अष्टम-विलासः
प्रातर्-अर्चा-समापनः
श्री-चैतन्य-प्रभुं वन्दे यत्-पादाश्रय-वीर्यतः ।
सङ्गृह्णात्य् आकरव्राताद् रङ्को रत्नावलीमयम् ॥१॥
सनातनः- एवं श्री-भागवतोऽनुग्रह-प्रभावेण बहुल-ग्रन्थेभ्यः परमोत्तमान् श्लोकान् सङ्गृह्य लिखन् भक्तया तं प्रणमति—श्री-चैतन्येति । यस्य पादयोर् आश्रयः शरणापत्तिस् तस्य तेन वा यद् वीर्यं प्रभावः तस्माद्धेतोः तेन वा; आकरः समुद्रादि-स्थानीयं शास्त्रं, तस्य व्रातात् समूहात्, रङ्कोऽप्ययं जनः, एवं श्रद्धा-प्रयत्नादि-विशेषः सूचितः ॥१॥
**अथ धूपनं
ततश् च धूपम् उत्सृज्य नीचैस् तन्-मुद्रयार्पयेत् ।
कृष्णं सङ्कीर्तयन् घण्टम् वाम-हस्तेन वादयन् ॥२॥
सनातनः-** उत्सृज्य एष धूपो नमः इति मूल-मन्त्रेणोत्सर्गं कृत्वा; नीचैर् इति भूमितो देवस्य श्रीनाभिपर्यन्तं धूप-पात्रं समुत्थाप्येति सदाचारतो ज्ञेयम्; तथा घण्टाञ्च स्वाहा, अस्त्राय फट् इति गन्धाक्षत-कुसुमैः पूजिताम् इति बोद्धव्यम् ॥२॥
तथा च बह्व्-ऋच-परिशिष्टे –
धूपस्य विजने चैव धूपेनाङ्ग-विधूपने । नीराजनेषु सर्वेषु विष्णोर् नामानि कीर्तयेत् ॥३॥ जय-घोषं प्रकुर्वीत कारुण्यं चाभिकीर्तयेत् । तथा मङ्गल-घोषं च जगद्-बीजस्य च स्तुतिम् ॥४॥
सनातनः- धूपस्य सर्वतः प्रसारणार्थं व्यजनादिना यद्-बीजनं, तस्मिन्; कारुप्यं पूतनादि-सद्-गति-दातृत्वादिकम्; जगद्-बीजस्य भगवतः स्तुतिं ब्रह्मादि-कृताम् ॥३-४॥
अन्यत्र च –
ततः समर्पयेद् धूपं घण्ट-वाद्य-जय-स्वनैः । धूप-स्थानं समभ्यर्च्य तर्जन्या वामया हरेः ॥५॥
सनातनः- धूपस्य स्थानं पात्रं हरेः समर्पयेत् ॥५॥
तत्र मन्त्रः –
वनस्पति-रसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः । अघ्रेयः सर्व-देवानां धूपो ऽयं प्रतिगृह्यतम् ॥६॥
**अथ धूपः **
वामन-पुराणे –
रुहिकाख्यं कणो दारु-सिह्लकं चागुरुः सिता । शङ्खो जाति-फलं श्रीशे धूपानि स्युः प्रियाणि वै ॥७॥
मूलागमे
स-गुग्गुल्व्-अगुरु-शीर-सिताज्य-मधु-चन्दनैः । साराङ्गार-विनिक्षिप्तैः कल्पयेद् धूपम् उत्तमम् ॥८॥
विष्णु-धर्मोत्तरे च –
तथैव शुभ-गन्धा ये धूपस् ते जगतः पतेः । वासुदेवस्य धर्म-ज्ञैर् निवेद्य दानवेश्वर ॥९॥
**अथ धूपेषु निषिद्धं
न धूपर्थे जीव-जतम् ॥१०॥
सनातनः-** रुहिका जटा-मांसी, कणो गुग्गुलु-विशेषः, सिता सर्करा, शङ्खो नखी, न जीवजातं प्राण्य्-अङ्ग-सम्भवं, नखीपुष्यलक-मृगमदादिकम्, न दद्याद् इति शेषः । यच्च शङ्खादिकं पूर्वं धूपेषु विहितम्, तत्र च विहित-प्रतिषिद्धैस् तु विहितालाभतोऽर्चयेत् इति पुष्प-प्रकरण-लिखित-न्यायोऽवतारयितव्यः । एवमग्रेऽप्य् अन्यत्रोह्यम् ॥७-१०॥
तत्रैवापवादः
विना मृगमदं धूपे जीव-जातं विवर्जयेत् ॥११॥
कालिका-पुराणे –
न यक्ष-धूपं वितरेन् मधवय कदचन ॥१२॥
अग्नि-पुराणे –
न सल्लकिजं न तृणम् न शल्क-रस-सम्भ्र्तं धूपम् । प्रत्यङ्ग-निर्मुक्तम् दद्यात् कृष्णाय बुद्धिमान् ॥१३॥
सनातनः- शल्लकी शालेयीति प्रसिद्धा, तृणम् उशीर-प्रभृति, शल्कः शेहरेति प्रसिद्धं तस्य रसो मज्जा । प्रत्यङ्ग-निर्मुक्तम् अङ्गं अङ्गं प्रतिनिर्मुक्तं, सम्भृतं शयडाकाण्डादि, तच्च न दद्याद् इत्यर्थः, निषिद्ध-प्रकरणत्वात् । यद्वा, प्रथमं निषिद्धम् उक्त्वा पश्चाद् धूप-दान-प्रकारम् आह—प्रत्यङ्गं, श्री-भगवतः सर्वाङ्गेषु निर्मुक्तं प्रसृतं संलग्नं यथा स्याद् इति ॥१३॥
अथ धूपन-माहात्म्यम्
नारसिंहे श्री-मर्कन्देय-सतनिक-सम्वदे
महिषाख्यं गुग्गुलुं च आज्य-युक्तं स-शर्करम् । धूपं ददाति रजेन्द्र नरसिंहस्य भक्तिमान् ॥१४॥ स धूपितः सर्व-दिक्षु सर्व-पाप-विवर्जितः । अप्सरो-गण-युक्तेन विमानेन विराजता । वायु-लोकं समासाद्य विष्णु-लोके महीयते ॥१५॥
स्कान्दे –
ये कृष्ण-गुरुणा कृष्णं धूपयन्ति कलौ नराः । स-कर्पूरेण राजेन्द्र कृष्ण-तुल्या भवन्ति ते ॥१६॥
सनातनः- कृष्ण-तुल्या इति तत्-सारूप्य-प्राप्तेः ॥१६॥
साज्येन वै गुग्गुलुना सु-धूपेन जनार्दनम् । धूपयित्वा नरो याति पदं तस्य सदा-शिवं ॥१७॥
सनातनः- सदा शिवं नित्य-मङ्गलम् ॥१७॥
अगुरुं तु स-कर्पूर-दिव्य-चन्दन-सौरभम् ।
दत्त्वा नित्यं हरेर् भक्त्या कुलानां तारयेच् छतम् ॥१८॥
विष्णु-धर्मोत्तर-त्र्तिय-खण्डे –
धूपनम् उत्तमं तद्वत् सर्व-कम-फल-प्रदम् । धूपं तुरुष्ककं दत्त्वा वह्निस्तोम-फलं लभेत् ॥१९॥ दत्त्वा तु कृत्रिमं मुख्यं सर्व-कामान् अवाप्नुयात् । गन्ध-युक्त-कृतं दत्त्वा यज्ञ-गोसवं आप्नुयात् ॥२०॥ दत्त्वा कर्पूर-निर्यासं वाजिमेध-फलं लभेत् । वसन्ते गुग्गुलं दत्त्वा वह्निस्तोमं अवाप्नुयात् ॥२१॥ ग्रीष्मे चन्दन-सारेण राजसूय-फलं लभेत् । तुरुष्कस्य प्रदानेन प्रवृष्य् उत्तमतां लभेत् ॥२२॥ कर्पूर-दानाच् छरदि राजसूयं अवाप्नुयात् ॥२३॥ हेमन्ते म्र्ग-दर्पेण वाजिमेध-फलं लभेत् । शिशिरे ऽगुरु-सरेन सर्व-मेध-फलं लभेत् ॥२४॥
सनातनः- मृग-दर्पेण कस्तूर्या, सर्वैर् मेधैर् यज्ञैर् अपि सुदुर्लभम् ॥२४॥
पदम् उत्तमं आप्नोति धूप-दः पुष्टिम् अश्नुते । धूप-लेख यथाइवोर्ध्वम् नित्यं एव प्रसर्पति ।
तथाइवोर्ध्व-गतो नित्यं धूप-दानाद् भवेन् नरः ॥२५॥
सनातनः- उत्तमं पदं श्री-वैकुण्ठाख्यम्, इह लोके च पुष्टिं परिपूर्णतां लभते; यद्वा, पोषणं तद्-अनुग्रह इति द्वितीय-स्कन्धोक्त-लक्षणां पुष्टिं सर्वत्रानुभवतीत्यर्थः ॥२५॥
प्रह्लाद-संहितायां च
यो ददाति हरेर् धूपम् तुलसी-काष्ठ-वह्निना । शत-क्रतु-समं पुण्यं गोऽयुतं लभते फलं ॥२६॥ इति ।
सनातनः- गोऽयुतं गवामयुतदानजं चेत्यर्थः ॥२६॥
धूपयेच् च तथा सम्यक् श्रीमद्-भगवद्-आलयं ।
धूप-शेषं ततो भक्त्या स्वयं सेवेत वैष्णवः ॥२७॥
सनातनः- तथेति समुच्चये, तेनैव प्रकारेणेति वा सम्यग् धूपयेत् ॥२७॥
तथा च ब्राह्मे अम्बरिसं प्रति गौतम-प्रश्ने –
धूप-शेषं तु कृष्णस्य भक्त्या भजसि भूपते । कृत्वा चारात्रिकं विष्णोः स्व-मूर्ध्ना वन्दसे नृप ॥२८॥
**अथ श्री-भगवद्-अलय-धूपन-माहात्म्यं
कृष्णागुरु-समुत्थेन धूपेन श्रीधरालयम् ।
धूपयेद् वैष्णवो यस् तु स मुक्तो नरकार्णवत् ॥२९॥**
**धूप-शेष-सेवन-माहात्म्यम् **
पाद्मे श्री-गौतमाम्बरीष-संवादे –
तीर्थ-कोटि-शतैर् धौतो यथा भवति निर्मलः । करोति निर्मलं देहं धूप-शेषस् तथा हरेः ॥३०॥ न भयं विद्यते तस्य भौमं दिव्यं रासातलम् । कृष्ण-धूपावशेषेन यस्याङ्गं परिवासितम् ॥३१॥
सनातनः- दिव्यं दिवि भवं, रसा-तलं पाताल-भवम् इत्यर्थः ॥३१॥
नापदो विपदस् तस्य भवन्ति खलु देहिनः । हरेर् दत्तावशेषेन धूपयेद् यस् तनुं सदा ॥३२॥
सनातनः- आपद्विपदोः कार्य-कारणत्वादिना भेदः कल्प्यः ॥३२॥
नासौख्यं न भयं दुःखं नाधिजं नैव रोगजम् । यः सेवयेद् धूप-शेषं विष्णोर् अद्भुत-कर्मणः ॥३३॥
सनातनः- असौख्यं सखाभावमात्रं, सेवयेद् इति स्वार्थे इण् । यद्वा, अन्यम् अपि यं सेवयेत्, एवं सेवयित्वेत्यपि ॥३३॥
क्रूर-सत्त्व-भयं नैव न च चौर-भयं क्वचित् । सेवयित्वा हरेर् धूपं निर्माल्यं पदयोर् जलम् ॥३४॥
हरि-भक्ति-सुधोदये च—
आघ्राणं यद् धरेर् दत्तं धूपोच्छिष्टस्य सर्वतः । तद्-भव-व्याल-दष्टानां भवेत् कर्म-विषापहं ॥३५॥ इति ।
सनातनः- सर्वतः प्रसर्पतः भवः संसार एव व्यालः महासर्पः, तेन दष्टानां जानानां विषं संसार-दुःखम् अपहन्तीति तथा तत् ॥३५॥
दर्शनाद् अपि धूपस्य धूप-दानादि-जं फलम् ।
सर्वं अन्ये’पि विन्दन्ति तच् चाग्रे व्यतिं एष्यति ॥३६॥
सनातनः- अन्ये धूप-दातृ-व्यतिरिक्ता जना अपि धूपस्य दर्शनाद् अपि, आदि-शब्देन धूपशेषाघ्राणाच्च जायत इति तथा तत् सर्व-फलं लभते । तच्च फल-प्राप्त्यादिकम् अग्रे महा-नीराजन-प्रकरणे प्रमाण-वाक्य-निदर्शनादिना व्यक्तं भावीत्यर्थः, तथा च तत्रैव लेख्यम्—धूपञ्चारात्रिकं पश्येत् कराभ्यां तं प्रवन्दत इत्यादि । ततश्चारात्रिकवद् धूपस्यापि वन्दनं केचिन् मन्यन्ते ॥३६॥
**अथ दीपनं
तथैट दीपम् उत्सृज्य प्राग्वद् घण्टं च वादयन् ।
पदाब्जाद् अदृग्-अब्जान्तं मुद्रयोच्चैः प्रदीपयेत् ॥३७॥
सनातनः-** तथा धूपन-लिखित-प्रकारेणैव प्राग्वद् इति गन्धादि-पूजितां घण्टां वाम-हस्तेन वादयन्न् इत्यर्थः । पादाब्जात् श्री-मूर्तेः पादाब्जम् आरभ्य आदृगब्जं नेत्राब्ज-पर्यन्तम् अत एवोच्चैः धूपापेक्षयोच्चतया तस्य दीपस्य मुद्रया प्रकर्षेण दीपयेत् ॥३७॥
**तत्र मन्त्रः **
गौतमीये—
सु-प्रकाशो महा-तेजह् सर्वतस् तिमिरापहः । स-बाह्याभ्यन्तर-ज्योतिर् दीपो’यं प्रतिगृह्यताम् ॥३८॥
**अथ दीपः
दीपं प्रज्वलयेत् शक्तौ कर्पूरेन घृतेन वा ।
गव्येन तत्रासामार्थ्ये तैलेनापि सु-गन्धिना ॥३९॥
सनातनः-** शक्तौ सत्यां गव्येन घृतेन वा; तत्र कर्पूर-घृताभ्यां दीप-प्रज्वालने विषये असामर्थ्य अशक्तौ तु सुगन्धिना तिलादि-जातेन तैलेनापि दीपं प्रज्वालयेत् ॥३९॥
तथा च नारदीय-कल्पे—
स-घृतं गुग्गुलं धूपं दीपं गो-घृत-दीपितम् । समस्त-परिवाराय हरये श्रद्धयार्पयेत् ॥४०॥
भविष्योत्तरे—
घृतेन दीपो दातव्यो राजन् तैलेन वा पुनः ॥४१॥
महाभारते च—
हविषा प्रथमः कल्पो द्वितीयश् चौषधोरसैः ॥४२॥
सनातनः- ओषध्यः तिल-सर्षप-कुसुम्भादयः, तद्-रसैः ॥४२॥
**अथ दीपे निषिद्धं **
भविष्योत्तरे—
वसा-मज्जादिभिर् दीपो न तु देयः कदाचन ॥४३॥
महाभारते—
वसा-मज्जास्थि-निर्यासैर् न कार्यः पुष्टिं इच्छत ॥४४॥
विष्णु-धर्मोत्तरे तृतीय-खण्डे—
नील-रक्त-दशं दीपं प्रयत्नेन विवर्जयेत् ॥४५॥
कालिका-पुराणे—
दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव । वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥४६॥
**अथ दीप-माहात्म्यं **
स्कान्दे ब्रह्म-नारद-संवादे—
प्रज्वाल्य देव-देवस्य कर्पूरेन च दीपकम् । अश्वमेधं अवाप्नोति कुलं चैव समुद्धरेत् ॥४७॥
अत्रैवान्यत्र च—
यो ददाति मही-पाल कृष्णस्याग्रे तु दीपकम् । पातकं तु समुत्सृज्य ज्योती-रूपं लभेत् फलम् ॥४८॥
सनातनः- ज्योतिः प्रकाशः स्वप्रकाशः ब्रह्म वा तद्-रूपं, तद्-अघनम् इत्यर्थः; पदं वैकुण्ठलोकम् ॥४८॥
वाराहे—
दीपं ददाति यो देवि मद्-भक्त्या तु व्यवस्थितः । नात्रान्धत्वं भवेत् तस्य सप्त-जन्मनि सुन्दरि ॥४९॥
सनातनः- व्यवस्थितः स्थिर-चित्तः; अत्र अस्मिन् लोके, सप्त-जन्मानि व्याप्य यद्-अन्धत्वं भाव्यम् अस्ति, तन्न भवेत्; यद्वा, अत्र अस्यां मद्-भक्तौ अन्धत्वं ज्ञान-हीनता न स्यात् । तत्र च सप्त-जन्मानीति केपाप्यपराधेन ज्ञान-हानिः कारणे जातेऽपि जन्म-सप्तकं यावत्; यद्वा, सप्तेति बाहुल्य-मात्रे तात्पर्य, कदापि ज्ञान-हानिर् न स्याद् इत्यर्थः । स्वयम्प्रभेषु स्वप्रकाशेषु ब्रह्म-लोकादिषु श्वेतद्वीपादिषु वा ॥४९॥
यस् तु दद्यात् प्रदीपं मे सर्वतः स्रद्धयान्वितः । स्वयम्-प्रभेषु देशेषु तस्योत्पत्तिर् विधीयते ॥५०॥
हरि-भक्ति-सुधोदये—
दत्तं स्व-ज्योतिषे ज्योतिर् यद् विस्तारयति प्रभाम् । तद्वद् धर्यति सज्-ज्योतिर् दातुः पापतमो’पहं ॥५१॥
सनातनः- सत् उत्तमं, ज्योतिर् ज्ञानम् ॥५१॥
नारसिंहे—
घृतेन वाथ तैलेन दीपं प्रज्वलयेन् नरः । विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु ॥५२॥ विहाय पापं सकलं सहस्रादित्य-स-प्रभः । ज्योतिष्मता विमानेन विष्णु-लोके महीयते ॥५३॥
प्रह्लाद-संहितायां
च तुलसी-पवकेनैव दीपं यः कुरुते हरेः । दीप-लक्ष-सहस्राणां पुण्यं भवति दैत्यज ॥५४॥ इति ।
सनातनः- तुलसी-पावकेन तुलसी-काष्ठाग्निना ॥५४॥
पश्चाद् दीपं च तं भक्त्या मूर्ध्ना वन्देत वैष्णवः ।
धूपस्येवेक्षणात् तस्य लभन्ते’न्ये’पि तत् फलम् ॥५५॥
सनातनः- धूपस्येवेति—यथा धूपस्येक्षणात् दर्शनात् धूप-दानादि-फलम् अन्येऽपि लभन्ते, तथा तस्य दीपस्यापीक्षणाद् दीप-दानादि-फलं दीप-दातुर् इतरेऽपि जनाः प्राप्नुवन्तीत्यर्थः ॥५५॥
केचिच् चानेन दीपेन श्री-मूर्तेर् मूर्ध्नि वैष्णवः ।
नीराजनं इहेच्छन्ति महा-नीराजने यथा ॥५६॥
सनातनः- नीराजनं भ्रामणेन निर्मञ्छनं, महानीराजनं नृत्य-गीतानन्तरं पूजाशेषे भावि, तस्मिन् यथा मूर्धनि नीराजनं क्रियते, तथा इह धूपानन्तर-दीपार्पणेऽपीच्छन्ति मन्यन्त इत्यर्थः ॥५६॥
तथा च रामार्चन-चन्द्रिकायां धूपानन्तरं दीप-प्रसङ्गे—
आरात्रिकं तु विषम-बहु-वर्ति-समन्वितम् । अभ्यर्च्य रामचन्द्राय वाम-मध्यम् अथार्पयेत् ॥५७॥ नमो दीपेश्वरायेति दद्यात् पुष्पाञ्जलिं ततः । अवधूप्याभ्यर्च्य वाद्यैर् मूर्ध्नि नीराजयेत् प्रभुम् ॥५८॥ इति ।
सनातनः- विषमाभिः अयुग्माभिर् बहुभिर् वर्तिभिः समन्वितम् आरात्रिक नीराजन-दीपम्, अभ्यर्च्य पुष्पादिना पूजयित्वा अर्पण-प्रकारमेवाह—नम इति । अवधूप्य भ्रामयित्वा, वाद्यैः प्रभुम् एवाभ्यर्च्य ॥५७-५८॥
अत एवेष्यते तस्य कराभ्यां वन्दनं च तैः ।
नाम चारात्रिकेत्य् आदि वर्त्यो’पि बहुलाः समाः ॥५९॥
सनातनः- अतो महा-नीराजनवद्-वयवहाराद् एव तस्य धूपानन्तरदेयदीपस्य वन्दनम् अपि तैः श्री-रामार्चनादि-परैर् इष्यते । आरात्रिकेति विभक्त्य्-अभावे नाम-स्वरूपमात्र-निर्देशाद् अदोषः । आरात्रिकम् इति—आदि-शब्देन नीराजनम् इति नाम चेष्यते । तथा बहुलाश्च असमाश्चायुग्मा वर्त्योऽपीष्यन्ते, एवं मत-भेदो मन्त्र-देवताभेदेन फल-भेदादिना वोह्यः ॥५९॥
प्रसङ्गाल् लिख्यते’त्रैव श्रीमद्-भगवद्-आलये ।
दीप-दानस्य माहात्म्यं कार्त्तिकीयं च तद् विना ॥६०॥
सनातनः- अत्र धूपानन्तर-दीप-दान-प्रसङ्ग एव, श्रीमतो भागवत आलये यद्-दीपदानं तस्य कार्तिकीयं कार्तिकमास-सम्बन्धि यद्-दीप-दान-माहात्म्यं तद्विना, तस्याग्रे प्रतिमास-पूजा-प्रसङ्ग लेख्यत्वात् ॥६०॥
अथ श्री-भगवद्-आलये दीप-प्रदान-माहात्म्यम्
विष्णु-धर्मोत्तरे प्रथम-काण्डे [१.१६६.१७फ़्फ़्, मिxएद् उप्]—
दीप-दानात् परं दानं न भूतं न भविष्यति । केशवायतने कृत्वा दीप-वृक्षा-मनोहरम् । अतीव भ्राजते लक्ष्म्या दिवम् आसाद्य सर्वतः ॥६१॥ दीप-मालां प्रयच्छन्ति ये नराः शार्ङ्गिणो गृहे । भवन्ति ते चन्द्र-समाः स्वर्गम् आसाद्य मानवाः ॥६२॥ दीपागारं नरः कृत्वा कूतागार-निभं शुभम् । केशवालयम् आसाद्य लोके भाति स शक्रवत् ॥६३॥ यथोज्ज्वलो भवेद् दीपः सम्प्रदातापि यादव । तथा नित्योज्ज्वलो लोके नाकपृष्ठे विराजते ॥६४॥ स-दीपे च यथा देसे चक्षूंसि फलवन्ति च । तथा दीपस्य दतरो भवन्ति स-फलेक्षनः ॥६५॥ एकादश्यां च द्वादश्यां प्रति-पक्षं तु यो नरः । दीपं ददाति कृष्णाय तस्य पुण्य-फलं शृणु ॥६६॥ सुवर्ण-मणि-मुक्ताढ्यम् मनोज्ञम् अति-सुन्दरम् । दीप-माला-कुलं दिव्यं विमानम् अधिरोहति ॥६७॥
सनातनः- केशवालयमासाद्य दीपागारं कृत्वेति सम्बन्धः । कूटागारं मञ्जु-गृहं तत्-सदृशम्, एवं निर दीप-दान-माहात्म्यम् उक्तम्, काल-विशेषेऽपि फल-विशेषम् आह—एकादश्याम् इति द्वाभ्याम् ॥६३-६७॥
पद्म-सुत्रोद्भवं वर्त्ति गन्ध-तैलेन दीपकान् । विरोगः सुभगश् चैव दत्त्वा भवति मानवः ॥६८॥ दीप-दनं महा-पुण्यम् अन्य-देवेष्व् अपि ध्रुवम् । किं पुनर् वासुदेवस्यानन्तस्य तु महात्मनः ॥६९॥
सनातनः- अधुना सर्वेष्वेव दीपेषु वर्त्यादि-माहात्म्यम् आह—पद्मेति । एवं तत्-तत्-कामिनां सुख-प्रवृत्तये तत्-तत्-फलम् उक्त्वा मुख्यं फलम् आह—दीप-दानम् इति । अनन्तस्येति तद्-दीप-दानस्यापि फलम् अनन्तम् एवेत्यर्थः, श्री-वैकुण्ठ-लोक-प्रापणात् ॥६८-६९॥
तत्रैव तृतीय-खण्डे—
दीपं चक्षुः-प्रदं दद्यात् तथैवोर्ध्व-गति-प्रदम् । ऊर्ध्वं यथा दीप-शिखा दाता चोर्ध्व-गतिस् तथा ॥७०॥ यावद् अक्षि-निमेषाणि दीपो देवालये ज्वलेत् । तावद् वर्ष-सहस्राणि नाक-पृष्ठे महीयते ॥७१॥
सनातनः- नाकस्य स्वर्गस्य पृष्ठे उपरि वैकुण्ठ-लोक इत्यर्थः । द्वितीय-स्कन्धे त्रिलोक-पक्ष-कथने स्वर्गस्य ब्रह्म-लोक-पर्यन्तत्वोक्तेः ॥७१॥
ब्र्हन्-नारदीये वितिहोत्रं प्रति यज्ञध्वजस्य पूर्व-जन्म-वृत्त-कथने—
प्रदीपः स्थापितस् तत्र सुरतार्थं द्विजोत्तम । तेनापि मम दुष्कर्म निह्शेषं क्षयम् अगतम् ॥७२॥
सनातनः- एवं श्री-भगवदालये भगवद् उद्देशेन दीप-दान-फलं लिखितम्, अधुना पाप-कर्मोद्देशेनापि तत्-स्थान-मात्रे दीप-प्रज्ज्वालन-फलं लिखति—प्रदीप इति । तत्र विष्णु-मन्दिरे, शून्यं पूजादिभिर् विष्णोर् मन्दिरं प्राप्तवान् निशि इति तत्र तस्य प्रस्तुतत्वात् । अत्रेयमाख्यायिका—यज्ञ-ध्वजो नाम राजा पूर्व-जन्मनि दुर्जन्मा चण्डालो महा-पापावलीनिरतः, कदाचित् परदारोपभोगार्थं पूजादि-रहितं भगवद्-आलयं गतस् तत्-स्थानं सम्मार्ज्य, दीपं प्रज्ज्वाल्य, पाप-कर्मणा रात्रिं गमयन्, सद्यो रक्षिभिः प्राप्य हतो वैकुण्ठ-लोकं प्राप्तस् तत्र ब्रह्मादि-लोकेषु च विविध-सुख-भोगानुपभुज्यान्ते स्वेच्छया पृथिव्यां भगवद्-भावपरो राजा बभूवेति ॥७२॥
विष्णु-धर्मे च—
विलीयते स्व-हस्ते तु स्व-तन्त्रे सति दीपकः । महा-फलो विष्णु-गृहे न दत्तो नरकाय सः ॥७३॥
नारदीये मोहिनीं प्रति श्री-रुक्माङ्गदोक्तौ—
तिष्ठन्तु बहु-वित्तानि दानार्थं वर-वर्णिनि । हृदयायास-कर्तृणि दीप-दानाद् दिवं व्रजेत् ॥७४॥ तस्याप्य् अभावे सुभगे पर-दीप-प्रबोधनम् । कर्तव्यं भक्ति-भावेन सर्व-दानाधिकश् च यत् ॥७५॥ इति ।
सनातनः- दिवं स्वर्गम् इति कामिन्यास् तस्या मोहिन्यास् तत्रादर-विशेषात् । यद्वा, ऊर्ध्व-लोकम् इत्यर्थः । वैकुण्ठम् इत्य् अनुक्तिस् तु तस्यां तत्-प्रकाशनायोगाद् इति दिक्; यद् यस्मात् परदीपस्य प्रबोधनम् अपि सर्व-दानेभ्योऽधिकम् ॥७४-७५॥
सद कल-विशेषे’पि भक्त्या भगवद्-आलये ।
महा-दीप-प्रदानस्य महिमाप्य् अत्र लिख्याते ॥७६॥
**अथ महादीप-माहात्म्यम् **
विष्णु-धर्मोत्तरे प्रथम-खण्डे—
महावर्त्तिः सदा देया भूमि-पाल महा-फला । कृष्ण-पक्षे विशेषेण तत्रापि स विशेषतः ॥७७॥ अमावस्या च निर्दिष्टा द्वादशी च महाफला । अश्व-युज्याम् अतीतायां कृष्ण-पक्षश् च यो भवेत् ॥७८। अमावस्या तदा पुण्या द्वादशी च विशेषतः । देवस्य दक्षिणे पार्श्वे देया तैल-तुला नृप ॥७९॥ पलाष्टक-युतां राजन् वर्त्ति तत्र च दापयेत् । वाससा तु समग्रेण सोपवासो जितेन्द्रियः ॥८०॥
सनातनः- सदा सर्वस्मिन्नपि दिने, काल-विशेषे अमावस्यादाव् अपि, आश्वयुज्याम् आश्विन-पौर्णमास्यां, पलाष्टकेन युता तैलस्य तुला पलशतम् अष्टोत्तर-शत-पलतैलानीत्यर्थः । दापयेत् दद्यात्, अग्रे दत्त्वेत्युक्तेः । एवमग्रेऽपि समग्रेण अखण्डेन ॥७६-८०॥
महावर्त्ति-द्वयम् इदं सकृद् दत्त्वा महामते । स्वर्-लोकं सु-चिरं भुक्त्वा जायते भू-तले यदा ॥८१॥ तदा भवति लक्ष्मीवान् जय-द्रविण-सम्युतः । राष्ट्रे च जायते स्वस्मिन् देशे च नगरे तथा ॥८२॥ कुले च राज-शार्दूल तत्र स्याद् दीपवत्-प्रभः । प्रत्युज्ज्वलश् च भवति युद्धेषु कलहेषु च ॥८३॥ ख्यातिं याति तथा लोके सद्-गुणानां च सद्-गुणैः । एकम् अप्य् अथ यो दद्याद् अभीष्टतमयोर् द्वयोः ॥८४॥ मनुष्ये सर्वम् आप्नोति यद् उक्तं ते महानघ । स्वर्गे तथात्वम् आप्नोति भोग-काले तु यादव ॥८५॥ समान्यस्य तु दीपस्य राजन् दानं महाफलम् । किं पुनर् महतो दीपस्यात्रेयत्त न विद्यते ॥८६॥
सनातनः- यो दापयेत्, स जायत इत्युत्तरेणान्वयः । दीपवत् प्रभा तमोनाशिनी-द्युतिर् यस्य सः, सद्-गुणानां जनानां मध्ये तथात्वं लक्ष्मीवत्त्वादिकम्, इयत्ता फले परिमितिः ॥८१-८६॥
**अथ सोन-मलिनदि-वस्त्र-वर्त्त्य दीप-दन-निसेधः **
शोणं वादरकं वस्त्रं जीर्णं मलिनम् एव च ।
उपभुक्तं न वा दद्यात् वर्त्तिकार्थं कदाचन ॥८७॥ इति ।
स्वयम् अन्येन वा दत्तं दीपान् न श्री-हरेर् हरेत् ।
निर्वापयेन् न हिंसाच् च शुभं इच्छन् कदाचन ॥८८॥
सनातनः- शुभम् इच्छन् जनः कदापि न हरेत्, नान्यत्र नयेत्, न निर्वापयेत्, न हिंस्याच्च, तैलादिना न वियोजयेत् ॥८८॥
अथ दीप-निर्वापनादि-दोषः
विष्णु-धर्मोत्तरे प्रथम-खण्डे—
दत्त्वा दीपो न हर्तव्यस् तेन कर्म विजानता । निर्वापनं च दीपस्य हिंसनं च विगर्हितम् ॥८९॥ यः कुर्याद् धिंसनं तेन कर्मणा पुष्पितेक्षणः । दीप-हर्ता भवेद् अन्धः कणो निर्वाण-कृद् भवेत् ॥९०॥
सनातनः- तेन हरणे यत् कर्म महापातक-लक्षणं तद्-विजानता जनेन; पुष्पं चक्षू-रोग-विशेषस् तद्-युक्तम् ईक्षणं नेत्र यस्य स भवेत् । तत् पुष्पितेक्षणत्वादिकं च दीप-हिंसन-कर्तुर् नरक-भोगानन्तरं देहान्तरे ज्ञेयम्, अग्रे लेख्य-वचनानुसारात् ॥८९-९०॥
विष्णु-धर्मे च नारकान् प्रति श्री-धर्मराजोक्तौ—
युष्माभिर् यौवनोन्मादम् उदितैर् अविवेकिभिः । द्युतोद्योतय गोविन्द-गेहाद् दीपः पुरा हृतः ॥९१॥
सनातनः- द्यूतस्य उद्द्योताय प्रकाशनाय ॥९१॥
तेनाद्य नरके घोरे क्षुत्-तृष्णा-परिपीडिताः । भवन्ति पतितास् तीव्रे शीत-वात-विदारिताः ॥९२॥
तत्रैव श्री-पुलस्त्योक्तौ च—
तस्माद् आयातने विष्णोर् दद्याद् दीपान् द्विजोत्तम । ताम्श् च दत्त्वा न हिंसेत न च तैल-वियोजितान् ॥९३॥ कुर्वीत दीप-हन्ता च मूको’न्धो जायते मृतः । अन्धे तमसि दुष्परे नरके पच्यते किल ॥९४॥
सनातनः- न हिंसेत, न निर्वापयेत् । मृतः सन् मूकोऽन्धश्च जायते, इह-लोके अन्धे तमसि अन्धतामिस्र-सञ्ज्ञके ॥९३-९४॥
**भूमौ दीप-दन-निसेधः **
कालिका-पुराणे—
दीप-वृक्षश् च कर्तव्यस् तैजासाद्यैश् च भैरव । वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन ॥९५॥
**अथ नैवेद्यं
दत्त्वा पुष्पाञ्जलिं पीठं पद्यम् आचमनं तथा ।
कृत्वा पात्रेषु कृष्णायार्पयेद् भोज्यं यथा-विधि ॥९६॥
सनातनः-** भोज्यं पायसादि-नैवेद्यं पात्रेषु कृत्वा निधायार्पयेत् । यथा-विधीत्यनेन छत्र-चामर-गीत-वाद्याद्य्-उत्सव-पूर्वकं तदा नेतव्यम् इत्यादिकं ज्ञेयम् । अमृतोपस्तरणम् असि स्वाहेति जल-गण्डूषं च देयम् इत्यादिकं लौकिक-व्यवहारानुसारेण ज्ञेयम् । अन्यच्चाग्रे विशेषतो व्यक्तं भावि ॥९६॥
**अथ नैवेद्यर्पन-विधिः
अस्त्रं जप्त्वाम्बुना प्रोक्ष्य नैवेद्यं चक्र-मुद्रया ।
संरक्ष्य प्रोक्षयेद् वायु-बीज-जप्त-जलेन च ॥९७॥
तेन संशोष्य तद्-दोषम् अग्नि-बीजं च दक्षिणे ।
ध्यात्वा कर-तले’न्यत् तत् पृष्ठे संयोज्य दर्श्यते ॥९८॥
तद्-उत्थ-वह्निना तस्य शुष्क-दोषं हृदा दहेत् ।
ततः कर-तले सव्ये’मृत-बीजं विचिन्तयेत् ॥९९॥
सनातनः-** निवेद्यं तदेव अस्त्र-मन्त्रेण जप्ताभिः अद्भिः जलेन प्रोक्ष्य तत् निवेद्यं चक्र-मुद्रया तद्-भ्रामणेन संरक्ष्य, वायु-बीजं यम् इति तेन जप्तं द्वादशवारानभिमन्त्रितं तज्-जलं तेन च प्रोक्षयेत् । तेन प्रोक्षणेन तस्य निवेद्यस्य दोषं संशोष्य सम्यक् शुष्कं कृत्वा दक्षिणे करतले अग्नि-बीजं रम् इति ध्यात्वा सञ्चिन्त्य, अन्यत् वाम-करतलं तस्य दक्षिण-करतलस्य पृष्ठे संयोज्य लग्नं कृत्वा दर्शयेत् । तस्मात् प्रदर्शनाद् उत्थेन जातेन वह्निना तस्य निवेद्यस्य शुष्कं पूर्वमेव शुष्कतां प्राप्तं दोषं दहेत् । ततः करतले सव्य-हस्ते हृदेति मनसा ध्यानेनैव कार्यम् इत्यर्थः । एवमग्रेऽप्यूह्यम् । अमृत-बीजं ठम् इति ॥९७-९९॥
तत्-पृष्ठे दक्षिणं पनि-तलं संयोज्य दर्शयेत् ।
तद्-उत्थया निवेद्यं तत् सिचेद् अमृत-धारया ॥१००॥
सनातनः- तस्य सर्व-करतलस्य पृष्ठे, तस्माद् दर्शनाद् उत्थया अमृत-धारया, ततस् ताल-त्रय-दिग्-बन्धनाभ्यां संरक्ष्य कवचेनावगुण्ठयेद् इति विधिः सत्-सम्प्रदायाद् विज्ञेयः, यथा-विधीति प्राग्-लिखनात् । एवम् अन्यत्रापि बोद्धव्यम् ॥१००॥
जलेन मूल-जप्तेन प्रोक्ष्य तच् चामृतात्मकम् ।
सर्वं विचिन्त्य संस्पृश्य मूलं वाराष्टकं जपेत् ॥१०१॥
सनातनः- तन्-निवेद्यं च मूल-मन्त्र-जप्तेन जलेन प्रोक्ष्य सर्वं तच्च अमृतात्मकं सुधामयं विचिन्त्य संस्पृश्य तदेव दक्षिण-हस्तेनाभिस्पृश्य ॥१०१॥
अमृती-कृत्य तद् धेनु-मुद्रया सलिलादिभिः ।
तच् च कृष्णं च सम्पूज्य गृहित्वा कुसुमाञ्जलिम् ॥१०२॥
श्री-कृष्णं प्रार्थ्य तद्-वक्त्रात् तेजो ध्यात्वा विनिर्गतम् ।
संयोज्य च निवेद्यैतत् पत्रं वामेन संस्पृशन् ॥१०३॥
दक्षेण पाणिनादाय गन्ध-पुष्पान्वितं जलम् ।
स्वाहान्तं मूलम् उच्चार्य तज्-जलं विसृजेद् भुवि ॥१०४॥
सनातनः- तत् निवेद्यं धेनु-मुद्रया अमृती-कृत्य परिपूर्णं विचिन्त्य, तत् निवेद्यञ्च सलिलादिभिः जल-गन्ध-पुष्पैः सम्पूज्य, कृष्णञ्च कृष्णाय नमः इति तैरेव सम्पूज्य, कुसुमाञ्जलिं गृहीत्वेत्यस्य परेणान्वयः । श्री-कृष्णं प्रार्थ्य भगवन्-नैवेद्य-ग्रहणाय श्री-मुखतस्ते महः प्रसरत्व् इत्यभ्यर्च्य, तस्य श्री-कृष्णस्य वक्त्रात् तेजो महः विनिर्गतं ध्यात्वा निवेद्य तदेव संयोज्य तेन सह संयुक्तं ध्यात्वेत्यर्थः । तस्य निवेद्यस्य पात्रं वामेन पाणिना संस्पृशन्, दक्षिणेन पाणिना गन्धादि-सहितं जलमादाय स्वाहान्तमिति स्वाहान्तेऽपि मन्त्रेऽस्मिन् पुनर् अन्ते स्वाहेति प्रयुज्येत्यर्थः । तत् दक्षिण-पाणि-गृहीतं गन्धाद्य्-अन्वितं जलं श्री-कृष्णाय इदं नैवेद्यं कल्पयामीति देव-तीर्थेन भूमौ विसृजेद् इति त्रिभिर् अन्वयः ॥१०२-१०४॥
तत् पाणिभ्यां समुत्थाय निवेद्यं तुलसी-युतम् ।
पत्राढ्यं तस्य मन्त्रेण भक्त्या भागवते’र्पयेत् ॥१०५॥
निवेदन-मन्त्रश् चयं—
निवेदयमि भवते जुसनेदं हविर् हरे ॥१०६॥ इति ।
सनातनः- तुलसी-दल-सम्मिश्रं हरेर् यच्छेच् च सर्वदा (ह्ब्व्। ७.२६५) इत्यादि-वचनतस् तुलसी-साहित्यस्यावश्यकत्वेन तन्निवेद्य पात्र-सहितं तुलसी-युतं च पाणिभ्यां हस्त-द्वयेन धृत्वा समुत्थाप्य, भूमितः समुद्धृत्य वार-त्रयं समुत्थापयन्निति केचित् । तस्य निवेद्यार्पणस्य मन्त्रेण; तत्-तेजसे इति पाठे तस्मै श्री-भगवन्मुख-निर्गताय महसे, तथापि स एवार्थः ॥१०५-१०६॥
अमृतोपस्तरनम् असि स्वाहेत्य् उच्चारयन् हरेः ।
दत्त्वाथ विधिवद् वारि-गण्डूषं वाम-पाणिना ।
दर्शयेद् ग्रास-मुद्रां तु प्रफुल्लोत्पल-सन्निभम् ॥१०७॥
सनातनः- अथानन्तरं विधिवद् यथा स्यात्, एतच्चाग्रेऽपि सर्वत्रानुवर्त्यम् । ततश्च अमृतोपस्तरणमसि इति देवहस्ते जल-गण्डूषं दत्वेति ज्ञेयम् ॥१०७॥
प्राणादि-मुद्रा-हस्तेन दक्षिणेन तु दर्शयेत् ।
मन्त्रैश् चतुर्थी-स्वाहान्तैस् ताराद्यैस् तत्-तद्-आह्वयैः ॥१०८॥
सनातनः- दक्षिण-हस्तेन तु प्राणादि-मुद्राः पञ्च, मन्त्रैः पञ्चभिः क्रमेण दर्शयेत् । आदि-शब्देन अपान-व्यानोदान-समानाः । मन्त्रानेव लिखति—तस्य तस्य प्राणादेर् आह्वयैर् नामभिः; कथम्-भूतैः ? चतुर्थी विभक्तिः, स्वाहा च ते अन्ते येषां तैः, तारः प्रणवः आद्यो येषां तैश्च । प्राणादि-मुद्राश्चोक्ताः क्रम-दीपिकायाम्—
स्पृशेत् कनिष्ठोपकनिष्ठिके द्वे, स्वाङ्गुष्ठमूर्ध्ना प्रथमेह मुद्रा । तथापरा तर्जनि-मध्यमे स्याद् अनामिकामध्यमिके च मध्या ॥ अनामिका-तर्जनि-मध्यमाः स्यात् तद्वच्-चतुर्थी-सकनिष्ठिकास् ताः । स्यात् पञ्चमी तद्वद् इति प्रतिष्ठा, प्राणादि-मुद्रा इति ।
एतद् अर्थः—कनिष्ठानामिके अङ्गुल्यौ स्वाङ्गुष्ठमूर्ध्ना चेत् स्पृशेत्, तदा आद्या मुद्रा स्यात् । तर्जनी-मध्यमे चेद् अङ्गुष्ठमूर्धाई स्पृशेत्, तदा द्वितीया, एवं अनामिका-मध्यमे चेत् स्पृशेत्, तदा तृतीया; अनामिका-तर्जनी-मध्यमाश् चेत् स्पृशेत्, तदा चतुर्थी; ता अनामिका-तर्जनी-मध्यमाः कनिष्ठा-सहिताश् चेत्, तदा पञ्चमीति । प्रयोगः—ओँ प्राणाय स्वाहा; इत्य् अङ्गुष्ठ-कनिष्ठिकानामिकाभिर् इत्येवम् ऊह्यम् ॥१०८॥
ततः स्पृशम्श् च करयोर् अङ्गुष्ठाभ्याम् अनामिके ।
प्रदर्शयेन् निवेद्यस्य मुद्रां तस्य मनुं जपन् ॥१०९॥
सनातनः- पञ्चाङ्गुल्य्-अग्र-संलग्ना प्रोत्थितोर्ध्वमुखी यदि इत्यादिना पूर्वम् उपचार-गण-मुद्रा-मध्ये लिखिता निवेद्य-मुद्रा । यद्वा, कर-द्वयस्याङ्गुष्ठ-द्वयेनानामिका-द्वय-स्पर्शमेव निवेद्य-मुद्रा, तां प्रदर्शयेत् । किं कुर्वन् ? तस्य निवेद्यस्य मनुं मन्त्रं जपन् ॥१०९॥
मन्त्रश् चायं क्रम-दीपिकायाम् [४.६२] –
नन्दजो’म्बुमनु-बिन्दु-युङ् नतिः पार्श्व-रा-मरुद्-अवात्मने नि च । रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर् मास-पार्श्वम् अनिलस् तथा’मि-युक् ॥११०॥
सनातनः- नन्दजः ठ-कारः, अम्बुमनुः औ-कारः, कस्य चिन्मते व-कारः, तेन बिन्दुना चानुस्वारेण युक्तः; नतिर् नमः-शब्दः, पाश्र्वं प-कारः, रा इति स्वरूप-निर्देशः । मरुद् य-कारः अवात्मने इति स्वरूप-निर्देशः, तथा नि च, रुद्धेति च तच्च पदं ङे-युक्तं रुद्धायेत्यर्थः । निवेद्यम् इति स्वरूपनिर्देशः । आत्मभूः क-कारः, मासं ल-कारः, तद्-युक्तः; पार्श्वं प-कारः, अनिलो य-कारः, अमीति स्वरूप-निर्देशः—ठौं नमः पराय अवात्मनेऽनिरुद्धाय निवेद्य कल्पयामीति ॥११०॥
निवेद्यस्य मनुत्वेन स्वाभीष्टं मनुम् एव ते ।
एकान्तिनो जपन्तस् तु ग्रास-मुद्रां वितन्वते ॥१११॥
न च ध्यायन्ते ते कृष्ण-वक्त्रात् तेजो-विनिर्गमम् ।
मञ्जुल-व्यवहारेण भोजयन्ति हरिं मुदा ॥११२॥
अन्यत्र च–
शाली-भक्तं सु-भक्तं शिशिर-कर-सितं पायसं पूप-सूपम् लेह्यं पेयं सु-चूष्यं सितम् अमृत-फलं घारिकाद्यं सुखाद्यम् । आज्यं प्राज्यं समिज्यं नयन-रुचि-करं वाजिकैल-मरीच- स्वादियः शाकराजि-परिकरम् अमृताहार-जोषं जुषस्व ॥११३॥
सनातनः- सितं शूद्धं, घारिका घीवरेति प्रसिद्धा, तद्-आद्य शोभ-नखाद्यम्, आज्यं घृतं, प्राज्यं घृत-प्रचूर-पक्वम्, समिज्यं परमोत्तमम् इत्यर्थः । श्लोकोऽयं जवनिकान्तर्धानानन्तरं बहिरेव पाठ्य इति ज्ञेयम् । क्रम-दीपिकोक्तानुसारेण आदौ तन्-मुख्य-मन्त्रस्य लिखितत्वात् ॥११३॥
किं च—गरुड-पुराणे—
नैवेद्यं परया भक्त्या घण्टाद्यैर् जय-निस्वनैः । नीराजनैश् च हरये दद्याद् दीपासनं बुधः ॥११४॥
सनातनः- अन्यञ्च नैवेद्यार्पण-विधिं लिखति—नैवेद्यम् इति । दीपं चान्यम् एकं भोजन-काल-पर्यन्त-स्थायिनमासनञ्च दद्यात्; बुधः सदाचार-विशेष-विद्वान् इत्यर्थः ॥११४॥
**अथ नैवेद्य-पत्राणि **
स्कान्दे श्री-ब्रह्म-नारद-संवादे—
नैवेद्य-पात्रं वक्ष्यामि केशवस्य महात्मनः । हैरण्यं रजतं ताम्रं कंस्यं मृन्-मयम् एव च । पलाशं पद्म-पत्रं च पात्रं विष्णोर् अति-प्रियम् ॥११५॥
विष्णु-धर्मोत्तरे—
पत्राणां तु प्रदानेन नरकं च न गच्छति ॥११६॥
**पत्र-परिमनं **
देवी-पुराणे—
षट्-त्रिंशद्-अङ्गुलं पात्रम् उत्तमं परिकीर्तितम् । मध्यमं च त्रिभागोनं कन्यसं द्वादशाङ्गुलम् । वस्व्-अङ्गुल-विहीनं तु न पात्रं कारयेत् क्वचित् ॥११७॥
सनातनः- कन्यसं कनिष्ठं, वसुभिर् अष्टभिर् अङ्गुलिभिर् विहीनं अष्टाङ्गुल-परिमाणतो न्यूनम् इत्यर्थः । क्वचिद् इति स्नानादौ च सर्वत्र न कारयेद् इत्यर्थः ॥११७॥
**अथ भोज्यनि **
एकादश-स्कन्दे (११.२७.३४)—
गुड-पायस-सर्पींषि सष्कुल्यापूप-मोदकान् । संयाव-दधि-सूपाम्श् च नैवेद्यं सति कल्पयेत् ॥११८॥
सनातनः- गुड-शब्देन सर्वे इक्षु-विकारा गृह्यन्ते, तेषां गुडात्मकत्वात्; शष्कुल्यः—तैल-पक्व-विशेषाः, आपूपाः मण्डकादीनां समूहाः, सूपा व्यञ्जनानि; सति विभवे इति शेषः । यद्वा, गुड-पायसादि-नैवेद्ये सति ॥११८॥
किं च—(११.११.४१)—
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥११९॥
सनातनः- यच्चात्मनोऽत्यन्त-प्रियम् इति—लोकेऽनिष्टम् अपि अविहितम् अपि स्वस्य प्रियं चेत् तर्हि दद्याद् इत्यर्थः । अत्र च विहितम् एव, न तु निषिद्धम् इति केचिद् आहुः; अत्यन्त-निषिद्धे च वैष्णवानां स्वत एवाप्रवृत्तेस् तन्न देयम् एवेति, किं तद् अभिव्यञ्जनेन ? ॥११९॥
अष्टम-स्कान्दे— (८.१६.५२)—
नैवेद्यं चाधि-गुणवद् दद्यात् पुरुष-तुष्टि-दम् ॥१२०॥
सनातनः- अधिगुणवत् अधिक-गुण-संयुक्तं, यतः पुरुषस्य भगवतः तुष्टिदम्; यद्वा पुरुषाहार-सम्मितं दद्यात्, न ततो न्यूनम् इत्यर्थः ॥१२०॥
बौधायन-स्मृतौ च—
नाना-विधान्न-पानैश् च भक्षनाद्यैर् मनोहरैः । नैवेद्यं कल्पयेद् विष्णोस् तद्-अभावे च पायसं
केवलं घृत-संयुक्तं ॥१२१॥
सनातनः- केवलम् एकमेव पायसं दद्याद् इत्यर्थः; तच्च घृत-युक्तम् एव, अघृतं चासुरं विदुः इति स्मृतेः ॥१२१॥
वामन-पुराणे—
हविषा संस्कृता ये च यव-गोधूम-शलयः । तिल-मुद्गादयो माषा व्रीहयश् च प्रिया हरेः ॥१२२॥
सनातनः- हविषा गव्य-घृतेन, व्रीहयः यवादिभ्योऽन्ये चणकादयः ॥१२२॥
गारुडे—
अन्नं चतुर्-विधं पुण्यम् गुणाढ्यं चामृतोपमम् । निष्पण्णं स्व-गृहे यद् वा श्रद्धया कल्पयेद् धरेः ॥१२३॥
भविष्ये—
पुष्पं धूपं तथा दीपं नैवेद्यं सु-मनोहरम् । खण्ड-लड्डुक-श्री-वेस्त-कासाराशोक-वर्तिकाः ॥१२४॥ स्वस्तिकोल्लसिक-दुग्ध-तिल-वेष्ट-किलाटिकाः । फलानि चैव पक्वानि नागरङ्गादिकानि च ॥१२५॥ अन्यानि विधिना दत्त्वा भक्ष्याणि विविधानि च । एवम् आदिनि दापयेद् भक्तितो न्र्प ॥१२६॥
सनातनः- श्रीवेष्टं लड्डुकेति प्रसिद्धं, कासारः पैवाकिकादि-घृत-पक्वान्त-निक्षेप्यो मधुर-पक्व-द्रव्य-विशेषः, कसेरुर् इति प्रसिद्धः । आशोक-वर्तिका सेवालड्डु इति प्रसिद्धा, एकम् उर्ध्वा पिष्टमयो रचितः स्वस्तिको मतः; उल्लासिका लपसीति प्रसिद्धा, दुग्धवेष्टः तिलवेष्टश्च, तत्र दुग्धवेष्टः क्षीर-वटकः पूपिका वा; तिलवेष्टः अरसा इति प्रसिद्धः; किलाटिका क्षीर-सारः पटखिरिसेति प्रसिद्धा अन्यानि च फलानि दत्त्वा पश्चाद् भक्ष्याणि दापयेत् इत्यत्र दद्यात् इति वा पाठः ॥१२४-१२६॥
वाराहे—
यस् तु भागवतो देवि अन्नाद् येन तु प्रीणयेत् । प्रीणितस् तिष्ठते’सौ वा बहु-जन्मानि माधवि ॥१२७॥ सर्व-व्रीहि-मयं गृह्यम् शुभं सर्व-रसान्वितम् । मन्त्रेण मे प्रदीयेत न किञ्चिद् अपि संस्पृशेत् ॥१२८॥
सनातनः- अन्नाद्येन अन्नादि-भक्ष्य-पेय-द्रव्येण, गृह्य गृहीत्वा ॥१२७-१२८॥
इङ्गुदि-फल-बिल्वानि बदरामलकानि च । खर्जुराम्श् चासनाम्श् चैव मानवाम्श् च परूषकान् ॥१२९॥
सनातनः- आसनान् चार-बीजानि, मानवान् नारिकेल-फलानि परूषकान् परुषा इति प्रसिद्धान्, एषु पुंस्त्वम् आर्षम् । अग्रे अन्यत्रापि एवं ज्ञेयम् । एवं देश-भेदेन तत्-तन्-नाम-प्रसिद्धेर् अपि भेदात्, तत्-तद्-भाषया लिखितानाम् अपि तत्-तद्-द्रव्याणां सर्व-देशीयानां दुर्ज्ञेयत्वात् तल्-लिखन-प्रयासेनालम् । तत्-तद्-देशवासिभ्य एवापेक्षित-तत्-तद्-विशेषो ज्ञेयः । तथाप्यत्राप्रसिद्धं किञ्चित् श्री-मथुरा-देश-भाषया अभिव्यज्यत इति ॥१२९॥
शालोड्डम्बरिकाम्श् चैव तथा प्लक्ष-फलानि च । पैप्पलं कण्टकीयं च तुम्बुरुं च प्रियङ्गुकम् ॥१३०॥ मरीचं शिंश-पाकं च भल्लातकर-मर्दकम् । द्राक्षां च दाडिमं चैव पिण्ड-खर्जूरम् एव च ॥१३१॥ सौवीरं केलिकं चैव तथा शुभ-फलानि च । पिण्डारक-फलं चैव पुन्नाग-फलम् एव च ॥१३२॥ शमीं चैव कवीरं च खर्जूरक-महाफलम् । कुमुदस्य फलं चैव वहेडक-फलं तथा ॥१३३॥ अजं कर्कोटकं चैव तथा तल-फलानि च । कदम्बः कौमुदं चैव द्वि-विधं स्थल-कञ्जयोः ॥१३४॥ पिण्डिकण्डेति विख्यातं वंश-नीपं ततः परम् । मधु-कण्डेति विख्यातं माहिषं कण्डम् एव च ॥१३५॥ कर-मर्दक-कन्दं च तथा निलोत्पलस्य च । मृणालं पौष्करं चैव शालूकस्य फलं तथा ॥१३६॥ एते चान्ये च बहवः काण्ड-मूल-फलानि च । एतानि चोपयोज्यानि ये मया परिकल्पिताः ॥१३७॥ मूलकस्य ततः शाकम् चिञ्च-शाकं तथैव च । शाकं चैव कलायस्य सर्षपस्य तथैव च ॥१३८॥ वंसकस्य तु शाकं च शाकम् एव कलम्बिकम् । आर्द्रकस्य च शाकं वै पालङ्कं शाकम् एव च ॥१३९॥ अम्बिलोडक-शाकं च काशं कौमारकं तथा । शुक-मण्डल-पत्रं च द्वाव् एव तरु-वानकौ ॥१४०॥ चरस्य चैव शाकं च मधु-कोड्डुम्बरं तथा । एते चान्ये च बहवह् शतशो’थ सहस्रशः । कर्मण्याश् चैव सर्वे वै ये मया परिकीर्तिताः ॥१४१॥ व्रीहीणां च प्रवक्ष्यामि उपयोगाम्श् च माधवि । एक-चित्तं समाधाय तत् सर्वं शृणु सुन्दरि ॥१४२॥ धर्माधार्मिक-रक्तं च सु-गन्धं रक्त-शालिकम् । दीर्घशूकं महाशालिं वर-कुङ्कुम-पत्रकम् ॥१४३॥ ग्राम-शालिं समद्राशाम् स-श्रीशां कुश-शालिकाम् । यवाश् च द्वि-विधा ज्ञेयाः कर्मण्या मम सुन्दरि ॥१४४॥ कर्मण्याश् चैव मुद्गाश् च तिलाः कृष्णाः कुलत्थकाः । गोधूमकं महा-मुद्ग-मुद्गाष्टकम् अवाट-जित् ॥१४५॥ कर्मण्य् एतानि चोक्तानि व्यजनानि प्रियान्वितान् । प्रतिगृह्णाम्य् अहं ह्य् एतान् सर्वान् भागवतान् प्रियान् ॥१४६॥
किं च–
ये मयैवोपयोज्यानि गव्यं दधि पयो घृतम् ॥१४७॥
स्कान्दे च ब्रह्म-नारद-संवादे—
हविः शल्योदनं दिव्यम् आज्य-युक्तं स-शर्करम् । नैवेद्यं देव-देवाय यावकं पायसं तथा ॥१४८॥ नैवेद्यानाम् अभावे तु फलानि विनिवेदयेत् । फलानाम् अप्य् अभावे तु तृण-गुल्मौषधीर् अपि ॥१४९॥ औषधीनाम् अलाभे तु तोयं च विनिवेदयेत् । तद्-अलाभे तु सर्वत्र मानसं प्रवरं स्मृतम् ॥१५०॥
स्कान्दे महेन्द्रं प्रति श्री-नारद-वचनं—
यच्छन्ति तुलसी-शाकं श्रुतं ये माधवाग्रतः । कल्पान्तं विष्णु-लोके तु वसन्ति पितृभिः सह ॥१५१॥
**अथ नैवेद्य-निषिद्धानि **
हारित-स्मृतौ—
नाभक्ष्यं नैवेद्यार्थे भक्ष्येस्व् अप्य् अजा-महिषी-क्षीरं पञ्च-नखा मत्स्याश् च ॥१५२॥
द्वारका-माहात्म्ये—
नीली-क्षेत्रं वापयन्ति मूलकं भक्षयन्ति ये ।
नैवास्ति नरकोत्तारह् कल्प-कोटि-शतैर् अपि ॥१५३॥
वाराहे—
माहिषं चाविकं चाजम् अयज्ञीयम् उदाहृतम् ॥१५४॥
किं च—
माहिषं वर्जयेन् मह्यं क्षीरं दधि घृतं यदि ॥१५५॥
सनातनः- माहिषादिकं दध्यादि ॥१५५॥
विष्णु-धर्मोत्तरे तृतीय-खण्डे—
अभक्ष्यं चप्य् अहृद्यं च नैवेद्यं न निवेदयेत् ।
केश-कीटावपन्नं च तथा चाविहितं च यत् ॥१५६॥
सनातनः- केशकीटैः दूषितमिति—पाकानन्तरं केशकीटेः दूषितत्वं ज्ञेयम् । विष्णु-धर्मोत्तरे च— कीटावपन्नं यन्-निषिद्धं, तच्च केशादि-सहित-पाकाभिप्रायेण । देवद्रोण्यां देवयात्रायां प्रकृतिषु अवश्यकृत्या महोत्तरेषु तन्-मात्रम् इति काकादिभिर् यावत् संस्पृष्टं तावद् एवेत्यर्थः । द्रोणः षट्-पञ्चाशदधिक-पलशत-द्वयम् । लालाकृतं यत्र श्लेष्म-प्रक्षिप्तं तत् । यद्यपि आत्म-भोग्यापेक्षया तद्-उपघात-शोधनं, तत्र तत्रोक्तं, तथाप्यात्मभोग्यं शुद्धं यत् परमेश्वरार्पणेऽपि योग्यं स्याद् इति; किंवा भगवद्-अर्थ-पक्वान्नेऽपि प्रमादादिना कथञ्चित् न दोषः सम्भवेद् इति तत्-तच्-छुद्धिः लिखितेति दिक् । एवम् अन्यत्र, तदप्यूह्यम् ॥१५६॥
मूषिका-लाङ्गुलोपेतम् अवधूतम् अवक्षुतम् ।
उड्डुम्बरं कपित्थं च तथा दन्त-शठं च यत् । एवम् आदीनि देवाय न देयानि कदाचन ॥१५७॥
सनातनः- लाङ्गुलो जन्तु-विशेषः, अवधूतम् अवज्ञया त्यक्तम्, अवक्षुतं यस्योपरि क्षुतं कृतं तत् । दन्त-शठं जम्बीर-फलम् ॥१५७॥
**अथाभक्ष्याणि **
कौर्मे—
वृन्ताकं जालिका-शाकं कुसुम्भाश्मन्तकं तथा । पलाण्डुं लशुनं शुक्लम् निर्यासं चैव वर्जयेत् ॥१५८॥
सनातनः- नाभक्ष्यं नैवेद्यार्थे इति हारीत-स्मृतौ । अभक्ष्यञ्चाप्यहृद्यञ्च इति विष्णु-धर्मोत्तरे चाभक्ष्यार्पणं निषिद्धम् इत्य् अभक्ष्याणि लिखति—वृन्ताकम् इत्यादिना । कुसुम्भशाकं अश्मन्तकञ्च शाक-विशेषं, शुक्लं काञ्जिकं कुकुण्डं फल-विशेषम् ॥१५८॥
गृञ्जनं किंशुकं चैव कुकुण्डं च तथैव च । उडुम्बरम् अलाबुं च जग्ध्वा पतति वै द्विजः ॥१५९॥
वैष्णवे—
भुञ्जीतोद्धृत-साराणि न कदाचिन् नरेश्वर ॥१६०॥
सनातनः- उद्धृत-साराणि पिण्याकादीनि ॥१६०॥
स्कान्दे—
न भक्षयति वृन्ताकं तस्य दूरतरो हरिः ॥१६१॥
किं चान्यत्र—
दोर्भ्यां पाद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा । मनसा वचसा चेति प्रणामो’ष्टाङ्ग ईरितः ॥ १६२ ॥ जानुभ्याम् चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥ १६३ ॥
अत एवोक्तं यामले—
यत्र मद्यं तथा मांसम् तथा वृन्ताक-मूलके । निवेदयेन् नैव तत्र हरेर् ऐकान्तिकी रतिः ॥१६४॥
**अथ नैवेद्यर्पन-माहात्म्यं **
स्कान्दे—
नैवेद्यानि मनोज्ञानि कृष्णस्याग्रे निवेदयेत् । कल्पान्तं तत्-पितॄणं तु तृप्तिर् भवति शाश्वती ॥१६५॥ फलानि यच्छते यो वै सुहृद्यानि नरेश्वर । कल्पान्तं जायते तस्य स-फलं च मनोरथः ॥१६६॥
नारसिंहे—
हविः शाल्योदनं दिय्यम् आज्य-युक्तं स-शर्करम् । निवेद्य नरसिंहाय यावकं पायसं तथा ॥१६७॥ समास् तण्डुल-शङ्ख्याया यावत्यस् तावतीर् नृप ।
विष्णु-लोके महा-भोगन् भुञ्जानस् ते स-वैष्णवाः ॥१६८॥
विष्णु-धर्मोत्तरे—
अन्न-दस् तृप्तिम् आप्नोति स्वर्ग-लोकं च गच्छति । दत्त्वा च संविभागाय तथैवान्नम् अतन्द्रितः । त्रैलोक्य-तर्पिते पुण्यं तत्-क्षनात् समवाप्नुयात् ॥१६९॥
सनातनः- सम्यक् विभागो देवानां यज्ञ-भागो यस्मात्, स संविभागो विष्णुस् तस्मै ॥१६९॥
अक्षय्यम् अन्न-पानं च पितृभ्यश् चोपतिष्ठते । ओदनं व्यजनोपेतम् दत्त्वा स्वर्गम् अवाप्नुयात् ॥१७०॥ परमान्नं तथा दत्त्वा तृप्तिम् आप्नोति शश्वतिम् । विष्णु-लोकम् अवाप्नोति कुलम् उद्धरते तथा ॥१७१॥ घृतौदन-प्रदानेन दीर्घम् आयुर् अवाप्नुयात् । दध्य्-ओदन-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् ॥१७२॥ क्षीरोदन-प्रदानेन दीर्घ-जीवितम् आप्नुयात् । इक्षूणां च प्रदानेन परं सौभाग्यम् अश्नुते ॥१७३॥ रत्नानां चैव भागी स्यात् स्वर्ग-लोकं च गच्छति । फाणितस्य प्रदानेन अग्न्य्-आधान-फलं लभेत् ॥१७४॥ तथा गुड-प्रदानेन कामिताभीष्टम् आप्नुयात् ॥१७५॥
सनातनः- अभीप्सितान् कामान् वाञ्छितानि प्राप्नोतीत्यर्थः । विसर्ग-लोपेऽपि पुनः सन्धिर् आर्षः । पाठान्तरे कामितम् अभीष्टञ्च वाञ्छातीतम् ॥१७५॥
निवेद्येक्षु-रसं भक्त्या परं सौभाग्यम् आप्नुयात् । सर्वान् कामान् अवाप्नोति क्षौद्रं यश् च प्रयच्छति ॥१७६॥
सनातनः- पूर्वम् इक्षणामिति इक्षु-दण्डानाम्, अधुना इक्षूणां रसम् इति भेदः ॥१७६॥
तद् एव तुहितोपेतम् राजसूयम् अवाप्नुयात् । वह्निष्टोमम् अवाप्नोति यवाकस्य निवेदकः । अति-रात्रम् अवाप्नोति तथा पूप-निवेदकः ॥१७७॥ वैदलानां च भक्ष्याणां दानात् कामान् अवाप्नुयात् । दीर्घ-जीवितम् आप्नोति घृत-पूर-निवेदकः ॥१७८॥
सनातनः- वैदलानां मुद्गचणकादि-सूपानाम ॥१७८॥
मोदकानां प्रदानेन कामान् आप्नोत्य् अभीप्सितान् ॥१७९॥ नाना-विधानां भक्ष्याणां दानात् स्वर्गम् अवाप्नुयात् । भोजनीय-प्रदानेन तृप्तिम् आप्नोत्य् अनुत्तमाम् ॥१८०॥
सनातनः- दन्तैर् अवखण्ड्यावखण्ड्य यानि भक्ष्यन्तेऽपूपादीनि तानि भक्ष्याणि; भोजनीयं भोज्यम् ॥१८०॥
तथा लेह्य-प्रदानेन सौभाग्यम् अधिगच्छति । बल-वर्णम् अवाप्नोति चूष्याणां च निवेदने ॥१८१॥
सनातनः- यत् केवलं जिह्वया विलोड्य निगीर्यते पायसादि, यच्च जिह्वायां निक्षिप्य रसास्वादेन निगीर्यते द्रवीभूतं गुडादि तल्-लेह्यम्; यानि दंष्ट्राभिर् निष्पीड्य सारांशं निगीर्यावशिष्टं त्यज्यते, यथेक्षु-दण्डादीनि तानि चूष्याणि ॥१८१॥
कुल्माषोल्लासिक-दाता वह्न्य्-आधेयं फलं लभेत् । तथा कृषार-दानेन वह्निष्टोमम् अवाप्नुयात् ॥१८२॥
सनातनः- कुल्माषाः किञ्चित् स्विन्नमाषाः, उल्लासिका लपसीति प्रसिद्धा ॥१८२॥
धनानां क्षौद्र-युक्तानां लाजानां च निवेदकः । मुख्यं चैव शक्तूनां वह्निष्टोमम् अवाप्नुयात् ॥१८३॥
सनातनः- धानानां भृष्ट-यवानाम् ॥१८३॥
वानप्रस्थाश्रितं पुण्यम् लभेच् छाक-निवेदकः । दत्त्वा हरितकं चैव तद् एव फलम् आप्नुयात् ॥१८४॥
सनातनः- हरितकं हरिद्वर्णकं शाकं, शाक-विशेषं वा ॥१८४॥
दत्त्वा शाकानि रम्याणि विशोकस् त्व् अभिजायते । दत्त्वा च व्यजनार्थाय तथोपकरणानि च ॥१८५॥ सु-कुले लभते जन्म कन्द-मूल-निवेदकः । नीलोत्पल-विदरीणां तरुटस्य तथा द्विजः ॥१८६॥ कन्द-दानाद् अवाप्नोति वानप्रस्थ-फलं शुभम् । त्रपुषेर् वारुकं दत्त्वा पुण्डरीक-फलं लभेत् ॥१८७॥ कर्कन्धु-वदरे दत्त्वा तथा पारैवतं कलम् । परूषकं तथाभ्रं च पनसं नारिकेलकम् ॥१८८॥ भव्यं मोचं तथा चोचम् खर्जूरम् अथ दाडिमम् । आम्रातक-स्रुवाम्लोट-फल-मान-प्रियालकम् ॥१८९॥ जम्बू-बिल्वामलं चैव जात्यं वीणातकं तथा । नारङ्ग-बीज-पूरे च बीज-फल्गु-फलन्य् अपि ॥१९०॥
सनातनः- तरुटं पद्म-बीजं, तस्य कन्दो विसं, त्रपुषं सुखाशं, इवारुकं कर्कटी-फलं, बदरं, क्षुद्र-बदरं, पारैवतं तिन्दुकाकृति फलं, पक्वं सद्धवललोहितं मधुराम्लञ्च द्विधा काम-रूप-देशे प्रसिद्धम्, भव्यं कर्म-रङ्ग-फलम्, मोचं कदली-फलं, चोचं काश्मीर-देशोद्भवं गुडत्वच-फलं, नारिकेल-फल-विशेषं वा, स्रुवा काँठाल इति प्रसिद्धा, अम्लोटः साहुलीति प्रसिद्धः, फल-मानः बीज-पूर-भेदः, जात्यं जाती-फलं, वीणातकं खण्ड-गुडम् इति द्रव्य-गुण-टीकायां लिखितम् । वाज-फलं क्षीरिका-फल्गु-फलानि गोष्ठोडुम्बरिका-फलानि ॥१८६-१९०॥
एवम् आदीनि दिव्यनि यः फलानि प्रयच्छति । तथा कन्दानि मुख्यानि देव-देवाय भक्तितः ॥१९१॥ क्रिया-साफल्यम् आप्नोति स्वर्ग-लोकं तथैव च । प्राप्नोति फलम् आरोग्यम् मृद्वीकानां निवेदकः ॥१९२॥ रसान् मुख्यान् अवाप्नोति सौभाग्यम् अपि चोत्तमम् । आम्रैर् अभ्यर्च्य देवेशम् अश्वमेध-फलं लभेत् ॥१९३॥
किं च—
मोचकं पनसं जम्बू तथान्यत् कुम्भालि-फलम् । प्राचीनामलकं श्रेष्ठं मधुकोड्डुम्बरस्य च । यत्न-पक्वम् अपि ग्राह्यं कदली-फलम् उत्तमम् ॥१९४॥
सनातनः- मृद्वीका द्राक्षा, कुम्भली-फलं कारभतीति प्रसिद्धं, प्राचीनामलकं पाणिपावेति प्रसिद्धम् ॥१९२-१९४॥
हरि-भक्ति-सुधोदये च—
यत् किञ्चिद् अल्पं नैवेद्यम् भक्त-भक्ति-रस-प्लुतम् । प्रतिभोजयति श्रीशस् तद्-दातॄन् स्व-सुखं द्रुतम् इति ॥१९५॥ ततः प्राग्वद् विचित्राणि पनकान्य् उत्तमानि च । सु-गन्धि शीतलं स्वच्छं जलम् अप्य् अर्पयेत् ततः ॥१९६॥
सनातनः- ततः नैवेद्यार्पणानन्तरं, प्राग्वदिति नैवेद्यार्पणवत् इत्यर्थः । विचित्राणि विविधानि ॥१९६॥
**अथ पनकानि, तन्-माहात्म्यं च **
विष्णु-धर्मोत्तरे—
पानकानि सु-गन्धीनि शीतलानि विशेषतः । निवेद्य देव-देवाय वाजिमेधम् अवाप्नुयात् ॥१९७॥ त्वगेला-नाग-कुसुम-कर्पूर-सित-संयुतैः । सिता-क्षौद्र-गुडोपेतैर् गन्ध-वर्ण-गुणान्वितैः ॥१९८॥
सनातनः- सितम्—दधि-बीजपूरकादि-फल-रस-निर्मितम् इत्यर्थः ॥१९८॥
बीज-पूरक-नारङ्ग-सहकार-समन्वितैः । राजसूयम् अवाप्नोति पनकैर् विनिवेदितैः ॥१९९॥ निवेद्य नारिकेलाम्बु-वह्निष्टोम-फलं लभेत् । सर्व-काम-वहा नद्यो नित्यं यत्र मनोरमाः । तत्र पान-प्रदा यान्ति यत्र रामा गुणान्विताः ॥२००॥ इति ।
सनातनः- नित्यम् इत्यनेन श्री-वैकुण्ठ-लोकम् अभिप्रेति ॥२००॥
इत्थं समर्प्य नैवेद्यम् दत्त्वा जवनिकं ततः ।
बहिर्-भूय यथा-सक्ति जपं सन्ध्यानम् आचरेत् ॥२०१॥
सनातनः- जवनिकां तिरस्करणीम् ॥२०१॥
**अथ ध्यानम् **
ब्रह्मेशाद्यैः परित ऋषिभिः सूपविष्टैः समेतो लक्ष्म्या शिञ्जद्-वलय-करया सादरं वीज्यमन । मर्म-क्रीड-प्रहसित-मुखो हासयन् पङ्क्ति-भोक्तॄन् भुङ्क्ते पात्रे कनक-घटिते षड्-रसं श्री-रमेशः ॥२०२॥ इति ।
एकन्तिभिश् चात्म-कृतं स-वयस्यस्य गोकुले ।
यशोदा-लाल्यमानस्य ध्येयं कृष्णस्य भोजनम् ॥२०३॥
**अथ होमः
नित्यं चावश्यकं होमं कुर्यात् शक्त्य्-अनुसारतः ।
होमाशक्तौ तु कुर्वीत जपं तस्य चतुर्-गुणम् ॥२०४॥
सनातनः-** शक्त्य्-अनुसारत इति—शक्तौ अष्टोत्तरं सहस्रम्, अशक्तौ च शतम् इति ज्ञेयम्, तस्य होमस्य ॥२०४॥
के’प्य् एवं मन्वते’वश्यम् नित्य-होमं सदाचरेत् ।
पुरश्चरन-होमस्याशक्तौ हि स विधिर् मतः ॥२०५॥
सनातनः- किं मन्वते ? तल्-लिखति-अवश्यम् इत्यादिना । पुरश्चरणे कर्मणि यो होमस् तस्मिन्न् अशक्ताव् इव, स जप-चतुर्-गुण-होम-करण-रूपो विधिः ॥२०५॥
पूर्वं दीक्षा-विधौ होम-विधिश् च लिखितः कियान् ।
तद्-विस्तारश् च विज्ञेयस् तत्-तच्-छास्त्रात् तद्-इच्छुभिः ॥२०६॥
समाप्तिं भोजने ध्यात्वा दत्त्वा गण्डूषिकं जलम् ।
अमृतापिधानम् असि स्वाहेत्य् उच्चारयेत् सुधीः ॥२०७॥
सनातनः- अमृतापिधानम् असीति जल-गण्डूषं दत्त्वेति ज्ञेयम् ॥२०७॥
विसृजेद् देव-वक्त्रे तत् तेजः संहार-मुद्रया ।
नैकन्ती तेजसः कुर्यान् निष्क्रान्तिं इव सङ्क्रमम् ॥२०८॥
**अथ बलि-दानम्
ततो जवनिका विद्वान् अपसार्य यथाविधि ।
विष्वक्सेनाय भगवन्-नैवेद्यांशं निवेदयेत् ॥२०९॥**
तथा च पञ्चरात्रे श्री-नारद-वचनम्—
विश्वक्सेनाय दातव्यं नैवेद्यं तच्-छतांशकम् । पादोदकं प्रसादं च लिङ्गे चण्डेश्वराय च ॥२१०॥
सनातनः- तत् नैवेद्य-ग्रहणाय विनिर्गतं यत्, शतांशकम् इति नैवेद्यस्य शतांशानाम् एकम् अंशम् इत्यर्थः । एवं सहस्रांशम् अपि, लिङ्गे चेत् श्री-शिव-पूजा क्रियते, तदा चण्डेश्वराय तद्-गणाध्यक्षाय तन्-नैवेद्यादिकं दातव्यम् इत्यर्थः । एतच्च दृष्टान्तत्वेनोदाहरणं ज्ञेयम् ॥२१०॥
**तद्-विधिः
मुख्याद् ईसानतः पात्रान् नैवेद्यांशं समुद्धरेत् ।
सर्व-देव-स्वरुपाय पराय परमेष्ठिने ॥२११॥
श्री-कृष्ण-सेव-युक्ताय विष्वक्सेनाय ते नमः ।
इत्य् उक्त्वा श्री-हरेर् वामे तीर्थ-क्लिन्नं समर्पयेत् ॥२१२॥
सनातनः-** ईशानत इति ईशान-कोणे मण्डलिकां कृत्वा स्थापितत्वात् । तीर्थं श्री-चरणोदकं, तेन क्लिन्नम् आर्द्रम् ॥२११-२१२॥
सतंसं वा सहस्रांशम् अन्यथा निष्फलं भवेत् ॥२१३॥
पश्चाच् च बलिर् इत्य् आदि श्लोकाव् उच्चार्य वैष्णवः ।
सर्वेभ्यो वैष्णवेभ्यस् तच्-छतांसं विनिवेदयेत् ॥२१४॥
सनातनः- किञ्च पश्चाच्चेति, तस्य नैवेद्यस्य शतांशं शतांशानाम् एकांशं सर्वेभ्यो वैष्णवेभ्यो नमः इति विधिना निवेदयेत् । अत्र च विष्वक्सेनाय वा बलि-प्रभृतिभ्यो वा दद्याद् इत्येवं विकल्पं केचिद् इच्छन्ति, तच्चायुक्तम् एव, अवश्यं विष्वक्सेनाय देयत्वात् ॥२१४॥
तौ च श्लोकौ –
बलिर् विभीषणो भीष्मः कपिलो नारदो’र्जुनः । प्रह्लादश् चाम्बरीषश् च वसुर् वायु-सुतः सिवः ॥२१५॥ विष्वक्सेनोद्धवाक्रूरः सनकाद्याः शुकादयः । श्री-कृष्णस्य प्रसादो’यं सर्वे गृह्णन्तु वैष्णवाः ॥२१६॥
इदं यद्यपि युज्येत दर्पणार्पणतः परम् ।
तथापि भक्त-वात्सल्यात् कृष्णस्यात्रापि सम्भवेत् ॥२१७॥
सनातनः- इदं वैष्णवेभ्यो बलि-दानं, दर्पणस्य अर्पणम् अग्रे लेख्यं; भगवते निवेदनं तस्मात् परमनन्तरमेव युज्येत । अकृताचमनस्योच्छिष्ट-हस्तस्य श्री-भगवतो निविष्टत्वात्, अत्र अस्मिन् समयेऽपि भक्त-वात्सल्यात् सम्भवेत्, अन्यथा तद्-उच्छिष्टस्यात्यन्तपरित्यागेन तस्यैवासन्तोषोत्पत्तेः इति दिक् ॥२१७॥
**अथ बलि-दन-माहात्म्यं **
नारसिंहे—
ततस् तद्-अन्न-शेषेण पार्षदेभ्यः समन्ततः । पुष्पाक्षतैर् विमिश्रेण बलिं यस् तु प्रयच्छति ॥२१८॥ बलिना वैष्णवेनाथ तृप्तः सन्तो दिवौकसः । शान्तिं तस्य प्रयच्छन्ति श्रियम् आरोग्यम् एव च ॥२१९॥
सनातनः- वैष्णवेन विष्णु-सम्बन्धिना, तद्-उच्छिष्ट-महा-प्रसादान्नेन दत्तत्वात्; दिवौकसः पार्षदा एव; यद्वाऽन्येऽपि देवाः ॥२१९॥
**अथ जल-गन्दुसद्य्-अर्पनं
उपलिप्य ततो भूमिं पुनर् गाण्डूषिकं जलम् ।
दद्यात् त्रिर् अग्रे कृष्णस्य ततो’स्मै दन्त-सोधनम् ॥२२०॥
पुनर् आचमनं दत्त्वा श्री-पाण्योः श्री-मुखस्य च ।
मार्जनायांशुकं दत्त्वा सर्वाण्य् अङ्गानि मार्जयेत् ॥२२१॥
परिधाप्य् अपरे वस्त्रे पुनर् दत्त्वासनान्तरम् ।
पद्यम् आचमनीयं च पूर्ववत् पुनर् अर्पयेत् ॥२२२॥
चन्दनागुरु-चूर्णादि प्रदद्यात् कर-मार्जनम् ।
कर्पूरद्य्-आस्य-वासं च ताम्बूलं तुलसीम् अपि ॥२२३॥
सनातनः-** भूमिम् उपलिप्येत, तद् यद्यपि सदाचारानुसारेण श्री-हस्तादि-मार्जनानन्तरम् एवोपयुज्यते, तथापि क्रम-दीपिकोक्तापेक्षयाऽत्र लिखितम् । गाण्डूषिकं गण्डूषार्थं जलं, कृष्णस्याग्रे पुरतः भगवन् नाचामेति ब्रुवन् वार-त्रयं दद्यात् । तद्-अनन्तरं अस्मै कृष्णाय दन्त-शोधनं सूक्ष्म-तृण-विशेषाग्रादिकं दद्यात् । आचमनम् इति आचमनार्थं वारिधारात्रयं पुनर् दत्त्वेति ज्ञेयम् । करस्य मार्जनं शोधनं गन्धापनयनकरम् इत्यर्थः । आस्यवासं मुखवासं कर्पूर-लवङ्गादि, तुलसीम् अपि दद्याद् इति भोजनानन्तरं विष्णोर् अर्पितं तुलसी-दलम् इत्य् अतोऽग्रलेख्य-तन्-माहात्म्य-प्रतिपादक-पञ्चरात्र-वचनात् ॥२२०-२२३॥
**अथ मुख-वसदि-माहात्म्यं **
विष्णु-धर्मोत्तरे त्र्तीय-खण्डे—
पूग-जाति-फलं दत्त्वा जाति-पत्रं तथैव च । लवङ्ग-फल-कक्कोल-मेल-कत-फलं तथा ॥२२४॥ ताम्बूलीनां किशलयं स्वर्ग-लोकम् अवाप्नुयात् ।
सौभाग्यम् अतुलं लोके तथा रूपम् अनुत्तमम् ॥२२५॥
स्कान्दे—
ताम्बूलं च स-कर्पूरम् स-पूगं नर-नायक । कृष्णाय यच्छति प्रीत्या तस्य तुष्टो हरिः सदा ॥२२६॥
**अथ पुनर् गन्धर्पनं
दिव्यं गन्धं पुनर् दत्त्वा यथेष्टम् अनुलेपनैः ।
दिव्यैर् विचित्रैः श्री-कृष्णम् भक्ति-च्छेदेन लेपयेत् ॥२२७॥
रम्याणि चोर्ध्व-पुण्ड्राणि सद्-वर्णेन यथास्पदम् ।
सु-गन्धिनानुलेपेन कृष्णस्य रचयेत्तराम् ॥२२८॥
सनातनः-** यथेष्टं भगवतः स्वस्य वा रुच्य्-अनुसारेण, भक्ति-च्छेदः पत्र-भङ्गयादि-निर्माण-प्रकार-विशेषस् तेन, पूर्वं भूषणानन्तरं गन्धार्पणं लिखितं भोजनात् प्राग् अनुलेपनस्याल्पत्वापेक्षातः, इदानीं च साङ्ग-लेपनाय बाहुल्यापेक्षया भूषण-परिधानात् प्रथमम् एव युक्तम् इति दिक् । सद्-वर्णेनेति—श्री-श्यामसुन्दरोपयुक्त-पीताद्य्-उत्तम-वर्णेनेत्यर्थः । यथास्पदम् इति–ललाटादि-स्थानेष्व् इत्यर्थः । एतच्चाग्र एव व्यक्तम् । रचयेत्तरां परमोत्कृष्टप्रकारेण विरचयेद् इत्यर्थः । सर्वाङ्गानुलेपनेऽपि शोभाविशेषार्थं हृदयादि-स्थाने ऊर्ध्व-पुण्ड्र-विरचनम् इति ज्ञेयम् ॥२२७-२२८॥
तथा चागमे ध्यान-प्रसङ्गे—
ललाटे हृदये कुक्षौ कण्ठे बह्वोश् च पार्श्वयोः । विराजतोर्ध्व-पुण्ड्रेण सौवर्णेन विभूषितम् ॥२२९॥ इति ।
दिव्यानि कञ्चुकोष्णीष-काञ्च्य्-आदीनि पराण्य् अपि ।
वस्त्राणि सु-विचित्राणि श्री-कृष्णं परिधापयेत् ॥२३०॥
सनातनः- सौवर्णेन शोभन-वर्णवतेत्यर्थः । यद्यप्य् एतत् पुनर् गन्धाद्य्-अर्पणेन पूजनं गीत-वाद्यानन्तरमेव तान्त्रिकाणां सम्मतं, तथा च क्रम-दीपिकायाम्—ताम्बूलम् अप्य् अभिसमर्प्य सुवाद्य-नृत्य-गीतैः सुतृप्तम् अभिपूजयतात् पुरैव । गन्धादिभिः सपरिवारम् इति, तथापि गीत-नृत्याद्य्-अर्थं दिव्यानुलेप-वस्त्रालङ्करणादिना महाराज-विभूतिभिश् च विशिष्टस्यैव सभायामागमनं लौकिक-व्यवहारानुसारेण समुपयुक्तम् । शक्तौ च सत्यां पुनरपि गन्धादिना पूजयेद् इति चाग्रे लेख्यम् एवेति दिक् ॥२२९-२३०॥
ततो दिव्य-किरीटादि-भूषणनि यथा-रुचि ।
विचित्र-दिव्य-माल्यानि परिधाप्य विभूषयेत् ॥२३१॥
**अथ महारजोपचरर्पनं
ततश् च चामर-च्छत्र-पादुकादीन् परान् अपि ।
महाराजोपचाराम्श् च दत्त्वादर्शं प्रदर्शयेत् ॥२३२॥
सनातनः-** चामरादीन् उपचारान्, परानन्यान् ध्वज-पताकादीन्, आदर्शं दर्पणम् ॥२३२॥
विष्णु-धर्मोत्तरे—
यथादेशं यथा-कलं राज-लिङ्गं सुरालये । दत्त्वा भवति राजैव नात्र कार्या विचारणा ॥२३३॥
**तत्र चामर-माहात्म्यं
तथा चामर-दानेन श्रीमान् भवति भू-तले ।
मुच्यते च तथा पापैः स्वर्ग-लोकं च गच्छति ॥२३४॥**
**छत्रस्य माहात्म्यं **
तत्रैव—
छत्रं बहु-शलाकं च झल्लरी-वस्त्र-संयुतम् । दिव्य-वस्त्रैश् च संयुक्तं हेम-दण्ड-समन्वितम् ॥२३५॥
सनातनः- झल्लरी-वस्त्रं सूचिकर्मादि-विनिर्मित-विलम्बमानाङ्ग-विशेषस् तद्-युक्तम् ॥२३५॥
यः प्रयच्छति कृष्णस्य छत्र-लक्ष-युतैर् वृतः । प्रार्थ्यते सो’मरैः सर्वैः क्रीडते पितृभिः सह ॥२३६॥
तत्रैव वान्यत्र—
राजा भवति लोके’स्मिन् छत्रं दत्त्वा द्विजोत्तमः । नाप्नोति रिपुजं दुःखं सङ्ग्रामे रिपु-जिद् भयेत् ॥२३७॥ उपानत्-सम्प्रदानेन विमानम् अधिरोहति । यथेष्टं तेन लोकेषु विचरत्य् अमर-प्रभः ॥२३८॥
सनातनः- पादुकाया माहात्म्यञ्च पूर्वं श्री-मुख-प्रक्षालनानन्तरं तत्-समर्पणे लिखितम् एवास्ति ॥२३८॥
**ध्वजस्य माहात्म्यं **
तत्रैव—
लोकेषु ध्वज-भूतः स्याद् दत्त्वा विष्णोर् वरं ध्वजम् । शक्र-लोकम् अवाप्नोति बहून् अब्द-गणान् नरः ॥२३९॥
किं च—
युक्तं पीत-पताकाभिर् निवेद्य गरुड-ध्वजम् । केशवाय द्विज-श्रेष्ठः सर्व-लोके महीयते इति ॥२४०॥ यत्-प्रसादे ध्वजारोप-माहात्म्यं लिखितं पुरा । तद् अत्राप्य् अखिलं ज्ञेयं तत्रात्रत्यं इदं तथा ॥२४१॥
सनातनः- ध्वज-भूतः सर्वश्रेष्ठ इत्यर्थः । गरुड-ध्वजं गरुडाकारध्वज, कृत्रिम-गरुडयुक्तं वा ध्वजं, तन्-माहात्म्यं तत्र ध्वजार्पणेऽपि सर्वं ज्ञेयम् । तथा अत्रत्यं ध्वजार्पण-सम्बन्धि इदं लिखितं च माहात्म्यं तत्र ध्वजारोपणे ज्ञेयं, द्वयोः साम्याद् इत्यर्थः ॥२३६-२४१॥
किं च भविष्ये—
विष्णोर् ध्वजे तु सौवर्णम् दण्डं कुर्याद् विचक्षणः । पताका चापि पीता स्याद् गरुडस्य समीप-गा ॥२४२॥
**व्यजनस्य माहात्म्यं **
विष्णु-धर्मोत्तरे—
तल-व्र्ण्त-प्रदानेन निर्वृतिं प्राप्नुयात् परम् ॥२४३॥
**वितनस्य माहात्म्यं **
तत्रैव—
वितानक-प्रदानेन सर्व-पापैः प्रमुच्यते । परं निर्वृतिम् आप्नोति यत्र तत्राभिजायते ॥२४४॥
**खद्गदीनां माहात्म्यं
दत्त्वा निस्त्रिंशकान् मुख्यान् शत्रुभिर् नाभिभूयते ।
दत्त्वा तद्-बन्धनं मुख्यम् अग्न्य्-आधेय-फलं लभेत् ॥२४५॥
सनातनः-** मुख्यान् श्रेष्ठान्; तेषां वन्दनं कोषम् ॥२४५॥
किं च—
पतद्-ग्रहं तथा दत्त्वा शुभदस् त्व् अभिजायते । पाद-पीठ-प्रदानेन स्थानं सर्वत्र विन्दति ॥२४६॥ दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत् । मार्जयित्वा तथा तं च शुभगस् त्व् अभिजायते ॥२४७॥
सनातनः- तं दर्पणं, मार्जयित्वा निर्मलीकृत्य ॥२४७॥
यत् किञ्चिद् देव-देवाय दद्याद् भक्ति-समन्वितः । तद् एवाक्षयम् आप्नोति स्वर्ग-लोकं स गच्छति ॥२४८॥
किं च, वामन-पुराणे श्री-बलिं प्रति श्री-प्रह्लादोक्तौ—
श्रद्दधानैर् भक्ति-परैर् यान्य् उद्दिश्य जनार्दनम् । बलि-दानानि दीयन्ते अक्षयानि विदुर् बुधः ॥२४९॥
सनातनः- एवं विविधं सकामस्यावान्तर-फलं लिखित्वा मुख्य-फलं लिखति—श्रद्दधानैर् इति । दानानि देयानि अक्षयाणि अक्षय्य-फलानि श्री-वैकुण्ठलोक-प्रापकाणीत्यर्थः ॥२४९॥
अत्रापि केचिद् इच्छन्ति दत्त्वा पुष्पाञ्जलि-त्रयम् ।
पूर्वोक्त दश शङ्खाद्या मुद्राः सन्दर्शयेत् ॥२५०॥ इति ।
सनातनः- अत्र अस्मिन् समयेऽपि ॥२५०॥
**अथ गीत-वद्य-नृत्यनि **
ततो विचित्रैर् ललितैः कारितैर् वा स्वयं कृतैः । गीतैर् वाद्यैश् च नृत्यैश् च श्री-कृष्णं परितोषयेत् ॥२५१॥
सनातनः- ललितैर् मनोहरैः कारितैर् नर्तक्यादि-द्वारा, स्वयमेव कृतैर् वा ॥२५१॥
**अथ तत्र निषिद्धं
नृत्यादि कुर्वतो भक्तान् नोपविष्टो’वलोकयेत् ।
न च तिर्यग् व्रजेत् तत्र तैः सहान्तरयन् प्रभुम् ॥२५२॥
सनातनः-** उपविष्टः सन्नावलोकयेत्, तत्र नृत्यादौ तेषां भगवतश्च मध्ये तिर्यग्-व्रजनेनाच्छादनात्तैः सह प्रभुं भगवन्तं अन्तरयन् विच्छेदयन् न तिर्यग्-व्रजेच्चेत्यर्थः ॥२५२॥
तथा चोक्तं—
नृत्यन्तं वैष्णवं हर्साद् आसीनो यस् तु पश्यति । खञ्जो भवति राजेन्द्र सो’यं जन्मनि जन्मनि ॥२५३॥
सनातनः- हर्षात् प्रेमानन्देन नृत्यन्तं, खञ्जः शतं काणे च खञ्जे चेति न्यायेनासङ्ख्य-दोष-दुष्टो भवतीत्यर्थः ॥२५३॥
किं च—
नृत्यतां गायतां मध्ये भक्तानां केशवस्य च । तान् ऋते यस् तिरो याति तिर्यग्-योनिं स गच्छति ॥२५४॥
सनातनः- तान् नृत्यद्गायद्-भक्तान् ऋते विना तेषां नृत्यादि-परतया तद्-दोषानापत्तेः ॥२५४॥
**अथ गीतदि-माहात्म्यम् **
**अदौ समन्यतः **
नारसिंहे—
गीत-वाद्यादिकं नाट्यम् शङ्ख-तुर्यादि-निस्वनम् । यः कारयति विष्णोस् तु सन्ध्यायां मन्दिरे नरः । सर्व-काले विशेषेण कामगः काम-रूपवान् ॥२५५॥
सनातनः- कारयतीति स्वार्थे इण्, अन्येनापि कारयतीति वा ॥२५५॥
सु-सङ्गीत-विदग्धैश् च सेव्यमानो’प्सरो-गणैः । महार्हेण विमानेन विचित्रेण विराजता । स्वर्गात् स्वर्गम् अनुप्राप्य विष्णु-लोके महीयते ॥२५६॥
सनातनः- स्वर्गात् स्वर्गम् इति बिल-स्वर्गात् भौम-स्वर्गं, भौम-स्वर्गात् दिव्यस्वर्गं, ततो महर्लोकादिकं व्रजन् क्रमेण तत्र तत्र स्वेच्छया सुखभोगान् भूक्त्वेत्यर्थः ॥२५६॥
स्कान्दे विष्णु-नारद-संवादे—
गीतं वाद्यं च नृत्यं च नाट्यं विष्णु-कथां मुने । यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः ॥२५७॥
सनातनः- नाट्यम् अभिनयादि; यद्वा, देशीय-मार्ग-भेदेन नाट्य-नृत्ययोर् भेदः । एवमग्रेऽपि, त्रैलोक्यं ब्रह्मलोक-पर्यन्तं, तद्-उपरि वैकुण्ठलोके सम्यक् स्थितो भवति ॥२५७॥
बृहन्-नारदीये श्री-यम-भगीरथ-संवादे—
देवतायतने यस् तु भक्ति-युक्तः प्रनृत्यति । गीतानि गायत्य् अथवा तत्-फलं शृणु भू-पते ॥२५८॥ गन्धर्व-राजतां गणैर् नृत्याद् रुद्र-गणेशताम् । प्राप्नोत्य् अष्ट-कुलैर् युक्तस् ततः स्यान् मोक्ष-भाङ् नरः ॥२५९॥
सनातनः- मोक्षः संसार-दुःखान् मुक्तिः; मोक्षयतीति श्री-भगवान् वा, तं भजति प्राप्नोतीति तथा सः ॥२५९॥
लिङ्गे श्री-मार्कण्डेयाम्बरीष-संवादे—
विष्णु-क्षेत्रे तु यो विद्वान् कारयेद् भक्ति-संयुतः । गन-नृत्यादिकं चैव विष्ण्व्-आख्यं च कथां तथा ॥२६०॥ जातिं स्मृतिं च मेधां च तथैव परमां स्थितिम् । प्राप्नोति विष्णु-सालोक्यं सत्यम् एतन् नाराधिप ॥२६१॥
अन्यत्र च श्री-भगवद्-उक्तौ—
विसृज्य लज्जां यो’धीते गायते नृत्यते’पि च । कुल-कोटि-समायुक्तो लभते मामकं पदम् ॥२६२॥
सनातनः- विष्ण्वाख्यां वैष्णवीम् इत्यर्थः; यद्वा, विष्णुना सह तत्-कथाया अभेदाभिप्रायेण विष्ण्वाख्याम् इत्युक्तम्; यद्वा, विष्णोर् आख्या नाम-मात्रम् अपि यस्यां तामपि; परमाम् इत्यस्य सर्वैर् एवान्वयः, परमां जातिं जन्मान्तरे इहैव वा साधूनां पूज्यत्वेन, स्थितिं निष्ठां भगवद्-भजनादौ ॥२६०-२६२॥
अत एवोक्तं—
भारते नृत्य-गीते तु कुर्यात् स्वाभाविके’पि वा ।
स्वाभाविकेन भगवान् प्रीणातीत्य् आह शौनकः ॥२६३॥
सनातनः- भारते भरत-मुनि-प्रणीते निज-स्वभाव-सिद्धेऽपि वा, सन्धिर् आर्षः । स्वाभाविकेनापि नृत्य-गीतेन ॥२६३॥
अत एव नारदीये—
विष्णोर् गीतं च नृत्यं च नटानां च विशेषतः । ब्रह्मन् ब्राह्मण-जातीनां कर्तव्यं नित्य-कर्म-वत् ॥२६४॥
सनातनः- विष्णोः विष्ण्वर्थम् इत्यर्थः नटनम् अभिनयनम्; यद्वा, नाटयति नर्तयतीति नटनं नाट्यम् ॥२६४॥
किन्तु स्मृतौ—
गीत-नृत्यानि कुर्वीत देव-द्विजादि-तुष्टये । न जीवनाय युञ्जीत विप्रो पाप-भिया क्वचित् ॥२६५॥
एवं कृष्ण-प्रीणनत्वाद् गीतादेर् नित्यता परा ।
संसिद्धैर् अविशेषेन ज्ञेया सा हरि-वसरे ॥२६६॥
सनातनः- क्वचित् कदाचिदपि जीवनाय निज-वृत्त्यर्थं न युञ्जीत, न कुर्यात्; तत्र हेतुः— पापाद्भिया, तथा सति स्याद् इत्यर्थः । अधुना गीत-नृत्यादि-नित्यत्वं लिखति—एवमिति । परा परमा महोत्सव-दिनेषु चात्यन्त-नित्यमेव तद् इति लिखति—अविशेषेणेति ॥२६५-२६६॥
तथा चोक्तं—
केशवाग्रे नृत्य-गीतं न करोति हरेर् दिने । वह्निना किं न दग्धो’सौ गतः किं न रसातलं ॥२६७॥
सनातनः- हरेर् दिने एकादश्यादाव् अपि ॥२६७॥
**अथ विशेषतो गीतस्य माहात्म्यं **
द्वारका-माहात्म्ये श्री-मर्कन्देयेन्द्रद्युम्न-संवादे—
कृष्णं सन्तोषयेद् यस् तु सु-गीतैर् मधुर-स्वनैः । सर्व-वेद-फलं तस्य जायते नात्र संशयः ॥२६८॥
सनातनः- वेदानां साम-वेदोऽस्मि (श्रीगी। १०.२२) इति भगवद्-विभूतित्वेन तस्य श्रेष्ठयात् सुस्वरगानमयत्वेन भगवत्-तोषणाद् वा, तस्य पाठादिना सर्वतोऽधिकं फलं तज् जायते ॥२६८॥
स्कान्दे श्री-महादेवोक्तौ—
श्रुति-कोटि-समं जप्यं जप-कोटि-समं हविः । हविह्-कोटि-समं गेयं गेयं गेय-समं विदुः ॥२६९॥
सनातनः- हविः नैवेद्यं, गेय-समं निरुपमम् इत्यर्थः ॥२६९॥
कसि-खण्डे विष्णु-दूत-शिवशर्म-संवादे—
यदि गीतं क्वचिद् गीतं श्रीमद्-धरि-हराङ्कितम् । मोक्षं तु तत् फलं प्राहुह् सान्निध्यम् अथवा तयोः ॥२७०॥
सनातनः- मोक्षस्य तुच्छत्वेन पक्षान्तरम् आह—सान्निध्यम् इति । तयोः श्री-हरि-हरयोः ॥२७०॥
विष्णुशर्मे श्री-भगवद्-उक्तौ—
रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि । मयि बुद्धिं समास्थाय गायेथ मम सत्-कथाः ॥२७१॥
सनातनः- रागेण मल्लार-रागादिना; यद्वा विषय-प्रीत्या यद्याकृष्यते, ततश्च गान्धर्वाभिमुखं गीतोत्सुकं यदि स्यात्; यद्वा, गान्धर्वाभिमुखं यदा स्यात् तदा मयि बुद्धिं समास्थाय मनो निवेश्य; यद्वा, इमाः कृष्णस्य गाथा इत्येतावन् मात्रं मनसि कृत्वा, सतीः उत्तमा रास-क्रीडाद्य्-आश्रयाः कथाः; यद्वा, मम ये सन्तः, तेषां कथा गायेथाः तेनैवाखिलान्य-रागोऽपयास्यतीति भावः; यद्वा, परम-भाग्योदितेन तेनैव सर्वं सेत्स्यतीति ॥२७१॥
हरि-भक्ति-सुधोदये
यो गायति सम् अनिशं भुवि भक्ता उच्चैः स द्राण् समस्त-जन-पाप-भिदे’लम् एकः । दीपेस्व् असत्स्व् अपि ननु प्रति-गेहम् अन्तर् ध्वान्तं किम् अत्र विलसत्य् अमले द्यु-नाथे ॥२७२॥
सनातनः- द्राक् सद्य एव समस्त-जनानां सर्व-जीवानां पापस्य भिदे नाशनाय एक एव अलं समर्थः, तदेवार्थान्तरोपन्यासेन द्रढयति—दीपेष्विति ॥२७२॥
यद् आनन्द-कलं गायन् भक्तः पुण्याश्रु वर्षति । तत् सर्व-तीर्थ-सलिल-स्नानं स्व-मल-शोधनं ॥२७३॥
सनातनः- आनन्देन कलो मधुरास्फुट-ध्वनिर् यथा स्यात् तथा गायन् सन् यत् पुण्य-रूपं अश्रु प्रेमाश्रु वर्षति; स्वानम् अपि मल-शोधनम् ॥२७३॥
वाराहे –
ब्राह्मणो वासुदेवार्थं गायमनो’निशं परम् । सम्यक् ताल-प्रयोगेण सन्निपातेन वा पुनः ॥२७४॥ नव वर्ष-सहस्राणि नव वर्ष-शतानि च । कुवेर-भवनं गत्वा मोदते वै यदृच्छया ॥२७५॥ कुवेर-भवनाद् भ्रष्टः स्वच्छन्द-गमनालयः । फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥२७६॥
सनातनः- सन्निपातेन विविध-रागादि-समुच्चयेन । ननु कथं तस्य ततोऽपि भ्रंशः सम्भवेत् ? सत्यं, स्वेच्छयैव परित्यज्यान्यत्र गच्छतीत्य् आह—स्वच्छन्देन गमनमालयश्च निवास-स्थानं यस्य सः । ननु तहि का गतिस् तस्य स्यात् ? तत्राह—मम कर्म-परायणः मद्-भक्तिपरः सन्; फलं तद्-अनुरूपम्; यद्वा, परम-फलत्वेन विख्यातं श्री-वैकुण्ठम्; यद्वा, मत्-सेवापरत्वं फलं प्राप्नोति ॥२७४-२७६॥
नारायणानां विधिना गानं श्रेष्ठतमं स्मृतम् । गानेनाराधितो विष्णुह् स्व-कीर्ति-जन-वर्चसा ददाति । तुष्टः स्थानं स्वं यथास्मै कौशिकया वै ॥२७७॥
सनातनः- नारायणानां नारायणाराधन-कर्मणाम्; यद्वा, नारं जीव-समूहः, तद्-आश्रय-भूतानां कर्मणां मध्य इत्यर्थः । ज्ञानस्य वर्चः प्रभावो यस्मात् तेन; यद्वा, स्वस्य कीर्ति-ज्ञान-वर्चोभिः सहितं द्वन्द्वैक्यम् । कौशिकायेत्यत्र तत्रैवाख्यायिकेयम्— कौशिकनामा विप्रो भगवद्-गीत-प्रभावेण स-शिष्यः स-सेवको गीत-श्रोतृभिः सहितो वैकुण्ठलोकं गतो भगवता बहु-सम्मानितः इति ॥२७७॥
किं च—
एष वो मुनि-शार्दूलः प्रोक्तो गीत-क्रमो मुनेः । ब्राह्मणो वासुदेवाख्यं गायमानो’निशं परम् ॥२७८॥
सनातनः- एष इत्यादिः सूतोक्तिः; मुनेः श्री-नारदस्य गीत-शिक्षा-क्रमः; तद्-आख्यायिका च तत्रैव प्रसिद्धा; यथा—द्वारकायां श्री-रुक्मिणी-सत्यभामादेर् दासीभ्योऽसौ यत्नाद्गान-विद्याम् अशिक्षत इति ॥२७८॥
हरेः सालोक्यम् आप्नोति रुद्र-गानाधिको भवेत् । कर्मणा मनसा वाचा वासुदेव-परायणः । गायन् नृत्यंस् तम् आप्नोति तस्माद् गेयं परं विदुः ॥२७९॥
सनातनः- रुद्रादपि गानेन अधिको विशिष्टो भवेद् इति ॥२७९॥
प्रथम-स्कन्धे श्री-नारदोक्तौ (१.६.३३)—
प्रगायतः स्व-वीर्याणि तीर्थ-पदः प्रिय-श्रवः ।
अहुत इव मे सिघ्रम् दर्शनं याति चेतसि ॥२८०॥
द्वादश-स्कन्धे (१२.१२.४९-५०) श्री-सूतोक्तौ—
मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः । तद् एव सत्यं तद् उहैव मङ्गलं तद् एव पुण्यं भगवद्-गुनोदयम् ॥२८१॥ तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् ।
तद् एव शोकार्णव-शोषणं नॄणां यद् उत्तम-श्लोक-यशो’नुगीयते ॥२८२॥
सनातनः- स्वस्य भगवतो वीर्याणि अद्भुत-चरितानि पूतना-मोक्षादीनि, तीर्थं गङ्गादि, पादात् चरणाब्ज-शौचोदकात् यस्य सः श्री-कृष्णः; किञ्च प्रियं श्रवः कीर्तिर् यस्य सः, अत आहूत इव, आदरेण निमन्त्रित इव; यद्वा, बलाद् आकृष्यानीत इव । एवं पूर्वं चित्तादन्तर्हितो ध्यानादि-प्रयत्नेन यो मया पुनर् हृदि द्रष्टुं न शक्तः, सोऽयं गानात् स्वयमेव सद्यः साक्षादिव चित्ते दृश्यत इति ध्यानादपि तद्-वीर्य-गानस्य माहात्म्यं सूचितम् ॥२८०॥
असतीः असत्यः दृष्टा इत्यर्थः; यतः असतामेव कथास्ताः । यत् यासू, किं तर्हि सत्यम् उत्तमादिकञ्च? तदाह—उत्तमश्लोकस्य श्री-कृष्णस्य यशोऽनगीयत इति यत् तदेव सत्यम् । उह हर्षे प्रसिद्धौ वा, भगवद्-गुणानाम् ऐश्वर्यादीनाम् उदयः गायके श्रोतृ-प्रभृतिषु च प्रकाशे यस्मात् तत्, रम्यं जगत्-सन्तोषदं, रुचिरं श्रवण-रुचिकरं यतो नवं नवं प्रतिक्षण-नूतनम् इत्यर्थः; महानुत्सवो यस्मात् तत् ॥२८१-२८२॥
विष्णु-धर्मोत्तरे—
दत्त्वा च गीतं धर्म-ज्ञा गन्धर्वैः सह मोदते । स्वयं गीतेन सम्पूज्य तस्यैवानुचरो भवेत् ॥२८३॥
पाद्मे श्री-कृष्ण-सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये श्री-पृथु-नारद-संवादे श्री-भगवद्-उक्तौ—
नाहं वसामि वैकुण्ठे न योगि-हृदयेषु वा । मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥२८४॥ तेषां पूजादिकं गन्ध-पद्याद्यैः क्रियते नरैः । तेन प्रीतिं परां यामि न तथा मत्-पूजनात् ॥२८५॥
सनातनः- तेषां मद्-भक्तानाम्, आदि-शब्दाद् अनुगमनादि आद्य-शब्दात् पुष्पान्त-स्तवनादीनि ॥२८५॥
अत एवोक्तं—
कर्माण्य् औपायिकत्वेन ब्राह्मणो’न्य इति स्मृतः । कारिकायाम् अतः प्रोक्तं विप्रो गीतै रमेद् इति ॥२८६॥
सनातनः- कर्मणि भगवद्-आराधन-लक्षणे, औपयिकत्वेन तद्-अयोग्यत्वात्, अन्यः दास इति स्मृतः शास्त्रैः स्मृति-कृद्भिर् वा । कारिकायाम् उपनिषद्-भाग-विशेषे श्लोक-निबद्ध-श्रुत्यादि-व्याख्याग्रन्थे वा ॥२८६॥
अथ नृत्यस्य माहात्म्यं
द्वारका-माहात्म्ये तत्रैव—
यो नृत्यति प्रहृष्टात्मा भावैर् बहु-सुभक्तितः । स निर्दहति पापानि जन्मान्तर-शतेष्व् अपि ॥२८७॥
सनातनः- भावैः शृङ्गारादि-रसैः, विविध-चेष्टाभिर् वा; बहु यथा स्यात् तथा, जन्मान्तर-शतेषु कृतानि करिष्यमाणान्यपि पापानि ॥२८७॥
हरि-भक्ति-सुधोदय—
बहुधोत्सार्यते हर्षाद् विष्णु-भक्तस्य नृत्यतः । पद्भ्यां भूमेर् दिशो’क्षिभ्यां दोर्भ्यां वामङ्गलं दिवः ॥२८८॥
सनातनः- नृत्यतो विष्णु-भक्तस्य पादादिभिः क्रमाद् भूम्यादेर् अमङ्गलम् उत्सार्यते विनश्येत इत्यर्थः ॥२८८॥
वाराहे—
यश् च नृत्यति सुश्रोणि पुराणोक्तं समासतः । त्रिंशद्-वर्ष-सहस्राणि त्रिंशद्-वर्ष-शतानि च । पुष्कर-द्वीपम् आसाद्य मोदते वै यदृच्छया ॥२८९॥
सनातनः- पुराणोक्तं भरतादि-पुरातन-मुन्य्-उक्तं यथा स्यात् तच्-छास्त्रानुसारेणेत्यर्थः । समासतः सङ्क्षेपेणापि यो नृत्यति; यद्वा, समासतः पुराणोक्तं तस्य फलम् इदम् इति शेषः । तदेवाह—त्रिंशद् इत्यादिना । अन्यल् लिखितार्थमेव ॥२८९॥
पुष्कराच् च परिभ्रष्टः स्वच्छन्द-गमनालयः । फलम् आप्नोति सुश्रोणि मम कर्म-परायणः ॥२९०॥
विष्णु-धर्मोत्तरे—
नृत्यं दत्त्वा तथाप्नोति रुद्र-लोकम् असंशयम् । स्वयं नृत्येन सम्पूज्य तस्यैवानुचरो भवेत् ॥२९१॥
अन्यत्र श्री-नारदोक्तौ—
नृत्यतां श्रीपतेर् अग्रे तालिका-वादनैर् भृशम् । उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥२९२॥
सनातनः- शरीरस्थाः स्वस्य सर्वेषामपि वा ॥२९२॥
सङ्गीत-शास्त्रे—
वीणा-वादन-तत्त्व-ज्ञह् श्रुति-जाति-विशारदः । तालज्ञश् चाप्रयासेन मोक्ष-मार्गं नियच्छति ॥२९३॥
सनातनः- श्रुतयः षट्-त्रिंशद्-भेदाः, जातयः सप्त स्वराः, मेघनादवसन्तादि-रागालाप-भेदा वा तत्-तद्-अभिज्ञः । मोक्षो मार्गो उपाय-भूतो यस्मिन् भगवति वैकुण्ठलोके वा तं नियच्छति वशीकरोति; अन्येभ्योऽपि नितरां यच्छति ददातीति वा ॥२९३॥
विष्णु-धर्मोत्तरे—
वाद्यं दत्त्वा तथा विप्रह् शक्र-लोकम् अवाप्नुयात् । स्वयं वद्येन सम्पूज्य तस्यैवनुचरो भवेत् ॥२९४॥ वाद्यानाम् अपि देवस्य तन्त्री-वाद्यं सदा प्रियम् । तेन सम्पूज्य वरदं गाणपत्यम् अवाप्नुयात् ॥२९५॥
**अतः सक्तौ पुनः पूज
शक्तश् चेत् स-परिवारं कृष्णं गन्धादिभिः पुनः ।
पञ्चोपचारैर् मूलेन सम्पूज्यार्घ्यं समर्पयेत् ॥२९६॥
सनातनः-** स-परीवारं पूर्व-लिखितावरण-सहितं, स-परिवाराय कृष्णाय नमः इत्युच्चार्य मूल-मन्त्रेण गन्धादिभिः पञ्चभिर् उपचारैः पुनः सम्यक् पूजयित्वा स-परिवाराय कृष्णाय इदम् अर्घ्यं स्वाहा इति अयं निवेदयेद् इत्यर्थः ॥२९६॥
**अथ नीराजनं
ततश् च मूल-मन्त्रेन दत्त्वा पुष्पाञ्जलि-त्रयम् ।
महा-नीराजनं कुर्यान् महा-वाद्य-जय-स्वनैः ॥२९७॥
प्रज्वलयेत् तद्-अर्थं च कर्पूरेण घृतेन वा ।
आरात्रिकं शुभे पात्रे विषमानेक-वर्तिकं ॥२९८॥
सनातनः-** तद्-अर्थं महा-नीराजन-निमित्तम्, आरात्रिकं दीपं, शुभे उत्तमे सुवर्णादि-निर्मिते विस्तीर्णे पात्रे विषमा अयुग्मा अनेकाश्च बद्धा वर्तिका वर्त्यो यस्मिन् तम् ॥२९८॥
अथ नीराजन-माहात्म्यम्
स्कान्दे ब्रह्म-नारद-संवादे—
बहु-वर्त्ति-समायुक्तं ज्वलन्तं केशवोपरि । कुर्याद् आरात्रिकं यस् तु कल्प-कोटिं वसेद् दिवि ॥२९९॥ कर्पूरेन तु यः कुर्याद् भक्त्या केशव-मुर्धनि । आरात्रिकं मुनि-श्रेष्ठ प्रविशेद् विष्णुम् अव्ययं ॥३००॥
सनातनः- केशवोपरीति, केशव-मूर्धनीति च; प्रायः श्री-मस्तक-निर्माञ्छनं बोधयति । प्रविशेदिति अत्यन्त-सन्निकृष्ट भूत्वा तिष्ठेद् इत्यर्थः । न व्ययो भावो भक्तानां यस्माद् इति मोक्षो निरस्त एव ॥२६६-३००॥
तत्रैवन्यत्र—
दीप्तिमन्तं स-कर्पूरम् करोत्य् आरात्रिकं नृप । कृष्णस्य वसते लोके सप्त कल्पानि मानवाः ॥३०१॥
सनातनः- सप्त कल्पानीति असङ्ख्यत्वे तात्पर्यम्, अथवा श्वेत-द्वीपादौ वैकुण्ठलोके तावत् कालं स्थित्वा पश्चात् परमोत्साहेन तादृश-भक्ति-प्रचारणाय स्वेच्छया अवतरणाभिप्रायेणोक्तम् ॥३०१॥
तत्रैव श्री-सिवोम-संवादे—
मन्त्र-हीनं क्रिया-हीनम् यत् कृतं पूजनं हरेः । सर्वं सम्पूर्णताम् एति कृते नीराजने शिवे ॥३०२॥
सनातनः- शिवे हे पार्वति ॥३०२॥
हरि-भक्ति-सुधोदये—
कृत्वा नीराजनं विष्णोर् दीपावल्या सुदृश्यया । तमो-विकारं जयति जिते तस्मिम्श् च को भवः ॥३०३॥
सनातनः- तमः तमोगुणः अज्ञानं वा सत्त्वावरकत्वात्, तस्य विकारं काम-क्रोधादिकं, द्वितीय-पक्षे देहाभिमानादिकम्, तस्मिन् तमोविकारे; भवः संसारः कः स्यात्, अपि तु न कश्चिदपि, स्वत एव जितो भवतीत्यर्थः ॥३०३॥
अन्यत्र च—
कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोतयः । दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखं ॥३०४॥ इति ।
सनातनः- कोटयः कोटीः, याः कोटयस्ता इति वा; सारात्रिकं दीप-सहितं दीपालोकेनाधिकं शोभमानम् इत्यर्थः ॥३०४॥
यच् च दीपस्य माहात्म्यं पूर्वं लिखितम् अस्ति तत् ।
द्रस्तव्यं सर्वत्रापि प्रायेनाभेदतो’नयोः ॥३०५॥
सनातनः- अत्र नीराजनेऽपि तत् सर्वं माहात्म्यं द्रष्टव्यं मन्तव्यं ज्ञेयम् । तत्र हेतुः—अनयोर् धूपानन्तर-दीपस्य एतन् नीराजन-दीपस्य चेति द्वयोर् अभेदात् । प्रायेणेति—स्वमते वर्त्यादि-भेदात् ॥३०५॥
अतः सादरम् उत्थाय महा-नीराजनं त्व् इदम् ।
द्रष्टव्यं दीपवत् सर्वैर् वन्द्यम् आरात्रिकं च यत् ॥३०६॥
सनातनः- अतः अस्मान्माहात्म्य-विशेषात् ॥३०६॥
तद् उक्तं श्री-पुलस्त्येन विष्णु-धर्मे—
धूपं चारात्रिकं पश्येत् कराभ्यां च प्रवन्दते । कुल-कोटिं समुद्धृत्य याति विष्णोः परं पदं ॥३०७॥
मूलागमे च—
नीराजनं च यः पश्येद् देव-देवस्य चक्रिणः । सप्त जन्मानि विप्रः स्याद् अन्ते च परमं पदम् ॥३०८॥
अथ शङ्खादि-वादन-माहात्म्यम्
बृहन्-नारदीये श्री-यम-भगीरथ-संवादे—
केशवायतने राजन् कुर्वन् शङ्ख-रवं नरः । सर्व-पाप-विनिर्मुक्तो ब्रह्मणा सह मोदते ॥३०९॥ कर-शब्दं प्रकुर्वन्ति केशवायतनेषु ये । ते सर्वे पाप-निर्मुक्ता विमानेशा युग-द्वयम् ॥३१०॥
सनातनः- विमानानामीशाः स्वामिनो भवन्ति ॥३१०॥
तालादि-कांस्य-निनदं कुर्वन् विष्णु-गृहे नरः । यत् फलं लभते राजन् शृणुष्व गदतो मम ॥३११॥ सर्व-पाप-विनिर्मुक्तो विमान-शत-सङ्कुलः । गीयमानश् च गन्धर्वैर् विष्णुना सह मोदते ॥३१२॥ भेरी-मृदङ्ग-पटह-मुरजैश् च स-डिण्डिमैः । सम्प्रीणयन्ति देवेशं तेषां पुण्य-फलं शृणु ॥३१३॥
सनातनः- निशानो वादित्र-विशेषः ॥३१३॥
देव-स्त्री-गण-संयुक्ताः सर्व-कामैः समर्चिताः । स्वर्ग-लोकम् अनुप्राप्य मोदन्ते कल्प-पञ्चकम् ॥३१४॥ इति ।
**अथ स-जल-शङ्ख-नीराजनं
ततश् च स-जलं शङ्खं भगवन्-मस्तकोपरि ।
त्रि भ्रामयित्वा कुर्वीत पुनर् नीराजनं प्रभोः ॥३१५॥
सनातनः-** जल-पूर्ण-शङ्खेन पुनर् नीराजनं लिखति—ततश्चेति ॥३१५॥
**तन्-माहात्म्यं च **
द्वारका-माहात्म्ये तत्रैव—
शङ्खे कृत्वा तु पानीयं भ्रामितं केशवोपरि । सन्निधौ वसते विष्णोः कल्पान्तं क्षीर-सागरे ॥३१६॥ इति ।
सनातनः- येन भ्रामितं, स वसते वसति ॥३१६॥
नीराजन-द्वयं चैतत् ताम्बूलस्यार्पणं परम् ।
केचिद् इच्छन्ति केचिच् च दर्पणार्पणतः परम् ॥३१७॥
तथा च पञ्चरात्रे—
पुनर् आचमनं दद्यात् करोद्वर्तनम् एव च । स-कर्पूरं च ताम्बूलम् कुर्यान् नीराजनं तथा ॥३१८॥ समर्प्य मुकुटादीनि भूषणानि विचक्षणः । आदर्शयेत् तथादर्शं प्रकल्प्य छत्र-चामरे ॥३१९॥
गारुडे च—
अथ भुक्तवते दत्त्वा जलैः कर्पूर-वासितैः । आचमनं च ताम्बूलम् चन्दनैः कर-मार्जनम् ॥३२०॥ पुष्पाञ्जलिं ततः कृत्वा भक्त्यादर्शं प्रदर्शयेत् । नीराजनं पुनः कार्यं कर्पूरं विभवे सति ॥३२१॥
अत एव वायु-पुराणे—
आरात्रिकं तु निःस्नेहं निःस्नेहयति देवताम् । अतः संशमयित्वैव पुनः पूजनम् आचरेत् ॥३२२॥
सनातनः- आरात्रिकं नीराजन-पात्रं निःस्नेहं घृतादि-रहितं,निःस्नेहां दया-रहितां, संशमयित्वा संशमय्य निर्वाप्येत्यर्थः । यश्च पूर्वं दीप-निर्वापणदोष उक्तः, स दीप-विषयक एव, न तु नीराजन-विषयको ज्ञेयः ॥३२२॥
अत एव द्वारका-माहात्म्ये—
तत्रैव कृत्वा पूजादिकं सर्वं ज्वलन्तं कृष्ण-मूर्धनि । आरात्रिकं प्रकुर्वाणो मोदते कृष्ण-सन्निधौ ॥३२३॥ इति ।
केचिन् नीराजनत् पश्चाद् इच्छन्ति प्रणतिं ततः ।
प्रदक्षिणं ततः स्तोत्रं गीत-नृत्यादिकं ततः ॥३२४॥
सनातनः- प्रणतिं वन्दनं, ततः प्रणतेः पश्चात् प्रदक्षिणम् इच्छन्ति, एवमग्रेऽपि ॥३२४॥
एवं भगवतः स्व-स्व-सम्प्रदायानुसारतः ।
प्रवर्तन्ते प्रभोर् भक्तौ भक्त्या सर्वं हि शोभनम् ॥३२५॥
सनातनः- ननु परस्परं संवादाभावेनानिर्धार-दोषः स्यात् तत्र लिखति—भक्त्येति ॥३२५॥
ततो निक्षिप्य देवस्योपरि पुस्पाञ्जलि-त्रयम् ।
विचित्रैर् मधुरैः स्तोत्रैह् स्तुतिं कुर्वीत भक्तिमान् ॥३२६॥
**अथ स्तुति-विधिः **
महाभारते—
आरिराधयिषुः कृष्णं वाचं जिगदिषामि यम् । तया व्यास-समासिन्या प्रीयतां मधुसूदनः ॥३२७॥ इति ।
सनातनः- कृष्णम् आरिराधयिषुः आराधयितुम् इच्छन्, जिगदिषामि गदितुम् इच्छामि, व्यासो विस्तारः, समासः सङ्क्षेपस् तद्-युक्तया, तया वाचा ॥३२७॥
आरम्भे च स्तुतेर् एतम् श्लोकं स्तुति-परः पठेत् ।
सत्यां तस्यां समाप्तौ च श्लोकं सङ्कीर्तयेद् इमम् ॥३२८॥
सनातनः- एतम् आरिराधयिषुर् इत्यादिकं, तस्याः स्तुते समाप्तौ सत्याम्, इमम् इति—विद्येत्यादिकम् ॥३२८॥
इति विद्या-तपो-योनिर् अयोनिर् विष्णुर् ईरितः ।
वग्-यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥३२९॥
पूर्व-तापनी-श्रुतिषु [GTU १.३४-४५] –
ओं नमो विश्वरूपाय विश्व-स्थित्य्-अन्त-हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥३३०॥ नमो विज्ञान-रूपाय परमानन्द-रूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥३३१॥ नमः कमल-नेत्राय नमः कमल-मालिने । नमः कमल-नाभाय कमला-पतये नमः ॥३३२॥ बर्हापीडाभिरामाय रामयाकुण्ठ-मेधसे । रमा-मानस-हंसाय गोविन्दाय नमो नमं ॥३३३॥ कंस-वंश-विनाशाय केशि-चाणूर-घातिने । वृषभ-ध्वज-वन्द्याय पार्थ-सारथये नमः ॥३३४॥ वेणु-वादन-शीलाय गोपालायाहि-मर्दिने । कालिन्दी-कूल-लोलाय लोल-कुण्डल-धारिणे ॥३३५॥ वल्लवी-वदनाम्भोज-मालिने नृत्य-शालिने । नमः प्रणत-पालाय श्री-कृष्णाय नमो नमः ॥३३६॥
सनातनः- लोलाभ्यां कुण्डलाभ्यां, वल्गवे सुन्दराय, बल्लवीनां नयनान्येवाम्भोजानि, तेषां माला पङ्क्तिस् तद्वते, ताभिः सदा परमया शक्त्या दृश्यमानायेत्यर्थः ॥३३५-३३६॥
नमः पाप-प्रणाशाय गोवर्धन-धराय च । पूतना-जीवितान्ताय तृणावार्तासु-हारिणे ॥३३७॥ निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे । अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥३३८॥
सनातनः- निष्कलाय परिपूर्णाय निर्मायायेति वा, अशुद्ध-वैरिणे परमपावनायेत्यर्थः । अद्वितीयाय निरुपमायेत्यर्थः ॥३३८॥
प्रसीद परमानन्द प्रसीद परमेश्वर । आधिव्याधिभुजङ्गेन दष्टं माम् उद्धर प्रभो ॥३३९॥ श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर । संसारसागरे मग्नं माम् उद्धर जगद् गुरो ॥३४०॥ केशव क्लेश-हरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥३४१॥
एकादश-स्कन्धे [Bह्P ११.५.३३-३४] –
ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यं भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं वन्दे महा-पुरुष ते चरणारविन्दम् ॥३४२॥
सनातनः- विशेषत एकादश-स्कन्धोक्त-श्लोक-द्वयेन कलि-काले स्तूयादिति शिष्टाचाराल्-लिखति—ध्येयम् इति । हे प्रणत-पाल ! हे महा-पुरुष ! ते तव चरणारविन्दं वन्दे । कथम्-भूतम् ? ध्येयं ध्यातुं योग्यं, सदेति सर्वत्र सम्बध्यते । ध्येयत्वे हेतवः—इन्द्रिय-कुटुम्बादिभिर् यः परिभवस् तिरस्कारः तं हन्तीति तथा तत् । किञ्च, अभीष्टदोहं मनोरथ-पूरकं, किञ्च, तीर्थास्पदं गङ्गाद्य्-आश्रयत्वेन परमपावनं, किञ्च, शिव-विरिञ्चिभ्यां नुतं स्तुतम्; ननु तौ कृतार्थावेव, किमर्थं ताभ्यां नुतम् ? तत्राह—शरण्यम् आश्रयण-योग्यं सुख-विशेषार्थम् इति भावः; यद्वा, परमेश्वरत्वेनावश्य-सेव्यत्वात् तन्-माहात्म्य-विशेषेणाकर्षणाद् वा । ननु ब्रह्मादि-स्तुत्यं कथं प्राकृतस्य गोचरः स्यात् ? न, भृत्यार्तिहं यस्य कस्यापि भृत्यमात्रस्यार्तिहन्तारम्; न केवलम् आगन्तुकमार्तिमात्रं हन्ति, किन्तु भवाब्धिपोतं संसारार्णवतारकञ्च; यद्वा, शिव-विरिञ्चि-नुतमिति परमैश्वर्यम् उक्त्वा, शरण्यम् इति च शरणागतवात् सल्यम् उक्त्वा, भक्तानां सदा सङ्गित्वम् आह—भृत्यानामार्तिं विरहदुःखं साक्षात् कारादिना हन्तीति । किञ्च, प्रणतान् स्व-स्व-भक्तान् वरदानादिना पालयन्तीति प्रणतपाला इन्द्रादयो देवास् तेषाम् अपि भवाब्धिपोतम्, अथवा परिभघ्नमभीष्ट-दोहम् इति विशेषणाभ्यां कामिनां सर्व-दुःख-नाशकत्वं काम-परि-पूरकत्वं चोक्तम् । तीर्थास्पदम् इति मुमुक्षूणां मुक्ति-प्रदत्वं; शिव-विरिञ्चिनुतम् इति मुक्तानामपि स्तुत्यत्वेन सुख-विशेषात्मकत्वं परमाकर्षकत्वं च । शरण्यं परमाश्रयम् इति दासानां सर्व-पुरुषार्थमयत्वम्; किंवा शरणं वैकुण्ठ-धाम भगवानेव वा तत्-प्रदम् इत्यर्थः । इति परमपद-प्रदत्वं, भृत्यानां रुक्मिणी-प्रभृतीनां भार्याणां विरहार्ति-घ्नम् इति परम-प्रेम-विषयत्वम्; प्रणतान् वैष्णवान् पालयन्ति, अन्नादि-दानेन पुष्णन्ति, दुष्ट-जनादिभ्यो वा रक्षन्तीति प्रणत-पालाः; यद्वा, प्रणता वैष्णवा एव पालाः पालका येषां जनानां तेषां वैष्णव-सेवकानां भवाब्धिपोतं भक्ति-प्रदानेनानायासतो वैकुण्ठलोक-प्रापणात्; संसार-दुःख-परम्परापहारकम् इति—निज-दासानुदासानाम् अपि सर्व-दुःख-क्षपणादिकम् ॥३४२॥
त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् । माया-मृगं दयितयेप्सितम् अन्वधावद् वन्दे महा-पुरुष ते चरणारविन्दम् ॥३४३॥
सनातनः- इदानीं स्वयम् आप्तकामत्वान् नैरपेक्ष्यं भक्तार्थञ्च सापेक्षतां दर्शयन् श्री-राम-चन्द्रं स्तौति—त्यक्त्वेति । हे धर्मिष्ठ सदाचार-प्रवर्तक, हे महा-पुरुष पुरुषोत्तम! अन्यैर् दुस्त्यजा या सरेप्सिता राज्य-लक्ष्मीरयोध्यासाम्राज्य-विभूतिस्तां त्यक्त्वा यत् ते चरणारविन्दम् अरण्यं दण्डकवनादिकमगात्; किं राज्यवैकल्य-दर्शनेन? न हि, आर्यस्य गुरोर् दशरथस्य वचसा कैकेयीं प्रति तदीय-वचनसत्यता-प्रतिपालनायेत्यर्थः; एवं धर्मिष्ठत्वम् उक्त्वा महा-पुरुषत्वं दर्शयन् भक्त-जन-वश्यताम् आह—दयितया श्रीसीतया ईप्सितं मायामृगं मायया स्वर्णमायाकारहरिणं यद् अन्वधावत् तद् वन्दे; यद्वा, कृष्ण-वर्णं त्विषाऽकृष्णम् (श्रीभा ११.५.३२) इति तत्रैव प्राग् उक्तेः, कलौ श्री-कृष्णस्य परम-पूज्यत्वात् तदीय-लीला-वर्णनेन तम् एव स्तौति—राज्य-लक्ष्मीं श्री-मथुरा-सम्पत्तिम्; अविवक्षितत्वात् असन्धिः; धर्मिष्ठस्य पूर्व-जन्मनि एकाग्रतया कृत-भगवद्-आराधन-लक्षण-धर्मस्य आर्यस्य श्री-वसुदेवस्य; यद्वा, धर्मिष्टयोर् आर्ययोः श्री-वसुदेव-देवक्योर् वचसा, अत्र अयन्त्वसभ्यः (श्रीभा १०.३.२२) इत्यादिना वसुदेवस्य, जन्म ते मय्यसौ (श्रीभा १०.३.२६) इत्यादिना देवक्याः । अरण्यं बृहद्-वनादिकम्; यद्वा, धर्मिष्ठे भक्ति-लक्षण-धर्मनिष्ठे श्री-नन्द-गोपराजे; यद्-अरण्यं व्रज-भूमि-लक्षणं तत् । एवं सत्यपि महा-पुरुषत्वेनैव सदाचार-प्रवर्तकत्वं भक्त-जनाधीनत्वञ्च ज्ञेयम् । परम-दुर्लभताम् आह—मायया लक्ष्म्या अपि मृग्यत इति मृगम्; यद्वा, भक्त-जनाधीनत्वम् एवाह—मायया लक्ष्म्या मृगं क्रीडा-मृगवन् पराधीनम् इत्यर्थः । अरण्य-गमने निगूढ-हेत्व्-अन्तरम्—दयितया श्री-राध्या ईप्सितं पूर्वस्मिन्न् इहापि जन्मनि विविधाराधनेन प्राप्तुम् इष्टमत एवान्वधावच् चारण्यम् एव । गोपालनादि-क्रीडया सर्वतो धावन्निव परिबभ्रामेत्यर्थः ॥३४३॥
**अथ वद्यस्य माहात्म्यं
वैदिकानीदृशान्य् एव कृष्णे पौराणिकान्य् अपि ।
तान्त्रिकाणि च शास्त्राणि स्तोत्राण्य् अभिनवान्य् अपि ॥३४४॥
सनातनः-** ईदृशानि एतादृश-श्री-गोकुल-लीलामृत-मयानि वैदिकानि कृष्ण-स्तोत्राणि शस्तानि भवन्ति; यदा, कृष्णे शस्तानि तत्-सूखकराणीत्यर्थः । अभिनवानि आधूनिक-कवि-निबद्धानि ॥३४४॥
विष्णु-धर्मोत्तरे हंस-गीतयं—
अभ्रष्ट-लक्षणैः कृत्वा स्वयं विरचिताक्षरैः । स्तवं ब्राह्मण-शार्दूलस् तस्मात् कामान् अवाप्नुयात् ॥३४५॥
**स्तुति-माहात्म्यं **
विष्णु-धर्मे—
सर्व-देवेषु यत् पुण्यं सर्व-देवेषु यत् फलम् । नरस् तत् फलम् आप्नोति स्तुत्वा देवं जनार्दनम् ॥३४६॥
सनातनः- भक्त्या प्रेम्णा ग्रथिताः क्रमेण निबद्धाः, अत एव रम्या वाग् यस्य सः; ब्रह्मादि-दुर्लभ्यं यत् प्रभोर् भगवतः कारुण्यं, तस्य भाजनं विषयः ॥३४६॥
विष्णु-धर्मोत्तरे—
न वित्त-दान-निचयैर् बहुभिर् मधुसूउदनः । तथा तोषम् अवाप्नोति यथा स्तोत्रैर् द्विजोत्तमः ॥३४७॥
नारसिंहे—
स्तोत्रैर् जपैश् च देवाग्रे यः स्तौति मधुसूदनम् । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥३४८॥
हरि-भक्ति-सुधोदये—
स्तुवन्न् अमेय-माहात्म्यं भक्ति-ग्रथित-रम्य-वाक् । भवेद् ब्रह्मादि-दुर्लभ्य-प्रभु-कारुण्य-भाजनम् ॥३४९॥ यथा नरस्य स्तुवतो बालकस्येव तुष्यति । मुग्ध-वाक्यैर् न हि तथा विबुधानां जगत्-पिता ॥३५०॥
सनातनः- विबुधानां देवानां विदुषामपि वा ॥३५०॥
अबलं प्रभुर् ईप्सितोन्नतिं कृत-यत्नं स्व-यशह्-स्तवे घ्र्णी । स्वयम् उद्धरति स्तनार्थिनं पद-लग्नं जननीव बालकम् ॥३५१॥
सनातनः- अबलम् अशक्तम् ॥३५१॥
स्कान्दे अमृत-सरोद्धरे—
श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता । नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥३५२॥
तत्रैव कर्त्तिक-माहात्म्ये श्री-ब्रह्म-नारद-संवादे—
स्तोत्राणां परमं स्तोत्रं विष्णोर् नाम-सहस्रकम् । हित्वा स्तोत्र-सहस्राणि पठनीयं महा-मुने ॥३५३॥ तेनैकेन मुनि-श्रेष्ठ पथितेन सदा हरिः ।
प्रीतिम् आयाति देवेशो युग-कोटि-शतानि च ॥३५४॥ इति ।
स्नाने यत् स्तोत्र-माहात्म्यं लिखितं लेख्यम् अग्रतः ।
यच् च कीर्तन-माहात्म्यं सर्वं ज्ञेयं इहापि तत् ॥३५५॥
सनातनः- यद्यपि स्नपने सहस्रनाम-माहात्म्यं लिखतिम् अस्ति, तथापि स्तोत्रेषु मध्ये सहस्र-नाम-स्तोत्रस्य परम-श्रैष्ठ्यापेक्षया पुनर् अत्रोल्लिखितम् । यच्च कीर्तन-माहात्म्यम् अग्रतो लेख्यं, तत् सर्वम् इह स्तुति-माहात्म्येऽपि ज्ञेयं, सर्वेषाम् एवैषां कीर्तन-रूपत्वात् ॥३५५॥
**तन्-नित्यत **
विष्णु-धर्मे—
नूनं तत् कण्ठ-शालूकम् अथवा प्रति-जिह्विका ।
रोगो वान्यो न सा जिह्वा या न स्तौति हरेर् गुणान् ॥३५६॥
सनातनः- कण्ठ-शालूकं गल-रोग-विशेषः ॥३५६॥
**अथ वन्दनं
प्रणमेद् अथ साष्टाङ्गं तन्-मुद्रां च प्रदर्शयेत् ।
पठेत् प्रति-प्रणामं च प्रसीद भगवन्न् इति ॥३५७॥**
तद् उक्तम् एकादशे श्री-भगवता [Bह्P ११.२७.४५]—
स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि । स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् ॥३५८॥
सनातनः- प्राकृतैर् अर्वाचीनैर् लोकभाषा-निबद्धैर् इति वा ॥३५८॥
अथ प्रणाम-विधिः
तत्रैव [Bह्P ११.२७.४६]—
शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥३५९॥
सनातनः- बाहुभ्यां दक्षिणोत्तराभ्यां परस्परं मम दक्षिणोत्तरपादौ गृहीत्वा; यद्वा, परस्परं निबद्धाभ्यां कृतापराध इव प्रपन्नं पाहीत्यादि विज्ञाप्य प्रणमेद् इत्यर्थः ॥३५९॥
किं चागमे—
दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा । मनसा वचसा चेति प्रणामो’ष्टाङ्ग ईरितः ॥३६०॥
सनातनः- प्रणामेऽष्टाङ्गानि दर्शयति—पद्भयाम् इति । पादादिभिः प्रणामः क्रमेण तत्-तद्-अङ्गैर् भूम्य्-अवष्टम्भनेन तत्-संस्पर्शनात् । दृशा प्रणामः चक्षुर् ईषन् निमीलनात्, मनसा शिरो मत्-पादयोः कृत्वा इत्यादि-ध्यानेन; वचसा च ‘भगवन् प्रसीद’ इत्यादि-रूपेणोह्यः ॥३६०॥
जानुभ्यां चैव बाहुभ्यां शिरसा वचसा धिया । पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराव् इमौ ॥३६१॥ इति ।
सनातनः- इमौ अष्टाङ्ग-पञ्चाङ्ग प्रणामौ ॥३६१॥
गरुदं दक्षिने कृत्वा कुर्यात् तत्-पृष्ठतो बुधः । अवश्यं च प्रणामांस् त्रीन् शक्तश् चेद् अधिकाधिकान् ॥३६२॥
सनातनः- गरुडं भगवद्-अभिमुखे वर्तमानं दक्षिणे कृत्वेति भगवतः पुरोभागे पृष्ठ-देशे वामेऽत्यन्तनिकटे च प्रणाम-निषेधात् । तथा चाग्रे लेख्यम्—अग्रे पृष्ठे वाम-भागे इत्यादि । त्रीन् प्रणामानवश्यं कुर्यात्, यच्च नमस्कारेण चैकेनेत्यादिकम् अग्रे लेख्यं तच्च माहात्म्य-परतयैव, न तु विधेयत्वेन । यथा एक-प्रदक्षिणाया निषिद्धत्वेऽपि प्रदक्षिणेन चैकेन इत्यादिकं माहात्म्य-परमेव सङ्गच्छते, अन्यथातिविरोधात् । शक्तश् चेद् भवति, तर्हि ततोऽधिकान् षडादीन् अष्ट-चत्वारिंशदन्तान्, ततोऽप्यधिकान् अष्टोत्तर-शतादीन् कुर्यात् ॥३६२॥
तथा च नारद-पञ्चरात्रे—
सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्व-गुरुम् एव च । द्वि-चतुर्-विंशद् अथवा चतुर्-विंशत् तद्-अर्धकम् । नमेत् तद्-अर्धम् अथवा तद्-अर्धं सर्वथा नमेत् ॥३६३॥
सनातनः- सन्धिं भोजन-शयनाद्य्-अवसरं; वीक्ष्य आलोच्य, तद्-व्यतिरिक्त-काले इत्यर्थः । लोके सदाचारानुसारतः, आद्यं हरिं श्री-कृष्णम् । गुरवश्चोक्ताः कौर्मे—
यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥
इति तान् । द्विचतविंशद् इति अष्टचत्वारिंशद् इत्यर्थः ॥३६३॥
विष्णु-धर्मोत्तरे—
देवार्चा-दर्शनाद् एव प्रणमेन् मधुसूदनम् । स्नानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विज-सत्तमः ।
देवार्चा-दृष्ट-पूतं हि शुचि सर्वं प्रकीर्तितम् ॥३६४॥
**अथ नमस्कर-माहात्म्यं **
नारसिंहे—
नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः । नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥३६५॥
सनातनः- सर्वेषु यज्ञेषु मध्ये नमस्कार उत्तमो यज्ञः देवताराधनं स्मृतः स्मृति-कृद्भिः ॥३६५॥
स्कान्दे—
दण्ड-प्रणामं कुरुते विष्णवे भक्ति-भावितः । रेणु-सङ्ख्यं वसेत् स्वर्गे मन्वन्तर-शतं नरः ॥३६६॥
सनातनः- रेणु-सङ्ख्यमिति—दण्ड-प्रणामाचरणे यावन्तो रेणवो गात्रैः संस्पृश्यन्ते, तावत् सङ्ख्यं तेषां प्रत्येकं मन्वन्तर-शतं वसेद् इत्यर्थः । एवम् असङ्ख्यत्वे तात्पर्यम् । स्वर्गे ऊर्ध्वलोके वसेद् इति वैकुण्ठ-प्राप्तौ कस्यचित् क्रम-गत्य्-अपेक्षया ॥३६६॥
तत्रैव श्री-ब्रह्म-नारद-संवादे—
प्रणम्य दण्डवद् भूमौ नमस्कारेण यो’र्चयेत् । स यां गतिम् अवाप्नोति न तां क्रतु-शतैर् अपि । नमस्कारेण चैकेन नरः पुतो हरिं व्रजेत् ॥३६७॥
सनातनः- नमस्कार-मात्रेण योऽर्चयेत्, प्रणाम-रूपम् अर्चनं यः कुर्याद् इत्यर्थः ॥३६७॥
तत्रैव श्री-सिवोम-संवादे—
भूमिम् आपीड्य जानुभ्यां शिर आरोप्य वै भुवि । प्रणमेद् यो हि देवेशम् सो’श्वमेध-फलं लभेत् ॥३६८॥
तत्रैवन्यत्र—
तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च । नारायण-प्रणामस्य कालं नार्हन्ति षोडशीम् ॥३६९॥ शाठ्येनापि नमस्कारम् कुर्वतः शार्ङ्ग-धन्वने । शतशन् मार्जितं पापं तत्-क्षनाद् एव नश्यति ॥३७०॥ रेणु-मण्डित-गात्रस्य कणा देहे भवन्ति यत् ।
तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥३७१॥
सनातनः- कणा रेणु-परमाणवः, यद् इत्य् अव्ययं यावन्त इत्यर्थः । कला ये इति पाठेऽपि स एवार्थः ॥३७१॥
विष्णु-धर्मोत्तरे—
अभिवाद्यं जगन्नाथं कृतार्थश् च तथा भवेत् । नमस्कार-क्रिया तस्य सर्व-पाप-प्रणाशिनी ॥३७२॥ जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः । कृत्वा प्रणामं देवस्य सर्वान् कामान् अवाप्नुयात् ॥३७३॥
विष्णु-पुराणे [?]—
अनादि-निधनं देवं दैत्य-दानव-दारणम् । ये नमन्ति नरा नित्यं न हि पश्यन्ति ते यमम् ॥३७४॥ ये जना जगतां नाथं नित्यं नारायणं द्विजाः । नमन्ति न हि ते विष्णोः स्नानाद् अन्यत्र गामिनः ॥३७५॥
नारदीये –
एको ऽपि कृष्णाय कृतः प्रणामो दशाश्वमेधावभृथैर् न तुल्यः । दशाश्वमेधी पुनर् एति जन्म कृष्ण-प्रणामी न पुनर्-भवाय ॥३७६॥
हरि-भक्ति-सुधोदये—
विष्णोर् दण्ड-प्रणामार्थं भक्तेन पतितो भुवि । पतितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह ॥३७७॥
सनातनः- सह तेन पुनर् नोत्तिष्ठति, कदाचिद् अपि पश्चात् तस्य पातकं न स्याद् इत्यर्थः ॥३७७॥
पाद्मे देवदूत-विकुण्डल-संवादे—
तपस् तप्त्वा नरो घोरम् अरण्ये नियतेन्द्रियः । यत् फलं समवाप्नोति तन् नत्वा गरुड-ध्वजम् ॥३७८॥ कृत्वापि बहुशः पापं नरो मोह-समन्वितः ।
न याति नरकं नत्वा सर्व-पाप-हरं हरिम् ॥३७९॥
**तत्रैव वेद-निधि-स्तुतौ
अपि पापं दुराचारं नरं तत् प्रणतो हरेः ।
नेक्षन्ते किङ्करा याम्या उलूकास् तपनं यथा ॥३८०॥
सनातनः-** नेक्षन्ते ईक्षितुम् अपि न शक्नुवन्तीत्यर्थः ॥३८०॥
विष्णु-पुराणे श्री-यमस्य निज-भटानुशासने [VइP ३.७.१८]—
हरिम् अमर-गणार्चिताङ्घ्रि-पद्मं प्रणमति यः परमार्थतो हि मर्त्यः । तम् अपगत-समस्त-पाप-बन्धं व्रज परिहृत्य यथाग्निम् आज्य-सिक्तम् ॥३८१॥
सनातनः- परमार्थतः तत्त्वतः, अत एवापगत-समस्त-पाप-बन्धम् ॥३८१॥
ब्रह्म-वैवर्ते—
शरणागत-रक्षणोद्यतं हरिम् ईशं प्रणमन्ति ये नराः । न पतन्ति भवाम्बुधौ स्फुटं पतितानुद्धरति स्म तान् असौ ॥३८२॥
सनातनः- पूर्वं पश्चाद् वा कथञ्चिद् भवाम्बुधौ पतितानपि सतः तान् प्रणामकर्तॄन् असौ हरिर् उद्धरति स्म उद्दधार, यद्वा, स्म हेतौ, पतितान् भ्रष्टानपि तान् नरानसाबुद्धरति, यतः तत् किं वक्तव्यं, तत्-प्रणामकारिणो न पतन्तीत्यर्थः ॥३८२॥
अष्टम-स्कन्धे च बलि-वाक्ये [Bह्P ८.२३.२] –
अहो प्रणामाय कृतः समुद्यमः प्रपन्न-भक्तार्थ-विधौ समाहितः । यल् लोक-पालैस् त्वद्-अनुग्रहो ऽमरैर् अलब्ध-पूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥३८३॥
सनातनः- अहो भगवन्, त्वत्-प्रणामस्य महिमा, यद्-अर्थं कृतः समुद्यम एव प्रपन्नानां त्वद्-एकनिष्ठ-भक्तानां योऽर्थस्तस्य विधौ अभक्तेऽपि मयि तस्य सम्पादने समाहितोऽप्रमत्तः स्थितः; कुतः? यत् येनोद्यमेन लोकपालैर् अमरैः सत्त्व-प्रधानैर् अप्य् अलब्ध-पूर्वस् त्वद्-अनुग्रहः अपसदे नीचे राजसे मय्यर्पितः । अयं भावः—परमेश्वराय तुभ्यम् अहं वराकस्त्रिलोकीं दत्तवान् इत्य् एतद् आस्तां, प्रणामोऽपि न सम्यक् कृतः, किन्तु तद्-अर्थम् उद्यम-मात्रं कृतं, तेन च कर्म-तपो-दानादि-कोटिभिर् अप्य् अलभ्यस् तद्-अनुग्रहः सम्पादितः, अहो तत्-प्रणाम-प्रभावाश्चर्यत्वम् इति ॥३८३॥
अतएव नारायण-व्यूह-स्तवे –
अहो भाग्यम् अहो भाग्यम् अहो भाग्यं नॄणाम् इदम् । येषां हरि-पदाब्जाग्रे शिरो न्यस्तं यथा तथा ॥३८४॥
सनातनः- यथा तथा येन केनापि प्रकारेणत्यर्थः ॥३८४॥
किं च, नारसिंहे श्री-यमोक्तौ—
तस्य वै नरसिंहस्य विष्णोर् अमित-तेजसः । प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥३८५॥
भविष्योत्तरे च—
विष्णोर् देव-जगद्-धातुर् जनार्दन-जगत्-पतेः । प्रणामं ये प्रकुर्वन्ति तेषाम् अपि नमो नमः ॥३८६॥ इति ।
सनातनः- तेषां तेभ्योऽपि नमो नमः, भक्त्या वीप्सा ॥३८५-३८६॥
**अथ प्रणाम-नित्यत **
बृहन्-नारदीये लुब्धकोपाख्यानारम्भे—
सकृद् वा न नमेद् यस् तु विष्णवे सर्म-कारिणे । शवोपरं विजानीयात् कदाचिद् अपि नालपेत् ॥३८७॥
सनातनः- अप्यर्थे वा-शब्दः, नालपेत् तं न सम्भाषेत, नास्तिकत्वापत्तेः ॥३८७॥
किं च, पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे—
पश्यन्तो भगवद्-द्वारं नाम शास्त्र-परिच्छदम् । अकृत्वा तत्-प्रणामादि यान्ति ते नरकौकसः ॥३८८॥
सनातनः- नाम श्री-कृष्णादि, शस्त्रं सुदर्शनादि, ताभ्यां शोभितम् इत्यर्थः, इति भगवद्-आलय-लक्षणम् उक्तम् । तस्य भगवतः प्रणामम्, आदि-शब्देन दर्शनादि अकृत्वा ये यान्ति ॥३८८॥
**अथ नमस्कर-निषिद्धनि **
विष्णु-स्मृतौ—
जन्म-प्रभृति यत् किञ्चित् पुमान् वै धर्मम् आचरेत् । सर्वं तन् निष्फलं यात्य् एक-हस्ताभिवादनात् ॥३८९॥
वाराहे—
वस्त्र-प्रावृत-देहस् तु यो नरः प्रणमेत माम् । श्वित्री स जायते मूर्खह् सप्त जन्मानि भामिनी ॥३९०॥
किं चान्यत्र—
अग्रे पृष्ठे वाम-भागे समीपे गर्भ-मन्दिरे । जप-होम-नमस्कारान् न कुर्यात् केशवालये ॥३९१॥
सनातनः- अग्रादिकं भगवत एव ज्ञेयः, तत्र न कुर्यात् । केशवालय इति आलय-व्यतिर्क्त-स्थाने तु कुर्याद् इत्यर्थः ॥३९१॥
अपि च—
सकृद् भूमौ निपतितो न शक्तः प्रणमेन् मुहुः । उत्थायोत्थाय कर्तव्यं दण्डवत् प्रणिपातनम् ॥३९२॥ इति ।
सनातनः- शक्तश् चेत् तर्हि भूमौ सकृन्निपतितः सन् शिरश्चालनादि-मात्रेण मुहुर् न प्रणमेत् । ननु तर्हि कथं प्रणमेत् ? तदाह—उत्थायेति ॥३९२॥
**अथ प्रदक्षिणा
ततः प्रदक्षिनां कुर्याद् भक्त्या भगवतो हरेः ।
नामानि कीर्तयन् शक्तौ तां च साष्टाङ्ग-वन्दनाम् ॥३९३॥
सनातनः-** शक्तौ सत्याञ्च तां प्रदक्षिणाम् अष्टाङ्गेन वन्दनेन प्रणामेन सहितां कुर्यात् ॥३९३॥
प्रदक्षिणा-शङ्ख्या
नारसिंहे—
एकां चाण्ड्यां रवौ सप्त तिस्रो दद्याद् विनायके । चतस्रः केशवे दद्यात् शिवे त्व् अर्ध-प्रदक्षिनाम् ॥३९४॥
**अथ प्रदक्षिणा-माहात्म्यं **
वाराहे—
प्रदक्षिणां ये कुर्वन्ति भक्ति-युक्तेन चेतसा । न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥३९५॥ यस् त्रिः प्रदक्षिणां कुर्यात् साष्टाङ्गक-प्रणामकम् । दशाश्वमेधस्य फलं प्राप्नुयान् नात्र संशयः ॥३९६॥
सनातनः- पुण्यम् अत्र भक्ति-लक्षणं, तत्कृतां भक्तानाम् इत्यर्थः ॥३९६॥
स्कान्दे श्री-ब्रह्म-नारद-संवादे—
विष्णोर् विमानं यः कुर्यात् सकृद् भक्त्या प्रदक्षिणाम् । अश्वमेध-सहस्रस्य फलम् आप्नोति मानवः ॥३९७॥
सनातनः- विमानमिव विमानं प्रासादं रथं वा ॥३९७॥
**तत्र चतुर्मस्य-माहात्म्ये **
चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् । क्रान्तं भवति विप्राग्र्य तत् तीर्थ-गमनाधिकम् ॥३९८॥
सनातनः- क्रान्तं परिक्रान्तं, भ्रमी प्रदक्षिणा, तीर्थ-गमनाधिकम् ॥३९८॥
तत्रैवान्यत्र—
प्रदक्षिणां तु यः कुर्यात् हरिं भक्त्या समन्वितः । हंस-युक्त-विमानेन विष्णु-लोकं स गच्छति ॥३९९॥
नारसिंहे—
प्रदक्षिणेन चैकेन देव-देवस्य मन्दिरे । कृतेन यत् फलं नृणां तच् छृणुष्व नृपात्मज । पृथ्वी-प्रदक्षिण-फलं यत् तत् प्राप्य हरिं व्रजेत् ॥४००॥।
अन्यत्र च—
एवं कृत्वा तु कृष्णस्य यः कुर्याद् द्विः प्रदक्षिणाम् । सप्त-द्वीपवती-पुण्यं लभते तु पदे पदे ।
पठन् नाम-सहस्रं तु नामान्य् एवाथ केवलम् ॥४०१॥
सनातनः- सप्त-द्वीपवत्याः पृथिव्याः पुण्यं दानेन प्रदक्षिणी-करणेन वा यत् फलं तद् इत्यर्थः । अथेति अथवा, आवर्तते परिभ्रमति ॥४०१॥
हरि-भक्ति-सुधोदये—
विष्णुं प्रदक्षिणी-कुर्वाण् यस् तत्रावर्तते पुनः । तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥४०२॥
बृहन्-नारदीये यम-भगीरथ-संवादे—
प्रदक्षिणा-त्रयं कुर्याद् यो विष्णोर् मनुजेश्वर । सर्व-पाप-विनिर्मुक्तो देवेन्द्रत्वं समश्नुते ॥४०३॥
तत्रैव प्रदक्षिणा-माहात्म्ये सुधर्मोपाख्यानारम्भे—
भक्त्या कुर्वन्ति ये विष्णोह् प्रदक्षिणा-चतुष्टयम् । ते’पि यन्ति परं स्थानम् सर्व-लोकोत्तमोत्तमम् ॥४०४॥ इति ।
सनातनः- अपि निश्चये, पूर्वोक्त-समुच्चये वा, प्रयान्ति इति वा पाठः ॥४०४॥
तत् ख्यातं यत् सु-धर्मस्य पूर्वस्मिन् गृध्र-जन्मनि ।
कृष्ण-प्रदक्षिणाभ्यासान् महा-सिद्धिर् अभूद् इति ॥४०५॥
सनातनः- तत् ख्यातं बृहन्-नारदीयतः प्रसिद्धमेव, अतस् तद्-विशेष-लिखनेनालम् इति भावः । किं तद् इति लिखति—यत् सुधर्मस्येति; तद्-आख्यायिका च तत्रैव प्रसिद्धा ॥४०५॥
**अथ प्रदक्षिणायं निषिद्धं **
विष्णु-स्मृतौ—
एक-हस्त-प्रणामश् च एका चैव प्रदक्षिणा । अकाले दर्शनं विष्णोर् हन्ति पुण्यं पुरा-कृतम् ॥४०६॥
सनातनः- अकाले भोजनादि-समये ॥४०६॥
किं च—
कृष्णस्य पुरतो नैव सूर्यस्यैव प्रदक्षिणाम् । कुर्याद् भ्रमरिका-रूपां वैमुख्य-पदनीं प्रभोः ॥४०७॥
सनातनः- भ्रमरिका आवर्तवद् भ्रमणं, तद्-रूपां प्रदक्षिणां नैव कुर्यात् । तत्र हेतुः—प्रभौ भगवति वैमुख्यं पृष्ठ-दानं, तस्य आपादनीं कारिणीम् ॥४०७॥
तथा चोक्तं—
प्रदक्षिणां न कर्तव्यं विमुखत्वाच् च कारणात् ॥४०८॥
**अथ कर्माद्य्-अर्पणम्
ततः श्री-कृष्ण-पादाब्जे दास्येनैव समर्पयेत् ।
त्रिभिर् मन्त्रैः स्व-कर्माणि सर्वाण्य् आत्मानम् अप्य् अथ ॥४०९॥
सनातनः-** दास्येनैव ब्रह्मार्पणादि-रूपेण, अथानन्तरम् आत्मानम् अपि तथैव समर्पयेत् ॥४०९॥
मन्त्रश् च—
इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं श्री-कृष्णार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये समर्पयामीति । ओं तत् सत् ॥४१०॥ इति ।
सनातनः- मनसा यत् स्मृतं, वाचा यद् उक्तं, हस्तादिभिः कर्मणा यत् कृतम् इति सम्बन्धः । तत्र शिश्ना शिश्नेन ॥४१०॥
अथ तत्र कर्मर्पनं
बृहन्-नारदीये—
विरागी चेत् कर्म-फले न किञ्चिद् अपि कारयेत् । अर्पयेत् स्व-कृतं कर्म प्रीयताम् इति मे हरिः ॥४११॥
सनातनः- हरिर् मे प्रीयताम् इत्येवं समर्पयेत् ॥४११॥
अत एव कूर्म-पुराणे—
प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥४१२॥ यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे । कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥४१३॥
सनातनः- प्रीणात्व् इति—बुद्ध्या करोति यत्, परं श्रेष्ठं, नाहं कर्ता, सर्वम् एतत् ब्रह्मैव कुरुते, तथा ह्य् अत्र तद्-ब्रह्मार्पणं प्रोक्तम् इत्यादिना तत्रैवोक्त-प्रकार-दर्शनात् । सन्न्यासं समर्पणं कर्मणां वा सन्न्यासम् ॥४१२-४१३॥
**अथ कर्मार्पण-विधिः
दक्षेण पाणिनार्घ्य-स्थं गृहीत्वा चुलुकोदकम् ।
निधाय कृष्ण-पादाब्ज-समीपे प्रार्थयेद् इदम् ॥४१४॥
सनातनः-** दक्षेण दक्षिणेन, अर्घ्यस्थम् अर्घ्य-पात्र-वर्ति चुलुकमात्रोदकम् ॥४१४॥
पाद-त्रय-क्रमाक्रान्त त्रैलोकेश्वर केशव ।
त्वत्-प्रसादाद् इदं तोयं पाद्यं ते’स्तु जनार्दन ॥४१५॥
**अथ कर्मर्पन-माहात्म्यं **
बृहन्-नारदीये—
पर-लोक-फल-प्रेप्सुः कुर्यात् कर्माण्य् अतन्द्रितः । हरेर् निवेदयेत् तानि तत् सर्वं त्व् अक्षयं भवेत् ॥४१६॥
अत एव नारायण-व्यूह-स्तवे—
कृष्णार्पित-फलाः कृष्णं स्व-धर्मेण यजन्ति ये । विष्णु-भक्त्य्-अर्थिनो धन्यास् तेभ्यो’पीह नमो नमः ॥४१७॥
**अथ स्वार्पण-विधिः
अहं भगवतो’ंशो’स्मि सदा दासो’स्मि सर्वथा ।
तत्-कृपापेक्षको नित्यम् इ त्य् आत्मानं समर्पयेत् ॥४१८॥
सनातनः-** अंशोऽस्मि इत्य् अनेन नित्यमुक्त-शुद्ध-स्वभावत्वादिकम्, अतः सदा दासोऽस्मीति नित्य-दास्यं चाभिप्रेतम् । एवं सर्व-प्रकारेण; यद्वा, तथापि सर्वथा या तस्य भगवतः कृपा, तस्या अपेक्षकः; तद्-एक-प्रार्थक इति प्रेम-परता सूचिता । इति एवम् एवात्मानं सम्यग् अर्पयेत्, न त्वैक्येनेत्यर्थः ॥४१८॥
तथा चोक्तं श्री-शङ्कराचार्य-पादैः –
सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥४१९॥
सनातनः- तच्च मायावाद्य्-आचार्योक्तयापि संवादयति—सत्यपीति; भेदस्य मायाकृत-संसारित्वादेर् अपगमे वृत्तेऽपि, आत्म-तत्त्व-ज्ञाने सत्यपीत्यर्थः । तवाहं दासोऽस्मि इत्यर्थः, न तु मामकीनस्त्वम्, अंशेनांशिनो व्यापकत्वासम्भवात्, तथा सति साम्यापत्तेः । एवं भेदाभेद-सिद्धान्तोक्तम् अभेदेऽपि भेदं दृष्टान्तेन साधयति—सामुद्र इति । तरङ्गस्य जलमयत्वादिना समुद्राद् अभिन्नत्वेऽपि अंशतया परिच्छिन्नत्वादिना ततो भिन्न एवेति दिक् । एतच्च श्री-भागवतामृत-टीकायां (२.२.१९६) विस्तरेण विवृतम् एवास्ति ॥४१९॥
अथात्मार्पण-माहात्म्यम्
सप्तम-स्कन्धे श्री-प्रह्लादोक्तौ [Bह्P ७.६.२६] –
धर्मार्थ-काम इति यो ऽभिहितस् त्रि-वर्ग ईक्षा त्रयी नय-दमौ विविधा च वार्ता । मन्ये तद् एतद् अखिलं निगमस्य सत्यं स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥४२०॥
सनातनः- धर्मोऽर्थ कामश्चेति यस् त्रिवर्गः; तद्-अर्थञ्च ये ईक्षाद्या अभिहिताः, ईक्षा आत्म-विद्या, त्रयी धर्म-विद्या, नयस्तर्कः, दमो दण्ड-नीतिः, विविधा च वार्ता जीविका, तद् एतत् सर्वं निगमस्य वेदस्यार्थजातं स्व-सुहृदः स्वान्तर्यामिणो निज-प्रियतमस्य वा परमस्य वा पुंसः पुरुषोत्तमस्य श्री-कृष्णस्य स्वात्मार्पणं स्वात्मनि अर्पणं संयोजनम्; यद्वा, स्वात्मनः स्वकीय-देहस्य मनसो वा, किंवा जीवात्मनस् तस्मिन्नर्प्यतेऽनेनेत्यर्पणं, तत्-साधनञ्चेत् तर्हि सत्यं मन्ये, सत्य-परत्वात्; अन्यथा तु तत् सर्व-सत्यमेव; अथवा तद्-एतद्-अखिलं निगमस्य त्रै-गुण्य-विषयस्य प्रतिपाद्यं मन्ये । सत्यं, पुनर् निस्त्रैगुण्य-लक्षणं परमस्य पुंसः स्वात्मार्पणम् एवेत्यर्थः; तथा च श्री-भगवद्-गीतासु (२.४५)—त्रै-गुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन इति ॥४२०॥
एकादशे श्री-भगवद्-उद्धव-संवादे [Bह्P ११.२९.३४] –
मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥४२१॥
सनातनः- मर्त्यो यदा त्यक्त-समस्त-कर्मा सन् निवेदितात्मा भवति, तदाऽसौ मे विचिकीर्षितः प्रेम-भक्त्यादि-प्रदानेन विशिष्टः कर्तुम् इष्टो भवति । तथा च अमृतत्वं संसार-ध्वंसेन मरणातीतत्वं परमानन्द-रसं वा; यद्वा, ममाधरामृतत्वं गोप्यत्वेन स्पष्टं तद्-अनुक्तिः । अविरत-पानेन तत्र संलग्नत्वाद् अभेद-विवक्षायां त्व-प्रत्ययः । प्रतिपद्यमानः प्राप्नुवन्, मया सह आत्म-भूयाय अत्यन्त-संयोगाय कल्पते योग्यः समर्थो वा भवति, वै ध्रुवम् ॥४२१॥
**अथ जपः
जपस्य पुरतः कृत्वा प्राणायाम-त्रयं बुधः ।
मन्त्रार्थ-स्मृति-पूर्वं च जपेद् अष्टोत्तरं शतम् ।
मूलं लेख्येन विधिना सदैव जप-मालया ॥४२२॥
सनातनः-** मन्त्रस्यार्थः अभिधेयं, तस्य स्मृतिरनुसन्धानं, तत्-पूर्वकं मूलं निज-मन्त्रं, लेख्येन अग्रे पुरश्चरण-प्रकरणे लिखिष्यमाणेन विधिना, तत्र च सर्वदा जप-मालयैव अष्टोत्तर-शतवारान् जपेत् । अर्थश्च पूर्व-तापनीयाद्य्-उक्तानुसारेण ज्ञेयः । तथा च क्रम-दीपिकायाम्—स्वाहेति स्वात्मानङ्गमयामि इति स्वतेजसे तस्मै इति तथा; अथवा व्रज-युवतीनां दयिताय जुहोमि, मां मदीयम् अपि इति; एवं श्री-भगवच्-चरणारविन्दे स्वात्म-समर्पणरूप एवार्थ इति दिक् ॥४२२॥
शक्तौ’ष्टाधिक-साहस्रम् जपेत् तं चार्पयन् जपम् ।
प्राणायामांश् च कृत्वा त्रीन् दद्यात् कृष्ण-करे जलम् ॥४२३॥
**तत्र चायं मन्त्रः
गुह्यातिगुह्य-गोप्ता त्वं गृहाणास्मत्-कृतं जपम् ।
सिद्धिर् भवतु मे देव त्वत्-प्रसादात् त्वयि स्थिते ॥४२४॥ इति ।
सनातनः-** शक्तश् चेद् अष्टाधिक-सहस्रवारान् सञ्जपेत् । तञ्च जपं समर्पयन्, श्री-भगवति स्थिते साक्षाद् वर्तमाने सति; यद्वा, त्वयि स्थितः, त्वन्-निष्ठो यो जनस् तस्मिन् या सिद्धिः, सा मे भवतु ॥४२३-४२४॥
जप-प्रकारो यो’पेक्ष्यो मालादि-नियमात्मकः ।
पुरश्चर्या-प्रसङ्गे तु स विलिख्यते’ग्रतः ॥४२५॥
सनातनः- आदि-शब्दाद् अङ्गुल्यादि, वागादि च । सोऽग्रे लिखिष्यते; अत एव ज्ञेय इति भावः ॥४२५॥
अर्पितं तं च सञ्चिन्त्य स्वीकृतं प्रभुणाखिलम् ।
पुनः स्तुत्वा यथा-शक्ति प्रणम्य प्रार्थयेद् इदम् ॥ ४२६ ॥
सनातनः- भगवत्य्-अर्पितं तञ्च जपम् अखिलं प्रभुणा भगवता स्वीकृतम् अङ्गीकृतम् इति सञ्चिन्त्य ॥४२६॥
आगमे—
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं जनार्दन । यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे ॥४२७॥
किं च—
यद् दत्तं भक्ति-मात्रेण पत्रं पुष्पं फलं जलम् । आवेदितं निवेद्यं तु तद् गृहाणानुकम्पया ॥४२८॥
सनातनः- आवेदितं समर्पितम् ॥४२८॥
विधि-हीनं मन्त्र-हीनं यत् किञ्चिद् उपपादितम् । क्रिया-मन्त्र-विहीनं वा तत् सर्वं क्षन्तुम् अर्हसि ॥४२९॥
किं च—
अज्ञानाद् अथवा ज्ञानाद् अशुभं यन् मया कृतम् । क्षन्तुम् अर्हसि तत् सर्वं दास्येनैव गृहाण माम् ॥४३०॥ स्थितिः सेवा गतिर् यात्रा स्मृतिश् चिन्ता स्तुतिर् वचः । भूयात् सर्वात्मना विष्णो मदीयं त्वयि चेष्टितम् ॥४३१॥
सनातनः- यत्र कुत्रापि कथञ्चिन् मम स्थितिर् ऊर्ध्वावस्थानं तव सेवारूपा भवत्व् इत्यर्थः । एवम् अन्यद् अप्य् ऊह्यम्, इत्थं सर्वात्मना मदीयं चेष्टितं त्वयि भूयात् तद्-भक्ति-रूपं भवत्व् इत्यर्थः ॥४३१॥
अपि च—
कृष्ण राम मुकुन्द वामन वासुदेव जगद्-गुरो । मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् ॥४३२॥ देव-दानव-नारदादि-वन्द्य दया-निधे । देवकी-सुत देहि मे तव पाद-भक्तिम् अचलाम् ॥४३३॥
श्री-विष्णु-पुराणे [VइP १.२०.१८-१९] –
नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् । तेषु तेष्व् अच्युता भक्तिर् अच्युते’स्तु सदा त्वयि ॥४३४॥
सनातनः- अच्युता अव्यभिचारिणी ॥४३४॥
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी । त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥४३५॥
सनातनः- या यादृशी प्रीतिर् अविवेकानां विषयासक्तानां विषयेषु अनपायिनी अव्यव-छिन्ना भवति सा तादृशी प्रीतिः त्वाम् अनुस्मरतः सतो मे हृदयात् नापसर्पतु नापयातु, सदा त्वत्-स्मरणे सम्पद्यताम् इत्यर्थः; यद्वा, हे माप हे लक्ष्मी-पते, सा विषये प्रीतिस् त्वाम् अनुस्मरतो मे हृदयात् सर्पतु निर्गच्छतु, तत्-प्रीतो सत्यां त्वद्-अनुस्मरणासिद्धेर् इत्यर्थः; यद्वा, हृत् अयन्ते स्वभावतः प्राप्नुवन्तीति हृदया विषयाः गृह-पूत्रादयो वा, तान् कदाचित् कालान्तरे स्मरतोऽपि मे सा प्रीतिस् त्वाम् अनुलक्ष्यी-कृत्य अनपायिनी सती सर्पतु प्रसरतु । अविवेकानामपि कदाचित् विषयेषु प्रीतेर् अपायं कुण्ठतां चाशङ्कयोक्तम्—अनपायिनीति ॥४३५॥
पाण्डव-गीतायां –
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षः-पिशाच-मनुजेष्व् अपि यत्र तत्र । जातस्य मे भवतु केशव ते प्रसादात् त्वय्य् एव भक्तिर् अतुलाव्यभिचारिणी च ॥४३६॥
पाद्मे –
युवतीनां यथा यूनि यूनां च युवतौ यथा । मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥४३७॥
**अथापराध-क्षमापणम्
ततो’पराधान् श्री-कृष्णं क्षमा-शीलं क्षमापयेत् ।
सकाकु कीर्तयन् श्लोकान् उत्तमान् साम्प्रदायिकान् ॥४३८॥**
तथा हि—
अपराध-सहस्राणि क्रियन्ते’हर्निशं मया ।
दासो’हम् इति मां मत्वा क्षमस्व मधुसूदन ॥४३९॥
किं च—
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् सन्धारयाम्य् अहम् ॥४४०॥
सनातनः- ननु तवापराधाः क्षम्या न भवन्तीति चेत् तत्र लिखति—प्रतिज्ञेति । अन्यथाऽपराधाचरणानन्तरम् एव प्राणान् त्यक्ष्यामीति भावः ॥४४०॥
अथापराधाः
आगमे –
यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे । देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥४४१॥ उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् । एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥४४२॥ पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् । शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥४४३॥ उच्चैर् भाषा मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव नृषु च क्रूर-भाषणम् ॥४४४॥ कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः । अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥४४५॥ शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् । तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥४४६॥ विनियुक्तावैशिष्ठस्य प्रदानं व्यञ्जनादिके । पृष्ठीकृत्यासनं चैव परेषाम् अभिवादनम् ॥४४७॥ गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा । अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥४४८॥
सनातनः- अग्र इत्यनुवर्तत एव, वायु-विमोक्षणम् इत्य् अन्तम्; तथा पृष्ठी-कृत्यासनम् इत्यत्र परेषाम् अभिवादनम् इत्यत्रापि ज्ञेयम् । गुरौ मौनं स्तुत्याद्य-करणम् ॥४४१-४४८॥
वाराहे—
द्वात्रिंशद्-अपराधा ये कीर्त्यन्ते वसुधे मया । वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥४४९॥ ये वै न वर्जयन्त्य् एतान् अपराधान् मयोदितान् । सर्व-धर्म-परिभ्रष्टाः पच्यन्ते नरके चिरम् ॥४५०॥ राजान्न-भक्षणं चैवम् आपद्य् अपि भयावहम् । ध्वान्तागारे हरेः स्पर्शः परं सुकृत-नाशनः ॥४५१॥
सनातनः- एवम् अपराधं विजानीयाद् इति शेषः; केवलम् इति वा ॥४५१॥
तथैव विधिम् उल्लङ्घ्य सहसा स्पर्शनं हरेः । द्वारोद्घाटो विना वाद्यं क्रोड-मांस-निवेदनम् ॥४५२॥
सनातनः- विधिम् उल्लङ्घ्य आचमनादिकम् अकृत्वेत्यर्थः ॥४५२॥
पादुकाभ्यां तथा विष्णोर् मन्दिरायोपसर्पणम् । कुक्कुरोच्छिष्ट-कलनं मौन-भङ्गो’च्युतार्चने ॥४५३॥
सनातनः- कलनं स्पर्शनम् ॥४५३॥
तथा पूजन-काले विड्-उत्सर्गाय सर्पणम् । श्राद्धादिकम् अकृत्वा च नवान्नस्य च भक्षणम् ॥४५४॥ अदत्त्वा गन्ध-माल्यादि धूपनं मधुघातिनः । अकर्मण्य् अप्रसूनेन पूजनं च हरेस् तथा ॥ ४५५॥ अकृत्वा दन्त-काष्ठं च कृत्वा निधूवनं तथा । स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥४५६॥ रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् । परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥४५७॥ क्रोधं कृत्वा श्मशानं च गत्वा भुक्ताप्य् अजीर्ण-युक् । भक्षयित्वा क्रोड-मांसं पिन्याकं जाल-पादकम् ॥४५८॥ तथा कुसुम्भ-शाकं च तैलाभ्यङ्गं विधाय च । हरेः स्पर्शो हरेः कर्म-करणं पातकावहम् ॥४५९॥
किं तत्रैव—
मम शास्त्रं बहिष्कृत्य अस्माकं यः प्रपद्यते । मुक्त्वा च मम शास्त्राणि शास्त्रम् अन्यत् प्रभाषसे ॥४६०॥
सनातनः- मम शास्त्रं मद्-उक्तं पञ्चरात्रादि, यद्वा, भक्ति-प्रधानं, बहिष्कृत्य अनादृत्य; अस्माकम् अस्मान् ॥४६०॥
मद्यपस् तु समासाद्य प्रविशेद् भवनं मम ॥४६१॥
सनातनः- भवनं समासाद्य प्राप्य विशेत्; यद्वा, समासाद्येति भूत्वा इत्यर्थः । मद्यपम् इति—द्वितीयान्त-पाठो वा, ततश्च समासाद्य समागम्य स्पृष्ट्वेत्यर्थः ॥४६१॥
यो मे कुसुम्भ-शाकेन प्रापणं कुरुते नरः ॥४६२॥
अपि च—
मम दृष्टेर् अभिमुखं ताम्बूलं चर्वयेत् तु यः । कुरूवकः पलाशस्थैः पुष्पैः कुर्यान् ममार्चनम् ॥४६३॥ ममार्चाम् आसुरे काले यः करोति विमूढ-धीः । पीठासनोपविष्टो यः पूजयेद् वा निरासनः ॥४६४॥ वाम-हस्तेन मां धृत्वा स्नापयेद् वा विमूढ-धीः । पूजा पर्युषितैः पुष्पैः ष्ठीवनं गर्व-कल्पनम् ॥४६५॥
सनातनः- प्रापणं नैवेद्यं, ष्ठीवनं गर्व-कल्पनञ्चेति द्वयं भगवद्-आलये ज्ञेयम् ॥४६२-४६५॥
तिर्यक्-पुण्ड्र-धरो भूत्वा यः करोति ममार्चनम् । याचितैः पत्र-पुष्पाद्यैर् यः करोति ममार्चनम् ॥४६६॥
सनातनः- याचितैर् याचित्वा गृहीतैः, शक्तौ सत्याम् इति शेषः ॥४६६॥
अप्रक्षालित-पादो यः प्रविशेन् मम मन्दिरम् । अवैष्णवस्य पक्वान्नं यो मह्यं विनिवेदयेत् ॥४६७॥ अवैष्णवेषु पश्यत्सु मम पूजां करोति यः । अपूजयित्वा विघ्नेशं सम्भाष्य च कपालिनम् ॥४६८॥ नरः पूजां तु यः कुर्यात् स्नपनं च नखाम्भसा । अमौनी धर्म-लिप्ताङ्गो मम पूजां करोति यः ॥४६९॥
सनातनः- नखाम्भसा नख-स्पृष्ट-जलेन ॥४६९॥
ज्ञेयाः परे’पि बहवो’पराधाः सद्-असम्मतैः । आचारैः शास्त्र-विहित-निषिद्धातिक्रमादिभिः । तत्रापि सर्वथा कृष्ण-निर्माल्यं तु न लङ्घयेत् ॥४७०॥
सनातनः- न केवलम् एतावन्त एव, अन्येऽपि सन्तीति लिखति—ज्ञेया इति । सतां वैष्णवानाम् असम्मतैर् आचारैः कृत्वा हेतुभिर् वा; तानेव लिखति—शास्त्रेति । शास्त्रेण विहितं निषिद्धञ्च यत् तद्-अतिक्रमादिभिः । आदि-शब्देन निज-सम्प्रदायाचारातिक्रमादयः ॥४७०॥
तथा च नारसिंहे शन्तनुं प्रति नारद-वाक्यम् –
अतः परं तु निर्माल्यं न लङ्घय महीपते । नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥४७१॥ कृष्णस्य परितोषेप्सुर् न तच्-छपथम् आचरेत् । नाना-देवस्य निर्माल्यम् उपयुञ्जीत न क्वचित् ॥४७२॥
तथा विष्णु-धर्मोत्तरे—
आपाद्य् अपि च कष्टायां देवेश-शपथं नरः । न करोति हि यो ब्रह्मंस् तस्य तुष्यति केशवः ॥४७३॥ न धारयति निर्माल्यम् अन्य-देव-धृतं तु यः । भुङ्क्ते न चान्य-नैवेद्यं तस्य तुष्यति केशवः ॥४७४॥ इति ।
**अथापराध-शमनम् **
संवत्सरस्य मध्ये तु तीर्थे शौकरके मम । कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥ ४७५ ॥ मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ॥ ४७६ ॥ अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ॥ सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥ ४७७ ॥
स्कान्दे –
अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ ४७८ ॥
तत्र कार्त्तिक-माहात्म्ये –
तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः । अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ ४७९ ॥
तत्रैवान्यत्र –
द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् । द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ ४८० ॥ यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः । अपराध-सहस्राणि नित्यं हरति केशवः ॥४८१॥
**अथ शेष-ग्रहणम्
ततो भगवता दत्तं मन्यमानो दयालुना ।
महा-प्रसाद इत्य् उक्त्वा शेषं शिरसि धारयेत् ॥४८२॥
सनातनः-** शेषं निर्माल्यम् ॥४८२॥
**अथ निर्माल्य-धारण-नित्यता **
पाद्मे श्री-गौतमाम्बरीष-संवादे—
अम्बरीष हरेर् लग्नं नीरं पुष्पं विलेपनम् । भक्त्या न धत्ते शिरसा श्वपचाद् अधिको हि सः ॥४८३॥
**अथ श्री-भगवन्-निर्माल्य-माहात्म्यं **
स्कान्दे ब्रह्म-नारद-संवादे—
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने । सर्व-रोगैर् तथा पापैर् मुक्तो भवति नारद ॥४८४॥
सनातनः- निर्माल्यम् अनुलेपनादि ॥४८४॥
विष्णोर् निर्माल्य-शेषेण यो गात्रं परिमार्जयेत् । दुरितानि विनश्यन्ति व्याधयो यान्ति खण्डशः ॥४८५॥ मुखे शिरसि देहे तु विष्णूत्तिर्नं तु यो वहेत् । तुलसीं मुनि-शार्दूल न तस्य स्पृशते कलिः ॥४८६॥
किं च—
विष्णु-मूर्ति-स्थितं पुष्पं शिरसा यो वहेन् नरः । अपर्यूषित-पापस् तु यावद् युग-चतुष्टयम् ॥४८७॥
सनातनः- पुण्यं श्री-तुलस्यादि, अपर्युषित-पापः सद्यः सङ्क्षीण-पापः ॥४८७॥
किं करिष्यति सु-स्नातो गङ्गायां भूसुरोत्तम । यो वहेत् शिरसा नित्यं तुलसीं विष्णु-सेवितां ॥४८८॥ विष्णु-पादाब्ज-संलग्नाम् अहो-रात्रोषितां शुभाम् । तुलसीं धारयेद् यो वै तस्य पुण्यम् अनन्तकम् ॥४८९॥ अहो-रत्रं शिरे यस्य तुलसी विष्णु-सेविता । न स लिप्यति पापेन पद्म-पत्रम् इवाम्भसा ॥४९०॥
सनातनः- शिरे शिरसि; न लिप्यति, न लिप्यते ॥४९०॥
किं च—
विष्णोः शिरः-परिभ्रष्टम् भक्त्या यस् तुलसीं वहेत् । सिध्यान्ति सर्व-कार्याणि मनसा चिन्तितानि च ॥४९१॥
अपि च—
प्रमार्जयति यो देहम् तुलस्या वैष्णवो नरः । सर्व-तीर्थ-मयं देहं तत्-क्षनात् द्विज जायते ॥४९२॥
सनातनः- वैष्णव इत्यनेन श्री-भगवन्-निर्माल्य-तुलस्येति बोध्यम् ॥४९२॥
गारुडे—
हरेर् मूर्त्य्-अवशेषं तु तुलसी-काष्ठ-चन्दनम् । निर्माल्यं तु वहेद् यस् तु कोटि-तीर्थ-फलं लभेत् ॥४९३॥
नारद-पञ्चरात्रे—
भोजननान्तरं विष्णोर् अर्पितं तुलसी-दलम् । तत्-क्षनात् पाप-निर्मोक्तस् चान्द्रायण-शताधिकः ॥४९४॥
सनातनः- पापान्निर्मोकः निःशेषेण मुक्तिश् चान्द्रायण-शतादप्य् अधिक इति सवासनाशेष-पाप-सञ्चय-क्षपणात् ॥४९४॥
किं चान्यत्र—
कौतुकं शृणु मे देवि विष्णोर् निर्माल्य-वह्निना । तापितं नाशम् आयाति ब्रह्म-हत्यादि-पातकम् ॥४९५॥
सनातनः- निर्माल्यं प्रसाद-तुलस्यादि, तदेव वह्निस् तेन तापितं दग्धं सत् ॥४९५॥
एकादश-स्कन्धे (११.६.४६) श्री-भगवन्तं प्रत्य् उद्धवोक्तौ—
त्वयोपयुक्त-स्रग्-गन्ध-वासो’लङ्कार-चर्चितः । उच्छिस्त-भोजिनो दासास् तव मायां जयेम हि ॥४९६॥
अत एव स्कान्दे श्री-यमस्य दूतानुशासने—
पादोदक-रता ये च हरेर् निर्माल्य-धारकाः । विष्णु-भक्ति-रता ये वै ते तु त्याज्यः सु-दुरतः ॥४९७॥ इति ।
विसर्जनं तु चेत् कार्यं विसृज्य-वरणानि तत् ।
देवे तन्-मुद्रया प्रार्थ्य देवं हृदि विसर्जयेत् ॥४९८॥
तथा चोक्तं—
पूजितो’सि मया भक्त्या भगवन् कमल-पते । स लक्ष्मीको मम स्वान्तं विश विश्रान्ति-हेतवे ॥४९९॥ प्रार्थ्यैवं पादुके दत्त्वा सङ्गम् उद्वासयेद् धरिम् । प्राणायामं षड्-अङ्गं च कृत्वा मुद्रां विसर्जनीम् ॥५००॥
**अथ पूज-विधि-विवेकः
अयं पूज-विधिर् मन्त्र-सिद्ध्य्-अर्थस्य जपस्य हि ।
अङ्गं भक्तेस् तु तन्-निष्ठैर् न्यासादीन् अन्तरेष्यते ॥५०१॥
सनातनः-** एवं क्रम-दीपिकाद्य्-उक्तानुसारेण प्रायः काम-पराणां पूजा-विधिं लिखित्वा इदानीं श्री-भगवद्-भक्ति-पराणां पूजा-विधिं तत्रैव विभज्य दर्शयति—अयमिति । पञ्चमादि-विलास-चतुष्टयेन लिखितोऽयं पूजाविधिः श्री-भगवद्-अर्चन-प्रकारः, जपस्य अङ्गं, क्रम-दीपिकाद्य्-अभिप्रेतस्य तत्-तत्-कामेन जपस्यैव तत्र प्राधान्यात् । कथम्-भूतस्य ? मन्त्रस्य सिद्धिः साधनं, सैव अर्थः प्रयोजनं यस्य तस्य, अतस् तत्-तत्-फलार्थं जपेन मन्त्र-साधनस्यैव विधेयत्वात् मन्त्रादीनां श्री-भगवता सहाभेदापादनार्थं तत्-तन्-न्यासादिकम् इति भावः । भक्तेर् नव-विधायास् तु अङ्गं यः पूजा-विधिः स च न्यासादीन् प्रकारान् अन्तरा विनैव भक्ति-निष्ठुर् इष्यते । आदि-शब्देन आवाहनादि-कतिपय-मुद्रादि च । भक्ति-परैः साक्षाद् भगवद्-बुद्ध्या श्री-मूर्त्यादि-पूजने न्यासाद्य्-अयोगाद् इत्येषा दिक् ॥५०१॥
तत्र देवलये पूज नित्यत्वेन महाप्रभोः ।
काम्यत्वेन्âपि गेहे तु प्रायो नित्यतया मता ॥५०२॥
सनातनः- भक्त्य्-अङ्ग-पूजा-विधौ च देवालय-निज-गृह-भेदेन कथञ्चिद् भेदम् अपि परं दर्शयति—तत्रेति । तस्मिन् भक्त्य्-अङ्ग-पूजा-विधौ या देवालये निज-गृहात् पृथक्त्वेन केवलं भगवद्-अर्थं स्वयं निर्मिते मन्दिरे पूर्व-सिद्धे वा देव-कुलादौ महाप्रभोः श्री-भगवतः श्री-कृष्णस्य पूजा, सा तद्-उपासकानां नित्यत्वेन काम्यत्वेनापि मता भक्ति-निष्ठैः । एकादशी-व्रतादिवद् इत्यत्र दृष्टान्तो दृष्टव्यः । महाप्रभोर् इति नित्यत्वे काम्यत्वे च हेतुर् उन्नेयः, तस्यैवापूजने महा-दोष-श्रवणात्, पूजने चाशेष-वाञ्छित-वाञ्छातीत-फल-सिद्धेश्च । तत् सर्वम् अग्रे तत्-प्रकरणे व्यक्तं भावि । गेहे निज-गृहे च या पूजा, सा प्रायो नित्यत्वेनैव मता । एवं देवालये पूजाया नित्यतयावश्य-कर्तव्यत्वाद् अकरणे प्रत्यवायः । सम्पादनञ्च तस्याः केवलं कर्तव्यत्वेन श्री-भगवत्-प्रीत्य्-उद्देशेन वा । काम्यतया च तत्-तत्-फलापेक्षया यथा-विधि श्रेष्ठ-प्रेष्ठ-द्रव्य-समर्पणादि-कालानतिक्रमणम् अपराध-वर्जनादिकञ्च ज्ञेयम् । गृहे च नित्यत्वेन केवलम् अकरणे प्रत्यवाय-परिहारात् फलानुसन्धानाभावाच्च निज-नियम-परिपालनानुसारेण स्व-गृह-सिद्ध-द्रव्यार्पणादिकम् एवेति । यद्यपि अग्निहोत्रादौ नित्य-कर्मण्यपि सामान्यतो ब्रह्म-लोकादि-प्राप्तिः फलं, यथा श्रूयते, तथात्रापि परम-पद-प्राप्तिः फलम् अस्त्येव, तथापि सेवकस् तच्चाननुसन्धेयम् । केवलं कर्तव्यत्वेनैव कार्यम् इत्युक्तम् । प्राय इत्यनेन देवालयवद् गृहेऽपि कस्यचित् कदाचित् केनचित् कामेनापि पूजा सम्मतेति ॥५०२॥
सेवादि-नियमो देवालये देवस्य चेष्यते ।
प्रायः स्व-गेहे स्वच्छन्द-सेवा स्व-व्रत-रक्षया ॥५०३॥
सनातनः- तदेवाभिव्यञ्जयन् तत्-तद्-भेद-फलं लिखति—सेवादीति । देवस्य भगवतः सेवाया भक्ति-विशेषेण पूजाया नियमो यस्मिन् काले, येन द्रव्येण, यथा येन कत्रो कार्यतादि-रूपः, तथा यद्यत् प्रियतमं लोके यच्चातिप्रियम् आत्मनः (श्री।भा। ११.११.४१) इत्यादि-वचनानुसारेण तत्-तद्-द्रव्यार्पण-रूपश्च; तथा केवलं श्री-भगवद्-उद्देशेनैव यथा-कालं नित्य-नियमित-भोगार्पणादि-रूपश्च । आदि-शब्दात् अग्रे पृष्ठे वाम-भागे इत्यादि-वचनानुसारेण यस्मिन् स्थाने यथा नमस्कार्यमिति प्रणाम-नियमः; तथा यत्र भोजनादिकम् उपयुज्यते, तत्रैव तत् कर्तव्यम् इत्यादि-प्रकारको वाराहाद्य्-उक्त-देवालय-विषयकापराध-परिहारादि-नियमश् चेष्यते भक्ति-निष्ठैः; अन्यथा सम्यक् फलासिद्धेः । अतो व्रत-दिनेऽप्यन्य-दिनवद् भोग-समर्पणं सम्मतं स्यात् । एवं केचिद् द्वादश्यां दिवापि भगवतः स्वापनम् इच्छन्ति, निज-गृहे तु स्वच्छन्देन निजेच्छया वेष्यते । यदा यत्र येन द्रव्येण यथा सेवा कर्तुं शक्यते, तदा तत्र तेन तथा कार्या, न तु काल-देश-द्रव्यादि-नियमेनेत्यर्थः । गृहस्थानाम् अवश्य-कृत्य-कुटुम्ब-भरणादि-व्यापारपरतया निज-भृत्यातिथ्याद्य्-अपेक्षया च तत्-तन्-नियमासिद्धेः । अतो निज-परिवार-वैष्णवाभ्यागताद्य्-अपेक्षया भगवद्-अर्प्य-भोगस्य कदाचिद् बहुलताऽल्पता च स्यात् । तत्र च स्वस्य आत्मनो यद्-व्रतं नियमः वैष्णवत्वेन नित्यं वृन्ताक-मसुरादि-वर्जनं, दशम्यादौ क्षारादि-वर्जनं, चातुर्मास्यादौ शाकादि-कलिङ्गादि-वर्जनञ्च, तथा द्वादश्यनतिक्रमणादिकञ्च, तस्य रक्षया तत्-परिपालनानुसारेणेत्यर्थः । अतो व्रत-दिने केचिद् अन्नञ्च न समर्पयन्ति; एवं यदा यान्येवात्मोपभोग-योग्यानि, तदा तान्येव भगवते समर्प्याणीति भावः । यदि वा भक्ति-विशेषतः कदाचित् तानि समर्प्येरन्, तदा निज-व्रतापेक्षया स्वयं नोपयोक्तव्यानि, कस्मैचिद् वैष्णवाय देयानि, जले वार्प्याणि । एकान्तिभिश्च भाव-विशेषेण चेत् तानि स्वयम् उपयुज्येरन्; ततश्च तेषां व्रतादावनधिकारान्न कोऽपि दोषो घटेतेत्य् अग्रे लेखम् एव । प्राय इत्यनेन च देवालय इव भक्ति-विशेषेण कस्यचित् कदाचित् कश्चित् सेवा-नियमोऽभिप्रेतः । एतच्च लौकिकेन सेवा-शब्देनापि लौकिक-बन्धुवत् श्री-भगवति सूचिचेन भाव-विशेषेणानुमतमेव । यद्यपि स्व-व्रत-रक्षयेत्यत्रापि प्रायः शब्द-सम्बन्धे कृते कदाचित् कस्यचिद् भक्ति-विशेषेण निज-व्रतानादरश् चापद्यते, तथापि कृष्णस् तस्य पराङ्मुख इत्यादि-वचनात् कार्तिकादि-व्रताकरणे महादोष-श्रवणात्, वैष्णवैः स्वव्रतं परिपाल्यम् एवेति तथा न व्याख्येयम् । किञ्च, यद्यपि गृहेऽपि पूजापराध-वर्जनादिकम् अपेक्ष्यते, तथापि उच्चैर्भाषा मिथोजल्प इत्याद्य् अपराधानां प्रायो गृहे वर्जनस्याशक्यत्वात् तत्-तन्-नियमो न सम्भवेद् इति ज्ञेयम् । इत्थं चैक-कालं द्वि-कालं वेत्यादि-वचनात् एक-कालमपि पूजा; तथा निज-गृह-प्रदेशे समावेशेन यत्र कुत्रापि भगवते नमस्कारः, श्री-भगवत्-पुरतो भोजनञ्चोपपद्यते । एवम् अन्यद् अप्य् ऊह्यम् । एवमेव सर्वम् अविरुद्धम् अनवद्यञ्च स्यात् । अन्यथा द्वात्रिंशद्-अपराधेषु भगवद्-अग्रतो भोजन-निषेधस्य नैवेद्यशेषं तुलसी-विमिश्रितम् इत्यादौ मुरारेः पूरतो भोजने महागुणतया विधानस्य चेत्यादेर् बहुल-विरोधापत्तेर् इत्येषा दिक् ॥५०३॥
किं च विष्णु-धर्मोत्तरे—
घृतेन स्नपितं देवं चन्दनेनानुलेपयेत् । सित-जात्याश् च कुसुमैह् पूजयेत् तद्-अनन्तरम् ॥५०४॥ श्वेतेन वस्त्र-युग्मेन तथा मुक्ता-फलैः शुभैः । मुख्य-कर्पूर-धूपेन पयसा पायसेन च ॥५०५॥ पद्म-सूत्रस्य वर्त्त्या च घृत-धूपेन चाप्य् अथ । पूजयेत् सर्वथा यत्नात् सर्व-काम-प्रदार्चनम् ॥५०६॥ कृत्वेमं मुच्यते रोगी रोगात् शीघ्रम् असंशयम् । दुःखार्तो मुच्यते दुःखाद् बद्धो मुच्येत बन्धनात् ॥५०७॥ राज-ग्रस्तश् च मुच्येत तथा राज-भयान् नरः । क्षेमेण गच्छेद् अध्वानम् सर्वानर्थ-विवर्जितः ॥५०८॥ इति ।
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
प्रातर्-अर्चा-समापनो नामाष्टमो विलासः ।