०७ पुष्पम्

सप्तम-विलासः

पौष्पिकः

कुमनाः सुमनस्त्वं हि याति यस्य पदाब्जयोः ।
सुमनो’र्पण-मात्रेण तं चैतन्य-प्रभुं भजे ॥१॥
श्रीमद्-अङ्गानि तैर् भक्त्या समालिप्यानुलेपनैः ।
निवेद्योत्तम-पुष्पाणि तन्-मुद्रां च प्रदर्शयेत् ॥२॥

विचित्र-पुष्प-प्रदान-प्रकरण-लिखन-सौष्ठवाय निजेष्ट-देव-रूपं पर्मअ-गुरु-वरं शरणं याति—कुमना इति । सुमनसां पुष्पाणाम् अर्पण-मात्रेण सुमनस्त्वम् इति श्लेषेण पादाब्जयोः पुष्पवत् संसक्ततया प्रियतमत्वम् अभिप्रेतम् ॥१॥

अथ पुष्पाणि

नारसिंहे—

पुष्पैर् अरण्य-सम्भूतैस् तथा नगर-सम्भवैः ।
अपर्युषित-निश्छिद्रैः प्रोक्षितैर् जन्तु-वर्जितैः ।
आत्मारामोद्भवैर् वापि पूतैः सम्पूजयेद् धरिम् ॥३॥

तैर् लिखितैर् भक्त्या प्रीत्या अभक्ति-च्छेदेन वा । तस्य पुष्प-निवेदनस्य मुद्राम् । अपर्युषितैर् निश्छिद्रैश् च अविदीर्ण-दलैः । आत्मनः । आरामः उपवनं तद्-उद्भवैः ॥२-३॥

वामन-पुराणे श्री-प्रह्लाद-बलि-संवादे—

तान्य् एव सुप्रशस्तानि कुसुमानि महासुर ।
यानि स्युर् वर्ण-युक्तानि रस-गन्ध-युतानि च ॥४॥
जाती शताङ्गा सुमनाः कुन्दं चारु-पुटं तथा ।
वाणं च चम्पकाशोकं कर-वीरं च यूथिका ॥५॥
पारिभद्रं पाटला च बकुलं गिरि-शालिनी ।
तिलकं जासुवनजं पीतकं तगरं तथा ॥६॥
एतानि सुप्रशस्तानि कुसुमान्य् अच्युतार्चने ।
सुरभीणि तथान्यानि वर्जयित्वा तु केतकीम् ॥७॥

शताङ्गा शत-पत्रिका, चारु-पुटं कर्णिकारं, वाणं झिण्टी-भेदः । पारिभद्रं पलहदेति प्रसिद्धम् । गिरि-शालिनी श्वेत-कूटजं जासुवनजं जवाकुसुमं पीतकं पियलीति प्रसिद्धम्। केतकीम् इति वन-केतकीम् ॥५-७॥

विष्णु-धर्मोत्तरे—

कुङ्कुमस्य च पुष्पाणि बन्धु-जीवस्य चाप्य् अथ ।
चम्पकस्य च देयानि तथा भूचम्पकस्य च ॥८॥
पीत-यूथिक-जान्य् एव यानि वै नीपजान्य् अपि ।
मञ्जर्यः सहकारस्य तथा देया जनार्दने ॥९॥
मल्लिका-कुब्ज-कुसुमम् अतिमुककम् एव च ।
सर्वाश् च यूथिकाजात्यो मल्लिकाजात्य एव च ॥१०॥
याश् च कुब्जकजाजात्यः कदम्ब-कुसुमानि च ।
केतकी पाटला-पुष्पं काण्व-पुष्पं तथैव च ॥११॥
एवम् आदीनि देयानि गन्धवन्ति शुभानि च ।
केचिद् वर्ण-गुणाद् एव केचिद् गन्ध-गुणाद् अथ ॥१२॥
अनुक्तान्य् अपि रम्याणि तथा देयानि कानिचित् ।
देशे देशे काले यानि पुष्पाण्य् अनेकशः ॥१३॥
गन्धर्वोपपन्नानि तानि देयानि नित्यशः ॥१४॥

नीपः कदम्ब-भेदः । अतिमुक्तकं माधवी-लता । काण्व-पुष्पं कणतुहुलीति प्रसिद्धम् । वासन्ती वसन्तोद्भवा वार्षिकी च या मल्लिका । तस्याः पुष्पम् इत्य् अर्थः ॥८-१४॥

किं च तत्रैव श्री-वज्र-मार्कण्डेय-संवादे—

मध्ये’न्य-वर्णो यस्य स्यात् शुक्लस्य कुसुमस्य च ।
शुभ-सुक्लं तु विज्ञेयं केशव-प्रियम् ॥१५॥

स्कान्दे—

वासन्ति मल्लिका-पुष्पं तथा वै वार्षिकी तु या ।
कुसुम्भं यूथिके द्वे च तथा चैवातिमुक्तकम् ॥१६॥
केतकं चम्पकं चैव माष-वृन्तकम् एव च ।
पुरन्ध्रि-मञ्जरी-पुष्पं चूत-पुष्पं तथैव च ॥१७॥

पुनन्ध्रिः पुङ्गवीति प्रसिद्धा । तस्या मञ्जरी पुष्पं च ॥१७॥

बन्धु-जीवक-पुष्पं च कुसुमं कुङ्कुमस्य च ।
जाति-पुष्पाणि सर्वाणि कुन्द-पुष्पं तथैव च ॥१८॥
पाटलायास् तथा पुष्पं नीलम् इन्दीवरं तथा ।
कुमुदे श्वेत-रक्ते च श्वेत-रक्ते तथाम्बुजे ॥१९॥

तत्रैवान्यत्र—

एवम् आदीनि पुष्पाणि दातव्यानि सदा हरेः ॥२०॥
मालती तुलसी पद्मं केतकी मणि-पुष्पकम् ।
कदम्ब-कुसुमं लक्ष्मीः कौस्तुभं केशव-प्रियम् ॥२१॥

यथा लक्ष्मीः कौस्तुभं चेति दृष्टान्तत्वेनोदाहृतम् ॥२१॥

किं च—

कण्टकीन्य् अपि देयानि शुक्लानि सुरभीणि च । तथा रक्तानि देयानि जलजानि द्विजोत्तम ॥२२॥

कण्टकीनि कण्टक-युक्तानि ॥२२॥

नारदीये सप्तम-साहस्रे श्री-भगवन्-नारद-संवादे—

मालती बकुलाशोक-शेफाली नवमालिका । आम्रं च तगराख्यं च मल्लिका मधु-पिण्डिका ॥२३॥ यूथिकाष्टपदं कुन्द-कदम्ब-शिखि-पिङ्गिकम् । पाटला चम्पकं हृद्यं लवङ्गम् अतिमुक्तकम् ॥२४॥

शेफाली सेहलीति प्रसिद्धा । मधु मधुक-पुष्पम् । पिण्डिका नन्द्यावर्तः । अष्टपदं नाग-केशरं शिखी चूक्रियेति प्रसिद्धा । पिङ्गकं हरिद्रा-कुसुमम् ॥२३-२४॥

केतकं कुरुवकं बिल्वं कह्लारं वासकं द्विज । पञ्चविंशति-पुष्पाणि लक्ष्मी-तुल्य-प्रियाणि मे ॥२५॥ मदीया वनमाला च पुष्पैर् एभिर् मया पुरा । ग्रथिता च तथा तत्त्वैः पञ्चविंशतिभिः क्रमात् ॥२६॥

हारीत-स्मृतौ च—

तुलस्यौ पङ्कजे जात्यौ केतक्यौ करवीरकौ । शस्तानि दश-पुष्पाणि तथा रक्तोत्पलानि च ॥२७॥

अथ सामान्यतो’खिल-पुष्प-माहात्म्यम्

विष्णु-धर्मोत्तरे—

दानं सुमनसां श्रेष्ठं तथैव परिकीर्तितम् । अलक्ष्म्याः शमनं मुख्यं परं लक्ष्मी-विवर्धनम् ॥२८॥ **धन्यं यशस्यम् आयुष्यं माङ्गल्यं बुद्धि-वर्धनम् । ** स्वर्गदं च तथा प्रोक्तं वह्निष्टोम-फल-प्रदम् ॥२९॥ **न रत्नेन सुवर्णेन न च वित्तेन भूरिणा । ** तथा प्रसादम् आयाति देवश् चक्र-गदाधरः ॥३०॥

तत्रैवान्यत्र—

धर्मार्जित-धन-क्रीतैर् यः कुर्यात् केशवार्चनम् । उद्धरिष्यत्य् असन्देहं सप्त पूर्वास् तथापरान् ॥३१॥

धर्मेण न्यायेन अर्जितं यद् धनं, तेन क्रीतैः कुसुमैः । एतेन न्यायोपात्त-वित्तेन पुष्प-क्रयणम् अपि शस्तं ब्राह्मणादेर् इति बोधितम् ॥३१॥

आरामस्थैस् तु कुसुमैर् यः कुर्यात् केशवार्चनम् । एतद् एव समाप्नोति नात्र कार्या विचारणा ॥३२॥ यथा कथञ्चिद् आहृत्य कुसुमईह् पुञयन् हरिम् । नाकपृष्ठम् अवाप्नोति न मे’त्रास्ति विचारणा ॥३३॥ तथा राष्ट्राहृतैः पुष्पैर् यः कुर्यात् केशवार्चनम् । पञ्चविंशत्य् अतीतांश् च पञ्चविंशत्य्-अनागतान् । उद्धरेद् आत्मनो वंश्यान् नात्र कार्या विचारणा ॥३४॥ नगरे’पि वसन् यस् तु भकिष्याशी शंसित-व्रतः । अरण्याद् आहृतैः पुष्पैः पत्र-मूल-फलाङ्कुरैः ॥३५॥ यथोपपन्नैः सततम् अभ्यर्चयति केशवम् ॥३६॥ सर्व-काम-प्रदो देवस् तस्य स्यान् मधुसूदनः । पुंसस् तस्याप्य् अकामस्य परं स्थानं प्रकीर्तितम् । यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम् ॥३७॥

तत्रैव श्री-वज्र-मार्कण्डेय-संवादे—

अक्षमैस् तूपवासानां धन-हीनैस् तथा नरैः । अरण्याद् आहृतैः पुष्पैः सम्पूज्य मधुसूदनम् । पूर्व-जन्मनि सम्प्राप्तं राज्यं शृणु नराधिप ॥३८॥ नृपो ययातिर् नहुषो विश्व-गन्धः करन्धमः ॥ दिलीपो युवनाश्वश् च शतपर्वा भगीरथः ॥३९॥ भीमश् चसहदेवश् च महाशीलो महामनुः । देवलः कालकाक्षश् च कृतवीर्यो गुणाकरः ॥४०॥ देवरातः कुसुम्भश् च विनीतो विक्रमो रघुः । महोत्साहो वीतभयो नमित्रः प्रभाकरः ॥४१॥

अनमित्र इत्य् आदाव् अ-कार-लोपाभावादिकम् आर्षम् ॥४१॥

**कपोत-रोमा पर्जन्यश् चन्द्रसेनः परन्तपः । ** भीमसेनो दृढरथः कुशनाभः प्रतर्दनः ॥४२॥ एते चान्ये च बहवः पूर्व-जन्मनि केशवम् । पूजयित्वा क्षिताव् अस्यां प्र्पू राज्यम् अकण्टकम् ॥४३॥ यक्षत्वम् अथ गान्धर्वं देवत्वं च तथैव च । विद्याधरत्वं नागत्वं ये गता मनुजोत्तमाः ॥४४॥ बहुत्वाच् च न ते शक्या मया वक्तुं तवानघ । तस्माद् यत्नः सदा कार्यः पुरुषैः कुसुमार्चने ॥४५॥ अरण्य-जातैः कुसुमैः सदैव स पूजयित्वा स्वयम् आहृतैस् तु । **सर्वेश्वरं यत् फलम् आप्नुवन्ति ** राजेन्द्र तद् वर्णयितुं न शक्यम् ॥४६॥ स्वयम् आहृत्य पुष्पाणि भिक्षाशी केशवार्चनम् । यः करोति स राजेन्द्र वंशानाम् उद्धरेत् शतम् ॥४७॥

विष्णु-धर्मोत्तरे—

पुष्पाणि तु सुगन्धीनि मनोज्ञानि तु यः पुमान् । प्रयच्छति हृषीकेशे स भागवत-मानवः ॥४८॥

नारसिंहे—

तपः-शील-गुणोपेते पात्रे वेदस्य पारगे । दश दत्त्वा सुवर्णानि यत् फलं समवाप्नुयात् । तत् फलं लभते मर्त्यो हरेः कुसुम-दानतः ॥४९॥

तत्रैवाग्रे—

मल्लिका-मालती-जाती-केतकाशोक-चम्पकैः । पुन्नाग-नाग-बकुलैः पद्मैर् उत्पल-जातिभिः ॥५०॥ एतैर् अन्यैश् च कुसुमैः प्रशस्तैर् अच्युतं नरः । अर्चन् दश-सुवर्णस्य प्रत्येकं फलम् आप्नुयात् ॥५१॥ एवं हि राजन् नरसिंह-मूर्तेः प्रियाणि पुष्पाणि तवेरितानि । एतैश् च नित्यं हरिम् अर्च्य भक्त्या नरो विशुद्धो हरिम् एव याति ॥५२॥

स्कान्दे—

स्वयम् आहृत्य यो दद्याद् अरण्य-कुसुमानि च । स राज्यं स्फीतम् आप्नोति लोके निहत-कण्टकम् ॥५३॥

तत्रैव श्री-शिवोमा-संवादे—

यैः कैश्चिद् इह पुष्पैश् च जलजैः स्थलजैर् अपि । सम्पूज्य कथितैर् भक्त्या विष्णु-लोके महीयते ॥५४॥

कथितैर् विहितैर् इत्य् अर्थः । पूर्वोक्तैर् वा ॥५४॥

विष्णु-रहस्ये श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे—

ऋतु-कालोद्भवैः पुष्पैर् यो’र्चयेद् रुक्मिणी-पतिम् । सर्वान् कामान् अवाप्नोति यान् दिव्यान् यांश् च मानुषान् ॥५५॥

अथ पुष्प-विशेष-माहात्म्यम्

तथा च नारसिंहे—

पुष्प-जाति-विशेषेण भवेत् पुण्यं विशेषतः ॥५६॥

किं च—

एवं पुष्प-विशेषेण फलं तद्-अधिकं नृप । ज्ञेयं पुष्पान्तरेणापि यथा स्यात् तन् निबोध मे ॥५७॥

एवम् इति द्रोण-पुष्पोक्ति-प्रकारेणेति ज्ञेयम् । तत्-पुराणे द्रोण-पुष्पे तथैकस्मिन्न् इत्य् अनन्तरम् अस्य पाठात् । अतः पुष्पान्तरेणेति द्रोण-पुष्पाद् इतरेणापीत्य् अर्थः । पुष्पान्तरज्ञेनेति पाठे अन्तरं भेदस् तज्-ज्ञेन ॥५७॥

तत्र द्रोण-पुष्प-माहात्म्यम्

नारसिंह एव—

द्रोण-पुष्पे तथैकस्मिन् माधवाय निवेदिते । दत्त्वा दश सुवर्णानि यत् फलं तद् अवाप्नुयात् ॥५८॥

जात्या माहात्म्यम्

द्रोण-पुष्प-सहस्रेभ्यः खादिरं वै विशिष्यते । शमी-पुष्प-सहस्रेभ्यो बिल्व-पुष्पं विशिष्यते ॥५९॥ बिल्व-पुष्प-सहस्रेभ्यो बक-पुष्पां विशिष्यते । बक-पुष्प-सहस्राद् धि नन्द्यावर्तं विशिष्यते ॥६०॥ नन्द्यावर्त-सहस्राद् धि करवीरं विशिष्यते । करवीरस्य कुसुमात् श्वेत-पुष्पम् अनुत्तमम् ॥६१॥

नन्द्यावर्तं पिण्डी-तगरम् । करवीरं रक्तम् अग्रे श्वेतम् इत्य् उक्तेः ॥६१॥

करवीर-श्वेत-कुसुमात् पालाशं पुष्पम् उत्तमम् । पालाश-पुष्प-साहस्र्यात् सेवन्ती-पुष्पम् उत्तमम् ॥६२॥ कुश-पुष्प-सहस्राणां मालती-पुष्पम् उत्तमम् । वनमाला-सहस्राद्धि चम्पकं तु विशिष्यते ॥६३॥

वनमाला पुष्प-विशेषो मालती-जाति-भेदः ॥६३॥

**चम्पकात् पुष्प-शतकाद् अशोक-पुष्पम् उत्तमम् । ** अशोक-पुष्प-साहस्र्यात् सेवन्ती-पुष्पम् उत्तमम् ॥६४॥ कुब्ज-पुष्प-सहस्राणां मालती-पुष्पम् उत्तमम् । मालती-पुष्प-साहस्र्यात् त्रि-सन्ध्या-पुष्पम् उत्तमम् ॥६५॥ त्रि-सन्ध्या-रक्त-साहस्र्यात् त्रि-सन्ध्या-श्वेतकं वरम् । त्रि-सन्ध्या-श्वेत-साहस्र्यात् कुन्द-पुष्पं विशिष्यते ॥६६॥ कुन्द-पुष्प-सहस्राद् धि शतपत्रं विशिष्यते । शतपत्र-सहस्राद् धि मल्लिका-पुष्पम् उत्तमम् ॥६७॥ मल्लिका-पुष्प-साहस्र्याज् जाती-पुष्पं विशिष्यते । सर्वासां पुष्प-जातीनां जाती-पुष्पम् इहोत्तमम् ॥६८॥ जाती-पुष्प-सहस्रेण यच्छन् मालां सुशोभनाम् । विष्णवे विधिवद् भक्त्या तस्य पुण्य-फलं शृणु ॥६९॥ कल्प-कोटि-सहस्राणि कल्प-कोटि-शतानि च । वसेद् विष्णु-पुरे श्रीमान् विष्णु-तुल्य-पराक्रमः ॥७०॥ शेषाणां पुष्पजातीनां यत् फलं विधि-दर्शितम् । तत्-फलस्यानुसारेण विष्णु-लोके महीयते ॥७१॥

विष्णु-धर्मोत्तरे—

सर्वासां पुष्प-जातीनां जात्यः श्रेष्ठतमा मताः । जातीनाम् अपि सर्वासां शुक्ला जातिः प्रशस्यते ॥७२॥

स्कान्दे’पि ब्रह्म-नारद-संवादे—मल्लिका इत्य् आदि-श्लोक-त्रयम् आस्ते ॥७३॥

किं च तत्रैवान्यत्र—

जाती-पुष्प-प्रदानेन गन्धर्वैः सह मोदते । जाती-पुष्पाष्टकं दत्त्वा वह्निष्टोम-फलं भवेत् ॥७४॥ जाती-पुष्प-सहस्रेण यथेष्टां गतिम् आप्नुयात् । श्वेतद्वीपम् अवाप्नोति लक्ष-पूजा-विधायकः ॥७५॥

लक्षं जाती-पुष्पाणाम् एव, तेन पूजायाः विधायकः ॥७५॥

जाती-पुष्प-कृतां मालां कर्पूर-पट-वासिताम् । निवेद्य देवदेवाय यत् फलं प्राप्नुयान् नरः । न तद् वर्णयितुं शक्यम् अपि वर्ष-शतैर् अपि ॥७६॥

कर्पूरस्य पटः चूर्ण-गन्धस् तेन वासिताम् ॥७६॥

मालत्या माहात्म्यम्

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

वर्णानां तु यथा विप्रस् तीर्थानां जाह्नवी यथा । सुराणां तु यथा विष्णुः पुष्पाणां मालती तथा ॥७७॥ मालत्या हि तथा देवं यो’र्चयेद् गरुडध्वजम् । जन्म-दुःख-जरारोगैर् मुक्तो’सौ मुक्तिम् आप्नुयात् ॥७८॥

मालवत्या इति पाठे’पि मालवत्य् एव मालती । मुक्तिं परमानन्द-लक्षणाम् ॥७८॥

कार्त्तिके च तस्या माहात्म्य-विशेषः

तत्रैवान्यत्र—

यो’र्चयेन् मालती-पुष्पैः कृष्णं त्रिभुवनेश्वरम् । तेनाप्तं नास्ति सन्देहस् तत्-पदं दुर्लभं हरेः ॥७९॥ मालती-कलिका-मालाम् ईषद्-विकसितां हरेः । दत्त्वा शिरसि विप्रेन्द्र वाजिमेध-फलं लभेत् ॥८०॥

गरुडे—

पक्षीन्द्र न श्रुतं दृष्टं भूतं वा न भविष्यति । मालत्या न समं पुष्पं द्वादश्या न समा तिथिः ॥८१॥

न समम् इत्य् अत्र न-कारस्य अधुनापि नास्तीत्य् अर्थः ॥८१॥

पुष्पेणैकेन मालत्याः प्रीतिर् या केशवस्य हि । न सा क्रतु-सहस्रेण भवते नारदो’ब्रवीत् ॥८२॥

भवते भवति इत्य् आदिकम् आर्षम् उन्नेयम् ॥८२॥

यत्र यत्र खग-श्रेष्ठ भवते मालती-वनम् । पत्रे पत्रे तथा तुष्टो वसते तत्र केशवः ॥८३॥ दृष्ट्वा तु मालती-पुष्पं वैष्णवेन करे धृतम् । प्रीतो भवति दैत्यारिः सुतं दृष्ट्वा यथा खगः ॥८४॥ पुष्पे पुष्पे खग-श्रेष्ठ मालत्याः सुमनोहरे । अक्षयं प्राप्यते स्थानं दाह-प्रलय-वर्जितम् ॥८५॥ वल्लभं मालती-पुष्पं माधवस्य सदैव हि । हेलया दापयेत् स्थानं स्वकीयं गरुडध्वजः ॥८६॥ दत्त-मात्रं हरेः पुष्पं निर्माल्यं भवति क्षणात् । अहो-रात्रं प्रभुक्तं हि मालती-कुसुमं न हि ॥८७॥

निर्माल्यम् इति उपभुक्तत्वेनोत्तारण-योग्यम् इत्य् अर्थः । नहि निर्माल्यं भवति । पाठान्तरं सुगमम् ॥८७॥

विष्णोर् अङ्गात् परिभ्रष्टं मालती-कुसुमं खग । यो धारयेच् च शिरसि सर्व-धर्म-फलं लभेत् ॥८८॥ अदत्त्वा केशवे यस् तु स्व-मूर्ध्ना मालतीं वहेत् । स नरः खग-शार्दूल सर्व-धर्म-च्युतो भवेत् ॥८९॥

अदत्त्वा असमर्प्य ॥८९॥

कार्त्तिके च तस्या माहात्म्य-विशेषः

तथा च गारुडे—

सुवर्ण-दानं गो-दानं भूमि-दानं खगेश्वर । विहाय कार्त्तिके मासि मालतीं यच्छ केशवे ॥९०॥ सर्व-मासेषु पक्षीन्द्र मालती केशव-प्रिया । प्रबोधन्यां विशेषेण अश्वमेधादि-दायिनी ॥९१॥

स्कान्दे ब्रह्म-नारद-संवादे—

मालती-मालया विष्णुः पूजितो येन कार्त्तिके । पापाक्षर-कृतां मालां हठात् सौरिः प्रमार्जति ॥९२॥

मालां पङ्क्तिं । सौरिर् यमः ॥९२॥

पाद्मे उत्तर-खण्डे कार्त्तिक-माहात्म्ये—

मालती-जातिका-पुष्पैः स्वर्ण-जात्या च चम्पकैः । पूजितो माधवो दद्यात् कार्त्तिके वैष्णवं पदम् ॥९३॥

कमलस्य माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे—

शुभ्राशुभ्रैर् महा-गन्धैः कुसुमैः पङ्कजोद्भवैः । अधोक्षजं समभ्यर्च्य नरो याति हरेः पदम् ॥९४॥

तत्रैवान्यत्र—

अहो नष्टा विनष्टास् ते पतिताः कलि-कन्दरे । यैर् नार्चितो हरिर् भक्त्या कमलैर् असितैः सितैः ॥९५॥ पद्मेनैकेन देवेशं यो’र्चयेत् कमला-प्रियम् ।
वर्षायुत-सहस्रस्य पापस्य कुरुते क्षयम् ॥९६॥
पद्मैः पद्मालया-भर्ता पूजितः पद्म-हस्त-भृत् । ददाति वैष्णवान् पुत्रान् भक्तिम् अव्यभिचरिणीम् ॥९७॥

अप्रणयेनाप्य् अर्चितः सन् । पद्म-हस्त-भृद् इति यद्यपि हस्तेन पद्मं बिभर्तीत्य् अर्थः ॥९६-९७॥

तत्रैव श्री-शिवोमा-संवादे—

पद्म-पुष्पाणि यो दद्यात् तस्माच् छत-गुणं भवेत् ॥९८॥।

तस्माद् इति प्राग्वत् । तत्र पूर्वोक्तां सौर्वर्ण-पुष्प-दशक-फल-प्रदानात् करवीर-पुष्पार्पण-फलाद् इति ज्ञेयम् ॥९८॥

तत्र वर्ण-विशेषेण माहात्म्य-विशेषः

तथा च स्कान्दे—

रक्त-पद्म-प्रदानेन रुक्म-माषकदो भवेत् । शतं दत्त्वा च धर्मात्मा वह्निष्टोम-फलं लभेत् ॥९९॥ सहस्रं च तथा दत्त्वा सूर्य-लोके महीयते । विष्णु-लोकम् अवाप्नोति लक्ष-पूजा-विधायकः ॥१००॥ स्वयम् एव तथा लक्ष्मीर् भजते नात्र संशयः । रक्त-पद्म-प्रदानाद् धि श्वेतस्य द्विगुणं फलम् ॥१०१॥

रुक्म-माषकद इति सुवर्ण-माष-दन-फलं प्राप्नुयाद् इत्य् अर्थः । शतं रक्त-पद्मानाम् । एवम् अग्रे’पि स्वयम् एव लक्ष्मीर् भजत इति साक्षात् सर्व-सम्पत्तिस् तस्य भवेद् इत्य् अर्थः ॥९९-१०१॥

तत्रापि कार्त्तिके विशेषः

पाद्मोत्तर-खण्डे कार्त्तिक-माहात्म्ये—

कमलैः कमलाकान्तः पूजितः कर्त्तिके तु यैः । कमला अनुगा तेषां जन्मान्तर-शतेष्व् अपि ॥१०२॥

एवं कमला अनुगेत्य् अपि ॥१०२॥

स्कान्दे च श्री-ब्रह्म-नारद-संवादे—

कार्त्तिके नार्चितो यैस् तु कमलैः कमलेक्षणः । जन्म-कोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥१०३॥

नीलोत्पलस्य माहात्म्यम्

विष्णुधर्मोत्तरे—

दत्त्वा नीलोत्पलं मुख्यं कुसुमं कुङ्कुमस्य च । तुल्यं फलम् अवाप्नोति बन्धु-जीवस्य च द्विजाः ॥१०४॥ सुवर्ण-दश-दानस्य फलं प्राप्नोति मानवः । दत्त्वा नीलोत्पलं विष्णोर् नात्र कार्या विचारणा ॥१०५॥ नीलोत्पल-शतं दत्त्वा वह्निष्टोम-फलं लभेत् । नीलोत्पल-सहस्रेण पुण्डरीकम् अवाप्नुयात् । लक्ष-पूजां नरः कृत्वा राजसूय-फलं लभेत् ॥१०६॥

कुमुदस्य माहात्म्यम्

विष्णुधर्मोत्तरे—

रुक्म-माषक-दानस्य फलं कुमुदतो भवेत् । कुमुदानां शतं दत्त्वा चन्द्र-लोके महीयते ॥१०७॥ सहस्रं च तथा दत्त्वा यथेष्टां गतिम् आप्नुयात् । अश्वमेधम् अवाप्नोति लक्ष-पूजा-विधायकः ॥१०८॥ रक्तोत्पल-प्रदे विष्णोस् तथा स्याद् द्विगुणं फलम् ॥१०९॥

कदम्बस्य माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे—

जात-रूप-निभैर् विष्णुं कदम्ब-कुसुमैर् मुने । ये’र्चयन्ति च गोविन्दं न तेषां सौरिजं भयम् ॥११०॥ कदम्ब-कुसुमैर् हृद्यैर् ये’र्चयन्ति जनार्दनम् । तेषां यम्लयो नैव न जायन्ते कुयोनिषु ॥१११॥

किं च—

न तथा केतकी-पुष्पैर् मालती-कुसुमैर् न हि । तोषम् आयाति देवेशः कदम्ब-कुसुमैर् यथा ॥११२॥ **दृष्ट्वा कदम्ब-पुष्पाणि प्रीतो भवति माधवः । ** किं पुनः पूजितस् तैश् च सर्व-काम-प्रदो हरिः ॥११३॥ यथा पद्यालयां प्राप्य प्रीतो भवति माधवः । कदम्ब-कुसुमं लब्ध्वा तथा प्रीणाति लोक-कृत् ॥११४॥ सकृत् कदम्ब-पुष्पेण हेलया हरिर् अर्चितः । सप्त जन्मानि देवेशस् तस्य लक्ष्मीर् अदूरतः ॥११५॥ कदम्ब-पुष्प-गन्धेन केशवो वा सुवासितः । जन्मायुतार्जितस् तेन निहतः पाप-सञ्चयः ॥११६॥

लोक-कृद् अपि हेलयापि । वा-शब्दो यदि वेत्य् अर्थः । कदम्ब-पुष्पस्य गन्ध-मात्रेणापि, यदि वा वासितस् तथापीत्य् अर्थः ॥११४-११६॥

आषाढे विशेषः

तत्रैव—

घनागमे घन-श्यामः कदम्ब-कुसुमार्चितः । ददाति वाञ्छितान् कामान् शत-जन्मानि सम्पदः ॥११७॥ कदम्ब-कुसुमैर् देवं घन-वर्णं घनागमे । ये’र्चयन्ति मुनि-श्रेष्ठ तैर् आप्तं जन्मनः फलम् ॥११८॥

सम्पदश् च विभूतीर् ददाति । घन-श्याम इति घन-वर्णम् इति च कदम्ब-पुष्प-भूषणेन शोभातिशयो’भिप्रेतः ॥११८-११९॥

करवीरस्य माहात्म्यम्

स्कान्दे श्री-शिवोमा-संवादे—

करवीरैर् महादेवि यः पूजयति केशवम् । दश-सौवर्णकैः पुष्पैर् यत् फलं तद् अवाप्नुयात् ॥११९॥ करवीरैः सुरक्तैश् च यो विष्णुं सकृद् अर्चयेत् । गवाम् अयुत-दानस्य फलं प्राप्नोति मानवः ॥१२०॥

तत्रैव ब्रह्म-नारद-संवादे—

ये’र्चयन्ति सुराध्यक्षं करवीरैः सितासितैः । चतुर्युगानि विप्रेन्द्र प्रीतो भवति केशवः ॥१२१॥ सित-रक्तैर् महा-पुण्यैः कुसुमैः करवीरजैः । यो’च्युतं पूजयेद् भक्त्या स याति गरुडध्वजम् ॥१२२॥

पुरन्ध्रि-पुष्पस्य माहात्म्यम्

पुरन्ध्रि-पुष्पैर् यः कुर्यात् पूजां मधुरिपोर् नरः । तस्य प्रसादम् आयाति देवश् चक्र-गदाधरः ॥१२३॥ रम्याः पुरन्ध्रि-मञ्जर्यो दयितास् तस्य नित्यशः । पुरन्ध्रि-पुष्पं यो दद्याद् एकम् अप्य् अस्य मण्डले ॥१२४॥ तिल-प्रस्थ-प्रदानस्य फलं प्राप्नोत्य् असंशयम् । पुरन्ध्रि-मञ्जरी-पुष्पैः सहस्रेणार्चयेद् धरिम् ॥१२५॥ अग्निष्टोमम् अवाप्नोति कुलम् उद्धरते तथा । कर्पूर-पट-वासेन पुरन्ध्रिम् अधिवासिताम् ॥१२६॥ महा-रजन-रक्ते च तथा सूत्रे निवेशिताम् । मालां पुष्प-सहस्रेण यः प्रयच्छति भक्तितः ॥१२७॥ अश्वमेध-फलं तस्य नात्र कार्या विचारणा । शतेन वाजपेयस्य फलम् आप्नोत्य् असंशयम् । लक्ष-पूजां तथा कृत्वा सर्व-ज्ञानम् अवाप्नुयात् ॥१२८॥

तथेति समुच्चये पक्षान्तरे वा । महा-रजन-रक्तं सूत्रे पुष्प-सहस्रेण निवेशितां ग्रथितां मालां च यः प्रयच्छति । शतेन पुरन्ध्रि-पुष्पाणाम् । एवं लक्षं च । तेन पूजाम् ॥१२६-१२८॥

अगस्त्य-पुष्पस्य माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे—

अगस्त्य-कुसुमैर् देवं ये’र्चयन्ति जनार्दनम् । दर्शनात् तस्य देवर्षे नरकाग्निः प्रशाम्यति ॥१२९॥ न तत् करोति विप्रेन्द्र तपसा तोषितो हरिः । यत् करोति हृषीकेशो मुनि-पुष्पैर् अलङ्कृतः ॥१३०॥ मुनि-पुष्प-कृतां मालां ये यच्छन्ति जनार्दने । देवेन्द्रो’पि मुनि-श्रेष्ठ कम्पते तस्य शङ्कया ॥१३१॥

किं च तत्रैवान्यत्र—

मुनि-पुष्प-कृतां मालां दृष्ट्वा कण्ठे विलम्बिताम् । प्रीतो भवति दैत्यारिर् दश-जन्मानि नारद ॥१३२॥ अगस्त्य-वृक्ष-सम्भूतैः कुसुमैर् असितैः सितैः । ये’र्चयिष्यन्ति देवेशं सम्प्राप्तं परमं पदम् ॥१३३॥

हे देवर्षे ! तस्य दर्शनात् तेषां दर्शनाद् इत्य् अर्थः । कण्ठे आत्मनो भक्तस्य वा ॥१२९-१३२॥

विष्णु-रहस्ये—

अगस्त्य-सम्भवैः पुष्पैः किंशुकैः सुमनोहरैः । समभ्यर्च्य हृषीकेशं जन्म-दुःखाद् विमुच्यते ॥१३४॥

किंशुकैः पलाश-पुष्पैः । किं वा किंशुक-पुष्पाकारैर् इत्य् अर्थः ॥१३४॥

तत्र च कार्त्तिके विशेषः

स्कान्दे तत्रैव—

विहाय सर्व-पुष्पाणि मुनि-पुष्पेण केशवम् । कार्त्तिके यो’र्चयेद् भक्त्या वाजिमेध-फलं लभेत् ॥१३५॥ मुनि-पुष्पार्चितो विष्णुः कार्त्तिके पुरुषोत्तमः । ददात्य् अभिमतान् कामान् शशि-सूर्य-स्थितो यथा ॥१३६॥

यथा सूर्य-स्थितः शशीति अमावास्यायां यथा-विशेषो भवतीत्य् अर्थः । शशीति ह्रस्व-पाठेनैक-पद्ये योग-विशेषः । अर्थस् तु स एव । यद् वा, शुक्ल-रक्तागस्त्य-पुष्पैः पूजितः सन् शशि-सूर्ययोः स्थित इव ताभ्याम् अप्य् अधिकः पुरुषोत्तमो भवति । अतः शोभातिशयं प्राप्तो’सौ श्यामसुन्दरः सन्तुष्टः सन् अभिमतान् कामान् ददातीत्य् अर्थः ॥१३६॥

गवाम् अयुत-दानेन यत् फलं प्राप्यते मुने । मुनि-पुष्पेण चैकेन कार्त्तिके तत् फलं स्मृतम् ॥१३७॥

पाद्मे कार्त्तिक-माहात्म्ये च—

मुनि-पुष्पैर् यदि हरिः पूजितः कार्त्तिके नरैः । मुनीनाम् एव गतिदो ज्ञानिनाम् ऊर्ध्व-रेतसाम् ॥१३८॥

केतकी-पुष्पस्य माहात्म्यम्

स्कान्दे तत्रैव—

केतकी-पुष्पकेणैव पूजितो गरुडध्वजः । समाः सहस्रं सुप्रीतो जायते मधुसूदनः ॥१३९॥

पत्रकैकेनेति पाठे एकेनापि पत्रेणेत्य् अर्थः । तथापि पत्र-शब्दो’त्र पुष्प-पत्र-परः । यद् वा, केतकी-शब्देन तत्-पुष्पम् । तस्यैक-पत्रेण क्वचिच् च पत्रैकेनैवेति पाठः ॥१३९॥

अर्चयित्वा हृषीकेशं कुसुमैः केतदोद्भवैः । पुण्यं तद्-भवनं याति केशवस्य रमालयम् ॥१४०॥

किं च—

सुवर्ण-केतकी-पुष्पं यो ददाति जनार्दने । सुवर्ण-दानजं पुण्यं लभते स महामुने ॥१४१॥

सुवर्णवत् यत् केतकी-पुष्पम् । एतेन शुक्लाभं वन्य-केतकं व्यवच्छिन्नम् ॥१४१॥

विशेषतश् चाषाढे

तत्रैव—

केशवः केतकी-पुष्पैर् मिथुनस्थे दिवाकरे । येनार्चितः सकृद् भक्त्या स मुक्तो नरकार्णवात् ॥१४२॥ केतकी-पुष्पम् आदाय मिथुनस्थे दिवाकरे । येनार्चितो हरिर् भक्त्या प्रीतो मन्वन्तरं मुने ॥१४३॥

श्रावणे माहात्म्य-विशेषः

**कर्कराशिगते सूर्ये केतकी-पत्र-कोमलैः । ** ये’र्चयिष्यन्ति गोविन्दं सम्प्राप्ते दक्षिणायने ॥१४४॥ कृत्वा पाप-सहस्राणि महा-पाप-शतानि च ।
ते’पि यास्यन्ति विप्रेन्द्र यत्र विष्णुः श्रिया सह ॥१४५॥

कार्त्तिके’पि माहात्म्य-विशेषः

तत्रैव—

कार्त्तिके केतकी-पुष्पं दत्तं येन कलौ हरेः । दीप-दानं च देवर्षे तारिते स्व-कुलायुतम् ॥१४६॥

कुन्दस्य माहात्म्यम्

स्कान्दे तत्रैव—

अब्यर्च्य कुन्द-कुसुमैः केशवं कल्मषापहम् । प्रयाति भवनं विष्णोर् वन्दितं मुनि-चारणैः ॥१४७॥

दशम-स्कन्धे [Bह्P १०.३०.११] –

**अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् ** तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । **कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः ** कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥१४८॥

रास-क्रीडायां अन्तर्हितस्य श्री-भगवतो’न्वेषणे विरहाकुलानां श्री-वल्लवीनां वचनम्—अपीति निर्धारणे प्रश्ने वा । भो एण-पत्नि हे सखि, वो युष्माकं दृशां गात्रैः श्रीलोचनाद्य्-अवयवैः सुनिर्वृतिं परमानन्दं तन्वन् सन् प्रियया श्री-राधया सहाच्युत इह उपगतः निकटं प्राप्तः । तस्य लिङ्गम् आहुः—कान्तेति । कुल-पतेः श्री-कृष्णस्य । एवं रास-क्रीडाय श्री-भगवता साक्षाद्-भूषण-भूत-कुन्द-मालाया गृहीतत्वात् । तयैव च भगवद्-उपगम-विज्ञानात् तत्-प्रियत्व-सिद्ध्या माहात्म्य-विशेषः सङ्गतः ॥१४८॥

तथा [Bह्P १०.३५.२०] –

कुन्द-दाम-कृत-कौतुक-वेषो गोप-गोधन-वृतो यमुनायाम् । नन्द-सूनुर् अनघे तव वत्सो नर्म-दः प्रणयिणां विजहार ॥१४९॥

तथा दिवसान्तरे तासाम् एव श्री-यशोदां प्रति वचनं—कुन्देति । कुन्दस्य दाम्ना मालया कृतः । कौतुकेन परमोत्साहेन । यद् वा, कौतुकम् उत्सवस् तद्-रूपो वेशो येन । एवं माहात्म्य-विशेषः सिद्ध एव ॥१४९॥

पावन्ती-कुसुमस्य माहात्म्यम्

विष्णु-पुराणे—

अर्चयित्वा हृषीकेशं पावन्ती-कुसुमैर् नरः । हृष्ट-पुष्ट-गणाकीर्णं कार्ष्णं लोकम् अवाप्नुयात् ॥१५०॥

पावन्ती कुन्द-भेदः । हृष्ट-पुष्टैर् अन्तर् बहिः सुख-पूर्णैः । गणैः पार्षदैर् आकीर्णं व्याप्तं कार्ष्णं कृष्ण-सम्बन्धिनं । हृष्ट-पुष्त इत्य् असमस्त-पाठे नरस्य विशेषणम् । पाठान्तरं सुगमम् ॥१५०॥

कर्णिकारस्य माहात्म्यम्

तत्रैव –

कर्णिकार-मयैः पुष्पैः कान्तैः कनक-सुप्रभैः । अर्चयित्वाच्युतं लोके तस्य लोके महीयते ॥१५१॥

दशम-स्कन्धे [Bह्P १०.२१.५] च तत्रैव –

बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं विभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर् वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥१५२॥

कर्णिकारं कर्णयोर् बिभ्रद् इति—साक्षात् श्री-भगवद्-वेशे तस्य वर्णनेन माहात्म्य-भरः सिद्ध एव ॥१५२॥

रक्त-शत-पत्रिकाया माहात्म्यम्

स्कान्दे तत्रैव—

कुङ्कुमारुण-वर्णाढ्यां शत-पत्रिकाम् । यो ददाति जगन्नाथे श्वेतद्वीपात् पतेन् नहि ॥१५३॥

सेवन्ती-पलाश-पुष्पयोर् माहात्म्यम्

तत्रैव—

सेवन्ती-कुसुमैः पुष्पैः किंशुकैः सुमनोहरैः । समभ्यर्च्य हृषीकेशं जन्म-दुःखाद् विमुच्यते ॥१५४॥

कुब्जस्य माहात्म्यम्

तत्रैव—

गन्धाढ्यैर् विमलैर् वन्यैः कुसुमैः कुब्जकोद्भवैः । भक्त्याभ्यर्च्य हृषीकेशं श्वेतद्वीपे वसेन् नरः ॥१५५॥

चम्पकस्य माहात्म्यम्

स्कान्दे तत्रैव—

नीलोत्पल-समं दानं चम्पकस्य जनार्दने ॥१५६॥

जनार्दने दानं समर्पणम् ॥१५६॥

तत्रैव ब्रह्म-नारद-संवादे—

वर्षा-काले तु देवेशं कुसुमैश् चम्पकोद्भवैः । ये’र्चयन्ति नरा भक्त्या संसारे न पुनर् गतिः ॥१५७॥

अशोक-बकुलयोर् माहात्म्यम्

विष्णु-रहस्ये तत्रैव—

अशोक-कुसुमै रम्यैर् जन्म-शोक-भयापहम् । पूजयित्वा हरिं देवं याति विष्णुम् अनायम् ॥१५८॥

अन्यच् च स्कान्दे तत्रैव—

बकुलाशोक-कुसुमे’र्ये’र्चयन्ति जगत्-पतिम् । ते वसन्ति हरेर् लोके यावच् चन्द्र-दिवाकरौ ॥१५९॥

पाटलस्य माहात्म्यम्

तत्रैव—

ये’र्चयेत् पाटला-पुष्पैः सर्व-पाप-हरं हरिम् । स पुण्यात्मा परं स्थानं वैष्णवं व्रजते ध्रुवम् ॥१६०॥ यः पुनः पाटला-पुष्पैर् वसन्ते गरुडध्वजम् । अर्चयेत् परया भक्त्या मुक्ति-भागी भवेद् धि सः ॥१६१॥

तिलकस्य माहात्म्यम्

विष्णु-रहस्ये—

तिलकस्योज्ज्वलैः पुष्पैः सम्पूज्य मधुसूदनम् । धूत-पाप्मा निरातङ्कः कृष्णस्यानुचरो भवेत् ॥१६२॥

निरातङ्कः संसारादि-भय-रहितः ॥१६२॥

जवाया माहात्म्यम्

विष्णु-रहस्ये—

समुज्ज्वलैर् जवा-पुष्पैर् अभ्यर्च्य जल-शायिनम् । सुपुण्यां गतिम् आप्नोति वीत-भीर् वीत-मत्सरः ॥१६३॥ जवापुष्पैः पुमान् भक्त्या सम्पूज्य पुरुषोत्तमम् । उत्तमां गतिम् आप्नोति प्रसन्ने गरुडध्वजे ॥१६४॥

समुज्ज्वलैः शुक्लैः । तत्-पूजयैव प्रसन्ने सति । द्वितीयान्तो वा पाठः । पुरुषोत्तमम् इति विशेषणम् ॥१६३-१६४॥

अटरूषकस्य माहात्म्यम्

स्कान्दे तत्रैव—

अटरूषक-पुष्पैर् यः पूजयेत् जगतां पतिम् । स पुण्यवान् नरो याति विष्णोस् तत् परमां गतिम् ॥१६५॥

कुसुम्भस्य माहात्म्यम्

तत्रैव—

कुसुम्भ-कुसुमैर् हृद्यैर् ये’र्चयन्ति जनार्दनम् । तेषां ममालये वासः प्रसादाच् चक्रपाणितः ॥१६६॥

मम ब्रह्मणः ॥१६६॥

मल्लिकाया माहात्म्यम्

स्कान्दे तत्रैव—

मल्लिका-पुष्प-जातीनां यूथिकायास् तथैव च ।
तथा कुब्जक-जातीनां फलस्यार्धं प्रकीर्तितम् ॥१६७॥

फलस्य पूर्व-मुक्तस्य नीलोत्पलार्पण-फलस्य । तत्र तथैव क्रम-पाठात् ॥१६७॥

तत्रैव श्री-ब्रह्म-नारद-संवादे—

सुगन्धैर् मल्लैका-पुष्पैर् अर्चयित्वाच्युतं नरः । सर्व-पाप-विनिर्मुक्तो विष्णु-लोके महीयते ॥१६८॥ मल्लिका-कुसुमैर् देवं वसन्ते गरुड-ध्वजम् । यो’र्चयेत् परया भक्त्या दहेत् पापं त्रिधार्जितम् ॥१६९॥

त्रिधेति । महा-पातकादि-भेदेन कायिकादि-भेदेन वा ॥१६९॥

कुम्भी-पुष्पस्य माहात्म्यम्

स्कान्दे तत्रैव—

कुम्भी-पुष्पं तु देवर्षे यः प्रयच्छेज् जनार्दने । सुवर्ण-पल-मात्रं तु पुष्पे पुष्पे भवेन् मुने ॥१७०॥

गोकर्णादीनां माहात्म्यम्

विष्णु-रहस्ये—

गोकर्ण-नाग-कर्णाभ्यां तथा विल्लातकेन च । अर्चयित्वाच्युतं देवं देवानाम् अधिपो भवेत् ॥१७१॥ अञ्जली-बोतकी-पुष्पैः कुष्माण्ड-तिमिरोद्भवैः । अलङ्कृत्वा नरः कृष्णं कृतार्थो हरि-लोक-भाक् ॥१७२॥

नाग-कर्णः हस्तिकर्णेति प्रसिद्धः । अञ्जली श्याम-पुष्पं । बोतकी बोतकवो इति प्रसिद्धा । तिमिरा त्रिन्तयेति प्रसिद्धा ॥१७१-१७२॥

दूर्वादि-पुष्पाणां माहात्म्यम्

स्कान्दे तत्रैव—

गृह-दूर्वाभवैः पुष्पैस् तथा काश-कुशोद्भवैः । भूधरं समलङ्कृत्य विष्णु-लोके व्रजेन् नरः ॥१७३॥

विष्णु-रहस्ये च—

शर-दूर्वामयैः पुष्पैस् तथा काश-कुशोद्भवैः । **भुवनेशम् अलङ्कृत्य विष्णु-लोके व्रजेन् नरः ॥१७४॥ **इति । वर्ण-भेदेन पुष्पाणां फल-भेदश् च दर्शितः । तथा तेषां च सर्वेषां मालाया महिमाधिकः ॥१७५॥ श्वेतैः पुष्पैः समभ्यर्च्य नरो मोक्षम् अवाप्नुयात् ॥१७६॥

तथा च स्कान्दे विष्णुधर्मोत्तरे च—

कामान् अवाप्नुयाल् लोके पीतैर् देवं समर्चयन् । शत्रूणाम् अभिचारेषु तथा कृष्णैः प्रपूजयेत् ॥१७७॥

विष्णु-रहस्ये च—

स्वर्ण-लक्षाधिकं पुष्पं माला कोटि-गुणाधिका । दत्ता भवति कृष्णाय नरैर् भक्ति-समन्वितैः ॥१७८॥ इति । मल्लिकां तु दिवारात्र्योर् नक्तं सम्पाक-यूथिके । नन्द्यावर्तं चार्ध-रात्रे मालतीं प्रातर् एव हि ॥१७९॥ इतराणि च पुष्पाणि दिवा भगवते’र्पयेत् । एवं केचिच् च मन्यन्ते पूजा-विधि बकं तथा ॥१८०॥

किं च—

प्रहरं तिष्ठते जाती करवीरम् अहर्निशम् । जलजं सप्त-रात्राणि षण्-मासं तु बकं तथा ॥१८१॥ इति । अवचयोत्तरे काले ज्ञेयम् एतद् विचक्षणैः ॥१८२॥

अथ पुष्प-मण्डपादि

पुष्पाणां मण्डपं छत्रं वितानं वैष्णवोत्तमः ।
दोलादिकं च निर्माय श्री-कृष्णाय समर्पयेत् ॥१८३॥

अथ पुष्प-मण्डपादि-माहात्म्यम्

विष्णु-धर्मोत्तरे—

कृष्ण-वेश्मनि यः कुर्यात् सुरूपं पुष्प-मण्डपम् । स पुष्पक-विमानैस् तु कोटिभिः क्रीडते दिवि ॥१८४॥

सुरूपं सुन्दरम् ॥१८४॥

तत्रैव स्कान्दे च—

कृत्वा पुष्प-गृहं विष्णोः पुष्पैर् वा तद्-वितानकम् । फलेन योगम् आयाति राजसूयाश्वमेधयोः ॥१८५॥

तत्रैव स्कान्दे च—

केशवोपरि यः कुर्याच् छत्रं वा पुष्प-मण्डपम् । पुष्पैस् तन्-मञ्चकं वापि तस्य पुण्यं वदाम्य् अहम् ॥१८६॥

मञ्चकं पर्यङ्कम् ॥१८६॥

प्राप्तैश्वर्यो महाभागैः क्रीडा-रति-समन्वितैः । नित्यं तु मोदते स्वर्गे स नरो नात्र संशयः ॥१८७॥

विशेषतः कार्त्तिके

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

मालती-मालया येन कार्त्तिके पुष्प-मण्डपम् । केशवस्य गृहे चक्रे न मया विदितं फलम् ॥१८८॥

अथ सुवर्ण-पुष्पादि-माहात्म्यम्

स्वर्ण-रत्नादि-पुष्पैश् च भगवन्तं समर्चयेत् । न च निर्माल्यतां यान्ति तानि तन् मुहुर् अर्पयेत् ॥१८९॥

तत् तस्मात् ॥१८९॥

तथा चोक्तं देव्या—

न निर्माल्यं हेम-पुष्पम् अर्पयेद् अर्पितं सदा ॥१९०॥

विष्णु-धर्मोत्तरे स्कान्दे च—

कृत्रिमाण्य् अनुलेपानि गन्धेनाति-सुगन्धिना । धूपेन पटवासेन चन्दनाद्य्-अनुलेपनैः ॥१९१॥

स्वर्णादि-पुष्पाणाम् अर्पण-प्रकारं लिखति—कृत्रिमाणि इति । कृत्रिमाणि सुवर्ण-पुष्पादीनि धूपेन पट-वासेन च सुगन्धि-द्रव्य-चूर्णेन विशिष्टानि ॥१९१॥

अथ स्वर्ण-पुष्पादि-माहात्म्यम्

स्कान्दे—

स्वर्ण-पुष्पार्चितो यस्य गृहे तिष्ठति केशवः । तस्यैव पाद-रजसा शुध्यति क्षिति-मण्डलम् ॥१९२॥ सुवर्ण-पुष्पैर् अभ्यर्च्य राजसूय-फलं लभेत् । रत्नैर् देवम् अथाभ्यर्च्य राजा भवति भूतले ॥१९३॥

स्वर्ण-पुष्पैर् अर्चितः अभिषिक्तः । एवं पुष्प-प्राचुर्यम् उक्तम् । पाठान्तरं सुगमम् । तस्यैवेत्य् अत्रायं भावः । यस्य पाद-रजो-मात्रेण जगत् पवित्रं स्यात् तस्य स्वर्गादि-फलान्तरं कियन् मात्रम् ? श्री-श्री-भगवत्-पार्षद-वर एवासाव् इति ॥१९२॥ रत्नैः रत्नमय-पुष्पैः ॥१९३॥

तत्रैव श्री-शिवोमा-संवादे—

**पुष्पजातिषु सर्वासु सौवर्णं पुष्पम् उत्तमम् ॥१९४॥ ** इति । एवम् उक्तैर् अनुक्तैश् च शोभाढ्यैर् वा सुगन्धिभिः । सम्पूज्यो भगवान् पुष्पैर् न निषिद्धैस् तु दुःखदैः ॥१९५॥

अनुक्तैः शास्त्रोक्त-व्यतिरिक्तैः । यदि च तानि शोभावन्ति सुगन्धीनि वा भवन्ति । तदा तैश् च सम्पूज्य इत्य् अर्थः । शास्त्रेण निषिद्धैस् तु न सम्पूज्य । यतो दुःखदैः ॥१९५॥

अथ निषिद्धानि पुष्पाणि

तत्र सामान्यतो विष्णु-धर्मोत्तरे—

श्मशान-चैत्य-द्रुमजं भूमौ वापि निपातितम् । कलिका च न दातव्या देवदेवस्य चक्रिणः ॥१९६॥

चैत्य-द्रुमो नाम बद्ध-वेदिक-तलः पूज्यो वृक्षः ॥१९६॥

शुक्लान्य-वर्ण-कुसुमं न देयं च तथा भवेत् । सुगन्धि शुक्लं देयं स्याज् जातं कण्टकिनो द्रुमात् ॥१९७॥ दत्त्वा कण्टकि-सद्-भूतम् अनुक्तं परिभूयते । अनुक्त-रक्त-कुसुमाद् असौभाग्यम् अवाप्नुयात् ॥१९८॥

अनुक्तं पूर्वोक्तादितरत् ॥१९८॥

उग्र-गन्धि तथा दत्त्वा नित्यम् उद्वेगम् आप्नुयात् । अगन्धि दत्त्वा वाप्नोति ह्य् अशुभं परमं नरः ॥१९९॥

तत्रैव तृतीय-खण्डे—

उग्र-गन्धीन्य् अगन्धीनि कुसुमानि न दापयेत् । अन्यायतन-जातानि कण्टकीनि तथैव च ॥२००॥ रक्तानि यानि धर्मज्ञाश् चैत्य-वृक्षोद्भवानि च । यानि श्मशान-जातानि तथा चाकालजानि च । दानं विवर्जयेद् यत्नात् पुष्पाणाम् अप्य् अगन्धिनाम् ॥२०१॥

धर्मज्ञा इति पाठे हे धर्मज्ञा इति तत्रत्यानां सम्बोधनम् ॥२०१॥

नारदीये राक्षसी-शपथे—

पारक्यारामजातैश् च कुसुमैर् अर्चयेत् सुरान् । तेन पापेन लिप्येयं यद्य् एतद् अनृतं वदे ॥२०२॥

ज्ञान-मालायाम्—

कलिकाभिस् तथा नेज्यं विना चम्पकजैः शुभैः । **शुष्कैर् न पूजयेद् विष्णुं पत्रैः पुष्पैः फलैर् अपि ॥२०३॥ **इति । जाति-यूथ्योस् तथा मल्ली-नव-मालिकयोर् अपि । कलिकाभिर् हरेर् भक्तैः सौरभ्यात् कैश्चिद् इष्यते ॥२०४॥

अत्रापवादः

विष्णु-रहस्ये—

न शुष्कैः पूजयेद् विष्णुं कुसुमैर् न मही-गतैः । नाविशीर्ण-दलैः क्लिष्टैर् न चैवाशु-विकाशितैः ॥२०५॥

आशु-विकाशितैः बलाद् विकाशितैः ॥२०५॥

पाद्मे—

कीट-कोषोप-बिद्धानि शीर्ण-पर्युषितानि च । वर्जयेद् ऊर्णनाभेन वासितं यदि शोभनम् ॥२०६॥

कीटस्य कोष-रूपावासेन अपविद्धानि दूषितानि पुष्पाणि शीर्णानि पर्युषितानि च । यद्यपि शोभनम् उत्तमम् । अपवित्राणि चेद् गन्धवन्त्य् अपि पुष्पाणि वर्जयेत् ॥ २०६॥

गन्धवन्त्य् अपवित्राणि उग्र-गन्धीनि वर्जयेत् ॥२०७॥ गन्ध-हीनम् अपि ग्राह्यं पवित्रं यत् कुशादिकम् ॥२०८॥

वैहायस-पञ्चरात्रे—

चतुष्पथ-शिवावास-श्मशानावनि-मध्यतः । सुगन्धि-फल-पुष्पाणि नाद-दीतार्चने हरेः ॥२०९॥

चतुष्पथादेर् अवनिर् भूमिस् तन्-मध्यान् न गृह्णीयात् ॥२०९॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

न विशीर्ण-दलैः श्लिष्टैर् नाशुभैर् नाविकाशिभिः । पूति-गन्ध्य्-उग्र-गन्धीनि अम्ल-गन्धानि वर्जयेत् ॥२१०॥

विशीर्ण-दलादिभिः पुष्पैर् न पूजा कार्येति शेषः । श्लिष्टैः अन्यो’न्य-संलग्नैः ॥२१०॥

कीट-कोषोपबिद्धानि शीर्ण-पर्युषितानि च । भग्न-पत्रं च न ग्राह्यं कृमि-दुष्टं न चाहरेत् ॥२११॥ वर्जयेद् ऊर्णनाभेन वासितं यदि शोभनम् । स्थलस्थं नोद्धरेत् पुष्पं छेदयेज् जलजं न तु । यानि स्पृष्टानि चास्पृश्यैर् लोकायुक्तैश् च वर्जयेत् ॥२१२॥

नोद्धरेत् मूलतो नोत्पाटयेत् । लोके अयुक्तैर् निन्द्यैश् च स्पृष्टानि पुष्पाणि वर्जयेत् ॥२१२॥

अत्रापवादः

ज्ञान-मालायाम्—

न पर्युषित-दोषो’स्ति जलजोत्पल-चम्पके । तुलस्य्-अगस्त्य-बकुले बिल्वे गङ्गा-जले तथा ॥२१३॥

विष्णु-धर्मोत्तरे च—

न गृहे करवीरस्थैः कुसुमैर् अर्चयेद् धरिम् । पतितैर् मुकुलैर् म्लानैः श्वासैर् वा जन्तु-दूषितैः । आघातैर् अङ्ग-संस्पृष्टैर् दूषितैश् चैव नार्चयेत् ॥२१४॥

गृहे यः करवीरः श्वेत-पुष्पो रक्त-पुष्पश् च । तत्-स्थैस् तदीयैर् इत्य् अर्थः । अत एवोक्तं वाराहे—बन्धूक-करवीरे च न गृहे रोपयेत् क्वचित् इति । श्वासैर् जन्तुभिर् वादूषितैर् इत्य् अर्थः । अङ्गेन स्वीय-हस्त-व्यतिरिक्तेन गात्रेण संस्पृष्टैः दूषितैश् च निन्दितैह् ॥२१४॥

अथ विशेषतो निषिद्धानि

विष्णु-धर्मोत्तरे तृतीय-काण्डे च—

क्रकरस्य च पुष्पाणि तथा दुस्तूरकस्य च । कृष्णं च कूटजं चार्कं नैव देयं जनार्दने ॥२१५॥

क्रकरस्य करवीरस्य ॥२१५॥

किं चान्यत्र—

नार्कं नोमत्तकं झिण्टिं तथैव गिरि-कर्णिकाम् । न कण्टकारिका-पुष्पम् अच्युताय निवेदयेत् ॥२१६॥ कूटजं शाल्मली-पुष्पं शिरीषं च जनार्दने । निवेदितं भयं चोग्रं निःसत्त्वं च प्रयच्छति ॥२१७॥

निःसत्त्वम् इति पाठे निःसत्त्वताम् इत्य् अर्थः ॥२१७॥

स्कान्दे तत्रैव—

ये’र्चयन्ति त्रिलोकेशम् अर्क-पुष्पैर् जनार्दनम् । **तेभ्यः क्रुद्धो भयं दुःखं ** क्रोधं विष्णुः प्रयच्छति ॥२१८॥ उन्मत्तकेन ये मूढाः पूजयन्ति त्रिविक्रमम् । उन्मादं दारुणं तेभ्यो ददाति गरुडध्वजः ॥२१९॥ काञ्चनावयवैः पुष्पैर् ये’र्चयन्त्य् असुर-द्विषम् । दारिद्र्यं दुःख-बहुलं तेषां विष्णुः प्रयच्छति ॥२२०॥ गिरि-कर्णिकया विष्णुं ये’र्चयन्त्य् अबुधा नराः । **तेषां कुल-क्षयं घोरं कुरुते मधुसूदनः ॥२२१॥ **इति ।

अथ पुष्प-ग्रहण-कालादि

मध्याह्ने स्नानम् आचर्य समाहृतैः ।
नैव सम्पूजयेद् विष्णुं यन् निषिद्धानि तान्य् अपि ॥२२२॥

अपि-शब्दः पूर्व-निषिद्धापेक्षया समुच्चये । तानि मध्याह्न-स्नानान्तरम् आहृतानि कुसुमानि ॥२२२॥

तथा च स्कान्दे तत्रैव—

स्नानं कृत्वा तु यत् किञ्चित् पुष्पं गृह्णन्ति वै नराः । देवतास् तन् न गृह्णन्ति पितरः खलु वै द्विज । ऋषयस् तन् न गृह्णन्ति भस्मीभवति काष्ठवत् ॥२२३॥ इति ।

खल्व् इति समुच्चये । पितरश् च न गृह्णन्ति । भस्मीभवति विफलं स्याद् इत्य् अर्थः ॥२२३॥

कुसुमानाम् अलाभे तु चौर्यादानं न दुष्यति । देवतार्थं तु कुसुमम् अस्तेयं मनुर् अब्रवीत् ॥२२४॥

धर्मार्जित-धन-क्रीतैर् [ःBV ७.३४] इत्य् आदि-विष्णुधर्मोत्तरादि-वचनैर् न्यायोपार्जितानि कुसुमानि देव-पूजायां विहितानि । तत्र धनाद्य्-अभावे किं कर्तव्यम् ? तत्र लिखति—कुसुमानाम् इति । चौर्येण आदानं ग्रहणं अस्तेयम् इति चौर्येणानीतम् अपि चोरितं न भवति । अत एवोक्तं विष्णुधर्मोत्तरे—यथा कथञ्चिद् आहृत्य कुसुमैर् अर्चयेद् धरिम् इति ॥२२४॥

तथा कौर्मे श्री-व्यास-गीतायाम्—

पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे । अदत्तादानम् अस्तेयं मनुः प्राह प्रजापतिः ॥२२५॥ गृहीतव्यानि पुष्पाणि देवार्चन-विधौ द्विजाः । **नैकस्माद् एव नियतम् अननुज्ञाप्य केवलम् ॥२२६॥ **इति ।

अदत्तस्याप्य् आदानम् ॥२२५॥ किं च तत्रैव विशेषम् आह—ग्रहीतव्यानीति । एवं भगवद्-अर्थम् एव शाकादीनाम् आदानम् अदुष्टम् इति ज्ञेयम् । स्वार्थे तु दोष एव ।

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।

धर्मार्थं केवलं विप्रो ह्य् अन्यथा पतितो भवेत् ॥ इति ।

अतएव तत्रैव—

तृणं वा यदि वा शाकं मूलं वा जलम् एव वा ।

परस्यापहरन् जन्तुर् नरकं प्रतिपद्यते ॥ इति ॥२२६॥

विहितेषु निषिद्धानां विहितालाभतो मतम् । कुसुमानाम् उपादानं निषिद्धानां न कर्हिचित् ॥२२७॥ विहित-प्रतिषिद्धैस् तु निहितालाभतो’र्चयेत् ॥२२८॥

ननु विष्णुधर्मोत्तरे तृतीय-खण्डे अन्यायतन-जातानि पुष्पाणि निषिद्धानि । स्कान्दादौ च कण्टक्यादीनि विहितानि सन्ति, तथा वामन-पुराणादौ बन्धूक-जवा-पुष्पयोर् निषेधः श्रूयते । ते चात्र विष्णुधर्मोत्तरादौ विहिते एव इत्य् एवम् आदि-विरोधे कथं व्यवहर्तव्यम् ? तत्र लिखति—विहितेष्व् इति । शास्त्रैर् विहितेषु कुसुमेषु मध्ये निषिद्धानां कुसुमानाम् उपादानं ग्रहणं विहितानाम् अलाभतो हेतोः अलाभे वा सति मतं बुधैः । विहितानां लाभे सति च तानि निषिद्धानि, न ग्राह्याण्य् एव । यानि च केवलं सर्वत्र निषिद्धान्य् एव । तेषां कदाचिद् अप्य् उपादानं न मतम् इत्य् अर्थः ॥२२७-२२८॥

निषिद्ध-पुष्प-सङ्ग्रह-श्लोकौ

क्लिष्टं पर्युषितं च भूमि-पतितं छिद्रं च कीटान्वितं यत् केशोपहतं च गन्ध-रहितं यच् चोग्र-गन्धान्वितम् । हस्ते यद् विधृतं प्रणाम-समये यद् वाम-हस्ते कृतं यच् चान्तर्-जलधौ तम् अर्चन-विधौ पुष्पं च तद् वर्जयेत् ॥२२९॥ भङ्क्त्वा यद् विटपादिकं क्षितिरुहं चोत्पाट्य यच् चाहृतं यच् चाक्रम्य समाहृतं तद् अखिलं पुष्पं भवत्य् आसुरम् । चौर्याकृष्टम् अनुक्ति-दुष्टम् अशुचि-स्पृष्टं यद् अप्रोक्षितं यच् चाघ्रातम् अधो’म्बरे विनिहितं क्रीतं च तद् वर्जयेत् ॥२३०॥ पत्राणि चापयेद् ऊर्वाद्य्-अङ्कुरान् अपि भक्तितः । किन्तु श्री-तुलसी-पत्रं सर्वत्रैव विशेषतः ॥२३१॥

अथ पत्राणि

विष्णुधर्मोत्तरे—

पुष्पाभावेन यो दद्याद् अत्र दूर्वाङ्कुरान् अपि । सो’पि पुण्यम् अवाप्नोति पुष्प-दानस्य वै द्विजाः ॥२३२॥ पुष्पाभावे हि देयानि पत्राण्य् अपि जनार्दने । पत्राभावे पयो देयं तेन पुण्यम् अवाप्नुयात् ॥२३३॥ निवेद्य भक्त्या मधुसूदनाय द्रुम-च्छदं वाप्य् अथ सत्-प्रसूनम् । दूर्वाङ्कुरं वा सलिलं द्विजेन्द्राः प्राप्नोति तत्-तन्-मनसा यथेच्छति ॥२३४॥

द्रुमस्य छदं पत्रम् । प्रसूनं पुष्पम् ॥२३४॥

तत्रैव तृतीय-काण्डे—

भृङ्ग-राजस्य बिल्वस्य बक-पुष्पस्य च द्विजाः । जबाम्र-बीज-पूराणां पत्राणि विनिवेदयेत् ॥२३५॥ एतेषाम् अपि चैकस्य पत्र-दानं महा-फलम् । पत्राणि स-सुगन्धीनि पल्लवानि मृदूनि च । तेन पुण्यम् अवाप्नोति पुष्प-दान-समुद्भवम् ॥२३६॥

तेषां मध्ये एकस्य कस्यचित् पल्लवानि च निवेदयेद् इति पूर्वेणान्वयः ॥२३६॥

नारसिंहे—

पत्राण्य् अपि सुपुण्यानि हरि-प्रीति-कराणि च । प्रवक्ष्यामि नृप-श्रेष्ठ शृणुष्व गदतो मम । अपामार्गं तु प्रथम्ं भृङ्ग-राजं ततः परम् ॥२३७॥

परं श्रेष्ठम् ॥२३७॥

ततस् तमाल-पत्रं च ततश् च शमि-पत्रकम् । दूर्वा-पत्रं ततः श्रेष्ठं ततो’पि कुश-पत्रकम् ॥२३८॥ तस्माद् आमलकं श्रेष्ठं ततो बिल्वस्य पत्रकम् । बिल्व-पत्राद् अपि हरेस् तुलसी-पत्रम् उत्तमम् ॥२३९॥ एतेषां च यथा-लब्धैः पत्रैर् यश् चार्चयेद् धरिम् । सर्व-पाप-विनिर्मुक्तो विष्णु-लोके महीयते ॥२४०॥

वामने—

बिल्व-पत्रं समी-पत्रं भृङ्गरजस्य च । तमालामलकी-पत्रं शस्तं केशव-पूजने ॥२४१॥ तेषां न सन्ति पुष्पाणि प्रशस्तान्य् अर्चने विभोः । पल्लवान्य् अपि तेषां स्युः शस्तान्य् अर्चा-विधौ हरेः ॥२४२॥

आग्नेये—

केतकी-पुष्प-पत्रं च भृगराजस्य पत्रकम् । तुलसी काल-तुलसी सद्यस् तुष्टि-करं हरेः ॥२४३॥ बिल्व-पत्रं शमी-पत्रं पत्रं भृङ्गरजस्य च । तमाल-पत्रस्य हरेः सद्यस् तुष्टि-करं भवेत् ॥२४४॥

केतक्याः पुष्पस्य पत्रम् । भृङ्गराज-भृङ्गरजयोर् अवान्तर-भेदो ज्ञेयः ॥२४३-४॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

शमी-पत्रैश् च यो देवं पूजयत्य् असुर-द्विषम् । यम-मार्गो महा-घोरो निस्तीर्णस् तेन नारद ॥२४५॥ **कुम्भी-पत्रेण देवर्षे ये’र्चयन्ति जनार्दनम् । ** कोटि-जन्मार्जितं पापं दहते गरुड-ध्वजः ॥२४६॥ **सकृद् अभ्यर्च्य गोविन्दं बिल्व-पत्रेण मानवः । ** हरिर् दद्यात् फलं तस्मै सर्व-यज्ञैः सुदुर्लभम् ॥२४७॥ बिल्व-पत्रेण ये देवं कार्त्तिके कलि-वर्धन । पूजयन्ति महा-भक्त्या मुक्तिस् तेषां मयोदिता ॥२४८॥ मारुकं केतकी-पत्रं तथा दमनकं मुने । दत्त-मात्रं हरेः प्रीतिं करोति शत-वार्षिकीम् ॥२४९॥ दमनैकेन देवेशं सम्प्राप्ते मधु-माधवे । गो-सहस्रस्य तु मुने सम्पूज्य लभते फलम् ॥२५०॥

देवेशम् अर्चयन्त्व् इति शेषः । पाठान्तरं सुगमम् ॥२५०॥

दूर्वाङ्कुरं हरेर् यस् तु पूजा-काले प्रयच्छति । पूजा-फलं शत-गुणं सम्यग् आप्नोति मानवः ॥२५१॥ मञ्जरीं सहकारस्य केशवे यदि नारद । ये यच्छन्ति महा-भागास् ते कोटि-फल-भागिनः ॥२५२॥

किं च—

शक्त्या दूर्वाङ्कुरैः पुम्भिः पूजितो मधुसूदनः । ददाति हि फलं नूनं यज्ञ-दानादि-दुर्लभम् ॥२५३॥

तत्रैव श्री-शिवोमा-संवादे—

बिल्व-पत्रैर् अखण्डैश् च सकृद् देवं प्रपूज्य वै । सर्व-पाप-विनिर्मुको मम लोके स तिष्ठति ॥२५४॥

विष्णु-रहस्ये च—

सकृद् अभ्यर्च्य गोविन्दं बिल्व-पत्रेण मानवः । मुक्ति-भागी निरातङ्कः क्नस्यानुचरो भवेत् ॥२५५॥

विष्णु-धर्मे च—

मरुको दमनश् चैव सद्यस् तुष्टिकरो हरेः ॥२५६॥

किं च—

पुष्पं वा यदि वा पत्रं फलं नेष्टम् अधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नं तथार्पणम् ॥२५७॥

तथा ज्ञान-मालायाम्—

पुष्पं वा यदि वा पत्रं फलं नेष्टम् अधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नं तथार्पणम् ॥२५८॥

अथ तुलस्य्-अर्पण-नित्यता

पाद्मे—

**तुलसी न येषां हरि-पूजनार्थं ** सम्पद्यते माधव-पुष्य-वासरे । **धिग् यौवनं जीवनम् अर्थ-सन्ततिं ** तेषां सुखं नेह च दृश्यते परे ॥२५९॥

श्री-तुलसी-पत्रं सर्वत्रैव विशेषतो’र्पयेद् इति लिखितम् । तत्र तुलस्य्-अर्पणस्य नित्यताम् आदौ लिखति । तुलसीत्य् आदिना । आर्षत्वाच् छन्दो-भङ्गः सोढव्यः । एवम् अग्रे’पि । माधवः वैशाख-मासः श्री-कृष्णो वा । तस्य पुण्य-वासरः अक्षय-तृतीयादिः । एकादश्य्-आदिर् वा । तस्मिन्न् अपि । परे च पर-लोके सुखं निर्वृतिर् न दृश्यते शास्त्रविद्भिः कैश्चिद् वा । यद् वा, तेषाम् इति तैः ॥२५९॥

गारुडे श्री-भगवद्-उक्तौ—

तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम् । तस्याहं प्रतिगृह्णामि न पूजां शतवार्षिकीम् ॥२६०॥

प्राप्य आनीय इत्य् अर्थः ॥२६०॥

बृहन्-नारदीये च यज्ञध्वजाख्यानान्ते—

यद् गृहे नास्ति तुलसी शालग्राम-शिलार्चने । श्मशान-सदृशं विद्यात् तद्-गृहं शुभ-वर्जितम् ॥२६१॥

अत एवोक्तम्—

तुलसीं विना या क्रियते न पूजा स्नानं न तद् यत् तुलसीं विना कृतम् । भुक्तं न तद् यत् तुलसीं विना कृतं पीतं न तद् यत् तुलसीं विना कृतम् ॥२६२॥

वायु-पुराणे—

तुलसी-रहितां पूजां न गृह्णाति सदा हरिः । काष्ठं वा स्पर्शयेत् तत्र नो चेत् तन् नामतो यजेत् ॥२६३॥ तुलसी-दलम् आदाय यो’न्यं देवं प्रपूजयेत् । ब्रह्महा स हि गोघ्नश् च स एव गुरु-तल्पगः ॥२६४॥

अत एवोक्तं गारुडे नैवेद्य-प्रसङ्गे—

तुलसी-दल-सम्मिश्रं हरेर् यच्छेच् च तत् सदा ॥२६५॥ इति । भगवद्-दुर्लभायास् तु तुलस्या महिमाद्भुतः । सर्व-शास्त्रेषु विख्यातः सङ्क्षेपेणेह लिख्यते ॥२६६॥

अद्भुतः अनिर्वचनीयः । अतो विस्तरेण लिखितुम् अशक्य इति भावः ॥२६६॥

अथ तुलसी-माहात्म्यम्

तत्र स्वतः परमोत्तमता

स्कान्दे—

सर्वौषधि-रसनैव पुरा ह्य् अमृत-मन्थने । सर्व-सत्त्वोपकाराय विष्णुना तुलसी कृता ॥२६७॥

अत एव—

न विप्र-सदृशं पात्रं न दानं सुरभी-समम् । न च गङ्गा-समं तीर्थं न पत्रं तुलसी-समम् ॥२६८॥

न विप्र-सदृशम् इत्य् आदि त्रयं दृष्टान्तत्वे साध्य-सन्निधौ सिद्ध-निर्देशो दृष्टान्त इति न्यायात् । एवम् अग्रे’प्य् ऊह्यम् ॥२६८॥

अत एव च विष्णु-रहस्ये—

अभिन्न-पत्रां हरितां हृद्य-मञ्जरि-संयुताम् । क्षीरोदार्णव-सम्भूतां तुलसीं दापयेद् धरेः ॥२६९॥

श्री-भगवद्-दुर्लभता

नारदीये—

तावद् गर्जन्ति पुष्पाणि मालत्य्-आदीनि भूसुर । यावन् न प्राप्यते पुण्या तुलसी कृष्ण-वल्लभा ॥२७०॥

विष्णु-रहस्ये—

कृष्णा वाप्य् अथवाकृष्णा तुलसी कृष्ण-वल्लभा । सिता वाप्य् अथवा कृष्णा द्वादशी वल्लभा हरेः ॥२७१॥ तावद् गर्जन्ति रत्नानि कौस्तुभादीन्य् अहर्निशम् । यावन् न प्राप्यते कृष्णा तुलसी-पत्र-मञ्जरी ॥२७२॥

गर्जन्ति गर्वं वहन्तीत्य् अर्थः । अकृष्णा कृष्णेतरा हरिद्-वर्णेत्य् अर्थः । कृष्णेति—तस्यां प्रीति-विशेषात् परम-स्निग्धत्वेन श्यामता-प्राप्तेर् वा ॥२७०-२७२॥

अगस्त्य-संहितायाम्—

पूर्वम् उग्र-तपः कृत्वा वरं वव्रे मनस्विनी । तुलसी सर्व-पुष्पेभ्यः पत्रेभ्यो वल्लभा ततः ॥२७३॥

पाद्मे वैशाख-माहात्म्ये श्री-यम-ब्राह्मण-संवादे—

सर्वासां पत्र-जातीनां तुलसी केशव-प्रिया ॥२७४॥

किं च—

सर्वथा सर्व-कालेषु तुलसी विष्णु-वल्लभा ॥२७५॥

तत्रैवोत्तर-खण्डे कार्त्तिक-माहात्म्ये श्री-नारदोक्तौ—

तुलसी-दल-पूजाया मया वक्तुं न शक्यते । अत्यन्त-वल्लभा सा हि शालग्रामाभिधे हरौ ॥२७६॥

शालग्रामाभिधे श्री-शालग्राम-शिला-सञ्ज्ञके । श्री-वृन्दा-भक्त्यैव । तद्-रूपेणावतीर्णत्वात् तद्-आख्यायिका तत्रैव विस्तीर्णास्ति ॥२७६॥ \

पातिव्रत्येन वृन्दासौ हरिम् आराध्य कर्मणा । पूर्व-जन्मन्य् असौ लेभे कृष्ण-संयोगम् उत्तमम् ॥२७७॥

तत्रैव श्री-वृन्दोपाख्यानान्ते—

सत्यं प्रीति-करं वाक्यं कोपस् तस्यास् तु तामसः । भाव-द्वयं हरौ जातं यत् तद् वर्ण-द्वयं ह्य् अभूत् । श्यामापि तुलसी विष्णोः प्रिया गौरी विशेषतः ॥२७८॥

द्वारका-माहात्म्ये च श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे—

यथा लक्ष्मीः प्रिया विष्णोस् तुलसी च ततो’धिका ॥२७९॥

स्कान्दे—

योगिनां विरतौ वाञ्छा कामिनां च यथा रतौ । पुष्पेष्व् अपि च सर्वेषु तुलस्यां च तथा हरेः ॥२८०॥ निरस्य मालती-पुष्पं मुक्त्वा पुष्पं सरोरुहम् । गृह्णाति तुलसीं शुष्काम् अपि पर्युषितां हरिः ॥२८१॥

अत एव चतुर्थ-स्कन्धे [Bह्P ४.८.५५] श्री-ध्रुवं प्रति श्री-नारदोपदेशे—

सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः । शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् ॥२८२॥

वन्यैः शस्तैर् अङ्कुरैर् दूर्वाङ्कुरादिभिर् अन्यैर् बल्कलादिभिः । प्रिययेति—प्रभोर् अर्चने तस्या आवश्यकत्वम् । किं वा सर्व-नैरपेक्ष्येण तयैव तत्-सन्तोषणम् अभिप्रेतम् ॥२८२॥

रास-क्रीडायां च दशम-स्कन्धे [Bह्P १०.३०.७] श्री-गोपीनां भगवद्-अन्वेषणे—

कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये । सह त्वालि-कुलैर् बिभ्रद् दृष्टस् ते ऽति-प्रियो ञ्च्युतः ॥२८३॥

अलि-कुलैः सह त्वा त्वां बिभ्रत् दधानः ॥२८३॥

अत एव स्कान्दे—

यत् फलं सर्व-पुष्पेषु सर्व-पत्रेषु नारद । तुलसी-दल-मात्रेण प्राप्यते केशवार्चने ॥२८४॥

तत् प्राप्यते ॥२८४॥

पाद्मे वैशाख-माहात्म्ये [५.९८.६] तत्रैव—

त्यक्त्वा तु मालती-पुष्पं मुक्त्वा च सरसीरुहम् । गृहीत्वा तुलसी-पत्रं भक्त्या माधवम् अर्चयेत् । तस्य पुण्य-फलं वक्तुम् अलं शेषोऽपि नो भवेत् ॥२८५॥

अलं समर्थो न स्यात् ॥२८५॥

तत्रैव श्री-माघ-माहात्म्ये देवहूति-विकुण्डल-संवादे—

मणि-काञ्चन-पुष्पाणि तथा मुक्ता-मयानि च । तुलसी-पत्र-दानस्य कलां नार्हन्ति षोडशीम् ॥२८६॥

मुक्ता-मयानि च पुष्पाणि । तुलसी-पत्रस्य श्री-कृष्णाय कस्मैचिद् वान्यस्मै यद् दानं तस्य ॥२८६॥

अगस्त्य-संहितायां—

नीलोत्पल-सहस्रेण त्रिसन्ध्यं यो’र्चयेद् धरिम् । फलं वर्ष-शतेनापि तदीयं नैव लभ्यते ॥२८७॥

तेनापि वर्ष-शतेनापि । तदीयं तुलसी-सम्बन्धि तत्-प्रकरणात् । फलं नैव लभ्यते ॥२८७॥

विद्वत् सर्वेषु पुष्पेषु पङ्कजं श्रेष्ठम् उच्यते । तत् पुष्पेष्व् अपि तन्-माल्यं कोटि-कोटि-गुणं भवेत् ॥२८८॥ विष्णोः शिरसि विन्यस्तम् एकं श्री-तुलसी-दलम् । अनन्त-फलदं विद्वन् मन्त्रोच्चारण-पूर्वकम् ॥२८९॥

किं च—

वर्णाश्रमेतराणां च पूजायाश् चैव साधनम् । अपेक्षितार्थदं नान्यत् जगत्य् अस्ति तपोधन ॥२९०॥

अत एव नारदीये [२.३८.२६]—

वर्ज्यं पर्युषितं तोयं वर्ज्यं पर्युषितं दलम् । न वर्ज्यं तुलसी-पत्रम् न वर्ज्यं जाह्नवी-जलम् ॥२९१॥

पर्युषितम् अपि तुलसी-पत्रं न वर्ज्यम् । एतेन शुष्कं पर्युषितं यदीति स्कान्दोक्त्या श्री-तुलसी-पत्र-चूर्णम् अपि समर्पितम् । एवं वैष्णवानां तच्-चूर्ण-सङ्ग्रहः स-मूल एव ज्ञेयः ॥२९१॥

अथ श्री-भगवद्-अर्पणेन पाप-हारित्वम्

पाद्मे—

श्रीमत्-तुलस्यार्चयते सकृद् धरिं पत्रैः सुगन्धैर् विमलैर् अखण्डितैः । यस् तस्य पापं पट-संस्थितं प्रभुर् निरीक्षयित्वा मृजते स्वयं यमः ॥२९२॥

एवं स्वाभाविकं श्री-तुलस्या माहात्म्यं लिखित्वाधुना श्रीमच्-चरणाब्ज-विषयक-समर्पण-माहात्म्यं लिखन् तत्रादाव् अखिल-पापापहारित्वं विलिखति—श्रीमद् इत्य् आदिना । प्रभुः पापानां नियन्तापि निरीक्ष्य मार्जयतीति मार्जनस्य सम्यक्त्वाय निरीक्षणं । किं वा गुह्यत्वाद् इतस् ततो’वलोकनम् इति ज्ञेयम् ॥२९२॥

स्कान्दे—

तुलसी-दल-लक्षेण यो’र्चयेद् द्वारका-प्रियम् । जन्मायुत-सहस्राणां पापस्य कुरुते क्षयम् ॥२९३॥

ब्राह्मे—

लिङ्गम् अभ्यर्चितं दृष्ट्वा प्रतिमां केशवस्य च । तुलसी-पत्र-निकरैर् मुच्यते ब्रह्म-हत्यया ॥२९४॥

तुलसी-पत्र-निकरैर् अभ्यर्चिताम् ॥२९४॥

नित्यम् अभ्यर्चयेद् यो वै तुलस्या हरिम् ईश्वरम् । महापापानि नश्यन्ति किं पुनश् चोपपातकम् ॥२९५॥

अन्यत्र च—

गुह्यानि यानि पापानि अनाख्येयानि मानवैः । नाशयेत् तानि तुलसी दत्ता माधव-मूर्धनि ॥२९६॥ हरेर् गुहं यदा यस् तु तुलसी-दल-विप्रुषैः । त्रिसन्ध्यं प्रोक्षयेद् भक्त्या महा-पापैः प्रमुच्यते ॥२९७॥

तुलसी-दलस्य विप्रुषैर् जल-बिन्दुभिः ॥२९७॥

अत एव स्कान्दे अवन्ती-खण्डे—

किं करिष्यति संरुष्टो यमो’पि सह किङ्करैः । तुलसी-दलेन देवेशः पूजितो येन दुःखहा ॥२९८॥

अगस्त्य-संहितायां च—

न तस्य नरक-क्लेशो यो’र्चयेत् तुलसी-दलैः । पापिष्ठो वाप्य् अपापिष्ठः सत्यं सत्यं न संशयः ॥२९९॥

अथ वैरि-नाशकत्वम्

पुरा क्रौञ्च-वधार्थाय कोमलैस् तुलसी-दलैः ।
अर्चयित्वा हृषीकेशं स्वामिना निहतो रिपुः ॥३००॥

क्वचिच् च तुलसी-दल-कोमलैर् इति पाठः । अर्थस् तथैव । स्वामिना कार्त्तिकेयेन ॥३००॥

सर्व-सम्पत्-प्रदत्वम्

अगस्त्य-संहितायां च—

माल्यानि तन्वते लक्ष्मीं कुसुमान्तरितान्य् अपि । तुलस्याः स्वयम् आनीय निर्मितानि तपोधन ॥३०१॥

कुसुमैर् अन्तरितानि । मध्ये मध्ये’न्य-पुष्पैर् ग्रथितानीत्य् अर्थः । तुलस्या माल्यानि समर्पितानि सन्ति । लक्ष्मीं सम्पदं तन्वते विस्तारयन्तीति ज्ञेयम् । पत्रं पुष्पं फलं चैव श्री-तुलस्या समर्पितम् इति तत्-संहितायां निरन्तर-पूर्व-श्लोकैः समर्पणस्य प्रकृतत्वात् । यद् वा, भगवद्-अर्थं निर्मितान्य् अपि लक्ष्मीं तन्वते । अस्तु तावत् समर्पणादि ॥३०१॥

परम-पुण्य-जनकत्वम्

स्कान्दे—

कृष्ण-मूर्धनि विन्यस्ता तुलसी-पत्र-मञ्जरी । सुवर्ण-कोटि-पुण्यानां फलं यच्छत्य् अतो’धिकम् ॥३०२॥ तीर्थ-यात्रादिभिर् अहो काल-क्षेपेण किं जनाः । ये’र्चयन्ति हरेर् बिम्बं तुलसी-दल-कोमलैः ॥३०३॥

बिम्बं श्री-मूर्तिम् ॥३०३॥

अगस्त्य-संहितायां च—

पुष्पान्तरैर् अन्तरितं निर्मितं तुलसी-दलैः । माल्यं मलयजालिप्तं दद्यात् श्री-राम-मूर्धनि ॥३०४॥ किं तस्य बहुभिर् यज्ञैः सम्पूर्ण-वर-दक्षिणैः । किं तीर्थ-सेवया दानैर् उग्रेण तपसापि वा ॥३०५॥ वाचं नियम्य चात्मानं मनो विष्णौ निधाय च । यो’र्चयेत् तुलसी-माल्यैर् यज्ञ-कोटि-फलं भवेत् ॥३०६॥ भवान्ध-कूप-मग्नानाम् एतद् उद्धार-कारणम् ॥३०७॥

आत्मानं च देहं नियम्य ॥३०६॥ एतत् तुलसी-माल्यैर् विष्ण्व्-अर्चनम् ॥३०७॥

गारुडे—

यस्यारामोद्भवैः पत्रैस् तुलसी-सम्भवैर् हरिः । पूज्यते खग-शार्दूल त्रिदशं पुण्यम् आप्नुयान् ॥३०८॥

त्रिदशं पुण्यम् इति । स आराम-कर्ता त्रयोदशं पुण्य-भागं प्राप्नुयात् । पूजकस् तु द्वादश भागान् इत्य् अर्थः ॥३०८॥

अन्यत्र च—

तुलसी-दल-माल्येन विष्णु-पूजां करोति यः । पत्रे पत्रे’श्वमेधानां दशानां लभते फलम् ॥३०९॥

अत एव विष्णु-रहस्ये स्कान्दे च—

गृहीत्वा तुलसी-पत्रं भक्त्या विष्णुं समर्चयेत् । अर्चितं तेन सकलं सद् एवासुर-मानुषम् ॥३१०॥

स-देवासुर-मानुषं जगद् इति शेषः । यद् वा, सकलं विश्वम् ॥३१०॥

किं च काशी-खण्डे—

शालग्राम-शिला येन पूजिता तुलसी-दलैः । स-पारिजात-मालाभिः पूज्यते सुर-सद्मनि ॥३११॥

सर्वार्थ-साधकत्वम्

स्कान्दे—

समञ्जरी-दलैर् युक्तं तुलसी-सम्भवैः क्षितौ । कुर्वन्ति पूजनं विष्णोस् ते कृतार्थाः कलौ नराः ॥३१२॥

अगस्त्य-संहितायां—

पत्रं पुष्पं फलं चैव श्री-तुलस्याः समर्पितम् । रामाय मुक्ति-मार्गस्य द्योतकं सर्व-सिद्धिम् ॥३१३॥

सर्व-सिद्धिदं सर्वार्थ-सिद्ध-दायकम् ॥३१३॥

मुक्ति-प्रदत्वम्

पाद्मे देवहूति-विकुण्डल-संवादे—

तुलसी-मञ्जरीभिर् यः कुर्याद् धरि-हरार्चनम् । न स गर्भ-गृहं याति मुक्ति-भागी भवेन् नरः ॥३१४॥

गर्भ-रूपं गृहम् ॥३१४॥

गारुडे—

तावद् भ्रमति संसारे विमूढः कलि-वर्त्मनि । यावन् नाराधयेद् देवं तुलसीभिः प्रयत्नतः ॥३१५॥

तत्रैव भगवद्-उक्तौ—

तुलसी-पत्रम् आदाय यः करोति ममार्चनम् । न पुनर् योनिम् आयाति मुक्ति-भागी भवेन् नरः ॥३१६॥

कलिर् वर्त्म यस्य तस्मिन् । प्रायः पाप-मयत्वात् संसारस्य ॥३१५-३१६॥

अगस्त्य-संहितायां—

तुलसी-पत्रम् आदाय यो’र्चयेद् रामम् अन्वहम् । स याति शाश्वतं ब्रह्म पुनर् आवृत्ति-दुर्लभम् ॥३१७॥

पुनर्-आवृत्ति-दुर्लभम् इति अपुनर्-आवृत्तिकम् इत्य् अर्थः ॥३१७॥

पूजायोग्यैः फलैः पत्रैः पूपैर् वा यो’र्चयेद् धरिम् । स मातुर् गर्भ-वासादि दुःखं नैव लभेत् क्वचित् ॥३१८॥

वैकुण्ठ-लोक-प्रापकत्वम्

पाद्मे तत्रैव—

आरोप्य तुलसीं वैश्य सम्पूज्य तद्-दलैर् हरिम् । वसन्ति मोदमानास् ते यत्र देवश् चतुर्भुजः ॥३१९॥

तत्रैवान्यत्र—

तुलसी कृष्ण-गौराभा तयाभ्यर्च्य जनार्दनम् । नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वती गतिम् ॥३२०॥

गतिं गम्यं स्थानम् इत्य् अर्थः ॥३२०॥

विष्णु-रहस्ये—

कृष्णं कृष्ण-तुलस्या हि यो भक्त्या पूजयेन् नरः । स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह ॥३२१॥

शुभ्रं निर्मलम् ॥३२१॥

बृहन्-नारदीये श्री-यम-भागीरथ-संवादे—

यो’र्चयेद् धरि-पादाब्जं तुलसी-कोमल-च्छदैः । न तस्य पुनर् आवृत्तिर् ब्रह्म-लोकात् कदाचन ॥३२२॥

ब्रह्म सच्-चिद्-आनन्दम् । तत्-स्वरूप-लोकात् वैकुण्ठात् । तथा च तृतीय-स्कन्धे—ब्रह्म-लोकः सनातनः इति ।

गारुडे—

कृष्णार्चनार्थं भिक्षूणां यच्छन्ति तुलसी-दलम् । अन्येषाम् अपि भक्तानां यान्ति तत् परमं पदम् ॥३२३॥

अत एव हरि-भक्ति-सुधोदये वैष्णवं विप्रं प्रति यमदूतानाम् उक्तौ—

सुकृती दुष्कृती वापि तुलस्या यो’र्चयेद् धरिम् । तस्यान्ते हि वयं नेशा विष्णुदूतैः स नीयते ॥३२४॥

अत एवोक्तं स्कान्दे—

यो’भ्यस्येत् परमात्मानं त्यक्त-सर्वैषणो मुनिः । तुलस्या यो’र्चयेद् विष्णुं जगतः सम्मताव् उभौ ॥३२५॥

त्यक्ताः सर्वा एषणाः पुत्रादि-स्पृहा-त्रयं येन सः । एषणास् तिस्रश् च श्रुत्योक्ताः—पुत्रैषणाश् च वित्तैषनाश् च लोकैषणाश् च इति ॥३२५॥

श्री-भगवत्-प्रीणनत्वम्

ब्राह्मे—

तुलसी-दल-गन्धेन मालती-कुसुमेन च । कपिलाक्षीर-दानेन सद्यस् तुष्यति केशवः ॥३२६॥

पाद्मे कार्त्तिक-माहात्म्ये वृन्दोपाख्यानान्ते—

इत्य् एवं वल्लभा विष्णोः पूर्व-जन्मन् अथाधुना । प्रीयते पूजितो ह्य् अस्या दलैर् दैत्य-बलान्तकः ॥३२७॥

स्कान्दे—

सुवर्ण-मणि-पुष्पैस् तु प्रीतो भवति नाच्युतः । तुलसी-दल-भागेन यथा प्रीयेत केशवः ॥३२८॥

अत एव तत्रैव ब्रह्म-नारद-संवादे—

पत्रं पुष्पं फलं तोयं तुलसी-गन्ध-वासितम् । फलं लक्ष-गुणं प्रोक्तं केशवाय निवेदितम् ॥३२९॥ तुलसी-गन्ध-मिश्रं तु यत् किञ्चित् कुरुते हरेः । कल्प-कोटि-सहस्राणि प्रीतो भवति केशवः ॥३३०॥

किं च, द्वारका-माहात्म्ये मार्कण्डेयेन्द्रद्युम्न-संवादे—

यः पुनस् तुलसी-पत्रैः कोमलैर् मञ्जरी-युतैः । पूजयेत् सूत्र-बद्धैस् तु कृष्णं देवकि-नन्दनम् ॥३३१॥ या गतिर् योग-युक्तानां या गतिर् यज्ञ-शीलिनाम् । या गतिर् दान-शीलानां या गतिस् तीर्थ-सेविनाम् ॥३३२॥ या गतिर् मातृ-भक्तानां द्वादशी-वेध-वर्जिनाम् । कुर्वतां जागरं विष्णोर् नृत्यतां गायतां फलम् ॥३३३॥ वैष्णवानां तु भक्तानां यत् फलं वेद-वादिनाम् । पठतां वैष्णवं शास्त्रं वैष्णवेभ्यश् च यच्छताम् । फलम् एतन् महीपाल लभते नात्र संशयः ॥३३४॥

कार्त्तिकादौ फल-विशेषः

तत्र कार्त्तिके गारुडे—

गवाम् अयुत-दानेन यत् फलं लभते खग । तुलसी-पत्रकैकेन तत् फलं कार्त्तिके स्मृतम् ॥३३५॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

तुलसी-दल-लक्षेण कार्त्तिके यो’र्चयेद् धरिम् । पत्रे पत्रे मुनि-श्रेष्ठ मौक्तिकं लभते फलम् ॥३३६॥

मौक्तिकं फलं मोक्षम् । मुक्तेः फलं भक्तिं वा ॥३३६॥

तत्रैवाग्रे—

तुलसी-दलानि पुण्यानि ये यच्छन्ति जनार्दन । कार्त्तिकं सकलं वत्स पापं जन्मायुतं दहेत् ॥३३७॥ इष्ट्वा क्रतु-शतैः पुण्यैर् दत्त्वा रत्नान्य् अनेकशः । तुलसी-दलेन तत् पुण्यं कार्त्तिके केशवार्चनात् ॥३३८॥

तेषां पापं दहेत् नश्यति । यो यच्छतीति वा पाठः । ततश् च स एवात्मनो’न्यस्यापि पापं दहेत् । पुण्यैर् उत्तमैर् अश्वमेधादिभिर् इत्य् अर्थः । यत् प्राप्यते तत् पुण्यं स्यात् ॥३३७-३३८॥

किं च—

यः पुनस् तुलसीं पाप्य कार्त्तिकं सकलं मुने । अर्चयेद् देव-देवेशं स याति परमां गतिम् ॥३३९॥

पाद्मे कार्त्तिक-माहात्म्ये—

मञ्जरीभिः सपत्राभिर् मालाभिश् चापि केशवः । तुलस्याः कार्त्तिके प्रीतो ददाति पदम् अव्ययम् ॥३४०॥

अथ माघे

स्कान्दे तत्रैव—

स्नात्वा महा-नदी-तोये कोमलैस् तुलसी-दलैः । यो’र्चयेन् माधवं माघे कुलानां तारयेच् छतम् ॥३४१॥ सुकोमलैर् दलैर् यस् तु मञ्जरीभिर् जनार्दनम् । अर्चयेन् माघ-मासे तु क्रतूनां लभते फलम् ॥३४२॥

अथ चातुर्मास्ये

स्कान्दे—

सम्पूज्य तुलसी-भक्त्या घन-श्यामं जनार्दनम् । **चतुरो वार्षिकान् मासान् अश्वमेधायुतं लभेत् ॥३४३॥ **

तुलस्या भक्तिर् मालादि-रचना, तथा ॥३४३॥

अथ वैशाखे

पाद्मे वैशाख-माहात्म्ये श्री-यम-ब्राह्मण-संवादे [५.९८.९-१०]

तुलसी गौर-कृष्णाख्या तयाभ्यर्च्य मधुद्विषम् । विशेषेण तु वैशाखे नरो नारायणो भवेत् ॥३४४॥ माधवं सकलं मासं तुलस्या योऽर्चयेन् नरः । त्रिसन्ध्यं मधुहन्तारं नास्ति तस्य पुनर्-भवः ॥३४५॥

नारायण इव भवेत् । तत्-सारूप्य-प्राप्त्या । पुनर्भवो जन्म-लक्षणः संसारो नास्ति । नित्य-वैकुण्ठ-वासात् ॥३४४-३४५॥

अथ तुलसी-ग्रहण-विधिः

वायु-पुराणे—

अस्नात्वा तुलसीं छित्त्वा य पूजां कुरुते नरः । सो’पराधी भवेत् सत्यं तत् सर्वं निष्फलं भवेत् ॥३४६॥

तत्रादौ मन्त्रः ।

स्कान्दे—

तुलस्यामृत-जन्मासि सदा त्वं केशव-प्रिये । केशवार्थं विचिन्वामि वरदा भव शोभने ॥३४७॥

विचित्वामीत्य् आर्षं विचिनोमि ॥३४७॥

त्वद्-अङ्ग-सम्भवैः पत्रैः पूजयामि यथा हरिम् । तथा कुरु पवित्राङ्गि कलौ मल-विनाशिनि ॥३४८॥

गरुडे च—

मोक्षैकहेतो धरणी-प्रशस्ते विष्णोः समस् तस्य गुरोः प्रियेति । **आराधनार्थं वर-मञ्जरीकं ** लुनामि पत्रं तुलसि क्षमस्व ॥३४९॥
इत्य् उक्त्वा तुलसीं नत्वा चित्वा दक्षिण-पाणिना ।
पत्राण्य् एकैकशो न्यस्येत् सत्-पात्रे मञ्जरिर् अपि ॥३५०॥

एकैकशो दक्षिण-हस्तेन चित्वा तथैव सत्-पात्रे उत्तम-भाजने अर्पयेन् निदध्यात् ॥३५०॥

तन्-माहात्म्यं च

स्कान्दे—

मन्त्रेणानेन यः कुर्याद् गृहीत्वा तुलसी-दलम् । पूजनं वासुदेवस्य लक्ष-कोटि-फलं लभेत् ॥३५१॥

किं च—

शालग्राम-शिलार्चार्थं प्रत्यहं तुलसी-क्षितौ । तुलसीं ये विचिन्वन्ति धन्यास् ते कर-पल्लवा ॥३५२॥ इति ।

क्षिताव् इति । पृथिव्याम् एव । श्री-तुलस्याः सत्त्वात् । अतः क्षितिर् अपि धन्येति भावः ॥३५२॥

सङ्क्रान्त्य्-आदौ निषिद्धो’पि तुलस्य्-अवचयः स्मृतौ ।
परं श्री-विष्णु-भक्तेस् तु द्वादश्याम् एव नेष्यते ॥३५३॥

सङ्क्रान्तौ पक्षयोर् अन्ते द्वादश्यां रवि-वासरे । तुलसीं ये विचिन्वन्ति इत्य् आदि-वचनैः स्मृति-शास्त्रे निषिद्धो’पि परं केवलं द्वादश्याम् एव तुलस्या अवचयो नेष्यते ॥३५३॥

अथ तुलस्य्-अवचयन-निषेध-कालः

विष्णु-धर्मोत्तरे—

न छिन्द्यात् तुलसीं विप्रा द्वादश्यां वैष्णवः क्वचित् ॥३५४॥

गारुडे—

भानु-वारं विना दूर्वा तुलसीं द्वादशीं विना । जीवितस्याविनाशाय न विचिन्वीत धर्म-वित् ॥३५५॥

जीवितस्याविनाशायेति । अन्यथा आयुःक्षयः स्याद् इत्य् अर्थः ॥३५५॥

पाद्मे च श्री-कृष्ण-सत्या-संवादीय-कार्त्तिक-माहात्म्ये—

द्वादश्यां तुलसी-पत्रं धात्री-पत्रं च कार्त्तिके । लुनाति स नरो गच्छेन् निरयानति-गर्हितान् ॥३५६॥

एवं द्वादश्याम् एव निषेधाद् अमावस्यादाव् अपि तद्-अवचयो विहित इति ज्ञेयम् ॥३५६॥

अत एवोक्तम्—

देवार्थे तुलसी-च्छेदो होमार्थे समिधां तथा । इन्दु-क्षये न दुष्येत गर्वार्थे तु तृणस्य च ॥३५७॥

तद् एवाभिव्यञ्जयैत्—देवार्थ इति । समासान्तः-प्रविष्टेनापि छेदेन सहाग्रे’प्य् अन्वयः ॥३५७॥

एवं कृत्वा महा-पूजाम् अङ्गोपाङ्गादिकं प्रभोः । क्रमाद् यथा-सम्प्रदायं तत्-तत्-स्थानेषु पूजयेत् ॥३५८॥

अङ्गानि श्री-मूर्तौ मन्त्र-वर्णादि-न्यास-स्थानानि उपाङ्गानि वेण्व्-आदि-चिह्न-चतुष्कम् । आदि-शब्देन श्री-मूर्ति-न्यस्त-मन्त्र-पदाक्षराणि आवरणानि च । तेषां तेषां वर्णादीनां स्थानेषु क्रमेण गन्धादिभिः पूजयेत् ॥३५८॥

अथाङ्गोपाङ्ग-पूजा

मन्त्र-वर्ण-पदान्य् आदौ तत्-तन्-न्यास-पदेषु च ।
वेणुं च मालां श्रीवत्सं कौस्तुभं च यथास्पदम् ॥३५९॥

तद् एव विविच्य दर्शयति—मन्त्रेति । तस्य तस्य न्यास-स्थानेषु यथास्पदं यथा-स्थानम् । अयम् अर्थः—पूर्वं श्री-मूर्तौ यस्मिन्न् अङ्गे यन् न्यस्तम् अस्ति । तस्मिन् तद् एव क्रमेण पूजयेद् इति । प्रयोगः—श्री-मस्तके ओं ह्रीं नमः । ललाटे ओं क्लीं नमः इत्य् आदि । श्री-नेत्र-द्वये केचिद् अपि पूजां कुर्वन्ति । ओं ह्रीं नमः इत्य् आदिः । अत्र सर्वत्र निज-सम्प्रदाय-व्यवहार एवानुसर्तव्यः । अत एव लिखितं—यथा-सम्प्रदायम् इति । वेण्व्-आदींश् च श्री-मुखादौ पूर्ववत् पूजयेत् । प्रयोगः—श्री-मुख-वेणवे नमः इत्य् आदिः ॥३५९॥

ततश् च मूल-मन्त्रेण क्षिप्त्वा पुष्पाञ्जलि-त्रयम् ।
प्रार्थ्यानुज्ञां भगवतो’र्चयेद् आवृत्ति-देवता ॥३६०॥

आवृत्तिः आवरणं । तद्-रूपा देवताः ॥३६०॥

ताश् च प्रत्येकम् आवाह्य स्नानादि परिकल्प्य च ।
पूजयेद् गन्ध-पुष्पाभ्यां यथा-स्थानं यथा-क्रमम् ॥३६१॥

ता आवरण-देवताः । तासाम् एव स्नानादिकं परिकल्प्य सम्पाद्य ताः पूजयेत् ॥३६१॥

अथावरण-पूजा

कर्णिकायां चतुर्-दिक्षु द्योतमानान् प्रभोः सखान् ।
वसुदामं सुदामं च दामं च किङ्किणीं यजेत् ॥३६२॥

तद् एव विविच्य दर्शयति—कर्णिकायाम् इत्य् आदिना ऊर्द्व्हयोर् इत्य् अन्तेन । चतुर्दिक्षु श्री-भगवतः पूर्वादि-दिक्-चतुष्टये । प्रयोगः—ओं वसुदामाय नमः इत्य् आदि ॥३६२॥

इति प्रथमावरणम् ।

तद्-बहिश् चाग्नि-कोणादौ केशरेष्व् आग्ग-देवताः ।
हृदयादि-युताः पूज्याः स्व-स्व-वर्णादि-शोभिताः ॥३६३॥

अग्निकोणादाव् इति कोण-चतुष्टये प्रथमाङ्ग-देवता-चतुष्टयम् । अन्त्याश् च चतुर्दिक्ष्व् एवेति ज्ञेयम् । हृदयादि-मन्त्रैः हृदयाय नमः । शिरसे स्वाहा इत्य् आदिभिर् युक्ताः । प्रयोगः—ह्रीं हृदयाय नमः । नमः शिरसे स्वाहा नमः इत्य् आदिः । तद्-वर्णादिकं चोक्तं क्रम-दीपिकायां [४.३०]—

मुक्तेन्दु-कान्त-कुवलय- हरि-नील-हुताश-सभाः प्रमदाः । अभय-वर-स्फुरित-कराः प्रसन्न-मुख्यो’ङ्गदेवताः स्मर्याः ॥ इति ।

अस्यार्थः शुक्ल-नील-रक्त-वर्णाः स्त्री-रूपाः अभय-वरकराः प्रधान-देवता-स्वरूपा ध्येया इत्य् अर्थः ॥३६३॥

इति द्वितीयावरणम् ।

ततो बहिश् च पूर्वादि-दिग्-दलेष्व् अष्टसु प्रभोः ।
महिषी रुक्मिणी सत्यभामा नाग्नजिती क्रमात् ॥३६४॥
सुनन्दा मित्रविन्दा च सम्पूज्याथ सुलक्षणा ।
जाम्बवती सुशीला च तत्-तद्-द्रव्यादि-भूषिता ॥३६५॥

महिषीणां ध्यानं लिखति—तत् तद् इति । तेन तेन कमलादिना द्रव्येण । आदि-शब्दाद् रूप-भूषणादिना च भूषिताः । तच् चोक्तं तत्रैव [४.३३]—

तपनीय-मरकताभाः सुसित- विचित्राम्बरा द्विशस् त्व् एताः । पृथु-कुच-भरालसाङ्ग्या विविध- मणि-प्रकर-विलसिताभरणाः ॥ इति ।

अस्यार्थः—द्विशः युग्मशः । क्रमेण काञ्चन-मरकतवद्-वर्णा रत्न-पूरित-सत्-पात्र-लक्षित-वाम-करा इति ॥३६५॥

इति तृतीयावरणम् ।

पूर्वाद्य्-अष्ट-दलाग्रेषु वसुदेवं च देवकीम् ।
श्री-नन्दं श्री-यशोदां च बलभद्रं सुभद्रिकाम् ॥३६६॥
गोपान् गोपीश् च तद्-भाव-त्रपया दूरतः स्थिताः ।
विचित्र-रूप-वेशादि-शोभमानान् इमान् यजेत् ॥३६७॥

पूर्वं पूर्व-दिक्-स्थितम् । तद्-आदिषु अष्टसु दलाग्रेषु वसुदेवादीन् अष्टौ यजेत् पूजयेद् इति द्वाभ्याम् अन्वयः । क्रमाद् इत्य् अग्रे लिखितत्वात् सर्वत्रैव सम्बन्धनीयम् । तत्र गोप-गोपीनां बहुत्वे’पि गणत्वाभिप्रायेण द्वित्वं ज्ञेयम् । ननु भगवतः प्रियतमानां भगवतीनां श्री-गोपीनां चतुर्थावरणे पूजनं नोपयुज्यते । भगवत्य् अन्तान्तिक एव तासाम् अवस्थित्य्-उपपत्तेः । तत्र लिखति—तद्-भावेति । तेन तेन अनिर्वाचनीयेन परम-गोप्येन वा भावेन प्रेम-विशेषेण या त्रपा, तया दूरतः स्थिताः । अत्यन्त-सन्निकर्षेण निज-भावस्य प्रकाशे सति सभा-मध्ये कुलवतीनां तासां परम-लज्जोत्पत्त्या श्री-यशोदादि-सङ्गोपेक्षया च तत्रावस्थानं युक्तम् एवेति भावः । एतद् अपि सकाम-पूजा-विषयकम् एवेत्य् आमिकम् अग्रे व्यक्तं भावि । इति इमान् वसुदेवादीन् पुमान् स्त्रियेत्य् एक-शेषत्वम् । रूपादिकं च तेषां ध्यानार्थं तत्रैवोक्तम् [४.३५-३९] ।

ज्ञान-मुद्राभय-करौ पितरौ पीत-पाण्डुरौ ।

दिव्य-माल्याम्बरालेप-भूषणे मातरौ पुनः ॥

धारयन्त्यौ च वरदं पायसापूर्ण-पात्रकम् । अरुणाश्यामले हार-मणि-कुण्डल-मण्डिते ॥ बलः शङ्खेन्दु-धवलो मुसलं लाङ्गलं दधत् । हालालोलो नील-वासा हेलावान् एक-कुण्डलः ॥ कलाय-श्यामला भद्रा सुभद्रा भद्र-भूषणा । वराभय-युता पीत-वसना रूढ-यौवना ॥ वेणु-वीणा-वेत्र-यष्टि-शङ्ख-शृङ्गादि-पाणयः । गोपा गोप्यश् च विविध-प्रभृतात्त-कराम्बुजाः । मन्दारादींश् च तद्-बाह्ये पूजयेत् कल्प-पादपान् ॥ इति ।

एषाम् अयम् अर्थः—पितरौ वसुदेव-नन्दौ । मातरौ श्री-देवकी-यशोदे । हाला माध्वी । हेला लीला । प्राभृतम् उपायनम् इति ॥३६६-३६७॥।

इति चतुर्थावरणम् ।

तद्-बहिश् चतुरसान्त-पूर्वाद्याशा-चतुष्टये ।
सन्तानं पारिजातं च कल्प-द्रुमम् अथार्चयेत् ॥३६८॥
हरिचन्दनम् अप्य् एवं दिव्य-वृक्षान् अभीष्टदान् ।
कर्णिकायां च सम्पूज्य मन्दारं देव-पृष्ठतः ॥३६९॥

कर्णिकायाम् देवस्य भगवतः पृष्ठे मन्दारं च । च-शब्दात् दिव्य-वृक्षम् अभीष्टदम् आदौ सम्पूज्य पश्चात् तेभ्यो वासुदेवादिभ्यो बहिश् चतुरस्राभ्यन्तरे पूर्वादि दिक्-चतुष्टये सन्तानादीन् क्रमेणार्चयेत् । एवं लिखित-प्रकारेण अभीष्ट-दायकान् दिव्य-वृक्षान् पञ्चार्चयेत् ॥३६९॥

इति पञ्चमावरणम् ।

तद् बहिश् चाष्ट-दिक्-पालान् स्व-स्व-दिक्ष्व् एव पूजयेत् ।
तत्-तद्-बीजाधिपत्यास्त्र-वाहन-स्वजनान्वितान् ॥३७०॥

दिक्पालान् इन्द्रादीन् अष्ट । स्व-स्व-दिक्षु इन्द्रादीनां निज-निजासु चतुरस्रस्य पूर्वाद्य्-अष्ट-दिक्षु । तस्य तस्य इन्द्रादेः बीजानि बीजाक्षराणि आधिपत्यानि देवादिपतित्वादीनि । अस्त्राणि वज्रादीन्य् आयुधानि । वाहनानि ऐरावतादीनि । स्वजनाः सारथ्यादि-परिवारास् तैर् अन्वितान् ॥३७०॥

तत्-तद्-वर्णान् दिव्य-वेशाननं तं च तथार्चयेत् ।
निरृत्य्-अम्बु-पयोर् मध्ये ब्रह्माणं चेन्द्र-रुद्रयोः ॥३७१॥

ध्यानार्थं तेषां वर्णादिकं लिखति—तत् तद् इति पादेनैकेन । स प्रसिद्धः कपिशादि-वर्णो येषां, तान् । दिव्यः विचित्र-मणि-गण-किरण-प्रस्फुरणादि-मयो वेशः भूषणं येषां तान् । अधुना अध-ऊर्ध्व-दिग्-द्वय-पालयोः पूजासन्निवेशं लिखति अनन्तम् इति । तथा तेनैव प्रकारेणेति—बीजादिना वर्णादिना चान्वितम् इत्य् अर्थः । अनन्तं निरृतेः अम्बुपस्य वरुणस्य च मध्ये अर्चयेत् । ब्रह्माणं च इन्द्र-रुद्रयोर् मध्ये तथैवार्चयेत् । तत्र बीजाक्षराणि—लां वां मां क्षां रां यां सां हां ह्रीं आं इति । ।३७१॥

इति षष्ठावरणम् ।

ततो बहिश् चाष्ट-दिक्षु मौलि-स्थानात्म-लक्षणान् ।
भगवत्-पार्षदांस् तत्र वर्णायुध-विभूषणान् ॥३७२॥
वज्रं शक्तिं च दण्डं च खड्ग-पाशाङ्कुशान् क्रमात् ।
यजेद् गदां त्रिशूलं चक्राब्जे त्व् अध-ऊर्ध्वयोः ॥३७३॥

मौलि-स्थानि आत्मन आत्मनो लक्षणानि आयुध-चिह्नानि येषां वज्रादीनां । तान् यजेद् इति—द्वाभ्याम् अन्वयः तेषां तादृश-मूर्तिमत्त्वादौ हेतुः—भगवत्-पार्षदान् इति । तान् एव विविच्य लिखति—वज्रम् इति । अष्ट-दिक्षु वज्रादीन् अष्ट । चक्रं पद्मं चेति द्वे अध-ऊर्ध्वे च क्रमाद् यजेत् । वर्णादिकं चैषां तत्रैवोक्तम् ।

अर्च्या बहिर् निज-सुलक्षित-मौल-युक्ताः स्व-स्वायुध-भय-समुद्यत-पाणि-पद्मः ॥ [Kद् ४.४३] कनक-रजत-तोयदाभ्र-चम्पा- रुणहिम-नील-जवा-प्रवाल-भासः क्रमतः ॥ [Kद् ४.४४] इति ।

तन्-माहात्म्यं च

विष्णु-धर्मोत्तरे—

शङ्खं चक्रं गदां पद्म तोमरं मुषलं हलम् । अन्यद् वापि हरेः शस्त्रं स्मृत्वा पापात् प्रमुच्यते ॥३७४॥

अन्यत् वज्रादिकं स्मृत्वापि, किं पुनः पूजयित्वा इत्य् अर्थः ॥३७४॥

इति सप्तमावरणम् ।

सर्वानन्द-प्रदं ह्य् एतत् सप्तावरण-पूजनम् ।
अशक्तो’ङ्गेन्द्र-वज्राद्यम् आवृति-त्रयम् अर्चयेत् ॥३७५॥

अशक्तः सप्तमावरण-पूजने असमर्थश् चेत् । अङ्गेन्द्र-वज्र-युक्तम् आवरण-त्रयं पूजयेत् । एतद् अपि पूर्ववत् सकाम-जपाद्भिप्रायेणैव ॥३७५॥

ईदृक् चैकान्तिभिर् ज्ञेयं तत्-तत्-कामवतां मतम् ।
अन्यथा गोकुले कृष्ण-देवे तत्-तद्-अस्मभवात् ॥३७६॥

ननु श्री-भागवताद्य्-उक्त्य्-अनुसारेण तथात्रैव पूर्व-लिखित-ध्यानानुसारेण च श्री-वृन्दावने गोप-गोप्य्-आदि-परिवृतस्य श्री-गोपाल-देवस्यावरण-पूजायां कथं श्री-रुक्मिण्य्-आद्याः श्री-वसुदेवादयश् च सङ्गच्छेरन्, एकान्ति-मतेन परम-विरोधापत्तेः ? सत्यम् । अयं चावरण-पूजा-विधिः काम-पराणां शत्रु-जयादि-काम-सिद्ध्य्-अभिप्रायेणैवेति लिखति–ईदृक् चेति । एतल्-लिखित-प्रकारकम् आवरण-पूजनं तत्-तत्-कामवतां जयदं प्रधने’भयदं विपिने इत्य् आगमोक्त-विविध-काम-पराणाम् एव मतं सम्मतम् इति एकान्तिभिर् ज्ञेयम् । अन्यथा तत्-तत्-काम-व्यतिरेकेण श्री-भगवति श्री-कृष्णे तत्रापि गोकुले ते ते रुक्मिण्य्-आदयो न सम्भवन्तीत्य् अर्थः ॥३७६॥

एकान्तिभिस् तु राधाद्या यथा-ध्यानं प्रभोः प्रियाः ।
प्रथमावरणे पूज्याः काले कृष्णान्तिकं गताः ॥३७७॥

ननु तर्हि एकान्तिभिः कथम् आवरण-पूजा कार्या ? तत्र लिखति—एकान्तिभिर् इति चतुर्भिः । यथाध्ययनं पूर्वं लिखति ध्यानानुसारेण क्रम-दीपिकायां भगवद्-ध्यानानन्तरम् एव गोपीनां ध्यानोक्तेः । गोपी-गोप-पशूनां बहिः स्मरेत् इत्य् आदिना । यच् च तत्र गोभिर् मुखाम्बुज-विलीन-विलोचनाभिः इत्य् आदि-श्लोक-षट्केन गवादिभ्यो गोपेभ्य गोप-बालकेभ्यश् च पश्चाद् भगवद्-ध्याने गोप्यो निर्दिष्टा इति तच् च बाह्य-क्रमेणोह्यम् । अन्यथा पूर्वापर-विरोधापत्तेर् इति दिक् । काल इति सदा लज्जया प्रायो दूरतो वर्तमाना अपि पूजोत्सव-समयं प्राप्य कृष्णस्यान्तिकं प्राप्ताः । अत एव प्रथमावरणे पूज्याः । एवं काम-पराणां तत्-तत्-पूजा-विधिर् अप्य् अनुमत इत्य् ऊह्यम् । पूज्या इति सर्वत्रानुवर्तत एव । विभक्त्य्-आदि-व्यत्ययेन यथा-सम्भवं सम्बन्धनीयम् ॥३७७॥

ततो गोप-कुमाराश् च तद्-वयस्यास् ततो बहिः ।
नन्दो यशोदा-रोहिण्यौ गोपा गोप्यश् च तत्-समाः ॥३७८॥

तस्य श्री-कृष्णस्य वयस्या गोप-कुमाराः । तत्-समाः श्री-नन्द-यशोदाभ्यां सह समान-वयस्का इत्य् अर्थः । तत्र नन्द-समाः गोपाः । यशोदा-समा गोप्यः इति ॥३७८॥

ततश् च वत्सा गावश् च वृषारण्य-मृगादयः ।
ततो ब्रह्मादयो देवाः प्राप्ता नीराजनोत्सवे ॥३७९॥
रामः कदाचित् कृष्णस्य कदाचिन् मातुर् अन्तिके ।
श्री-नारदश् च परितो भ्रमन् हर्ष-भराकुलः ॥३८०॥

कदाचित् कृष्णस्यान्तिके पूज्यः । मातुः रोहिण्याः ॥३८०॥

एवं यद्-ध्यान-पूजादाव् एकान्तिभ्यः प्ररोचते ।
कृष्णाय रोचते’त्यन्तं तद् एव च सतां मतम् ॥३८१॥

नन्व् एवं तन्त्रोक्तादि-क्रमेण स्वच्छन्द-पूजा-विधिर् अयं शास्त्र-पराणां सतां सम्मतः कथं स्यात् ? तत्र लिखति—एवम् इति । ध्यान-पूजादौ विषये यद् एकन्तिभ्यः प्रकर्षेण रोचते तद् एव भगवते’त्यन्तं रोचते । अतः सतां तद् एव सम्मतम् इत्य् अर्थः ॥३८१॥

तथा च तृतीय-स्कन्धे [Bह्P ३.२४.३१] श्री-कर्दम-स्तुतौ—

तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव । यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥३८२॥

[Bह्P ३.९.११]

यद्-यद्-धिया त उरुगाय विभावयन्ति
तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय ॥३८३॥

तद् एव प्रमाणयति—तान्य् एवेति । श्री-कपिल-देवं प्रति श्री-कर्दमस्य वचनम् इदम्—हे भगवन् ! तव रूपाणि अवताराः चतुर्भुजत्व-द्विभुजत्वाद्य्-आकारा वा शुक्ल-कृष्णादि-वर्णा वा सौन्दर्याणि वा, स्वजनानाम् एकान्त-भक्तानां तेभ्यो यानि यानि रोचने, तान्य् एव ते तव अभिरूपाणि योग्यानीत्य् अर्थः । परम-भक्त-वात्सल्य-भरात् । यद् वा, सम्मतानीत्य् अर्थः । यद् वा, तान्य् एव रूपाणि ते तुभ्यं रोचन्ते । ततः अभिरूपाणि तान्य् एव परम-मनोहराणि । अन्यत् समानम् । अरूपिण इति—आद्ये पक्षे न विद्यते रूपी अवतारी यस्मात् तस्य परमावतारिण इत्य् अर्थः । द्वितीय-तृतीय-पक्ष-द्वये अ-कारो विष्णुस् तद्-रूपिणः । अतश् चतुर्भुजत्व-श्याम-वर्णत्वादिम् अत इत्य् अर्थः । चतुर्थे न विद्यते रूपी सौन्दर्यवान् अन्यो यस्मात् । तस्य सहज-परम-सौन्दर्यवत इत्य् अर्थः । तथा भूतस्यापि तव, अतः शुक्लादि-वर्ण-विशिष्टस्यास्य श्री-कपिलावतारस्य मह्यं रोचनाद् एवं त्वयावतीर्णम् इति श्री-कर्दमाभिप्रायः । यद् वा, रूप्यते दृश्यते साक्षात् क्रियते भगवान् यैस् तानि रूपाणि श्रवणादीनि नवधाभक्त्य्-अङ्गानि यानि यादृशानि । अरूपिणः रूपः निरूपणं तद्वान् रूपी । तद्-व्यतिरिक्तस्य अनिर्वचनीय-माहात्म्यस्य इत्य् अर्थः । परं पूर्ववद् एव, अतो मम गृह-त्यागादिना अग्रे श्रवणादि-भक्त्य्-एक-निष्ठत्व-बुभूषा तुभ्यं रोचते एवेति तद्-अभिप्रायो ज्ञेयः । एवम् एकान्तिभ्यो यद् रोचते । तद् एव भगवते रोचते इति सिद्धम् ॥३८२-३८३॥

ततो’ष्ट-नामभिः कृष्णं पुष्पाञ्जलिभिर् अर्चयेत् ।
कुर्यात् तैर् एव वा पूजाम् अशक्तो’खिलदैः प्रभोः ॥३८४॥

ततस् तद्-आवरण-पूजानन्तरम् । अष्टभिर् नाम-मन्त्रैः कृष्णं पुष्पाञ्जलिभिः पूजयेत् । श्री-कृष्णाय पुष्पाञ्जलिं दद्याद् इत्य् अर्थः । तथा च क्रम-दीपिकायाम् [४.४६] आवरण-पूजानन्तरम् —

इत्य् अर्चयित्वा जल-गन्ध-पुष्पैः कृष्णाष्टकेनाप्य् अथ कृष्ण-पूजाम् । कुर्याद् बुध इति ।

अस्यार्थः—इति पूर्वोक्त-प्रकारेणावरणानि जलादिभिः पूजयित्वा । अथानन्तरं पुष्प-पूजां पुष्पैः कृष्ण-पूजां कुर्याद् इत्य् अर्थः ।कृष्ण-पूजाम् इति क्वचित् पाठः तथापि स एवार्थः । जल-गन्ध-पुष्पैर् इत्य् अस्य पूर्वेणैव सम्बन्धात् । अतो भिन्नोपक्रमायार्थ-शब्द-प्रयोग इति । अत्र च केचिन् मन्यन्ते—प्रत्येकं नामैकः पुष्पाञ्जलिर् इत्य् एवम् अष्ट-नामभिर् अष्ट-पुष्पाञ्जलीन् दद्याद् इति । केचिच् च सर्वान्ते त्रीन् पुष्पाञ्जलीन् इति । तत्र च यथा-सम्प्रदायं व्यवहारः । अधुना पूर्व-लिखित-तत्-तद्-भगवत्-पूजा-विधावत्य् अन्तासमर्थं प्रतिपक्षान्तरं लिखति—कुर्याद् इति । अशक्तश् चेत् तर्हि प्रभोः श्री-कृष्णस्य पूजां कुर्यात् । तैः नामाष्टक-देय-पुष्पाञ्जैभिर् एव । यद् वा, तैर् अष्ट-नामभिः तत्-कीर्तनैर् एवेत्य् अर्थः । तावन्-मात्रेणैवाशेष-पूजा-फलं संसिध्येद् एवेति लिखति—अखिलदैर् इति तथा च क्रम-दीपिकायाम् [४.४९]

एभिर् एवाथवा पूजा कर्तव्या कंस-वैरिणः । संसार-सागरोत्तीर्त्यै सर्व-कामाप्तये बुधैः ॥ इति ।

केचिच् च मन्यन्ते—अत्यन्तासमर्थो ह्य् आवरण-पूजा-परिवर्तेन तैर् एव पूजयेत् । आवरण-पूजा-प्रसङ्गोक्तत्वाद् इति । तथा कंस-वैरिणः पूजा कर्तव्येत्य् उक्तत्वाद् एभिर् एवेति निर्धाराच् च परमाशक्तस्य तैर् एव सर्वा पूजा सम्पद्येतेत्य् अवगम्यते इति दिक् ॥३८४॥

श्री-कृष्णो वासुदेवश् च तथा नारायणः स्मृतः ।
देवकी-नन्दनश् चैव यदु-श्रेष्ठस् तथैव च ॥३८५॥
वार्ष्णेयश् चासुराक्रान्त-भार-हारी तथा परः ।
धर्म-संस्थापकश् चेति चतुर्थन्तरि नमो-युतः ॥३८६॥

तानि नामान्य् एव लिखति—श्री-कृष्ण इति द्वाभ्याम् । नम इति शब्देन युतैः तैर् नामभिः पूजां कुर्यात् इति पूर्वेणैवान्वयः । एवं श्री-कृष्णावतार-सम्बन्धि-नाम्नाम् अग्रे लेख्येन माहात्म्य-विशेषेणाशेषा पूजा स्वतः सम्पद्यते एवेति भावः । प्रयोगः—श्री-कृष्णाय नमः इत्य् आदि ॥३८५-३८६॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

पौष्पिको नाम सप्तमो विलासः ।