०६ स्नापनम्

षष्ठ-विलासः
स्नापनिकः
श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।
मनोज्ञं यष्टु-कामस्य मूर्त्य्-अर्चा-विधिर् उच्यते ॥१॥
सनातनः-
श्रियो महा-लक्ष्म्याः चैतन्यं जीवन-रूपो भगवान् श्री-कृष्णः । स्वमते तु निज-भक्तौ सर्वेषामेव चेतयितृत्वेन श्री-चैतन्य इति विख्यातः श्री-शची-नन्दनस् तस्य प्रसादेन मूर्तेः श्री-भगवत्-प्रतिकृतेः अर्चायाः पूजाया विधिर् उच्यते लिख्यते । ननु सर्वाधिष्ठानतः श्री-शिलाग्राम-शिलाया माहात्म्यम् अधिकं लिखितम् इति तत्-पूजा-विधिर् एव लिखितुं युज्यते, तत्र लिखति—गोकुलोत्सवं, तस्य चैतन्यस्य रूपं, तत् अनिर्वचनीयं वा रूपं यष्टुकामस्य पूजयितुम् इच्छतो जनस्य । कुतः ? मनोज्ञं चित्ताकर्षकम्; श्री-मूर्ति-मन्तरेण मनः-सन्तोषो न स्याद् इति तद्-भक्तानां तत्-पूजैवोपयुक्तेति भावः । अत एव तत्-तद्-दीपं सुरभि-घृत-संसिक्त-कर्पूर-वर्त्या, दीप्तं दृष्ट्याद्य्-अतिविशद-धीः पाद-पर्यन्तम् उच्चैः इत्यादि-वचनैः क्रम-दीपिकादौ दृष्टयादि-निर्देशेन श्री-मूर्ति-पूजैवाभिप्रेतेति दिक् ॥१॥

स्वयं व्यक्ताः स्थापनाश् च मूर्तयो द्विविधा मताः ।
स्वयं व्यक्ताः स्वयं कृष्णः स्थापनास् तु प्रतिष्ठया ॥२॥
सनातनः-
स्वयं व्यक्ताः श्री-रङ्गशायि-प्रभृतयः; स्वयं साक्षादेव श्री-कृष्णः; प्रतिष्ठया कृत्वा कृष्णः स्यात् ॥२॥

यथा च पाद्मोत्तर-खण्डे [Pअद्मP ६.२५३.४-७]—

शृणु देवि प्रवक्ष्यामि तद्-अर्चावसथं हरेः । स्थापनं च स्वयं व्यक्तं द्विविधं तत् प्रकीर्तितम् ॥३॥

सनातनः- अर्चायाः पूजाया आवसथं स्थानम् इत्यर्थः ॥३॥

शिला-मृद्-दारु-लोहाद्यैः कृत्वा प्रतिकृतिं हरेः । श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनं हि यत् ॥४॥ तत् स्थापनं इति प्रोक्तं स्वयं व्यक्तं हि मे शृणु । यस्मिन् सन्निहितो विष्णुः स्वम् एव नॄणां भुवि ॥५॥ पाषाणदार्वोर् आत्मेशः स्वयं व्यक्तं हि तत् स्मृतम् । दुर्लभत्वात् स्वयं व्यक्त-मूर्तेः श्री-वैष्णवोत्तमः । यथाविधि प्रतिष्ठाप्य स्थापितां मूर्तिम् अर्चयेत् ॥६॥

हरि-भक्ति-सुधोदये—

नैकं स्व-वंशं तु नरस् तारयत्य् अखिलं जगत् । अर्चायाम् ईप्सितं नॄणां फलं यागादि-दुर्लभम् । प्रतिमाम् आश्रितो’भीष्ट-प्रदां कल्प-लतां यथा ॥७॥

सनातनः- अर्चायां श्री-मूर्तौ, नृणाम् ईप्सितं फलं योगादि-दुर्लभमपि सा ददाति ॥७॥

अथ-श्री-मूर्तेः प्रसादनम् आत्मादि-शुद्धयश् च
श्री-मूर्तिं क्षालनार्हां तु शस्त-गन्ध-जलादिना ।
प्रक्सालयेत् तद् अन्यां तु मूल-मन्त्रेण मार्जयेत् ॥८॥
सनातनः-
प्रक्षालनार्हाम्—शैली-लौही-प्रतिकृतिम्, तद्-अन्याम्—लेप्याद्याम् ॥८॥

श्री-मूर्ति-हृदयं स्पृष्ट्वा स्व-मन्त्रं चाष्टधा जपेत् ।
एवं प्रसादनं मूर्तेर् आत्मनस् तत्-प्रसादनात् ।
शुद्धिर् एका द्वितीया तु स्याद् अव्यग्रतयापि च ॥९॥
सनातनः-
अष्टधा वाराष्टकम्, आत्म-शुद्धिः अव्यग्रत्वादिना । यद्यपि पूजारम्भादेव सा सदापेक्ष्यते, तथापि बहिः श्री-मूर्ति-पूजायाम् अवश्यापेक्ष्यत्वात् शुद्धि-प्रसङ्गाद् वात्र लिखिता ॥९॥

स्थान-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा ।
इति प्रकार-भेदेन भवेच् छुद्धि-चतुष्टयम् ॥१०॥

उक्तं च श्री-नारदेन—

पुष्पेणाम्बु गृहीत्वा तु प्रोक्षयेते सर्व-साधनम् । मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥११॥

अन्येनापि—

पुष्पाक्षतादि-द्रव्यानां कुर्यान् मन्त्रादि-शोधनम् । क्षालनेनाम्बु-लेपादेर् मूर्ति-शुद्दिं समाचरेत् । अव्यग्रत्वेनात्म-शुद्धिं क्सिति-शुद्धिं ततश् चरेत् ॥१२॥ इति ॥

मन्त्र-शुद्धिं परां चित्त-शुद्धिं चेच्छन्ति केचन ।
एवं षट् शुद्धयः पुण्याः सम्प्रदायानुसारतः ॥१३॥
सनातनः-
ननु क्वचित् शुद्धि-चतुष्ठयं, क्वचिच्च शुद्धि-षट्कं श्रूयते, अत्र तु मूर्ति-शुद्धिर् आत्म-शुद्धिश् चेति शुद्धि-द्वयमात्रं लिखितं, तत् कुतः? इत्यतो लिखति—स्थानेति । पुरा पूर्वं देवालय-मार्जनादि-प्रकरणे स्थान-शुद्धिः लिखिता, शङ्ख-प्रतिष्ठाशेषे च शङ्खोदकादिना द्रव्य-शुद्धिर् लिखिता इति । अनेन प्रकारेण भेदोऽत्रायं ज्ञेयः; प्रक्षालनादिना श्री-मूर्ति-शुद्धिः शोधन-प्रोक्षणादिना द्रव्य-शुद्धिर् अव्यग्रत्वेन चात्मशुद्धिर् अभिव्यञ्जितैव । तत्र च आत्म-तत्त्वाय नमः, विद्या-तत्त्वाय नमः, श्री-भगवत्-तत्त्वाय नमः—इत्युक्त्वा प्रोक्षणी-पात्रनिहितेन किञ्चिद् अभिमन्त्रित-शङ्ख-जलेन तुलसी-दल-गृहीतेन स्व-मूर्धन्यभिषेकं कुर्याद् इत्य् एतम् आत्म-शुद्धिं केचिन् मन्यन्ते । स्थान-शुद्धिश्च सम्मार्जन-लेपनादिना वेदिकामण्डल-निर्माणादिना च; तथा चोक्तं श्री-रामार्चन-चन्द्रिकायाम्—

विलिप्य वेदिकां सम्यङ्-मण्डलं तत्र कारयेत् । रक्तस् तण्डुल-चूर्णैश्च नील-पीत-सितासितैः ॥ लिखेद् अष्ट-दलं पद्मं चतुरस्रं समावृतम् । षट्कोणं कर्णिका-मध्ये कोणाग्रे वृत्त-संवृतम् ॥ साध्यमेव ततः शोभा-रेखाभिर् उपशोभितम् । सम्पूज्य मण्डलञ्चैव तत्र सिंहासनं न्यसेत् ॥ चन्द्रातप-पताकैश्च तोरणैर् अपि सर्वतः । चित्रितं तत्र तत्रापि भित्ति-स्तम्भ-स्थलादिषु ॥ इति ।

एतच्च केषाञ्चिन्मते श्री-रघुनाथ-पूजा-विषयम्, क्रम-दीपिकारादि-मते च दीक्षा-विधि-विषयम् एवेति । मन्त्र-शुद्धिश् च—अस्त्र-मन्त्रेण मन्त्र-शुद्धिं परिकल्पयामीत्येवम् । चित्त-शुद्धिश्च चिन्तान्तर-परित्यागादिनेत्येवं षट्-शुद्धयः; ताश्च सर्वा एव परिपाल्या वैष्णवैः, किन्तु निज-सम्प्रदायानुसारेणेत्यर्थः ॥१०-१३॥

अथ पीठ-पूजा
ताम्रादि-पीठे श्री-खण्डाद्यालिप्ते’ष्ट-दलं लिखेत् ।
सकर्णिकं त्रिवृत्ताढ्यं पद्मं षोडश-केशरम् ॥१४॥
सदलाग्रं चतुष्कोणं चतुर्द्वार-विभूषितम् ।
पूजा-यन्त्रं समुद्धृत्य पीठार्चां तत्र साधयेत् ॥१५॥
सनातनः-
ताम्रादि-रचित-पीठे श्री-खण्डं चन्दनं, तदादिना आलिप्ते अष्ट-दलं षोडश-केशरं स-कर्णिकं वृत्त-त्रय-युक्तं दलाष्ट-सहितञ्च पद्मं लिखेत् । एवं पूजा-यन्त्रं सम्यक् उद्धृत्य अङ्कयित्वा तत्र तस्मिन् यन्त्रे पीठस्य अर्चां पूजां साधयेत् निष्पादयेत्; तत्र चार्ध्य-जलेनाभ्युक्ष्य कुर्याद् इति सदाचारतो ज्ञेयम् ॥१४-१५॥

पीठे भगवतो वामे श्री-गुरून् गुरु-पादुकाम् ।
नारदादीन् पूर्व-सिद्धान् यजेद् अन्यांश् च वैष्णवान् ॥१६॥
सनातनः-
भगवतो वाम इति वायु-कोणाद् ईशान-कोण-पर्यन्त-देशे इत्यर्थः । श्री-गुरून् निज-गुरु-परमगुरु-परापरगुरु-महागुरु-परमेष्ठिगुरून् यजेत् । क्वचिच्च श्री-गुरु-परमगुरु-परमेष्ठिगुरु-परात्परगुरून् इति । प्रयोगः—श्री-गुरुभ्यो नम इत्यादिः । केचिद् अत्राद्याक्षर-बिन्दु-सहितं बीजत्वेनादौ प्रयुञ्जते—गुं गुरुभ्यो नम इति; तथा गुरुपादुकाश्च श्री-नारदादींश्च पूर्व-सिद्धान् अन्याश्चाधुनिकान् भागवतान् यजेत् । प्रयोगः—ओँ श्री-गुरु-पादुकाभ्यो नम इत्यादिः ॥१६॥

दक्षिणे चार्चयेद् दुर्गां गणेशं च सरस्वतीम् ।
तत्र प्राग्-लिखित-न्यासस्यानुसारेण पूजयेत् ॥१७॥
सनातनः-
भगवतो दक्षिणे च भागे दुर्गादीन् अर्चयेत्; तत्-तत्-परिच्छदादि-समेतान् इति ज्ञेयम् । ततस् तद्-अन्तरं प्राक् पूर्वं पीठ-न्यासे लिखितस्य न्यासस्य पीठ-न्यासस्यानुसारेण यत्र यस्य पूजा येन क्रमेण लिखितास्ति, तथैव पुष्पादिना तां कुर्याद् इत्यर्थः ॥१७॥

मध्ये आधार-शक्त्य्-आदीन् धर्मादींश् च विदिक्ष्व् अथ ।
अधर्मादींश् चतुर्-दिक्ष्व् अनन्तादीन् मध्यतः पुनः ॥१८॥
शक्तीर् नवाष्ट-पत्रेषु कर्णिकायां च पूजयेत् ।
तथा तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ॥१९॥
सनातनः-
तदेव विशिष्य दर्शयति—मध्ये इति द्वाभ्याम् । पीठ-मध्ये आधार-शक्त्यादीन् पूजयेत्; आदि-शब्देन प्रकृति-कूर्मानन्त-पृथिवी-क्षीर-समुद्र-श्वेतद्वीप-रत्न-मण्डप-कल्पवृक्षाः । अत्र च पूर्ववद् एव क्षीर-समुद्रादि-स्थाने तत्-तत्-परिवर्तेन श्री-मथुराद्या एकान्तिभिः पूज्या इति बोद्धव्यम् । प्रयोगः—ओँ आधार-शक्तये नमः इत्यादिः । एवम् अग्रेऽपि । अथानन्तरं विदिक्षु कोणेषु धर्मादीन् पूजयेत्; आदि-शब्देन ज्ञान-वैराग्यैश्वर्याणि चतुर्-दिक्षु पूर्वादि-दिक्-चतुष्टये अधर्मादीन् पूजयेत्; आदि-शब्देनाज्ञानावैराग्यानैश्वर्याणि, पुनश्च पीठ-मध्य एवानन्तदीन् पूजयेत्; आदि-शब्देन पद्म-सूर्यमण्डल-सोममण्डल-वह्निमण्डलानि, सत्त्व-रजस्-तमांसि आत्मान्तरात्म-परमात्म-ज्ञानात्मानश् च । अष्टसु पत्रेषु पूर्वादि-दल-क्रमेण केशर-मध्ये विमलाद्य्-अष्ट-शक्तीः कर्णिकायां चानुग्रहां शक्तिं पूजयेद् इत्यर्थः । शक्तयश्च—विमलोत्कर्षिणी ज्ञाना क्रिया योगा प्रह्वी सत्येशाना इत्यष्ट, नवमी चानुग्रहा इति । यथोदितम् इति—सूर्यादि-मण्डलं तत्-तद्-बीजाक्षरेण सह, सत्त्वादीन् तत्-तद्-अद्याक्षरैः सह, ज्ञानात्मानञ्च भुवनेश्वरी-बीजेन सह पूर्ववत् पूजयेद् इत्यर्थः । तत्र प्रयोगः—ओँ अं सूर्यमण्डलाय नमः, ओँ उं सोममण्डलाय नमः, ओँ वं वह्निमण्डलाय नमः, ओँ सं सत्त्वाय नम इत्यादिः ओँ ह्रीं ज्ञानात्मने नम इति च ॥१८-१९॥

तत्-पीठे मूल-मन्त्रेण श्री-मूर्तिं स्थापयेद् अथ ।
पुष्पाञ्जलिं गृहित्वेष्ट-देव-रूपं विचिन्तयेत् ॥२०॥
सनातनः-
तस्मिन् पूजिते पीठे ॥२०॥

ततश् च मूल-मन्त्रेण क्षिप्त्वा पुष्पाञ्जलि-त्रयम् ।
निजेष्ट-देव-मूर्तेश् च परम् ऐक्यं विभावयेत् ॥२१॥
सनातनः-
निजेष्ट-देवस्य मूर्तेश्च पीठ-स्थापित-भगवत्-प्रतिकृतेः परमम् अत्यन्तम् ऐकयम् अभिन्नत्वं सञ्चिन्तयेत् ॥२१॥

अथावाहनादीनि
ततो देवार्चने प्रौढ-पादताया निषेधनात् ।
भूमै निहित-पादः सन् कुर्याद् आवाहनादिकम् ॥२२॥
यच् चावाह्यम् अधिष्ठानं तत्रावाहनम् आचरेत् ।
शालग्राम-स्थापने च नावाहन-विसर्जने ॥२३॥

तथा चोक्तम्—

उद्वासावाहने न स्तः स्थावरे वै यथा तथा । शालग्रामार्चने नैव ह्य् आवाहन-विसर्जने ॥२४॥ शालग्रामे तु भगवान् आविर्भूतो यथा हरिः । न तथान्यत्र सूर्यादौ वैकुण्ठे’पि च सर्वगः ॥२५॥

सनातनः- प्रौढ-पादताल-क्षणमादौ लिखितम् एवास्ति । आदि-शब्देन संस्थापनादि, तच्चाग्रे व्यक्तं भावि, आवाह्यम् आवाहन-योग्यम् अस्थिरादि, तत्र तस्मिन् अधिष्ठाने आवाहनं विसर्जनञ्च नाचरेत् । यद्यपि मूर्त्य्-अर्चा-विधिर् उच्यते इति पूर्व-लिखनाच् छ्री-मूर्ति-पूजैव प्रस्तुतास्ति, तथाप्यावाहनादि प्रसङ्गेऽस्मिन् शालग्रामावाहन-निषेधादिकं लिखितम् इति दिक् ॥२३-२५॥

अथावाहनादि-विधिः

**
आवाहनादि-मुद्राश् च सन्दर्श्यावाहनं बुधः ।
तथा संस्थापनं सन्निधापनं सन्निरोधनम् ॥२६॥
सकलीकरणं चावगुण्ठनं च यथाविधि ।
अमृतीकरणं कुर्यात् परमीकरणं तथा ॥२७॥
सनातनः-** आवाहनादि-करण-प्रकारमेव लिखति—आवाहनादीति द्वाभ्याम्, आवाहनादि-मुद्रा आदौ सम्यक् दर्शयित्वा पश्चाद् आवाहनं, तथा संस्थापनादिकं च बुधो यथा-विधि कुर्यादिति द्वयोर् अन्वयः । विधिश्चायम्—श्री-कृष्ण इहावह इहावह, इह सम्यक् तिष्ठ इह सम्यक् तिष्ठ, इह सन्निधेहि इह सन्निधेहि, इह सन्निरुध्यस्व इह सन्निरुध्यस्व, इह सकलीकुरु, इह सकलीकुरु, इहावगुण्ठस्व इहावगुण्ठस्व, इहामृतीकुरु इहामृतीकुरु, इह परमीकुरु इह परमीकुरु—इति क्रमात् ब्रूयादिति । आवाहनाद्य्-अष्ट-मुद्राश्चाग्रे लेख्याः । केचिच्चाहुः—क्रमेण मुद्राः प्रदर्शयन् तत्र तत्र क्रमेण तत्-तद् ब्रूयाद् इति ॥२६-२७॥

**तथावाहनाद्य्-अर्थः **

आगमे—

आवाहनं चादरेण सम्मुखीकरणं प्रभोः । भक्त्या निवेशनं तस्य संस्थापन-मुद्रा-हृतम् ॥२८॥ तवास्मीति त्वदीयत्व-दर्शनं सन्निधापनम् । क्रिया-समाप्ति-पर्यन्तं स्थापनं सन्निरोधनम् ॥२९॥ सक्लईकरणं चोक्तं तत्-सर्वाङ्ग-प्रकाशनम् । आनन्द-घनतात्यन्त-प्रकाशो ह्य् अवगुठनम् ॥३०॥ अमृतीकरणं सर्वैर् एवाङ्गैर् अवरुद्धता । परमीकरणं नामाभीष्ट-सम्पादनं परम् ॥३१॥

सनातनः- तस्य प्रभोः सर्वाङ्गस्य प्रकाशनमभिव्यञ्जनं सकली-करणम्, केचिच्च अङ्गैर् एवाङ्ग-विन्यासं सकली-करणं विदुः इति वचनापेक्षया श्रीमद्-अङ्गेषु मन्त्राङ्ग-न्यासं सकली-करणं मन्यन्ते । तन्-मते चावाहनादि-चतुष्टयम् आदौ कृत्वा पश्चाद् अङ्ग-न्यासं विधाय ततोऽवगुण्ठनादिकं कुर्याद् इति ॥२८-३१॥

अथावाहन-माहात्म्यम्

नारसिंहे—

आगच्छ नरसिंहेति आवाह्याक्षत-पुष्पकैः । एतावतापि राजेन्द्र सर्व-पापैः प्रमुच्यते ॥३२॥ इति ।

न्यसेद् यथा-सम्प्रदायं देवे’ङ्गादीनि पूर्ववत् ।
शङ्ख-चक्रादिकाश् चाथ मुद्रा विद्वान् प्रदर्शयेत् ॥३३॥

तथा च तत्त्व-सागरे—

आवाहनादि-मुद्राश् च दर्शयित्वा ततः पुनः । अङ्ग-न्यासं च देवस्य कृत्वा मुद्राः प्रदर्शयेत् ॥३४॥

अथ मुद्राः

आगमे—

आवाहनीं स्थापनीं च तथान्यां सन्निधापनीम् । सन्निरोध-करीं चान्यां सकलीकरणीं पराम् ॥३५॥ तथावगुण्ठनीं पश्चाद् अमृतीकरणीं तथा । परमीकरणं चान्या प्राग् अष्टौ दर्शयेद् इमाः ॥३६॥ शङ्खं चक्रं गदां पद्मं मुषलं शार्ङ्गम् एव च । खड्गं पाशाङ्कुशी तद्वद् वैनतेयं तथैव च ॥३७॥ श्रीवत्स-कौस्तुभौ वेणुम् अभीति-वरदौ तथा । वनमालां तथा मन्त्री दर्शयेत् कृष्ण-पूजने ॥३८॥ मुद्रा चापि प्रयोक्तव्या नित्यऽअबिल्व-फलाकृतिः । इत्य् एताश् च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥३९॥ गन्द-दिग्धौ करौ कृत्वा मुद्राः सर्वत्र योजयेत् । यो’न्यथा कुरुते मूढो न सिद्धः फलभाग् भवेत् ॥४०॥

सनातनः- देवे श्री-भगवन्-मूर्तौ मन्त्रस्याङ्गादीनि न्यस्येत् । आदि-शब्देनाक्षरादि; पूर्ववद् इति—यत्र यस्य येन क्रमेण न्यासो लिखितोऽस्ति, तथैव कुर्याद् इत्यर्थः । एतच्च पूर्वं स्वस्मिन् पञ्चाङ्गादि-न्यास-प्रसङ्गे, तथा ध्यानानन्तरम् अन्तर्यागे पीठ-पूजामनु स्वहृदि चिन्तित-श्री-भगवन्-मूर्तौ न्यास-प्रसङ्गे च लिखितम् अस्त्येव । देवाङ्गेषु मन्त्रादि-न्यासो नाम देवेन सह मन्त्रस्यैक्यापादनायेति पूर्वं लिखितमेव ॥३३-४०॥

अथ मुद्रा-माहात्म्यम्

अगस्त्य-संहितायाम्—

एताभिः सप्तदशभिर् मुद्राभिस् तु विचक्सणः । यो वै माम् अर्चयेन् नित्यं मोहयेत् स सुरेश्वरम् । द्रापयेद् अपि विप्रेन्द्र ततः प्रार्थितम् आप्नुयत् ॥४१॥

सनातनः- सुरेश्वरम् इन्द्रं द्रावयेत् स्वर्गाच् चालयेद् अपि; एवं ततस् ताभ्यो मुद्राभ्यो निजाभीष्टं प्राप्नुयात्; यद्वा, सुरेश्वरं भगवन्तं श्री-राममेव ततश्च द्रावयेद् इति वैकुण्ठान् निज-पार्श्वं द्रुतं प्रापयेत्, द्रुत-हृदयं कुर्याद् इति वा; ततस् तद्-अनन्तरं तस्माद् वा सुरेश्वराद् इति ॥४१॥

क्रम-दीपिकायां [२.५८] बिल्व-मुद्राम् अधिकृत्य –

मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् । इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा नमन्त्य् अस्याधीना भवति सततं सर्व-जनता ॥४२॥

सनातनः- असौ नर इमां बिल्वाख्यां मुद्रां जानन् तत्-तद्-दुष्कृत-निचयं पाप-समूहम् अखिलं निःशेषं क्षपयति विनाशयति । कम् ? यं मनो-वाक्-कायैः इह अस्मिन् जन्मनि पुरा पूर्व-जन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितम्; दिवारात्रि-विहितम् इति पाठे दिने रात्रौ च कृतम् । यत्तदोर् नपुंसकत्वं महाकवि-स्वातन्त्र्याद् अव्ययत्वाद् वा; यद्वा, यत् यस्मात् क्षपयति तत् तस्मान् नमन्तीत्यन्वयः । मुद्रा-लक्षणानि च गुह्यत्वान् न लिखितानि; तथा चोक्तम्—

गुरुं प्रकाशयेद् विद्वान्मन्त्रं नैव प्रकाशयेत् । अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ॥ इति ।

अत्र च तद्-विज्ञानार्थम् उद्दिश्यन्ते, तथा चागमे—

(१) सम्यक् सम्पुटितैः पुष्पैः कराभ्यां कल्पितोऽञ्जलिः । आवाहनी समाख्याता मुद्रा देशिक-सत्तमैः ॥ (२) अधोमुखी-कृतैः सर्वैः स्थापनीति निगद्यते ॥ (३) आश्लिष्ट-मुष्टि-युगला प्रोन्नताङ्गुष्ठ-युग्मका । सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रवेदिभिः ॥ (४) अङ्गुष्ठ-गर्भिणी सैव सन्निरोधे समीरिता ॥ (५) अङ्गैर् एवाङ्गविन्यासः सकली-करणी मता ॥ (६) सव्य-हस्त-कृता मुष्टिर् दीर्घीधोमुख-तर्जनी । अवगुण्ठन-मुद्रेयम् अभितो भ्रामिता यदि ॥ (७) अन्योऽन्याभिमूखाः सर्वाः कनिष्ठानामिकाः पुनः । तथा तर्जनी-मध्याश्च धेनु-मुद्रा प्रकीर्तिता ॥ (८) अन्योऽन्यग्रथिताङ्गुष्ठा प्रसारित-कराङ्गुलिः । महामुद्रेयम् उदिता परमी-करणे बुधैः ॥ (९) वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु । तन्-मुष्टैः पृष्ठतो देशे योजयेच् चतुरङ्गुलीः । कथिता शङ्ख-मुद्रेयं वैष्णवार्चन-कर्मणि ॥ (१०) अन्योऽन्याभिमुखाङ्गुष्ठ-कनिष्ठ-युगले यदि । विस्तृताश् चेतराङ्गुल्यस् तदाऽसौ दर्शनी मता ॥ (११) अन्योऽन्यग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि । संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ॥ (१२) पद्माकारावाभिमुख्येन पाणी, मध्येऽङ्गुष्ठौ शायितौ कर्णिकावत् । पद्माख्येयं सैव संलग्न-मध्या, स्पृष्टाङ्गुष्ठा बिल्व-सञ्ज्ञैव मुद्रा ॥ (१३) अग्रे तु वाम-मुष्टेश्च इतरा तु यदा मता । तदेयं कृतिभिर् मुद्रा ज्ञेया मुषल-सञ्ज्ञिता ॥ (१४) वामस्थ-तर्जनी-प्रान्तं मध्यमान्ते नियोजयेत् । प्रसार्य तु करं वामं दक्षिणं करमेव च ॥ नियोज्य दक्षिण-स्कन्धे वाणप्रेरणवत्ततः । तर्जन्य्-अङ्गुष्ठकाभ्यां च कुर्याद् एषा प्रकीर्तिता । शार्ङ्ग-मुद्रेति मुनिभिर् दर्शयेत् कृष्ण-पूजने ॥ (१५) कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठनिपीडिते । शेषे प्रसारिते कृत्वा खड्ग-मुद्रा प्रकीर्तिता ॥ (१६) पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्गतर्जनीम् । दक्षिणे मुष्टिमादाय तर्जनीञ्च प्रसारयेत् ॥ तेनैव संस्पृशेन्मन्त्री वामाङ्गुष्ठस्य मूलकम् । पाश-मुद्रेयम् उद्दिष्टा केशवार्चन-कर्मणि ॥ (१७) तर्जनीम् ईषद् आकुञ्च्य शेषेणापि निपीडयेत् । अङ्कुशं दर्शयेत् तद्वद् गृहीत्वा दक्ष-मुष्टिना ॥ (१८) अन्योऽन्यपृष्ठे संयोज्य कनिष्ठे च परम्परम् । तर्जन्यग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ॥ ईषदालम्बितं कृत्वा इतरौ पक्षवत्ततः । प्रसार्या गारुडी मुद्रा कृष्ण-पूजा-विधौ स्मृता ॥ (१९) अन्योऽन्यसम्मुखे तत्र कनिष्ठातर्जनी-युगे । मध्यमानामिके तद्वद् अङ्गुष्ठेन निपीडयेत् ॥ दर्शयेद्धृदये मुद्रां यत्नाच् छ्रीवत्स-सञ्ज्ञिताम् ॥ (२०) अन्योऽन्याभिमुखे तद्वत् कनिष्ठे सन्नियोजयेत् । तर्जन्यनामिके तद्वत् करौ त्वन्योऽन्यपृष्ठगौ ॥ उत्सिक्तान्योऽन्यसंलग्नौ वक्षःस्थितकराङ्गुलीः । विधाय मध्य-देशे तु वाम-मध्यमतर्जनी ॥ संयोज्य मणिबन्धे तु दक्षिणे योजयेत् ततः । वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया ॥ क्वचिच्च—अनामा पृष्ठ-संलग्ना दक्षिणस्य कनिष्ठिका । कनिष्ठयान्यया बद्धा तर्जन्या दक्षया तथा ॥ वामानामाञ्च बध्नीयाद् दक्षाङ्गुष्ठस्य मूलके । अङ्गुष्ठ-मध्यमे वामे संयोज्य सरलाः पराः । चतस्रोऽन्योऽन्यसंलग्ना मुद्रा कौस्तुभ-सञ्ज्ञिता ॥ (२१) ओष्ठे वामकराङ्गुष्ठो लग्नस् तस्य कनिष्ठका । दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता ॥ तर्जनी-मध्यमानामाः किञ्चित् सङ्कुच्य चालिताः । वेणु-मुद्रेयम् उद्दिष्टा सुगुप्ता प्रेयसी हरेः ॥ (२२) अङ्ग प्रसारितं कृत्वा स्पृष्ट-शाखं वरानने । प्राङ्-मुखं तु ततः कृत्वा अभयं परिकीर्तितम् ॥ (२३) दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् । प्रसृतं दर्शयेद् देवि वरः सार्वार्थ-साधकः ॥ (२४) उत्तान-तर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु । मालावत् क्रम-विस्तारा वनमाला प्रकीर्तिता ॥

क्रम-दीपिकायाम्—अङ्गुष्ठं वामम् उद्दण्डितमितरकराङ्गुष्ठकेनाथ बद्ध्वा, तस्याग्रं पीडयित्वाङ्गुलिभिर् अपि ततो वाम-हस्ताङ्गुलीभिः । बद्ध्वा गाढं हृदि स्थापयतु विमलधीर्व्यहरन्मारबीजं, बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता स्थापनीया विधिज्ञैः ॥

अगस्त्य-संहितायां च—

आवाहनीं स्थापनीं च सन्निधीकरणीं तथा । सुसन्निरोधनीं मुद्रां सम्मुखीकरणीं तथा ॥ सकली-करणीं चैव महामुद्रान्तथैव च । शङ्ख-चक्र-गदा-पद्म-धेनु-कौस्तुभ-गारुडाः । श्रीवत्सं वनमालां च योनि-मुद्रां च दर्शयेत् ॥ (१) मूलाधाराद् द्वादशान्तमानीतः कुसुमाञ्जलिः । त्रिस्थान-गत-तेजोभिर् विनीतः प्रतिमादिषु । आवाहनीया मुद्रा स्याद् एषार्चन-विधौ मुने ॥ (२) एषैवाधोमुखी मुद्रा स्थापने शस्यते पुनः ॥ (३) उन्नताङ्गुष्ठ-योगेन मुष्टी-कृत-कर-द्वयम् । सन्निधीकरणं नाम मुद्रा देवार्चने विधौ । (४) अङ्गुष्ठ-गर्भिणी सैव मुद्रा स्यात् सन्निरोधनी ॥ (५) उत्तान-मुष्टि-युगला सम्मुखीकरणी मता ॥ (६) अङ्गैर् एवाङ्गविन्यासः सकली-करणी तथा ॥ (७) अन्योऽन्याङ्गुष्ठ-संलग्ना विस्तारित-कर-द्वयी । महा-मुद्रेयम् आख्याता न्यूनाधिकसमापनी ॥ (८) कनिष्ठानामिकामध्यान्तःस्थाङ्गुष्ठान्तरेऽग्रतः । गोपिताङ्गुलि-मूलेन समन्तान्मुकुलीकृता । कर-द्वयेन मुद्रा स्यात् शङ्खाख्येयं सुरार्चने ॥ (९) अन्योऽन्याभिमुख-स्पर्शव्यत्ययेन तु वेष्टयेत् । अङ्गुलीभिः प्रयत्नेन मण्डली-करणं मुने । चक्र-मुद्रेयम् आख्याता (१०) गदा-मुद्रा ततः परम् । अन्योऽन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नतमध्यमा ॥ (११) अथाङ्गुष्ठ-द्वयं मध्ये दत्त्वापि परितः करौ । मण्डली-करणं सम्यग् अङ्गुलीनां तपो-धन । पद्म-मुद्रा भवेद् एषा (१२) धेनु-मुद्रा ततः परम् ॥ अनामिकाकनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे । अन्योऽन्याभिमुखाश्लिष्टे ततः कौस्तुभ-सञ्ज्ञिता ॥ (१३) कनिष्ठेऽन्योऽन्यसंलग्नेऽभिमुखेऽपि परस्परम् । वामस्य तर्जनी-मध्ये मध्यानामिकयोर् अपि ॥ वामानामिक-संस्पृष्टा तर्जनी-मध्य-शोभिता । पर्यायेण नताङ्गुष्ठ-द्वयी कौस्तुभ-लक्षणा ॥ (१४) कनिष्ठान्योऽन्यसंलग्ना विपरीतं वियोजिता । अधस् तात स्थापिताङ्गुष्ठा मुद्रा गारुड-सञ्ज्ञिता ॥ (१५) तर्जन्य्-अङ्गुष्ठ-मध्यस्था मध्यमानामिकाद्वयी । कनिष्ठानामिकामध्या तर्जन्यग्रे कर-द्वयी । मुने श्रीवत्स-मुद्रेयं (१६) वनमाला भवेत् ततः ॥ कनिष्ठानामिकामध्या मुष्टिर् उन्नीत-तर्जनी । परिभ्रान्ता शिरस्य्-उच्चैस् तर्जनीभ्यां दिवौकसः । मुद्रा योनिः समाख्याता सङ्कोचित-कर-द्वयी ॥ (१७) तर्जन्य्-अङ्गुष्ठ-मध्यान्तःस्थितानामिक-युग्मका । मध्य-मूलस्थिताङ्गूष्ठा ज्ञेया शस्तार्चने मुने ॥ इति ॥४२॥

**अथासनाद्य्-अर्पणम्

ततो निक्षिप्य देवस्योपरि पुष्पाञ्जलि-त्रयम् ।
दत्त्वासनार्थं पुस्पं च स्वागतं विधिनाचरेत् ॥४३॥
सनातनः-** विधिनेति—श्री-कृष्णायासनं निवेदयामीति श्र्-ईकृष्ण इदमासनमत्रास्यतां सुखम् इत्येवम् आसनं सम्र्प्य, श्री-कृष्ण सह परिवारेण स्वागतं करोषि इति स्वागत-मुद्रया स्वागतं कुर्याद् इत्य् एवं विधिर् द्रष्टव्यः । मूल-मन्त्रेणैव सर्वेषाम् उपचाराणां समर्पणं च ॥४३॥

आसनाद्य्-उपचारेषु मुद्राः षोडश दर्शयेत् ।
प्रसिद्धाः पद्म-स्वस्त्य्-आद्या विद्वान् षोडशसु क्रमात् ॥४४॥
श्री-कृष्णायार्पयेद् अर्घ्यं पाद्यम् आचमनीयकम् ।
मधुपर्कं पुनश् चाचमनीयं च विधिर् यथा ॥४५॥

तथा च स्मृत्य्-अर्थ-सारे –

आवाहनासनं पाद्यम् अर्घ्यम् आचमनीयकम् । स्नानम् आचमनं वस्त्राचमनं चोपवीतकम् ॥४६॥ आचमनं गन्ध-पुष्पं धूप-दीपं प्रकल्पयेत् । नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत् ॥४७॥

अन्यत्र च –

आदौ पुष्पाञ्जलिं दत्त्वा पादार्चनम् अतः परम् । पाद्यम् अर्घं त्व् आचमनं मधुपर्कं यथोदितम् ॥४८॥ अभ्यङ्गोद्वर्तने कृत्वा महा-स्नानं समाचरेत् । अभिषेकाङ्ग-वस्त्रं च दत्त्वा नीराजयेद् धरिम् ॥४९॥ इति ।

सनातनः- सर्वेष्व् अप्य् उपचारेषु तत्-तन्-मुद्रा दर्शयितव्या इति प्रसङ्गाद् एकत्रैव ता विज्ञापयति—आसनेति । विद्वान् तत्-तन्-मुद्राप्रकाराभिज्ञः, षोडशसु आसन-स्वागतार्घ्याद्य्-अपचारेषु पद्माद्याः षोडश-मुद्राः क्रमेण दर्शयेत् । ताश्च प्रसिद्धा इति तत्-तल्-लक्षण-लिखनेनालम् इति भावः । ताश्चोक्ताः—

(१) आसने पद्म-मुद्रैव कथिता मुनिभिस् तथा । (२) ईषन् नम्राङ्गुलिर् दक्षः सन्त्यज्याङ्गुष्ठकं करः । स्वागते स्वस्ति-मुद्रा तु मध्या मूल-गताङ्गुलिः । (३) स्वस्ति-मुद्रा द्विहस्ता चेन्मुद्रा त्व् अर्घ्यस्य कीर्तिता ॥ (४) तौ च प्रसारितौ हस्तौ पाद्य-मुद्रा प्रकीर्तिता ॥ (५) देशिनी मूलगाङ्गुष्ठा दक्षिणाधःकनीयसी । आचाम-मुद्रा विख्याता देवताचमने विधौ ॥ (६) संयुक्तानामिकाङ्गुष्ठ तिस्त्रोऽन्याः सम्प्रसारिताः । मधुपर्के च सा मुद्रा, (७) सन्त्यज्य च कनीयसीम् । कृत्वा मुष्टिं तथा स्नाने मध्यमाङ्गुष्ठकौ युतौ ॥ (८) अन्याः प्रसारिता तिस्त्रो मुद्रा वस्त्रस्य चोदिताः । (९) माधुपर्की समुत्ताना मुद्रालङ्कारिकी स्मृता ॥ (१०) कनिष्ठाङ्गुष्ठकौ लग्नौ तिस्त्रो मध्याः प्रसारिताः । यज्ञोपवीत-मुद्रेयं विद्वद्भिः परिकीर्तिता ॥ (११) मुक्तनिर्मीलिका मुष्टिर् गन्ध-मुद्रेति सा स्मृता । (१२) उत्थिताधोमुखी मध्या साङ्गुष्ठाश्चेतरेतराः ॥ पुष्प-मुद्रा तदाख्याता सर्व-सिद्धि-प्रदायिनी । (१३) अङ्गुष्ठं तर्जनी-लग्नं तिस्रः सङ्कुचिताः पराः ॥ मुद्रा धूप-प्रदाने स्याद् एवानां तुष्टिकारिणी । (१४) उत्तमा धौपकी मुद्रा दीप-मुद्रेति कीर्तिता ॥ पञ्चाङ्गुल्य्-अग्र-संलग्ना प्रोत्थितोर्ध्व-मुखी यदि । द्विधा निबद्धा मुद्रेयं नैवेद्यस्य प्रकीर्तिता ॥ (१६) नाभौ हृदि ललाटे च कर-सम्पुटयोर् गता । नमस्कारे त्वियं मुद्रा देवतानां प्रसादनी ॥ इति ॥४४॥

विधिर् यथा तथेत्यर्थः; यद्वा, वदभावच्छान्दसः; विधिवद् यथा स्याद् इति—श्री-कृष्णायार्घ्यां निवेदयामि स्वाहा इत्यर्घ्यम्; तथैव श्री-कृष्णाय स्वधा इत्याचमनीयम्; तथैव मधुपर्कं चेत्येवं तत्-तन्-मुद्रया समर्पयेद् इत्यत्र विधिर् ज्ञेयः ॥४५-४९॥

श्री-मूर्तौ तु शिरस्य् अर्घ्यं दद्यात् पाद्यं च पादयोः ।
मुखे चाचमनीयं त्रिर् मधुपर्कं च तत्र हि ॥५०॥
सर्वेष्व् अप्य् उपचारेषु पाद्यादिषु पृथक् पृथक् ।
आदौ पुष्पाञ्जलिं केचिद् इच्छन्ति भगवत्-पराः ॥५१॥
सनातनः-
श्री-मूर्तौ त्विति—श्री-शालग्राम-शिलायां साक्षात् सर्वावयवाविर्भाव-दृष्ट्या तत्-तद्-अवयव-भावनया सम्मुखे तत्-तन्-निवेदयेत् इति सूचितम् । त्रिः वार-त्रयम् आचमनीय दद्यात् । तत्र तस्मिन् मुख एव ॥५०-५१॥

अथासनाद्य्-अर्पण-माहात्म्यम्

नरसिंह-पुराणे –

दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनीयकम् । देवदेवस्य विधिना सर्व-पापैः प्रमुच्यते ॥५२॥

विष्णु-धर्मोत्तरे –

आसनानां प्रदानेन स्थानं सर्वत्र विन्दति । गोदान-फलम् आप्नोति तथा पाद्य-प्रदो नरः ॥५३॥ ततस् त्व् अर्हण-दानेन सर्व-पापैः प्रमुच्यते । तथैवाचमईयस्य दाता ब्राहमण-सत्तमाः ॥५४॥ तीर्थ-तोयं तथा दत्त्वा देवस्याचमनं पुनः । स्वर्ग-लोकम् अवाप्नोति सर्व-पाप-विवर्जितः । नरस् त्व् आचमनीयस्य दाता भवति निर्मलः ॥५५॥

सनातनः- अर्हणम् अघ्र्यं पाद्यं च तद्-दानेन, हे ब्राह्मण-सत्तमाः, तीर्थतोयम् आचमनम्, आचमनीयस्य जात्यादि-द्रव्यसाधितस्येति भेदः ॥५२-५५॥

मधुपर्कस्य दानेन परं पदम् इहाश्नुते ॥५६॥

विष्णु-पुराणे (?) च –

मधुपर्क-विधिं कृत्वा मधुपर्कं प्रयच्छति । ब्रह्मन् स याति परमं स्थानम् एतन् न संशयः ॥५७॥

सनातनः- मधुपर्कस्य विधिं कृत्वा तत्-तद्-द्रव्यं सम्पाद्य लिखित-द्रव्य—प्रकारेणेत्यर्थः ॥५७॥

**अथ स्नानम्

विज्ञाप्य देवं स्नानार्थं पादुके पुरतो’र्पयेत् ।
महा-विद्यादिना तं च स्नान-स्थानं ततो नयेत् ॥५८॥
सनातनः-** विज्ञाप्य भगवन् स्नान-भूमिम् अलङ्कुरु इति निवेदनं कृत्वा, ततश्च पीठाद् उत्थितस्य भगवतः पादुके निवेदयामि नमः इति भगवद् अग्रे पादुका-द्वयं समर्पयेत् । एवं पूर्व-लिखितानुसारेणाग्रेऽपि सर्वत्र विधि-द्रष्टव्यः । तं देवम्, आदि-शब्देन गीत-नृत्य-च्छत्र-चामरादि, स्नान-स्थानं स्नानार्थम् ऐशानकोणे निर्मित-स्नान-मण्डपम्, तद्-अभावे भावनयैवेत्येवं सर्वत्रैव बोद्धव्यम् ॥५८॥

प्राग्वत् तत्रासनं पाद्यं तत्रैवाचमनीयकम् ।
निवेद्य दर्शयेन् मुद्राम् अमृतीकरणीं बुधः ॥५९॥
सनातनः-
तत्र स्नान-स्थाने—भगवन् स्नानीयं निवेदयामि स्वाहा इत्येवं निवेद्य; यद्यपि स्नान-मुद्रा पृथक् लिखितास्ति; सा चाग्रे दर्श्या रामार्चन-चन्द्रिकायां, तथापि शिष्टाचाराद् अमृतीकरणीं धेनु-मुद्रेति प्रसिद्धां मुद्राम् अपि दर्शयेत् । अत एव लिखितम्—बुध इति ॥५९॥

शालग्राम-शिला-रूपं ततो देवं निवेशयेत् ।
स्नान-पात्रे निजाभीष्टां चलां श्री-मूर्तिम् एव वा ॥६०॥
सनातनः-
शालग्राम-शिलारूपम् इत्येवं क्वचित् क्वचिन् निर्देशस् तन्-माहात्म्य-भरापेक्षया केषाञ्चित् सतां श्री-मूर्त्या सहैव तत्-पूजया तत्-प्रकार-बोधनायेति दिक् । स्नान-पात्रे निवेशयेद् इति श्री-चरणामृतापेक्षया फल-विशेषापेक्षया वा ॥६०॥

अथ स्नान-पात्रम्

स्कन्द-पुराणे –

कृत्वा ताम्र-मये पात्रे यो’र्चयेन् मधुसूदनम् । फलम् आप्नोति पूजायाः प्रत्यहं शत्वार्षिकम् ॥६१॥ यो’र्चयेन् माधवं भक्त्या अश्वत्थ-दल-संस्थितम् । प्रत्यहं लभते पुण्यं पद्म-युत-समुद्भवम् ॥६२॥

सनातनः- अर्चयेद् इत्य् अनेन यद्यपि पूजायां सर्वत्रैव तत्-तत्-पात्रम् अपेक्ष्यते, तथाप्य् उपचारेषु स्नानस्य मुख्यत्वेनात्र लिखितं, पद्मायुत-समुद्भवं दश-सहस्र-कमल-दानजम् । यद्वा, पद्मं सङ्ख्या-विशेषः तस्याप्य् अयुतं, तावद् वर्षं पूजा-समुद्भवं पुण्यम् एकदिनेनैव प्राप्नोतीत्यर्थः ॥६१-६२॥

रम्भा-दलोपरि हरिं कृत्वा यो’भ्यर्चयेन् नरः । वर्षायुतं भवेत् पीतः केशवः प्रियया सह ॥६३॥ ये पश्यन्ति सकृद् भक्त्या पद्म-पत्रोपरि स्थितम् । भक्त्या पद्मालया-कान्तं तैर् आप्तं दुर्लभ-फलम् ॥६४॥ इति ।

ततः शङ्खेनाभिषेकं कुर्याद् घण्टादि-निःस्वनैः ।
मूलेन्âष्टाक्षरेणापि धूपयन्न् अन्तरान्तरा ॥६५॥
सनातनः-
अन्तरान्तरा स्नान-काले मध्ये मध्ये धूपम् अर्पयन् सुरभि-धूपम् अर्पयन् । तथा च श्री-रामार्चन-चन्द्रिकायां, स्नानोपचार-मध्ये—स-कृष्णागुरु-धूपेन धूपयन्न् अन्तरान्तरा इति । अत एवास्य माहात्म्यम् अग्रे लेख्यं—स्नान-काले तु कृष्णस्य अगुरुं दहते तु यः इत्यादि ॥६५॥

तत्र तु प्रथमं भक्त्या विदधीत सुगन्धिभिः ।
दिव्यैस् तैलादिभिर् द्रव्यैर् अभ्यङ्गं श्री-हरेः शनैः ॥६६॥

**अथाभ्यङ्ग-द्रव्याणि तन्-माहात्म्यं च **

स्कन्दे –

मालती-जातिम् आदाय सुगन्धानां तु वा पुनः ॥६७॥

सनातनः- एवं सामान्येन स्नान-प्रकारं लिखित्वा इदानीं विशेषतो लिखति—तत्र त्वित्यादिना स्नापयेत् पुनर् इत्यन्तेन ॥६६-६७॥

तथान्य-पुष्प-जातीनां गृहीत्वा भक्तितो नराः । ये स्नापयन्ति देवेशम् उत्सवे वै हरेर् दिने ॥६८॥

सनातनः- वै इति विशेषे । नित्यं ये स्नापयन्ति विशेषतश् चैकादश्याद्य्-उत्सव-दिने इत्यर्थः ॥६८॥

मेदिनी-दान-तुल्यं हि फलम् उक्तं स्वयम्भुवा । यः पुनः पुष्प-तैलेन दिव्यौषधि-युतेन हि ॥६९॥ अभ्यङ्गं कुरुते विष्णोर् मध्ये क्षिप्त्वा तु कुङ्कुमम् । रोमाञ्चित-तनुर् भूत्वा प्रियया सह माधवः । प्रीत्या बिभर्ति स्वोत्सङ्गे मन्वन्तर-शतं हरिः ॥७०॥

विष्णु-धर्मोत्तरे च –

गन्ध-तैलानि दिव्यानि सुगन्धीनि शुचीनि च । केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ॥७१॥

**अथ पञ्चामृत-स्नपनम्

ततः शङ्ख-भृतेनैव क्षीरेण स्नापयेत् क्रमात् ।
दध्ना घृतेन मधुना खण्डेन च पृथक् पृथक् ॥७२॥
सनातनः-** पृथक् पृथक् इति तेषां चतुःषष्ट्य्-उपचारेषूक्तस्य प्रत्येकम् उपचारस्य सिद्ध्यर्थं पृथक्त्वेन तत्-तत्-फलोक्तेः ॥७२॥

पञ्चामृताद्यैः स्नपनं सदा नेच्छन्ति तत् प्रियाः ।
किन्तु तैः काल-देशादि-विशेषे कारयन्ति तत् ॥७३॥

अथ तत्-परिमाणम्

ब्रह्म-पुराणे (?)

देवानां प्रतिमा यत्र घृताभ्यङ्गस् ततो भवेत् । पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः ॥७४॥ अष्टोत्तर-पल-शतं देयं च सर्वदा । द्वे सहस्रे पलानां तु महा-स्नाने च सङ्ख्यया ॥७५॥

सनातनः- प्रमेति पाठे परिमाणम् इत्यर्थः; तस्य घृतस्य पञ्च-विंशतिः पलानि अवश्यं देयानि । शक्तौ च सत्याम् अष्टोत्तर-पल-शतं देयम् इत्यर्थः । यद्वा, तैलादिभिर् इव घृतेन योऽभ्यङ्गस् तत्र पञ्चविंशतिः पलानि, स्नाने चाष्टोत्तर-शत-पलानि दद्याद् इत्यर्थः ॥७४-७५॥

दातव्ये येन सर्वासु दिक्षु निर्याति तद्-घृतम् ॥७६॥ इति ।

दुग्धादाव् अपि सङ्ख्येयम् एवं ज्ञेया मनीषिभिः ।
पल-सङ्ख्या च विज्ञेया याज्ञवल्क्यादि-वाक्यतः ॥७७॥
सनातनः-
इयं घृत-विषयिका या सङ्ख्या, सैव ॥७७॥

तथा हि –

पञ्च-कृष्णलको माषस् ते सुवर्णस् तु षोडश । सुवर्णानां च चत्वारः पलम् इत्य् अभिधीयते ॥७८॥ इति ।

सनातनः- पञ्च कृष्णलकानि गुञ्जा-फलानि यस्मिन् सः, ते माषाः षोडश—सुवर्णः ॥७८॥

किं च –

स्नानार्थं सुरभी-क्षीरं महिष्याद्यास् तु कुत्सिताः ॥७९॥
सनातनः-
कुत्सिता इति तासां क्षीरम् अपि नित्यं स्नानार्थं न ग्राह्यम् इत्यर्थः ॥७९॥

विष्णु-धर्मोत्तरे च –

शरीर-दुःख-शमनं मनो-दुःख-विनाशनम् । क्षीरेण स्नपनं विष्णोः क्षीराभोधि-प्रदं तथा ॥८०॥

अग्नि-पुराणे –

गवां शतस्य विप्रेभ्यः सम्यग्-दत्तस्य यत् फलम् । घृत-प्रस्थेन तद् विष्णोर् लभेत् स्नानान् न संशयः ॥८१॥

सनातनः- प्रस्थादि-सङ्ख्या च गोपथ-ब्राह्मणे—

द्वात्रिंशत्-पलकं प्रस्थम् उक्तं स्वयम् अथर्वणा । आढकन्तु चतुःप्रस्थैश् चतुर्भिर् द्रोण आढकैः ॥ इति ॥८१॥ इन्द्रद्युम्नेन सम्प्राप्ता सप्त-द्वीपा वसुन्धरा । घृतोदकेन संयुक्ता प्रतिमा स्नापिता किल ॥८२॥ प्रतिमासं सिताष्टम्यां घृतेन जगतां पतिम् । स्नापयित्वा समभ्यर्च्य सर्व-पापैः प्रमुच्यते ॥८३॥ ज्ञानतो’ज्ञानतो वापि यत् पापं कुरुते नरः । तत् क्षालयति सन्ध्यायां घृत-स्नपन-तोषितः ॥८४॥

सनातनः- सन्ध्यायां यद्-घृत-स्नापनं, तेन तोषितो जगतां पतिः ॥८४॥

येषु क्षीरवहा नद्यो पायस-कर्दमाः । तान् लोकान् पुरुषा यान्ति क्षीर-स्नपनका हरेः ॥८५॥

विष्णु-धर्मे श्री-पुलस्त्य-प्रह्लाद-संवादे च –

द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः । स्नापनं दैत्य-शार्दूल महा-पातक-नाशनम् ॥८६॥

सनातनः- द्वादश्यामिति प्रायो वैष्णवानां द्वादश्यामपवासापत्तेर् व्रतदिन इत्यर्थः । स्नानं न हरये दद्याद् द्वादश्यां वैष्णवो दिवा इत्यादि-लेख्य-वचनात् । यद्वा, द्वादश्यामिति द्वादशी-रात्राव् इत्यर्थः—दिवैव तत्र हरि-स्नपन-निषेधात्; एवम् अन्यत्राप्य् ऊह्यम् । द्वादश्याम् इत्यादिकं तत्र तत्र फल-विशेषार्थम्; वस्तुतस् तु सर्वास्व् अपि तिथिष्व् इति ज्ञेयम्, अन्यथा वचनान्तर-विरोधापत्तेः । एवमग्रेऽपि ॥८६॥

दध्य्-आदीनां विकाराणां क्षीरतः सम्भवो यथा । तथैवाशेष-कामानां क्षीर-स्नानं ततो हरेः ॥८७॥

नारसिंहे –

पयसा यस् तु देवेशं स्नापयेद् गरुड-ध्वजम् । सर्व-पाप-विशुद्धात्मा विष्णु-लोके महीयते ॥८८॥ स्नाप्य दध्ना सकृद् विष्णुं निर्मलं प्रिय-दर्शनम् । विष्णु-लोकम् अवाप्नोति सेव्यमानः सुरोत्तमः ॥८९॥

सनातनः- स्नाप्य स्नापयित्वा ॥८९॥

दुःस्वप्न-शमनं ज्ञेयम् अमङ्गल्य-विनाशनम् । माङ्गल्य-वृद्धि-दं दध्ना स्नपनं नर-पुङ्गव ॥९०॥ यः करोति हरेर् अर्चां मधुना स्नापितां नरः । अग्नि-लोके स मोदित्वा पुनर् विष्णु-पुरे वसेत् ॥९१॥

सनातनः- स्नापयन् सन् अर्चां पूजां स्नापनात्मक-पूजाम् इत्यर्थः ॥९१॥

मधुना स्नपनं कृत्वा सौभाग्यम् अधिगच्छति । लोक-मित्राण्य् अवाप्नोति तथैवेक्षु-रसेन च ॥९२॥

श्री-द्वारका-माहात्म्ये च श्री-मार्कण्डेयेन्द्रद्युम्न-संवादे –

क्षीर-स्नानं प्रकुर्वन्ति ये नरा विष्णु-मूर्धनि । तेनाश्व-मेधजं पुण्यं बिन्दुना बिन्दुना स्मृतम् ॥९३॥ क्षीराद् दश-गुणं दध्ना घृतं तस्माद् दशोत्तरम् । घृताद् दश-गुणं क्षौद्रं खण्डं तस्माद् दशोत्तरम् ॥९४॥ पुष्पोदकं च गन्धोदं वर्धते च दशोत्तरम् । मन्त्रोदकं च दर्भोदं तथैव नृप-सत्तम ॥९५॥

सनातनः- पुष्पोदकादीनां माहात्म्य-विशेषोक्तेः तैरपि स्नापयेद् इत्यूह्यम्; तथा चोक्तं श्रीरामार्चन-चन्द्रिकायाम्—

नारिकेलोदकेनापि कर्पूरादि-सुगन्धिना । कदलीपनसाम्रादि-जलेनापि सुगन्धिना । शतं सहस्रम् अयुतं शक्त्या वाप्यभिषेचयेत् ॥ इति ॥९५॥ द्राक्षा-रसं चूत-रसं शत-वाजि-मखैः समम् । तथैव तीर्थ-नीरं च फलं यच्छति भूमिप ॥९६॥ स्नापनं कृष्ण-देवस्य यः करोति स्व-शक्तितः । फलम् आप्नोति तत् प्रोक्तं निष्कामो मुक्तिम् आप्नुयात् ॥९७॥

सनातनः- तत् अश्वमेधजादिकं प्राप्नोति सकामः ॥९७॥

विष्णु-धर्मोत्तरे–

तीर्थोदकानि पुण्यानि स्वयम् आनीय मानवः । तैलस्य स्नपनं दत्त्वा सर्व-पापैः प्रमुच्यते ॥९८॥

अथ स्नपने धूपने धूपन-माहात्म्यम्

स्कान्दे –

स्नान-काले तु कृष्णस्य अगुरुं दहते तु यः । प्रविष्टो नासिका-रन्ध्रं पापं जन्मायुतं दहेत् ॥९९॥

सनातनः- धूपयन्नन्तरान्तरेति यत् स्नान-काले धूपनं लिखितं, तन्-माहात्म्यं लिखति—स्नान इति । यमगुरुं दहते दहति जनः स एव प्रविष्टः सन् । य इति पाठे तस्य पापम् अगुरुरेव दहेत् । प्रविष्टो नासिकां गन्ध इति पाठेऽपि तथैवार्थः । प्रविष्ट इति सप्तम्य्-अन्तपाठे तद्-गन्धे इति शेषः । ततश्च स एव जन्मायुतकृतं पापं दहेत्; यद्वा, पापं दुःख-रूपं जन्मायुतं, जन्मायुतेऽपि दुःखं नाप्नुयाद् इत्यर्थः ॥९९॥

उद्वर्तनं च तैलादेर् अपसारण-कारणम् । देवस्य कारयेद् द्रव्यैर् उपयुक्त्यैर् अनन्तरम् ॥१००॥

अथोद्वर्तनं तन्-माहात्म्यं च

नारसिंहे –

यव-गोधूमैश् चूर्णैर् उद्वर्त्योष्णेन वारिणा । प्रक्षाल्य देव-देवेशं वारुणं लोकम् आप्नुयात् ॥१०१॥

विष्णु-धर्मोत्तरे च –

गो-धूम-यव-चूर्णैस् तु तम् उत्साद्य जनार्दनम् । लोध्र-चूर्णक-सङ्कीर्णैर् बल-रूपं तथाप्नुयात् ॥१०२॥ मसूर-मास-चूर्णं च कुङ्कुम-क्षोद-संयुतम् । निवेद्य देव-देवाय गन्धर्वैः सह मोदते ॥१०३॥

सनातनः- उपयुक्तैः उद्वर्तन-योग्यैर् यव-चूर्णादिभिः ॥१०३॥

वाराहे –

कलायकस्य चूर्णेन पिष्ट-चूर्णेन वा पुनः । तेनैवोद्वर्तनं कुर्याद् गन्ध-पुष्पैश् च संयुतम् । यदीच्छेत् परमां सिद्धिं मम कर्म-परायणः ॥१०४॥ इति ।

सनातनः- उद्वर्त्यते येन तद्-उद्वर्तनं, गन्धादिभिः संयुतं कुर्यात् ॥१०४॥

ततः समर्पयेत् कूर्चम् उषीरादि-विनिर्मितम् ।
मलापकर्षणाद्य्-अर्थं श्रीमन्-मूर्त्य्-अङ्ग-सन्धितः ॥१०५॥
सनातनः-
श्रीमतो भगवतः श्री-मत्या वा मूर्तेर् अङ्गानां सन्धि-स्थानतो मलस्यापकर्षणार्थम्; आदि-शब्देन कण्डूयनादि-सेवार्थञ्च कूर्चं समर्पयेत् ॥१०५॥

अथ कूर्चं तन्-माहात्म्यम्

विष्णु-धर्मोत्तरे –

उषीर-कूर्चकं दत्त्वा सर्व-पापैः प्रमुच्यते । दत्त्वा गो-बाल-जं कूर्चं सर्वांस् तापान् व्यपोहति । दत्त्वा चामरकं कूर्चं श्रियम् आप्नोत्य् अनुत्तमम् ॥१०६॥

सनातनः- व्यपोहति निरस्यति ॥१०६॥

**अथ शुद्ध-जल-स्नपनम्

ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना ।
शीतलेनाम्बुना शङ्ख-भृतेन स्नापयेत् पुनः ॥१०७॥
सनातनः-** कोष्णेन ईषद् उष्णेनाम्बुना सम्यक् स्नापयित्वा, अन्यथा पञ्चामृतादि-लेपानपगमात् । पुनः पश्चात् शीतलेनाम्बुना स्नापयेत् । कथम्भूतेन ? सर्वौषध्यादिभिः संस्कृतेन सुगन्धिना च ॥१०७॥

तद् उक्तम् एकादश-स्कन्धे [Bह्P ११.२७.३०] –

चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥१०८॥

अथ जल-परिमाणम्

भविष्ये –

स्नाने पल-शतं देयम् अभ्यङ्गे पञ्च-विंशतिः । पलानां द्वे सहस्रे तु महा-स्नानं प्रकीर्तितम् ॥१०९॥

सनातनः- द्वे सहस्रे यदि देये, तदा महा-स्नानं प्रकीर्तितम् इत्यर्थः । महा-स्नाने प्रकीर्तिते इति वा पाठः ॥१०९॥

तत्र याज्ञवल्क्यः—

न नक्तोदक-पुष्पाद्यैर् अर्चनं स्नानम् अर्हति ॥११०॥

विष्णुः—

न नक्तं गृहीतोदकेन दैव-कर्म कुर्यात् ॥१११॥

हारीतः—

रात्राव् एता आपो वरुणं प्राविशन्त तस्मान् न रात्रौ गृह्णीयात् ॥११२॥

अथ स्नपन-माहात्म्यम्

नारसिंहे—

निर्मालय्म् अपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् सर्व-पापैः प्रमुच्यते ॥११३॥ गो-दान-जं फलं प्राप्य यानेनाम्बर-शोभिना । नरसिंह-पुरं प्राप्य मोदते कालम् अक्षयम् ॥११४॥

किं च—

स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकं महीयते ॥११५॥

सनातनः- स्नाप्य स्नापयित्वा ॥११५॥

नरसिंहं तु संस्नाप्य कर्पूरागुरु-वारिणा । चन्द्द्र-लोके स मोदित्वा पश्चाद् विष्णु-पुरं वसेत् ॥११६॥

किं च—

कुश-पुष्पोदकेनापि विष्णु-लोकम् अवाप्नुयात् । रत्नोदकेन सावित्रं कौवेरं हेम-वारिणा ॥११७॥

सनातनः- जल-विशेषस्य फलं लिखति—कुशेति, कुश-पुष्प-युक्तोदकेन; यद्वा, कुशाश्च पुष्पाणि च तद्-युक्तोदकेन, एवमग्रेऽपि । शक्तौ सत्यां रत्नोदकादिनापि स्नपनं बोद्धव्यम् ॥११७॥

विष्णु-धर्मोत्तरे –

रत्नोदक-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । बीजोदक-प्रदानेन क्रिया-साफल्यम् आप्नुयात् ॥११८॥ पुष्प-तोय-प्रदानेन श्रीमान् भवति मानवः । फल-तोय-प्रदानेन सफलां विन्दते क्रियाम् ॥११९॥

हयशीर्ष-पञ्चरात्रे—

सुगन्धिना यस् तोयेन स्नापयेज् जल-शायिनम् । ब्रह्म-लोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश ॥१२०॥

गारुडे –

तुलसी-मिश्र-तोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास् ते भुवि मानवाः ॥१२१।

अग्नि-पुराणे—

महा-स्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्य् असंशयः ॥१२२॥

सनातनः- सम्यक् यथाविधीत्यर्थः ॥१२२॥

पाद्मे श्री-पुलस्त्य-भगीरथ-संवादे—

स्नानम् अभ्यर्चनं यस् तु कुरुते केशवे सदा । तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा ॥१२३॥

सनातनः- केशवे केशवस्य स्नान-रूपम् अभ्यर्चनं यः कुरुते ॥१२३॥

विष्णु-धर्मोत्तरे –

स्नानार्थं देवदेवस्य यस् तु गन्धं प्रयच्छति । भवन्ति वशगास् तस्य नार्यः सर्वत्र सर्वदा ॥१२४॥

सनातनः- जल-संस्कारार्थ-गन्धादि-समर्पणमाहात्म्यम् अपि स्नपन-माहात्म्यान्तर्गतम् एवेत्यत्रैव लिखति—स्नानार्थम् इत्यादिना ॥१२४॥

पुष्प-दानात् तथा लोके भवतीह फलान्वितः । दत्त्वा मृगमद-स्नानं सर्वान् कामान् अवाप्नुयात् ॥१२५॥ सर्वौषधि-प्रदानेन वाजिमेध-फलं लभेत् । दत्त्वा जाती-फलं मुख्यं सफलां विन्दति क्रियाम् ॥१२६॥

सनातनः- क्रियां सर्वोद्यमम् इत्यर्थः ॥१२६॥

**अथ सर्वौषधिः

मुरा मासी वचा कुष्ठं शैलेयं रजनी-द्वयम् ।
शटी चम्पक-मुस्तं च सर्वौषधि-गणः स्मृतः ॥१२७॥
सनातनः-** मुरा भोटेति प्रसिद्धा, मांसी जटामांसी, शैलेयं शैलज इति प्रसिद्धं, रजनी-द्वयं हरिद्रा दारु-हरिद्रा च ॥१२७॥

गन्धश् चागमे—

गन्धश् चन्दन-कर्पूर-कालागुरुभिर् ईरितः ॥१२८॥

सनातनः- चन्दनादिभिर् भाग-विशेषेण साधितो द्रव्य-विशेषो गन्ध इतीरित इत्यर्थः ॥१२८॥

अथ शङ्ख-माहात्म्यम्

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

शङ्ख-स्थितेन तोयेन यः स्नापयति केशवम् । कपिला-शत-दानस्य फलं प्राप्नोति मानवः ॥१२९॥

सनातनः- ततः शङ्खनाभिषेकं कुर्याद् इत्यादिना प्रस्तुतस्य शङ्खस्य माहात्म्यं लिखति— शङ्खेत्यादिना ॥१२९॥

शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् । द्वादश्यां बिन्दु-मात्रेण कुलानां तारयेच् छतम् ॥१३०॥ कपिला-क्षीरम् आदाय शङ्खे कृत्वा जनार्दनम् । यः स्नापयति धर्मात्मा यज्ञायुत-फलं लभेत् ॥१३१॥ अन्य-गो-सम्भवं क्षीरं शङ्खे कृत्वा तु नारद । यः स्नापयति देवेशं राजसूय-फलं लभेएत् ॥१३२॥ शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् । स्नापयेद् देवदेवेशं हन्यात् पापं चिरार्जितम् ॥१३३॥ साक्षतं कुसुमोपेतं शङ्खे तोयं स-चन्दनम् । यः कृत्वा स्नापयेद् देवं मम लोके वसेच् चिरम् ॥१३४॥ क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् । नमो नारायणायेति मुच्यते योनि-सङ्कटान् ॥१३५॥ नाद्यं तडागजं वारि वापी-कूप-ह्रदादिजम् । गाङ्गेयं च भवेत् सर्वं कृतं शङ्खे कलि-प्रिय ॥१३६॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात् शङ्खं सदार्चयेत् ॥१३७॥ शङ्खे कृत्वा तु पानीयं स-पुष्पं सतिलाक्षतम् । अर्घ्यं ददाति देवस्य स-सागर-धरा-फलम् ॥१३८॥

सनातनः- ससागरधरादानस्य फलं तस्य भवतीति शेषः ॥१३८॥

अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् । प्रदक्षिणी-कृता तेन सप्त-द्वीपा वसुन्धरा ॥१३९॥ दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमं सूर्योदये यथा ॥१४०॥ नित्ये नैमित्तिके काम्ये स्नानार्चन-विलेपने । शङ्खम् उद्वहते यस् तु श्वेतद्वीपे वसेच् चिरम् ॥१४१॥ नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः । यः स्नापयति गोविन्दं तस्य पुण्यम् अनन्तकम् ॥१४२॥

**मन्त्रः

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
मानितः सर्व-देवैश् च पाञ्चजन्य नमो’स्तु ते ॥१४३॥
तव नादेन जीमूता वित्रस्यन्ति सुरासुराः ।
शशाङ्कायुत-दीप्ताभ पाञ्चजन्य नमो’स्तु ते ॥१४४॥
गर्भा देवारि-नारीणां विलीयन्ते सहस्रधा ।
तव नादेन पाताले पाञ्चजन्य नमो’स्तु ते ॥१४५॥**

वाराहे च—

दक्षिणावर्त-शङ्खेन तिल-मिश्रोदकेन च । उदके नाभिमात्रे तु यः कुर्याद् अभिषेचनम् ॥१४६॥

सनातनः- प्रसङ्गाद् दक्षिणावर्त-शङ्ख-माहात्म्यम् अपि सामान्येन लिखति—दक्षिणेति सार्ध-त्रयेण । अभिषेचनं भगवतः स्वस्यापि वा ॥१४६॥

प्राक् स्रोतसि च नद्यां वै नरस् त्व् एकाग्र-मानसः । यावज् जीव-कृतं पापं तत्-क्षणाद् एव नश्यति ॥१४७॥ दक्षिणावर्त-शङ्खेन पात्रे औडुम्बरे स्थितम् । उदकं यः प्रतीच्छेत शिरसा कृष्ण-मानसः । तस्य जन्म-कृतं पापं तत्-क्षणाद् एव नश्यति ॥१४८॥

आगमे—

बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुण-त्रयम् ॥१४९॥ आवर्त-भङ्ग-दोषस् तु हेम-योगान् न जायते । नालिकायां स्वभावेन यदि छिद्रं भवेन् नहि ॥१५०॥ इति ।

घण्टावाद्यं च नितरां स्नान-काले प्रशस्यते ।
यतो भगवतो विष्णोस् तत् सदा परमं प्रियम् ॥१५१॥
आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने ।
नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम् ॥१५२॥
सनातनः-
तत् घण्टा-वाद्यम् ॥१५२॥

**तन्-मन्त्रः

जय-ध्वनिं ततो मन्त्रमातः स्वाहेत्य् उदीर्य च ।
अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत् ॥१५३॥
पूजा-कालं विनान्यत्र हितं नास्याः प्रचालनम् ।
न तया च विना कुर्यात् पूजनं सिद्धि-लालसः ॥१५४॥**

अथ घण्टा-माहात्म्यम्

उक्तं च स्कान्दे श्री-ब्रह्म-नारद-संवादे—

स्नानार्चन-क्रिया-काले घण्टा-नादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्य-फलं शृणु ॥१५५॥ वर्ष-कोटि-सहस्राणि वर्ष-कोटि-शतानि च । वसते देव-लोके तु अप्सरो-गण-सेवितः ॥१५६॥ सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया । वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम् ॥१५७॥ वादित्र-निनदैस् तूर्य-गीत-मङ्गल-निस्वनैः । यः स्नापयति गोविन्दं जीवन्-मुक्तो भवेद् धि सः ॥१५८॥ वादित्राणाम् अभावे तु पूजा-काले हि सर्वदा । घण्टा-शब्दो नरैः कार्यः सर्व-वाद्य-मयी यतः ॥१५९॥ सर्व-वाद्य-मयी घण्टा देवदेवस्य वल्लभा । तस्मात् सर्व-प्रयत्नेन घण्टा-नादं तु कारयेत् ॥१६०॥ मन्वन्तर-सहस्राणि मन्वन्तर-शतानि च । घण्टा-नादेन देवेशः प्रीतो भवति केशवः ॥१६१॥

विष्णु-धर्मोत्तरे श्री-भगवत्-प्रह्लाद-संवादे—

शृणु दैत्येन्द्र वक्ष्यामि घण्टा-माहात्म्यम् उत्तमम् । प्रह्लाद त्वत्-समो नास्ति मद्-भक्तो भुवन-त्रये ॥१६२॥ मम नामाङ्किता घण्टा पुरतो मम तिष्ठति । अर्चिता वैष्णव-गृहे तत्र मां विद्धि दैत्यज ॥१६३॥ वैनतेयाङ्कितां घण्टां सुदर्शन-युतां यदि । ममाग्रे स्थापयेद् यस् तु देहे तस्य वसाम्य् अहम् ॥१६४॥

सनातनः- तस्य देहे वसामि, प्रकटस् तिष्ठामीत्यर्थः; अतो मद्-अधिष्ठानवत् सोऽपि पूज्य इति भावः ॥१६४॥

यस् तु वादयते घण्टा वैनतेयेन चिह्निताम् । धूपे नीराजनए स्नाने पूजा-काले विलेपने ॥१६५॥ ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । ममायुतं गो-युतं च चान्द्रायण-शतोद्भवम् ॥१६६॥

सनातनः- गोऽयुतं, गवायुतं गवाम् अयुतस्य दानजं फलम् इत्यर्थः ॥१६६॥

विधि-बाह्य-कृता पूजा सफला जायते नॄणाम् । घण्टा-नादेन तुस्टो’हं प्रयच्छामि स्वकं पदम् ॥१६७॥ नागारि-चिह्निता घण्टा रथाङ्गेन समन्विता । वादनात् कुरुते नाशं जन्म-मृत्यु-भयस्य च ॥१६८॥ गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं सदा । प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः ॥१६९॥

सनातनः- अधनो दरिद्रः यथा लक्ष्मी धन-सम्पत्ति प्राप्य प्रीतिं करोति, तद्वत् ॥१६९॥

दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्य् अहर्निशम् । सुपर्णे च तथा प्रीतिं घण्टा-शिखर-संस्थिते ॥१७०॥

सनातनः- घण्टायां शिखरम् अग्रं, तत्र सम्यक् स्थिते सति; प्रीतिं करोमीति शेषः । प्रीये इति वा पाठः । सुपर्णैमीति पाठे एमि प्राप्नोमि । पुनः सन्धिर् आर्षः ॥१७०॥

स्व-करेण प्रकुर्वन्ति घण्टा-नादं स्व-भक्तितः । मदीयार्चन-काले तु फलं कोट्य्-ऐन्दवं कलौ ॥१७१॥

सनातनः- ऐन्दवं चान्द्रायणं, तत्-कोटि-समुद्भवं फलम् इत्यर्थः । दीनारकोटिजमिति पाठे दीनारं सुवर्ण-मुद्रा-विशेषः, तत्-कोटिदानजम् ॥१७१॥

अन्यत्र च—

घण्टा-दण्डस्य शिखरे स-चक्रं स्थापयेत् तु यः । गरुडं वै प्रियं विष्णोः स्थापितं भुवन-त्रयम् ॥१७२॥ स-चक्र- घण्टा-नादं तु मृत्यु-काले शृणोति यः । पाप-कोटि-युतस्यापि नश्यन्ति यम-किङ्कराः ॥१७३॥

सनातनः- नश्यन्ति अदृश्या भवन्ति, पलायन्त इत्यर्थः ॥१७३॥

सर्वे दोषाः प्रलीयन्ते घण्टा-नादे कृते हरौ । देवतानां मुनीन्द्राणां पितॄणाम् उत्सवो भवेत् ॥१७४॥ अभावे वैनतेयस्य चक्रस्यापि न संशयः । घण्टा-नादेन भक्तानां प्रसादं कुरुते हरिः ॥१७५॥ गृहे यस्मिन् भवेन् नित्यं घण्टा नागारि-संयुता । न सर्पाणां भयं तत्र नाग्नि-विद्युत्-समुद्भवम् ॥१७६॥ यस्य घण्टा गृहे नास्ति शङ्खश् च पुरतो हरेः । कथं भागवतं नाम गीयते तस्य देहिनः ॥१७७॥ इति ।

अतो भगवतः प्रीत्यै घण्टा श्री-गरुडान्विता ।
सङ्गृह्या वैष्णवैर् यत्नाच् चक्रेणोपरि मण्डिता ॥१७८॥
स्नाने शङ्खादि-वाद्यां तु नाम-सङ्कीर्तनं हरेः ।
गीतं नृत्यं पुराणादि-पठनं च प्रशस्यते ॥१७९॥

अथ स्नाने वाद्यादि-माहात्म्यम्

स्कन्द-पुराणे—

स्नान-काले तु कृष्णस्य शङ्खादीनां तु वादनम् । कुरुते ब्रह्म-लोके तु वसते ब्रह्म-वासरम् ॥१८०॥ स्नान-काले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् । गीतं चैव पुनात्य् अत्र ऋचोक्तं वदनेन हि ॥१८१॥

सनातनः- पुनातीति नर्तनादि-कर्तॄन्, ऋचोक्तं वदनेन हीति ऋग्-वेदेन स्वमुखेन साक्षाद् अयम् अर्थः साधित इत्यर्थः । यद्वा, अत्र पावने यत् फलं, तद्-ऋचैवोक्तं, नान्यस्य वदने प्रभवतीत्यर्थः ॥१८१॥

तत्रैव श्री-ब्रह्म-नारद-संवादे—

मृदङ्ग-वाद्येन युतं पणवेन समन्वितम् । अर्चनं वासुदेवस्य स-नृत्यं मोक्षदं नॄणाम् ॥१८२॥ गीतं वाद्यं च नृत्यं च तथा पुस्तक-वाचनम् । पूजा-काले तु कृष्णस्य सर्वदा केशव-प्रियम् ॥१८३॥ नृत्य-वाद्याद्य्-अभावे तु कुर्यात् पुस्तक-वाचनम् । पूजा-काले त्व् इदं पुत्र सर्वदा प्रीति-दायकम् ॥१८४।

सनातनः- अर्चनम् इत्यनेन पूजा-काले, त्वित्यादिना च यद्यपि पूजायां सर्वोपचारेषु सर्वदैव वाद्यादिकं विहितम्, तथाप्यत्र मुख्योपचारे स्नाने स्नान-काले त्वित्यादि-वचन-सङ्गत्या प्राग्वल् लिखितम्; एवमग्रेऽपि ॥१८२-१८४॥

पुस्तकस्याप्य् अभावे तु विष्णु-नाम-सहस्रकम् । स्तव-राजं मिनि-श्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥१८५॥ पूजा-काले तु देवस्य गीता-स्तोत्रम् अनुस्मृतिः । पञ्च-स्तअवा महा-भाग महा-प्रीति-करा हरेः ॥१८६॥

सनातनः- मातुरङ्के उत्तानशायी न भवति, मुक्तोभवतीत्यर्थः ॥१८६॥

विहाय गीत-वाद्यानि पूजा-काले सदा हरेः । पठनीयं महा-भक्त्या विष्णोर् नाम-सहस्रकम् ॥१८७॥

द्वारका-माहात्म्ये—

स्नान-काले तु कृष्णस्य जय-शब्दं करोति यः । कर-ताडन-संयुक्तं गीतं नृत्यं प्रकुर्वते ॥१८८॥ उन्मत्त-चेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया । नोत्तान-शायी भवति मातुर् अङ्के नरेश्वर ॥१८९॥

अथ सहस्र-नाम-माहात्म्यम्

तत्रैव—

स्नान-काले तु देवस्य पठेन् नाम-सहस्रकम् । प्रत्यक्सरं लभेत् पुण्यं कपिला-गो-शतोद्भवम् ॥१९०॥

विष्णु-धर्मोत्तरे—

कृत्वा नाम-सहस्रेण स्तुतिं तस्य महात्मनः । वियोगम् आप्नोति नरः सर्वानर्थैर् न संशयः ॥१९१॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

विष्णोर् नाम-सहस्रं तु पूजा-काले पठन्ति ये । वेदानां चैव पुण्यानां फलम् आप्नोति मानवः ॥१९२॥ श्लोकेनैकेन देवर्षे सहस्र-नामकस्य यत् । पठितेन फलं प्रोक्तं न तत् क्रतु-शतैर् अपि ॥१९३॥ मन्त्र-हीनं क्रिया-हीनं यत् कृतं पूजनं हरेः । परिपूर्णं भवेत् सर्वं सहस्र-नाम-कीर्तनात् ॥१९४॥

किं च—

ज्ञानाज्ञान-कृतं पापं पठित्वा विष्णु-सन्निधौ । नाम्नां सहस्रं विष्णोस् तु प्रजहाति महा-रुजम् ॥१९५॥ ब्रह्म-हत्यादि-पापानि काम-चार-कृतान्य् अपि । विलयं यान्ति वै नूनम् अन्य-पापे तु का कथा ॥१९६॥ सिद्ध्यन्ति सर्व-कार्याणि मनसा चिन्तितानि च । यः पठेत् प्रातर् उत्थाय विष्णोर् नाम-सहस्रकम् ॥१९७॥

तत्रैव श्री-कृष्णार्जुन-संवादे—

अधीतास् तेन वै वेदाः सुराः सर्व-समर्चिताः । नाम्नां सहस्रं यो’धीते मुक्तिस् तस्य करे स्थिता ॥१९८॥ कुर्वत् पाप-सहस्राणि भुञ्जानो’पि यतस् ततः । पठेन् नाम-सहस्रस् तु दुर्गन्धं न स पश्यति ॥१९९॥ मुक्त्वा नाम-सहस्रस् तु नान्यो धर्मो’स्ति कश्चन । कलौ प्राप्ते गुडाकेश सत्यम् एतन् मयेरितम् ॥२००॥ यज्ञैर् दानैस् तपभिश् च स्तवैः प्रीतिर् न मे’र्जुन । सन्तुष्टिस् तु न चान्येन विना नाम-सहस्रकम् ॥२०१॥ स्तवं नाम-सहस्राख्यं ये न जानन्ति वै कलौ । भ्रमन्ति ते नर्¸अ लोके सर्व-धर्म-बहिष्कृताः ॥२०२॥ स्तवं नाम-सहस्राख्यं लिखितं यस्य वेश्मनि । पूज्यते मम सान्निध्ये पूजां गृह्णामि तस्य वै ॥२०३॥

सनातनः- मानवः प्राप्नोति, अन्ते मानवाः प्राप्नुवन्तीत्यर्थः । स्तवं लिखितमिति नपुंसकत्वम् आर्षम् ॥१९२-२०३॥

यस्मिन् नाम-सहस्रं मे गृहे तिष्ठति सर्वदा । लिखितं पाण्डव-श्रेष्ठ तत्र नो विशते कलिः ॥२०४॥
तस्मात् त्वम् अपि कौन्तेय मद्-भक्तो मन्-मना भव । पठन् नाम-सहस्रं मे सर्वान् कामान् अवाप्स्यसि ॥२०५॥ अहम् आराधितः पूर्वं ब्रह्मणा लोक-कर्तृणा । ततो नाम-सहस्रं मे प्राप्तं लोक-हितं परम् ॥२०६॥ नारदेन ततः पूर्वं प्राप्तं च परमेष्ठिनः । नारदेन ततः प्रोक्त-वृषीणाम् ऊर्ध्व-रेतसाम् ॥२०७॥ ऋषिभिस् तु महाबाहो देवलोके प्रकाशितम् । मर्त्य-लोके मनुष्याणां व्यासेन परिभाषितम् ॥२०८॥ तपसोग्रेण महता शङ्करेण महात्मना । मत्-प्रसादाद् अनुप्राप्तं गुह्यानाम् उत्तमोत्तमम् ॥२०९॥ दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् । विश्रुतं त्रिषु लोकेषु मया ते परिकीर्तितम् ॥२१०॥

सनातनः- लघु-सहस्र-नाम-माहात्म्यम् उक्त्वा बृहत्-सहस्र-नाम-माहात्म्यं च वक्ष्यन्नादौ तत्-प्रवृत्ति-क्रमम् आह—तपसेति द्वाभ्याम् ॥२०९-२१०॥

अशेषार्तिहरं पार्थ मम नाम-सहस्रकम् । सद्यः प्रीति-करं पुण्यं सुराणाम् अमृतं यथा ॥२११॥ अष्टादश-पुराणानां सारेम् एतद् धनञ्जय । मयोद्धृत्य समाख्यातं तव नाम-सहस्रकम् ॥२१२॥ सहस्र-नाम-माहात्म्यं देवो जानाति शङ्करः । सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि । अपराध-सहस्रेण न स लिप्येत् कदाचन ॥२१३॥

अथ श्री-भगवद्-गीता-माहात्म्यम्

स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ –

गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्म-नाभस्य मुख-पद्माद् विनिःसृता ॥२१४॥

सनातनः- सुगीता कर्तव्या, शोभन-प्रकारेण गेयेत्यर्थः ॥२१४॥

सर्व-शास्त्र-मयी गीता सर्व-देव-मयी यतः । सर्व-धर्म-मयी यस्मात् तस्माद् एतां समभ्यसेत् ॥२१५॥ शालग्राम-शिलाग्रे तु गीताध्यायं पठेत् तु यः । मन्वन्तर-सहस्राणि वसते ब्रह्मणः पुरे ॥२१६॥ हत्वा हत्वा जगत् सर्वं मुषित्वा स-चराचरम् । पापैर् न लिप्यते चैव गीताध्यायी कथञ्चन ॥२१७॥ तेनेष्टं क्रतुभिः सर्वैर् दत्तं तेन गवायुतम् । गीताम् अभ्यस्यता नित्यं तेनाप्तं पदम् अव्ययम् ॥२१८॥

सनातनः- नित्यम् अभ्यस्यता येन स्थितम् इति शेषः, यद्वा, तेन हननादि-कर्त्रापि गीताम् अभ्यस्यता इष्टं दत्तं परमं पदञ्च प्राप्तम् इत्यर्थः ॥२१८॥

गीताध्यायं पठेद् यस् तु श्लोकं श्लोकार्धम् एव वा । भव-पाप-विनिर्मुक्तो याति विष्णोः परं पदम् ॥२१९॥

सनातनः- भवः संसार एव पापं, तेन विनिर्मुक्तः सन् ॥२१९॥

यो नित्यं विश्व-रूपाख्यम् अध्यायं पठति द्विजः । विभूतिं देव-देवस्य तस्य पुण्यं वदाम्य् अहम् ॥२२०॥

सनातनः- विभूतिं चाध्यायम् ॥२२०॥

वेदैर् अधीतैर् यत् पुण्यं सेतिहासैः पुरातनैः । श्लोकेनैकेन तत् पुण्यं लभते नात्र संशयः ॥२२१॥

सनातनः- पुरातनैश्च पुराणैः ॥२२१॥

आब्रह्म-स्तम्ब-पर्यन्तं जगत्-तृप्तिं करोति सः । विश्व-रूपं सदाध्यायं विभूतिं च पठेत् तु यः ॥२२२॥ अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥२२३॥

सनातनः- द्वात्रिंशद् अपराधान् वाराहोक्तान् अग्रे लेख्यान् ॥२२३॥

लिखित्वा वैष्णवानां च गीता-शास्त्रं प्रयच्छति । दिने दिने च यजते हरिं चात्र न संशयः ॥२२४॥

सनातनः- वैष्णवानां वैष्णवेभ्यः ॥२२४॥

चतुर्णाम् एव वेदानां सारम् उद्धृत्य विष्णुना । त्रैलोक्यस्योपकाराय गीता-शास्त्रं प्रकाशितम् ॥२२५॥ भारतामृत-सर्वस्वं विष्णोर् वक्त्राद् विनिःसृतम् । गीता-गङ्गोदकं पीत्वा पुनर् जन्म न विद्यते ॥२२६॥

सनातनः- गीतैव गङ्गोदकं, पापादि-हारित्वात् भुक्ति-मुक्ति-प्रदत्वाच्च, तत् पीत्वा स्थितस्य प्रसिद्ध-गङ्गोदकाद् विशेषमाह—भारतम् एवामृतं बहिरन्तःशोधनं, वेदार्णवसारत्वात्, तस्यापि सर्वस्वं सारभूतम् इत्यर्थः; यद्वा, सर्वार्थ-प्रकाशकं यद्-भारताख्यं शास्त्रं, तस्यामृतं मधुर-रस-भागस् तस्य सर्वस्वम्; तत् तु नेदृशं, बाह्य-तीर्थ-मात्रत्वात् । किञ्च, विष्णोर् मुखात् विशेषेण प्रीत्यादि-मयेन निःसृतं, तत् तु पादाङ्गुठ-शौचाद् एवेति दिक् ॥२२६॥

धर्मं चार्थं च कामं च मोक्षं चापीच्छता सदा । श्रोतव्या पठनीया च गीता कृष्ण-मुखोद्गता ॥२२७॥
यो नरः पठते नित्यं गीता-शास्त्रं दिने दिने । विमुक्तः सर्व-पापेभ्यो याति विष्णोः परं पदम् ॥२२८॥

अथ पुराण-पाठादि-माहात्म्यम्

पाद्मे देवदूत-विकुण्डल-संवादे [Pअद्मP ३.३१.९४-९६] –

विचारयन्ति ये शास्त्रं वेदाभ्यास-रताश् च ये । पुराणं संहितां ये च श्रावयन्ति पठन्ति च ॥२२९॥ व्याकुर्वन्ति स्मृतिं ये च ये धर्म-प्रतिबोधकाः । वेदान्तेषु निषण्णा ये तैर् इयं जगती धृता ॥२३०॥ तत्-तद्-अभ्यास-माहात्म्यैः सर्वे ते हत-किल्बिषाः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥२३१॥

तत्रैव श्री-शिवोमा-संवादे –

अन्तं गतो’पि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । पुंसो’श्रुत-पुराणस्य न सम्यग् गति-दर्शनम् ॥२३२॥

सनातनः- व्याकुर्वन्ति, व्याख्यानं कुर्वन्ति; निषण्णा निष्णाताः । गतिः तत्त्वं, तस्य दर्शनं विज्ञानं सम्यक् न भवति ॥२३०-२३२॥

वेदार्थाद् अधिकं मन्ये पुराणार्थं च भामिनि । पुराणम् अन्यथा कृत्वा तिर्यग्-योनिम् अवाप्नुयात् ॥२३३॥

बृहन्-नारदीये च [णार्P १.१.५७, ?, ६०-६१] –

पुराणेष्व् अर्थ-वादत्वं ये वदन्ति नराधमाः । तैर् अर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥२३४॥

सनातनः- तद्वदेव अर्थवाद-रूपाणि विफलान्येव भवन्तीत्यर्थः ॥२३४॥

पुराणेषु द्विज-श्रेष्ठाः सर्व-धर्म-प्रवक्तृषु । प्रवदन्त्य् अर्थ-वादत्वं ये ते नरक-भाजनाः ॥२३५॥

सनातनः- हे द्विज-श्रेष्ठाः ॥२३५॥

अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः । श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः ॥२३६॥

सनातनः- हे द्विजोत्तमाः ॥२३६॥

पुरार्जितानि पापानि नशम् आयान्ति तस्य वै । पुराण-श्रवणे बुद्धिस् तस्यैव भवति ध्रुवम् ॥२३७॥

किं च –

पुराणे वर्तमाने’पि पाप-पाशेन यन्त्रितः । अनादृत्यान्य-गाथासु सक्त-बुद्धिः प्रवर्तते ॥२३८॥

सनातनः- पाप-पाशेन यन्त्रितो वशीकृतो जनः पुराणम् अनादृत्य अन्यगाथासु प्राकृत-गीतवदज्ञजन-श्रवणमात्र-प्रियासु अपौराणिकीषु असत्-कथासु आसक्त-बुद्धिः सन् तास्वेव प्रवर्तते इत्यर्थः ॥२३८॥

**अथ वस्त्रार्पणम्

स्नान-मुद्रां प्रदर्श्याथ शुद्ध-सूक्ष्माङ्ग-वाससा ।
शनैः सम्मार्ज्य गात्राणि दिव्ये वस्त्रे समर्पयेत् ॥२३९॥
सनातनः-** शुद्धेन सु-सूक्ष्मेण च अङ्ग-वाससा श्रीमद्-अङ्ग-सम्मार्जन-योग्य-वस्त्रेण; वस्त्रे परिधानोत्तरीयवाससी ॥२३९॥

मध्य-देशीय-नेपथ्याद्य्-अनुसारेण भक्तितः ।
के’प्य् अत्र कञ्चुकोस्णीषाद्य्-अम्बराण्य् अर्पयन्ति च ॥२४०॥

सनातनः- अत्र स्नपनानन्तर-वस्त्रार्पण-काले; अप्यर्थे चकारः, कञ्चुकाद्य्-अम्बराण्यपि आभरणान्यपि ॥२४०॥

तथा च मत्स्ये—

तत्-तद्-देशीय-भूषाढ्यां तत्-तन्-मूर्तिं च कारयेत् ॥२४१॥

एकादश-स्कन्धे [Bह्P ११.२७.३२] –

अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥२४२॥

सनातनः- यथोचितं यद्-देशे यादृक् वेश-भूषणं, तत्र तेनैवेत्यर्थः ॥२४२॥

भविष्ये च—

वासोभिः पूजयेद् विष्णुं य्न्य् एवात्म-प्रियाणि तु । तथान्यैश् च शुभिअर् दिव्यैर् अर्चयेच् च दुकूलैः ॥२४३॥ वासांसि च विचित्राणि सारवन्ति शुचीनि च । धूपितानि हरेर् दद्यात् विकेशानि नवानि च ॥२४४॥।

सनातनः- सारवन्ति चिर-स्थायीनि, परमोत्तमानि वा कौशेयादीनि; विकेशानि केश-रहितानि ॥२४४॥

भूषयेद् बहुभिर् वस्त्रैर् विचित्रैः कञ्चुकादिभिः । भोगानन्तरम् एवेति बहूनां सम्मतं सताम् ॥२४५॥

सनातनः- परमतं लिखित्वा निज-मतं लिखति—भूषयेद् इति । ब

हूनां सतामिति भोजन-समये वस्त्र-द्वयस्यैव स्मृति-शास्त्रेण विहितत्वात् तच्चाग्रे व्यक्तं भावि ॥२४५॥

अथ श्रीमद्-अङ्ग-मार्जन-माहात्म्यम्

द्वारका-माहात्म्ये—

कृष्णं स्नानार्द्र-गात्रं तु वस्त्रेण परिमार्जति । तस्य लक्षार्जितस्यापि भवेत् पापस्य मार्जनम् ॥२४६॥

अथ वस्त्रार्पण-माहात्म्यम्

नारसिंहे—

वस्त्राभ्याम् अच्युतं भक्त्या परिधाप्य विचित्रितम् । सोम-लोके वसित्वा तु विष्णु-लोके महीयते ॥२४७॥

स्कान्दे श्री-शिवोमा-संवादे—

वस्त्राणि सुपवित्राणि सारवन्ति मृदूनि च । रूपवन्ति हरेर् दत्त्वा सदशानि नवानि च ॥२४८॥ यावद् वस्त्रस्य तन्तुना परिमाणं भवत्य् अथ । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥२४९॥

विष्णु-धर्मोत्तरे [३.३४१.१७६-१७८]—

राङ्कवस्य प्रदानेन सर्वान् कानाम् अवाप्नुयात् ।* कार्पासिकं वस्त्र-युगं यः प्रदद्याज् जनार्दने ॥२५०॥

सनातनः- सदशानि दशासहितानि; राङ्कवं मृग-रोमजं वस्त्रं तस्य ॥२४८-२५०॥

यावन्ति तस्य तन्तूनि हस्त-मात्र-मितानि तु । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥२५१॥

सनातनः- तन्तूनीति नपुंसकत्वम् आर्षम्, यावद् वस्त्रम् इतास्तन्तवो भवन्तीत्यर्थः ॥२५१॥

महार्घता यथा तस्य साधु-देशोद्भवो यथा । सूक्ष्मता च यथा विप्रास् तथा प्रोक्तं फलं महत् ॥२५२॥

किं च तत्रैवान्यत्र [३.३४१.१७९-१८५]—

शुक्ल-वस्त्र-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । महा-रजन-रक्तेन सौभाग्यं महद् अश्नुते ॥२५३॥ तथा कुङ्कुम-रक्तेन स्त्रीणां वल्लभतां व्रजेत् । नीली-रक्तं विना रक्तं शेष-रङ्गैर् द्विजोत्तमाः । दत्त्वा भवति धर्मात्मा सर्व-व्याधि-विवर्जितः ॥२५४॥

सनातनः- महारजनं कुसुम्भ-पुष्पं, तेन रक्तेन रञ्जितेन वाससा दत्तेनेति शेषः । नील्या रक्तं वस्त्रं विना शेषः नीलीव्यतिरिक्तै रङ्गैः रक्तं वस्त्रं दत्त्वा, नीलीरक्तं च पट्ट-वस्त्रातिरिक्तं ज्ञेयम् । नीलीपट्टे न दुष्यतीत्यादि-वचनात् ॥२५३-२५४॥

कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च । यः प्रयच्छति देवाय सो’श्वमेध-फलं लभेत् ॥२५५॥ राङ्कवा मृग-लोम्याश् च कदल्याश् च तथा शुभा । यो दद्याद् देव-देवाय सो’श्वमेध-फलं लभेत् ॥२५६॥ नाना-भक्ति-विचित्राणि चीरजानि नवानि च । दत्त्वा वासांसि शुभ्राणि राजसूय-फलं लभेत् ॥२५७॥

सनातनः- कौशेयानि कोशकार-कृमि-कृत-तन्तुमयानि; नाना-भक्ति-विचित्राणि भागशो विचित्र-सूच्यादि-शिल्प-निम्मितानि, चीरजानि वल्कलोद्भवानि ॥२५५-२५७॥

द्वारका-माहात्म्ये च—

नाना-देश-समुद्भूतैः सुवस्त्रैश् च सुकोमलैः । धूपयित्वा सुभक्त्या च प्रधापयति माधवम् । मन्वन्तराणि वसते तन्तु-सङ्ख्यं हरेर् गृहे ॥२५८॥

**अथ वस्त्रार्पणे निषिद्धम् **

विष्णु-धर्मोत्तरे—

नीली-रक्तं तथा जीर्णं वस्त्रम् अन्य-धृतं तथा । देव-देवाय यो दद्यात् स तु पापैर् हि युज्यते ॥२५९॥

अत्रापवादः

तत्रैव—

आविके पट्ट-वस्त्रे च नीली-रागो न दुष्यति ॥२६०॥

**अथ यज्ञोपवीतम्

वस्त्रस्य्âर्पण-मुद्रां च प्रदर्श्य परिधाप्य तत् ।
उपवीतं समार्प्याथ तन्-मुद्रां च प्रदर्शयेत् ॥२६१॥
सनातनः-** तद्-वस्त्रं परिधाप्य तस्मिन् उपवीतार्पणे या मुद्रा ताम् ॥२६१॥

**अथोपवीतार्पण-माहात्म्यम्

त्रिवृत् शुक्लं च पीतं च पट्ट-सूत्रादि-निर्मितम् ।
यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् ॥२६२॥
सनातनः-** त्रिवृत् नव-गुणम् इत्यर्थः, वार्थे चकारौ, आदि=शब्देन कार्पासादि, तथा च छन्दोग-परिशिष्टे—

कार्पास-क्षौम-गोबाल-तृणवल्क-तृणादिकम् । सदा सम्भवतो धार्यम् उपवीतं द्विजातिभिः ॥ इति ।

वेदान्तगः वेद-पारङ्गतो वेदान्तार्थाभिज्ञो वा ॥२६२॥

नन्दि-पुराणे—

यज्ञोपवीत-दानेन सुरेभ्यो ब्राह्मणाय वा । भवेद् विद्वांश् चतुर्वेदी शुद्ध-धीर् नात्र संशयः ॥२६३॥

**अथ पाद्य-तिलकाचमनानि

अथ पाद्यं निवेद्यादाव् ऊर्ध्व-पुण्ड्रं मनोहरम् ।
निर्माय भाले कृष्णस्य दद्याद् आचमनं ततः ॥२६४॥
सनातनः-** अथ यज्ञोपवीतार्पणानन्तरम्, अत्र पाद्य-निवेदनं स्नानानन्तरम् अवश्यं पाद-प्रक्षालनस्य तिलकाचमनयोर् अप्य् अपेक्ष्यत्वात्; अतस् त्रयम् इदम् अत्रैकत्रैव लिखितम् । मनोहरम् इति—श्यामसुन्दरे श्री-ललाटे सङ्घृष्ट-स-कुङ्कुम-चन्दनेन मध्य-च्छिद्रतया विरचनात् ॥२६४॥

**अथ भूषणम्

ततो देवाय दिव्यानि भूषणानि निवेद्य च ।
परिधाप्य यथा-युक्तं तन्-मुद्रां च प्रदर्शयेत् ॥२६५॥
सनातनः-** यथायुक्तम् इति—यस्मिन्न् अङ्गे यथा यत् परिधापयितुम् उपयुज्यते, तत्र तथा तत् परिधाप्येत्यर्थः ॥२६५॥

**अथ भूषणार्पण-माहात्म्यम्

स्कान्दे शिवोमा-संवादे—**

मणि-मौक्तिक-संयुक्तं दत्त्वाभरणम् उत्तमम् । स्व-शक्त्या भूषणं दत्त्वा अग्निष्टोम-फलं लभेत् ॥२६६॥
सनातनः-
स्वशक्त्या निज-सामर्थ्येन भूषणम् अन्यद् अपि दत्त्वा; यद्वा, निज-शक्त्य्-अनुसारेण मण्याद्य्-आभरण-व्यतिरिक्तम् अपि भूषणं दत्त्वा ॥२६६॥

किं च–

गुञ्जा-मात्रं सुवर्णस्य यो दद्याद् विष्णु-मूर्धनि । इन्द्रस्य भवने तिष्ठेद् यावद् आहूत-सम्प्लवम् ॥२६७॥ तस्माद् आभरणं देवि दातव्यं विष्णवे सदा । नारायणो भवेत् प्रीतो भक्त्या परमया मुभे ॥२६८॥

सनातनः- आभरण-दानात्मिकया परम-भक्त्या प्रीतो भवेद् इति मुख्यं फलम् । अन्यत् तु सर्वं स-कामस्य नान्तरीयकं ज्ञेयम्; एवम् अन्यत्राप्य् ऊह्यम् ।

अनन्तो भगवान् विष्णुस् तस्य काम-विवर्जितैः । यदेव दीयते किञ्चित् तदेवाक्षयम् उच्यते ॥

इत्यादि-वचनात् तच्-चाग्रे लेख्यमेव ॥२६७-२६८॥

नन्दि-पुराणे—

अलङ्कारं तु यो दद्याद् विप्रायाथ सुराय वा । स गच्छेद् वारुणं लोकं नानाभरण-भूषितः । जातः पृथिव्यां काऌएन भवेद् द्वीप-पतिर् नृपः ॥२६९॥

विष्णु-धर्मोत्तरे—

कर्णाभरण-दानेन भवेच् छ्रुति-धरो नरः । अश्वमेधम् अवाप्नोति सौभाग्यं चापि विन्दति ॥२७०॥ कर्णपूर-प्रदानेन श्रुतिं सर्वत्र विन्दति ॥२७१॥

सनातनः- कर्णाभरण-कर्णपूरयोर् अवान्तर-भेदः; श्रुतिं सर्वत्र विन्दति— दूरतोऽपि सर्वं शृणोतीत्यर्थः ॥२७०-२७१॥

मूर्धाभरण-दानेन भूर् धन्यो भूतले भवेत् । चतुः-समुद्र-वलयां प्रशास्ति च वसुन्धराम् ॥२७२॥

तत्रैव तृतीय-खण्डे—

विभूषण-प्रदानेन मूर्धन्यो भूतले भवेत् । रम्याणि रत्न-चित्राणि सौर्वर्णानि द्विजोत्तमाः ॥२७३॥ दत्त्वाभरण-जातानि राजसूय-फलं लभेत् । पादाङ्गुलीय-दानेन गुह्यकाधिपतिर् भवेत् ॥२७४॥ पादाभरण-दानेन स्थानं सर्वत्र विन्दति ॥२७५॥

सनातनः- पादाभरणं नूपुरम् ॥२७५॥

श्रोणी-सूत्र-प्रदानेन महीं सागर-मेखलाम् । प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥२७६॥

सनातनः- श्रोणी-सूत्रं काञ्ची ॥२७६॥

सौभाग्यं महद् आप्नोति किङ्किणीं प्रददद् धरेः । हस्ताङ्गुलीय-दानेन परं सौभाग्यम् आप्नुयात् ॥२७७॥ तथैवाङ्गद-दानेन राजा भवति भूतले । केयूर-दानाद् भवति शतुर्-पक्ष-क्षयङ्करः ॥२७८॥ ग्रैवेयकाणि दत्त्वा च सर्व-शास्त्रार्थविद् भवेत् । नार्यश् च वशगास् तस्य भवति द्विज-पुङ्गवाः ॥२७९॥ दत्त्वा प्रतिसरान् मुख्यान् न भूतैर् अभिभूयते ॥२८०॥

सनातनः- प्रतिसरान् हस्त-सूत्राणि ॥२८०॥

किं च तत्रैव—

कृत्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः । प्रतिरूप-कृतं दत्त्वा क्षिप्रं पुष्ट्या प्रयुज्यते ॥२८१॥

सनातनः- कृत्रिमं सुवर्णर-सोपस्कृतं, ताम्रादि-निर्मितं तदेव प्रतिरूपकृतम् ॥२८१॥

पाद्मे—

शङ्ख-चक्र-गदादीनि पादाद्य्-अवयवेषु च । सौवर्णाभरणं कृत्वा विष्णु-लोके महीयते ॥२८२॥

सनातनः- पादाद्य्-अवयवेषु सौवर्णाभरणं च कृत्वा दत्त्वेत्यर्थः । दत्त्वेत्येव वा पाठः ॥२८२॥

नारसिंहे—

सुवर्णाभरणैर् दिव्यैर् हार-केयूर-कुण्डलैः । मुकुटैः कटकाद्यैश् च यो विष्णुं पूजयेन् नरः ॥२८३॥

सनातनः- कटकं वलयम् ॥२८३॥

सर्व-पाप-विनिर्मुक्तः सर्व-भूषण-भूषितः । इन्द्र-लोके वसेद् धीमान् यावद् इन्द्रश् चतुर्दश ॥२८४॥

गरुड-पुराणे—

यस्यार्चा तिष्ठते विष्णोर् हेम-भूषण-भूषिता । रत्नैर् मुक्ताविशेषेण अहन्य् अहनि वासव ॥२८५॥

सनातनः- विष्णोर् अर्चा प्रतिमा यस्य गृहे तिष्ठति ॥२८५॥

कल्प-कोटि-सहस्राणि तस्य वै भुवने हरेः । वासो भवति देवेन्द्र कथितं ब्रह्मणा मम ॥२८६॥ यः पश्यति नरः कृष्णं हेम-भूषण-भूषितम् । सकृद् भक्त्या कलौ शक्र पुनात्य् आसप्तमं कुलम् ॥२८७॥ इति ।

बहुलं भूषणं भोगात् पश्चाद् एवानुलेपनम् ।
पुष्पं चेच्छन्ति सन्तो’नुलेपनार्चानुभूषणम् ॥२८८॥
सम्प्रार्थ्याथ प्रभुं प्राग्वत् निवेद्य शुचि-पादुके ।
वाद्य-गीतातपत्रान्यैः पूजा-स्थानं पुनर् नयेत् ॥२८९॥
सनातनः-
एवम् अधुनाखिल-भूषणार्पणमेव लिखितम्; तत्र शिष्टाचारापेक्षया लिखति—बहुलम् इति । भगवतो भोजनानन्तरमेव भूषणं बहुलं सन्त इच्छन्ति समर्पयितुं मन्यन्ते । अतोऽधुना स्वल्पम् एवार्प्यम् इति भावः । तथा अनुलेपनं पुष्पं च तदानीमेव बहुलम् इच्छन्तीति प्रसङ्गाद् अत्र लिखितम्; अत एव ज्ञेयं श्री-भगवतः स्नानानन्तरं भोजनात् प्रथममसङ्कोचेन सुख-भोजनार्थम् अवश्यापेक्ष्यं मकर-कुण्डल-मौक्तिक-हाराङ्गदाङ्गुलीयकादि-भूषणं किञ्चिन्, तथा श्रीवक्षो-बाहु-ग्रीवादि-तिलकमात्रोपयोगि-किञ्चिद्-अनुलेपनं, तथा वनमालावतंस-मात्रं किञ्चित् पुष्पं च निज-रुच्यार्प्यं, भोजनान्ते च यथा-शोभं तत्-तत् सर्वम् एवेति । किञ्च, तत्र चानुलेपनाद् अनु पश्चादेव भूषणम् इच्छन्ति, भूषण-रहितेषु सत्सु श्रीमद्-अङ्गषु सर्वेष्व् एव सम्यग् अनुलेपन-सिद्धेः ॥२८८-२८९॥

प्राग्वद् दत्त्वासनादीनि गन्धं तन्-मुद्रयार्पयेत् ।
शङ्खे निधाय तुलसी-दलेनैवाथ चन्दनम् ॥२९०॥
सनातनः-
अथानन्तरं चन्दनं चार्पयेत—

तच्च शङ्खे निधायैव तुलसी-दलेनैव च । विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् ॥ इति ।

तुलसी-दल-लग्नेन चन्दनेन जनार्दनम्, इत्यादि-वचनेन फल-विशेषोक्तेः; तच्चाग्रे लेख्यमेव ॥२९०॥

अथ गन्धः

आगमे—

चन्दनागुरु-कर्पूर-पङ्कं गन्धम् इहोच्यते ॥२९१॥

सनातनः- गन्धम् इति नपुंसकत्वम् आर्षम् ॥२९१॥

गारुडे—

कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य तु । कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुःसमम् ॥२९२॥ कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम । सर्वं गन्धम् इति प्रोक्तं समस्त-सुर-वल्लभम् ॥२९३॥

सनातनः- शशिनः कर्पूरस्यैको भागः, दर्पो मृग-मदः ॥२९२-२९३॥

वाराहे—

कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च । रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर् विलेपनं दद्यात् शुभं चारु विचक्षणः ॥२९४॥

सनातनः- शुभं सुखकरं, चारु सुन्दरं; पाठान्तरं स्पष्टम् ॥२९४॥

विष्णु-धर्मोत्तराग्नि-पुराणयोः—

सुगन्धैश् च मुरामांसी-कर्पूरागुरु-चन्दनैः । तथान्यैश् च शुभैर् द्रव्यैर् अर्चयेज् जगती-पतिम् ॥२९५॥

वशिष्ठ-संहितायाम्—

कर्पूरागुरु-मिश्रेण चन्दनेनानुलेपयेत् । मृग-दर्पं विशेषेण अभीष्टं चक्र-पाणिनः ॥२९६॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगुरुर् वरः । कृष्णागुरुस् ततः श्रेष्ठः कुङ्कुमं तु ततो’धिकम् ॥२९७॥

विष्णु-धर्मोत्तरे—

न दातव्यं द्विज-श्रेष्ठ अतो’न्यद् अनुलेपनम् । अनुलेपन-मुख्यं तु चन्दनं परिकीर्तितम् ॥२९८॥

नारदीये—

यथा विष्णोः सदाभीष्टं नैवेद्यं शालि-सम्भवम् । शुकेनोक्तं पुराणे च तथा तुलसि-चन्दनम् ॥२९९॥

अगस्त्य-संहितायां च—

सङ्घृष्य तुलसी-काष्ठं यो दद्याद् राम-मूर्धनि । कर्पूरागुरु-कस्तूरी-कुङ्कुमं न च तत्-समम् ॥३००॥

अथानुलेपन-माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये—

विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं करोति शत्वार्षिकीम् ॥३०१॥

गारुडे—

तुलसी-दल-लग्नेन चन्दनेन जनार्दनम् । विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम् ॥३०२॥

सनातनः- वाञ्छितं चिन्तितम्; अकार-प्रश्लेषेण चिन्तितातीतम् अपीति वा ॥३०२॥

नारसिंहे—

कुङ्कुमागुरु-श्रीखण्ड-कर्दमैर् अच्युताकृतिम् । विलिप्य भक्त्या राजेन्द्र कल्प-कोटिं वसेद् दिवि ॥३०३॥

विष्णु-धर्मोत्तराग्नि-पुराणयोः—

चन्दनागुरु-कर्पूर-कुङ्कुमोशीर-पद्मकैः । अनुलिप्तो हरिर् भक्त्या वरान् भोगान् प्रयच्छति ॥३०४॥ कालेयकं तुरुष्कं च रक्त-चन्दनम् उत्तमम् ॥३०५॥

सनातनः- कालेयकं कालागुरुः, तुरुष्कं शिरकम् ॥३०५॥

नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम ॥३०६॥

सनातनः- पुरुषोत्तमे दत्तानि सन्ति नृणां पुण्य-रूपाणि भवन्ति ॥३०६॥

विष्णु-धर्मोत्तरे—

चन्दनेनानुलेप्यैनं चन्द्र-लोक अवाप्नुयात् । शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥३०७॥

सनातनः- एनं श्री-कृष्णम् ॥३०७॥

कुङ्कुमेनानुलेप्यैनं सूर्य-लोके महीयते । सौभाग्यम् उत्तमं लोके तथा प्राप्नोति मानवः ॥३०८॥ कर्पूरेणानुल्पियैनं वारुणं लोकम् आप्नुयात् । शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥३०९॥ दत्त्वा मृगमदं मुख्यं यशसा च विराजते । दत्त्वा जात-फल-क्षोदं क्रिया-साफल्यम् अश्नुते ॥३१०॥ रम्येणागुरु-सारेण अनुलिप्य जनार्दनम् । सौभाग्यम् अतुलं लोके बलं प्राप्नोति चोत्तमम् ॥३११॥ तथा बकुल-निर्यासैर् अग्निष्टोम-फलं लभेत् । बकुलागुरु-मिश्रेण चन्दनेन सुगन्धिना । समालिप्य जगन्नाथं पुण्डरीक-फलं लभेत् ॥३१२॥

सनातनः- पूण्डरीकं यज्ञ-विशेषः ॥३१२॥

एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् । अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्य् असंशयम् ॥३१३॥ यो’नुलिम्पेत देवेशं कीर्तितैर् अनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ॥३१४॥ तावद् अब्दानि लोकेषु कामचारी भवत्य् असौ । केश-सौगन्ध्य-जननं कृत्वा मृगमदं नरः ॥३१५॥

सनातनः- तत्रानुलेपनेषु पार्थिवाश् चन्दनादि-सम्बन्धिनः, आद्य-शब्देन जलादि-सम्बन्धिनश् च, नपुंसकत्वम् आर्षम्; लोकेषु चतुर्दश-भुवनेषु ॥३१४-३१५॥

सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥३१६॥ यः प्रयच्छति गन्धानि गन्ध-युक्ती-कृतानि च । गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम् ॥३१७॥

सनातनः- गन्ध-युक्ती-कृतानि सुगन्धि-द्रव्य-योगेन शोधितानि ॥३१७॥

अथ श्री-तुलसी-काष्ठ-चन्दन-माहात्म्यम्

गारुडे श्री-नारद-धुन्धुमार-नृप-संवादे—

यो ददाति हरेर् नित्यं तुलसी-काष्ठ-चन्दनम् । युगानि वसते स्वर्गे ह्य् अनन्तानि नरोत्तम ॥३१८॥ महा-विष्णौ कलौ भक्त्या दत्त्वा तुलसी-चन्दनम् । यो’र्चयेन् मालती-पुष्पैर् न भूय-स्तनपो भवेत् ॥३१९॥

सनातनः- तुलसि-चन्दनं तुलसी-काष्ठ-चन्दनम्; ह्रस्वत्वम् आर्षम्; स्तनपः संसारीत्यर्थः ॥३१८-३१९॥

तुलसी-काष्ठ-सम्भूतं चन्दनम् यच्छतो हरेः । निर्दहेत् पातकं सर्वं पूर्व-जन्म-शतैः कृतम् ॥३२०॥

सनातनः- यच्छतो जनस्य पातकं कर्म-भूतं चन्दनमेव कर्तृ निःशेषेण दहेत ॥३२०॥

सर्वेषाम् अपि देवानां तुलसी-काष्ठ-चन्दनम् । पितॄणां च विशेषेण सदाभीष्टं हरेर् यथा ॥३२१॥ मृत्यु-काले तु सम्प्राप्ते तुलसी-काष्ठ-चन्दनम् । भवते यस्य देहे तु हरिर् भूत्वा हरिं व्रजेत् ॥३२२॥

सनातनः- अस्तु तावद् भगवद्-अर्पण-माहात्म्यम्, अन्त्य-दशायां तत्-स्पर्शेनापि कृतार्थता स्यात्, इत्याह—मृत्यु-काले त्विति । भवते भवति तिष्ठतीत्यर्थः । हरिर् भूत्वा सारूप्य-प्राप्त्या हरिर् इव भूत्वा इत्यर्थः ॥३२२॥

तावन् मलय-जं विष्णोर् भाति कृष्णागुरुर् नृप । यावन् न दृश्यते पुण्यं तुलसी-काष्ठ-चन्दनम् ॥३२३॥

सनातनः- अत्र हेतुत्वेन तस्य श्री-भगवत्-प्रियताम् आह—तावद् इति द्वाभ्याम् । भाति शोभते रोचते वा ॥३२३॥

तावत् कस्तूरिकामोदः कर्पूरस्य सुगन्धिना । यावन् न दीयते विष्णोस् तुलसी-काष्ठ-चन्दनम् ॥३२४॥ कलौ यच्छन्ति ये विष्णौ तुलसी-काष्ठ-चन्दनम् । धुन्धुमार न वै मर्त्याः पुनर् आयान्ति ते भुवि ॥३२५॥

सनातनः- विशेषतः कलि-काले तद्-अर्पण-माहात्म्यम् आह—कलाव् इति । भुवि न पुनरायान्ति, मुक्ता भवन्ति, किंवा श्री-वैकुण्ठलोक एव वसन्तीत्यर्थः । पूर्वं मालती-सहितस्य फलम् उक्तम्, अधुना केवलस्यैवेति भेदः ॥३२५॥

यो हि भागवतो भूत्वा कलौ तुलसी-चन्दनम् । नार्पयति सदा विष्णोर् न स भागवतो नरः ॥३२६॥

सनातनः- अतो वैष्णवैः कलाव् अवश्यम् एव तद्-अर्प्यम् इत्याह—यो हीति ॥३२६॥

प्रह्लाद-संहितायां—

न तेन सदृशो लोके वैष्णवो विद्यते भुवि । यः प्रयच्छति कृष्णाय तुलसी-काष्ठ-चन्दनम् ॥३२७॥

सनातनः- लोक इति सप्तम्य्-अन्त-पाठे भुवि लोके भूर्लोक इत्यर्थः; यद्वा, भुवि पृथिव्यां चतुर्दश-सङ्ख्य-लोकेऽपि नास्तीत्यर्थः ॥३२७॥

तुलसी-दारु-जातेन चन्दनेन कलौ नरः । विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः ॥३२८॥। तुलसी-काष्ठ-जातेन चन्दनेन विलेपनम् । यः कुर्याद् विष्णु-तोषाय कपिलागो-फलं लभेत् ॥३२९॥

सनातनः- विष्णोस् तोषार्थं तस्य स्वस्यापि वा विलेपनं यः कुर्यात्, स कपिलागो-शत-दान-फलं लभते ॥३२९॥

तुलसी-काष्ठ-सम्भूतं चन्दनं यस् तु सेवते । मृत्यु-काले विशेषेण कृत-पापो’पि मुच्यते ॥३३०॥

सनातनः- विशेषेण मृत्यु-काले यः सेवते; विशेषेणेति–तदानीं पापान्तरासम्भवादिना सद्योमुक्ति-सिद्धिः । यद्वा, मृत्यु-कालेऽपि सेवते, विशेषेणेत्यस्य परेणान्वयः ॥३३०॥

यो ददाति पितॄणां तु तुलसी-काष्ठ-चन्दनम् । तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम् ॥३३१॥

सनातनः- किञ्च, य इति—श्राद्धे यो ददाति ॥३३१॥

विष्णु-धर्मोत्तरे च—

तुलसी-चन्दनाक्ताङ्गः कुरुते कृष्ण-पूजनम् । पूजनेन दिनैकेन लभते शत-वार्षिकीम् ॥३३२॥ विलेपनार्थं कृष्णस्य तुलसी-काष्ठ-चन्दनम् । मन्दिरे वसते यस्य तस्य पुण्य-फलं शृणु ॥३३३॥

सनातनः- कदम्बजं चन्दनम् ॥३३३॥

तिल-प्रस्थाष्टकं दत्त्वा यत् पुण्यं चोत्तरायणे । तत् तुल्यं जायते पुण्यं प्रसादाच् चक्र-पाणिनः ॥३३४॥ इति ।

देयं मलयजाभावे शीतलत्वात् कदम्बजम् ।
यथा किञ्चित् सुगन्धित्वाच् चन्दनं देव-दारुजम् ॥३३५॥

गारुडे—

हरेर् मलयजं श्रेष्ठम् अभावे देवदारुजम् ॥३३६॥

अथानुलेपे निषिद्धानि

विष्णु-धर्मोत्तरे—

दारिद्र्यं पद्मकं कुर्याद् अस्वास्थ्यं रक्त-चन्दनम् । उशीरं चित्त-विभ्रंशम् अन्ये कुर्युर् उपद्रवम् ॥३३७॥ इति ।

सनातनः- अन्ये देवदार्व्-आदयः उग्र-गन्धयः विहितेभ्योऽपरे वा ॥३३७॥

पद्मकादि न दातव्यम् ऐहिकं हीच्छता सुखम् ।
मुख्यालाभे तु तत् सर्वं दातव्यं भगवत्-परैः ॥३३८॥

सनातनः- पूर्वं चन्दनागुरु-कर्पूर-कुङ्कुमोशीर-पद्मकैर् इत्य् उशीर-पद्मकार्पणं विहितम्, अधुना दारिद्र्यं पद्मकं कुर्याद् इति निषिद्धम् इत्य् एवं विरोधे लिखति—पद्मकेति । पद्मकादि न दातव्यम् इति यत् एवार्थो हि-शब्दः, तदैहिक सुखम् इच्छतैव न दातव्यम् इत्यर्थः, भगवत्-परैस् तु दातव्यमेव; किन्तु मुख्यानां चन्दनादी-नाम-लाभे सति; यथा पुष्पाण्य्-अधिकृत्योक्तं पाद्मे—विहित-प्रतिषिद्धैस् तु विहितालाभतोऽर्चयेत् इति, तच्चाग्रे व्यक्तं भावि । एवम् अधिकारि-भेदादिना न विरोध इति भावः ॥३३८॥

ततो भगवतः कुर्याद् अनुलेपाद् अनन्तरम् ।
विद्वान् विचित्रैर् व्यजनैश् चामरैर् अपि वीजनम् ॥३३९॥
सनातनः-
विद्वान् इति—उष्ण-काले कुर्यात्, शीतल-काले च नैवेति भावः । तच्चाग्रे लेख्यम् एव ॥३३९॥

**वीजन-माहात्म्यं च **

विष्णु-धर्मोत्तरे—

अनुलिप्य जगन्नाथं ताल-वृन्तेन वीजयेत् । वायु-लोकम् अवाप्नोति पुरुषस् तेन कर्मणा ॥३४०॥ चामरैर् वीजयेद् यस् तु देवदेवं जनार्दनम् । तिल-प्रस्थ-प्रदानस्य फलम् आप्नोत्य् असंशयम् ॥३४१॥ व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन । देवदेवस्य राजेन्द्र कुरुते ताप-वारणम् ॥३४२॥ तत्-कुले यम-लोके तु शमते नारको दरः । वायु-लोकान् महीपाल न च्युतिर् विद्यते पुनः ॥३४३॥

सनातनः- वस्त्रेण यद्-व्यजनं, तेन वस्त्र-निर्मित-व्यजनेनेत्यर्थः । यद्वा, अथ शब्दो विकल्पे, व्यजनेन ताल-वृन्तादिना वस्त्रेण वा व्यजन-रूपेणैव यो मातरिश्वा वातस् तेन तापस्य उष्णताया वारणं यः कुर्यात्; तापस् तु प्रायो घर्म-कालेऽनुलेपनस्य विशेषतोऽर्पणात्; ततश्च प्रस्वेदोद्भवात् तद्-वारणं युक्तम् एव । यम-लोके यो नारकः, नरक-सम्बन्धी दरो भयं शमते शाम्यति ॥३४२-३४३॥

चलच्-चामर-वातेन कृष्णं सन्तोषयेन् नरः ॥३४४॥

सनातनः- उत्तमं बीजनेनोत्कृष्टतां प्राप्तम् अङ्गं हस्तं देहं वा स्तौति । इदम् अनुलेपनानन्तरं बीजनम्, यत् यस्मात् ॥३४४॥

तस्योत्तमाङ्गं देवेश स्तुवते स्व-मुखेन वै । उष्ण-काले त्व् इदं ज्ञेयं यत् सन्तः पौष-माघयोः । शीतलत्वान् मलयजम् अपि नैवार्पयन्ति हि ॥३४५॥ \

तथा चोक्तम्—

न शीते शीतलं देयम् ॥३४६॥ इति ।

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

स्नापनिको नाम षष्ठो विलासः ।

॥६॥