृणु राजेन्द्र तस्य पुण्य-फलं महत् ॥१६७॥
**सनातनः- **वृतिम् आवरणम् ॥१६७॥
यावद् दिनानि सन्तिष्ठेत् कण्टकावरणं प्रभो ।
कुल-त्रय-युतस् तावत् तिष्ठेद् ब्रह्म-पदे युगम् ॥१६८॥
प्राकार-कल्पको यस् तु तुलस्या मनुजेश्वर ।
कुल-त्रयेण सहितो विष्णोः सारूप्यतां व्रजेत् ॥१६९॥
अतएव तत्रैव यज्ञध्वजोपाख्यानान्ते—
दुर्लभा तुलसी-सेवा दुर्लभा सङ्गतिः सताम् । दुर्लभा हरि-भक्तिश् च संसारार्णव-पातिनाम् ॥१७०॥
पुराणान्तरेषु—
यत् फलं क्रतुभिः स्विष्टैः समाप्त-वर-दक्षिणैः । तत् फलं कोटि-गुणितं रोपयित्वा हरेः प्रियाम् ॥१७१॥
**सनातनः- **रोपयित्वा प्राप्नोतीति शेषः ॥१७१॥
तुलसीं ये प्रयच्छन्ति सुराणाम् अर्चनाय वै । रोपयन्ति शुचौ देशे तेषां लोको’क्षयः स्मृतः ॥१७२॥ रोपितां तुलसीं दृष्ट्वा नरेण भुवि भूमिप । विवर्ण-वदनो भूत्वा तल्-लिपिं मार्जयेद् यमः ॥१७३॥ तुलसीति च यो ब्रूयात् त्रि-कालं वदने यदि । नित्यं स गो-सहस्रस्य फलम् आप्नोति भूसुर ॥१७४॥ तेन दत्तं हुतं जप्तं कृतं श्राद्धं गयाशिरे । तपस् तप्तं खग-श्रेष्ठ तुलसी येन रोपिता ॥१७५॥ श्रुताभिलषिता दृष्टा रोपिता सिञ्चिता नता । तुलसी दहते पापं युगान्ताग्निर् इवाखिलम् ॥१७६॥ केशवायतने यस् तु कारयेत् तुलसी-वनम् । लभते चाक्षयं स्थानं पितृभिः सह वैष्णवः ॥१७७॥
अन्यत्रापि—
तुलसी-कानने श्राद्धं पितॄणां कुरुते तु यः । गया-श्राद्धं कृतं तेन भाषितं विष्णुना पुरा ॥१७८॥ तुलसी-गहनं दृष्ट्वा विमुक्तो याति पातकात् । सर्वथा मुनि-शार्दूल ब्रह्महा पुण्य-भाग् भवेत् ॥१७९॥
किं च, स्कान्दे वशिष्ठ-मान्धातृ-संवादे—
शुक्ल-पक्षे यदा राजन् तृतीया बुध-संयुता । श्रवणेन महाभाग तुलसी चातिपुण्यदा ॥१८०॥ इति ।
प्रसङ्गात् श्री-तुलस्या हि मृदः काष्ठस्य चाधुना ।
माहात्म्यं लिख्यते कृष्णे अर्पितस्य दलस्य च ॥१८१॥
अथ श्री-तुलसी-मृत्तिका-काष्ठादि-माहात्म्यम्
स्कान्दे श्री-ब्रह्म-नारद-संवादे—
भूगतैस् तुलसी-मूलैर् मृत्तिका स्पर्शिता तु या ।
तीर्थ-कोटि-समा ज्ञेया धार्या यत्नेन सा गृहे ॥१८२॥
यस्मिन् गृहे द्विज-श्रेष्ठ तुलसी-मूल-मृत्तिका ।
सर्वदा तिष्ठते देहे देवता न स मानुषः ॥१८३॥
**सनातनः- **देहे च यस्य तिष्ठति ॥१८३॥
तुलसी-मृत्तिका-लिप्तो यदि प्राणान् परित्यजेत् ।
यमेन नेक्षितुं शक्तो युक्तः पाप-शतैर् अपि ॥१८४॥
शिरसि क्रियते यैस् तु तुलसी-मूल-मृत्तिका ।
विघ्नानि तस्य नश्यन्ति सानुकूला ग्रहास् तथा ॥१८५॥
तुलसी-मृत्तिका यत्र काष्ठं पत्रं च वेश्मनि ।
तिष्ठते मुनि-शार्दूल निश्चलं वैष्णवं पदम् ॥१८६॥
**सनातनः- **तद्-वैष्णवं पदं विष्णु-स्थानम् एव ॥१८६॥
**अथ वृत्ति-सम्पदानं **
तत्रैवान्यत्र—
मङ्गलार्थं च दोष-घ्नं पवित्रार्थं द्विजोत्तम । तुलसी-मूल-संलग्नां मृत्तिकाम् आवहेद् बुधः ॥१८७॥
**सनातनः- **दोषघ्नं दोषनाशार्थम् इत्यर्थः; यद्वा, क्रिया-विशेषणं, दोषघ्नीम् इति वा पाठः ॥१८७॥
तन्-मूल-मृत्तिकां यो वै धारयिष्यति मस्तके । तस्य तुष्टो वरान् कामान् प्रददाति जनार्दनः ॥१८८॥
बृहन्-नारदिये गङ्गा-प्रसङ्गे—
तुलसी-मूल-सम्भूता हरि-भक्त-पदोद्भवा । गङ्गोद्भवा च मृल्-लेखा नयत्य् अच्युत-रूपताम् ॥१८९॥
**सनातनः- **मृदो लेखा मृल्-लेखा, तया लेखा पुण्ड्रादि-रचना वा ॥१८९॥
गारुडे–
यद्-गृहे तुलसी-काष्ठम् पत्रं शुष्कम् अथार्द्रकम् । भवते नैव पापं तद्-गृहे सङ्क्रमते कलौ ॥१९०॥
श्री-प्रह्लाद-संहितायां तथा विष्णु-धर्मोत्तरे’पि—
पत्रं पुष्पं फलं काष्ठं त्वक्-शाखा-पल्लवाङ्कुरम् । तुलसी-सम्भवं मूलं पावनं मृत्तिकाद्य् अपि ॥१९१॥ होमं कुर्वन्ति ये विप्रास् तुलसी-काष्ठ-वह्निना । लवे लवे भवेत् पुण्यम् अग्निष्टोम-शतोद्भवम् ॥१९२॥ नैवेद्यं पचते यस् तु तुलसी-काष्ठ-वह्निना । मेरु-तुल्यं भवेद् अन्नं तद् दत्तं केशवाय हि ॥१९३॥ शरीरं दह्यते येषां तुलसी-काष्ठ-वह्निना । न तेषां पुनर् आवृत्तिर् विष्णु-लोकात् कथञ्चन ॥१९४॥ ग्रस्तो यदि महा-पापैर् अगम्यागमनादिकैः । मृतः शुध्यति दाहेन तुलसी-काष्ठ-वह्निना ॥१९५॥ तीर्थं यदि न सम्प्राप्तं स्मृतिर् वा कीर्तनम् हरेः । तुलसी-काष्ठ-दग्धस्य मृतस्य न पुनर् भवः ॥१९६॥ यद्य् एकं तुलसी-काष्ठं मध्ये काष्ठ-चयस्य हि । दह-काले भवेन् मुक्तिह् पाप-कोटि-युतस्य च ॥१९७॥ जन्म-कोटि-सहस्रैस् तु तोषितो यैर् जनार्दनः । दह्यन्ते ते जना लोके तुलसी-काष्ठ-वह्निना ॥१९८॥
अगस्त्य-संहितायाम्—
यः कुर्यात् तुलसी-काष्ठैर् अक्ष-मालां सु-रूपिणीम् ।
कण्ठ-मालां च यत्नेन कृतं तस्याक्षयं भवेत् ॥१९९॥
**अथ तुलसी-पत्र-धारण-माहात्म्यम् **
स्कान्दे श्री-ब्रह्म-नारद-संवादे—
यस्य नाभि-स्थितं पत्रं मुखे शिरसि कर्णयोः । तुलसी-सम्भवं नित्यं तीर्थैस् तस्य मखैश् च किम् ॥२००॥
**सनातनः- **मुखादौ स्थितं तुलसी-पत्रम् इति भगवद्-अर्पितम् इति ज्ञेयम् । एवमग्रेऽपि, पूर्वं तद्-अर्पित-महाप्रसादस्य माहात्म्योक्तेः; अत्रार्पणादि-शब्दाभावाच्चेति दिक् ॥२००॥
तत्रैवान्यत्र—
शत्रुघ्नं च सुपुण्यं च श्री-करं रोग-नाशनम् । कृत्वा धर्मम् अवाप्नोति शिरसा तुलसी-दलम् ॥२०१॥ यः कश्चिद् वैष्णवो लोके मिथ्याचारो’प्य् अनाश्रमी । पुनाति सकलान् लोकान् शिरसा तुलसीं वहन् ॥२०२॥
**सनातनः- **ननु वैष्णवश् चेत् तर्हि कथं भगवद्-अर्पितां वहेत् ? तत्राह—मिथ्याचार इति । दम्भ-मात्रेण वैष्णव इत्यर्थः, सोऽपि ॥२०२॥
बृहन्-नारदिये श्री-यम-भगीरथ-संवादे—
कर्णेन धारयेद् यस् तु तुलसीं सततं नरः । तत्-काष्ठं वापि राजेन्द्र तस्य नास्त्य् उपपातकम् ॥२०३॥
हरि-भक्ति-सुधोदये वैष्णव-विप्रं प्रति यमदूतनम् उक्तौ—
कस्माद् इति न जानीमस् तुलस्या हि प्रियो हरिः । गच्छन्तं तुलसी-हस्तम् रक्षण्न् एवनुगच्छति ॥२०४॥
पुराणान्तरे च—
यः कृत्वा तुलसी-पत्रम् शिरसा विष्णु-तत्-परः । करोति धर्म-कार्याणि फलम् आप्नोति चाक्षयम् ॥२०५॥
**सनातनः- **विष्णु-तत्पर इति—विष्णु-तत्परत्वेन तुलसी-माहात्म्यं ज्ञात्वा श्री-विष्णु-प्रीत्यर्थम् इत्यर्थः; यद्वा, अ-कार-प्रश्लेषेणावैष्णवोऽपीत्यर्थः ॥२०५॥
गरुड-पुराणे—
मुखे तु तुलसी-पत्रम् दृष्ट्वा शिरसि कर्णयोः । कुरुते भस्करिस् तस्य दुष्कृतस्य तु मार्जनम् ॥२०६॥ त्रि-कालं विनता-पुत्र प्राशयेत् तुलसीं यदि विशिष्यते । काय-शुद्धिश् चान्द्रायण-शतं विना ॥२०७॥
**सनातनः- **विशिष्यते विशिष्टो भवति ॥२०७॥
स्कान्दे श्री-वशिष्थ-मन्धतृ-संवादे—
चान्द्रायणत् तप्त-कृच्छ्रात् ब्रह्म-कूर्चात् कुशोदकात् । विशिष्यते काय-शुद्धिस् तुलसी-पत्र-भक्षणात् ॥२०८॥ तथा च तुलसी-पत्र-भक्षणाद् भाव-वर्जितः । पापो’पि सद्-गतिं प्राप्त इत्य् एतद् अपि विश्रुतम् ॥२०९॥
तथा च स्कान्दे श्री-ब्रह्म नारदं प्रति कथिते अमृत-सरोद्धरे लुब्धकोपाख्यानान्ते यमदूतन् प्रति श्री-विष्णुदूतनं वचनं—
क्षीराब्धौ मथ्यमाने हि तुलसी काम-रूपिणी । उत्पादिता महा-भाग लोकोद्धारण-हेतवे ॥२१०॥ यस्याः स्मरण-मात्रेण दर्शनात् कीर्तनाद् अपि । विलयं यान्ति पापानि किं पुनर् विष्णु-पूजनात् ॥२११॥ जात-रूप-मयं पुष्पम् पद्मराग-मयं शुभम् । हित्वा तु रत्न-जातानि गृह्णाति तुलसी-दलम् ॥२१२॥ भक्षितं लुब्धकेनापि पत्रं तुलसी-सम्भवम् । पश्चाद् दिष्टान्तम् आपन्नो भस्मीभूतं कलेवरम् ॥२१३॥
**सनातनः- **दिष्टान्तं मृत्युम् ॥२१३॥
सितासितं यथा नीरं सर्व-पाप-क्षयावहम् । तथा च तुलसी-पत्रम् प्राशितं सर्व-काम-दम् ॥२१४॥ यथा जात-बलो वह्निर् दहते काननादिकम् । प्राशितं तुलसी-पत्रं यथा दहति पातकम् ॥२१५॥ यथा भक्ति-रतो नित्यं नरो दहति पातकम् । तुलसी-भक्षणात् तत् तद् दहते पाप-सञ्चयम् ॥२१६॥ चान्द्रायण-सहस्रस्य परकाणां शतस्य च । न तुल्यं जायते पुण्यं तुलसी-पत्र-भक्षणात् ॥२१७॥ कृत्वा पाप-सहस्राणि पूर्वे वयसि मानवः । तुलसी-भक्षणान् मुच्येत् श्रुतम् एतत् पुरा हरेः ॥२१८॥
**सनातनः- **एतच्च माहात्म्य-विशेष एव; हरेः भगवतः सकाशात् ॥२१८॥
तावत् तिष्ठन्ति पापानि देहिनां यम-किङ्कराः । यावन् न तुलसी-पत्रं मुखे शिरसि तिष्ठति ॥२१९॥ अमृताद् उत्थिता धात्री तुलसी विष्णु-वल्लभा । स्मृता सङ्कीर्तिता ध्याता प्राशिता सर्व-काम-दा ॥२२०॥
तत्रैव श्री-यमं प्रति श्री-भगवद्-वक्यं—
धात्री-फलं च तुलसी मृत्यु-काले भवेद् यदि । मुखे यस्य शिरे देहे दुर्गतिर् नास्ति तस्य वै ॥२२१॥
**सनातनः- **शिरे शिरसि ॥२२१॥
युक्तो यदि महा-पापैः सुकृतं नार्जितं क्वचित् । तथापि दीयते मोक्षस् तुलसी भक्षिता यदि ॥२२२॥ लुब्धकेनात्म-देहेन भक्षितं तुलसी-दलम् । सम्प्राप्तो मत्-पदं नूनं कृत्वा प्राणस्य सङ्क्षयम् ॥२२३॥
पुराणान्तरे च—
उपोष्य द्वादशीं शुद्धां पराणे तुलसी-दलम् । प्राशयेद् यदि विप्रेन्द्र अश्वमेधाष्टकं लभेत् ॥२२४॥ इति ।
तथैव तुलसी-स्पर्सत् कृष्ण-चक्रेण रक्षितः ।
ब्रह्म-बन्धुर् इति ख्यातो हरि-भक्ति-सुधोदये ॥२२५॥
अत एवोक्तम्—
किं चित्रम् अस्याः पतितं तुलस्या दलं जलं वा पतितं पुनीते । लग्नाधिभाल-स्थलम् आलवाल- मृत्स्नापि कृत्स्नाघ-विनाशनाय ॥२२६॥ इति । श्रीमत्-तुलस्याः पत्रस्य माहात्म्यं यद्य् अपीदृशम् । तथापि वैष्णवैस् तन् न ग्राह्यं कृष्णार्पणं विना ॥२२७॥
**सनातनः- **तर्हि किं वैष्णवैर् अप्य् अनिवेदितं तद्-ग्राह्यम्? नेति, लिखति—श्रीमद् इति । कृष्णार्पणं विना तत्-पत्रं न ग्राह्यम् ॥२२७॥
कृष्ण-प्रियत्वात् सर्वत्र श्री-तुलस्याः प्रसङ्गतः । सङ्कीर्त्यमानं धात्र्याश् च माहात्म्यं लिख्यते ऽधुना ॥२२८॥
अथ धात्री-माहात्म्यं स्कान्दे ब्रह्म-नारद-संवादे—
धात्री-च्छायां समाश्रित्य यो’र्चयेच् चक्र-पाणिनाम् । पुष्पे पुष्पे ऽश्वमेधस्य फलं प्राप्नोति मानवः ॥२२९॥
तत्रैवाग्रे—
धात्री-च्छायां तु संस्पृश्य कुर्यात् पिण्डं तु यो मुने । मुक्तिं प्रयान्ति पितरः प्रसादान् माधवस्य च ॥२३०॥ मूर्ध्नि घ्राणे मुखे चैव देहे च मुनि-सत्तम । धत्ते धात्री-फलं यस् तु स महात्मा सु-दुर्लभः ॥२३१॥
**सनातनः- **देहे च अन्यस्मिन् कराद्य्-अङ्गेऽपि ॥२३१॥
धात्री-फल-विलिप्ताङ्गो धात्री-फल-विभूषितः । धात्री-फल-कृताहारो नरो नारायणो भवेत् ॥२३२॥ यः कश्चिद् वैष्णवो लोके धत्ते धात्री-फलं मुने । प्रियो भवति देवानां मनुष्याणां तु का कथा ॥२३३॥ यः कश्चिद् वैष्णवो लोके मिथ्याचारो’पि दुष्ट-धीः । पुनाति सकलान् लोकान् धात्री-फल-दलान्वितः ॥२३४॥ धात्री-फलानि यो नित्यं वहते कर-सम्पुटे । तस्य नारायणो देवो वरम् एकं प्रयच्छति ॥२३५॥
**सनातनः- **कर-सम्पुटाद् इति—पूर्वं मङ्गलार्थं यत्र कर-सम्पुटे धृतं, तस्माद् अपि ॥२३५॥
धत्री-फलं च भोक्तव्यं कदाचित् कर-सम्पुटात् । यशः श्रियम् अवाप्नोति प्रसादाच् चक्र-पाणिनः ॥२३६॥ धात्री-फलं च तुलसी मृत्तिका द्वारकोद्भवा । सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ॥२३७॥ धात्री-फलैस् तु सम्मिश्रं तुलसी-दल-वासितम् । पिबते वहते यस् तु तीर्थ-कोटि-फलं लभेत् ॥२३८॥
**सनातनः- **वहत इति पाठे निरन्तर-श्लोक-वक्ष्यमाणतोयमेव सम्बन्धनीयम् ॥२३८॥
यस्मिन् गृहे भवेत् तोयं तुलसी-दल-वासितम् । धात्री-फलैश् च विप्रेन्द्र गाङ्गेयैः किं प्रयोजनम् ॥२३९॥ तुलसी-दल-नैवेद्यं धात्र्या यस्य फलं गृहे । कवचं वैष्णवं तस्य सर्व-पाप-विनाशनम् ॥२४०॥
ब्रह्म-पुराणे च—
धात्री-फलानि तुलसी ह्य् अन्त-काले भवेद् यदि । मुखे चैव शिरस्य् अङ्गे पातकं नास्ति तस्य वै ॥२४१॥ कृत्वा तु भगवत्-पूजां न तीर्थं स्नानम् आचरेत् । न च देवालयोपेतास्पृश्य-संस्पर्शनादिना ॥२४२॥
**सनातनः- **एवं पूजा-विधिं लिखित्वा तद्-अनन्तर-कृत्यं लिखनादौ तीर्थ-प्राप्त्यादिना विहितस्यापि स्नानस्य निषेधं लिखति—कृत्वेति । देवालयम् उपेता येऽस्पृश्या नीच-जातयः, तेषां स्पर्शनेन च न स्नानम् आचरेत् । आदि-शब्देन यत्र कुत्रापि भगवत्-पूजाध्य्-उत्सवे सम्प्राप्तानां स्पर्शनादिकम् ॥२४२॥
**अथ स्नान-विशेष-कलः **
स्मृत्य्-अर्थ-सारे—
न स्नायाद् उत्सवे तीर्थे माङ्गल्यं विनिवर्त्य च । अनुव्रज्य सुहृद्-बन्धून् अर्चयित्वेष्ट-देवताम् ॥२४३॥
**सनातनः- **तीर्थे न स्नायात् ॥२४३॥
विष्णु-स्मृतौ च—
विष्ण्व्-आलय-समीप-स्थान् विष्णु-सेवार्थम् आगतान् । चाण्डालान् पतितान् वापि स्पृष्ट्वा न स्नानम् आचरेत् ॥२४४॥
**सनातनः- **विष्ण्व्-आलयस्य समीपे तिष्ठन्ति निवसन्तीति तथा तान्, ततश्च काले विष्णोः सेवा-दर्शनादि, तद्-अर्थं विष्ण्व्-आलयान्तरागतान् इत्यर्थः; यद्वा, विष्ण्व्-आलय-समीपवर्तिनः; कुतः ? विष्णु-सेवार्थं यतः कुतोऽप्यागतान्, यद्वा, विष्णु-सेवार्थम् आगतांश्च ॥२४४॥
देव-यत्र-विवाहेषु यज्ञोपकरणेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर् न विद्यते ॥२४५॥ एवं प्रातः समभ्यर्च्य श्री-कृष्णं तद्-अनन्तरम् । शास्त्राभ्यासं द्विजः शक्त्या कुर्याद् विप्रो विशेषतः ॥२४६॥
**सनातनः- **द्विजः त्रै-वर्णिकः ॥२४६॥
यद् उक्तम्—
श्रुति-स्मृती उभे नेत्रे विप्राणं परिकीर्तिते । एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥२४७॥
**सनातनः- **विप्रस् तु विशेषतः शास्त्राभ्यासं कुर्याद् इत्यत्र हेतुं लिखति—श्रुतीति । एकेन श्रुति-रूपेण स्मृति-रूपेण वा नेत्रेण विकलः विहीनः, द्वाभ्यां विकलः अन्धः ॥२४७॥
किं च कौर्मे व्यस-गीतायाम्—
यो’न्यत्र कुरुते यत्नं अनाधीत्य श्रुतिं द्विजः । स समूढो न सम्भाष्यो वेद-बाह्यो द्विजातिभिः ॥२४८॥ न वेद-पथ-मात्रेण सन्तुस्येद् एस वै द्विजः । यथोक्ताचार-हिनस् तु पङ्के गौर् इव सिदति ॥२४९॥ यो’धीत्य विधिवद् वेदं वेदार्थं न विचारयेत् । स चान्धः शूद्र-कल्पस् तु पदार्थं न प्रपद्यते ॥२५०॥ इति ।
**अतो’धीत्यान्वहं विद्वान् अथाध्याप्य च वैष्णवः ।
समर्प्य तच् च कृष्णाय यतेत निज-वृत्तये ॥२५१॥
सनातनः- **विद्वान् शास्त्र-ज्ञश् चेत्, अध्याप्य शास्त्रं शिष्यान् पाठयित्वा, वैष्णवश् चेत्, तत् अध्ययनम् अध्यापनञ्च कृष्णाय समर्प्य ॥२५१॥
**वृत्तौ सत्यां च शृणुयात् साधून् सङ्गत्य सत्-कथाम् ॥२५२॥
सनातनः- **सतीम् उत्तमां श्री-विष्णु-वैष्णवाश्रयां कथाम् ॥२५२॥
सप्तम-स्कन्धे [Bह्P ७.११.१८-२०]—
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यान्र्ताभ्याम् अपि वा न स्व-वृत्त्या कदाचन ॥२५३॥ ऋतम् उञ्छ-शिलं प्रोक्तं अमृतं स्याद् अयाचितम् । मृतं तु नित्यं याच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥२५४॥ सत्यानृतं तु वाणिज्यं श्व-वृत्तिर् नीच-सेवनम् ॥२५५॥ आत्मनो नीच-लोकानां सेवनं वृत्ति-सिद्धये । नितरां निन्द्यते सद्भिर् वैष्णवस्य विशेषतः ॥२५६॥
**सनातनः- **आत्मनः सकाशात् ये नीचा लोकास् तेषां, वैष्णवस्य तु नीच-लोक-सेवनं विशेषतोऽधिकं निन्द्यते, नीच-सेवनेन नीचानाम-वैष्णव-दृष्टजनानामधीनत्व-महादोषापत्तेः ॥२५६॥
तद् उक्तं—
सेवा श्व-वृत्तिर् यैर् उक्ता न सम्यक् तैर् उदाहृतम् । स्वच्छन्द-चरितः क्व श्वा विक्रीतासुः क्व सेवकः ॥२५७॥ पणी-कृत्यात्मनः प्राणान् ये वर्तन्ते द्विजाधमाः । तेषां दुरात्मनाम् अन्नं भुक्त्वा चान्द्रायणं चरेत् ॥२५८॥ इति ।
शुक्ल-वृत्तेर् असिद्धौ च भोज्यान्नान् शूद्र-वर्गतः ।
तथैव ग्राह्याग्राह्याणि जानीयाच् छास्त्रतो बुधः ॥२५९॥
**शुक्ल-वृत्तिश् च **
श्री-विष्णु-धर्मोत्तरे त्र्तिय-खण्डे—
प्रतिग्रहेण यल् लब्धं यज्यतः शिष्यतस् तथा । गुनान्वितेभ्यो विप्रस्य शुक्लं तत् त्रि-विधं स्मृतम् ॥२६०॥ युद्धोपकाराल् लब्धं च दण्डाच् च व्यवहारतः । क्षत्रियस्य धनं शुक्लं त्रि-विधं परिकीर्तितम् ॥२६१॥ कृषि-वाणिज्य-गो-रक्षः कृत्वा शुक्लं तथा विशः । द्विज-शुश्रूषया लब्धं शुक्लं शूद्रस्य कीर्तितम् ॥२६२॥ क्रमागतं प्रीति-दानं प्राप्तं च सह भार्यया । अविशेषेन सर्वेषां धनं शुक्लं प्रकीर्तितम् ॥२६३॥
**अथ ग्राह्याग्राह्याणि **
कौर्मे तत्रैव—
नाद्याच् छूद्रस्य विप्रो’न्नं मोहाद् वा यदि कामतः । न शूद्र-योनिं व्रजति यस् तु भुङ्क्ते ह्य् अनापदि ॥२६४॥ दुष्कृतं हि मनुष्यस्य सर्वम् अन्ने प्रतिष्ठितम् । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥२६५॥ आर्धिकः कुल-मित्रश् च स्व-गोपालश् च नापितः । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्प-पणं बुधैः ॥२६६॥ पायसं स्नेह-पक्वं यद् गो-रसं चैव शक्तवः । पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं तथैव च ॥२६७॥
अङ्गिराः—
गो-रसं चैव शक्तूंश् च तैल-पिण्याकम् एव च । अपूपान् भक्षयेच् छूद्रात् यत् किञ्चित् पयसा कृतम् ॥२६८॥
अत्रि-स्मृतौ—
स्व-सुतायाश् च यो भुङ्क्ते स भुङ्क्ते पृथिवी-मलम् । नरेन्द्र-भवने भुक्त्वा विष्ठायां जायते कृमिः ॥२६९॥ दास-नापित-गोपाल- कुल-मित्रार्ध-सीरिणः । भोज्यान्नाः शूद्र-वर्गे ऽमी तथात्म-विनिवेदकः ॥२७०॥
**सनातनः- **दासाः कैवर्ताः, कुल-मित्राणि पारम्पर्येण निज-वंश-हितकारिणः, अर्धसीरिणः वित्तादि-विभागिनः ॥२७०॥
मधूदकं फलं मूलम् एधांस्य्-अभय-दक्षिणा । अभ्युद्यतानि त्व् एतानि ग्राह्याण्य् अपि निकृष्टतः ॥२७१॥ खल-क्षेत्र-गतं धन्यं कूप-वापिसु यज् जलम् । अग्राह्याद् अपि तद्-ग्राह्यं यच् च गोष्ठ-गतं पयः ॥२७२॥ पानीयं पायसं भक्ष्यं घृतं लवणम् एव च । हस्त-दत्तं न गृह्णीयात् तुल्यं गो-मांस-भक्षणैः ॥२७३॥
मनु-स्मृतौ—
समुद्रं सैन्धवं चैव लवणे परमाद्भुते । प्रत्यक्षे अपि तु ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥२७४॥ आयसेनैव पात्रेण यद् अन्नम् उपनीयते । भोक्ता तद् विट्-समं भुङ्क्ते दाता च नरकं व्रजेत् ॥२७५॥ गो-रक्षकान् वाणिजकान् तथा कारुक-शीलिनः । प्रोष्यान् वार्धूषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥२७६॥
**सनातनः- **विप्रेभ्योऽपि सर्वेभ्यः शुक्लवृत्तिर्न सिध्यतीत्यभिप्रेत्य लिखति- गोरक्षकानिति। कारुकशी लिनः कटादिकारिणः ॥२७६॥
कौर्मे च तत्रैव—
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेर् बुधः । धर्मार्थं केवलं विप्र ह्य् अन्यथा पतितो भवेत् ॥२७७॥ तिल-मुद्ग-यवादीनां मुष्टिर् ग्राह्या पथि स्थितैः । क्षुधार्थैर् नान्यथा विप्र धर्म-विद्भिर् इति स्थितिः ॥२७८॥ वैष्णवानां हि भोक्तव्यं प्रार्थ्यान्नं वैष्णवैः सदा । अवैष्णवानाम् अन्नं तु परिवर्ज्यम् अमेध्यवत् ॥२७९॥
**सनातनः- **एवं ब्राह्मणस्य शुक्ल-वृत्तौ शूद्राणां सर्वेषाम् एवान्न-वर्जने प्राप्ते अपवादं दर्शयन् वैष्णवानां च शुक्ल-वृत्तिम् अभिव्यञ्जयन्, अवैष्णवत्वेऽपि विप्राणाम् अप्य् अन्नं वैष्णवैर् वर्जनीयम् इत्यभिप्रेत्य लिखति—वैष्णवानाम् इति । हि निद्धारे प्रार्थ्यापि, अमेध्यं पुरीषादि, तद्वत् ॥२७९॥
तथा च पाद्मे देवदूत-विकुण्डल-संवादे—
प्रार्थयेद् वैष्णवाद् अन्नं प्रयत्नेन विचक्षणः । सर्व-पाप-विशुध्य्-अर्थं तद्-अभावे जलं पिबेत् ॥२८०॥
नारदिये—
महा-पातक-संयुक्तो व्रजेद् वैष्णव-मन्दिरम् । याचयेद् अन्नम् अमृतं तद्-अभावे जलं पिबेत् ॥२८१॥
विष्णु-स्मृतौ—
श्रोत्रियान्नं वैष्णवान्नं हुत-शेषं च यद्-धविः । आनखात् शोधयेत् पापं तुषाग्निः कनकं यथा ॥२८२॥
**सनातनः- **श्रोत्रियान्नम् इति, हुत-शेषं हविर् इति च दृष्टान्ततयात्र ज्ञेयम् ॥२८२॥
स्कान्दे मार्कण्डेय-भगीरथ-संवादे—
शुद्धं भागवतस्यान्नं शुद्धं भगीरथि-जलम् । शुद्धं विष्णु-परं चित्तं शुद्धम् एकादशी-व्रतम् ॥२८३॥
**सनातनः- **शुद्धम् इति—सूतकादौ निषिद्धम् अपि शुद्धम् एवेत्यर्थः । तथा च विष्णु-स्मृतौ—
शिव-विष्ण्व्-अर्चने दीक्षा यस्य चाग्नि-परिग्रहः । ब्रह्मचारि-यतीनां च शरीरे नास्ति सूतकम् ॥ इति ।
तत्र दृष्टान्ताः—अशुचि-संसर्गादिनापि यथा गङ्गा-जलं शुद्धम् एवेत्यादयः; तद्-उक्तम्—अपि चाण्डाल-भाण्ड-स्थं तज्-जलं पावनं महत् इत्यादि ॥२८३॥
अवैष्णव-गृहे भुक्त्वा पीत्वा वा जानतो’पि वा । शुद्धिश् चान्द्रायणे प्रोक्त इष्टापूर्तं वृथा सदा ॥२८४॥
श्री-प्रह्लाद-वाक्ये च—
केशवार्चा गृहे यस्य न तिष्ठति मही-पते । तस्यान्नं नैव भोक्तव्यम् अभक्ष्येण समं स्मृतम् ॥२८५॥ केचिद् वृत्त्य्-अनपेक्षस्य जप-श्रद्धावतः प्रभो । विश्वस्तस्यादिशन्त्य् अस्मिन् काले ऽपि कृतिनो जपम् ॥२८६॥
**सनातनः- **वृत्तौ वृत्ति-सम्पादने अनपेक्षस्य आसक्ति-रहितस्य, यतः प्रभौ भगवति विश्वस् तस्य, भगवान् जगतां वृत्तिदः, किं तत्-प्रयासेनेति विश्वासं गतस्य, यतः कृतिनः अभिज्ञस्य, अतो जपे श्रद्धा प्रीतिस् तद्वतः । अस्मिन् अध्यनाध्यापन-वृत्ति-सम्पादन-सम्बन्धिनि कालेऽपि जपम् एवादिशन्ति । केचित् कृतिन इति वा ॥२८६॥
**अथ मध्याह्निक-कृत्यानि
मध्याह्ने स्नानतः पूर्वं पुष्पाद्य् आहृत्य वा स्वयम् ।
भृत्यादिना वा सम्पाद्य कुर्यान् मध्याह्निकीः क्रियाः ॥२८७॥
स्नानाशक्तौ च मध्याह्ने स्नानम् आचार्य मान्त्रिकम् ।
यथोक्तं भगवत्-पूजां शक्तश् चेत् प्राग्वद् आचरेत् ॥२८८॥
सनातनः- **प्राग्वत् यथा प्रातःकृत्य तथेत्यर्थः ॥२८८॥
**अथ वैष्णव-वैस्वदेवदि-विधिः
ततः कृष्णार्पितेनैव शुद्धेनानेन वैष्णवः ।
वैश्वदेवादिकं दैवं कर्म पैत्रं च साधयेत् ॥२८९॥
तद् उक्तं षष्ठे दिन-विभागे तु कुर्यात् पञ्च महा-मखान् ।
दैवो होमेन यज्ञः स्यात् भौतस् तु बलि-दानतह् ॥२९०॥
पैत्रो विप्रान्न-दानेन पैत्रेण बलिनाथवा ।
किञ्चिद् अन्न-प्रदानाद् वा तर्पणाद् वा चतुर्-विधः ॥२९१॥
सनातनः- **भौतो भूत-सम्बन्धी यज्ञः, पैत्रश्च यज्ञश् चतुर्विधः, चतुर्विधत्वम् एवाह—विप्रेति । अत्र च विशेषः कौर्मे—
देवयज्ञ-भूतयज्ञ-पितृयज्ञ तथैव च । मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ यदि स्यात् तर्पणाद् अर्वाग्-ब्रह्मयज्ञः कृतो न हि । कृत्वा मानुष्य-यज्ञ वै ततः स्वाध्यायम् आचरेत् ॥ कुशपुञ्जे समासीनः कुशपाणिः समाहितः । शालाग्नौ लौकिके वाथ जले भूम्याम् अथापि वा । वैश्वदेवश् च कर्तव्यो देवयज्ञः स वै स्मृतः॥ इत्यादि ॥२९०-२९१॥
नृ-यज्ञो’तिथि-सत्कारात् हन्त-कारेण चाम्बुना ।
ब्रह्म-यज्ञो वेद-जपात् पुराण-पठनेन वा ॥२९२॥
**तन्-नित्यता **
कौर्मे—
अकृत्वा तु द्विजः पञ्च महा-यज्ञान् द्विजोत्तमः । भुञ्जीत चेत् सु-मूढात्मा तिर्यग्-योनिं स गच्छति ॥२९३॥
**अथ वैष्णव-श्राद्ध-विधिः
प्राप्ते श्राद्ध-दिने ऽपि प्राग् अन्नं भगवते ऽर्पयेत् ।
तच्-छेषेणैव कुर्वीत श्राद्धं भागवतो नरह् ॥२९४॥
सनातनः- **तच्-छेषेण भगवन्-निवेदितेनैव, यतो भागवतः भगवद्-भक्तः ॥२९४॥
यच् च स्मृतौ—
गृहाग्नि-शिषु-देवानां यतीनां ब्रह्माचारिणाम् । पितृ-पाको न दातव्यो यावत् पिण्डान् न निर्वपेत् ॥२९५॥ इति ।
**सनातनः- **तत्र निषेध वाक्यम् उल्लिखन् बहुतर-वचनैस् तद्-बाधयित्वा भगवद्-अर्पितान्नादिनैव श्राद्ध-विधानं साधयति—गृहाग्नीत्यादिना अप्रकल्पिता इत्यन्तेन ॥२९५॥
**ईदृण् सामान्य-वचनम् विशेष-वचन-व्रजैह् ।
श्रुति-स्मृति-पुराणादि- वर्त्तिभिर् बाध्यते ध्रुवम् ॥२९६॥
सनातनः- **ईदृक् गृहाग्नीति श्लोक-सदृशम् ॥२९६॥
तथा च पाद्मे—
विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश् चापि तद् देयम् तद् आनन्त्याय कल्पते ॥२९७॥
**सनातनः- **विशेष-वचनान्येव दर्शयति—विष्णोर् इति ॥२९७॥
मोक्ष-धर्मे नारदोक्तौ—
सात्वतं विधिम् आस्थाय प्राण् सूर्य-मुख-निसृतम् । पूजायाम् आस देवेशं तच्-छेषेण पितामहान् ॥२९८॥
**सनातनः- **सात्वतम् इति—सात्वता वैष्णवास् तत्-सम्बन्धिनम् इत्यर्थः । देवेशं श्री-भगवन्तं, तच्-छेषेण भगवन्-निवेदितेनेत्यर्थः । न चात्र वक्तव्यं यद्-अन्नादिकं भोजन-पात्रेषु निधायान्न-संस्काराद्य्-अर्पण-विधिना भगवतेऽर्पितं, तस्य यद्-अवशिष्टं रन्धन-पात्रादाव् अस्ति तेनेति, विष्णोर् निवेदितान्नेनेति पाद्मोक्तेः । न च तदप्य् अवशिष्टमेवेति शङ्कनीयं, यतः संस्कारादि-विधिना भगवतोऽग्रे यत् समर्प्यते, तदेव निवेदितम् इत्युपपद्यते इति । अतस् तस्यैव भगवद्-भुक्तोच्छिष्टस्य भक्तया शेष इत्यादुक्तिः । अन्यथा गृहभाण्डादौ स्थितस्य घृत-खण्डादि-द्रव्यस्य किञ्चिद् अर्पणात् तत्रापि सर्वत्र शेषत्व-व्याप्त्या निवेदितत्व-प्रसङ्गः स्यात्, तच् चायुक्तम् । तत्र तत्र स्थितस्य द्रव्यस्य सर्वस्यैव उच्छिष्टत्वेन पुनर् भगवतेऽर्पणायोगादिति दिक् । एवञ्च भगवद्-उच्छिष्टस्य परम-भक्तया महा-प्रसादतया ग्रहणे शिष्ट-कृतो यज्ञावशिष्ट-द्रव्य-करणक-होम इव दत्तापहार-दोष-प्रसङ्गश्च न स्यात् । अन्यथा श्री-चरणामृत-पानेऽनुलेप-तुलस्यादि-निर्माल्य-ग्रहणेऽपि सर्वत्रैव दत्तापहार-दोष-व्याप्तिः स्यात्; न च सा युक्ता, यतः तत्-तद्-ग्रहणे महा-फल-प्रतिपादकानि तत्र तत्र वचनानि शतशः सन्ति, तेषु च कानिचित् श्री-चरणामृत-पानादि-प्रसङ्गे पूर्वे लिखितानि । अत्र च लिखितं विष्णोर् निवेदितान्नेन इति । लेख्यान्यपि देवान् पितॄन् समुद्दिश्येति, मुकुन्द-गात्र-लग्नेनेति, सर्व-प्रयत्नेनेत्यादीनि । श्रुतिश्च—एक एव नारायणः इत्यादि । एतच्चाग्रे लेख्यैः पत्रं पुष्पं फलं तोयम् (श्रीगी। ९.२६) इत्यादिभिर् अनर्पितोपभोग-निषेध-वचनैः । तथा अम्बरीष नवं वस्त्रम् इत्यादिभिः तद्-उपभोग-विधि-वचनैर् अपि नितरां द्रढयितव्यम् । विशेषतश् चात्र महतां बहूनां शिष्टानाम् आचार एव परमं प्रमाणम् इति । भगवन्-मायाहतानां भगवत्-प्रसाद-वञ्चितानां दुष्ट-बुद्धीनां सर्वथोपेक्षैवोपयुक्तेति सर्वेषां साधूनां मतम् ॥२९८॥
ब्रह्माण्ड-पुराणे—
यः श्राद्ध-काले हरि-भुक्त-शेषम् ददाति भक्त्या पितृ-देवतानाम् । तेनैव पिण्डांस् तुलसी-विमिश्रान् आकल्प-कोटिं पितरः सु-तृप्ताः ॥२९९॥
**सनातनः- **अधुना पितृभ्योऽपि भगवद्-उच्छिष्ट-महाप्रसाद-दाने बहुल-वचनानि प्रमाणयन् आदौ तत्र नित्य-श्राद्धादि-विषयमेव तत्, न च पार्वणादि-परम् इति केषाञ्चिद् अज्ञानां मतं निरस्यति—य श्राद्धेति । हरेर् भक्तञ्च तत, अत एव शेषञ्च ॥२९९॥
स्कान्दे—
देवान् पितॄन् समुद्दिश्य यद् विष्णोर् विनिवेदितम् । तान् उद्दिश्य तथा कुर्यात् प्रदानं तस्य चैव हि ॥३००॥
**सनातनः- **तस्य विष्णु-निवेदितस्यैव प्रदानं तान् देवादीन् उद्दिश्य कुर्यात् ॥३००॥
प्रयान्ति तृप्तिम् अतुलां सोदकेन तु तेन वै । मुकुन्द-गात्र-लग्नेन ब्राह्मणानां विलेपनम् ॥३०१॥ चन्दनेन तु पिण्डनम् कर्तव्यं पितृ-तृप्तये । देवानां च पितॄणां च जायते तृप्ति-रक्षया ॥३०२॥ एवं कृते मही-पल मा भवेत् संशयः क्वचित् ॥३०३॥
**सनातनः- **क्वचिदिति—भगवद्-उच्छिष्ट-दानेन गौण्यापत्त्या पित्रादि-तृप्तिः स्यान् न वेति, दत्तापहार-दोषः स्यान् न वेत्यादौ, कुत्रापि संशयः शङ्कापि न भवेद् इत्यर्थः ॥३०३॥
तत्रैव श्री-पुरुसोत्तम-खण्डे—
अन्नाद्यं श्राद्ध-काले तु पतिताद्यैर् निरीक्षितम् । तुलसी-दल-मिश्रेण सलिलेनाभिषिञ्चयेत् ॥३०४॥
**सनातनः- **अभिषिञ्चयेत् अभिषेचयेत्, स्वार्थे इण् ॥३०४॥
तद्-अन्नं शुद्धताम् एति विष्णोर् नैवेद्य-मिश्रितम् । विष्णोर् नैवेद्य-शेषं तु तस्माद् देयं द्विजात्मनाम् । पिण्डे चैव विशेषेन पितॄणां तृप्तिम् इच्छता ॥३०५॥
तत्रैव श्री-ब्रह्म-नारद-संवादे—
पितॄन् उद्दिश्य यैः पूजा केशवस्य कृता नरैह् । त्यक्त्वा ते नारकीं पीडां मुक्तिं यान्ति महा-मुने ॥३०६॥ धन्यास् ते मानवा लोके कलि-काले विशेषतह् । ये कुर्वन्ति हरेर् नित्यं पित्र्-अर्थं पूजनं मुने ॥३०७॥ किं दत्तैर् बहुभिर् पिण्डैर् गया-श्राद्धादिभिर् मुने । यैर् अर्चितो हरिर् भक्त्या पित्र्-अर्थं च दिने दिने ॥३०८॥ यम् उद्दिश्य हरेः पूजा क्रियते मुनि-पुङ्गव । उद्धृत्य नरकावासात् तं नयेत् परमं पदम् ॥३०९॥ यो ददाति हरेः स्थानं पितॄन् उद्दिश्य नारद । कर्तव्यं हि पितॄणां यत् तत् कृतं तेन भो द्विज ॥३१०॥
श्रुतौ च—
एक एव नारायण आसीत्, न ब्रह्मा, नेमे द्यावा-पृथिव्यौ, सर्वे देवाः, सर्वे पितरः, सर्वे मनुस्याः । विष्णुना अशितम् अश्नन्ति विष्णुनाघ्रातं जिघ्रन्ति, विष्णुना पीतं पिबन्ति, तस्माद् विध्वंसो विष्णूपाहृतं भक्षयेयुः ॥३११॥ इति।
**सनातनः- **न च वक्तव्यम् इदम्, अन्योद्दशेन भगवतेऽन्नादि-समर्पणं गौण्यापत्त्या भगवत्-प्रीति-विशेषासाधनात् फल-विशेष-जनक न स्याद् इति, यतो निज-पित्रादि-हितार्थं कृतं पूजनं भगवतः परम-प्रीणनम् एवेति । परम-फल-सम्पादकमेव स्याद् इति लिखति—पितॄन् उद्दिश्येत्यादिना । एवञ्च पित्राद्य्-अर्थं भगवत्-पूजायां पश्चात् कृतायां भगवन्-निवेदितेनैव स्वतः श्राद्धादि-सम्पत्त्या तन्-महा-गुण-सिद्धेर् मुक्तया दि-महा-फलम् उपपद्यत एवेति भावः । यद्वा, श्राद्धाग्रह-परित्यागेन पित्रर्थं भक्ति-विशेषेण भगवत्-पूजया स्वत एव फल-विशेषः सिध्येत् । एवमेव, यथा तरोर् मूल-निषेचनेन, तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः (श्रीभा। ४.३१.१४) इत्यादि-न्यायात् पित्रादीनाञ्च परम-तृप्तिः सिध्यति । न तु केवल-निज-श्राद्धदानेन तेषामपि भगवद्-उच्छिष्ट-महा-प्रसादापेक्षयेति दिक् ॥३०६-३११॥
अत एवोक्तं श्री-भगवता विष्णु-धर्मे—
प्राणेभ्यो जुहुयाद् अन्नं मन्-निवेदितम् उत्तमम् । तृप्यन्ति सर्वदा प्राणा मन्-निवेदित-भक्षणात् ॥३१२॥
**सनातनः- **ममेत्यादि षष्ठी चतुर्थ्यर्थे । हृदय-स्थस्य परमात्म-रूपस्येत्यर्थः । एवं भगवते निवेद्यैव पित्रादिभ्यो देयम् इत्य् उपपादितम् ॥३१२॥
तस्मात् सर्व-प्रयत्नेन प्रदेयं मन्-निवेदितम् । ममापि हृदय-स्थस्य पितॄणां च विशेषतः ॥३१३॥
**सनातनः- **अधुना कदाचिदप्य् अनिवेदितं न दातव्यम् इति लिखति—भक्ष्यमिति । भक्ष्य-भोज्ययोश् चर्व्याचर्व्यत्वेन भेदः । यत्किञ्चिदपि, अग्र-भोक्तरि परमेश्वरे, यतः अनिवेदित-दानात् प्रायश्चित्ती पातकी भवेत् ॥३१३॥
किं च तत्रैवान्यत्र—
भक्ष्यं भोज्यं च यत् किञ्चिद् अनिवेद्याग्र-भोक्तरि । न देयं पितृ-देवेभ्यः प्रायश्चित्ती यतो भवेत् ॥३१४॥ स्वर्गादौ कथितो देवैर् अग्र-भुग् भगवान् हरिः । यज्ञ-भाग-भुजो देवास् ततस् तेन प्रकल्पिताः ॥३१५॥
**सनातनः- **तदेवोपपादयति—सर्गादाविति । अग्रभुजे भगवतेऽदत्ते भुक्ते सति चौर्येणेव देवादीनामपि पापं स्याद् इति भावः ॥३१५॥
स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे—
यस् तु विद्या-विनिर्मुक्तं मूर्खं मत्वा तु वैष्णवम् । वेदविद्भ्यो’वदाद् विप्रः श्राद्धं तद् राक्षसं भवेत् ॥३१६॥ सिक्थ-मात्रं तु यद् भुङ्क्ते जलं गण्डूष-मात्रकम् । तद्-अन्नं मेरुणा तुल्यं तज् जलं सागरोपमम् ॥३१७॥
ब्रह्म-पुराणे श्री-ब्रह्म-वचनम्—
शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि । तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥३१८॥
**सनातनः- **शङ्खाङ्कित-तनुः वैष्णव इत्यर्थः ॥३१८॥
स्मृतिश् च—
सुराभाण्डस्थ-पीयूषं यथा नश्यति तत्-क्षणात् । चक्राङ्क-रहितं श्राद्धं तथा शातातपो’ब्रवीत् ॥३१९॥
किं च, श्री-विष्णु-रहस्ये—
निवेशयेन् नरो मोहाद् अन्य-पङ्क्तौ हरेः प्रियम् । स पतेन् निरये घोरे पङ्क्ति-भेदी नराधमः ॥३२०॥
**सनातनः- **चक्रेण अङ्कश् चिह्नं यस्मिन् वैष्णवे तेन रहितम् । एवं श्राद्धे अवश्यं वैष्णव-भोजनाद् वैष्णवस्य च भगवन्-निवेदित-भोजन-निर्धारात् भगवन्-निवेदितेनैव श्राद्धादिकम् इति प्रसिद्धम्; अन्येषाम् अवैष्णवानां पङ्क्तौ ॥३१९-३२०॥
**अथ श्री-भगवद्-अर्पणे निषिद्धम्
निवेदितं यद् अन्यस्मै तद् उच्छिष्टं हि कथ्यते ।
अतः कथञ्चिद् अपि तन् न श्री-भगवते’र्पयेत् ॥३२१॥**
तथा चैकादश-स्कन्धे श्री-भगवद्-उक्तौ [Bह्P ११.११.४०]—
अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥३२२॥
**सनातनः- **अन्यस्मै निवेदितं, मह्यं नोपयुञ्ज्यात्, न समर्पयेत् ॥३२१-३२२॥
नारदीये—
पितृ-शेषं तु योउ दद्याद् धरये परमात्मने । रेतोदाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥३२३॥
**सनातनः- **रेतोदाः रेत एव उदम् उदकं पेयं येषां तथाभूताः सन्तः । विसर्ग-लोपेऽपि पुनः सन्धिर् आर्षः ॥३२३॥
श्री- विष्णु-धर्मे—
हरि-शेषं हविर् दद्यात् पितॄणाम् अक्षयं भवेत् । न पुनः पितृ-शेषं तु हरेर् ब्रह्मादि-सद्-गुरोः ॥३२४॥
**सनातनः- **हविः परमान्नं पितॄणां पितृभ्यो दद्यात्, यतस् तत् अक्षयं अक्षय्य-फलं भवेद् इत्यर्थः । हरेः हरये न दद्यात्, तत्र हेतुः—ब्रह्मेति ॥३२४॥
अन्यत्र च—
दक्षादयश् च पितरो भृत्या इन्द्रादयः सुराः । अतस् तद्-भक्त-शेषं तु विष्णोर् नैव निवेदयेत् ॥३२५॥ इति ।
**एवम् आवश्यकं कृत्वा वैष्णवेभ्यो विभज्य च ।
श्रीमन्-महा-प्रसादान्नं भुञ्जीत सह बन्धुभिः ॥३२६॥
सनातनः- **श्रीमतो भगवतः, यद्वा, श्रीमद्-भगवन्-निवेदितत्वेन परम-शोभायुक्तं, तद्-उच्छिष्टत्वेन च महा-प्रसाद-रूपम् अन्नम् ॥३२६॥
तथा च प्रह्लाद-पञ्चरात्रे—
स्वभावस्थैः कर्म-जडान् वञ्चयन् द्रविणादिभिः । हरेर् नैवेद्य-सम्भारान् वैष्णवेभ्यः समर्पयेत् ॥३२७॥
**सनातनः- **स्वभाव-स्थैः स्वत एव वर्तमानैः अनिवेदितैर् इत्यर्थः ॥३२७॥
अतएव वैष्णव-तन्त्रे—
हरेर् निवेदितं किञ्च्चिन् न दद्यात् कर्हिचिद् बुधः । अभक्तेभ्यः सशल्येभ्यो यद् दवन् निरये व्रजेत् ॥३२८॥
**सनातनः- **सशल्येभ्यो विद्धोपवासिभ्यः कर्म-जडेभ्य इत्यर्थः ॥३२८॥
विष्णु-धर्मोत्तरे—
अवैष्णवे देव-धृतं निर्माल्यं न प्रयच्छति । नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥३२९॥ इति ।
कथञ्चिद् अपि नाश्नीयाद् अकृत्वा कृष्ण-पूजनम् ।
न चासमर्प्य गोविन्दे किञ्चिद् भुञ्जीत वैष्णवः ॥३३०॥
अथ पूजा-व्यतिरिक्त-भोजन-दोषाः
श्री-कूर्म-पुराणे—
अनर्चयित्वा गोविन्दं यैर् भुक्तं धर्म-वर्जितैः । श्वान-विष्ठा-समं चान्नं नीरं च सुरया समम् ॥३३१॥
**सनातनः- **शौवानेति वक्तव्ये श्वानेत्य् आर्षम्; क्वचिच्च शुन इति पाठः ॥३३१॥
किं च—
यो मोहाद् अथवालस्याद् अकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकं शूकरेष्व् इह जायते ॥३३२॥
विष्णु-धर्मोत्तरे—
एक-कालं द्विकालं वा त्रि-कालं पूजयेद् धरिम् । अपूज्य भोजनं कुर्वन् नरकाणि व्रजेन् नरः ॥३३३॥
**सनातनः- **अपूज्य अपूजयित्वा ॥३३३॥
नारदीये च—
प्रातर् मध्यन्दिनं सायं विष्णु-पूजा स्मृता बुधैः । अशक्तो विस्तरेणैव प्रातः सम्पूज्य केशवम् ॥३३४॥ मध्याह्ने चैव सायं च पुष्पाञ्जलिम् अपि क्षिपेत् । मध्याह्ने वा विस्तरेण सङ्क्षेपेणाथवा हरिम् ॥३३५॥ सम्भोज्य भोजनं कुर्याद् अन्यथा नरकं व्रजेत् ॥३३६॥
अथानर्पित-भोग-निषेधः
हायशीर्ष-पञ्चरात्रे—
न त्व् एवापूज्य भुञ्जीत भगवन्तं जनार्दनम् । न तत् स्वयं समश्नीयात् यद् विष्णौ न निवेदयेत् ॥३३७॥
ब्रह्माण्ड-पुराणे –
पत्रं पुष्पं फलं तोयम् अन्न-पानाद्यम् औषधम् । अनिवेद्य च भुञ्जीत यद् आहाराय कल्पितम् ॥३३८॥
**सनातनः- **आहाराय निजोपभोगाय ॥३३८॥
अनिवेद्यं तु भुञ्जानः प्रायश्चित्ती भवेन् नरः । तस्मात् सर्वं निवेद्यैव विष्णोर् भुञ्जीत सर्वदा ॥३३९॥
पाद्मे गौतमाम्बरीष-संवादे—
अम्बरीष गृहे पक्वं यद् अभीष्टं सदात्मनः । अनिवेद्य हरेर् भुञ्जन् सप्त-कल्पानि नारकी ॥३४०॥
तत्रैवोत्तर-काण्डे शिवोमा-संवादे (६.२५३.११२)—
अवैष्णवानां यच् चान्नं पतितानां तथैव च । अनर्पितं तथा विष्णौ श्व-मांस-सदृशं भवेत् ॥३४१॥
विष्णु-स्मृतौ—
अनिवेद्य तु यो भुङ्क्ते हरये परमात्मने । मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः ॥३४२॥
अतएव गौत्माम्बरीष-संवादे—
अम्बरीष नवं वस्त्रं फलम् अन्नं रसादिकम् । कृत्वा विष्णूपभुक्तं तु सदा सेव्यं हि वैष्णवैः ॥३४३॥
**सनातनः- **विष्णोर् उपभोग्यं कृत्वा यथा-विध्य्-अर्पणादिना तं भोजयित्वेत्यर्थः ॥३४३॥
विष्णु-धर्माग्निपुराणयोः—
गन्धान्न-वर-भक्ष्यांश् च स्रजो वासांसि भूषणम् । दत्त्वा तु देवदेवाय तच्-छेषाण्य् उपभुञ्जते ॥३४४॥
**सनातनः- **गन्धान् अन्नानि वरभक्ष्यांश्च मोदकादीन्, उपभुञ्जते साधव इति सदाचारो दर्शितः ॥३४४॥
गारुडे—
पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः । शेषाश् च मस्तके धार्या इति वेदानुशासनम् ॥३४५॥
**सनातनः- **शेषाश्च तुलस्यादयः ॥३४५॥
षष्ठ-स्कन्धे पुंसवन-व्रत-प्रसङ्गे [Bह्P ६.१९.२०]—
उद्वास्य देवं स्वे धाम्नि तन् निवेदितम् अग्रतः । अद्याद् आत्म-विशुद्ध्य्-अर्थं सर्व-कामार्थ-सिद्धये ॥३४६॥
**सनातनः- **देवं भगवन्तं, स्वे धाम्नि स्व-हृदये, अग्रतः प्राक्, उद्वास्य विसर्ज्य ॥३४६॥
अष्टम-स्कन्धे च पयो-व्रत-प्रसङ्गे [Bह्P ८.१६.४२]—
निवेदितं तद्-भक्ताय दद्याद् भुञ्जीत वा स्वयम् ॥३४७॥
**सनातनः- **तद्-भक्ताय वैष्णवाय ॥३४७॥
गौतमीय-तन्त्रे—
शुक्लोपचार-सम्भारैर् नित्यशो हरिम् अर्चयेत् । निवेद्य कृष्णाय विधिवद् अन्नं भुञ्जीत तत् स्वयम् । अथवा सात्वते दद्याद् यदि लभ्यते भक्तितः ॥३४८॥
शरत्-प्रदीपे च—
भक्त-क्षण-क्षणो देवः स्मृतिः सेवा स्व-वेश्मनि । स्व-भोज्यस्यार्पणं दानं फलम् इन्द्रादि-दुर्लभम् ॥३४९॥
**सनातनः- **एवम् अर्पितोपभोग-दोष-जातं दर्शयित्वा तेन च निवेदितस्यैवोपभोगं विलिख्याधुना तदेव द्रढयन् भगवद्-अर्पितस्य ग्रहणेऽपि दत्तापहार-दोषो न प्रसज्येतेति भगवत्वात् सल्य-भरतो न्यायान्तरेण साधयति—भक्तेति, भक्तस्य क्षणः अवसर एव उत्सव एव वा क्षणो यस्य, स्व-वेश्मनि स्थितेन या स्मृतिः, सैव सेवा, स्वभोज्यस्य निज-भक्ष्यस्यैवार्पणं यत् तदेव तस्मै दानम्, एवं सुख-सेव्यत्वं भक्त-वात्सल्यं चोक्तम् । तत्-फलं च इन्द्रादि-दुर्लभं स्यात्, श्री-वैकुण्ठलोक-प्राप्तेः । एवं चार्पण-दानयोर् भेदोऽप्य् अभिहितः; यतो नृपादिभ्यः सूदाभिर् इव भगवतो भृत्यैर् द्रव्याणाम् अर्पणमेव क्रियते, न तु दानं, तस्यैव सर्व-द्रव्यादि-स्वामित्वेन तेषां तत्र स्वत्वाभावात् । अतो भगवते यद् दीयते, तद् अर्पणम् इत्युच्यते, न तु दानम् इति । अत एव पाद्याद्य्-उपचारं कल्पयामीत्येव सत्-सम्प्रदाय-प्रयोगः, एवं च ‘दद्यात् पूरुष-तुष्टिदम्’ इत्यादौ दान-शब्दस्यार्पणमेवार्थोऽवगतव्यः । न च शनीयं, स्वत्वाभावे पित्रादिभ्यः कथं तद्-दानं घटताम् इति ? महा-प्रसादतया स्वीकृतेषु तेषु स्वत्वोत्पत्तेः, श्राद्धादि-विधि-बलेन तत्-कल्पनाद् वा । न च वक्तव्यम्—उच्छिष्ट-द्रव्य-दानेन श्राद्धादौ गौण्यापत्तिर् इति भगवद्-अर्पणेन द्रव्य-संस्कार-विशेष-सम्पत्त्या फल-विशेष-जनकत्वेन परम-मुख्यतापत्तेः । एतच्च पूर्वं सूचितमेव, तत्-फलं च लिखितम् । इत्थं च, तस्मात् सर्वं निवेद्यैव विष्णोर् भुञ्जीत सर्वदा इत्यादौ, ओदनः पक्त्वा भुज्यते इत्यादिवत् एक-कर्मत्वेन यन् निवेद्यते, तदेव भुञ्जीतेत्यर्थो नितरां सिद्धः; न ह्य् अन्यत् निवेद्य अन्यद् भुञ्जीतेति पृथक् कर्मान्तर-कल्पन-दोषापत्तेः, अनिवेद्य न भूञ्जीत यद्-आहाराय कल्पितम् इत्यादिना विरोधाच्च । अत एव तत्त्व-विदः साधवः पक्वान्नादिकम् अशेषमेव भगवद्-अग्रे नीत्वा परिवेश्य विधिवद् अर्पयन्ति । यच्च बाहुल्येन परिवेशनाद्य-शक्त्या रन्धन-पात्रादौ तिष्ठेत्, तदपि शङ्खोदक-तुलसीदल-निक्षेपणादिना विनिवेदिततामापादयतीति दिक् ॥३४९॥
**अथ नैवेद्य-भक्षण-विधिः
दृष्ट्वा महा-प्रसादान्नं तत् प्राङ् नत्वाभिमन्त्रयेत् ।
स्वेष्ट-नाम्ना ततो मूल-मनुना वार-सप्तकम् ॥३५०॥
सनातनः- **प्राक् प्रथमं नत्वा अभिवन्द्य तद्-अन्नं गायत्त्र्या अभिमन्त्रयेत्, ततस् तद्-अनन्तरं मूल-मन्त्रेण सप्तवारान् अभिमन्त्रयेत् ॥३५०॥
**धर्मराजादि-भागं चापास्य श्री-चरणामृतम् ।
तुलसीं चात्र निक्षिप्य श्लोकान् सङ्कीर्तयेद् इमान् ॥३५१॥
सनातनः- **आदि-शब्देन पित्रादयः, अपास्य तद्-अन्नादपनीय, श्री-चरणामृतं भगवत्-पादोदकम्; अत्र मन्त्रे ॥३५१॥
यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयो’मलाः ।
सिद्धाद्याश् च हरेस् तस्य वयम् उच्छिष्ट-भोजिनः ॥३५२॥
किं च—
**यस्य नाम्ना विनश्यन्ति महापातक-राशयः ।
तस्य श्री-कृष्ण-देवस्य वयम् उच्छिष्ट-भोजिनः ॥३५३॥
उच्छिष्ट-भोजिनस् तस्य वयम् अद्भुत-कर्मणः ।
यो बाल्य-लीलया तांस् तान् पूतनादीन् अपातयत् ॥३५४॥
सनातनः- **तांस् तान् अनिर्वाच्य-बल-पराक्रमादि-युक्तान्, येन लीला-वराहेण हिरण्याक्षो निपातितः इत्य् एतत् पद्यार्धं पठन्ति, तच्च निजेष्ट-देव-लीलानुसारेणेति ज्ञेयम् ॥३५४॥
एकादश-स्कन्धे [Bह्P ११.६.४६]—
त्वयोपभुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥३५५॥
**यतो’मृतोपस्तरणम् असीत्य् उक्त्वा यथा-विधि ।
पञ्च प्राणाहुतीः कृत्वा भुञ्जीत पुरतः प्रभोः ॥३५६॥
सनातनः- **प्रभोर् भगवतः पुरतोऽग्रे भुञ्जीत, योऽश्नाति नित्यं पुरतो मुरारेः इति स्कान्दोक्तः । यच्च वाराहे शयनं भोजनं चाग्रे इत्याद्य्-अपराधेषूक्तं, तदपि बहिर्देवालये श्री-मूर्ति-पूजा-विषयं, न तु स्व-गृहे शालग्राम-शिला-पूजा-विषयम् इति विवेचनीयम्; एतच्च पूर्वं लिखितमेव ॥३५६॥
श्री-विष्णु-पुराणे [VइP ३.११.७७, ७९-८०, ८२-३, ८६-९१, ९५-६, ९८] और्व-सगर-संवादे—
प्रशस्त-रत्न-पाणिस् तु भुञ्जीत प्रयतो गृही ॥३५७॥
**सनातनः- **गृहीति—पूर्वं सर्वत्र गृहस्थ-कृत्य-लिखनाद् अत्रापि युक्तमेव तत, द्रव्य-समर्पणादि-योग्यत्वेन पूजा-विधौ तस्यैव प्राधान्यात् । भगवद्-अर्थ-त्यक्त-परिग्रहस्य च विरक्तस्य यथा-लाभं भगवन्तं पूजयतो न तादृशो विधि-निषेधावकाशः कल्प्यत इति श्री-भागवतादि-शास्त्र प्रसिद्धम् एव किञ्चित् प्राक् लिखितम् अग्रे च लेख्यमिति ॥३५७॥
पुण्य-गन्धौ शस्त-माल्य-धारी चैव नरेश्वर । नैक-वस्त्र-धरो’थार्द्र-पाणि-पादो महीपते ॥३५८॥ विशुद्ध-वदनः प्रीतो भुञ्जीत न विदिङ्-मुखः । प्राङ्-मुखोदङ्-मुखो वापि न चैवान्य-मना नरः ॥३५९॥
**सनातनः- **प्राङ्मुख उदङ्मुखो वा भुञ्जीत ॥३५९॥
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही । प्रशस्त-शुद्ध-पात्रे तु भुञ्जीताकुपितो द्विजः ॥३६०॥
**सनातनः- **प्रशस्तं भगवन्-निवेदनात् ॥३६०॥
नासन्दि-संस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरो’ग्नये । नाशेषं पुरुषो’श्नीयाद् अन्यत्र जगती-पते ॥३६१॥
**सनातनः- **आसन्दी दारु-मय-त्रिपदी, अदेशे अयोग्य-स्थाने, अकाले सन्ध्यादि-समये, आकाश इति पाठे अनावृते । अग्रम् अग्नये दत्त्वा, परिशिष्टस्यान्नस्य किञ्चिद् अग्नौ क्षिप्त्वा ॥३६१॥
मध्वम्भु-दधि-सर्पिभ्यः सक्तुभ्यश् च विवेकवान् । अश्नीयात् तन्-मयो भूत्वा पूर्वं तु मधुरं रसम् ॥३६२॥
**सनातनः- **तन्मयो भूत्वाऽन्ने दत्त-चित्तः सन् ॥३६२॥
लवणाम्ले तथा मध्ये कटु-तिक्तादिकांस् ततः । प्राग् द्रवं पुरुषो’श्नीयान् मध्ये कठिनाशनम् ॥३६३॥ अन्ते पुनर् द्रवाशी तु बलारोग्ये न मुञ्चति । पञ्च-ग्रासं महा-मौनं प्राणाद्याप्यायनाय तत् ॥३६४॥ भुक्त्वा सम्यग् अथाचम्य प्राङ्-मुखोदङ्मुखो’पि वा । यथावत् पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः ॥३६५॥ स्वस्थः प्रशान्त-चित्तस् तु कृतासन-परिग्रहः । अभीष्ट-देवतानां तु कुर्वीत स्मरणं नरः ॥३६६॥ अगस्तिर् अग्निर् बडवानलश् च भुक्तं मयान्नं जरयत्व् अशेषम् । सुखं च मे तत्-परिणाम-सम्भवं यच्छन्त्व् अरोगो मम चास्तु देहे ॥३६७॥ विष्णुः समस्तेन्द्रिय-देह-देही प्रधान-भूतो भगवान् यथैकः । सत्येन तेनात्तम् अशेषम् अन्नम् आरोग्यदं मे परिणामम् एतु ॥३६८॥ इत्य् उच्चार्य स्व-हस्तेन परिमृज्य तथोदरम् । अनायास-प्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥३६९॥
कौर्मे व्यास-गीतायाम्—
प्राङ्-मुखो’न्नानि भुञ्जीत सूर्याभिमुखम् एव वा । आसीनः स्वासने सिद्धे भूम्यां पादौ निधाय च ॥३७०॥ आयुष्यं प्राङ्-मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्-मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्-मुखः ॥३७१॥ पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय च । उपवासेन तत् तुल्यं मनुर् आह प्रजापतिः ॥३७२॥ उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननो’क्रोधः पञ्चार्द्रो भोजनं चरेत् ॥३७३॥ महा-व्याहृतिभिस् त्व् अन्नं परिवार्योदकेन तु । अमृतोपस्तरणम् असीत्यपोशान-क्रियां चरेत् ॥ स्वाहा-प्रणव-संयुक्तां प्राणायेत्य् आहुतिं ततः । अपानाय ततो हुत्वा व्यानाय तद्-अनन्तरम् ॥३७५॥ उदानाय ततः कुर्यात् समानायेति पञ्चमीम् । विज्ञाय तत्त्वम् एतेषां जुहुयाद् आत्मनि द्विजाः ॥३७६॥
**सनातनः- **प्रत्यङ्मुखः सन् चेद् भुङ्क्ते, तदा श्रियम् एव भुङ्क्ते, सर्व-सम्पदं लभत इत्यर्थः । ऋतं सत्यं सर्वं वाञ्छितं प्राप्नोतीत्यर्थः । आत्मनि जुहुयात् आत्मना सहैषाम् ऐक्यं भावयेद् इत्यर्थः । तत् ततः भोजनानन्तरम् इत्यर्थः ॥३७१-३७६॥
शेषम् अन्नं यथाकामं भुञ्जीत व्यञ्जनैर् युतम् । ध्यात्वा तन्-मनसा देवम् आत्मानं वै प्रजापतिम् ॥३७७॥ अमृतापिधानम् असीत्य् उपरिष्टाद् अपः पिबेत् ॥३७८॥
किं च, तत्रैव—
यद् भुङ्क्ते वेष्टित-शिरा यच् च भुङ्क्ते विदिङ्-मुखः । सोपानत्कश् च यद् भुङ्क्ते सर्वं विद्यात् तद् आसुरम् ॥३७९॥ नार्ध-रात्रे न मध्याह्ने नाजीर्णं नार्द्र-वस्त्र-धृक् । न च भिन्नासन-गतो न याने संस्थितो’पि वा ॥३८०॥ न भिन्न-भाजने चैव न भूम्यां न च पाणिषु । अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् । अपुण्यं लोक-विद्विष्टं तस्मात् तत् परिवर्जयेत् ॥३८१॥
किं च—
न वाम-हस्तेनोद्धृत्य पिबेद् वक्त्रेण वा जलम् ॥३८२॥
विष्णु-स्मृतौ—
पिबतः पतते तोयं भाजने मुख-निर्गयम् । अभोज्यं तद् भवेद् अन्नं भुक्त्वा चान्द्रायणं चरेत् ॥३८३॥
मार्कण्डेये—
भुञ्जीतान्नं च तच्-चित्तो ह्य् अन्तर्जासु सदा नरः । उपघाताद् ऋते दोषान्नान्नस्योदीरयेद् बुधः ॥३८४॥
अन्यत्र च—
हस्तादृते’म्बुनान्येनान् अश्नन् पात्राद् ऋते पिबेत् । दक्षिणं तु परित्यज्य वामे नीरं निघापयेत् । अभोज्यं तद् भवेद् अन्नं पानीयं च सुरा-समम् ॥३८५॥
**सनातनः- **अश्नन् भुञ्जानः सन् हस्ताद् ऋते पाणिं विना केवलं मुखेन जलं न पिबेत्; तथा पात्रं विना करादिना न पिबेद् इत्यर्थः; अन्यथा अभोज्यादिकं स्याद् इत्यर्थः ॥३८५॥
तृप्तो दद्याद् धि तद्-अन्नं शेषं दुर्गत-तृप्तये ॥३८६॥
**सनातनः- **तृप्तः समाप्त-भोजनः सन् ॥३८६॥
सम्यग् आचम्य दक्षाङ्घ्रेर् अङ्गुष्ठे वारि निक्षिपेत् ॥३८७॥ ततः संस्मृत्य सन्तुष्टः पुष्टिदाम् इष्ट-देवताम् । सन्निकृष्टैर् वृतः शिष्टैर् जपेद् अन्न-पतेर् मनून् । अन्नपते’न्नस्य नो देहि ॥३८८॥ इत्य् आदि ।
**सनातनः- **अङ्गुष्ठे वारि निक्षिपेत्; मन्त्रः—अङ्गुष्ठेति ॥३८७-३८८॥
**भक्षयेद् अथ ताम्बूलं प्रसादं वल्लवी-प्रभोः ।
शिष्टैर् इष्टैर् जपेद् दिव्यं भगवन् नाम-मङ्गलम् ॥३८९॥
सनातनः- **बल्लवी-प्रभोः भगवतः श्री-कृष्णस्य प्रसादम् इति तन्-निवेदितम् इत्यर्थः ॥३८९॥
अथ नैवेद्य-माहात्म्यम्
वाराहे—
यो ममैवार्चनं कृत्वा तत्र प्रापणम् उत्तमम् । शेषम् अन्नं शम् अश्नाति ततः सौख्यतरं नु किम् ॥३९०॥
**सनातनः- **प्रापणम् उपहारं, तदेवाह—शेषम् अन्नम् इति ॥३९०॥
स्कान्दे—
तवोपहारं भुक्त्वा यः सेवते यज्ञ-पूरुषम् । सेवितं तेन नियतं पुरोडाशो महाधिया ॥३९१॥
**सनातनः- **पुरोडाशः यज्ञ-शेष-द्रव्यम् ॥३९१॥
किं च तत्रैव—
शङ्खोदकं तीर्थ-वराद् वरिष्ठं पादोदकं तीर्थ-गणाद् गरिष्ठम् । नैवेद्य-शेषं क्रतु-कोटि-पुण्यं निर्माल्य-शेषं व्रत-दान-तुल्यम् ॥३९२॥
**सनातनः- **विष्णोर् नैवेद्य-शेषं पाद-जलेन विमिश्रितं सहेति वा । क्वचिद् विष्णोर् इत्यत्र सिक्तमिति वा पाठः ॥३९२॥
नैवेद्य-शेषं तुल-सीवि-मिश्रं विशेषतः पाद-जलेन सिक्तम् । यो’श्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुत-कोटि-पुण्यम् ॥३९३॥ षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् । विष्णोर् नैवेद्य-शेषे यत् फलं तद् भुञ्जतां कलौ ॥३९४॥
**सनातनः- **भुञ्जतां विष्णु-नैवेद्य-शेषेणापि तत् फलम् ॥३९४॥
किं च, तत्र श्री-शालग्राम-शिला-माहात्म्ये—
भक्त्या भुनक्ति नैवेद्यं शालग्राम-शिलार्पितम् । कोटिं मखस्य लभते फलं शत-सहस्रशः ॥३९५॥
**सनातनः- **भुनक्ति भुङ्क्ते, मखस्य कोटिं लभते, स यज्ञ-कोटिं कृतवान् इत्यर्थः । तस्य च किं फलम् इत्य् अपेक्षायाम् आह—फलम् इति । शत-सहस्रशः अनन्तम् इत्यर्थः । यद्वा, शत-सहस्रशो या यज्ञ-कोटिस् तद्रूपं फलं लभते ॥३९५॥
ब्रह्म-वारि-गृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः । भोक्तव्यं विष्णु-नैवेद्यं नात्र कार्या विचारणा ॥३९६॥ भुक्त्वान्य-देव-नैवेद्यं द्विजश् चान्द्रायणं चरेत् । भुक्त्वा केशव-नैवेद्यं यज्ञ-कोटि-फलं लभेत् ॥३९७॥
तत्रैव श्री-ब्रह्म-नारद-संवादे—
अग्निष्टोम-सहस्रैस् तु वाजपेय-शतैर् अपि । तत् फलं प्राप्यते नूनं विष्णोर् नैवेद्य-भक्षणात् ॥३९८॥ हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सो’च्युतः ॥३९९॥
**सनातनः- **अच्युतः अच्युत-तुल्य इत्यर्थः, सारूप्यादि-प्राप्त्या; यद्वा, भक्ति-मार्गान् निजेष्टाद् वा च्युतो न भवतीत्यर्थः ॥३९९॥
किं च—
पावनं विष्णु-नैवेद्यं सुर-सिद्धर्षिभिः स्मृतम् । अन्य-देवस्य नैवेद्यं भुवत्त्वाचान्द्रायणं चरेत् ॥४००॥ कोटि-यज्ञैस् तु यत् पुण्यं मासोपोषण-कोटिभिः । तत् फलं प्राप्यते पुम्भिर् विष्णोर् नैवेद्य-भक्षणात् ॥४०१॥ तुलस्याश् च रजो-जुष्टं नैवेद्यस्य च भक्षणम् । निर्माल्यं च धृतं येन महा-पातक-नाशनम् ॥४०२॥
बृहद्-विष्णु-पुराणे –
नैवेद्यं जगदीशस्य अन्न-पानादिकं च यत् । ब्रह्मवन् निर्विकारं हि यथा विष्णुस् तथैव तत् ॥४०३॥ विकारं ये प्रकुर्वन्ति भक्षणे तद् द्विजातयः ॥४०४॥ कुष्ठ-व्याधि-समायुक्ताः पुत्र-दार-विवर्जिताः ॥ निरयं यान्ति ते विप्रा यस्मान् नावर्तते पुनः ॥४०५॥
विष्णुधर्मोत्तरे—
नवम् अन्नं फलं पुष्पं निवेद्य मधुसूदने । पश्चाद् भुङ्क्ते स्वयं यश् च तस्य तुष्यति केशवः ॥४०६॥
ब्रह्माण्ड-पुराणे—
मुकुन्दाशन-शेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत् पुण्यं चान्द्रायण-शताधिकम् ॥४०७॥
अन्यत्रापि—
एकादशी-सहस्रैस् तु मासोपोषण-कोटिभिः । तत् फलं प्राप्यते पुम्भिर् विष्णोर् नैवेद्य-भक्षणात् ॥४०८॥ इति ।
**सनातनः- **एकादशी-सहस्रैर् इत्यनेन तद्-व्रत-गणाद् अपि भगवन्-नैवेद्य-भक्षणस्य माहात्म्यम् अधिकम् उक्तम् । यच्चाग्रे भागवत-लक्षणे लेख्यं स्कान्द-वचनम् —प्राणात्यये न चाश्नन्ति दिनं प्राप्य हरेर् नराः इति, तच्च भगवन्-महा-प्रसाद-व्यतिरिक्त-परम् इति ज्ञेयम् । न च वक्तव्यम्—वैष्णवानाम् अनिवेदित-भक्षणं सदा निषिद्धम् एवेति, यतस् तद्-वचनं न वैष्णव-विषयम्; किन्तु प्राणात्ययेऽपि सति ये नाश्नन्ति, ते भागवता इति सामान्योक्तेः । यद्वा, भगवद्-भक्तिरेव तद्-व्रतम् इति बुद्धया भगवत्-प्रीत्य्-अपेक्षया तत्र महा-प्रसादान्न भक्षणेनापि न दोषः कोऽपि प्रसज्येतेति केषाञ्चित् सतां मतम् । ततश् चैतद्-वचनं नैवेद्य-माहात्म्य-परमेव, न तु तद्-व्रत-निषेधकम् इति मन्तव्यम्; यद्वा, निज-विश्वास-विशेषेण भगवद्-अधरामृत-महा-प्रसाद-बुद्धया तद्-अन्नाद्य्-उपभोगो भक्ति-रूपाद् अप्य् एकादशी-व्रताद् एकान्तिनां परम-फलत्वेनोपादेय इति युक्तम् एवोक्तम्—एकादशी-सहस्रैः इति ॥४०८॥
**ततो यथोक्तम् आचम्य ताम्बूलादि विभज्य च ।
महा-प्रसादं दास्येन गृह्णीयात् प्रयतः स्वयम् ॥४०९॥
सनातनः- **महा-प्रसाद-रूपं ताम्बूलादि, आदि-शब्देन स्रक्-चन्दनादि, आचम्य प्रयतः सन् दास्येन निमित्तेन गृह्णीयात् उपयुञ्जयात् ॥४०९॥
तथा च नवम-स्कन्धे श्रीमद्-अम्बरीष-चरिते [Bह्P ९.४.२०]—
कामं च दास्ये न तु काम-काम्यया यथोत्तमश्लोक-जनाश्रया रतिः ॥४१०॥
**सनातनः- **कामं स्रक्-चन्दनादि-भोगं चकारेति पूर्व-श्लोक-स्थेनान्वयः । दास्ये निमित्ते, न तु भोगेच्छया, तत्राप्य् उत्तमःश्लोक-जना वैष्णवाः, तद्-विषया रतिः प्रीतिर् यथा स्यात् तथा चकारेति भगवद्-भक्ति-विषयक-भक्तेः परमोपादेयत्वम् अग्रे लेख्यं सूचितम् ॥४१०॥
नैवेद्य-भक्षणे यच् च निर्माल्य-ग्रहणे च यत् ।
माहात्म्यम् आदौ लिखितं ज्ञेयं सर्वम् इहापि तत् ॥४११॥
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
महा-प्रसादो नाम नवमो विलासः ।