०५ अधिष्ठानम्

पञ्चम-विलासः
आधिष्ठानिकः
श्री-चैतन्य-प्रभुं वन्दे बालो’पि यद्-अनुग्रहात् ।
तरेन् नाना-मत-ग्राह-व्याप्तं पूजा-क्रमार्णवम् ॥१॥
सनातनः-
श्री-चैतन्याय नमः । बालो’ज्ञः । पक्षे शिशुः । नाना-विध-मतान्य् एव ग्राहस् तैर् व्याप्तम् । पूजायाः क्रमो विधिः । विध्य्-अनुक्रमो वा स एवार्णवस् तम् ॥१॥

–ओ)०(ओ–

श्रीमद्-गोपाल-देवस्याष्टादशाक्षर-यन्त्रतः ।
लिख्यते’र्चा-विधिर् गूढः क्रम-दीपिकयेक्षितः ॥२॥
सनातनः-
अष्टादशाक्षर-मन्त्रेण यो’र्चा-विधिः पूजा-प्रकारः स लिख्यते । यद्यपि दशाक्षरादिनापि पूजा-विधौ भेदो नास्ति, तथापि न्यासादि-भेदापेक्षया, तथा लिखितम् । गूढो’पि क्रम-दीपिकया श्री-केशवाचार्य-विरचितया ईक्षितः दर्शितः सन् । अतः क्रम-दीपिकोक्तानुसारेण लेख्य इति भावः ॥२॥

–ओ)०(ओ–

**आगमोक्तेन मार्गेण भगवान् ब्राह्मणैर् अपि ।
सदैव पूज्यो’तो लेख्यः प्राय आगमिको विधिः ॥३॥
तथा च **विष्णु-यामले—

कृते श्रुत्य्-उक्त-मार्गः स्यात् त्रेतायां स्मृति-भावितः ।

द्वापरे तु पुराणोक्तः कलाव् आगम-सम्भवः ॥४॥ अशुद्धाः शूद्राकल्पा हि ब्राह्मणाः कलि-सम्भवाः । तेषाम् आगम-मार्गेण शुद्धिर् न श्रौत-वर्त्मना ॥५॥
सनातनः-
तेषाम् आगम-मार्गेण श्रौत-वर्त्मनेत्य् अनेन तैर् अपि आगमिक-विधिनैव पूजा कार्येति भावः । तथा चैकादश-स्कन्धे [Bह्P ११.५.६१] नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु इति । तत्र श्रीधर-स्वामि-पादाः—नाना-तन्त्र-विधानेनेति कलौ तन्त्र-मार्गस्य प्राधान्यं दर्शयति इति ॥३-५॥

–ओ)०(ओ–

**अथ द्वार-पूजा

श्री-कृष्ण-द्वार-देवेभ्यो दत्त्वा पाद्यादिकं ततः ।
गन्ध-पुष्पैर् अर्चयेत् तान् यथा-स्थानं यथा-क्रमम् ॥६॥
सनातनः- **तान् श्री-कृष्ण-द्वार-देवान्, प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमो’न्तकम् इत्य् अग्रे लेख्यत्वाद् अत्रैवं प्रयोगः—श्री-कृष्ण-द्वार-देवताभ्यो नमः । अनेन मन्त्रेण पाद्यार्ध्यादिकं दत्त्वा गन्धादिभिः पुनर् विशेषेण पूजयेद् इत्य् अर्थः । एवम् अग्रे’पि स-परिवारेभ्यः श्री-कृष्ण-पार्षदेभ्यो नमः इत्य् आदि प्रयोगो द्रष्टव्यः ॥६॥

–ओ)०(ओ–

द्वाराग्रे स-परीवारान् भू-पीठे कृष्ण-पार्षदान् ।
तद्-अग्रे गरुडं द्वारस्योर्ध्वे द्वार-श्रियं यजेत् ॥७॥
प्राग्-द्वारोभय-पार्श्वे तु यजेच् चण्ड-प्रचण्डकौ ।
द्वारे च दक्षिणे धातृ-विधातारौ च पश्चिमे ॥८॥
जयं च विजयं चैव बलं प्रबलम् उत्तरे ।
द्वन्द्व-शस्त्व् एवम् अभ्यर्च्य देहल्यां वास्तु-पुरुषम् ॥९॥
सनातनः-
एवं सामान्येन सर्वेषाम् एव पूजा-विधिर् लिखितः । इदानीं यथा-स्थानं यथा-क्रमम् इति यल् लिखितं, तद् एव विविच्य लिखति—द्वाराग्र इति द्वाराभ्याम् । तत्राप्य् आदौ द्वारस्याग्रे यत् भू-रूपं पीठं, तत्र समस्त-परिवारान्वितान् श्री-कृष्ण-पार्षदान् यजेत् पूजयेत् । अनन्तरं तस्य द्वारस्याग्रे गरुडं । यद्यपि द्वार-श्रियो’र्चनं प्रबलार्चनानन्तरम् एव क्रम-दीपिकायाम् उक्तम्, तथापि इष्ट्वेति क्ट्वा-प्रत्ययेन चण्डादि-पूजातः पूर्व-काल एवेति बोधितम् । तथैवअ सद्-आचारात् । किं च, द्वन्द्व इत्य् अग्रे लिखनात्, चण्ड-प्रचण्डाभ्यां नमः इत्य् एवं युग्मत्वेन प्रयोगो ज्ञेयः ॥७-९॥

–ओ)०(ओ–

द्वारान्तः-पार्श्वयोर् गङ्गां यमुनां च ततो’र्चयेत् ।
तत्-पार्श्वयोः शङ्ख-निधिं तथा पद्म-निधिं यजेत् ॥१०॥
सनातनः-
द्वारस्यान्तः अभ्यन्तरे तत्-पार्श्व-द्वये तयोर् गङ्गा-यमुनयोः पार्श्व-द्वये॥१०॥

–ओ)०(ओ–

गणेशं मन्दिरस्याग्नि-कोणे दुर्गां च नैरृते ।
वाणीं वायव्य ऐशाने क्षेत्रपालं तथार्चयेत् ॥११॥
सनातनः-
आग्नेये कोणे गणेशम् अर्चयेत् । तथा चोक्तं क्रम-दीपिकायाम् [७.१०३-१०६]—

परिवाराराः कृताः सर्वे पुनः श्री-विष्णु-पार्षदाः । द्वाराग्राबलि-पीठे’र्च्याः पक्षीन्द्रश् च तद्-अग्रतः ॥ चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे । जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ॥ ऊर्ध्वे द्वार-श्रियं चेष्ट्वा द्वार्य् एतान् युग्मशो’र्चयेत् । पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्यतः ॥ द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना नदी । कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रे समर्चयेत् ॥ इति ॥११॥

–ओ)०(ओ–

द्वाः-शाखाम् आश्रयन् वामां सङ्कोच्याङ्गानि देहलीम् ।
अस्पृष्ट्वा प्रविशेद् वेश्म न्यस्यन् प्राग् दक्षिणं पदम् ॥१२॥
सनातनः-
वामां स्व-वाम-भाग-वर्तिनीं द्वार-शाखां आश्रयन् ईषत् स्पृषद् निजाङ्गानि सङ्कोच्य देहलीम् अस्पृष्ट्वा न लङ्घयित्वेत्य् अर्थः । दक्षिणं पदं प्राक् आदौ न्यस्यन् । दक्षिण-पाद-न्यास-क्रमेणेत्य् अर्थः । वेश्म श्री-भगवन्-मन्दिरं हरेर् गेहं प्रवेक्ष्यन्न् इति पूर्व-लिखनात् । प्रविशेत् तन्-मध्यं शनैः पूजको गच्छेत् ॥१२॥

–ओ)०(ओ–

तथा च सारदा-तिलके—
किञ्चित् स्पृशन् वाम-शाखां देहलीं लङ्घयन् गुरुः ।
अङ्गं सङ्कोचयन्न् अन्तः प्रविशेद् दक्षिणाङ्घ्रिणा ॥१३॥
सनातनः-
गुरुर् इति दीक्षा-विधानोक्तः ॥१३॥

–ओ)०(ओ–

अथ गृह-प्रवेश-माहात्म्यम्

तन्-माहात्म्यं च हरि-भक्ति-सुधोदये—

प्रविशन्न् आलयं विष्णोर् अर्चनार्थं सुभक्तिमान् । न भूयः प्रविशन् मातुः कुक्षि-कारा-गृहं सुधीः ॥१४॥

**अथ गृहान्तः-पूजा

नैरृते वास्तु-पुरुषं ब्रह्माणम् अपि पूजयेत् ।
आसनस्थो यजेत् तांस् तान् अन्यत्र भगवद्-गृहात् ॥१५॥
सनातनः- **भगवद्-गृहात् देवालयाद् अन्यत्र परस्मिन् स्थाने तांस् तान् श्री-कृष्ण-पार्षदादीन् सर्वान्, आसन-स्थः आसने उपविष्टः सन्नेव पूजयेत्; यत एव तथाग्रे लेख्यं विघ्न-निवारणम् । पूजा-रम्भे द्वार-देवता-पूज्याः प्रागेव भगवद्-गृहे तु तिष्ठन्नेव तांस् तान् पूजयेद् इत्यर्थः । भगवद्-अग्रेऽन्यपूजार्थासनायोग्यत्वात् । यद्वा, तत्-तद्-अग्रे गमनेन पुनः पुनर् आसनासम्भवात्, मुहुर् आसनेन कालक्षेपाच् च । अत एव पार्ष्णि-प्रहारादिना विघ्न-निवारण-मत्रा-लिखित्वा निश्चलासनावसरेऽग्रे लिखिष्यते ॥१४-१५॥

तत्-पूजामन्त्रश् चोक्तः—

प्रणवादि-चतुर्थ्य्-अन्तं देव-नाम नमो’न्तकम् । पूजा-मन्त्रम् इदं प्रोक्तं सर्वत्रार्चन-कर्मणि ॥१६॥ इति ।

**सनातनः- **अत्र प्रायो देवालयान्तःपूजाविधि-लिखनात् केचिच्च द्वार-पूजानन्तरं गृहान्तः प्रवेशात् प्रागेव विघ्न-निवारणम् इच्छन्ति । अत्र सत्-सम्प्रदायाचार एव गतिर् इति दिक् । देवस्य पूज्यस्य नाम, पूजा-मन्त्रम् इति नपुंसकत्वम् आर्षम् ॥१६॥

**अथ कृष्णाग्रतस् तिष्ठन् कृत्वा दिग्-बन्धनं क्षिपेत् ।
पुष्पाक्षतान् समस्तासु दिक्षु तत्रोक्त-मन्त्रतः ॥१७॥
सनातनः- **अत्र प्रायो देवालयान्तःपूजाविधि-लिखनात् केचिच्च द्वार-पूजानन्तरं गृहान्तः प्रवेशात् प्रागेव विघ्न-निवारणम् इच्छन्ति । अत्र सत्-सम्प्रदायाचार एव गतिर् इति दिक् । देवस्य पूज्यस्य नाम, पूजा-मन्त्रम् इति नपुंसकत्वम् आर्षम् ॥१६॥

**अथ पूजार्थासनम्

ततश् चासन-मन्त्रेणाभिमन्त्र्याभ्यर्च्य चासनम् ।
तस्मिन्न् उपविशेत् पद्मासनेन स्वस्तिकेन वा ॥१८॥
सनातनः- **अभ्यर्च्य ओँ आधार-शक्तये नमः इति सम्पूज्य । तस्मिन् आसने, तत्र पद्मासनं–

सव्यं पादम् उपादाय दक्षिणोपरि विन्यसेत् । तथैव दक्षिणं सव्यस्योपविष्टान् निधापयेत् ॥ विष्टभ्य कट्युरो ग्रीवा-नासाग्र-न्यस्त-लोचनः । पद्मासनं भवेद् एतत् सर्वेषाम् अपि पूजितम् ॥ इति ।

क्वचिच्च—वामोर् ऊपरि दक्षिणं हि चरणं संस्थाप्य वामन्ततः इत्यादि । स्वस्तिकं चोक्तं—

जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे । ऋजुकायो विशेद् योगी स्वस्तिकं तत् प्रचक्षते ॥ इति ॥१८॥

तत्र कृष्णार्चकः प्रायो दिवसे प्राङ्-मुखो भवेत् ।
उदङ्मुखो रजन्यां तु स्थिर-मूर्तिश् च सम्मुखः ॥१९॥

तत्र च एकादश-स्कन्धे [Bह्P ११.२७.१९]—

आसीनः प्राग् उदग्-वार्चेत् स्थिरायान्त्व् अथ सम्मुखः ॥२०॥

**सनातनः- **तत्र आसने, प्राय इति दिवा प्राङ्-मुखत्वस्य, नक्तं चोदङ्-मुखत्वस्य प्रशस्तत्वात् ॥१९-२०॥

**अथासन-मन्त्रः

आसन-मन्त्रस्य मेरु-पृष्ठ ऋषिः सुतलं छन्दः ।
कूर्मो देवता आसनाभिमन्त्रेण विनियोगः ॥२१॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥२२॥**

अथासन-विधिः

नारद-पञ्चरात्रे—

वंशाश्म-दारु-धरणी-तृण-पल्लव-निर्मितम् ।
वर्जयेद् आसनं विद्वान् दारिद्र्य-व्याधि-दुःखदम् । कृष्णाजिनं कम्बलं वा नान्यद् आसनम् इष्यते ॥२३॥

**सनातनः- **तृणासनं च दर्भातिरिक्त-तृण-निर्मितं ज्ञेयम् । एकादश-स्कन्धे प्राग् दर्भैः कल्पितासनः इति श्री-भगवद् उक्तेः ॥२३॥

अन्यत्र च—

कृष्णाजिनं व्याघ्र-चर्म कौषेयं वेत्र-निर्मितम् । वस्त्राजिनं कम्बलं वा कल्पयेद् आसनं मृदु ॥२४॥

**सनातनः- **कृष्णाजिनं व्याघ्र-चर्मेत्यादिना आसनादौ मत-भेद आश्रमादि-भेदेन । तत्र बहूनां सतां यन्मतं, तदेव स्वसम्प्रदायानुसारेण ग्राह्यम् इति दिक् ॥२४॥

**अथ विशेषत आसन-दोष-विधिः **

नारद-पञ्चरात्रे—

वंशाद् आहुर् दरिद्रत्वं पाषाणे व्याधि-सम्भवम् । धरण्यां दुःख-सम्भूतिं दौर्भाग्यं दारवासने ॥२५॥ तृणासने यशो-हानिं पल्लवे चित्त-विभ्रमम् । दर्भासने व्याधि-नाशं कम्बलं दुःख-मोचनम् ॥२६॥

किं च, श्री-भगवद्-गीतासु [ङीता ६.११]—

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥२७॥ इति ।

**सनातनः- **चैलाजिन-कुशोत्तरम् इति प्रथमं प्राग् अग्रकुशास् तद्-उपरि कृष्णाजिनं, तद्-उपरि चीरम् इत्यर्थः ॥२७॥

**यथोकतम् उपविश्याथ सम्प्रदायानुसारतः ।
शङ्खादि-पूजा-सम्भारान् न्यसेत् तत्-तत्-पदेषु तान् ॥२८॥
सनातनः- **सम्प्रदायानुसारत इति विविध-मत-भेदाभिप्रायेण, तत्-तत्-पदेषु तेषां तेषाम् उचित-स्थानेषु तान् प्रसिद्धान् अग्रे लेख्यान् वा ॥२८॥

**अथ पात्रासादनम्

स्वस्य वामाग्रतः शङ्खं साधारं स्थापयेद् बुधः ।
तत्रैवार्ध्यादि-पात्राणि न्यस्येच् च द्वारि भागशः ॥२९॥
तुलसी-गन्ध-पुष्पादि-भाजनानि च दक्षिणे ।
वामे च स्थापयेत् पार्श्वे कलसं पूर्णम् अम्भसा ॥३०॥
दक्षिणे घृत-दीपं च तैल-दीपं च वामतः ।
सम्भारानपरान् न्यसेत् स्व-दृष्टि-विषये पदे ।
कर-प्रक्षालनार्थं च पात्रम् एकं स्व-पृष्ठतः ॥३१॥**

अथ पात्राणि तन्-माहात्म्यं च

देवी-पुराणे—

नाना-विचित्र-रूपाणि पुण्डरीकाकृतीनि च । शङ्ख-नीलोत्पलाभानि पात्राणि परिकल्पयेत् ॥३२॥ रत्नादि-रचितान्य् एव काञ्ची-मूल-युतानि च । यथा-शोभं यथा-लाभं तथा पात्राणि कारयेत् ॥३३॥

किं च—

हंस-पात्रेण सर्वाणि चेप्सितानि लभेन् मुने । अर्घ्यं दत्त्वा तथा रौप्येणायु-राज्यं शुभं भवेत् । ताम्र-पात्रेण सौभाग्यं धर्मं मृण्-मय-सम्भवम् ॥३४॥

वाराहे—

सौवर्णं राजतं कांस्यं येन दीयते भाजनम् । तान् सर्वान् सम्परित्यज्य ताम्रं तु मम रोचते ॥३५॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । विशुद्धानां शुचिं चैव ताम्रं संसार-मोक्षणम् ॥३६॥

**सनातनः- **तदेव विविच्य लिखति—स्वस्येति सार्ध-त्रयेण । आधारः शङ्खस्याश्रयस् तत्-सहितं, तत्र स्व-वामाग्रे एव, आदि-शब्देन पाद्याचमनीय-मधुपर्काः, भागशः पृथक् पृथग् इत्यर्थः; दक्षिणे तुलस्यादि-पत्राणि, कलसं प्रोक्षणीय-जल-कुम्भम् । अपरान् वस्त्रालङ्कारादीन्, स्वस्यात्मनो दृष्टेर् विषये गोचरे यत् पदं स्थानं तस्मिन् ॥२९-३६॥

दीक्षितानां विशुद्धानां मम कर्म-परायणः । सदा ताम्रेण कर्तव्यम् एवं भूमि मम प्रियम् ॥३७॥ इति ।

**सनातनः- **दीक्षितानां मध्ये यो मत्-कर्म-परायणस् तेन सदा ताम्रेण कर्तव्यम् इत्यर्थः ॥३७॥

**केचिच् च ताम्र-पात्रेषु गव्यादेर् योग-दोषतः ।
ताम्रातिरिक्तम् इच्छन्ति मधुपर्कस्य भाजनम् ॥३८॥
सनातनः- **गव्यस्य घृतव्यतिरिक्तस्य दुग्धादि-गोरसस्य आदि-शब्दान् मधुनश्च योगे संयोगे दोषाद् धेतोः । तथा च स्मृतिः— ताम्र-पात्रे स्थितं गव्यं मद्य-तुल्यं घृतं विना इति । मधुनश्च सुरापरिवर्तेन ताम्र-पात्रे देयत्वात् । केचिदिति स्व-मतं व्यावर्तयति—‘दधि सर्पिर्मधु समं पात्रे औडुम्बरे मम’ इति साक्षाद् भगवद्-वराहोक्तेः ॥३८॥

**तथैव शङ्खम् एवार्ध्य-पात्रम् इच्छन्ति केचन ।
शङ्खे कृत्वा तु पानीयं स-पुष्पं सलिलाक्षतम् ।
अर्घ्यं ददाति देवस्येत्य् एवं स्कान्दे’भिधानतः ॥३९॥
सनातनः- **केचनेच्छन्तीत्य् अत्र हेतुं लिखति—शङ्खे कृत्वेति । स्कान्देऽभिधानतः स्कन्द-पुराणोक्तेः ॥३९॥

**अथ मङ्गल-घट-स्थापनम्

मङ्गलार्थं च कलसं सजलं करकान्वितम् ।
फलादि-सहितं दिव्यं न्यसेद् भगवतो’ग्रतः ॥४०॥
सनातनः- **पूर्वं प्रोक्षणीय-घट-स्थापनं लिखितम्, इदानीं मङ्गल-घटन्यासं लिखति—मङ्गलार्थम् इति । आदि-शब्देन कर्पूराक्षतादि, दिव्यं परम-सुन्दरम् ॥४०॥

तथा च स्कान्दे—

कुम्भं स-करकं दिव्यं फल-कर्पूर-संयुतम् । न्यसेद् अर्चन-काले तु कृष्णस्यातीव वल्लभम् ॥४१॥ इति ।

किं च—

सनीरं च स-कर्पूरं कुम्भं कृष्णाय यो न्यसेत् । कल्पं तस्य न पापेक्षां कुर्वन्ति प्रपितामहाः ॥४२॥

**सनातनः- **कल्पं ब्रह्म-दिनं व्याप्य पापे ईक्षां दृष्टिं न कुर्वन्ति क्रियमाणम् अपि पापं न गृह्णन्तीत्यर्थः ॥४२॥

**अथार्घ्यादि-पात्राणि

प्रक्षिपेद् अर्घ्य-पात्रे तु गन्ध-पुष्पाक्षतान् यवान् ।
कुशाग्र-तिल-दूर्वाश् च सिद्धार्थान् अपि साधकः ।
केचिच् चात्र जलादीनि द्रव्याण्य् अष्टौ वदन्ति हि ॥४३॥
सनातनः- **अत्र अर्घ्य-पात्रे ॥४३॥

यत उक्तं भविष्ये—

आपः क्षीरं कुशाग्राणि दध्य्-अक्षत-तिलस् तथा । यवाः सिद्धार्थकाश् चैवम् अर्घ्यो’ष्टाङ्गः प्रकीर्तितः ॥४४॥ पाद्य-पात्रे च कमलं दूर्वा श्यामाकम् एव च । निक्षिपेद् विष्णु-पत्रीं चेत्य् एवं द्रव्य-चतुष्टयम् ॥४५॥ तथैवाचमनीयार्थं पात्रे द्रव्य-त्रयं बुधः । जाती-फलं लवङ्गं च कक्कोलम् अपि निक्षिपेत् ॥४६॥ मधुपर्कीय-पात्रे च गव्यं दधि पयो घृतम् । मधु-खण्डम् अपीत्य् एवं निक्षिपेद् द्रव्य-पञ्चकम् ॥४७॥ केचित् त्रीण्य् एव पात्रे’स्मिन् द्रव्याणीच्छन्ति साधवः ॥४८॥

यत उक्तं श्री-विष्णु-धर्मे—

घृतं दधि तथा क्षौद्रं मधुपर्को विधीयते ॥४९॥

आदि-वाराहे च—

दधि-सर्पिर् मधु-समं पात्रे औडुम्बरे मम । मधुनस् तु अलाभे तु गुडेन सह मिश्रयेत् ॥५०॥ घृतस्यालाभे सुश्रोणि लाजैश् च सह मिश्रयेत् । तथा दध्नो’प्य् अलाभे तु क्षीरेण सह मिश्रयेत् ॥५१॥

**सनातनः- **अस्मिन् मधुपर्क-पात्रे, औडुम्बरे ताम्रे, अत्र च घृतं विनेति स्मृत्य्-उक्तया घृत-सहितेन ताम्रेऽपि गव्यस्य संयोगो द्रव्यान्तर-संयोगेन च मधुनोऽपि न दुष्यत्येवेति तैर् अभुक्तानाम् अपि सम्मतं सूचितम् ॥४८-५१॥

तेषाम् अभावे पुष्पादि तत्-तद्-भावनया क्षिपेत् । नारदस् त्व् आह विमलेनोदकेनैव पूर्यते ॥५२॥

**सनातनः- **ननु गुडाद्य्-अभावे तथान्यस्यापि कस्यचिद् अभावे सति किं कार्यम्? इत्यपेक्षायाम् आह—तेषाम् इति । उक्तानाम् अर्घ्यादि-द्रव्याणाम् अभावे सति तत्-तद्-भावनयेति तेषां तेषां द्रव्याणां मध्ये यद्यन् न लभ्यते, तस्य तस्य भावनया तत्-तद्-इदमिति चिन्तयित्वा तत्-तत्-परिवर्तेन तत्-तत्-पात्रेषु पुष्पादिकं निक्षिपेद् इत्यर्थः । आदि-शब्देन तुलसी-पत्रादि; ननु पुष्पाद्य्-अभावेऽपि किं कार्यं, तत्र लिखति—नारदस् त्व् इति । पूर्यते तत्-तत्-परिपूर्णता भवतीत्यर्थः ॥५२॥

मूलेन पात्रेणैकेन मष्टकृत्वो’भिमन्त्रयेत् । कुर्याच् च तेषां पात्राणां रक्षणं चक्र-मुद्रया ॥५३॥

**सनातनः- **मूलेन मूल-मन्त्रेण ॥५३॥

पूजाम् आरभमाणो हि यथोक्तासनम् आस्थितः । पठेन् मङ्गल-शान्तिं तां यार्चने सम्मता सताम् ॥५४॥

**अथ मङ्गल-शान्तिः

ओं भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर् यजत्रा ।
स्थिरैर् अङ्गैस् तुष्टुवांसस् तनुभिर्
व्यशेम देव-हितं यद् आयुः ॥५५॥
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।
स्वस्ति नस् तार्क्षो’रिष्टनेमिः । स्वस्ति नो बृहस्पतिर् दधातु ॥५६॥ **इति ।

पठन्, ओं शान्तिः श्री-कृष्ण-पाद-पद्माराधनेषु शान्तिर् भवतु ॥ इति ।

अथ विघ्न-निवारणम्

अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।

ये भूता विघ्न-कर्तारस् ते नश्यन्तु शिवाज्ञया ॥५७॥

इत्य् उदीर्यास्त्र-मन्त्रेण वाम-पादस्य पार्ष्णिना ।

घातैस् त्रिभिर् बुधो विघ्नान् भौमान् सर्वान् निवारयेत् ॥५८॥

**सनातनः- **अस्त्र-मन्त्रः—अस्त्राय फड् इति । यद्वा, अस्मिन् मन्त्रे योऽस्त्र-मन्त्रस् तेनैव, पार्ष्णिना ये घाताः प्रहारास् तैः ॥५८॥

आन्तरीक्षांश् च तेनैवोर्ध्वोर्ध्व-ताल-त्रयेण हि ।

निरस्योत्सारयेद् दिव्यान् मान्त्रिको दिव्य-दृष्टितः ॥५९॥

**सनातनः- **तेन अस्त्र-मन्त्रेण; दिव्य-दृष्टित इति—मूल-मन्त्र-सञ्चिन्तित-दिव्य-दृष्ट्या दिव्यान् विघ्नान् उत्सारयेद् इत्यर्थः ॥५९॥

**श्री-गुर्व्-आदि-नतिः

ततः कृताञ्जलिर् वामे श्री-गुरुं परमं गुरुम् ।
परमेष्ठि-गुरुं चेति नमेद् गुरु-परम्पराम् ॥६०॥
गणेशं दक्षिणे भागे दुर्गाम् अग्रे’थ पृष्ठतः ।
क्षेत्रपालं नमेद् भक्त्या मध्ये चात्मेष्ट-दैवतम् ॥६१॥
सनातनः- **वामे गुरु-परम्परां नमेत्; अत्र प्रयोगः—ओँ गुरुभ्यो नमः, गां गणेशाय नमः इत्यादिः ॥६०-६१॥

**ततश् चास्त्रेण संशोध्य करौ कुर्वीत तेन हि ।
ताल-त्रयं दिशां बन्धम् अग्नि-प्राकारम् एव च ॥६२॥ \

सनातनः- **एवार्थो हि-शब्दः; तेन अस्त्र-मन्त्रेणैव ऊर्ध्वोर्ध्वतालत्रयादि कुर्यात् । तत्राग्नि-प्राकारम् आत्मनः परितः कुर्यात् ॥६२॥

**अथ भूत-शुद्धिः

शरीराकार-भूतानां भूतानां यद् विशोधनम् ।
अव्यय-ब्रह्म-सम्पर्काद् भूत-शुद्धिर् इयं मता ॥६३॥
सनातनः- **अथ भूत-शुद्धिं लिखिष्यन्नादौ तद्-अर्थं लिखति—शरीरेति, शरीरस्य आकार-भूतानाम् आकृतित्वं प्राप्तानां शरीरतया परिणतानाम् इत्यर्थः, पञ्च-महाभूतानाम् उपलक्षणम् एतत्, सर्वेषामेव दैहिक-तत्त्वानाम् अव्यय-ब्रह्मणो जीव-तत्त्वस्य सम्पर्कात् तदात्मकतया; यद्वा, श्री-भगवतोऽंशत्वेन सम्बन्धाद् धेतोर् विशोधनं कार्य-कारणादि-भिन्नतया विज्ञानं यदियमेव भूत-शुद्धिर् मताऽभिज्ञैः ॥६३॥

**भूत-शुद्धिं विना कर्तुर् जप-होमादिकाः क्रियाः ।
भवन्ति निष्फलाः सर्वा यथा-विध्य् अप्य् अनिष्ठिताः ॥६४॥
सनातनः- **अधुना भूत-शुद्धिर् नित्यतां लिखति –– भूत-शुद्धिम् इति । कर्तुर् जपादिकारिणः, यथा-विधि विध्यनतिक्रमेण अनुष्ठिता निष्पादिता अपि निष्फला भवन्ति, आत्म-शोधनं विना मूलाशुद्धेः ॥६४॥

**तत्-प्रकारश् च

कर-कच्छपिकां कृत्वात्मानं बुद्ध्या हृद्-अब्जतः ।
शिरः-सहस्र-पत्राब्जे परमात्मनि योजयेत् ।
पृथिव्यादीनि तत्त्वानि तस्मिन् लीनानि भावयेत् ॥६५॥
सनातनः- **आत्मानं जीवात्मानं प्रदीप-कलिकाकारं सोऽहम् इति मन्त्रेण हृत्-पद्मात् शिरः-स्थित-सहस्र-दल-कमलम् अध्यवर्ति-परमात्मनि बुद्धया भावनया विचारेण वा योजयेत् । तद्-अंशत्वात् तद्-अभिन्नत्वेन तदीयत्वेन वा स्वात्मानं विजानीयाद् इत्यर्थः । एवं च सति सोऽहमिति—सः श्री-भगवद्-अंशः शुद्ध-बुद्धम् उक्त-स्वभावोऽहम्; यद्वा, तद्-अंशेत्वेन तद्-अधीनो नित्य-सेवकोऽस्मीत्यर्थः । ततश् च तस्मिन् परमात्मन्येव पृथिव्यादीनि कार्य-कारण-तत्त्वानि सर्वाण्येव तद्-एक-मूलत्वेन लीनानि तद्-आत्मकानि तन्-मायामयानि वा विभावयेद् इत्यर्थः । अत्र च प्रलय-रीत्या साङ्ख्योक्त-सृष्टि-प्रातिलौम्येन कार्यस्य कारणे लय-द्वारा तेषां सर्वेषाम् एव परम-कारणेऽवधिभूते भगवति लयो द्रष्टव्य इति दिक् ॥६५॥

**वाम-हस्तं तथोत्तानम् अधो दक्षिण-बन्धितम् ।
कर-कच्छपिका मुद्रा भूत-शुद्धौ प्रकीर्तिता ॥६६॥
सनातनः- **करकच्छपिकां कृत्वेति लिखितं तामेव दर्शयति—वाम-हस्तम् इति ॥६६॥

देहं संशोष्य दग्ध्वेदम् आप्लाव्यामृत-वर्षतः ।
उत्पाद्य द्रढयित्वासु-प्रतिष्ठां विधिनाचरेत् ॥६७॥

अधुना भूत-शुद्धि-प्रकारम् एव लिखति—देहमिति द्वाभ्याम् । विधिनेत्यस्य सर्वत्रैव सम्बन्धः । इदं पाञ्च-भौतिकं पाप-मयं देहं संशोष्य सम्यक् शोषं नीत्वा ततो दग्धा तदेव ततश् चामृत-वृष्टया आप्लाव्य पश्चाद् उत्पाद्य तच्चामृत-वृष्टयैवेत्य् उभयोर् अप्य् एककारणत्वाद् अमृत-वर्षत इति कारणोल्लेखः । अनन्तरं दृढीकृत्य एतच्च सर्वं भावनयैव, ततः प्राण-प्रतिष्ठां कुर्याद् इत्यर्थः । तत्र चायं विधिः—आदौ पाप-पुरुषं चिन्तयेत्; तथा चोक्तम्—

मूलाज्ञानं ततः पापं जन्मादि-दुःखदं च यत् । प्राणापानौ निरुध्याथ तस्य रूपं विचिन्तयेत् ॥ महापातक-पञ्चाङ्गं पातकोपाङ्ग-संश्रयम् । उपपातकरोमाणं कृष्णं क्रूरातिभीषणम् ॥ इति ।

अन्यत्र च—

ब्रह्म-हत्याशिरस्कं च स्वर्णस्तेयभुज-द्वयम् । सुरापानहृदायुक्तं गुरु-तल्पकटि-द्वयम् ॥ तत्-संयोगि-पद-द्वन्द्वम् अङ्ग-प्रत्यङ्गपातकम् । उपपातक-रोमाणं रक्त-श्मश्रु-विलोचनम् ॥ खड्ग-चर्मधरं पापम् अङ्गुष्ठ-परिमाणकम् । अधोमुखं कृष्ण-वर्णं दक्ष-कुक्षौ विचिन्तयेत् ॥ इति ।

तन् नाशार्थम् आदौ यम् इति वायु-बीजं धूम्र-वर्णं परम-शोषणं वामनासापुटे विचिन्त्य तस्य षोडश-वार-जपेन वायुम् आपूर्य नाभि-मण्डले बीजं मनसा नीत्वा यं-बीजस्य चतुः-षष्टिवार-जपेन कुम्भकं कृत्वा, यं-बीजोत्थ-वायुना स-पाप-पुरुषं सर्व-शरीरं संशोष्य, यं-बीजस्य द्वात्रिंशद्-वार-जपेन दक्षिण-नासा-पुटेन तं वायुं रेचयेत् । ततो रमिति वह्नि-बीजं रक्त-वर्णं वायु-सम्बन्धं दक्षिण-नासापुटे विचिन्त्य तस्य षोडशवार-जपेन वायुम् आपूर्य मूलाधारे बीजं नीत्वा चतुः-षष्टिवार-जपेन कुम्भकं कृत्वा बीजोत्थ-वह्निना स-पाप-पुरुषं समस्त-देहं दग्धा द्वात्रिंशद्वार-जपेन भस्मना सहितं वायुं वाम-नासा-पुटेन रेचयेत् । ततश्च ठमिति चन्द्र-बीजं श्वेत-वर्णं वाम-नासा-पुटे विचिन्त्य तस्य षोडशवार-जपेन वायुम् आपूर्य बीजं ब्रह्म-रन्ध्र-स्थं चन्द्रं नीत्वा तच्-चन्द्र-मण्डल-मध्ये वमिति वरुण-बीजं ध्यात्वा तस्य चतुःषष्टिवार-जपेन कुम्भकं कृत्वा ठं-बीजात्मक-चन्द्राद् वर्णमयीम् अमृतवृष्टिम् उत्पाद्य तयाप्लाव्य ततः शरीरम् उत्पन्नं विभाव्य पुनर् अकारादि-वर्ण-रूपया तया मातृकान्यासानुसारेण मुख-कर-चरणादिकम् उत्पाद्य लमिति पृथ्वी-बीजस्य पीत-वर्णस्य द्वात्रिंशद्वार-जपेन समस्तं शरीरं दृढी-कुर्वन् दक्षिण-नासा-पुटेन वायुं रेचयेद् इति । अत्र च तत्र तत्र द्वात्रिंशद्वार-जपेन पूरणं रेचनं च षोडशवार-जपेनेति; रेचः षोडशमात्राभिः पुरो द्वात्रिंशता भवेत् इति वचनात् । एतच्च कस्यचिद् एव मतं, न तु बहूनाम् इत्यग्रे व्यक्तं भावि; प्राण-प्रतिष्ठा-विधिश्चायम्—प्राण-प्रतिष्ठा-मन्त्रस्य ब्रह्म-विष्णु-रुद्रा ॠषयः ॠग्-यजुः-सामानि छन्दांसि अतिच्छन्दो वा छन्दः क्रियामय-वपुः प्राणाख्या देवता प्राण-प्रतिष्ठार्थे विनियोगः ।

ओँ कं खं गं घं ङं अं पृथिव्य्-अप्-तेजो-वाय्वाकाशात्मने आं हृदयाय नमः ।
ओँ चं छं जं झं ञं इं शब्द-स्पर्श-रूप-रस-गन्धात्मने इं शिरसे स्वाहा ।
ओँ टं ठं डं ढं णं उं श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणात्मने उं शिखायै वषट् ।
ओँ तं थं दं धं नं एं वाक्-पाणि-पाद-पायूपस्थात्मने ऐं कवचाय हुं ।
ओँ पं फं बं भं मं ओं वचनादान-गमन-विसर्गानन्दात्मने ओं नेत्र-त्रयाय वौषट् ।
ओं यं रं लं वं शं षं सं हं लं क्षं अं मनो-बुद्ध्य्-अहङ्कार-चित्तात्मने अः अस्त्राय फट् ।
ओँ आं नाभेर् अधः ।
ओँ ह्रीं हृदय-नाभि ।
ओँ ह्रौँ मस्तकादाहृदयम् । ततः ओँ यं त्वगात्मने नमः हृदि । ओँ रं असृगात्मने नमः दक्षिणांसे । ओँ लं मांसात्मने नमः ककुदि । ओँ वं मेदात्मने नमः वामांसे । ओँ शं अस्थ्यात्मने नमः हृदयाद् दक्षिण-पाणि-पर्यन्तम् । ओँ षं मज्जात्मने नमः हृदयाद् वाम-पाणि-पर्यन्तम् । ओँ सं शुक्रात्मने नमः हृदयाद् दक्षिण-पाद-पर्यन्तम् । ओँ हं प्राणात्मने नमः हृदयाद् वाम-पाद-पर्यन्तम् । ओँ लं जीवात्मने नमः हृदयान् नाभि-पर्यन्तम् । ओँ क्षं परमात्मने नमः हृदयान् मस्तक-पर्यन्तम् । तत्र ध्यानम्—

वक्त्राम्भोधिस्थपोतोल्लसद्-अरुण–सरोजाधिरूढा कराग्रैः, पाशं कोदण्डम् इक्षूद्भवम् अथ गुणम् अप्य् अङ्कुशं पुष्पवाणान् । विभ्राणासृक्कपालं त्रिनयन-ललिता पीन-वक्षोरुहाढ्या, देवी बालार्कवर्णा भवतु शुभकरी प्राण-शक्तिः परा नः ॥ इति ।

अथ हृदि हस्तं निधायोच्चारयेत्—ओँ आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हों हं सः मम प्राणा इह प्राणा इति । पुनस् तान्येव बीजान्य् उच्चार्य मम जीव इह स्थित इति । पुनस् तान्य् एवोच्चार्य मम सर्वेन्द्रियाणीति । पुनस् तान्य् उच्चार्य मम वाङ्-मनस्-त्वक्-चक्षुः-श्रोत्र-घ्राण-प्राणा इहायान्तु स्वस्तये चिरं सुखेन तिष्ठन्तु स्वाहा इति मन्त्रः । ततो जन्मादिक-द्वयष्ट-संस्कार-सिद्धये षोडश-प्रणवावृत्तीः कृत्वा शक्तिं परां स्मरेद् इति ॥६७॥

**आत्मानम् एवं संशोध्य नीत्वा कृष्णार्चनार्हताम् ।
वात्सल्याद् धृद्-गतं कृष्णं यष्टुं हृत् पुनर् आनयेत् ॥६८॥
सनातनः- **एवं लिखित-प्रकारेणात्मानं सम्यक् शोधयित्वा तेन च श्री-कृष्णास्यार्चनार्हतां पूजायोग्यतां नीत्वा सम्पाद्य पुनस् तं हृदय-कमलमानयेत् । किम् अर्थम् ? कृष्णं यष्टुं पूजयितुम्; ननु भगवान् परमात्मरूपोऽसौ मूर्ध्नि सहस्र-दल-कमले वर्तते, तत्र लिखति—वात्सल्यात् भक्त-वात्सल्येन हृत् हृद्-अब्जं गतं प्राप्तम् इति, अत एव भगवतो ध्यानादिकं हृदय एव सर्वतो निर्दिश्यत इति दिक् ॥६८॥

तथा च त्रैलोक्य-सम्मोहन-तन्त्रे—

नाभिस्थ-वायुना देहं स-पापं शोधयेद् बुधः । वह्निना हृदय-स्थेन दहेत् तच् च कलेवरम् ॥६९॥ सहस्रारे महापद्मे ललाट-स्थे स्थितं विधुम् । सम्पूर्ण-मण्डलं शुद्धं चिन्तयेद् अमृतात्मकम् ॥७०॥ तस्माद् गलित-धाराभिः प्लावयेद् भस्मसाद् बुधः । आभिर् वर्णमयीभिश् च पञ्च-भूतात्मकं वपुः । पूर्ववद् भावयेद् देवीम् ॥७१॥ इत्य् आदि ।

**सनातनः- **एतदेव प्रमाणयन् भूत-शुद्धि-प्रकारं च किञ्चित् प्रपञ्चय दर्शयति—तथा चेति । स-पापं पाप-पुरुष-सहितं पूर्वं दाहेन भस्मसाद्भूतमाभिर् धाराभिः ॥६९-७१॥

किं चाग्रे—

ततस् तस्मात् समाकृष्य प्रणवेन तु मन्त्रवित् । तत् तेजो हृदये न्यस्य चिन्तयेद् विष्णुम् अव्ययम् ॥७२॥

**सनातनः- **ततः शरीरोत्पत्त्यनन्तरं तस्मात् सहस्र-दल-कमलात् परमात्मनो वा सकाशात् तत् शुद्धात्मतत्त्वरूपं तेजः ॥७२॥

किं वा चिन्तन-मात्रेण भूत-शुद्धिं विधाय ताम् । प्राणायामांश् ततः कुर्यात् सम्प्रदायानुसरतः ॥७३॥

**सनातनः- **तत्राशक्तौ प्रकारान्तरं लिखति—किंवेति । चिन्तन-मात्रेणेति—पूरक-कुम्भकादिकं विना केवलं भावनयैव देह-शोषणादिकं कृत्वेत्यर्थः । सम्प्रदायानुसारत इति भूत-शुद्धौ मत-भेदान् नाना-प्रकारत्वेन, तथा प्राणायामेषु च केषाञ्चिन् मतेऽस्मिन्नवसरेऽकरणात्, केषाञ्चिन्मते करणेऽपि प्रणवस्य जपात्, केषाञ्चिन्मते बीजस्य, तत्रापि केषाञ्चिन्मते वार-त्रयं, केषामपि मते बहुवारानित्य् एवं मत-भेदान् नाना-प्रकारत्वेनानैकान्तत्वात् निज-सम्प्रदाय-व्यवहार एवानुसर्तव्य इत्यर्थः । एवम् अन्यत्रापि ॥७३॥

**अथ प्राणायामः

रेचः षोडश-मात्राभिः पूरो द्वात्रिंशता भवेत् ।
चतुःषष्ठ्या भवेत् कुम्भ एवं स्यात् प्राण-संयमः ॥७४॥
विरेच्य पवनं पूर्वं सङ्कोच्य गुद-मण्डलम् ।
पूरयित्वा विधानेन स्व-शक्त्या कुम्भके स्थितः ॥७५॥
सनातनः- **मात्राभिश् च षोडशभी रेचः, द्वात्रिंशता च पूरो भवेत्, एवं यत्रादौ रेचनमन्ते पूरणं तत्रैवैषा व्यवस्था ज्ञेया । यत्र चाष्टाङ्ग-योगान्तर्-गत-प्राणायामादौ तयोर् विपर्ययस् तत्र मात्रावैपरीत्यम् अपि ज्ञेयम्; अत एव भूत-शुद्धौ तथा लिखितम्; मात्रा चोक्ता—

कालेन यावता स्वीयो हस्तः स्वं जानु-मण्डलम् । पर्येति मात्रा सा ज्ञेया स्वीयैक-श्वासमात्रिका ॥ इति ॥७४-७५॥

**तत्र प्रणवम् अभ्यस्यन् बीजं वा मन्त्रम् ऊर्ध्वगम् ।
ऋष्य्-आदि-स्मरणं कृत्वा कुर्याद् ध्यानम् अतन्द्रितः ॥७६॥
सनातनः- **मन्त्रम् ऊर्ध्वगम् अष्टादशाक्षर-मन्त्र-शिरःस्थितं मान्मथं बीजं वा अभ्यस्यन् मनसा आवर्तयन्; प्रणवाभ्यासे च ऋष्यादिकम् उक्तम्—अस्य प्रणव-मन्त्रस्य प्रजापतिर् ऋषिर् देवी गायत्री-छन्दः परमात्मा देवता, अ-कारो बीजम्, उ-कारः शक्तिर् म-कारः कीलकं—प्राणायामे विनियोगः । इति बीजाभ्यासे च तन्-मन्त्रस्य ऋष्यादिकं ध्यानञ्च तद्-देवताया एवेत्ययं विकल्पश्च मुक्ति-भुक्तयादि-फल-भेदेन वर्णाश्रमादि-भेदेन वेति दिक् ॥७६॥

तद् ध्यानं चोक्तम्—

विष्णुं भास्वत्-किरीटाङ्गद-वलय-कला-कल्प-हारोदराङ्घ्रि- श्रोणीभूषं सवक्षो-मणि-मकर-महा-कुण्डलामृष्ट-गण्डम् । हस्तोद्यच्-छङ्ख-चक्राम्बुज-गदम् अमलं पीत-कौशेय-वासं विद्योतद्-भासम् उद्यद्-दिन-कर-सदृशं पद्म-संस्थं नमामि ॥७७॥

क्वचिच् च—

रुद्रस् तु रेचके ब्रह्मा पूरके ध्येय-देवता ।

श्री-विष्णुः कुम्भके ज्ञेयो ध्यान-स्थानं गुरोर् मुखात् ॥७८॥

तथा हि—

नाभि-स्थाने पूरकेण चिन्तयेत् कमलासनम् । ब्रह्माणं रक्त-गौराङ्गं चतुर्वक्त्रं पितामहम् ॥७९॥ नीलोत्पल-दल-श्यामं हृदि मध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं कुम्भकेन तु चिन्तयेत् ॥८०॥ रेचेकनैश्वरं ध्यानं ललाटे सर्व-पापहम् । शुद्ध-स्फटिक-सङ्काशं कुर्याद् वै निर्मलं बुधः ॥८१॥ इति ।

**सनातनः- **ध्यान-स्थानं गुरोर् मुखादेव ज्ञेयम् इत्युक्तं, तद् एवान्यत्रत्यवचनैर् विज्ञापयन् तत्-तद्-धयानमेव विशिष्य लिखति—नाभि-स्थान इति त्रिभिः । ऐश्वरं श्री-रुद्र-सम्बन्धि ॥७९-८१॥

**एकान्तिभिश् च भगवान् सर्व-देव-मयः प्रभुः ।
कृष्णः प्रिय-जनोपेतश् चिन्तनीयो हि सर्वतः ॥८२॥
सनातनः- **ननु श्री-मदन-गोपाल-देवैक-भक्ति-निष्ठे कथम् एवं विविध-ध्यानं रोचेत ? तत्र लिखति—एकान्तिभिश्चेति । एकान्तिभिः श्री-कृष्ण-चरणारविन्दैक-भक्ति-निष्ठैस् तु कृष्ण एव सर्वत्रैव ध्येयः, स च प्रियजनैर् गोप-गोप्यादिभिर् उपेत एव, न त्व् एकाकी भक्ति-रस-विशेष-विघातापत्तेः । ननु तत्र तत्र तत्-तद्-देवताया ध्यानाभावेनासम्पूर्णता स्यात् तत्र लिखति—भगवान् सर्वेश्वर्य-युक्तः सर्वदेवमयः प्रभुश्च सर्वदेवेश्वरः सर्वशक्तिमान् वेति । एवम् एकान्तिनाम् अग्रेऽपि सर्वत्रैव बुद्ध्यावगन्तव्यः । अतः पूर्वलिखित-द्वार-पूजादाव् अप्य् एकान्तिनां श्री-गरुडादि-परिवर्तेन तत्र तत्र श्रीदामादि-गोपानां, द्वार-श्रीगङ्गादि-परिवर्तेन च श्री-गोपीनां पूजोह्या, अन्यथा तद्-एक-निष्ठानां तद्-अन्य-रुच्यसम्भवाद् भक्ति-विशेष-हान्या पूजा-लक्षण-कर्मण एव यथोक्तफलासिद्धेः । एवं श्री-भागवताद्य्-उक्तानाञ्च गोकुले श्री-गोपाल-देवस्य तद्-अन्याखिल-राग-विस्मारकाणां तत्-तत्-परिच्छद-परिवारादीनाम् अतिक्रमेणान्य-परिजनादि-पूजनादिकं केवलं कामिनां जयदं प्रधानोऽभयदं विपिने इत्याद्युक्त तत्-तत्-फलावाप्तये तान्त्रिकाः समादिशन्तीति ज्ञेयम्; अलम् अतिविस्तरेण ॥८२॥

अथ प्राणायाम-माहात्म्यम्

पाद्मे [३.३१.७९-८३] देवहूति-विकुण्डल-संवादे—

यम-लोकं न पश्यन्ति प्राणायाम-परायणाः । अपि दुष्कृत-कर्माणस् तैर् एव हत-किल्बिषाः ॥८३॥

**सनातनः- **तैः प्राणायामैर् एव ॥८३॥

दिवसे दिवसे वैश्य प्राणायामास् तु षोडश । अपि ब्रह्म-हणं साक्षात् पुनन्त्य् अहर्-अहः कृताः ॥८४॥ तपांसि यानि तप्यन्ते व्रतानि नियमाश् च ये । गो-सहस्र-प्रदानं च प्राणायामस् तु तत्-समः ॥८५॥ अम्बु-बिन्दुं यः कुशाग्रेण मासे मासे नरः पिबेत् । संवत्सर-शतं साग्रं प्राणायामस् तु तत्-समः ॥८६॥

**सनातनः- **साग्रं सम्वत्सरं पिबेत् ॥८६॥

पातकं तु महद् यच् च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणात् सर्वं भस्मसात् कुरुते नरः ॥८७॥ इति ।

**सनातनः- **आसुरं असुर-दैवत्यम्, अत एव विफलं प्राहुः ॥८७॥

न्यासान् विना जपं प्राहुर् आसुरं विफलं बुधाः ।
अतो यथा-सम्प्रदायं न्यासान् कुर्याद् यथा-विधि ॥८८॥

**तत्रादौ मातृका-न्यासः

ऋषि-च्छन्दो-देवतादि स्मृत्वादौ मातृका-मनोः ।
शिरो-वक्त्र-हृद्-आदौ च न्यस्य तद्-ध्यानम् आचरेत् ॥८९॥**

तच् चोक्तम्—

पञ्चाशल्-लिपिभिर् विभक्त-मुख-दोः-पन्-मध्य-वक्षः-स्थलीं भावन्-मौलि-निबद्ध-चन्द्र-शकलाम् आपीन-तुङ्ग-स्तनीम् । मुद्राम् अक्ष-गुणं सुधाढ्य-कलसं विद्यां च हस्ताम्बुजैर् बिभ्राणां विशद-प्रभां त्रि-नयनां वाग्-देवताम् आश्रये ॥९०॥

**सनातनः- **ऋष्यादिकञ्चोक्तम्— ब्रह्म-ऋषिर् गायत्री-च्छन्दो मातृका सरस्वती देवता हलो बीजानि स्वराः शक्तयः मातृका-न्यासे विनियोगः इति शिरोवक्त्रादौ क्रमेण ऋष्यादिकमेव न्यस्य; तथा चोक्तम्—

उच्चार्यैवं ऋषि-च्छन्दो-देवता-बीज-शक्तयः । शिरो-वदन-हृद्-गुह्य-पादेषु क्रमतो न्यसेत् ॥ इति ।

अत्र न्यस्य इति वक्तव्ये न्यसेद् इत्यार्षम् । पञ्चाशल्लिपिभिर् इति वर्णानाम् एकपञ्चाशत्त्वेऽपि ल-कार-द्वयस्यैक्याभिप्रायेण । भास्वति प्रभायुक्ते मौलौ नितरां बद्धं चन्द्र-शकलं चन्द्रार्धं यया ताम् ॥८९-९०॥

अकारादीन् क्ष-कारान्तान् वर्णानादौ तु केवलान् ।
ललाटादिषु चाङ्गेषु न्यसेद् विद्वान् यथा-क्रमम् ॥९१॥

तच् च विविच्योक्तम्—

ललाट-मुख-बिम्बाक्षि-श्रुति-घ्राणेषु गण्डयोः ।

ओष्ठ-दन्तोत्तमाङ्गास्ये दोः-पत्-सन्ध्यग्रकेषु च ॥९२॥

पार्श्वयोः पृष्ठतो नाभौ जठरे हृदये’ंसके ।

ककुद्यसे च हृत्-पूर्वं पाणि-पाद-युगे ततः ।

जठराननयोर् न्यसेन् मातृकार्णान् यथा-क्रमम् ॥९३॥ इति ।

**सनातनः- **तं न्यास-विधिं लिखति—अ-कारादीनिति । केवलान् अनुस्वारादि-हीनान् प्रथमं न्यस्येत् । कं कुत्र न्यस्येद् इत्य् अपेक्षायां लिखति—ललाटेत्यादि-सार्ध-द्वयेन । मातृकाया लिपि-संस्थाया अर्णान् वर्णान् यथा-क्रमं ललाटादिषु न्यस्येदिति द्वाभ्याम् अन्वयः । तत्र चैकपञ्चाशद्-वर्णेषु मध्ये अ-कारादीन् अन्तःस्थ-व-कारान्तान् पञ्च-चत्वारिंशद्-वर्णान् ललाटादिषु वामांसान्तेषु पञ्चचत्वारिंशद्-अवयवेषु न्यस्येत् । तथाहि, ललाटम् एकं मुख-बिम्बं मुख-मण्डलं चैकम्, अक्ष्यादि-दन्तान्तानां प्रत्येकं द्वयम् इत्य् एवं द्वादश । तत्र दन्तानां पङ्क्तोर् द्वित्वेन द्वित्वं ज्ञेयम् । किञ्च, उत्तमाङ्गं मस्तकम् एकम्, आस्यं, मुख-छिद्रम् एकम्, इत्येवं षोडशसु षोडश-स्वरान्; ततः दोष्णोर् भुजयोः सन्धयः प्रत्येकं मूलकूर्प-मणिबन्धाङ्गुलिमूल-भेदेन चत्वारः, एवं द्वयोर् अष्ट; पदोश्च सन्धयः—उरुमूल-जानु-गुल्फाङ्गुलि-मूल-भेदेन प्रत्येकं चत्वार, एवं द्वयोरष्ट; तथा दोष्णोर् अग्र-द्वयं पदोश्चाग्र-द्वयम् इत्य् एवं दोःपत्सम्बन्धि-विंशत्यङ्गेषु व्यञ्जनानां मध्ये क-कारादि-न-कारान्त-विंशति-वर्णान्, ततश्च पार्श्वादिषु दिक्षु नवस्वङ्गेषु प-कारादीन् व-कारान्तान् नव-वर्णान् न्यस्येत् । तत्र पार्श्वयोर् इति तयोर् द्वित्वम् एव अंसस्य दक्षिण-वामतया द्वित्वात् पुनर् उक्तिर् इति । हृत्-पूर्वम् इति अवशिष्टान् श-कारादि-क्ष-कारान्तान् न-षड्-वर्णान् हृदयम् आरभ्य कक्षादि-पाणियुगल-पादयुगल-जठरान् पर्यन्तं व्यापय्य तत्-तत्-स्थान-षट्के न्यस्येद् इत्यर्थः । तत्र प्रयोगः— अं नमः इत्यादिः ॥९१-९३॥

**सानुस्वारान् विसर्गाढ्यान् सानुस्वार-विसर्गकान् ।
न्यसेद् भूयो’पि तान् विद्वान् एवं वार-चतुष्टयम् ॥९४॥
सनातनः- **भूयोऽपीत्यस्य सर्वत्रैवान्वयः । वारचतुष्टयम् इति लिखनात् तान् मातृकार्णान् तथैव भूयोऽपि सानुस्वारान् अनुस्वारेण सहितान् न्यस्येत्; तत्र प्रयोगः— अं नमः इत्यादिः । भूयोऽपि तथैव विसर्गाढ्यान् विसर्जनीय-युक्तान् न्यस्येत्; तत्र प्रयोगः—‘अः नमः’ इत्यादिः । भूयोऽपि तथैव सानुस्वार-विसर्गकान् अनुस्वार-विसर्गाभ्यां युगपदेव सहितान् न्यस्येत्; तत्र प्रयोगः—अं नमः इत्यादिः; एवं लिखित-प्रकारेण केवल-संयुक्त-भेदेन वारचतुष्टयं मातृकावर्णान् न्यस्येद् इत्यर्थः ॥९४॥

**अथ मातृका-न्यासः

कण्ठ-हृन्-नाभि-गुह्येषु पायु-भ्रू-मह्द्ययोस् तथा ।
स्थिते षोडश-पत्राब्जे क्रमेण द्वादश-च्छदे ॥९५॥
सनातनः- **कण्ठादि-षट्षु स्थानेषु क्रमेण स्थिते षोडश-पत्रादि-कमल-षट्के तत्-पञ्चापत्-पत्रेषु एकैकस्मिन् पत्रे बिन्दु-सहितम् एकैकम् अक्षरम् इति पञ्चाशद्-वर्णान् तत्-तत्-पत्रान्ते मनसा न्यस्येद् इत्यर्थः ॥९५॥

दश-पत्रे च षट्-पत्रे चतुष्पत्रे द्विपत्रके ।
न्यसेद् एकैक-पत्रान्ते स-बिन्द्व्-एकैकम् अक्षरम् ॥९६॥

**अथ केशवादि-न्यासः

स्मृत्वा ऋष्य्-आदिकां वर्णान् मूर्तिभिः केशवादिभिः ।
कीर्त्यादिभिः शक्तिभिश् च न्यसेत् तान् पूर्ववत् क्रमात् ॥९७॥
सनातनः- **ऋष्यादिकञ्चोक्तम्—अस्य केशवादि-न्यासस्य प्रजापतिर् ऋषिर् देवी गायत्री च्छन्दो लक्ष्मी-नारायणो देवता हलो बीजानि स्वराः शक्तयः आत्मनोऽच्युतत्वे विनियोगः इति । तान् एक-पञ्चाशन्-मातृका-वर्णान् केशवादिभिर् एकपञ्चाशन्-मूर्तिभिः तावतीभिर् एव कीर्त्यादिभिश् च शक्तिभिः सह पूर्ववत् ललाटादिषु अनुस्वार-सहितान् तथैव न्यस्येद् इत्यर्थः ॥९७॥

**न्यसेच् चतुर्थीन् अत्यन्ता मूर्तीः शक्तीश् च यादिभिः ।
सप्त-धातून् प्राण-जीवौ क्रोधम् अप्य् आत्मने’न्तकान् ॥९८॥
सनातनः- **अत्र मूर्तयः शक्तयश्च कथं न्यास्या इत्यपेक्षायां तत्र प्रकारं लिखन् तत्रैव कञ्चिच् चान्यं विशेषं लिखति—न्यस्येदिति । मूर्तीः शक्तीश्च चतुर्थ्यन्ता नम इत्यन्ताश्च न्यस्येत्; तत्र प्रयोगः—अं केशवाय कीर्त्यै नमः, आं नारायणाय कान्त्यै नमः इत्यादिः । यादिभिर् इति तत्र य-कारादि-दश-वर्णैः सह या मूर्तीः पुरुषोत्तमाद्या दश-शक्तीश् च वसुधाद्यास्ता न्यस्येत् ॥ तत्र त्वङ्-मांस-मेदोऽस्थिमज्जा-शुक्राणीति सप्त-धातून् तथा प्राणं जीवञ्च क्रोधम् अपीत्येवं दश न्यस्येद् इत्यर्थः । कथम् भूतान् त्वगादीन् प्राणादींश् च ? आत्मने इति अन्ते येषां तान्, बहु-व्रीहौ कः । एतच्च सर्वेषाम् एव विशेषणम् अपि-शब्दात् । अत्र प्रयोगः—यं त्वग्-आत्मने पुरुषोत्तमाय वसुधायै नमः इत्यादिः ॥९८॥

**तत्र ध्यानम्

उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदानं
पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् ।
नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं
विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् ॥९९॥
सनातनः- **प्रद्योतनः सूर्यः, विश्व-धात्र्या श्रीधरण्या ॥९९॥

**अथ श्री-मूर्तयः

प्रथमं केशवो नारायणः पश्चाच् च माधवः ।
गोविन्दश् च तथा विष्णुर् मधुसूदन एव च ॥१००॥
त्रिविक्रमो वामनो’थ श्रीधरश् च ततः परम् ।
ऋषीकेशः पद्मनाभस् ततो दामोदरस् तथा ॥१०१॥
वासुदेवः सङ्कर्षणः प्रद्युम्नो’थानिरुद्धकः ।
चक्री गदी तथा शार्ङ्गी खड्गी शङ्खी हली तथा ॥१०२॥
मुषली च तथा शूली पाशी चैवाङ्कुशी तथा ।
मुकुन्दो नन्दजश् चैव तथा नन्दी नरस् तथा ॥१०३॥
नरकजिद् धरिः कृष्णः सत्यः सात्वत एव च ।
ततः शौरिस् तथा शूरस् ततः पश्चाज् जनार्दनः ॥१०४॥
भूधरो विश्वमूर्तिश् च वैकुण्ठः पुरुषोत्तमः ।
बलो बलानुजो बालो वृषघ्नो वृष एव च ॥१०५॥
हंसो वराहो विमलो नृसिंहश् चेति मूर्तयः ॥१०६॥**

**अथ शक्तयः

कीर्तिः कान्तिस् तुष्टि-पुष्टी धृतिः शान्तिः क्रिया दया ।
मेधा हर्षा तथा श्रद्धा लज्जा लक्ष्मीः सरस्वती ॥१०७॥
प्रीती रतिर् जया दुर्गा प्रभा सत्या च चण्डिका ।
वाणी विलासिनी चैव विजया विरजा तथा ॥१०८॥
विश्वा च विनदा चैव सुनन्दा च स्मृतिस् तथा ।
ऋद्धिः समृद्धिः शुद्धिश् च बुद्धिर् मूर्तिर् नतिः क्षमा ॥१०९॥
रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा ।
परायणा च सूक्ष्मा च सन्ध्या प्रज्ञा प्रभा निशा ॥११०॥
अमोघा विद्युतेत्य् एक-पञ्चाशत् शक्तयो मताः ।
ददात्य् अयं केशवादि-न्यासो’त्राखिल-सम्पदम् ॥१११॥
अमुत्राच्युत-सारूप्यं नयति न्यास-मात्रतः ॥११२॥
सनातनः- **अत्र अस्मिन् लोके, अमुत्र परलोके श्री-कृष्ण-सारूप्यं प्रापयति ॥१११-११२॥

तद् उक्तं—

ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो विन्यसेद् दिनम् अनु केशवादि-युक्तैः । मेधायुः-स्मृति-धृति-कीर्ति-कान्ति-लक्ष्मी- सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥११३॥

**सनातनः- **एवम् उद्यत्प्रद्योतन-शत-रुचिम् इत्यादि-प्रकारेण, परम-पुमांसं श्री-भगवन्तं, दिनमनु अनुदिनम् ॥११३॥

अन्यत्र च—

केशवादिर् अयं न्यासो न्यास-मात्रेण देहिनः ।

अच्युतत्वं ददात्य् एव सत्यं सत्यन्न संशयः ॥११४॥ इति ।

**यश् च कुर्याद् इमं न्यासं लक्ष्मी-बीज-पुरःसरम् ।
भक्तिं मुक्तिं च भुक्तिं च कृष्णं च लभते’चिरात् ॥११५॥
सनातनः- **इमं केशवादि-न्यासं लक्ष्मी-बीजं श्री-शब्दस् तत्-पूर्वकं यः कुर्यात्, सोऽचिरात् भक्त्यादिकं लभते ॥११५॥

तथा चोक्तम्—

अमुम् एव रमा-पुरः-सरं

प्रभजेद् यो मनुजो विधिं बुधः ।

समुपेत्य रमां प्रथीयसीं

पुनर् अन्ते हरितां व्रजत्य् असौ ॥११६॥

**सनातनः- **हरितां श्री-कृष्णत्वम् इति तत्-सारूप्य-प्राप्तेः ॥११६॥

**अथ तत्त्व-न्यासः

म-कारादि-क-कारान्त-वर्णैर् युक्तं स-बिन्दुकैः ।
नमः परायेति पूर्वम् आत्मने नम इत्य् अनु ॥११७॥
नाम जीवादि-तत्त्वानां न्यसेत् तत्-तत्-पदे क्रमात् ।
न्यासेनानेन लोको हि भवेत् पूजाधिकारवान् ॥११८॥
सनातनः- **जीवादि-तत्त्वानां नाम जीवेत्यादिकं तत्-तत्-पदे तस्मिन् तस्मिन् लेख्य-स्थाने क्रमात् लिखन् क्रमेण न्यस्येत् । आदि-शब्देन अग्रे लेख्यानि प्राण-महद्-अहङ्कारादीनि तत्त्वानि; कथम् इत्यपेक्षायां तदेव विशिनष्टि—स-बिन्दुकैः अनुस्वार-सहितैस् तैर् म-कारादिभिः क-कारान्तैर् वर्णैर् युक्तम् । म-कारादीनां क-कारान्तता चात्र प्रातिलोम्येन ज्ञेया । किञ्च, नमः परायेति वाक्यं पूर्वं यस्मिन् तत् तथा आत्मने नमः इति अनु पश्चात् यस्मिन् तत्; यद्वा, नमः परायेति नाम्नः पूर्वं न्यस्येत्, आत्मने नमः इति च अनु पश्चात् न्यस्येत्; हि यतः अनेन तत्त्व-न्यासाख्येन न्यासेन पूजायाम् अधिकारी जनो भवति । तथा च क्रम-दीपिकायाम्—इति कृतेऽधिकृतो भवति ध्रुवं सकल-वैष्णव-मन्त्र-जपादिषु इति; तत्र प्रयोगः—मं नमः पराय जीवात्मने नमः, भं नमः पराय प्राणात्मने नमः इत्यादिः । केचिच्च—जीव-तत्त्वात्मने नमः, प्राण-तत्त्वात्मने नमः इत्यादिना तत्त्व-शब्दम् अपि प्रयुञ्जते ॥११७-११८॥

**तत्रादौ सकले न्यसेज् जीव-प्राणौ कलेवरे ।
हृदये मत्य् अहङ्कार-मनांसीति त्रयं ततः ॥११९॥
सनातनः- **तानि तत्त्वान्येव लिखन् तत्त्व-न्यास-स्थानं विविच्य लिखति—तत्रादाव् इति । तस्मिन् तत्त्व-न्यासे सकले कलेवरे सर्व-शरीरे जीवं प्राणञ्चेति तत्त्व-द्वयं न्यस्येत्, ततो हृदये मत्यादि-तत्त्व-त्रयं न्यस्येत्; तत्र प्रयोगः—वं पराय मत्यात्मने नमः इत्यादिः । एवम् अग्रे प्रयोगः सर्वत्रोह्यः ॥११९॥

**शब्दं स्पर्शं ततो रूपं रसं गन्धं च मस्तके ।
मुखे हृदि च गुह्ये च पादयोश् च यथा-क्रमम् ॥१२०॥
सनातनः- **न्यस्येद् इत्य् अनुवर्तत एव, ततः शब्दादि-पञ्चकं मस्तकादि-पञ्चके यथा-क्रमं लिखित-क्रमेण न्यस्येत् ॥१२०॥

**श्रोत्रं त्वचं दृशं जिह्वां घ्राणं स्व-स्व-पदे ततः ।
वाक्-पाणि-पायूपस्थानि स्व-स्व-पदे तथा ॥१२१॥
सनातनः- **ततः श्रोत्रादि-पञ्चकं यथा-क्रमम् एव स्व-स्वपदे निज-निज-स्थाने श्रोत्रादि-पञ्चक एव तत्रैव रागादि-पञ्चकञ्च न्यस्येत् । तत्र च यस्य द्वित्वं तस्य तयोर् द्वयोर् एव न्यासः, एवञ्च श्रोत्रयोर् दृशोः पाण्योः पादयोश् च तत्त्वस्यैकस्यैव न्यासो ज्ञेयः, पश्चाद् अग्रे च पादयोर् इति लिखनात् ॥१२१॥

**आकाश-वायु-तेजांसि जलं पृथ्वीं च मूर्धनि ।
वदने हृदये लिङ्गे पादयोश् च यथा-क्रमम् ॥१२२॥
सनातनः- **आकाशादि-पञ्चकञ्च मूर्धादि-पञ्चके न्यस्येत्, एवं म-कारादि-क-कारान्तानां पञ्चविंशति-वर्णानां न्यासः समाप्तः ॥१२२॥

**हृदि हृत्-पुण्डरीकं च द्विषट्-द्व्यष्टदशादिकम् ।
कला-व्याप्तेति पूर्वं च सूर्य-चन्द्राग्नि-मण्डलम् ।
वर्णैः सह सरेफैश् च क्रमान् न्यसेत् स-बिन्दुकैः ॥१२३॥
सनातनः- **अधुनावशिष्टानां व्यञ्जन-वर्णानां दशानां न्यासं लिखति—हृदीति सार्ध-चतुर्भिः । हृत्-पुण्डरीकम् इत्य् एकं तथा सूर्य-मण्डलं चन्द्र-मण्डलम् अग्नि-मण्डलं चेति त्रयम्; एतच् चतुष्टयं बिन्दु-सहितैः श-कारादि-चतुर्वर्णैः सह क्रमेण हृद्येव न्यस्येत् । कथम्भूतं सूर्यादि-मण्डलम् ? कलाव्याप्तेति-शब्दः पूर्वम् आद्यं यस्मिन् तत्; पुनः कथम्भूतम् ? द्विषट्-द्वादश-द्वयष्ट-षोडश-क्रमेण द्विषट् इत्यादि आदौ यस्य तत्; तथा च क्रम-दीपिकायाम्—बिम्बानि द्विषड्-अष्टयुगशकलाव्याप्तानि सूर्योडुराड् वह्नीनां च, यतस् तु भूत-वसु-मुन्य्-अक्ष्य्-अक्षरैर् मन्त्रवद् इति । अस्यार्थः—सूर्य-चन्द्र-वह्नीनां मण्डलानि क्रमेण द्वादश-षोडश-दश-कलाव्याप्तानि च तत्-तत्-कलाव्याप्तेत्येतान्यपि; यतः य-कारात् यो भूताक्षरं पञ्चम-वर्णः श-कारः, वस्वक्षरम् अष्टमो वर्णः ह-कारः, मुन्यक्षरं सप्तमवर्णः स-कारः, अक्ष्य्-अक्षरं द्वितीय-वर्णो रेफः, एतैः सहेति; तत्र प्रयोगः—शं नमः पराय हृत्-पुण्डरीकात्मने नमः; हं नमः पराय द्वादश-कलाव्याप्त-सूर्य-मण्डलात्मने नमः : सं नमः पराय षोडश-कलाव्याप्त-चन्द्र-मण्डलात्मने नमः; रं नमः पराय दशकलाव्याप्त-वह्नि-मण्डलात्मने नमः इति ॥१२३॥

**वासुदेवं ष-कारेण परमेष्ठि-युतं च के ।
य-कारेण मुखे सङ्कर्षणं न्यसेत् पुमन्वितम् ॥१२४॥
सनातनः- **अधुनावशिष्ट-षड्वर्णैः सह पञ्चोपनिषदादि-न्यासं लिखति—वासुदेवम् इति त्रिभिः । मूर्धन्य-ष-कारेण सह परमेष्ठियुतं परमेष्ठीति सहितं वासुदेवं के मस्तके न्यस्येत्; अत्र प्रयोगः—षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति । पुमन्वितं पुंसा सहितम्; तत्र प्रयोगः—यं नमः पराय सङ्कर्षणाय पुमात्मने नमः इति ॥१२४॥

**हृदि न्यसेल् ल-कारेण प्रद्युम्नं विश्व-संयुतम् ।
अनिरुद्धं निवृत्त्य्-आढ्यं व-कारेण च गुह्यके ।
नारायणं च सर्वाढ्यं ल-कारेणैव पादयोः ॥१२५॥
सनातनः- **ल-कारेण सह प्रद्युम्नं न्यस्येद् इत्यत्र केचिद् रेफेण सह न्यासं मन्यन्ते, तद्-अयुक्तम् एव; यतः पूर्वं वह्नि-मण्डले सह रेफस्य न्यासो वृत्तः, अत्रापि पुनस् तस्यैव न्यासात् तस्य द्वित्वं प्रसज्येत, तच्च न सम्भवेद् एव, वर्ण-समाम्नायेत्यस्यैकत्वात् । अतोऽत्र ल-कारस्यैव न्यासो युक्तः । अग्रे नारायणेन सह तस्य पुनर् न्यासश् चैकपञ्चाशन्मातृकावर्णेषु तस्य द्वित्वाद् युक्त एवेति । अत एव क्रम-दीपिकायाम्—षोपरवलार्णकैः सलवकैर् इति । अस्यार्थः—षेति षकार उपरेति रेफस्य उपसमीपे तिष्ठतीति य-कारो ल-कारश्च तथा व-कारो ल-कारश्च द्वितीयः; एवं पञ्चभिर् वर्णैः सलवकैः सानुस्वारैर् इति । षोयवालवर्णैर् इति पाठस् तु चिन्त्यः, आर्याभेदः स्कन्धक-च्छन्दसि चतुष्कल-भङ्ग-दोषापत्तेः; तथा तत्त्व-न्यासेऽस्मिन् प्रथमतः प्रस्तुतानां पञ्चत्रिंशद्-वयञ्जन-वर्णानां मध्ये यो-इत्यस्य वा-इत्यस्य च कुत्राप्य् अश्रवणात् । अन्ते न्यस्यस्य क्ष-कारस्य च रेफौकार-संयोगः नृसिंह-बीजत्वेन तस्य तादृशत्वादेव; अतः पूर्वं पञ्च-वर्ग्याणां वर्णानां न्यासः, ततः परमन्तःस्थादीनां मध्ये, स-कारादि-चतुर्णामग्रे न्यासः, ततः परमन्तःस्थादीनां मध्ये श-कारादि-चतुर्णामग्रे नृसिंह-बीजमयस्य क्ष-कारस्यास्त्येव । अत्र च पञ्चोपनिषत्सु अवशिष्टानां ष-कारादीनां पञ्चानामेव युक्त इति दिक् । अत्र प्रयोगः—लं नमः पराय प्रद्युम्नाय विश्वात्मने नमः इति ॥१२५॥

**नृसिंहं कोप-संयुक्तं तद्-बीजेनाखिलात्मनि ।
तत्त्व-न्यासो’यम् अचिरात् कृष्ण-सान्निध्य-कारकः ॥१२६॥
सनातनः- **न्यसेद् इत्यनुवर्तत एव, तस्य नृसिंहस्य बीजेन सह अखिलात्मनि सर्वगात्रेषु; अत्र प्रयोगः—क्ष्रौँ नमः पराय नृसिंहाय कोपात्मने नमः इति । एवं तत्त्व-न्यास-फलं लिखति—तत्त्वेति । कृष्ण-सान्निध्यकारकः—कृष्णं सन्निधौ कारयति प्रापयतीत्यर्थः ॥१२६॥

तथा चोक्तम्—

अतत्त्व-व्याप्त्य-रूपस्य तत्-प्राप्तेर् हेतुना पुनः । **तत्त्व-न्यासम् इति प्राहुर् न्यास-तत्त्व-विदो बुधाः ॥१२७॥
सनातनः- **अतत्त्वञ्च तत्, अत एव व्याप्यरूपञ्च तस्य पुनः तत्-प्राप्तेस् तत्त्वावाप्तेर् हेतोः ॥१२७॥ यः कुर्यात् तत्त्व-विन्यासं स पूतो भवति ध्रुवम् । तद्-आत्मनानुप्रविश्य भगवान् इह तिष्ठति । **यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ॥१२८॥
सनातनः- **तदात्मना न्यास-कर्तृ-रूपेण वा इह शरीरे लोके वा ॥१२८॥

**अथ पुनः प्राणायांअ-विशेषः

प्राणायामांस् ततः कुर्यान् मूल-मन्त्रं जपन् क्रमात् ।
वारौ द्वौ चतुरः षट् च रेच-पूरक-कुम्भकः ॥१२९॥
सनातनः- **ततस् तत्त्व-न्यासानन्तरम्; क्रमादपि रेचके द्वौ वारौ, पूरके चतुरो वारान्, कुम्भके षट् वारान् अष्टादशाक्षर-मन्त्रं जपन्नित्यर्थः । रेचक-पूरक-कुम्भक इति द्वन्द्वैक्यम् ॥१२९॥

**अथवा रेचकादींस् तान् कुर्याद् वारांस् तु षोडश ।
द्वात्रिंशच् च चतुःषष्ठिं काम-बीजं जपन् क्रमात् ॥१३०॥
सनातनः- **तत्राशक्तौ प्रकारान्तरं लिखति—अथवेति । काम-बीजं क्रमात् रेचक-पूरक-कुम्भकेषु पूर्ववत् क्रमेण षोडशद्वात्रिंशच्चतुःषष्टिवारान् जपन् तान् रेचक-पूरक-कुम्भकांस् त्रीन् कुर्यात् ॥१३०॥

–ओ)०(ओ–

तथा च क्रम-दीपिकायाम् [१.३९]—

रेचयेन् मारुतं दक्षया दक्षिणः पूरयेद् वामया मध्य-नाड्या पुनः । धारयेद् ईरितं रेचकादि-त्रयं स्यात् कलादन्त-विद्याख्य-मात्राच्युकम् ॥१३१॥
सनातनः-
तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किञ्चिद् विशेषं च दर्शयति—रेचयेद् इति । दक्षया दक्षिण-नाड्या, दक्षिणः विद्वान् जनः । मध्य-नाड्या सुषुम्णया धारयेत् । एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालम् आह—कलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः । मात्रा च—वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः । वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा । तत्राप्य् अङ्गुलि-नियमो’प्य् उक्तः— कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् । प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ इति ।

तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्व् इति भेदः ॥१३१॥

–ओ)०(ओ–

**तत्र कालः सङ्ख्यादिकं च

तत्रैव [१.३६]—**

पुरतो जपस्य परतो’पि विहितम् अथ तत्-त्रयं बुधैः । षोडश य इह समाचरेद् दिनेशः परिपूयते स खलु मासतो’ं हंसः ॥१३२॥
सनातनः
: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितम् एव ॥१३२॥

–ओ)०(ओ–

**अथ पीठ-न्यासः

ततो निज-तनूम् एव पूजा-पीठं प्रकल्पयेत् ।
पीठस्याधार-शक्त्यादीन् न्यसेत् स्वाङ्गेषु तारवत् ॥१३३॥
सनातनः- **तारः प्रणवः, तद्वत् तत्-सहितं यथा स्यात् ॥१३३॥

**आधार-शक्तिं प्रकृतिं कूर्मानन्तौ च तत्र तु ।
पृथिवीं क्षीर-सिन्धुं च श्वेतद्वीपं च भास्वरम् ॥१३४॥
श्री-रत्न-मण्डपं चैव कल्प-वृक्षं तथा हृदि ।
न्यसेत् प्रदक्षिणत्वेन धर्म-ज्ञाने ततो’ंसयोः ॥१३५॥
सनातनः- **तदेव विविच्य लिखति—आधारेत्यादिना क्रमाद् इत्यन्तेन । तत्र तस्मिंस् तु पीठ-न्यासे आधार-शक्त्यादि-कल्प-वृक्ष-पर्यन्तान् नव हृदि न्यस्येत्; भास्वरं प्रकाश-स्वभावं श्री-मन्तं रत्न-मण्डपम्; तथा च क्रम-दीपिकायाम्—न्यस्येद् आधार-शक्ति-प्रकृति-कमठशेषक्षमाक्षीर-सिन्धून् श्वेतद्वीपञ्च रत्नोज्ज्वल-सहित-महा-मण्डपं कल्प-वृक्षम् ॥ इति । अत्र प्रयोगः—ओँ आधार-शक्तये नमः इत्यादिः । प्रणवादि-चतुर्थ्यन्तं देवनाम नमोऽन्तकम् इति प्राग्-लिखनात्, ततस् तद्-अनन्तरं धर्मं ज्ञानं चेति द्वयं प्रदक्षिणत्वेन प्रादक्षिण्य-क्रमेण स्कन्ध-द्वये न्यस्येत् ॥१३४-१३५॥

**ऊर्वोर् वैराग्यम् ऐश्वर्यं तथैवाधर्मम् आनने ।
त्रिके’ज्ञानम् अवैराग्यम् अनैश्वर्यं च पार्श्वयोः ॥१३६॥
सनातनः- **न्यस्येद् इत्य् अग्रेऽप्य् अनुवर्तत एव । तथैव प्रदक्षिणत्वेन वैराग्यम् ऐश्वर्यं चेति द्वयम् ऊरु-द्वये न्यस्येत् । अधर्मं मुखे, त्रिके कट्यामज्ञानम्, अवैराग्यमनैश्वर्यं चेति द्वयं तथैव पार्श्व-द्वये न्यस्येत् । तथा च क्रम-दीपिकायाम्—अंस-द्वयोर् उ-द्वयवदनकटीपार्श्व-युग्मेषु भूयः इति । तथा धर्माद्य्-अधर्मादि च पादगात्रचतुष्टयम् इति । अस्यार्थः—पादगात्रयोश् चतुष्टयम् इति पादचतुष्टयं गात्रचतुष्टयञ्चेति, अंस-द्वयादिषु क्रमेण धर्मादि-रूपं पादचतुष्टयम्, आदि-शब्देन ज्ञान-वैराग्यैश्वर्याणि, तथा अधर्मादि-रूपं च गात्रे चतुष्टयं न्यस्येत् । आदि-शब्देनात्राज्ञानावैराग्यानैश्वर्यं, तत्र च प्रदक्षिण-क्रमेणेति बोद्धव्यम् ।

अंसोरु-युग्मयोर् विद्वान् प्रादक्षिण्येन देशिकः । धर्मं ज्ञानञ्च वैराग्यम् ऐश्वर्यञ्च न्यस्येत् क्रमात् ॥

इति, शारदा-तिलकोक्तेर् इति ॥१३६॥

**हृद्-अब्जे’नन्त-पद्मं च सूर्येन्दु-शिखिनान् तथा ।
मण्डलानि क्रमाद् वर्णैः प्रणवांशैः स-बिन्दुकैः ॥१३७॥
सत्त्व रजस् तमश् चात्मान्तरात्मानौ च तत्र हि ।
परमात्मानम् अप्य् आत्माद्य्-आद्य-वर्णैः स-बिन्दुकैः ॥१३८॥
सनातनः- **बिन्दु-सहितैः प्रणवांशैः अ-कारोकार-म-कारैः सह क्रमेण सूर्येन्दु-वह्नीनां मण्डलानि च हृदब्जे एव न्यस्येत्; प्रयोगः—ओँ अं सूर्य-मण्डलाय नमः इत्यादिः । सत्त्वादि-पञ्चकं च बिन्दु-सहितैः आत्माद्यैः स्व-स्व-प्रथमैः वर्णैः सह तत्र हृदब्ज एव न्यस्येत्; प्रयोगः—ओँ सं सत्त्वाय नमः इत्यादिः ॥१३७-१३८॥

ज्ञानात्मानं च भुवनेश्वरी-बीजेन संयुतम् ।
तस्याष्ट-दिक्षु मध्ये’पि नव-शक्तीश् च दिक्-क्रमात् ॥१३९॥

ताश् चोक्ताः—

विमलोत्कर्षिणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानानुग्रहा नवम् स्मृता ॥१४०॥ इति ।

**न्यसेत् तद्-उपरिष्ठाच् च पीठ-मन्त्रं यथोदितम् ।
ऋष्य्-आदिकं स्मरेद् अस्याष्टादशार्ण-मनोस् ततः ॥१४१॥
सनातनः- **भुवनेश्वरी-बीजं ह्रीं तत्-सहितं ज्ञानात्मानञ्च हृदब्ज एव न्यस्येत्, च-कारस्योक्त-समुच्चयार्थत्वात्; तस्य हृदब्जस्य अष्टसु दिक्षु अष्ट-दलेषु केशर-मध्ये दिक् क्रमात् पूर्वादि-क्रमेण विमलाद्याः शक्तीर् अष्ट न्यस्येत्, तन्-मध्ये कर्णिकारायाम् अनुग्रहां नवमीं शक्तिं न्यस्येद् इत्यर्थः, यथोदितं क्रम-दीपिकादि-शास्त्रोक्तानुसारेणेत्य् अग्रे लिखनात् ॥१३९-१४१॥

**ज्ञेयाश् चैकान्तिभिः क्षीर-समुद्रादि-चतुष्टयम् ।
क्रमाच् छ्री-मथुरा-वृन्दावनं तत्-कुञ्ज-नीपकाः ॥१४२॥
सनातनः- **ननु आधार-शक्त्यादि-पञ्चकं श्री-मथुराया अप्याश्रय-भूतमिति तत्-तन्न्यास एकान्तिनां मतेनापि न विरुद्धः स्यात्; किन्तु आर्यावर्तान्तर्वर्तिनां श्री-गोपालदेवस्य निरन्तर-प्रेम-विहारर-समयीं श्री-मथुरावृन्दावनादि-व्रज-भूमिं विहाय कथं तैः क्षीर-सिन्ध्वादि-न्यासः कार्यः ? तत्र लिखति—ज्ञेयाश्चेति । क्रमादिति—क्षीर-सिन्धुः श्री-मथुरेति, श्वेतद्वीपः श्री-वृन्दावनम् इति, रत्न-मण्डपस् तस्य श्री-वृन्दावनस्य श्रीकुञ्जलता-मण्डप इति, कल्प-वृक्षश्च श्री-वृन्दावन-वर्ति-श्रीनीपवृक्ष इति ज्ञेय इत्यर्थः । गो-समृद्धं श्रिया जुष्टमाभीरप्रायमानुषम् इत्यादि श्री-हरिवंशाद्य्-उक्त्या श्री-मथुराया गो-प्रधान-देशतया क्षीरमयत्वात् क्षीर-समुद्रत्वं, श्री-वृन्दावनस्य च तत्रत्य-व्रज-भूमि-प्रधान-स्थानस्य विशेषतः क्षीरस्रावकृत-धावल्यादिना श्वेतद्वीपत्वादित्यग्रे ब्रह्म-संहिता-वचनतोऽभिव्यक्तं भावि । रत्न-मण्डप-कल्पद्रुमौ च’भूमिश् चिन्तामणिगणमयी इति ब्रह्म-संहिता-स्तोत्रोक्तेः (५.६७); ततः प्रभृति नन्दस्य व्रजः सर्व-समृद्धिमान्’हरेर् निवासात्मगुणै रमाक्रीडमभून्नृप’ इत्यादि श्री-दशम-स्कन्धाद्य्-उक्तेश्च (५.१८) श्री-वृन्दावनान्तर्घटत एव । तेन यद्यपि तयोर् एकान्तिमतेनापि न विरोधः स्यात्, तथापि सदा वनवन्य-जनप्रियाय भगवते श्री-गोपाल-देवाय श्री-वृन्दावन-निकुञ्ज-कदम्बादि-वनिकाविहार एव नितरां रोचते । अतः श्री-भागवतादिषु तादृश एव श्रूयते; अत एकान्तिभ्योऽपि स एव प्ररोचत इत्येवं रत्न-मण्डप-कल्पद्रुमौ श्री-वृन्दावन-निकुञ्जनीपौ ज्ञेयाविति लिखितम् । किञ्च—तत्रत्य-लतादि-पुष्पाणां विचित्र-वर्ण-गुणत्वेन रत्न-सादृश्यात् पुष्पमयं कुञ्जं रत्न-मण्डप एव, तथा तत्रत्य-कदम्बादि-पादपाश्च सर्वाभीष्ट-पूरणात् कल्पद्रुमा एव । तथा च दशम-स्कन्धे (२२.३३)—

अहो एषां वरं जन्म सर्व-प्राण्य्-उपजीविनाम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ इत्यादि ।

यद्यपि चम्पकादयोऽपि बहवो वृक्षा वृन्दावने विराजन्ते, तथा च तत्रैव श्री-गोपीनां श्री-भगवद्-अन्वेषणे (श्री।भा। १०.३०.६)—क्वचित् कुरुवकाशोक-नाग-पुन्नाग-चम्पकाः इत्यादि, तथापि—कदम्ब-पादपप्रायम् इति श्री-हरिवंशोक्तेः, विशेषतो भगवत्-प्रियत्वेन; अत एव—कदम्ब-पादपच्छाये स्थितं वृन्दावने क्वचित् इति गौतमीय-तन्त्रोक्तेश्चात्र नीपो लिखितः । अथ धर्मादीनां श्री-भगवद्-आसन-पादैकाश्रयत्वात् अधर्मादीनाम् अपि भगवतो भक्त-वर्गस्य वा कस्यचिद् भक्त-वात्सल्येन कदाचित् धर्मातिक्रमणादि-लक्षणानां तद्-एकाश्रयत्वात्, अधर्मादीनाम् अपि भगवतो भक्त-वर्गस्य न्यासो नैकान्तिकां मतेऽपि विरुद्धः स्यात् । हृदब्जे न्यास्योऽनन्तः श्री-बलदेवः; सूर्यादि-मण्डल-रूपञ्च सर्वतः प्रसृमरमशीतानुष्णं, मनोनयनाह्लादकपरस्परमिलितसूर्यचन्द्रादि-तेज इव सहजं श्री-भगवत्-तेज एव, सत्त्वादीनाञ्च निज-भक्ताद्यर्थं स्वीकृतानां, तथा आत्मादीनाञ्च तद्-अंशत्वादिना स्वत एव सेवकादि-रूपाणां तद्-एकाश्रयतापि नैव विरुध्यते । तान्त्रिकैस् तु केवलं विचित्र-तत्-तत्-फलाभिसन्धि-सकामतान्त्रिक-भक्तेषु श्री-भगवद्-ऐश्वर्य-विशेष-प्रदर्शनेन श्रद्धातिशयोत्पादनाय क्षीर-सिन्ध्वादि-न्यासो विहितः, न तु साक्षात् श्री-मथुरादीनाम् अनिर्देशादिकं कृतम्; इत्य् अलम् अतिविस्तरेण ॥१४२॥

**ततो पीठ-न्यासः

तथा च ब्रह्म-संहितायाम् आदि-पुरुष-रहस्य-स्तोत्रे [५.५६]—**

स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं **विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥१४३॥
सनातनः- **क्षीर-सिन्धुः श्री-मथुरा, श्वेतद्वीपश्च श्री-वृन्दावनम् इति श्री-ब्रह्म-संहिता-वचनेन साधयति—स यत्र इति । तं श्वेतद्वीपं भजे आश्रये, यं श्वेतद्वीपं गोलोकं वैकुण्ठलोकोपरि स्थितं गवां लोकमिति विदन्तः ते अनिर्वचनीयाः कतिपये अल्प एव भवन्ति, न तु बहवः; अतः क्षिति-विरलचाराः परम-दुर्लभा इत्यर्थः; यद्वा, परम-गोप्यप्रकाश-शङ्कया प्रेम-विशेषोदयापादित-सर्वसङ्ग-परित्यागेन वा लोकेषु निभृतं चरन्तीत्यर्थः । ननु शाकद्वीपे क्षीर-सिन्धौ वर्तमानं प्रपञ्चान्तर्गतं प्रसिद्धं श्वेतद्वीपं नित्य-परमानन्द-रसात्मकानन्त-क्षीरसागराकीर्ण-प्रपञ्चातीतगोलोकम् इति कथं ते ज्ञातुम् अर्हन्ति ? परस्पर-विरोधेनैक्यासम्भवात् । सत्यं, सोऽपि तादृश एवेति विशेषेण-द्वयेन साधयति । सः अनिर्वचनीय इत्यप्राकृतत्वं परमानन्द-रसमयत्वादिकञ्च सूचितम्; सुरभीभ्यः कामधेनुभ्यः, प्रसरतीति वर्तमान-निर्देशादिना नित्यत्वञ्च दर्शितम् । किञ्च, सुमहान् वत्सरावृत्त्या परार्धाख्यो वा निमेषार्धाख्योऽत्यन्तसूक्ष्मो वा समयः कालोऽपि न यत्र व्रजति, यत्रत्यान्न प्राप्नोतीत्यर्थः; श्री-मथुरायाश्च तादृशत्वात् श्री-मथुरैव श्री-गोलोक इति श्री-भागवतामृतोत्तर-खण्डे गोलोक-माहात्म्ये विस्तरेणोक्तम् एवास्ति । एवं गोलोकस्य श्वेतद्वीपेन सहाभेदात् क्षीरसिन्धु-श्वेतद्वीप-न्यासोऽपि न विरुद्ध इति भावः; यद्वा, गवां लोको निवास-स्थानं गोकुलमिति प्रसिद्धा श्री-वृन्दावनादि-श्री-नन्द-व्रजभूमिः । यं गोलोकं श्वेतद्वीपमिति विदन्तः, तं गोलोकं भजे इत्यन्वयः । एवं श्री-गोलोकस्य माहात्म्य-विशेष-सम्पत्त्या दुरान्वयोऽपि सोढव्यः । ननु श्वेतद्वीपे क्षीर-समुद्रो नित्यं वर्तते, भगवद्-एकनिष्ठानां श्वेतमहापुरुषाणां निवासेन कालभयञ्च नास्तीत्याशङ्कय गोलोकस्याप्यस्य तादृशत्वं विशेषणाभ्याम् आह—यत्र यस्मिन् गोलोके स इत्यनेन सुरभीभ्यः सरतीत्यादिना च श्वेतद्वीपतोऽप्यस्य विशेष उक्तः । अन्यत् समानम् । एवं श्री-वृन्दावनादि-व्रजभूमेर् मथूरान्तर्गतत्वेन श्री-मथुरा क्षीरसिन्धुस् तद्-व्रज-भूमि-प्रधानञ्च श्री-गोवर्धनादि-व्यापि वृन्दावनं श्वेतद्वीप इति सिद्धम् । यद्वा, आर्यावर्तान्तर्वर्ति श्री-वृन्दावनम् एवेदं श्वेतद्वीपः, तञ्च परमोर्ध्वतर-गोलोकम् इति विदन्त इति यथा-क्रमम् एवान्वयः । वृन्दावनस्य श्वेतद्वीपत्वे हेतुः—स यत्रेति, अन्यत् पूर्ववदेव । एवं सन्ततानन्त-श्रीनन्द-गोपराज व्रज-कामधेनु-यूथ-निवासतोऽनुक्षण-क्षीरधारा-परिक्षरणेन धवलितत्वात्-श्री-कालिन्दीवेष्टितत्वेन मण्डलाकारतया द्वीपवद्-दृश्यमानत्वाच्च, तथा सर्वथा विशुद्धानां लोकानां श्रीनन्दादीनाम् आश्रयत्वाच्च तथा तद्-देशाधिकारिणः श्वेतवर्णस्य निवासत्वादपि श्रीवृन्दावनम् एव श्वेतद्वीप इति युक्तमेव; अन्यथा शाकद्वीपे नित्यं क्षीर-समुद्र-सिद्धेः श्वेतद्वीपे सुरभीभ्यः सरतीत्युक्तेर् अघटनादिति दिक् । तस्य गोलोकत्वेन वेदनेऽप्येष एव हेतुर् उन्नेयः, गोलोकस्यापि तस्य तथाभूतत्वात् । एवं प्रपञ्चान्तर्वर्ति श्री-मथुरा-मण्डलस्थ-श्वेतद्वीपाख्य-श्रीवृन्दावनम् इदं प्रपञ्चातीत-वैकुण्ठोपरिस्थित-गोलोकम् इति ये विदन्ति, ते क्षिति-विरलचारा इति पूर्ववद् एवार्थः । एवं श्री-वृन्दावनं श्वेतद्वीप एव, तत्-प्रधानक-व्रजभूमिमयत्वात् श्री-मथुरा क्षीर-सिन्धुर् इति सिद्धम् ॥१४३॥

क्रम-दीपिकायां [१.४४-४५]—

एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा । ङे’न्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं ॥१४४॥ योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते । पीठ-महा-मनुर् व्यक्तः पर्याप्तो’यं सपर्यासु ॥१४५॥
सनातनः-
तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश् च भगवान् इति विष्णुर् इति च । सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङे’न्ताश् चतुर्थ्य्-अन्ताः । ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् । ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति । तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा । तद्-अन्ते च नतिः नमः-शब्दः । एवं ओं नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् । तथा च शारदा-तिलके—

नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् ।

सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ॥

सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः ।

पीठात्मने हृद्-अन्तो’यं मन्त्रस् तारादिर् ईरितः ॥ इति ।

सनत्-कुमार-कल्पे च—

ओं नमः पदम् आभाष्य तथा भगवते-पदम् । वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥ संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् । वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः ॥ इति ॥१४४-५॥

–ओ)०(ओ–

**अथ ऋष्य्-आदि-स्मरणम्

ओं अष्टादशाक्षर-मन्त्रस्य श्री-नारद ऋषिर् गायत्री-च्छन्दः, सकल-लोक-मङ्गलो नन्द-तनयो देवता, ह्रीं बीजं, स्वाहा शक्तिः, कृष्णः प्रकृतिर्, दुर्गाधिष्ठात्री देवता, अभिमतार्थे विनियोगः ॥१४६॥**

तथा च सम्मोहन-तन्त्रे शिवोमा-संवादे—

ऋषिर् नारद इत्य् उक्तो गायत्री-च्छन्द उच्यते । गोप-वेश-धरः कृष्णो देवता परिकीर्तितः ॥१४७॥ बीजं मन्मथ-सञ्ज्ञं तु प्रिया शक्तिर् हविर् भुजः । त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता । चतुर्वर्ग-फलावाप्त्यै विनियोगः प्रकीर्तितः ॥१४८॥

**अथाङ्ग-न्यासः

चतुश् चतुर्भिर् वर्णैश् च चत्वार्य् अङ्गानि कल्पयेत् ।
द्वाभ्याम् अस्त्राख्यम् अङ्गं च तस्येत्य् अङ्गानि पञ्च वै ॥१४९॥
सनातनः- **द्वाभ्याम् अन्त्याभ्यां वर्णाभ्याम्, अस्त्राख्यं पञ्चममङ्गं कल्पयेत्, इति अनेन प्रकारेण तस्यष्टादशाक्षर-मन्त्रस्य पञ्चाङ्गानि भवन्ति, वै प्रसिद्धौ ॥१४९॥

**न्यस्येच् च व्यापकत्वेन तान्य् अङ्गानि कर-द्वये ।
तान्य् अङ्गुलीषु पञ्चाथ केचिद् वर्णान् स्वरान् अपि ॥१५०॥
सनातनः- **व्यापकत्वेनेति—करयोरन्तर्बहिःपाश्र्वे च व्यापय्य तानि पञ्चाङ्गानि सर्वमेव मन्त्रम् इत्यर्थः । कर-द्वये न्यस्येत्, अत्र प्रणव-सम्पुटितम् इति केचिद् आहुः । अथानन्तरं तानि पञ्चाङ्गानि क्रमेण करद्वयस्याङ्गुष्ठाङ्गुलीषु न्यस्येत्, केचिच्च तैः पञ्चाङ्गैः सह करद्वयाङ्गुलीष्वेव महावाणपञ्चकस्यानङ्गपञ्चकस्य च न्यासम् इच्छन्तीति लिखति —केचिदिति । अपि-शब्दस्यात्र समुच्चयार्थत्वात् तानि पञ्चाङ्गानि पञ्चवाणान् पञ्च स्मरांश्चानङ्गान् तास्वेवाङ्गुलीषु युगपन् न्यस्यन्तीत्यर्थः । अत्र च बीज-पूर्वकं न्यस्यन्ति, तत्रापि वाणेषु वाण-शब्दं बीजत्वेनाद्याक्षरञ्च तथाऽनङ्गेषु च शोषणानङ्गमोहन-मदनादि-शब्दं प्रयुञ्जते ॥१५०॥

ते चोक्ताः—

द्रावण-क्षोभणाकर्ष-वशीकृत्-स्रावणास् तथा । शोषणो मोहनः सन्दीपनस् तापन-मादनौ ॥१५१॥ इति ।

**सनातनः- **द्रावणादयः पञ्चवाणाः; अत्र आकर्षः आकर्षणः, वशीकृत् वशीकरणः, शोषणादयः पञ्च स्मराः । प्रयोगः—क्लीं कृष्णाय, ह्रीं द्रां द्रावणवाणाय नमः, क्लीं शोषणानङ्गाय नमः, क्लीं गोविन्दाय, ह्रीं क्षौं क्षोभणवाणाय नमः, ह्रीं मोहन-मदनाय नमः; ह्रीं गोपीजनाय, ह्रीं आं आकर्षणवाणाय नमः; क्लीं सन्दीपन-मदनातुराय नमः; ह्रीं वल्लभाय, ह्रीं वं वंशीकर-वाणाय, ह्रीं तापनरत्यनङ्गाय नमः । ह्रीं स्वाहा, ह्रीं स्रां स्रावणवाणाय नमः; ह्रीं मादन-मकरध्वजाय नमः; एषु च मध्ये नमः-शब्दं केचिन्न प्रयुञ्जते । अत्र स्व-सम्प्रदाय-व्यवहार एवानुसर्तव्य इति पूर्वं लिखितमेव, तच्चान्यात्राप्यूह्यम् । केचिदिति क्रमदीपिकायाम्—अथानुयुगरन्ध्रार्णस्याहम्मनोर्न्यासनं ध्रुवे । रचयतु करद्वन्द्वे पञ्चाङ्गमङ्गुलिपञ्चके, तनुमनु मनुं व्याप्याथो त्रिशः प्रणवं सकृत् । मनुजनि पयोऽन्यस्या भूयः पदानि च सादरम्, इत्युक्तेर्महावाणानङ्गादिन्यासप्रतिपादनात्; एवमग्रेऽपि ज्ञेयम् ॥१५१॥

किं च—

**नमो’न्तं हृदयं चाङ्गैः शिरः स्वाहान्वितं शिखाम् ।
वषड्-युतं च कवचं हुं-युग्-अस्त्रं च फड्-युतम् ॥१५२॥
सनातनः- **अन्यदपि परमतमेव लिखति—नमोऽन्तमिति त्रिभिः । अङ्गैस्तै रेव पञ्चभिः सह नमःशब्दान्त-हृदयादिपञ्चकं न्यस्यन्ति । प्रयोगः—क्लीं कृष्णाय हदयाय नमः, गोविन्दाय शिरसे स्वाहा, गोपीजनाय शिखायै वषट्, वल्लभाय कवचाय हुं, स्वाहा अस्त्राय फडिति । अत्र च हृदयादीनां हृदयादिस्थानेष्वेव न्यासः, कवचस्य सर्व्वगात्रेषु, अस्त्रस्य च चतुर्द्दिक्षु ज्ञेयः ॥१५२॥

**न्यस्यन्ति पुनर् अङ्गुष्ठौ तर्जन्यौ मध्यमे तथा ।
अनामिके कनिष्ठे च क्रमाद् अङ्गैश् च पञ्चभिः ॥१५३॥
सनातनः- **पुनः पञ्चभिरङ्गैस्तैः सह अङ् गुष्ठद्वयादिपञ्चकं क्रमान्न्यस्यन्ति; प्रयोगः —क्लीं कृष्णाय अङ् गुष्ठाभ्यां नमः इत्यादिः । एषाञ्च तत्तदङ् गुलीष्वेव न्यासो ज्ञेयः ॥१५३॥

**पुनश् च हृदयादीनि तथाङ्गुष्ठादिकानि च ।
न्यस्यन्ति युगपत् सर्वाण्य् अङ्गैस् तैः पञ्चभिः क्रमात् ॥१५४॥
सनातनः- **पुनश्व तैरेव पञ्चभिरङ्गौः सह तानि हृदयादीनि च अङ् गुष्ठादीनि सर्व्वाण्येव युगपत् एकदैव न्यस्यन्ति; प्रयोगः—क्लीं कृष्णाय हृदयाय नमः, अङ् गुष्ठाभ्यां नमः इत्यादिः; एतेषाञ्च कराङ् गुलिष्वेव न्यासः ॥१५४॥

**न्यस्यन्ति च षड्-अङ्गानि हृदयादीनि तन्-मनोः ।
हृदयादिषु चैतेषां पञ्चैकं दिक्षु च क्रमात् ॥१५५॥
सनातनः- **एवं पञ्चाङ्गन्यासं संलिख्य षडङ्गन्यासं परमतमेव लिखति—न्यस्यन्ति चेति । तेषां न्यासस्थानं दर्शयतिहृदयेति । एतेषां षड्-अङ्गानां पञ्चङ्गानि हृदय-शिरः-शिखा-कवच-नेत्राख्यानि क्रमेण हृदयादिषु निज-हृदय-शिरः शिखाकवच-नेत्रेष्वेव न्यस्यन्ति । अत्र च कवचस्य पूर्ववत् सर्वाङ्गे न्यासो ज्ञेयः; एवम् अन्त्यमङ्गमस्त्राख्यञ्च सर्वदिक्षु न्यस्यन्ति ॥१५५॥

षड्-अङ्गानि चोक्तानि सम्मोहन-तन्त्रे सनत्-कुमार-कल्पे—

वर्र्णेनैकेन हृदयं तिर्भिर् एव शिरो मतम् । चतुर्भिश् च शिखा प्रोक्ता तथैव कवचं मतम् । नेत्रं तथा चतुर्वर्णैर् अस्त्रं द्वाभ्यां तथा मतम् ॥१५६॥ इति ।

**सनातनः- **तथैवेति चतुर्भिर् इत्यर्थः ॥१५६॥

**ततश् चापादम् आकेशान् न्यसेद् दोर्भ्याम् इमं मनुम् ।
वारांस् त्रीन् व्यापकत्वेन न्यसेच् च प्रणवं सकृत् ॥१५७॥
सनातनः- **एवमङ्गन्यासं लिखित्वा अधुना मन्त्राक्षर-न्यासं लिखिष्यन् तनुमनु मनुं व्यापय्येति क्रम-दीपिकोक्तानुसारेण मन्त्रस्य व्यापकन्यासमादौ लिखति—ततश्चेति । केशमारभ्य पादपर्यन्तं व्यापकत्वेन इमम् अष्टादशाक्षरं मूल-मन्त्रं दोभ्र्यां कृत्वा वारत्रयं न्यस्येत्, प्रणवञ्च सकृद्वारम् एकं तथैव न्यस्येत् ॥१५७॥

**अथाक्षर-न्यासः

ततो’ष्टादश-वर्णांश् च मन्त्रस्यास्य यथा-क्रमम् ।
दन्ते ललाटे भ्रू-मध्ये कर्णयोर् नेत्रयोर् द्वयोः ॥१५८॥
नासयोर् वदने कण्ठे हृदि नाभौ कटि-द्वये ।
गुह्ये जानु-द्वये चैकं न्यसेद् एकं च पादयोः ॥१५९॥
सनातनः- **द्वयोर् इत्यनेन कर्णादि-त्रये प्रत्येकं द्वौ वर्णौ, तथा कटि-द्वयेऽपि द्वाव् एव, अग्रे जानु-द्वयादाव् एकम् इति लिखनात् ॥१५८-१५९॥

**सन्तो न्यस्यन्ति तारादि-नमो’नन्तांस् तान् स-बिन्दुकान् ।
श्री-शक्ति-काम-बीजैश् च सृष्ट्य्-आदि-क्रमतो’परे ॥१६०॥
सनातनः- **तेषामेव न्यास-प्रकारं सत्-सम्प्रदायानुसारेण लिखति—सन्त इति । तान् अष्टादश-वर्णान् बिन्दु-सहितानेव न्यस्यन्ति, तथा तारः प्रणव आदौ येषां, नम इति अन्ते येषां, तांश् च तान्; प्रयोगः—ओँ क्लीं नमः, कं नमः इत्यादिः । अपरे कचिच्च तानेव लक्ष्मी-शक्ति-कामानां बीजैः सह, तथा च-कारस्योक्त-समुच्चयार्थत्वात् पूर्ववत् तारनमोबिन्दु-सहितानेव च, तत्र च सृष्टि-स्थिति-संहृति-क्रमेणैव न्यस्यन्ति; तत्र सृष्टिर् मस्तकादि-क्रमेणैव, स्थितिश्च हृदयादि-कण्ठान्ता, संहृतिश्च सृष्टि-विपर्ययेण पादादिका; एवं न्यासानां नाना-प्रकारताभिप्रायेणैव पूर्वं लिखितं यथा-सम्प्रदायं न्यासान् कुर्यादिति ॥१६०॥

**अथ पद-न्यासः

तारं शिरसि विन्यस्य पञ्च मन्त्र-पदानि च ।
न्यसेन् नेत्र-द्वये वक्त्रे हृद्-गुह्याङ्घ्रिषु च क्रमात् ॥१६१॥
देहे च व्यापकत्वेन न्यसेत् तान्य् अखिले पुनः ।
केचित् तानि नमो’न्तानि न्यस्यन्त्य् आद्याक्षरैः सह ॥१६२॥
सनातनः- **आदौ तारं प्रणवं स्व-शिरसि विन्यस्य पश्चान् मन्त्रस्य पद-पञ्चकं क्रमान् नेत्र-द्वयाद्य्-अङ्गपञ्चके न्यस्येत्; पुनश्च तानि पञ्चपदानि अखिले देहे व्यापकत्वेन सर्वगात्रं व्यापय्य न्यस्येत् । तत्रैव मतान्तरं लिखति—केचिदिति । तानि पञ्च पदानि आद्याक्षरैः तत्-तत्-पद-प्रथमाक्षरैः सह; प्रयोगः—क्लीं क्लीं नमः, क्लीं कृष्णाय नमः, गों गोविन्दाय नमः, गों गोपीजन-वल्लभाय नमः, स्वां स्वाहा नमः इति ॥१६१-१६२॥

**स्वाहान्तानि तथा त्रीणि सम्मिश्राण्य् उत्तरोत्तरैः ।
गुह्याद् गलान् मस्तकाच् च व्यापय्य चरणावधि ॥१६३॥
सनातनः- **तथेति समुच्चये । पूर्ववद् आदौ तारं शिरसि विन्यस्य पश्चात् त्रीणि मन्त्र-पदानि क्रमेण गुह्यादि-स्थान-त्रयम् आरभ्य पाद-पर्यन्तं केचिन् न्यस्यन्ति; उत्तरोत्तर-सम्मिश्राणीति—पूर्व-पूर्व-पदेन उत्तरोत्तर-पदं संयोज्येत्यर्थः; प्रयोगः—क्लीं कृष्णाय स्वाहा, क्लीं कृष्णाय गोविन्दाय स्वाहा, क्लीं कृष्णाय गोविन्दाय गोपीजन-वल्लभाय स्वाहा इति ॥१६३॥

**न्यासो’त्र ज्ञान-निष्ठानां गुह्यादि-विषयस् तु यः ।
स्व-स्व-वर्ण-तनोः कार्यस् तत्-तद्-वर्णेषु वैष्णवैः ॥१६४॥
सनातनः- **ननु पूर्व केशवादि-न्यासे मुकुन्दादीनां पाद-मूलादौ, तत्त्व-न्यासे चानिरुद्धस्य गुह्य, वर्ण-पद-न्यासेऽप्य् अत्र केषाञ्चिद् वर्ण-पदानां गुह्यादौ न्यासो वृत्तः; श्री-कृष्ण-चरणाब्ज-भक्ति-निष्ठश्च साधुभिस् तत्र तत्र तेन तेन प्रकारेण कथं न्यासः कार्यः ? अस्थानेषु तत्-तन्-न्यासेन महा-दोष-शङ्कापत्तेः । तत्र लिखति—न्यास इति; अत्र न्यास प्रकरणे एषु लिखितेषु न्यासेषु मध्ये इति वा; ज्ञान-निष्ठानाम् इति ज्ञान-परैर् विधीयमान इत्यर्थः; तेषाम् अद्वैत-ज्ञानतो भेदाभावेन तत्र तत्र तत्-तन्-न्यासे दोष-शङ्कापि नोत्पद्यत इति भावः । स गुह्यादि-विषयो न्यासः; वैष्णवैः श्री-भगवद्-भक्ति-परैस् तु स्व-स्व-वर्णतनोः भूत-शुद्ध्या निज-पूर्व-शरीरं दग्ध्वा वर्णमयामृत-वृष्ट्या समुत्पादितस्य मातृकार्णमयस्य शरीरस्य तत्-तद्-वर्णेषु मातृकान्यास-व्यवस्थया गुह्य-पदादि-न्यासेषु तत्-तद्-अङ्गरूपेष्व् अक्षरेष्वेव कार्य इत्यर्थः; एवञ्च भावनया तत्-तद्-वर्णेष्वेव न्यासान्न कापि दोष-शङ्का, तथा तेषामेव वर्णानां निजाङ्गतया स्वस्मिन्नेव न्यासोऽपि सिद्ध इति सर्वम् अनवद्यम् इति दिक् ॥१६४॥

**अथ ऋष्य्-आदि-न्यासः

ऋष्य्-आदीन् सप्त-भागांश् च न्यसेद् अस्य मनोः क्रमात् ।
मूर्धास्य-हृत्सु कुचयोः पुनर् हृदि पुनर् हृदि ॥१६५॥
सनातनः- **ऋष्यादीनां मूर्धातित्रये त्रीन्, स्तन-द्वये द्वौ, हृदये पुनर् हृदय एव द्वाव् इत्य् एवं स्थान-सप्तके क्रमेण एतद् अष्टादशाक्षर-मन्त्रस्य ऋष्यादि-भाग-सप्तकं न्यस्येद् इत्यर्थः । अत्र च प्रणवादि-चतुर्थ्यन्तमित्यादि-पूर्वलिखितानुसारेण सर्वत्र चतुर्थीनमोऽन्तता ज्ञेया; प्रयोगः—अष्टादशाक्षर-श्री-गोपाल-मन्त्रस्य नारदाय ऋषये नमः, गायत्र्यै छन्दसे नमः, सकल-लोक-मङ्गल-श्रीमन्-नन्द-तनयाय देवतायै नमः इत्यादिः ॥१६५॥

**अथ मुद्रा-पञ्चकम्

वेण्व्-आख्यां वन-मालाख्यां मुद्रां सन्दर्शयेत् ततः ।
श्री-वत्साख्यां कौस्तुभाख्यां ब्लिवाख्यां च मनोरमाम् ॥१६६॥
सनातनः- **वेण्वादि-मुद्रालक्षणम् अग्रे मुद्रासमुच्चय-प्रसङ्गे लेख्यम् । मनोरमाम् इति—यद्यपि बह्व्यो मुद्राः सन्ति, तथापि वेण्वादि-पञ्चकम् इदं भगवत्-प्रियतमत्वाद् आदौ दर्शयितव्यम् इति भावः ॥१६६॥

**इत्थं नय्स्त-शरीरः सन् कृत्वा दिग्-बन्धनं पुनः ।
कर-कच्छपिकां कृत्वा धायेच् छ्री-नन्द-नन्दनम् ॥१६७॥
सनातनः- **दिग्-बन्धने मन्त्रश्चायम्—ओँ नमः सुदर्शनाय अस्त्राय फट् इति; तथा च क्रम-दीपिकायाम्—प्रणव-हृदोर् अवसाने स-चतुर्थि-सुदर्शनं तथास्त्र-पदम् उक्त्वा षड्-अन्तममुना कलयेन्मनुनास्त्र-मुद्रया दश हरितः इति । अस्यार्थः—प्रणवः ओँ-कारः, हृत् नमः, एतयोर् अन्ते चतुर्थी-विभक्ति-सहितं सुदर्शनम् इति पदं तथा चतुर्थ्यन्तम् एवात्रपदम्; कीदृशम् ? फडिति शब्दान्तम्; अनेन मन्त्रेण अस्त्र-मुद्रया दश-दिग्-बन्धनं कुर्याद् इति । करकच्छपिकामुद्रालक्षणञ्च भूत-शुद्धौ पूर्वं लिखितम् एवास्ति; स्वाङ्के कर-द्वयमुत्तानं विन्यस्येत्यर्थः, हस्ताव् उत्सङ्ग-माधाय इति श्री-सूतोक्तेः ॥१६७॥

अथ श्री-नन्दन्दन-भगवद्-ध्यान-विधिः

[Kरम-दीपिका ३.१-३६]

अथ प्रकट-सौरभोद्गलित-माध्विकोत्फुल्ल-सत्-
प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।
प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः
स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥१६८॥

अथानन्तरं सित-मतिः शुद्ध-मनाः सन् वृन्दावनं चिन्तयेत् । कीदृशं ? द्रुमैः शिशिरितं शीतली-कृतम् । कीदृशैः ? प्रकटम् उद्भटं सौरभं यस्य तच् च । तद् उद्गलित-माध्वीकं च प्रच्युत-मधु । उत्फुल्लं च विकसितं । सच् च उत्तमं यत् प्रसूनं पुष्पं नव-पल्लवं च । तयोः प्रकरः समूहः । तेन नम्राः शाखा येषां तैः । माध्विकेति—ह्रस्वत्वं महा-कवि-निबद्धत्वात् सोढव्यम् । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसद् इति पाठस् तु सुगम एव । पुनः कीदृशैः ? प्रफुल्लाभिर् नव-मञ्जरीभिर् ललिता मनोहरा या वल्लर्यः अग्र-शाखा लता वा, तभिर् वेष्टितैः । शिवं मङ्गल-रूपं, निर्बाधत्वात् परम-कल्याण-करत्वाच् च ॥१६८॥

**विकासि-सुमनोरसास्वादन-मञ्जुलैः सञ्चरच्-
छिलीमुख-मुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।
कपोत-शुक-शारिका-परभृतादिभिः पत्रिभिर्
विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥१६९॥
सनातनः- **वृन्दावनमेव विशिनष्टि—विकासीति द्वाभ्याम् । सञ्चरताम् इतस्ततो भ्रमतां शिलीमुखानां भ्रमराणां मुखेभ्य उद्गतैर् उत्थितैः झङ्कृतैः झङ्कार-शब्दैः मुखरितं मुखरतां नीत-मन्तरं मध्यं यस्य तत्; कीदृशैः ? विकासिनां सु-मनसां पुष्पाणां रसस्य आस्वादनं भ्रमरैर् अवलेहनं, तेन मञ्जुलैर् मनोहरैः विराणितं शब्दायितं; भुजग-शत्रोर् मयूरस्य नृत्येन आकुलं व्याप्तम् ॥१६९॥

**कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्
विनिद्र-सरसी-रुहोदर-रजश्-चयोद्धूसरैः ।
प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां
विलोलन-विहारिभिः सतत-सेवितं मारुतैः ॥१७०॥
सनातनः- **यमुनायाश् चलन्तीनां लहरीणां विप्रुषः जल-बिन्दवः, तासां बाहिभिर् नेतृभिर् मारुतैः सततं सेवितम्; विलोलनं सञ्चलनं, तद्-रूप-विहारवद्भिः; विलोलनपरैर् अनारत-निषेवितम् इति पाठः सुगम एव । विशेषण-त्रयेण मारुतस्य क्रमेण शैत्य-सौगन्ध्यमान्द्यान्युक्तानि ॥१७०॥

**प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौक्तिक-
प्रकर-कोरकं कमल-राग-नाना-फलम् ।
स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं
तद्-अन्तर् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥१७१॥
सनातनः- **तस्य वृन्दावनस्य अन्तर्मध्ये कल्प-वृक्षम् अपि चिन्तयेत् । प्रवालं विद्रुममेव नव-पल्लवं यस्य तं, मरकतमेव छदः पत्रं यस्य तं, वज्रस्य हीरकस्य मौक्तिकस्य च प्रकरः समूह एव कोरकः पूष्पकलिका यस्य तं, कमलरागः पद्म-राग-मणिर् एव नाना-विधं फलं यस्य तं, स्थविष्ठं स्थूलतरम्, अखिलैः षड्भिर् एव ऋतुभिः सततं सेवितम्, एतेन सर्वदा सर्व-पुष्पाञ्चितत्वम् उक्तम्; उदञ्चितम् उच्छ्रितम् ॥१७१॥

**सुहेम-शिखरावलेर् उदित-भानुवद् भास्वरम्
अधो’स्य कनक-स्थलीम् अमृत-शीकरासारिणः ।
प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां
स्मरेत् पुनर् अतन्द्रितो विगत-षट्-तरङ्गां बुधः ॥१७२॥
सनातनः- **अमृत-शीकरासारिणोऽमृतबिन्दुवर्षिणोऽस्य कल्पकाङ्घ्रिपस्याधः कनकस्थली चिन्तयेत् । शीकरास्राविणः इति पाठेऽपि तथैवार्थः । कीदृशीम् ? सुहेम्नः शोभन-सुवर्णस्य शिखरं शृङ्गं, तस्य आवलिः पङ्क्तिस् तस्याः सकाशाद् उदितो यो, भानुस् तद्वद्भास्वरां देदीप्यमानाम्; यद्वा, सु-हेममयी शिखरावलिः शाखापङ्क्तिर् यस्य तस्येति कल्पकाङ्घ्रिपस्यैव विशेषणम् । पुनः कीदृशीम् ? प्रदीप्तैर् देदीप्यमानैर् मणिभिः पद्मरागादिभिः कुट्टिमम् रत्न-बद्ध-भूमिर् यस्यास्ताम्; अतन्द्रितः अनलसः, विगता दूरीभूताः षट्-तरङ्गा ऊर्मयो यस्यास्ताम्, शोकमोहौ जरा मृत्युः क्षुत्-तृट् चेति षड्-ऊर्मयः ॥१७२॥

**तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग—
पीठे’ष्ट-पत्रम् अरणं कमलं विचिन्त्य ।
उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये
सञ्चिन्तयेत् स्सुख-निविष्टम् अथो मुकुन्दम् ॥१७३॥
सनातनः- **तस्याः कनकस्थल्या यद्-रत्न-कुटिमं रत्न-बद्ध-भूभागः तस्मिन् निविष्टं स्थितं यत् महिष्ठं महत्तरं योग-पीठं तस्मिन्; कीदृशं कमलम् ? उद्यतो विरोचनस्य रवेः सरोचिः समान-प्रभम्, अत एवारुणम्; अमुष्य कमलस्य मध्ये सुखनिविष्टं सुखमासीनम्; यद्वा, कुटिम-निविष्टेत्यत्र निविष्ट-शब्दार्थानुसारेणात्रापि सुख-स्थितम् इत्यर्थः । विलम्बमानसन्तानक-प्रसव-दामेत्यग्रे वक्ष्यमाणमालाविलम्बमानतायास् तथा मत्स्याङ्कुशेति वर्णयिष्यमाण-भक्तजनैकाश्रय-श्री-चरण-कमल-सन्दर्शनासम्पत्तेश्च । अत एव तृतीय-स्कन्धे (२८.१९)—स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् एत्यत्र मुख्यत्वाभिप्रायेणादौ स्थितमिति श्री-कपिल-देवेन निर्दिष्टम्; सम्मोहन-तन्त्रे च श्री-शिवेनोक्तम्—वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् इति; सम्यक् त्रिभङ्ग-ललितं स्थितम् इत्यर्थः; यतस् तत्र तेनैवोक्तम्—तिष्ठन्तं देवदेवेशं त्रिभङ्ग-ललिताकृतिम् इति; अत एवोक्तं श्री-विष्णु-धर्मोत्तरे—

गोपाल-प्रतिमां कुर्याद् वेणुवादन-तत्-पराम् । बर्हापीडां घन-श्यामां द्विभुजाम् ऊर्ध्व-संस्थिताम्॥ इति ॥१७३॥

**सूत्रामरत्न-दलिताञ्जन-मेघ-पुञ्ज-
प्रत्यग्र-नील-जलजन्म-समान-भासम् ।
सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं
राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥१७४॥
सनातनः- **श्री-मुकुन्दमेव विशिनष्टि—सूत्रामेति पञ्च-विंशतिभिः । सूत्रामरत्नम् इन्द्र-नीलमणिः, दलिताञ्जनं घृष्टकज्जलं, प्रत्यग्र नवं, नील-जल-जन्म उत्पलम्, तैः समाना भाः कान्तिर् यस्य तम्; राजत् शोभमानं, मनोज्ञं शितिकण्ठ-शिखण्डं मयूर-पिच्छं, तेन चूडा मौलिः यस्य तं; यद्वा, तदेव चूडायां यस्य तम् । क्वचिच्च केशजाल-राजत् इति समस्त-पाठः ॥१७४॥

**रोलम्ब-लालित-सुर-द्रुम-सून-कल्पि-
तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् ।
लोलालक-स्फुरित-भाल-तल-प्रदीप्त-
गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥१७५॥
सनातनः- **रोलम्बैर् भ्रमरैर् लालितं प्रीत्या सेवितं, सुर-द्रुम-प्रसूनं पारिजात-पुष्पं, तेन कल्पितः रचित उत्तंसः शिरोभूषणं येन तम्; उच्चले उद्गते नृत्यन्त्यौ वा चिल्लिमाले भ्रूलते यस्य तम् ॥१७५॥

**आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब-
कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।
रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-
गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥१७६॥
सनातनः- **आपूर्ण शारदञ्च गताङ्कञ्च निष्कलङ्कं यच्-छशाङ्क-बिम्बं चन्द्र-मण्डलं, तस्मादपि कान्तं सुन्दर-माननं यस्य तम् ॥१७६॥

**सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द-
मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।
वन्य-प्रवाल-कुसुम-प्रचयावकॢप्त-
ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कष्ठम् ॥१७७॥
सनातनः- **प्रचलार्क-कॢप्तेति पाठे प्रचलार्को मयूर-पिच्छम् ॥१७७॥

**मत्त-भ्रमद्-भ्रमर-जुष्ट-विलम्बमान-
सन्तानक-प्रसव-दाम-परिष्कृतांसम् ।
हारावली-भगण-राजित-पीवरोरो-
व्योम-स्थली-ललित-कौस्तुभ-भानुमन्तम् ॥१७८॥
सनातनः- **मत्तैर् भ्रमद्भिर् भ्रमरैर् जुष्टं सेवितम्, विलम्बमानम् आपादलम्बि; पाठान्तरे सुरभि सुगन्धि अबालं चाम्लानं यत् सन्तानक-प्रसवदाम कल्प-वृक्ष-पुष्पमाला, तेन परिष्कृतौ अलङ्कृतौ अंसौ यस्य तम्; हारावल्येव भगणः नक्षत्र-वर्गः, तेन राजितं शोभितं पीवरं पीनम् उरः वक्ष एव व्योम-स्थली, तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस् तद्-युक्तम् ॥१७८॥

**श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांस-
आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।
आबन्धुरोदरम् उदार-गभीर-नाभिं
भृङ्गाङ्गनानिकर-वञ्जुल-रोम-राजिम् ॥१७९॥
सनातनः- **श्रीवत्स-लक्षणेन सुलक्षितं प्रव्यञ्जितम् आजानु जानु-पर्यन्त-व्यापिनौ पीनौ च परिवृत्तौ च क्रम-वलितौ सुजातौ सुकुमारौ निर्दोषौ बाहू यस्य तम्; आबन्धुरं निम्नोन्नतम् अतिशयेन भद्रं वा उदरं यस्य तम् ॥१७९॥

**नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-
ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।
दिव्याङ्ग-राग-परिपिञ्जरिताङ्ग-यष्टि-
मापीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥१८०॥
सनातनः- **नानामणिभिः प्रकर्षेण घटिताः कल्पिता अङ्गदादयो यस्य तम्; तत्र ऊर्मिर् मुद्रिका, सारसनं रसना, तुन्द-बन्धः उदर-बन्धनार्थ-सुवर्णडोरकम्; दिव्यैर् अङ्गरागैर् अणुलेपनैः परिपिञ्जरिता नानावर्णतां नीता अङ्ग-यष्टिर् यस्य तम् ॥१८०॥

**चारूरुजानु-मनुवृत्त-मनोज्ञ-जङ्घं
कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।
माणिक्य-दर्âण-लसन्-नखराजिराज-
द्रत्नाङ्गुलि-च्छदन-सुन्दर-पाद-पद्मम् ॥१८१॥
सनातनः- **माणिक्यमय-दर्पणेभ्योऽपि विलसतां शोभमानानां नखानां राजिस्तया राजन्त्यो रत्नाङ्गुलयः, ताश् छदाः पत्राणि, तैः सुन्दरे पादपद्मो यस्य तम्; रत्नेति पाठः सुगमः ॥१८१॥

**मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-
संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।
लावण्य-सार-समुदाय-विनिर्मिताङ्ग-
सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥१८२॥
सनातनः- **मत्स्यादिभिः रेखात्मकैश् चिह्नैः संलक्षितम् अरुणतरं चातिरक्तमङ्घ्रितलम्; कराङ्घ्रीति पाठे अरुणं कराङ्घ्रयोस् तलं, तेन अभिरामं मनोरमम्; आरं चक्रं, दरः शङ्खः । निर्जितेत्यत्र निर्धूतेति क्वचित् पाठः । कान्तिः शोभा ॥१८२॥

**आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-
लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।
शश्वद्-द्द्रवीकृत-विकृष्ट-समस्त-जन्तु-
सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥१८३॥
सनातनः- **शश्वत् मूहः द्रवीकृता आर्द्रिता विकृष्टा समाकृष्टा च समस्त-जन्तूनां सन्तान-सन्ततिर् वंश-समूहो येन तम् ॥१८३॥

**गोभिर् मुखाम्बुज-विलीन-विलोचनाभि-
रूधोभर-स्खलित-मन्थर-मन्दगाभिः ।
दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभि-
रालम्ब्-वालधि-लताभिवीतम् ॥१८४॥
सनातनः- **अथानन्तरं गोभिर् अभितो वीतं वेष्टितम्; ऊधोभरेण स्तन-गौरवेण स्खालितं मन्थरं चालसं मन्दञ्च यथा स्यात् तथा, अभितो गच्छन्तीभिर् इत्यर्थः; वालधिः पुच्छम् ॥१८४॥

**सप्रस्रवस्तन-विचूषण-पूर्ण-निश्च-
लास्यावटक्षरित-फेनिल-दुग्ध-मुग्धैः ।
वेणु-प्रवर्तित-मनोहर-मन्द्रगीत-
दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च ॥१८५॥
सनातनः- **तर्णकैर् नूतन-वत्सैश् चाभिवीतम् इत्यन्वयः; एवम् अग्रेऽपि । कीदृशैः ? प्रस्रवो दुग्ध-क्षरणं तत्-सहितस्य स्तनस्य विचूषणं दन्तोष्ठेनाकृष्य पानं, तेन पूर्णो दुग्ध-भृतो निश्चलश्च आस्यावटौ मुखविवरं, तस्मात् क्षरितं यत् फेनिलं फेनमयं दुग्धं, तेन मुग्धैः सुन्दरैः; मन्द्रो गम्भीर-ध्वनिः; क्वचिन् मन्देति पाठः ॥१८५॥

**प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार-
संरम्भ-वल्गन-विलोल-खुराग्र-पातैः ।
आमेदुरैर् बहुल-सास्न-गलैर् उदग्र-
पुच्छैश् च वत्सतर-वत्सतरी-निकायैः ॥१८६॥
सनातनः- **प्रत्यग्रं नवं शृङ्गं यस्मिन्, तेन मृदुना मस्तकेन सम्प्रहारः अन्येन सह युद्धे अभिघातस् तस्मिन् वा अन्येन प्रहारस् तेन संरम्भः क्रोधस् तस्मिन् आवेशो वा, तेन वल्गनम् इतस्ततो विचलनं, तेन विलोलः खुराग्रपातो येषां तैः; आमेदुरैः सु-स्निग्धैः पूष्टैर् इति वा, बहुला स्थूला सास्ना गलकम्बलो यस्मिन् तादृशो गलो येषां तैः; वत्स एव स्तन-पानावस्थाम् अतिक्रान्तो वत्सतरः, त्रैवार्षिको बलीवर्दः इति केचित् तादृश्येव वत्सतरी तयोर् निकायैः समूहैश् चाभिवीतम् ॥१८६॥

**हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि-
रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः ।
उत्तम्भित-श्रुति-पुटी-परिवीत-वंश-
ध्वानामृतोद्धत-विकाशि-विशाल-घोणैः ॥१८७॥
सनातनः- **उक्षभिः वृषैर् अप्य् अभिवीतम्; पृथुककुद्भर एव भारस्तेन खिन्नरलसैः; उत्तम्भितया ऊर्ध्वीकृत्य स्तब्धतां प्रापितया श्रुति-पुट्या परिवीतं यत् श्री-कृष्ण-वंशध्वानामृतं, तस्मिन् उद्धता उद्भटा, तेन वा ऊर्ध्वी-कृता विकाशिनी च प्रस्फुटपुटा विशाला घोणा नासा येषां तैः ॥१८७॥

**गोपैः समान-गुण-शील-वयो-विलास-
वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः ।
मन्द्रोच्चतार-पट-गान-परैर् विलोल-
दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥१८८॥
सनातनः- **गोपैश्चाभिवीतं; गुणाः करुणादयः, शीलं स्वभावो जगदानन्दकत्वादि, मूर्छितः मूर्छनां प्रापितः, कलस्वनः मधुरास्फुटध्वनिः; स्वरेति पाठे मधुरास्फुटरागो यस्मिन् तादृशो वेणुर् वीणा च येषां तैः; मूर्छना चोक्ता—

स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छनामिति तां प्राहुः कवयो ग्राम-सम्भवाम् । सप्त स्वरास् त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ॥ इति ।

मन्द्रोच्चतारैर् ध्वनिभेदैः पटु व्यक्तं यद्-गानं तत्-परैः; लास्यं नृत्यम् ॥१८८॥

**जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-
व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः ।
मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषै-
रव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥१८९॥
सनातनः- **पृथुकैर् बालकैः परीतं वेष्टितम्; कीदृशैः ? जङ्घान्ते पीवर-कटीरतट्यां च पीनकटी-स्थल्यां निबद्धा च व्यालोला च किङ्किणीनां घटा समूहः, तस्या रटितैः शब्दैः कृत्वा रटद्भिः शब्दायमानैः; तरक्षुर् व्याघ्रः ॥१८९॥

**अथ सुललित-गोप-सुन्दरीणां
पृथु-निविवीष-नितम्ब-मन्थराणाम् ।
गुरु-कुच-भर-भङ्गुरावलग्न-
त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥१९०॥
सनातनः- **अथेत्यानन्तर्ये माङ्गल्ये वा; सुललितानां परम-मनोहराणां गोप-सुन्दरीणां गोपीनामालिभिः पङ्क्तिभिः समन्तात् सर्वतः सततं नितरां सेवितमिति अष्टम-श्लोकेनान्वयः । ता एव विशिनष्टि—पृथ्वादिना कराम्बुजानाम् इत्यन्तेन पाद-द्वयोनश्लोकाष्टकेन । निविवीषं निविडम्; अवलग्नं मध्य-देशः ॥१९०॥

**तद्-अतिमधुर-चारु-वेणु-वाद्या-
मृत-रस-पल्लविताङ्गजाङ्घ्रिपाणाम् ।
मुकुल-विसर-रम्य-रूढ-रोमो-
द्गम-समलङ्कृत-गान-वल्लरीणाम् ॥१९१॥
सनातनः- **तस्य श्री-कृष्णस्य अतिमधुरं सुखदं चारु च सुन्दरं वेणुवाद्यम् एवामृतरसस् तेन पल्लवितो विस्तारितोऽङ्गजाङ्घ्रिपः काम-वृक्षो यासां तासाम् । अङ्गजाङ्घ्रिपस्येति पाठे परेण सम्बन्धः । मुकुलविसरः कुट्मल-समूहस् तद्वद्-रम्यः रूढश्च जातो यो रोमोद्गमः पुलकं, तेन सम्यगलङ्कृता गात्रवल्लरी देहलता यासाम् ॥१९१॥

**तद्-अतिरुचिर-मन्द-हास-चन्द्रा-
तप-परिजृम्भित-राग-वारि-राशेः ।
तरलतर-तरङ्ग-भङ्ग-विप्रुट्-
प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥१९२॥
सनातनः- **तस्य श्री-कृष्णस्य अतिरुचिरो मन्दहास एव चन्द्रस्यातपो रश्मिस् तेन परिजृम्भितस्य विवर्धितस्य रागवारिराशेः प्रेम-समुद्रस्य ये तरलतरा अतिचञ्चलास् तरङ्गा ऊर्मिकल्लोलास् तरङ्ग-परम्परा वा, तेषां विप्रुषो जल-बिन्दवस् तासां प्रकरः समूहस् तेन समास्तुल्या ये श्रमोत्पन्न-स्वेद-बिन्दवस् तैः सन्ततानां व्याप्तानाम् । प्रसरेति पाठेऽपि स एवार्थः; सन्ततीनामिति पाठे श्रम-बिन्दूनां सन्ततिः परम्परा यासाम् ॥१९२॥

**तद्-अतिललित-मन्द-चिल्लि-चाप-
च्युत-निशितेक्षण-मार-बाण-वृष्ट्या ।
दलित-सकल-मर्म-विह्वलाङ्ग-
प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥१९३॥
सनातनः- **तस्य श्री-कृष्णस्य अतिललिता परम-मनोहरा मोहना मन्दा च आयता प्रगल्भा वा या चिल्लिर् भ्रूः सैव चापः, तस्मात् च्युतः निशितश्च तीक्ष्ण ईक्षण-मारवाणः कटाक्ष-रूपः कामशरः, तस्य वृष्ट्या, दलित-सकल-मर्मसु अत एव विह्वलेषु अङ्गेषु प्रविसृता विस्तृता दुःसहा वेपथुरूपा वेदना यासाम् ॥१९३॥

**तद्-अतिसुभग-कम्र-रूप-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् ।
प्रणय-सलिल-पूर-वाहिनीना-
मलस-विलोल-विलोचनाम्बुजाभ्याम् ॥१९४॥
सनातनः- **अलसाभ्यां लज्जादिनार्ध-मीलिताभ्यां विलोलाभ्याञ्च विशिष्ट-लोचनाम्बुजाभ्यां कृत्वा प्रेम-जल-प्रवाहव-हन-शीलानाम् । कथम्भूताभ्याम् ? तस्य श्री-कृष्णस्य अतिसुभगात् परम-कमनीयाद् अपि कम्रं कमनीयं रूपं, तस्य शोभा कैशोरे नव-यौवनोद्भेदे श्रीः सैव; यद्वा, तदेव शोभायुक्तामृत-रसस् तस्य पान-विधाने लालसा अत्यौत्सुक्यं ययोस्ताभ्याम् ॥१९४॥

**विस्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-स्रव-
न्-माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।
मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उच्छ्वस-
न्नीवी-विश्लथ-मान-चीन-हिचयान्ताविर्-नितम्ब-त्विषाम् ॥१९५॥
सनातनः- **माध्वी माध्वीकम्, चञ्चरीको भ्रमरः; मारोन्मादेन यो मदः मत्तता, तेन स्खलन्ती अस्पष्टाक्षरा मृदुः कोमला गीर्वाणी यासाम्; उन्माद-लक्षणं चोक्तम्—

श्वास-प्ररोदनोत्कम्पैर् बहुधालोकनैर् अपि । व्यापारो जायते यस् तु स उन्मादः स्मृतो यथा ॥ इति ।

आलोलया सञ्चलन्त्या काञ्चया हेतुना उच्छ्वसती श्लथीभवन्ती या नीवी परिधान-वस्त्र-बन्धः, तयैव विश्लथमानो विश्लथीभवन् चीनदेशोद्भवः सूक्ष्मो वा सिचयः पट्ट-वस्त्र-विशेषस् तस्यान्ते स्वरूपे आविः प्रकटा नितम्बत्विट् यासाम्; अन्तः स्वरूपे विनाशे चान्तिकेऽपि च इति कोषः ॥१९५॥

**स्खलित-ललित-पादाम्भोज-मन्दाभिधान-
क्वणित-मणि-तुलाकोट्य्-आकुलाशामुखानाम् ।
चलद्-अधर-दलानां कुट्-नल-पक्ष्मलाक्षि-
द्वय-सरसिरुहाणाम् उल्लसत्-कुण्डलानाम् ॥१९६॥
सनातनः- **स्खलितस्य स्खलन-युक्तस्य ललितस्य च पादाम्भोजस्य मन्दाभिघातेन ईषद् भूभाग-प्रहारेण क्वणितः कृत-शब्दो मणिमयो यस्तुलाकोटिर् नूपुरं, तेन आकुलं शब्द-व्याप्तम् आशानां दिशां मुखं याभ्यस् तासाम्; कुट्मलत् मुकुलायमानं पक्ष्मलञ्च उत्कृष्ट-पक्ष्म-युक्तम् अक्षि-द्वय-सरसिरुहं यासाम् ॥१९६॥

**द्राघिष्ठ-श्वसन-समीरणाभिताप-
प्रम्लानीभवद्-अरुणोष्ठ-पल्लवानाम् ।
नानोपायन-विलसत्-कराम्बुजाना-
मालीभिः सतत-निषेवितं समन्तात् ॥१९७॥
सनातनः- **द्राघिष्ठोऽतिदीर्घः श्वसन-समीरणः श्वासवायुस् तेन अभितापः सन्तापस् तेन प्रम्लानीभवन् अरुणोष्ठ-पल्लवो यासाम् ॥१९७॥

**तासाम् आयत-लोल-नील-नयन-व्याकोष-नीलाम्बुज-
स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विनोदास्पदम् ।
तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादिनीं
विभ्राणं प्रणयोन्मदाक्षि-मधु-कृन्-मालां मनोहारिणीम् ॥१९८॥
सनातनः- **व्याकोषं विकसितम्, प्रणयाद् उन्मदे उद्गतमदे अक्षिणी एव मधुकृन्माला भ्रमर-पङ्क्तिः, तां विभ्राणं प्रकटयन्तम्, श्री-लोचनयोर् इतस्ततो बहुधा निपतनेन सर्वतो दर्शनान्मालेत्युक्तम् । कीदृशीम् ? तासां यन्मुग्धं मनोहर-मानन-पङ्कजं, तस्मात् प्रविगलितो माध्वीरसस्य मकरन्दस्य आस्वादन-शीलाम्, अत एव मनोहारिणीम् ॥१९८॥

**गोप-गोपी-पशूनां बहिः स्मरेद्
अग्रतो’स्य गीर्वाण-घटाम् ।
वित्तार्थिनीं विरिञ्चि-त्रिनयन-
शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥१९९॥
सनातनः- **इदानीं क्रमेण वित्त-धर्म-मोक्ष-कामाख्य-पुरुषार्थ-चतुष्टयस्य तथा सर्वतः श्रेष्ठस्य पञ्चम-पुरुषार्थरूपाया भक्तेश्च वाञ्छायाः प्रदानां देवादीनां ध्यानम् आह—गोपेति पञ्चभिः । अस्य कृष्णस्य, अग्रतः सम्मुखे ॥१९९॥

**तद्-दक्षिणतो मुनि-निकरं
दृढ-धर्म-वाञ्छम् आनाय-परम् ।
योगीन्द्रान् अथ पृष्ठे मुमुक्ष-
माणान् समाधिना सनकाद्यान् ॥२००॥
सनातनः- **दक्षिणे चास्य मुनि-निकरं स्मरेत् । दृढा धर्मे वाञ्छा यस्य तम् ॥२००॥

**सव्ये सकान्तान् अथ यक्ष-सिद्ध-
गन्धर्व-विद्याधर-चारणांश् च ।
स-किन्नरान् अप्सरसश् च मुख्याः
कामार्थिनो नर्तन-गीत-वाद्यैः ॥२०१॥
सनातनः- **सकान्तान् पत्नी-सहितान् यक्षादींश्च स्मरेत् । कथम्भूतान् ? नर्तनाद्यैः कामार्थिनः निज-निजाभीष्ट-प्रार्थकान्; मुख्याः श्रेष्ठा उर्वश्याद्या अप्सरसश्च स्मरेत् ॥२०१॥

**शङ्खेन्दु-कुन्द-धवलं सकलागम-ज्ञं
सौदामनी-तति-पिङ्ग-जटा-कलापम् ।
तत्-पाद-पङ्कज-गताम् अचलां च भक्तिं
वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥२०२॥
सनातनः- **तस्य श्री-कृष्णस्य पाद-पङ्कज-गतां तद्-विषयिणीम् इत्यर्थः । उज्झिततरो नितरां परित्यक्तोऽन्यस्मिन् भक्ति-व्यतिरिक्ते समस्ते सङ्ग आसक्तिर् येन तम् ॥२०२॥

**नाना-विध-श्रुति-गणान्वित-सप्त-राग-
ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।
सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या
सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥२०३॥
सनातनः- **अत एव अमुं श्री-कृष्णं महत्याख्यया कच्छपिकया स्वकीयवीणया प्रीणयन्तम्; काभिः ? नाना-विधः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणो नाद-समुहस् तेनान्विता ये सप्त रागा निषादादि-स्वरा मेघ-नाद-वसन्तादि-रागा वा, तेषु या ग्राम-त्रयी ग्रामाणां त्रयाणां समाहारस् तस्यां गताः प्राप्ता या मनोहरा मूर्छनास् ताभिः । कथम्भूताभिः ? उदिताभिः स्वयमेव प्राकट्यं प्राप्ताभिः, महत्योदिताभिर् इति वा सम्बन्धः । अत एव मुनीन्द्रं मुनिगण-श्रेष्ठं धातृ-सुतं श्री-नारदं नभसि सम्यक् चिन्तयेत् ॥२०३॥

श्री-गौतमीय-तन्त्रे—

**अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥२०४॥
रक्त-नेत्राधरं रक्त-पाण-पाद-नखं शुभम् ।
कौस्तुभोद्भासितोरस्कं नाना-रत्न-विभूषितम् ॥२०५॥
तद्-धाम-विलसन्-मुक्ता-बद्ध-हारोपशोभितम् ।
नाना-रत्न-प्रभोद्भासि-मुकुटं दिव्य-तेजसम् ॥२०६॥
हर-केयूर-कटक-कुण्डलैः परिमण्डितम् ।
श्रीवत्स-वक्षसं चारु-नूपुराद्य्-उपशोभितम् ॥२०७॥
नाना-रत्न-विचित्रैश् च कटि-सूत्राङ्गुलीयकैः ।
बर्हि-पत्र-कृतापीडं वन्य-पुष्पैर् अलङ्कृतम् ॥२०८॥
कदम्ब-कुसुमोद्बद्ध-वन-माला-विभूषितम् ।
स-चन्द्र-तारकानन्दि-विमलाम्बर-सन्निभम् ॥२०९॥
वेणुं गृहीत्वा हस्ताभ्यां मुखे संयोज्य संस्थितम् ।
गायन्तं दिव्य-गानैश् च गोष्ठ-मध्य-गतं हरिम् ॥२१०॥
स्वर्गाद् इव परिभ्रष्ट-कन्यका-शत-वेष्टितम् ।
सर्व-लक्षण-सम्पन्नं सौन्दर्येणाभिशोभितम् ॥२११॥
सनातनः- **शुभं जगन्-मङ्गल-रूपं, तस्य कौस्तुभस्य धाम्ना तेजसा विलसन्तीभिर् मुक्ताभिर् आच्छन्नेन सम्वेष्टितेन हारेण उपशोभितम् । मुक्तावद्धेति वा पाठः । कटिसूत्रेणाङ्गुलीयकैश् चालङ्कृतम्; स-चन्द्राभिस् ताराभिर् आनन्दं सुखकरं यद्-विमलम् अम्बरं व्योम तत्-सदृशम् । अत्र चन्द्र-स्थाने कौस्तुभः, तारास्थाने कदम्बमाला, अम्बर-स्थाने श्रीमद्-वक्षःस्थलमूह्यम् । स्वर्गादिव परिभ्रष्टानां परम-सुन्दरीणाम् इत्यर्थः; तादृशीनां कन्यानां श्री-गोपकुमारीणां शतेन वेष्टितम्; शत-शब्दोऽत्रासङ्ख्यत्वे ॥२०४-२११॥

मोहनं सर्व-गोपीनां सर्वासां च गवाम् अपि ।
लेलिह्यमानं वत्सैश् च धेनुभिश् च समन्ततः ॥२१२॥
सिद्ध-गन्धर्व-यक्षैश् च अप्सरोभिर् विहङ्गमैः ।
सुरासुर-मनुष्यैश् च स्थावरैः पन्नगैर् अपि ॥२१३॥
मृगैर् विद्याधरैश् चैव वीक्ष्यमाणं सुविस्मितैः ।
नारदेन वशिष्ठेन विश्वामित्रेण धीमता ॥२१४॥
पराशरेण व्यासेन भृगुणाङ्गिरसा तथा ।
दक्षेण शौनकात्रिभ्यां सिद्धेन कपिलेन च ॥२१५॥
सनकाद्यिर् मुनीन्द्रैश् च ब्रह्म-लोक-गतैर् अपि ।
अन्यैर् अपि च संयुक्तं कृष्णं ध्यायेद् अहर्निशम् ॥२१६॥

सङ्क्षेपेण श्री-सनत्-कुमार-कल्पे’पि—

**अव्यान् मीलत्-कलाय-द्युतिर् अहि-रिपु-पिच्छोल्लसत् केश-जालो
गोपी-नेत्रोत्सवाराधित-ललित-वपुर् गोप-गो-वृन्द-वीतः ।
श्रीमद्-वक्त्रारविन्द-प्रतिसहित्-शशाङ्काकृतिः पीत-वासा
देवो’सौ वेणु-नाद-क्षपित-जन-धृतिर् देवकी-नन्दनो नः ॥२१७॥ **इति ।

**सनातनः- **असौ अनिर्वचनीय-माहात्म्यः श्री-देवकी-नन्दनो देवो नः अस्मान् अव्यात् रक्षतु । कलायस्य तत्-पुष्पस्येव द्युतिः श्यामा कान्तिर् यस्य सः ॥२१७॥

**अथान्तर्-यागः

ध्यात्वैवं भगवन्तं तं सम्प्रार्थ्य च यथा-सुखम् ।
आदौ सम्पूजयेत् सर्वैर् उपचारैश् च मानसैः ॥२१८॥
सनातनः- **यथा-सुखमिति यावतात्ममनस् तृप्तिः स्यात् तावता प्रकारेण तावत् कालञ्च पूजयेद् इत्यर्थः । मानसैः मनःकल्पितैः ॥२१८॥

**लेख्या ये बहिर् अर्चयाम् उपचारा विभागशः ।
ते सर्वे’प्य् अन्तर्-अर्चायां कल्पनीया यथा-रुचि ॥२१९॥
सनातनः- **ते च कति कीदृशाः कथं वार्चयितव्याः ? इत्यपेक्षायां लिखति—लेख्या इति । ये यावन्त इत्यर्थः, विभागशः पृथक् पृथक्; यथा-रुचीति निज-रुच्य्-अनुसारेण यावन्तो यादृशा यथा च कल्पयितुम् उपयुज्यन्ते, तावन्तस् तादृशास् तथैव ते कल्पयितव्या इत्यर्थः । तत्-प्रकारश्च श्री-नारद-पञ्चरात्रादौ व्यक्त एवास्तीति विस्तार्यात्र न लिखितः ॥२१९॥

अथ प्रार्थना-विधिः

श्री-नारद-पञ्चरात्रे—

स्वागतं देव-देवेश सन्निधौ भव केशव । गृहाण मानसीं पूजां यथार्थ-परिभाविनाम् ॥२२०॥ इति ।

**सनातनः- **सम्प्रार्थ्येति लिखितं, कथं सम्प्रार्थ्येति यत्-प्रकारं तन्-मन्त्र-द्वारैव लिखति—स्वागतमिति ॥२२०॥

**अथोपचारैर् बाह्यैश् च स्वात्मन्य् एव स्थितं प्रभुम् ।
पूजयन् स्थापयेद् आदौ शङ्खं सत्-सम्प्रदायतः ॥२२१॥
सनातनः- **पूजयन् पूजयितुं, तत्र तत्र विविधभेदाभिप्रायेण लिखति-सत्सम्प्रदायत इति, सत्-साम्प्रदायिकाचारानुसारत इत्यर्थः । ननु बाह्योपचारैर् अर्चनं कथमन्तर्याग-मध्ये लिख्यते? सत्यं, पूर्वं मानसैर् उपचारैर् अन्तःपूजा, अधुना च बाह्यैर् उपचारैर् अन्तरेव स्थितस्य पूजा, अतोऽन्तर्यागे इयम् अपि पर्यवस्यति । बहिःपूजा च श्री-मूर्ति-विषयिकाग्रे लेख्या । एतच्च श्री-भगवद्-भक्ति-पराणां सम्मतम्; अत एव लिखितम्—सत्-सम्प्रदायत इति । अन्ये च श्री-भगवता सहात्मनोऽभेदं ध्यात्वा निज-वपुष्येव बहिःपूजां कुर्वन्तो निज-पादादाव् एव पुष्पाञ्जलीन् समर्पयन्तीति दिक् ॥२२१॥

**अथ शङ्ख-प्रतिष्ठा

स्वस्य वामाग्रतो भूमाव् उल्लिख्य त्र्य्-अस्र-मण्डलम् ।
ततास्त्र-क्षालितं शङ्खं साधारं स्थापयेद् बुधः ॥२२२॥
सनातनः- **अथ बाह्योपचार-करणक-पूजनाय पूर्वं जन्त्वादि-शोधनेन शोभितानाम् अपि द्रव्याणां, तथा स्नानादिना शोधितस्यापि यजमान-देहस्य प्रतिष्ठित-शङ्ख-जल-प्रोक्षणेन विशेषतः शोधनार्थं शङ्ख-प्रतिष्ठां लिखति—स्वस्येति । वाम-भागे पुरस्तात् त्र्यस्रं त्रिकोणं मण्डलम् उल्लिख्य चतुष्कोणं सिकताभिर् अङ्कैर् निर्माय तत्र तस्मिन् मण्डले अस्त्रेण अस्त्र-मन्त्रेण प्रक्षालितं साधारम् आधारः शङ्खस्याश्रयः त्रिपदिकादिः, तेन सहितमिति । आदौ अस्त्र-मन्त्रेणाधारं प्रक्षाल्य ओँ आधार-शक्तये नमः इति प्रतिष्ठाप्य तद्-उपरि अस्त्र-क्षालितम् एव शङ्खं प्रतिष्ठापयेद् इत्यर्थः । यतो बुधस् तत्-तत्-प्रकारं स्वत एव जानातीत्यर्थः; बुध इति सर्वत्राग्रेऽप्य् अनुवर्तनीयम्; यद्वा, सतामाचारत इत्यग्रतो लेख्यत्वात् शिष्टाचारानुसारतस् तदूह्यम्; एवम् अग्रेऽपि सर्वत्र ज्ञेयम् इति दिक् ॥२२२॥

**शङ्खे हृदय-मन्त्रेण गन्ध-पुष्पाक्षतान् क्षिपेत् ।
व्युत्क्रान्तैर् मातृकार्णैस् तं शिरो’न्तैः केन पूरयेत् ॥२२३॥
सनातनः- **हृदयाय नमः इति हृदय-मन्त्रेण गन्धादीन् क्षिपेत् निक्षिपेत, व्युत्क्रान्तैः व्युत्क्रमं प्राप्तैः मातृकाक्षरैः क्ष-कारादि-क-कारान्तैर् व्यञ्जनैः, ततः अःआदि-अ-कारान्तैश् च स्वरैर् इत्यर्थः; सानुस्वारैर् इति ज्ञेयम्; केवलैर् इति केचित्; कीदृशैः ? शिरः शिरोमन्त्रः शिरसे स्वाहेति तद्-अन्ते येषां तैः; एष च शङ्ख-पूरणे मन्त्रः, तं शङ्खं केन जलेन पूरयेत् ॥२२३॥

**स-बिन्दुना म-कारेण तद्-आधारे’ग्नि-मण्डलम् ।
सम्पूजयेद् अ-कारेण शङ्खे चादित्य-मण्डलम् ॥२२४॥
उ-कारेण जले सोम-मण्डलं च तथार्चयेत् ।
तीर्थ-मन्त्रेण तीर्थान्य् आवाहयेच् चार्क-मण्डलम् ॥२२५॥
कृष्णं चावाह्य हृत्-पद्माद् गालिनीं शिखयेक्षयेत् ।
नेत्र-मन्त्रेण वीक्ष्यान्तः कवचेनावगुण्ठएत् ॥२२६॥
कुर्यान् न्यासं जले मूल-मन्त्राङ्गानां ततो दिशः ।
बद्ध्वास्त्रेणामृतीकुऋयाद् अथ तद्-धेनु-मुद्रया ॥२२७॥
तच् चक्र-मुद्रया रक्ष्य सलिलं मत्स्य-मुद्रया ।
आच्छाद्य संस्पृशन् शङ्खं जपेन् मूलं ततो’ष्टशः ॥२२८॥
सनातनः- **तस्य शङ्खस्य आधारे बिन्दु-सहितेन म-कारेण सहाग्नि-मण्डलं जल-गन्धादिना सम्पूजयेत् । अत्र च वह्नि-मण्डलादेर् दश-कलात्मादि-विशेषणं पुर्ववत्, स्वतो बुधत्वाद् द्रष्टव्यमेव; अत एव प्रयोगः—मं वह्नि-मण्डलाय दश-कलात्मने नमः । शङ्खे च बिन्दु-सहितेनैवाकारेण सहादित्य-मण्डलं पूजयेत्; प्रयोगः—अं अर्क-मण्डलाय द्वादश-कलात्मने नमः; तथा स-बिन्दुनैवोकारेण सह; प्रयोगः—ओँ उं सोम-मण्डलाय षोडश-कलात्मने नमः इति । तीर्थ-मन्त्रश्च पूर्वं गृह-स्नाने लिखितोऽस्ति—गङ्गे च यमुने चैव इत्यादिः; तेन शङ्ख-जल एवाङ्कुश-मुद्रया तीर्थान्यावाहयेत् । कृष्णञ्च तत्रैव निज-हृत्-पद्मात् श्री-कृष्ण इहागच्छ इत्यावाह्य शिखया शिखायै वषट् इति शिखा-मन्त्रेण गालिनीं मुद्राम् ईक्षयेत् दर्शयेत्; अम्भः तज्-जलं नेत्राभ्यां वौषट् इति नेत्र-मन्त्रेण वीक्ष्य, अत्र च केचिद् आहुः—पञ्चाङ्गेऽष्टादशाक्षरे मन्त्रेऽस्मिन् नेत्र-मन्त्राभावात् तन्न कार्यम् इति । कवचाय हुम् इति कवच-मन्त्रेण अम्भस्तदेव हस्ताभ्याम् अवगुण्ठयेत् । मूल-मन्त्रस्य अङ्गानां पञ्चानां न्यासं जले तस्मिन्नेव कुर्यात् । केचिच्च षड्-अङ्गानां हृदयादीनाम् अत्र न्यासम् आहुः; ततस् तद्-अनन्तरम् अस्त्र-मन्त्रेण दिशो बद्ध्वा दिग्-बन्धनं कृत्वा तज्-जलं धेनु-मुद्रयाऽमृतीकुर्याद् इत्यत्रैवं विशेषो बुधत्वात् सदाचारतो ज्ञेयः । दिग्-बन्धनानन्तरं गन्धादिकं दत्त्वा धेनु-मुद्रां प्रदर्श्य कूर्चेन जलं स्पृष्ट्वा मृतबीजं द्वादशवारान् स-प्रणवं जप्त्वा’सोम-मण्डलाय षोडश-कलात्मने नमः इति पुनर् गन्धादिनाभ्यर्चयेद् इति । तज्-जलं चक्र-मुद्रया आ सम्यक् रक्षित्वा शङ्खं संस्पृशन् कूर्चेन तज्-जलं संस्पृश्य मूल-मन्त्रम् अष्टशो वाराष्टकं जपेत् ॥२२४-२२८॥

**तज् जलं प्रोक्षणी-पात्रे किञ्चित् क्षिप्त्वा त्रिर् उक्षयेत् ॥
तच्-छेषेणार्चन-द्रव्य-जातानि स्व-तनूम् अपि ॥२२९॥
सनातनः- **तत् शङ्ख-स्थ-जलं किञ्चित् क्षिप्त्वा निक्षिप्य; तस्य प्रोक्षणीपात्र-निक्षिप्त-जलस्य शेषेण शङ्खस्थेन सर्वाणि पूजोपकरणानि निज-शरीरञ्च वार-त्रयं मूल-मन्त्रेण प्रोक्षयेत् । एवं प्रोक्षणेन प्रायो द्रव्य-शुद्धिर् आत्म-शुद्धिश् चोक्ता ॥२२९॥

**कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ।
तर्जनी-मध्यमानामाः संहता भुग्न-सज्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥२३०॥
ततो’पास्यावशिष्टान्तः शङ्खं वर्धनिकाम्बुना ।
पुनर् आपूर्य कृष्णाग्रे न्यसेद् आचारतः सताम् ॥२३१॥।
सनातनः- **कनिष्ठेति—वाम-करे कनिष्ठाङ्गुष्ठकौ सक्तौ संलग्नौ कृत्वा तयोर् अन्तर्दक्षिणकराङ्गुष्ठं निधाय तञ्च तत् कनिष्ठया संयोज्य करयोर् द्वयोर् अपि तर्ज्जनी-मध्यमानामिकाः संहताः मिलिताः कृत्वा भुग्नाश्च किञ्चिदाकुञ्चिताः सज्जिताश्च परस्परं सक्ताग्राश्च कार्या इत्यर्थः । चालिता सती देव-प्रीति सम्पादयेद् इति शेषः । ततः अर्चन-द्रव्य-जाताभ्युक्षणानन्तरं तद्-उक्षणावशिष्टं शङ्ख-स्थितं जलम् अपास्य प्रक्षिप्य वर्धनी-जलेन शङ्खं तं पुनरापूर्य भगवद्-अग्रतः स्थापयेत् । सताम् आचारत इति यद्यपि क्रम-दीपिकादौ व्यक्तम् एतन्नोक्तम् अस्ति, तथापि शिष्टाचारानुसारेण तत्-स्थापनं कार्यम् इत्यर्थः । तन्-माहात्म्यं चाग्रे शङ्खोदक-पादोदक-ग्रहणानन्तरं पुनः शङ्खस्थापने लेख्यमेव । अतोऽग्रे लेख्यं क्षीर-स्नपनादिकं शङ्खान्तरेणेति ज्ञेयमिति दिक् ॥२३०-२३१॥

**अथ स्व-देहे पीठ-पूजा

गुरून् मूर्ध्नि गणेशं च मूलाधारे’भिपूज्य तम् ।
पीठ-न्यासानुसारेण पीठं चात्मनि पूजयेत् ॥२३२॥
सनातनः- **अधुना बाह्योपचारकरणकान्तःपूजार्थम् एवात्म-देहे पीठ-पूजां लिखति—गुरूनीति । तं विघ्न-विघातकम् । प्रयोगः—ओँ गुरुभ्यो नमः मूर्ध्नि; गं गणपतये नमः मूलाधारे । पीठ-न्यासानुसारेणेति पूर्वं पीठ-न्यासे आधार-शक्त्यादीनां यस्य यत्र यथा पूजा लिखितास्ति, तद्-अनुक्रमेण आत्मनि स्व-वपुष्येव जल-गन्धाक्षत-पुष्प-धूप-दीपैः पीठ-पूजां कुर्याद् इत्यर्थः । स्व-देहम् एव भगवत्-पीठत्वेनोपकल्प्य तत्रैव पूर्ववद् आधार-शक्त्यादीन् पूजयेदिति भावः । अत्र प्रयोगः—आधार-शक्तये नमः इत्यादिः ॥२३२॥

**अथ देवाङ्गेषु मन्त्राङ्गादि-न्यासः

ततो जपन् काम-बीजं त्रि-स्थान-स्थं परं महः ।
मूल-मन्त्रात्मकं बीजेनैकीभूतं विचिन्तयेत् ॥२३३॥
सनातनः- **तत्र च मन्त्रोपासनेनैव श्री-भगवद्-उपासनं, तथा श्री-भगगवद्-उपासनेनैव मन्त्रोपासनमिति बोधयितुं मन्त्र-माहात्म्य-विशेषञ्च दर्शयितुं श्री-भगवता सह मन्त्रस्याभेदम् आपादयति—तत इति द्वाभ्याम् । त्रीणि स्थानानि निज-मूलाधार-हृदय-भ्रू-मध्यानि, तत्-स्थं मूल-मन्त्रात्मकं परं महः आनन्द-घनं तडित्कोटि-प्रभं तेजः काम-बीजेन सहैकीभूतम् ऐक्यं प्राप्तं विचिन्तयेत् । शब्द-ब्रह्ममयत्वेन तत्-तत्-स्थाने सूक्ष्मतया वर्तमानस्य मन्त्रस्यास्य प्रायो नाममयत्वेन भगवद्-आत्मकस्य बीजे च मन्त्र-सम्बन्धेन तादृशत्वं तस्यापि जानीयाद् इत्यर्थः । तत्र च तत्-तत्-स्थाने पृथक् पृथक् विचिन्त्य जल-गन्धाक्षत-पुष्पादिभिर् अभ्यर्च्य̍ पश्चात् तत्-स्थान-त्रय-गतं तन्-महः काम-बीजेनैकीभूतं भावयेद् इति शिष्टाचारात् बोध्यम् ॥२३३॥

**तच् च पञ्चाङ्ग-न्यासेन साकारं स्वेष्ट-दैवतम् ।
विचिन्त्य पञ्चाङ्गादीनि न्यस्येत् तस्मिन् यथात्मनि ॥२३४॥
सनातनः- **पञ्चाङ्गानि मूल-मन्त्र-सम्बन्धीनि, तेषां तस्मिन् न्यासे तत् परं महः साकारं विचिन्त्य, तच्च निजेष्ट-दैवतं च पर्व-ध्यानाविर्भूतं श्री-कृष्णदेव-स्वरूपं विचिन्त्य; तथा च क्रम-दीपिकायाम्—अथ मूल-मन्त्र-तेजो निज-मूले हृदये भ्रुवोश्च मध्ये त्रितयं स्मरतः स्मरेण काम-बीजेनैकीभूतं स्मरेत् । तद्-एकीभूतम् आनन्द-घनं तडिल्-लताभं तत्-तेजः सावयवीकृत्येति । तस्मिन् तादृशे निजेष्ट-दैवते मन्त्रस्य पञ्चाङ्गानि आदि-शब्दाद् अष्टादशाक्षराणि पञ्च-पदानि च न्यस्येत् । तथा च क्रम-दीपिकायाम्—यदाष्टादश-लिपिना स्वर्ण-पदाङ्गैश्च वेणु-पूर्व्वैर् विधिः प्रोक्तः इति । अस्यार्थः—यदा अष्टादशाक्षर-मन्त्रेण पूजा, तदा मन्त्राक्षर-पदपञ्चकाङ्ग-पञ्चक-न्यासैर् वेण्वादिभिश्च विधिः प्रोक्त इति । तत्र च कथं कुत्र किं न्यास्यम् इत्य् अपेक्षायां लिखति—यथात्मनीति । पूर्वं यथा स्वदेहे तत्-तन्-न्यासो लिखितस् तद्वद् इत्यर्थः । तथा हि—प्रथमं मूल-मन्त्रं व्यापकत्वेन वार-त्रयं विन्यस्य पश्चाच् छ्रीकरद्वये व्यापकत्वेनादौ विन्यस्य श्रीकर-द्वयाङ्गुलिषु पञ्चाङ्गानि न्यस्येत् । ततोऽष्टादशाक्षराणि मस्तकादिषु पञ्च-पदानि च नेत्र-द्वयादिषु क्रमेण न्यस्येदिति पूर्व-लिखितानुसारेण ज्ञेयम् ॥२३४॥

**कुर्युर् भगवति प्रादुर्भूते कृष्णे च वैष्णवाः ।
तत्-तन्-न्यासान् अभेदाय मनोर् भगवता सह ॥२३५॥
सनातनः- **ननु सच्-चिद्-आनन्द-विग्रहोऽखिल-वेद-मन्त्रमयो भगवान् श्री-कृष्णः ध्यान-विशेष-बलात् पूर्वम् आविर्भूतो मानसोपचारैर् अर्चितश्च, अधुना मूल-मन्त्र-तेजसस् तत्र तत्र तथा तथा चिन्तनं किमर्थम् ? मन्त्रस्य माहात्म्य-विशेषाय श्री-भगवता सह मन्त्रस्यैक्यबोधनाय चेति चेत् तथापि पञ्चाङ्ग-न्यासेन साकारता-चिन्तनादिकं वैष्णव-सिद्धान्त-विरुद्धं स्याद् इत्याशङ्क्य वैष्णव-मतं लिखति—कुर्युरिति; भगवतीति—श्री-कृष्णस्य साक्षाद् भगवत्त्वेन परब्रह्मरूपत्वात् सर्व-मन्त्रादिमयत्वात् मन्त्र-तेजादिकं ततो भिन्नं नास्त्येवेत्यर्थः । तथा मन्त्रस्यापि प्रायो नाम-विशेषमयत्वेन परमं भगवद्-रूपत्वमेव; अतो भगवत्-प्रादुर्भावेण मन्त्रस्यापि प्रादुर्भावो नूनं वृत्त एव; अतः पुनस् तच्-चिन्तनस्य पौनर् उक्त्यापत्त्या व्यर्थतैव स्याद् इत्यर्थः । अतो ध्यान-भक्त्याविर्भूते भगवत्येव साक्षात् तत्-तन्-न्यासान् मन्त्र-पञ्चाङ्गादि-न्यासान् कुर्यात् । ननु तर्हि तत्-तन्-न्यास-करणम् अप्य् अनुपयुक्तमेव, तत्र लिखति—भगवता कृष्णेन सह मनोः मन्त्रस्याभेदायेति । सर्वथा तन्-मय एवायं मन्त्र इत्यैक्य-ज्ञानेन सर्वेषां मन्त्रे भक्ति-विशेषार्थमिति भावः । वैष्णवा इति अयमेव श्री-भगवद्-भक्तानां पक्ष इति सूचयतीति दिक् ॥२३५॥

**केचिन् न्यस्यन्ति तत्त्वादीन्न् अव्यक्तानि यथोदितम् ।
मन्त्रार्णैः स्वर-हंसाद्यैर् भूषणेषु प्रभोः क्रमात् ॥२३६॥
सनातनः- **अधुना परम-हृद्यत्वेन श्री-भगवद्-भूषणोत्तम-न्यासं लिखति—केचिदिति । स्वराः षोडश, हंसेति द्वौ वर्णौ, ते आद्या आदौ वर्तमाना येषान्तैर् मन्त्रस्यार्णैर् अष्टादशवर्णैः सह तत्त्वादीनि प्रभोः भगवतः श्री-कृष्णस्य भूषणेषु क्रमात् यथा-क्रमं केचिद् भगवद्-भक्ता न्यस्यन्ति । अव्यक्तादीनीति विशेषणं पूर्वं तत्त्व-न्यासे लिखित-तत्त्वानां व्यावृत्त्यर्थम्; आदि-शब्देन महद्-अहङ्कार-मनोबुद्ध्यादीनि; क्रमादिति स्वराद्य्-अष्टादशाक्षरानन्तरं मन्त्रस्य बीजाद्य्-अष्टाक्षराणां, तद्-अनन्तरं चाव्यक्तादीनाम् अष्टादश-तत्त्वानां कुण्डलाद्य्-अष्टादश-भूषणेषु क्रमेण प्रयोग इति ज्ञेयम् । यथोदितम्—तन्त्रोक्तम् अनतिक्रम्येति प्रणव-पूर्वकं प्रत्येकञ्च बिन्दु-सहितं, तथा हंसेत्यस्य स-कारं स-विसर्गञ्च, तथा अ-कारादि-षोडश-स्वरान् शिरसि न्यस्य, वेणु-मुद्रां मुखे प्रदर्श्य, मन्त्रं तम् अनुस्मृत्य पश्चात् तत्-तद्-वर्ण-तत्त्वमय-भूषणेषु न्यस्यन्ति । तत्र च तत्-तद्-वर्ण-तत्त्वात्मकत्वं तस्य भूषणस्यानुचिन्त्य तत्-तन्-मुद्रादिभिस् तत्र तत्र तत्त्व-न्यासं कुर्वन्ति । तत्रापि आत्म-सम्बन्धि-शब्द-व्यतिरिक्तेषु तत्त्वेषु आत्मने इति पदं, तद्-अन्ते च सहस्र-शीर्षाय पुरुषाय नमः इति मन्त्रोक्तानुसारेण द्रष्टव्यम्; प्रयोगः—(१) ओँ अं क्लीं अव्यक्तात्मने सहस्र-शीर्षाय पूरुषाय नमः इति कुण्डले; सहस्र-शीर्षेत्यादिकं सर्वत्र तूल्यमेव; (२) ओँ आं कृं महदात्मने शिखि-पिच्छे पञ्चात्मके; (३) ओँ इं ष्णां अहङ्कारात्मने कर्णोत्पले; (४) ओँ ईं यं मन-आत्मने तिलके; (५) ओँ उं गों बुद्ध्यात्मने मुक्ताकुण्डले; (६) ओँ ऊं विं अहङ्कारात्मने वनमालायां तन्-मात्रात्मने पञ्चात्मने इति क्वचित्; (७) ओँ ऋं दां चित्तात्मने हारे; (८) ओँ ॠं यं आत्मने केयूरे; (९) ओँ ऌं गों अन्तरात्मने वलये; (१०) ओँ ॡं पीं परमात्मने कटके; (११) ओँ एं जं ज्ञानात्मने रत्नाङ्गुलीयकेषु; (१२) ओँ ऐं नं प्राणात्मने श्रीवत्से कौस्तुभे च; (१३) ओँ ओं वं शक्त्यात्मने उदर-बन्धे; (१४) ओँ औं लं जीवात्मने पीतवाससि; (१५) ओँ अं भां वाग्-आत्मने जङ्घाभूषणे; (१६) ओँ अः यं योन्य्-आत्मने नूपुरे; (१७) ओँ हं स्वां आनन्दात्मने पदाङ्गुलीयकेषु; (१८) ओँ सः हां प्रकृत्यात्मने चक्र-भ्रमणे इति ॥२३६॥

**अथ बाह्योपचारैर् अन्तः-पूजा

तस्मिन् पीठे तम् आसीनं भगवन्तं विभावयन् ।
आसनाद्यैस् तु पुष्पान्तैर् यथा-विध्य् अर्चयेद् बुधः ॥२३७॥
सनातनः- **तस्मिन् स्व-देह-विषयक-पूजिते पीठे निविष्टं तं कृत-न्यासं प्रसादाभिमुखं लिखित-लक्षणं श्री-कृष्णम्; आद्य-शब्देन स्वागतार्घ्य-पाद्याचमनीय-स्नानीय-वस्त्र-युगल-पुनराचमनीय-भूषणानुलेपनानि; यथा-विधीति—आसनाद्यैर् भूषणान्तैर् अभ्यर्च्य न्यास-स्थानेषु तत्-तद्-अक्षरादि-न्यासात्मक-मन्त्रेण जल-गन्धाक्षत-पुष्पैर् अर्चयेद् इत्यर्थः ॥२३७॥

**ततो मुखे’र्चयेद् वेणुं वनमालां च वक्षसि ।
दक्षस्तनोर्ध्वे श्रीवत्सं सव्ये तत्रैव कौस्तुभम् ॥२३८॥
सनातनः- **अत्रैव सव्ये वामस्तनोर्ध्वे एवेत्यर्थः ॥२३८॥

**वैष्णवश् चन्दनेनामुम् आलिप्योपक-निष्ठया ।
प्राग्वद् दीप-शिखाकार-तिलकानि द्विषड् लिखेत् ॥२३९॥
सनातनः- **अमुं भगवन्तं चन्दनेन आलिप्य सम्यग् अनुलिप्य श्रीमद्-अङ्गेषु चन्दनेन भक्ति-च्छेद-विधिना अनुलेपनं कृत्वेत्यर्थः । प्राग्वद् इति—पूर्वम् ऊर्ध्व-पुण्ड्र प्रकरणे निजाङ्गेषु द्वादश-तिलक-निर्माण-विधिर् यथा लिखितस् तथैव श्री-भगवतो भालादिषु मूर्ति-पञ्जर-न्यास-स्थानेषु मूर्ति-पञ्जर-मन्त्रैर् अनामिकया दीप-शिखाकाराणि तिलकानि द्विषट् द्वादश लिखेत् विरचयेद् इत्यर्थः । वैष्णव इत्यस्यायं भावः—क्रम-दीपिकोक्तानुसारेण यानि ज्ञानपरैः स्वाङ्गेष्व् एव चन्दनालेपनादीनि क्रियन्ते, तानि श्री-भगवद्-भक्तिपरो भगवत्येव कुर्यादिति; एवं वैष्णव इत्यग्रेऽप्य् अनुवर्त्य तथैव बोद्धव्यमिति दिक् ॥२३९॥

**यथोक्तं पञ्चभिः पुष्पाञ्जलिभिश् चाभिपूज्य तम् ।
धूपं दीपं च नैवेद्यं मुख-वासादि चार्पयेत् ॥२४०॥
सनातनः- **यथोक्तमिति—मूल-मन्त्रेण पाद-द्वये श्वेत-कृष्ण-तुलसीभ्याम् एकः पुष्पाञ्जलिः, तेनैव हृदये श्वेत-रक्तकरवीराभ्याम् अपरः, तेनैव मूर्ध्नि श्वेत-रक्त-पद्माभ्यां तृतीयः, तेनैव पुनर् मूर्ध्नि तैर् एव तुलस्यादिभिः षड्भिः चतुर्थः, तेनैव सर्वतनौ सर्वैर् एव तैः पञ्चम इत्येवं पञ्चभिः, तत्र च श्वेतानि दक्षिण-भागे, अन्यानि च वाम इति ज्ञेयम् । तं भगवन्तम्; धूपादिकञ्च यथोक्तम् एवार्पयेत्; तत्-तत्-प्रकारोऽग्रे व्यक्तो भावी; आदि-शब्देन ताम्बूलादि ॥२४०॥

**गीतादिभिश् च सन्तोष्य कृष्णम् अस्मै ततो’खिलम् ।
अशक्तो बहिर् अर्चायाम् अर्पयेज् जपम् आचरेत् ॥२४१॥
सनातनः- **अनन्तरं गीत-वाद्य-नृत्यैश्च कृष्णं स्वदेह एव सन्तोष्य, बहिः-पूजायाम् अशक्तश् चेत् तर्हि इदानीम् एतस्मै कृष्णाय अखिलं कर्मात्मानं चाग्रे लेख्य-प्रकारेण समर्पयेत् । ततो जपम् आचरेत्, शक्तस् तु प्रत्यहं बहिःपूजानन्तरमेव कार्मादि-समर्पणं कृत्वा जपं कुर्याद् इत्यर्थः ॥२४१॥

अथान्तर्-याग-माहात्म्यम्

वैष्णव-तन्त्रे—

अश्वमेध-सहस्राणि वाजपेय-शतानि च । एकस्य ध्यान-योगस्य कलां नार्हन्ति षोडशीम् ॥२४२॥

बृहन्-नारदीये (१.११.१२) श्री-वामन-प्रादुर्भावे—

यन्-नामोच्चारणाद् एव सर्वे नश्यन्त्य् उपद्रवाः । स्तोत्रैर् वा अर्हणाभिर् वा किम् उ ध्यानेन कथ्यते ॥२४३॥

नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे—

अयं यो मानसो यागो जरा-व्याधि-भयापहः । सर्व-पापौघ-शमनो भावाभाव-करो द्विज । सतताभ्यास-योगेन देह-बन्धाद् विमोचयेत् ॥२४४॥

**सनातनः- **ध्यान-योगस्य अन्तःपूजा-लक्षणस्य; ध्यान-योगेऽस्येति वा पाठः । भावाभावकरः भोग-मोक्ष-प्रद इत्यर्थः; यद्वा, भावा विविध-चिन्तास् तासाम् अभावकरः ॥२४२-२४४॥

यश् चैवं परया भक्त्या सकृत् कुर्यान् महामते । क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥२४५॥

**स्मरण-ध्यानयोः पूर्वं माहात्म्यं लिखितं च यत् ।
ज्ञेयं तद्-अधिकं चात्रान्तर्यागाङ्गतया तयोः ॥२४६॥
एवं यथा-सम्प्रदायं शक्त्या यावन्-मनः-सुखम् ।
अन्तः-पूजां विधायादाव् आरभेत बहिस् ततः ॥२४७॥
सनातनः- **तत् माहात्म्यं, ततोऽधिकं चात्रान्तर्यागे ज्ञेयं बुधैः । तत्र हेतुः—तयोः स्मरण-ध्यानयोर् अन्तर्यागस्याङ्गत्वेन, अत्र श्री-मूर्तेश् चिन्तनम् अप्य् अस्ति, पूजादिकम् अप्यस्तीत्याधिक्यान् माहात्म्यमपि ततोऽधिकमेव युक्तम् इति भावः ॥२४६-२४७॥

तथा चोक्तं नारदेन—

ध्यात्वा षोडश-सङ्ख्यातैर् उपचारैश् च मानसैः । सम्यग् आराधनं कृत्वा बाह्य-पूजां समाचरेत् ॥२४८॥

**सनातनः- **ध्यात्वा श्री-भगवन्तं सञ्चिन्त्य ॥२४८॥

**अथ बहिः-पूजा

अनुज्ञां देहि भगवन् बहिर् योगे मम प्रभो ।
श्री-कृष्णम् इत्य् अनुज्ञाप्य बहिः पूजां समाचरेत् ॥२४९॥
तत्र त्व् अनेकशः सन्ति पूजा-स्थानानि तत्र च ।
श्री-मूर्तयो बहु-विधाः शालग्राम-शिलास् तथा ॥२५०॥
सनातनः- **तत्र बहिःपूजाचरणे तु पूजायाः स्थानानि अधिष्ठानानि अनेकशो बहु-प्रकाराणि सन्ति; तत्र तेषु पूजास्थानेषु श्रीमूर्तयः श्री-भगवत्-प्रतिकृतयो बहु-विधाः सन्ति, तथा बहु-विधाः शालग्राम-शिलाश्च सन्ति ॥२४९-२५०॥

अथ पूजा-स्थानानि

सम्मोहन-तन्त्रे—

शालग्रामे मनौ यन्त्रे स्थण्डिले प्रतिमादिषु । हरेः पूजा तु कर्तव्या केवले भूतले न तु ॥२५१॥

**सनातनः- **स्थण्डिलं मन्त्रादि-संस्कृत-स्थलं, तस्मिन् ॥२५१॥

एकादश-स्कन्धे [Bह्P ११.११.४२-४६] श्रीमद्-उद्धव-संवादे—

सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥२५२॥

**सनातनः- **मे मम भद्राणि उत्तमानि पूजायाः पदानि अधिष्ठानानि; भद्रेति यन्त्राद्य्-अपेक्षया; यद्वा हे भद्र हे कल्याण-रूपोद्धवेति पृथक् पदम् ॥२५२॥

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥२५३॥

**सनातनः- **तत्रैवाधिष्ठान-भेदेन पूजा-साधन-भेदान् आह—सूर्ये त्विति त्रिभिः । त्रय्या विद्यया, सूक्तैर् उपस्थानादिना च । अङ्ग हे उद्धव ॥२५३॥

वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया । वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥२५४॥ स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि । क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥२५५॥

**सनातनः- **बन्धु-सत्कृत्या बन्धु-सम्मानेन, मुख्य-धिया प्राण-दृष्ट्या, तोयादिभिर् द्रव्यैस् तर्पणादिना तोये, स्थण्डिले भुवि मन्त्र-हृदयैः रहस्य-मन्त्र-न्यासैः; यद्यपि तत्-तत्-पूजायां गन्धादिकम् अपेक्षते, तथापि तत्र तत्र त्रयी-विद्यादीनां प्राधान्याभिप्रायेण तान्य् एवोक्तानि ॥२५४-२५५॥

धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः । युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥२५६॥

**सनातनः- **सर्वाधिष्ठानेषु मध्ये ध्येयम् आह—धिष्ण्येष्व् इति । इति अनेनोक्त-प्रकारेण, एषु धिष्ण्येषु मद्-रूपम् एव ध्यायन्न् अर्चयेत् ॥२५६॥

अथ श्री-मूर्तयः

तत्रैव [Bह्P ११.२७.१२-१४]—

शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्ट-विधा मता ॥२५७॥ चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् । उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥२५८॥ अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥२५९॥

**सनातनः- **लौही—लोहं सुवर्णादि, तन्मयी; लेप्या मृच्-चन्दनादि-मयी; हृदि पूजायां मनोमयी; यद्यपि सर्वासामेव मनोमयीत्वं घटते, तथापि मनसि श्री-भगवत्-परिस्फूर्ति-विशेषापेक्षया पृथग् उक्ता । जीवयति चेतयतीति जीवो भगवानेव तस्य मन्दिरम् अधिष्ठानम् । प्रतिष्ठा प्रकर्षेण तिष्ठत्यस्यामिति प्रतिमैव; यद्वा, प्रतिष्ठया कलान्यासादिना भगवन्-मन्दिरं भवति । श्री-मूर्तेर् भेदे विशेषम् आह—उद्वासेति सार्धेन । उद्वासो विसर्जनम्; स्थिरायाम् अर्चने, अस्थिरायां श्री-शालग्राम-शिलादौ विकल्पः; श्री-शालग्राम-शिलायां न कुर्यात्, सैकत्यां कुर्यात्, अन्यत्र कुर्याद् वा, नवेति । अविलेप्यायां मृन्-मय-लेख्य-व्यतिरिक्तायाम्, अन्यत्र विलेप्यायाञ्च लेख्यायाञ्च परिमार्जनम् एव ॥२५७-२५९॥

गोपाल-मन्त्रोद्दिष्टत्वात् तच्-छ्री-मूर्तिर् अपेक्षिता ।
तथापि वैष्णव-प्रीत्यै लेख्याः श्री-मूर्तयो’खिलाः ॥२६०॥

**अथ श्री-मूर्ति-लक्षणानि **

श्री-हयशीर्ष-पञ्चरात्रे श्री-भगवत्-श्री-हयशीर्ष-ब्रह्म-संवादे—

आदि-मूर्तिर् वासुदेवः सङ्कर्षणम् अथासृजत् । चतुर्मूर्तिः परं प्रोक्तं एकैको भिद्यते त्रिधा । केशवादि-प्रभेदेन मूर्ति-द्वादशकं स्मृतम् ॥२६१॥

**सनातनः- **असृजत् पृथक् प्रकटयामास ॥२६१॥

पङ्कजं दक्षिणे दद्यात् पाञ्चजन्यं तथोपरि । वामोपरि गदा यस्य चक्रं चाधो व्यवस्थितम् । आदि-मूर्तेस् तु भेदो’यं केशवेति पर्कीर्त्यते ॥२६२॥

**सनातनः- **दक्षिणे दक्षिणाधःकरे, तथोपरि दक्षिणोर्ध्वकरे, वामोपरि वामोर्ध्वकरे, अधः वामाधःकरे; दद्यादिति श्री-मूर्ति-प्रादुर्भावण-विधाव् उक्तेः; एवम् अन्यद् अग्रेऽप्यूह्यम् ॥२६२॥

अधरोत्तर-भावेन कृतम् एतत् तु यत्र वै । नारायणाख्या सा मूर्तिः स्थापिता भुक्ति-मुक्तिदा ॥२६३॥

**सनातनः- **अधरोत्तर-भावेन केशवस्य यद्-अधःकर-स्थितं, नारायणस्य तद्-ऊर्ध्व-कर-स्थम् इत्येवम् इत्यर्थः ॥२६३॥

सव्याधः पङ्कजं यस्य पाञ्चजन्यं तथोपरि । दक्षिणोर्ध्वे गदा यस्य चक्रं चाधो व्यवस्थितम् । आदिमूर्तेस् तु भेदो’यं माधवेति प्रकीर्त्यते ॥२६४॥ दक्षिणाधः-स्थितं चक्रं गदा यस्योपरि स्थिता । वामोर्ध्व-संस्थितं पद्मं शङ्खं चाधो व्यवस्थितम् । सङ्कर्षणस्य भेदो’यं गोविन्देति प्रकीर्त्यते ॥२६५॥ दक्षिणोपरि पद्मं तु गदा चाधो व्यवस्थिता । सङ्कर्षणस्य भेदो’यं विष्णुर् इत्य् अभिशब्द्यते ॥२६६॥ दक्षिणोपरि शङ्खं च चक्रं चाधः प्रदर्श्यते । वामोपरि तथा पद्मं गदा चाधः प्रदर्श्यते । मधुसूदन-नामायं भेदः सङ्कर्षणस्य च ॥२६७॥

**सनातनः- **श्री-वासुदेव-सङ्कर्षणयोर् भेदं मूर्ति-षटकम् उक्त्वा श्री-प्रद्युम्नस्य भेदं मूर्ति-त्रयं षट्-श्लोक्या निर्दिशन् तत्रादौ त्रिविक्रम-मूर्तिम् आह—दक्षिणोर्ध्वम् इति सार्धेन; दक्षिणोर्ध्वकरं व्याप्य, दक्षिणोर्ध्व इति सप्तम्यन्तपाठो वा; एवम् अग्रेऽपि । शङ्खमित्यादि नपुंसकत्वम् आर्षम्; एवम् अग्रेऽप्य् अन्यद् ऊह्यम् ॥२६४-२६८॥

वामोर्ध्व-संस्थितं चक्रम् अधः शङ्खं प्रदर्श्यते । ब्रह्माण्डगं वाम-पादं दक्षिणं शेष-पृष्ठगम् ॥२६९॥ दक्षिणोर्ध्वं सहस्रारं पाञ्चजन्यम् अधः-स्थितम् । सप्त-ताल-प्रमाणेन वामनं कारयेत् सदा ॥२७०॥ ऊर्ध्वं दक्षिणतश् चक्रम् अधः पद्मं व्यवस्थितम् । पद्मा पद्म-करा वामे पार्श्वे यस्य व्यवस्थिता ॥२७१॥ स्थितो वाप्य् उपविष्टो वा सानुरागो विलासवान् । प्रद्युम्नस्य हि भेदो’यं श्रीधरेति प्रकीर्त्यते ॥२७२॥

**सनातनः- **श्री-वामन-मूर्तिम् आह—बलीति द्वाभ्याम् । अधःस्थितं भूतले अवस्थितम् इत्यादिकं त्रिविक्रमाद्-विशेषः; कौमुदी कौमोदकी गदा ॥२६९-२७२॥

दक्षिणोर्ध्वं महा-चक्रं कौमुदी तद्-अधः-स्थिता । वामोर्ध्वे नलिनं यस्य अधः शङ्खं विराजते । हृषीकेशेति विज्ञेयः स्थापितः सर्व-कामदः ॥२७३॥ दक्षिणोर्ध्वे पुण्डरीकं पाञ्चजन्यम् अधस् तथा । वामोर्ध्वे संस्थितं चक्रं कौमुदी तद्-अधः-स्थिता । पद्मनाभेति सा मूर्तिः स्थापिता मोक्ष-दायिनी ॥२७४॥

**सनातनः- **अनिरुद्धस्य भेदं श्री-हृषीकेशादि-त्रयम् आह—दक्षिणोर्ध्वम् इति त्रिभिः ॥२७३-२७४॥

दक्षिणोर्ध्वे पाञ्चजन्यम् अधस्तात् तु कुशेशयम् । सवोर्ध्वे कौमुदी चैव हेति-राजम् अधः-स्थितम् । अनिरुद्धस्य भेदो’यं दामोदर इति स्मृतः ॥२७५॥

**सनातनः- **अनिरुद्धस्य भेदं श्री-हृषीकेशादि-त्रयम् आह—दक्षिणोर्ध्वम् इति त्रिभिः ॥२७३-२७४॥

एतेषां तु स्त्रियौ कार्ये पद्म-वीणाधरे शुभे ॥२७६॥

इति क्रमेण मार्गाधिमासाधिपाः केशवादयो द्वादश ।

अथ चतुर्विंशति-मूर्तयः

सिद्धार्थ-संहितायाम्—

वासुदेवो गदा-शङ्ख-चक्र-पद्म-धरो मतः । पद्मं शङ्खं तथा चक्रं गदां वहति केशवः ॥२७७॥ शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा । गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ॥२७८॥ चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः । पद्मं कौमोदकीं शङ्खं चक्रं धत्ते’प्य् अधोक्षजः ॥२७९॥

**सनातनः- **पुरुषोत्तमो धत्ते ॥२७९॥

सङ्कर्षणो गदा-शङ्ख-पद्म-चक्र-धरः स्मृतः । चक्रं गदां पद्म-शङ्खौ गोविन्दो धरते भुजैः ॥२८०॥ गदां पद्मं तथा शङ्खं चक्रं विष्णुर् बिभर्ति यः । चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ॥२८१॥ गदां सरोजं चक्रं च शङ्खं धत्ते’च्युतः सदा । शङ्खं कौमोदकीं चक्रम् उपेन्द्रः पद्मम् उद्वहेत् ॥२८२॥ चक्र-शङ्ख-गदा-पद्म-धरः प्रद्युम्न उच्यते । पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ॥२८३॥ शङ्खं चक्रं गदां पद्मं वामनो वहते सदा । पद्मं चक्रं गदां शङ्खं श्रीधरो वहते भुजैः ॥२८४॥ चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति यः । पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ॥२८५॥ अनिरुद्धश् चक्र-गदा-शङ्ख-पद्म-लसद्-भुजः । हृषीकेशो गदां चक्रं पद्मं शङ्खं च धारयेत् ॥२८६॥ पद्मनाभो वहेत् शङ्खं पद्मं चक्रं गदां तथा । पद्मं चक्रं गदां शङ्खं धत्ते दामोदरः सदा ॥२८७॥ शङ्खं चक्रं सरोजं च गदां वहति यो हरिः । शङ्खं कौमोदकीं पद्मं चक्रं विष्णुर् बिभर्ति यः ॥२८८॥

**सनातनः- **धरते धरति; आत्मनेपदम् आर्षम्; यो बिभर्ति, स विष्णुः; एवम् अग्रेऽपि ॥२८०-२८८॥

एताश् च मूर्तयो ज्ञेया दक्षिणाधः-कर-क्रमात् ॥२८९॥

**सनातनः- **दक्षिणे योऽधःस्थित-करस् तत्-क्रमादित्येवम् आदौ अधस्तनो दक्षिणकरः, पश्चाद् ऊर्ध्व-दक्षिणकरः ततो वामोर्ध्वकरः, ततो वामाधस्तनकर इति क्रमः; एवं श्री-वासूदेवस्य अधोदक्षिणकरे गदा, ऊर्ध्व-दक्षिणकरे शङ्ख, ऊर्ध्व-वामकरे चक्रम्, अधोवामकरे पद्मम् इति ज्ञेयम्; तथा चोक्तं श्री-कृष्णदेवाचार्य-पादैः—

केमसन्दावाप्रविमानि-पूर्वधोजनाः । गोत्रि-श्री-हृ-नृसिंहाच्यूतवानापोपेहकृ-क्रमात् ॥ इति ।

अस्यार्थः-केशव-मधुसूदन-सङ्कर्षण-दामोदर-वासुदेव-प्रद्युम्न-विष्णु-माधवानिरुद्ध-पुरुषोत्तमाधोक्षज-जनार्दन-गोविन्द-त्रिविक्रम-श्रीधर-हृषीकेश-नृसिंहाच्युत-वामन-नारायण-पद्मनाभोपेन्द्र-हरि-कृष्णाख्याश् चतुर्विंशति-श्री-मूर्तयः क्रमाज् ज्ञेया इति । एषां दक्षिणोर्ध्वकरम् आरभ्य क्रमेण शङ्ख-चक्र-गदा-पद्मानि ज्ञेयानि । तथा च तत्-पितृ-श्री-रामाचार्यपादैर् उक्तम्—

केशवादिक-कृष्णान्त-मूर्ति-षट्कचतुष्टये । सव्यापसव्यैर् गणयेत् पुनः कोणात् तथैव च । सव्यम् एत्य पुनः कोणादपसव्यन्तु कोणतः ॥ इति ।

अयमर्थः—सव्येन शङ्खादौ गण्यमाने केशवः, अपसव्येन मधुसूदनः, कोण-गत्या कोणाच्च तस्मात् सव्येन सङ्कर्षणः, अपसव्येन दामोदरः, सव्यम् आगत्य कोणाद् गण्यमाने वासुदेवः, अपसव्यम् आगत्य कोणतः प्रद्युम्नः; एवं वामोर्ध्वकरम् आरभ्य विष्णुः माधवः अनिरुद्धः पुरुषोत्तमः अधोक्षजः जनार्दन इति षट्; वामाधःकरम् आरभ्य गोविन्दस् त्रिविक्रमः श्रीधरो हृषीकेशः नृसिंहः अच्युत इति षट्; दक्षिणाधःकरम् आरभ्य वामनो नारायणः पद्मनाभः उपेन्द्रः हरिः कृष्ण इति षट् गणयेद् इति—इत्थं तत्-तन्-निर्धीरः कार्यः ॥२८९॥

मत्स्य-पुराणे च—

एतद्-उद्देशतः प्रोक्तं प्रतिमा-लक्षणं तथा । विस्तरेण न शक्नोति बृहस्पतिर् अपि द्विजाः ॥२९०॥ इति ।

**सनातनः- **ननु एतावत्य एव श्री-मूर्तयोऽन्या वा सन्ति, तत्र लिखति—एतद् इति । विस्तरेण वक्तुं न शक्नोति; हे द्विजाः शौनकादयः ॥२९०॥

**सेवा-निष्ठा हरेः श्रीमद्-वैष्णवाः पाञ्चरात्रिकाः ।
प्राकट्याद् अखिलाङ्गानां श्री-मूर्तिं बहु मन्यते ॥२९१॥
सेव्या निज-निजैर् एव मन्त्रैः स्व-स्वेष्ट-मूर्तयः ।
शालग्रामात्मके रूपे नियमो नैव विद्यते ॥२९२॥
द्विभुजा जलद-श्यामा त्रिभङ्गी मधुराकृतिः ।
सेव्या ध्यानानुरूपैश् च मूर्तिः कृष्णस्य दैवतैः ॥२९३॥
अन्याश् च विविधा श्रीमद्-अवतारादि-मूर्तयः ।
प्रादुर्भाव-विधाव् अग्रे लेख्यास् तत्-तद्-विशेषतः ॥२९४॥
सनातनः- **ननु शङ्खादि-धारि-चतुर्भुज-श्रीमूर्तयो लिखिताः, न तु श्रीनृसिंह-रघुनाथादि-विशेष-मूर्तयः; तत्-तद्-भक्तैः कीदृशी तत्-तन्-मूर्ति-रुपास्या? विशेषतश्चात्र श्री-गोपालदेवस्य पूजा-विधि-लिखने तस्य प्रकृतिर् अवश्यं विज्ञातुम् अपेक्ष्यते, तत्र लिखति—अन्याश्चेति । आदि-शब्देन चतुर्व्यूह-पार्षदादयः; अग्रे लेख्य-श्रीमूर्ति-प्रादुर्भाव-विधौ लेख्याः । यद्यपि श्रीमद्-गोपालदेवस्य अष्टादशाक्षर-मन्त्रतः लिख्यतेऽर्चा-विधिर् इत्यनेन एतद्-विलासारम्भे श्रीमद्-गोपालदेवस्यैव पूजा-विधि-लिखनं प्रतिज्ञातम्, तदेवात्रोपादेयञ्च; अतस् तस्यैव श्रीमूर्तिरपि लिखितुम् उपयुज्यते; तथापि ग्रन्थारम्भे श्री-वैष्णवानां सर्वेषाम् एव सामान्यतोऽवश्यकृत्य-कर्म-लिखनं प्रतिज्ञातम् अस्तीत्य् अशेष-श्रीमूर्त्य्-अपेक्षया तत्-तद्-विशेष-विज्ञानार्थम्, तथा इतस्ततो वर्तमान-विविध-श्रीमूर्ति-परिचर्यार्थञ्च; प्रसङ्गाद् अन्या अपि श्रीमूर्तयोऽत्र लिखिताः, यथा नृसिंह-परिचर्यादि-ग्रन्थे श्री-कृष्णदेवाचार्यादिभिः सार्व एव ता इति । एवम् अन्यद् अप्य् ऊह्यम् ॥२९४॥

**नित्य-कर्म-प्रसङ्गे’त्र मूर्ति-जन्म-प्रतिष्ठयोः ।
विधिर् न लिखितुं योग्यः स तु लेखिष्यते’ग्रतः ॥२९५॥
सनातनः- **ननु प्रतिष्ठाया भगवन्-मन्दिरं भवतीत्युक्तेः प्रतिष्ठा-विधिस् तथा श्री-मुखाद्य्-अवयव-परिमाणादिना श्री-मूर्ति-प्रादुर्भाव-प्रकारश् चात्रापेक्ष्यते; तत्र लिखति—नित्येति । अत्र अस्मिन् नित्य-कर्म-लिखन-प्रकरणे, मूर्तेः प्रतिकृतेः जन्म प्रादुर्भावः प्रतिष्ठा च, तयोर् विधिः लिखितुम् अयोग्योऽतोऽग्रे कादाचित्क-कृत्य-लिखने ॥२९५॥

अथ शालग्राम-शिलाः

गौतमीय-तन्त्रे—

गण्डक्याश् चैव देशे च शालग्राम-स्थलं महत् । पाषाणं तद्-भवं यत् तत् शालग्रामम् इति स्मृतम् ॥२९६॥

स्कन्द-पुराणे—

स्निग्धा कृष्णा पाण्डरा वा पीता नीला तथैव च । वक्रा रुक्षा च रक्ता च महा-स्थूला त्व् अलाञ्छिता ॥२९७॥ कपिला दर्दुरा भग्ना बहु-चक्रैक-चक्रिका । बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः । बद्ध-चक्राथवा काचिद् भग्न-चक्रा त्व् अधोमुखी ॥२९८॥

**सनातनः- **दर्दुरा—दर्दुरो भेकस् तदाकारेत्यर्थः; कर्वुरेति पाठे मिश्रवर्णा ॥२९८॥

अथ तासां वर्णादि-भेदेन गुण-दोषौ

तत्रैव—

स्निग्धा सिद्धि-करी मन्त्रे कृष्णा कीर्तिं ददाति च । पाण्डरा पाप-दहनी पीता पुत्र-फल-प्रदा ॥२९९॥ नीला सन्दिशते लक्ष्मीं रक्ता रोग-प्रदायिका । रक्षा चोद्वेगदा नित्यं वक्रा दारिद्र्य-दायिका ॥३००॥ स्थूला निहति चैवायुर् निष्फला तु अलाञ्छिता । कपिला कर्बुरा भग्ना बहु-चक्रैक-चक्रिका ॥३०१॥ बृहन्-मुखी बृहच्-चक्रा लग्न-चक्राथवा पुनः ॥३०२। बद्ध-चक्राथवा या स्याद् भग्न-चक्रा त्व् अधो-मुखी । पूजयेद् यः प्रमादेन दुःखम् एव लभेत सः ॥३०३॥

**सनातनः- **दर्दुरा—दर्दुरो भेकस् तदाकारेत्यर्थः; कर्वुरेति पाठे मिश्रवर्णा ॥२९८॥

अग्नि-पुराणे च—

तथा व्याल-मुखी भग्ना विषया बद्ध-चक्रिका । विकारावर्तनाभिश् च नारसिंही तथैव च ॥३०४॥ कपिला विभ्रमावर्ता रेखावर्ता च या शिला । दुःखदा सा तु विज्ञेया सुखदा न कदाचन ॥३०५॥

**सनातनः- **व्याल-मुखी—व्यालस्येव मुखं यस्याः सा; विषमा परस्परासम्मुखचक्रा; विकार-रूपैर् आवर्तै रूपलक्षिता नाभिश्चक्रमध्योन्नतभागो यस्याः सा; विभ्रमावर्ता सन्दिग्धावर्ता; रेखावर्ता रेखा-मण्डलमयावर्ता ॥३०४-३०५॥

स्निग्धा श्यामा तथा मुक्तामाया वा सम-चक्रिका । घोणि-मूर्तिर् अनन्ताख्या गम्भीरा सम्पुटा तथा ॥३०६॥ सूक्ष्म-मूर्तिर् अमूर्तिश् च सम्मुखा सिद्धि-दायिका । धात्री-फल-प्रमाणा या करेणोभय-सम्पुटा । पूजनीया प्रयत्नेन शिला चैतादृशी शुभा ॥३०७॥

**सनातनः- **मुक्ता मुक्ता-फलाकृति-वर्तुला, अमाया अकृत्रिमा इति सर्वत्रान्वेति; यद्वा, सन्धानादि-कर्म-रहिता; घोणिः वराहस् तद्वन्-मूर्तिर् यस्याः; अग्रे लेख्य-लक्षण-वराह-मूर्तिर् वा । सम्पुटा समपुटा, अमूर्तिर् वासुदेव-मूर्तिः, अकारो वासुदेवः स्यात् इति अभिधानात्; सम्मुखा सममुखा, करेणोभय-सम्पुटा करपृष्ठवद् उन्नता करतल-समा च ॥३०६-३०७॥

इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् । पूजिते फलम् आप्नोति इह-लोके परत्र च ॥३०८॥

**सनातनः- **पूजिते, पूजने कृते सति ॥३०८॥

दोषाश् चैते स-कामार्चन-विषयाः

यत उक्तं श्री-भगवता ब्राह्मे—

खण्डितं स्फुटितं भग्नं पार्श्व-भिन्नं विभेदितम् ।
शालग्राम-समुद्भूतं शैलं दोषावहं न हि ॥३०९॥

**सनातनः- **शैलं शिलायाः समूहः ॥३०९॥

श्री-रुद्रेण च स्कान्दे—

खण्डितं त्रुटितं भग्नं शालग्रामे न दोष-भाक् । इष्टा तु यस्य या मूर्तिः स तां यत्नेन पूजयेत् ॥३१०॥

**सनातनः- **खण्डितम् इत्यादि भावे क्त-प्रत्यान्तम् ॥३१०॥

तथा—

चक्रं वा केवलं तत्र पद्मेन सह संयुतम् । केवला वनमाला वा हरिर् लक्ष्म्या सह स्थितः ॥३११॥

**सनातनः- **तथापि लक्ष्म्या सह भगवान् तत्र तिष्ठतीत्यर्थः ॥३११॥

मुख्याः स्निघ्दादयस् तत्रामुख्या रक्तादयो मताः । मुख्याभावे त्व् अमुख्या हि पूज्या इत्य् उच्यते परैः ॥३१२॥

**सनातनः- **पूज्यापूज्यत्वयोः केषाञ्चिन्मतं लिखति—मुख्या इति, मुख्यानां स्निग्धादीनाम् अभावे सति अमुख्या रक्तादय एव पूज्याः । यदि च मुख्या लभ्यन्ते, तदान्य-पूजने तत्-तद्-दोष एवेत्यर्थः ॥३१२॥

अथ तासाम् एव लक्षण-विशेषेण सञ्ज्ञ-विशेषः

ब्राह्मे श्री-भगवद्-ब्रह्म-संवादे—

निवसामि सदा ब्रह्मन् शालाग्रामाख्य-वेश्मनि । तत्रैव रथ-चक्राङ्क-भेद-नामानि मे शृणु ॥३१३॥

**सनातनः- **रथस्येव चक्रं रथ-चक्राकारं यत् सुदर्शन-चक्रं, तस्य अङ्के चिह्न-विषये यो भेदस् तस्मिन् सति यानि नामानि नाम-भेदा भवन्ति, तानि मे मत्तः शृण्व् इत्यर्थः ॥३१३॥

द्वार-देशे समे चक्रे दृश्यते नान्तरीयके । वासुदेवः स विज्ञेयः शुक्लाभश् चातिशोभनः ॥३१४॥

**सनातनः- **नान्तरीयके अवान्तरे; यद्वा, अन्तरं मध्यम् अन्तरा विच्छेदो वा तद्-विहीने; अनतिमध्यदेशस्थे संलग्ने वेत्यर्थः ॥३१४॥

द्वे चक्रे एक-लग्ने तु पूर्व-भागस् तु पुष्कलः । सङ्कर्षणाख्यो विज्ञेयो रक्ताभिश् चातिशोभनः ॥३१५॥ प्रद्युम्नः सूक्ष्म-चक्रस् तु पीत-दीप्तिस् तथैव च । शुषिरं छिद्र-बहुलं दीर्घाकारं तु तद् भवेत् ॥३१६॥ अनिरुद्धस् तु नीलाभो वर्तुलश् चातिशोभनः । रेखा-त्रयं तु तद् द्वारि पृष्ठं पद्मेन लाञ्छितम् ॥३१७॥ सौभाग्यं केशवो दद्यात् चतुष्कोणो भवेत् तु यः । श्यामं नारायणं विद्यान् नाभि-चक्रं तथोन्नतम् ॥३१८॥ दीर्घ-रेखा-समोपेतं दक्षिणे शुषिरं पृथु । ऊर्ध्वं मुखं विजानीयात् द्वारे च हरि-रूपिणम् ॥३१९॥ कामदं मोक्षदं चैव अर्थदं च विशेषतः । परमेष्ठी लोहितभः पद्म-चक्र-समन्वितः ॥३२०॥ बिल्वाकृतिस् तथा पृष्ठे शुषिरं चातिपुष्कलम् । कृष्ण-वर्णस् तथा विष्णुः स्थूले चक्रे सुशोभनः । ब्रमचर्येण पूज्यो’साव् अन्यथा विघ्नदो भवेत् ॥३२१॥

क्वचिच् च—

कपिलो नरसिंहो’थ पृथु-चक्रे च शोभने । ब्रह्मचर्याधिकारी स्यान् नान्यथा पूजनं भवेत् ॥३२२॥ नरसिंहस् त्रिबिन्दुः स्यात् कपिलः पञ्च-बिन्दुकः । ब्रह्मचर्येण पूज्यः स्याद् अन्यथा सर्व-विघ्नदः ॥३२३॥ स्थूलं चक्र-द्वयं मध्ये गुड-लाक्षा-सवर्णकम् । द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥३२४॥ स्फुटितं विषमं चक्रं नारसिंहं तु कापिलम् । सम्पूज्य मुक्तिम् आप्नोति सङ्ग्रामे विजयी भवेत् ॥३२५॥

पाद्मे कार्त्तिक-माहात्म्ये च—

यस्य दीर्घं मुखं पूर्व-कथितैर् लक्षणैर् युतम् ।

रेखाश् च केशराकारा नारसिंहो मतो हि सः ॥३२६॥

ब्राह्मे [Pअद्मP ५.१२०.६१]—

वाराहं शक्ति-लिङ्गे च चक्रे च विषमे स्मृते । इन्द्रनील-निभं स्थूलं त्रि-रेखा-लाञ्छितं शुभम् ॥३२७॥

पाद्मे च तत्रैव—

वराहाकृतिर् आभुग्नश् चक्र-रेखास्व् अलङ्कृतः । वाराह इति स प्रोक्तो भुक्ति-मुक्ति-फल-प्रदः ॥३२८॥

ब्राह्म एव—

दीर्घा काञ्चन-वर्णा या बिन्दु-त्रय-विभूषिता । मत्स्याख्या सा शिला ज्ञेया भुक्ति-मुक्ति-फल-प्रदा ॥३२९॥

क्वचिच् च—

मत्स्य-रूपं तु देवेशं दीर्घाकारं तु यद् भवेत् । बिन्दु-त्रयम् आयुक्तं कास्य-वर्णं विशोभनम् ॥३३०॥

ब्राह्म [Pअद्मP ५.१२०.६३] एव—

कूर्मस् तथोन्नतः पृष्ठे वर्तुलावर्त-पूरितः । हरितं वर्णम् आधत्ते कौस्तुभेन च चिह्नितः ॥३३१॥

पाद्मे च तत्रैव—

कूर्माकारा च चक्राङ्का शिला कूर्मः प्रकीर्तितः ॥३३२॥

ब्राह्म [Pअद्मP ५.१२०.६४] एव—

हयग्रीवो’ङ्कुशाकारो रेखा चक्र-शमीपगाः । बहु-चक्र-समायुक्तं पृष्ठे नीरद-नीलकम् ॥३३३॥

क्वचिच् च—

हयग्रीवाङ्कुशाकारे रेखाः पञ्च भवन्ति हि । बहु-बिन्दु-समाकीर्णे दृश्यन्ते नील-रूपकाः ॥३३४॥

पाद्मे च तत्रैव—

हायग्रीवा यथा लम्बा रेखाङ्का या शिला भवेत् ।

तथासौ स्याद् धयग्रीवः पूजितो ज्ञानदो भवेत् ॥३३५॥

किं च—

अश्वाकृति मुखं यस्य साक्षमालं शिरस् तथा ।

पद्माकृतिर् भवेद् वापि हयशीर्षस् त्व् असौ मतः ॥३३६॥

ब्राह्मे [Pअद्मP ५.१२०.६५-६७] एव—

वैकुण्ठम् मणि-वर्णाभं चक्रम् एकं तथा ध्वजम् । द्वारोपरि तथा रेखा पद्माकारा सुशोभना ॥३३७॥ श्रीधरस् तु तथा देवश् चिह्नितो वनमालया । कदम्ब-कुसुमाकारो रेखा-पञ्चक-भूषितः ॥३३८॥ वर्तुलश् चातिह्रस्वश् च वामनः परिकीर्तितः । अतसी-कुसुम-प्रख्यो बिन्दुना परिशोभितः ॥३३९॥

अन्यत्र च—

वामनाख्यो भवेद् देवो ह्रस्वो यः स्यान् महा-द्युतिः । ऊर्ध्व-चक्रस् त्व् अधश् चक्रः सो’भीष्टार्थ-प्रदो’र्चितः ॥३४०॥

ब्राह्मे [Pअद्मP ५.१२०.६८] एव—

सुदर्शनस् तथा देवः श्याम-वर्णो महा-द्युतिः । वाम-पार्श्वे गदा-चक्रे रेखे चैव तु दक्षिणे ॥३४१॥

पाद्मे कार्त्तिक-माहात्म्ये—

चक्राकारेण पङ्क्तिः सा यत्र रेखा-मयी भवेत् । स सुदर्शन इत्य् एवं ख्यातः पूजा-फल-प्रदः ॥३४२॥

ब्राह्मे [Pअद्मP ५.१२०.६९]—

दामोदरस् तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् । दूर्वाभं द्वार-सङ्कीर्णं पीता रेखा तथैव च ॥३४३॥

पाद्मे च तत्रैव—

उपर्य्-अधश् च चक्रे द्वे नातिदीर्घं मुखे बिलम् । चक्रे च रेखा लम्बैका स च दामोदरः स्मृतः ॥३४४॥

अन्यत्र च—

स्थूलो दामोदरो ज्ञेयः सूक्ष्म-रन्ध्रो भवेत् तु यः । चक्रे च मध्य-देश-स्थे पूजितः सुखदः सदा ॥३४५॥ नाना-वर्णो ह्य् अनन्ताख्यो नाग-भोगेन चिह्नितः । अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥३४६॥

पाद्मे च तत्रैव—

अनन्त-चक्रो बहुभिश् चिह्नैर् अप्य् उपलक्षितः । अनन्तः स तु विज्ञेयः सर्व-पूजा-फल-प्रदः ॥३४७॥

[Pअद्मP ५.१२०.७२-७४]

दृश्यते शिखरे लिङ्गं शालग्राम-समुद्भवम् । यस्य योगेश्वरो नाम ब्रह्म-हत्यां व्यपोहति ॥३४८॥ आरक्तः पद्मनाभाख्यं पङ्कज-च्छत्र-संयुतम् । तुलस्या पूजयेन् नित्यं दरिद्रस् त्व् ईश्वरो भवेत् ॥३४९॥ चन्द्राकृतिं हिरण्याख्यं रश्मि-जालं विनिर्दिशेत् । सुवर्ण-रेखा-बहुलं स्फटिक-द्युति-शोभितम् ॥३५०॥

किं च—

अर्ध-चन्द्राकृतिर् देवो हृषीकेश उदाहृतः । तम् अर्च्य लभते स्वर्गं विषयांश् च समीहिताम् ॥३५१॥ वाम-पार्श्वे समे चक्रे कृष्ण-वर्णः स बिन्दुकः । लक्ष्मी-नृसिंहो विख्यातो भुक्ति-मुक्ति-फल-प्रदः ॥३५२॥ त्रिविक्रमस् तथा देवः श्याम-वर्णो महा-द्युतिः । वाम-पार्श्वे तथा चक्रे रेखा चैव तु दक्षिणे ॥३५३॥ प्रदक्षिणावर्त-कृत-वनमाला-विभूषिता । या शिला कृष्ण-सञ्ज्ञा सा धन-धान्य-सुख-प्रदा ॥३५४॥

गौतमीये—

बहुभिर् जन्मभिः पुण्यैर् यदि कृष्ण-शिलां लभेत् । गोष्पदेन तु चिह्नेन जनुस् तेन समाप्यते ॥३५५॥ चतस्रो यत्र दृश्यन्ते रेखाः पार्श्व-समीपगाः । द्वे चक्रे मध्य-देशे तु सा शिला तु चतुर्मुखा ॥३५६॥

किं च, पाद्मे तत्रैव—

वज्र-कीटोद्भवा रेखाः पङ्क्तीभूताश् च यत्र वै । शालग्राम-शिला या सा विष्णु-पञ्जर-सञ्ज्ञिता ॥३५७॥

**सनातनः- **शुषिरं मुख-च्छिद्रं यत् तद्-दीर्घाकारं भवेत्, छिद्र-बहुलञ्च अवान्तर-बहु-च्छिद्र-युक्तम् इत्यर्थः । नाभिचक्रं चक्रस्य नाभिर् मध्य-भाग इत्यर्थः । तारं प्रणव-रूपम्, ऊर्ध्व-मुखत्वात् माहात्म्याद् वा; यद्वा, तारयतीति तथा तम्, उपर्यधश्च चक्रे द्वे इत्येवं तत्रैव पूर्व-कथितैर् दामोदर-लक्षणैर् युक्तम् । वाराहं विजानीयाद् इति पूर्व-क्रिययैव सम्बन्धः । एवमग्रेऽपि क्वचित् । सा वज्र-कीटोद्भवा रेखामयी पङ्क्तिश् चक्राकारेण विशिष्टा यत्र भवेत्, तं दूर्वाभं द्वारि सङ्कीर्णं च विजानीयात्; शालग्राम-समुद्भवं लिङ्गं चिह्नं चक्रम् इत्यर्थः । शिखरे यस्योपरि दृश्यते, हिरण्याख्यं हिरण्यगर्भाख्यं विनिर्दिशेत्; पाठान्तरं सुगमम्; यत्र यस्यां; सा शालग्रामशिला ॥३१५-३५७॥

नागवत् कुण्डली-भूत-रेखा-पङ्क्तिः स शेषकः । पद्माकारे च पङ्क्ती द्वे मध्ये लम्बा च रेखिका । गरुडः स तु विज्ञेयश् चतुश् चक्रो जनार्दनः ॥३५८॥ चतुश् चक्रः सूक्ष्म-द्वारो वनमालाङ्कितोदरः । लक्ष्मी-नारायणः श्रीमान् भुक्ति-मुक्ति-फल-प्रदः ॥३५९॥

**सनातनः- **एवं नाम-भेदेन वासुदेवाद्या लक्ष्मी-नारायणान्ताः पञ्चत्रिंशद्-भेदाः । तत्रापि केषाञ्चिल्-लक्षण-भेदेन प्रत्येकं बहुधा भेदो ज्ञेयः ॥३५८-३५९॥

एतल् लक्षण-युक्तास् तु शालग्राम-शिलाः शुभाः । याश् च तास्व् अपि सूक्ष्माः स्युस् ताः प्रशस्त-कराः स्मृताः ॥३६०॥

**सनातनः- **शुभाः प्रशस्ताः स्युः ॥३६०॥

तथा च श्री-भगवद्-ब्रह्म-संवादे तत्रैव—

यथा यथा शिला सूक्ष्मा महत् पुण्यं तथा तथा । तस्मात् तां पूजयेन् नित्यं धर्म-कामार्थ-सिद्धये ॥३६१॥ तत्राप्य् आमलकी-तुल्या सूक्ष्मा चातीव या भवेत् । तस्याम् एव सदा ब्रह्मन् श्रिया सह वसाम्य् अहम् ॥३६२॥

**अथ श्री-शालग्राम-शिला-माहात्म्यम्

शालग्राम-शिला-स्पर्शात् कोटि-जन्माघ-नाशनम् ।
किं पुनर् यजनं तत्र हरि-सान्निध्य-कारकम् ॥३६३॥**

पाद्मे माघ-माहात्म्ये तत्रैव—

यः पूजयेद् धरिं चक्रे शालग्राम-शिलोद्भवे । राजसूय-सहस्रेण तेनेष्टं प्रतिवासरम् ॥३६४॥ यद् आमनन्ति वेदान्ता ब्रह्म निर्गुणम् अच्युतम् । तत्-प्रसादो भवेन् नृणां शालग्राम-शिलार्चनात् ॥३६५॥ महाकाष्ठ-स्थितो वह्निर् मथ्यमानः प्रकाशते । यथा तथा हरिर् व्यापी शालग्रामे प्रकाशते ॥३६६॥ अपि पाप-समाचाराः कर्मण्य् अनधिकारिणः । शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥३६७॥

न तथा रमते लक्ष्म्यां न तथा निज-मन्दिरे ।

शालग्राम्-शिला-चक्रे यथा स रमते सदा ॥३६८॥

अग्निहोत्रं हुतं तेन दत्ता पृथ्वी स-सागरा ।

येनार्चितो हरिश् चक्रे शालग्राम-शिलोद्भवे ॥३६९॥

कामैः क्रोधैः प्रलोभैश् च व्याप्तो यो’त्र नराधमः ।

सो’पि याति हरेर् लोकं शालग्राम-शिलार्चनात् ॥३७०॥

यः पूजयति गोविन्दं शालग्रामे सदा नरः ।

आहूत-सम्प्लवं यावत् न स प्रच्यवते दिवः ॥३७१॥

**सनातनः- **आहूतः कालगत्या जीव-कर्मभिर् वा आकारित इव यः सम्प्लवः प्रलयः; यद्वा, यज्ञ-भागार्थं मन्त्रैर् आहूता ये देवादयस् तेषां सम्प्लवो नाम नाशः, तत्-पर्यन्तम्; यद्वा, भ-कारस्थाने ह-कारः छान्दसः, सर्वभूत-सम्प्लव-पर्यन्तम् इत्यर्थः । दिवः ऊर्ध्व-लोकात् वैकुण्ठ-लक्षणात्; क्रम-गत्य्-अपेक्षया स्वर्गाद् एव वा ॥३७१॥

विना तीर्थैर् विना दानैर् विना यज्ञैर् विना मतिम् ।

मुक्तिं याति नरो वैश्य शालग्राम-शिलार्चनात् ॥३७२॥

**सनातनः- **मतिं ज्ञानम् ॥३७२॥

नरकं गर्भ-वासं च तिर्यक्त्वं कृमि-योनिताम् ।

न याति वैश्य पापो’पि शालग्रामे’च्युतार्चकः ॥३७३॥

**सनातनः- **हे वैश्य, जात्या कर्मणा च सर्वथा पापोऽपि ॥३७३॥

दीक्षा-विधान-मन्त्र-ज्ञश् चक्रे यो बलिम् आहरेत् ।

स याति वैष्णवं धाम सत्यं सत्यं मयोदितम् ॥३७४॥

**सनातनः- **बलिं पूजाम् उपहारं वा, धाम गृहं श्री-वैकुण्ठलोकम् इत्यर्थः ॥३७४॥

नैवेद्यैर् विविधैः पुष्पैर् धूपैर् दीपैर् विलेपनैः ।

गीत-वादित्र-स्तोत्राद्यैः शालग्राम-शिलार्चनम् ॥३७५॥

कुरुते मानवो यस् तु कलौ भक्ति-परायणः ।

कल्प-कोटि-सहस्राणि रमते सन्निधौ हरेः ॥३७६॥

लिङ्गैस् तु कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः ।

शालग्राम-शिलायां तु एकेनापीह तत् फलम् ॥३७७॥

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः ।

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥३७८॥

शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः ।

पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥३७९॥

शालग्राम-शिला यत्र तत्-तीर्थं योजन-त्रयम् ।

यत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत् ॥३८०॥

शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।

कीकटो’पि मृतो याति वैकुण्ठ-भवनं नर ॥३८१॥

**सनातनः- **नर हे वैश्य, नर इति प्रथमान्तपाठो वा; कीकटोऽपीति कीकट-देशोद्भवः—अधमोऽपीत्यर्थः ॥३८१॥

शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् ।

भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥३८२॥

स्कान्दे कार्त्तिक-माहात्म्ये [पद्म ५.१२०.४-४३] श्री-शिव-स्कन्द-संवादे—

शालग्राम-शिलायां तु त्रैलोक्यं स-चराचरम् । मया सह महासेन लीनं तिष्ठति सर्वदा ॥३८३॥

**सनातनः- **महासेन हे कार्तिकेय ॥३८३॥

दृषा प्रणमिता येन स्नापिता पूजिता तथा । यज्ञ-कोटि-समं पुण्यं गवां कोटि-फलं लभेत् ॥३८४॥ कामासक्तो’पि यो नित्यं भक्ति-भाव-विवर्जितः । शालग्राम-शिलां विप्र सम्पूज्यैवाच्युतो भवेत् ॥३८५॥

**सनातनः- **भक्ति-विश्वास-लक्षणा, भावः प्रेमा, ताभ्यां विवर्जितोऽपि; अच्युत इव भवेत् सारूप्य-प्राप्त्या ॥३८५॥

शालग्राम-शिला-बिम्बं हत्या-कोटि-विनाशनम् । स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥३८६॥ शालग्राम-शिलां दृष्ट्वा यान्ति पापान्य् अनेकशः । सिंहं दृष्ट्वा यथा यान्ति वने मृग-गणा भयात् ॥३८७॥ नमस्करोति मनुजः शालग्राम-शिलार्चने । पापानि विलयं यान्ति तमः सूर्योदये यथा ॥३८८॥

**सनातनः- **यान्ति अपयान्ति ॥३८८॥

कामासक्तो’थवा क्रुद्धः शालग्राम-शिलार्चनम् । भक्त्या वा यदि वा’भक्त्या कृत्वा मुक्तिम् अवाप्नुयात् ॥३८९॥ वैवस्वतं भयं नास्ति तथा मरण-जन्मनोः । यः कथां कुरुते विष्णोः शालग्राम-शिलाग्रतः ॥३९०॥

**सनातनः- **मरण-जन्मनोः, ताभ्यामपि भयं नास्ति ॥३९०॥

गीतैर् वाद्यैस् तथा स्तोत्रैः शालग्राम-शिलार्चनम् । कुरुते मानवो यस् तु कलौ भक्ति-परायणः । कल्प-कोटि-सहस्राणि रमते विष्णु-सद्मनि ॥३९१॥ शालग्राम-नमस्कारे’भावेनापि नरैः कृते । भयं नैव करिष्यन्ति मद्-भक्ता ये नरा भुवि ॥३९२॥

**सनातनः- **अभावेन भाव-राहित्येनापि, मद्-भक्ता इति पाठे मया सह कृष्ण-भेदापराधतो भयं नैव करिष्यन्तीत्यर्थः; यद्वा, मत् मत्तः संहारकाद् अपि; भक्ताः कृष्ण-भक्ताः ॥३९२॥

मद्-भक्ति-बल-दर्पिष्ठा मत्-प्रभुं न नमन्ति ये ।

वासुदेवं न ते ज्ञेया मद्-भक्ताः पापिनो हि ते ॥३९३॥

शालग्राम-शिलायां तु सदा पुत्र वसाम्य् अहम् । दत्तं देवेन तुष्टेन स्व-स्थानं मम भक्तितः ॥३९४॥ पद्म-कोटि-सहस्रैस् तु पूजिते मयि यत् फलम् । तत् फलं कोटि-गुणितं शालग्राम-शिलार्चने ॥३९५॥ पूजितो ‘हं न तैर् मर्त्यैर् नमितो’हं न तैर् नरैः । न कृतं मर्त्य-लोके यैः शालग्राम-शिलार्चनम् ॥३९६॥ शालग्राम-शिलाग्रे तु यः करोति ममार्चनम् । तेनार्चितो’हं सततं युगानाम् एकविंशतिम् ॥३९७॥ किम् अर्चितैर् लिङ्ग-शतैर् विष्णु-भक्ति-विवर्जितैः । शालग्राम-शिला-बिम्बं नार्चितं यदि पुत्रक ॥३९८॥ अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्राम-शिला-लग्नं सर्वं याति पवित्रताम् ॥३९९॥ यो हि माहेश्वरो भूत्वा वैष्णव-लिङ्गम् उत्तमम् ॥ द्वेष्टि वै याति नरकं यावद् इन्द्राश् चतुर्दश ॥४००॥ सकृद् अप्य् अर्चिते बिम्बे शालग्राम-शिलोद्भवे । मुक्तिं प्रयान्ति मनुजा नूनं साङ्ख्येन वर्जिताः ॥४०१॥ मल्-लिङ्गैः कोटिभिर् दृष्टैर् यत् फलं पूजितैस् तु तैः । शालग्राम-शिलायां तु एकेनापि हि तद् भवेत् ॥४०२॥ तस्माद् भक्त्या च मद्-भक्तैः प्रीत्य्-अर्थे मम पुत्रक । कर्तव्यं सततं भक्त्या शालग्राम-शिलार्चनम् ॥४०३॥ शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥४०४॥ शालग्राम-शिलाग्रे तु सकृत् पिण्डेन तर्पिताः । वसन्ति पितरस् तस्य न सङ्ख्या तत्र विद्यते ॥४०५॥

**सनातनः- **येन सकृद् अपि तर्पिताः, तस्य पितरो यावत् कालं तर्पिता भवन्ति, तस्य सङ्ख्या नास्तीत्यर्थः । वसन्तीति पाठे स्वर्गादाव् इति शेषः ॥४०५॥

प्रमाणम् अस्ति सर्वस्य सुकृतस्य हि पुत्रक । फलं प्रमाण-हीनं तु शालग्राम-शिलार्चने ॥४०६॥

**सनातनः- **प्रमाणम् इयत्ता ॥४०६॥

यो ददाति शिलां विष्णोः शालग्राम-समुद्भवाम् । विप्राय विष्णु-भक्ताय तेनेष्टं बहुभिः मखैः ॥४०७॥

(अत्र-प्रभृति श्लोका आकरे न दृश्यन्ते)

मानुष्ये दुर्लभा लोके शालग्रामोद्भवा शिला । प्राप्यते न विना पुण्यैः कलि-काले विशेषतः ॥४०८॥ स धन्यः पुरुषो लोके सफलं तस्य जीवितम् । शालग्राम-शिला शुद्धा गृहे यस्य च पूजिता ॥४०९॥ सन्नियम्येन्द्रिय-ग्रामं शालग्राम-शिलार्चनम् । यः कुर्यान् मानवो भक्त्या पुष्पे पुष्पे’श्वमेध-भाक् ॥४१०॥ काले वा यदि वाकाले शालग्राम-शिलार्चनम् । भक्त्या वा यदि वाभक्त्या यः करोति स पुण्य-भाक् ॥४११॥ द्वेषेणापि च लोभेन दम्भेन कपटेन वा । शालग्रामोद्भवं देवं दृष्ट्वा पापात् प्रमुच्यते ॥४१२॥ अशुचिर् वा दुराचारः सत्य-शौच-विवर्जितः । शालग्राम-शिलां स्पृष्ट्वा सद्य एव शुचिर् भवेत् ॥४१३॥ तिल-प्रस्थ-शतं भक्त्या यो ददाति दिने दिने । तत् फलं समवाप्नोति शालग्राम-शिलार्चने ॥४१४॥ पत्रं पुष्पं फलं मूलं तोयं दूर्वाक्षतं सुत । जायते मेरुणा तुल्यं शालग्राम-शिलार्पितम् ॥४१५॥ विधि-हीनो’पि यः कुर्यात् क्रिया-मन्त्र-विवर्जितः । चक्र-पूजाम् अवाप्नोति सम्यक् शास्त्रोदितं फलम् ॥४१६॥

**सनातनः- **चक्रं श्री-शालग्राम-शिलारूपं, तस्य पूजां यः कुर्यात् ॥४१६॥

तत्रैव चान्यत्र—

स्कन्धे कृत्वा तु यो’ध्वानं वहते शैल-नायकम् । तेनोढं तु भवेत् सर्वं त्रैलोक्यं स-चराचरम् ॥४१७॥

**सनातनः- **अध्वानं व्याप्य पथीत्यर्थः; शैल-नायकं श्री-शालग्राम-शिलाम् इत्यर्थः ॥४१७॥

ब्रह्म-हत्यादिकं पापं यत् किञ्चित् कुरुते नरः । तत् सर्वं निर्दहत्य् आशु शालग्राम-शिलार्चनम् ॥४१८॥ न पूजनं न मन्त्राश् च न जपो न च भावना । न स्तुतिर् नोपचारश् च शालग्राम-शिलार्चने ॥४१९॥ शालग्राम-शिला यत्र तत् तीर्थं योजन-त्रयम् । तत्र दानं च होमश् च सर्वं कोटि-गुणं भवेत् ॥४२०॥ शालग्राम-शिलायां तु यः श्राद्धं कुरुते नरः । पितरस् तस्य तिष्ठन्ति तृप्ताः कल्प-शतं दिवि ॥४२१॥ शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः । कीकटो’पि मृतो याति वैकुण्ठ-भुवनं नरः ॥४२२॥

पाद्मे च—

शालग्राम-शिला-चक्रं यो दद्याद् दानम् उत्तमम् । भू-चक्रं तेन दत्तं स्यात् स-शैल-वन-काननम् ॥४२३॥

गरुड-पुराणे—

तिष्ठन्ति नित्यं पितरो मनुष्यास् तीर्थानि गङ्गादिक-पुष्कराणि । यज्ञाश् च मेधा ह्य् अपि पुण्य-शैलाश् चक्राङ्किता यस्य वसन्ति गेहे ॥४२४॥

**सनातनः- **यत्र यस्मिन् गृहे चक्राङ्किताः श्रीशालग्राम-शिला वसन्ति, तत्र पित्रादयो नित्यं तिष्ठन्ति, तत्र यज्ञा विविध-पूजाः, मेधा हिंसालक्षणा अश्वमेधादयः; यज्ञाश्वेति पाठे अश्वमेध-यज्ञा इत्यर्थः; यद्वा, यज्ञेऽश्वानां मेधा हिंसा, अर्थस् तु स एव ॥४२४॥

पाद्मे कार्त्तिक-माहात्म्ये श्री-यम-धूम्रकेश-संवादे—

शालग्राम-शिलायां तु यैर् नरैः पूजितो हरिः ।

संशोध्य तेषां पापानि मुक्तये बुद्धितो भवेत् ॥४२५॥

कार्त्तिके मथुरायां तु सारूप्यं दिशते हरिः ।

शालग्राम-शिलायां वै पितॄण् उद्दिश्य पूजितः ।

कृष्णः समुद्धरेत् तस्य पितॄन् एतान् स्वलोकताम् ॥४२६॥

बृहन्-नारदीये [१.३८.६७-६८] च यज्ञध्वजोपाख्यानान्ते—

शालग्राम-शिला-रूपी यत्र तिष्ठति केशवः । न बाधन्ते’सुरास् तत्र भूत-वेतालकादयः ॥४२७॥

**सनातनः- **तत्र कार्तिक-मासे, तत्रापि श्री-मथुरायां विशेषम् आह—कार्तिक इति ॥४२६-४२७॥

शालग्राम-शिला यत्र तत्-तीर्थं तत् तपो-वनम् । यतः सन्निहितस् तत्र भगवान् मधुसूदनः ॥४२८॥

शालग्राम-शिलास् ताश् च यदि द्वादश पूजिताः ।
शतं वा पूजितं भक्त्या तदा स्याद् अधिकं फलम् ॥४२९॥

अथ बाहुल्ये तासां फल-विशेषः

पाद्मे माघ-माहात्म्ये [३.३१.१२४-१२६] देवदूत-विकुण्डल-संवादे—

शिला द्वादश भो वैश्य शालग्राम-शिलोद्भवाः । विधिवत् पूजिता येन तस्य पुण्यं वदामि ते ॥४३०॥ कोटि-द्वादश-लिङ्गैस् तु पूजितैः स्वर्ण-पङ्कजैः । यत् स्याद् द्वादश-कालेषु दिनेनैकेन तद् भवेत् ॥४३१। यः पुनः पूजयेद् भक्त्या शालग्राम-शिलाशतम् । उषित्वा स हरेर् लोके चक्रवर्तीह जायते ॥४३२।

**सनातनः- **स्वर्ण-पङ्कजैः कृत्वा पूजितैः सद्भिः पूजितेष्व् इत्यर्थः यत् फलं स्यात्, इहलोके चक्रवर्ती सन् जायते, श्री-भगवद्-भक्ति-प्रचारणार्थ-माहात्म्येच्छाविशेषेणेति ज्ञेयम् ॥४३१-४३२॥

स्कान्दे कार्त्तिक-माहात्म्ये [पद्म ६.१२०.३१-३३] श्री-शिव-स्कन्द-संवादे—

द्वादशैव शिला यो वै शालग्राम-समुद्भवाः । अर्चयेद् वैष्णवो नित्यं तस्य पुण्यं निबोध मे ॥४३३॥ कोटि-लिङ्ग-सहस्रैस् तु पूजितैर् जाह्नवी-तटे । काशी-वासे युगान्य् अष्टौ दिनेनैकेन तद् भवेत् ॥४३४॥

**सनातनः- **जाह्नवी-तटे कोटि-लिङ्ग-सहस्रैः पूजितैर् यत् फलं, युगान्य् अष्टौ व्याप्य काशीवासे च यत् फलं तत् ॥४३४॥

किं पुनर् बहुना यस् तु पुजयेद् वैष्णवो नरः । न हि ब्रह्मादयो देवाः सङ्ख्यां कुर्वन्ति पुण्यतः ॥४३५॥

**सनातनः- **बहवः बह्वीः; सुबहुर् इति क्वचित् पाठः । पुण्यतः पुण्ये विषये सङ्ख्यां न कुर्वन्ति, कर्तुं न शक्नुवन्तीत्यर्थः; यद्वा, पुण्यतो हेतोः सङ्ख्यां न कुर्वन्ति, असङ्ख्येयस्य सङ्ख्याकरणापराधेन पुण्य-क्षयापत्तेर् इत्यर्थः ॥४३५॥

** अथ तत्-क्रय-विक्रय-निषेधः**

तत्रैव [पद्म ३.३१.१४४-१४६]—

शालग्राम-शिलायां यो मूल्यम् उद्घातयेन् नरः । विक्रेता चानुमन्ता च यः परीक्षाम् उदीरयेत् ॥४३६॥

**सनातनः- **यश्च अनुमन्ता, मूल्ये सम्मतिकर्ता, यश्च तां परीक्ष्य गुण-दोषादिकं विचार्य तन्मूल्यम् अनुमोदयेत्; पाठान्तरे मूल्यार्थं परीक्षा क्रियताम् इत्य् उच्चारयेदपि यः; यद्वा, विचारेण गुण-दोषादिकम् अपि वदेद् इत्यर्थः ॥४३६॥

सर्वे ते नरकं यान्ति यावद् आहूत-सम्प्लवम् । अतः संवर्जयेद् विप्र चक्रस्य क्रय-विक्रयम् ॥४३७॥

**अथ प्रतिष्ठा निषेधः **

तत्रैव—

शालग्राम-शिलायां तु प्रतिष्ठा नैव विद्यते । महा-पूजां तु कृत्वादौ पूजयेत् तां ततो बुधः ॥४३८॥ इति ।

**अतो’धिष्ठान-वर्गेषु सूर्यादिष्व् इव मूर्तिषु ।
शालग्राम-शिलैव स्याद् अधिष्ठानोत्तमं हरेः ॥४३९॥
सनातनः- **मूर्तिषु प्रतिकृतिष्व् अपि ॥४३९॥

अथ सर्वाधिष्ठान-श्रैष्ठ्यम्

पाद्मे [३.३१.११५-११७] तत्रैव—

हृदि सूर्ये जले वाथ प्रतिमा-स्थण्डिलेषु च । समभ्यर्च्य हरिं यान्ति नरास् ते वैष्णवं पदम् ॥४४०॥ अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामे-शिला-चक्रे वज्र-कीट-विनिर्मिते ॥४४१॥ अधिष्ठानं हि तद् विष्णोः सर्व-पाप-प्रणाशनम् । सर्व-पुण्य-प्रदं वैश्य सर्वेषाम् अपि मुक्तिदम् ॥४४२॥

**सनातनः- **अथवेति पूर्वापरितोषे; सर्वदा पूज्यत्वे हेतुः—अधिष्ठानं हीति ॥४४१-४४२॥

तत्रैव कार्त्तिक-माहात्म्ये यम-धूम्रकेश-संवादे—

पूजा च विहिता तस्य प्रतिमायां नृपात्मज ।

शैली दारुमयी लौही लेप्या लेख्या च सैकता ।

मनोमयी मणिमयी श्री-मूर्तिर् अष्टधा स्मृता ॥४४३॥

शालग्राम-शिलायां तु साक्षात् श्री-कृष्ण-सेवनम् ।

नित्यं सन्निहितस् तत्र वासुदेवो जगद्-गुरुः ॥४४४॥

**सनातनः- **तु-शब्दः पूर्वतो वैशिष्टये तद् एवाह—साक्षादिति ॥४४४॥

स्कान्दे कार्त्तिक-माहात्म्ये श्री-शिव-स्कन्द-संवादे—

सुवर्णार्चा न रत्नार्चा न शिलार्चा सुरोत्तम । शालग्राम-शिलायां तु सर्वदा वसते हरिः ॥४४५॥

**सनातनः- **सुवर्णस्य अर्चा प्रतिमा, तदादिषु हरिः सर्वदा न वसतीत्यर्थः; यद्वा, न हरेः प्रियेति शेषः ॥४४५॥

अत एवोक्तम्—

हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदे नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् । श्रीशाधीन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं शालग्राम-शिला-नृसिंह-महिमा को’प्य् एष लोकोत्तरः ॥४४६॥

**सनातनः- **पादतोयं श्री-चरणोदकं, श्रीशः शालग्रामशिलारूप एव भगवान्, तद्-अधीनमतिः तत्-स्मरणम् इत्यर्थः । हरिश्च शालग्रामशिलात्मक एव, तस्य जनैः सेवकैः सह स्थितिः ॥४४६॥

**शालग्राम-शिला-रूप-भगवन्-महिमाम्बुधेः ।
ऊर्मीन् गणयितुं शक्यः श्री-चैतन्याश्रितो’पि कः ॥४४७॥
सनातनः- **ऊर्मीन् इति समुद्र-तरङ्ग-गणवत् माहात्म्य-परम्परा इत्यर्थः । श्री-युक्त-चैतन्यं सर्वज्ञत्वादिकं तेनाश्रितोऽपि । स्वमते श्री-चैतन्यदेवम् आश्रित परम-शक्तिमत्त्वं प्राप्तोऽपीत्यर्थः । यथोर् मयः केनापि न गणयितुं शक्यन्ते, तद्वत् अनन्तत्वादिति भावः ॥४४७॥

अथ शालग्राम-शिला-पूजा-नित्यता

पाद्मे—

शालग्राम-शिला-पूजा विना यो’श्नाति किञ्चन । स चण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः ॥४४८॥

स्कान्दे च—

गौरवाचल-शृङ्गाग्रैर् भिद्यते यस्य वै तनुः । न मतिर् जायते यस्य शालग्राम-शिलार्चने ॥४४९॥ इति ।

**सनातनः- **गौरवं गरिमा, तद्-युक्तस्याचलस्य; यद्वा, गौरवेण अचलं स्थिरं यच्-छृङ्गम् अर्थात् पर्वत एव तस्याग्रैः । पाठान्तरं सुगमम् । भिद्यते विदार्यते; यद्वा, शृङ्गाग्रेभ्यो निपात्य चूर्णीक्रियत इत्यर्थः ॥४४८-४४९॥

**एवं श्री-भगवान् सर्वैः शालग्राम-शिलात्मकः ।
द्विजैः स्त्रीभिश् च शूद्रैश् च पूज्यो भगवतः परैः ॥४५०॥
सनातनः- **एवं लिखित-प्रकारेण शालग्रामशिलात्मकः तत्-स्वरूपः श्री-भगवान् एवेति तद्-भजने सर्वेषाम् अधिकारोऽभिप्रेतः; तदेवाभिव्यञ्जयति—सर्वैर् द्विजादिभिर् जनैः सम्यक् पूज्य इति । तत्र द्विजैर् इति त्रिवर्णैर् विप्र-क्षत्रिय-वैश्यैर् इत्यर्थः । ननु—

ब्राह्मणस्यैव पूज्योऽहं शुचेरप्य् अशुचेरपि । स्त्री-शूद्र-कर-संस्पर्शो वज्रपात-समो मम ॥ इति ।

शालग्राम-शिलाप्रसङ्गे श्री-भगवद्-वचनेन स्त्री-शूद्राणां तत्-पूजां निषिध्यते, तत्र लिखति—भगवतः परैर् इति । यथा-विधि दीक्षां गृहीत्वा भगवत्-पूजापरैः सद्भिर् इत्यर्थः ॥४५०॥

तथा स्कान्दे श्री-ब्रह्म-नारद-संवादे चातुर्मास्य-व्रते शालग्राम-शिलार्चा-प्रसङ्गे—

ब्राह्मण-क्षत्रिय-विशां सच्-छूद्राणाम् अथापि वा । शालग्रामे’धिकारो’स्ति न चान्येषां कदाचन ॥४५१॥

तत्रैवान्यत्र—

स्त्रियो वा यदि वा शूद्रा ब्राह्मणाः क्षत्रियादयः । पूजयित्वा शिला-चक्रं लभन्ते शाश्वतं पदम् ॥४५२॥ इति ।

अतो निषेधकं यद् यद् वचनं श्रूयते स्फुटम् ।
अवैष्णव-परं तत् तद् विज्ञेयं तत्त्व-दर्शिभिः ॥४५३॥

यथा—

ब्राह्मणस्यैव पूज्यो’हं शुचेर् अप्य् अशुचेर् अपि । स्त्री-शूद्र-कर-संस्पर्शो वज्राद् अपि सुदुःसहः ॥४५४॥ प्रणवोच्चारणार्चैव शालग्राम-शिलार्चनात् । ब्राह्मणी-गमनाच् चैव शूद्रश् चण्डालताम् इयात् ॥४५५॥

**सनातनः- **तद् एव श्री-नारदोक्त्या प्रमाणयति—ब्राह्मणेति । सतां वैष्णवानां शूद्राणां, शालग्रामे श्री-शालग्राम-शिलार्चने, अन्येषाम् असतां शूद्राणाम् । अतएव शूद्रम् अधिकृत्योक्तं वायु-पुराणे—

अयाचकः प्रदाता स्यात् कृषिं वृत्त्य्-अर्थम् आचरेत् । पुराणं शृणुयान् नित्यं शालग्रामं च पूजयेत् ॥ इति ।

एवं महा-पुराणानां वचनैः सह—ब्राह्मणस्यैव पूज्यो’हम् इति वचनस्य विरोधान् मात्सर्य-परैः स्मार्तैः कैश्चित् कल्पितम् इति मन्तव्यम् । यदि च युक्त्या सिद्धं स-मूलं स्यात् तर्हि चावैष्णविः शूद्रैस् तादृशीभिश् च स्त्रीभिस् तत्-पूजा न कर्तव्या, यथा-विधि गृहीत-विष्णु-दीक्षाकैश् च तैः कर्त्व्येति व्यवस्थापनीयम् । यतः शूद्रेष्व् अन्त्यजेष्व् अपि मध्ये ये वैष्णवास् ते शूद्रादयो न किलोच्यन्ते । तथा च नारदीये—

श्वपचो’पि महीपाल विष्णोर् भक्तो द्विजोधिकः इति ।

इतिहास-समुच्चये—

न शूद्रा भगवद्-भक्तं निषादं श्वपचं तथा । वीक्षते जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ इति ।

पाद्मे च—

न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः । सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इति ।

एतद्-आदिकं चाग्रे वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि । किं च, भगवद्-दीक्षा-प्रभावेन शूद्रादीनाम् अपि विप्र-साम्यं सिद्धम् एव । तथा च तत्र—यथा काञ्चनतां याति इत्य् आदि । एतच् च प्राग्-दीक्षा-माहात्म्ये लिखितम् एव । अत एव तृतीय-स्कन्धे देवहूति-वाक्यम् [Bह्P ३.३३.६]—

यन्-नाम-धेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् । श्वादो’पि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् ॥ इति ।

सवनाय यजनाय कल्पते योग्यो भवतीत्य् अर्थः । अत एव विप्रैः सह वैष्णवानाम् एकत्रैव गणना । तथा च हरि-भक्ति-सुधोदये श्री-भगवद्-ब्रह्म-संवादे—

तीर्थान्य् अश्वत्थ-तरवो गावो विप्रास् तथा स्वयम् । मद्-भक्ताश् चेति विज्ञेयाः पञ्च ते तनवो मम ॥ इति ।

चतुर्थ-स्कन्धे [Bह्P ४.२१.१२] श्री-पृथु-महाराज-वर्णने—

सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् । अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ इति ।

ईमहाराजस्योक्तौ [Bह्P ४.२१.३७]

मा जातु तेजः प्रभवेन् मह-र्द्धिभिस् तितिक्षया तपसा विद्यया च । देदीप्यमाने ञ्जित-देवतानां कुले स्वयं राज-कुलाद् द्विजानाम् ॥ इति ।

अत्र श्री-स्वामि-पादानां टीका—महत्यश् च ता ऋद्धयश् च ताभिर् यद्-राज-कुलस्य तेजस् तत् तस्मात् सकाशाद् द्विजानां विप्राणां कुले अजितो देवता-पूज्यो येषां वैष्णवानां, तेषां कुले मा जातु प्रभवेत् । कदाचिद् अपि प्रभवं न करोतु । कथम्भूते ? समृद्धिभिर् विनापि स्वयम् एव तितिक्षादिभिर् देदीप्यमान इति ।

पुरञ्जनोक्तौ [Bह्P ३.२६.२४] च—

तस्मिन् दधे दमम् अहं तव वीर-पत्नि यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् । पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥ इति ।

तत्रापि सैव टीका—हे वीर-पत्नि ! यस् ते कृतापराधः । तस्मिन्न् अहं ब्राह्मण-कुलाद् अन्यत्र अन्यस्मिन् मुररिपु-दासाद् इतरत्र च दमं दधे, दण्डं करोमीत्य् अदि । ईदृशानि च वचनानि श्री-भागवतादौ बहून्य् एव सन्ति । इत्थं वैष्णवानां ब्राह्मणैः सह साम्यम् एव सिध्यति । किं च—विप्राद् द्विषड्-गुण-युतात् [Bह्P ७.९.१०] इत्य् आदि-वचनैर् वैष्णव-ब्राह्मणेभ्यो नीच-जाति-जातानाम् अपि वैष्णवानां श्रैष्ठ्यं निर्दिश्यतेतराम् । अत एवोक्तं श्री-भगवता श्री-हयग्रीवेण श्री-हयशीर्ष-पञ्चरात्रे श्री-पुरुषोत्तम-प्रतिष्ठान्ते—

मूर्तिपानां तु दातव्या देशिकार्धेन दक्षिणा । तद्-अर्धं वैष्णवानां तु तद्-अर्धं तद्-द्विजन्मनाम् ॥ इति ।

अतो युक्तम् एव लिखित सर्वैर् भगवतः परैः पूज्य इति । तथा च ब्रह्म-वैवर्ते प्रियव्रतोपाख्याने धर्म-व्याधस्यापि श्री-शालग्राम-शिला-पूजनम् उक्तम्—

ततः स विस्मितः श्रुत्वा धर्म-व्याधस्य तद्-वचः । तस्थौ स च समानीय दर्शयामास तव् उभौ ॥ निनिक्त-वसनौ वृद्धावासनस्थौ निजौ गुरू । शालग्राम-शिलां चैव तत्-समीपे सुपूजितम् ॥ इति ।

अत्राचारश् च—सतां मध्य-देशे’स्मिन् विशेषतो दक्षिण-देशे च महत्तमानां श्री-वैष्णवानां प्रमाणम् इति दिक् । एवं श्री-भागवत-पाठआदाव् अप्य् अधिकारो वैष्णवानां द्रष्टव्यः । यतो विधि-निषेधा भगवद्-भक्तानां न भवन्तीति देवर्षि-भूताप्त-नॄणां पितॄणाम् [Bह्P ११.५.४१] इत्य् आदि-वचनैः । तथा कर्म-परित्यागादिनापि न कश्चिद् दोषो घटत इति तावत् कर्माणि कुर्वीत [Bह्P ११.२०.९] इति, यदा यस्यानुगृह्णाति भगवान् [Bह्P ४.२९.४६] इत्य् आदि वचनैश् च व्यक्तं बोधितम् एवास्ति । एतत् सर्वम् अग्रे श्री-वैष्णव-माहात्म्ये विस्तरेण व्यक्तं भावि ॥४५४-४५५॥

श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव श्वानम् अत्तीति निरुक्तेर् वर्तमान-प्रयोगात् क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षण-प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैर् व्याख्यातम् । सवनं चात्र सोम-याग उच्यते । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव सवन-योग्यता-प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाशः प्रतिपद्यते । उद्धवं प्रति भगवता च – तस्मात् भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् [Bह्P ११.१४.२०] इति कैमुत्यार्थम् एव प्रोक्तम् इत्य् आयाति । किन्तु योग्यत्वम् अत्र श्वपचत्व-प्रापक-प्रारब्ध-पाप-विच्छिन्नत्व-मात्रम् उच्यते । सवनार्थं तु गुणान्तराधानम् अपेक्षत एव । ब्राह्मण-कुमाराणां शौक्रे जन्मनि योग्यत्वे सत्य् अपि सावित्र-दैक्स्य-जन्मापेक्षावत् । सावित्रादि-जन्मनि तु सद्-आचार-प्राप्तेर् इति सवने प्रवृत्तिर् न युज्यते । तस्मात् पूज्यत्व-मात्रे तात्पर्यम् इत्य् अभिप्रेत्य टीका-कृद्भिर् अप्य् उक्तम् अनेन पूज्यत्वं लक्ष्यत इति । तथापि जाति-दोष-हरत्वेन प्रारब्ध-हारित्वं तु व्यक्तम् एवायातम् ।

**सन्धार्यआ वैष्णवैर् यत्नाच् छालग्राम-शिला’सुवत् ।
सा चार्च्या द्वारका-चक्राङ्कितोपेतैव सर्वदा ॥४५६॥
सनातनः- **असुवत् प्राणवत्, यत्नात् सन्धार्या अर्च्या पूजयितव्या ॥४५६॥

ब्राह्मे तत्रैव—

शालग्रामोद्भवो देवो देवो द्वारवती-भवः । उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः ॥४५७॥

स्कान्दे श्री-ब्रह्म-नारद-संवादे—

चक्राङ्किता शिला यत्र शालग्राम-शिलाग्रतः । तिष्ठते मुनि-शार्दूल वर्धन्ते तत्र सम्पदः ॥४५८॥

तत्रैवान्यत्र—

प्रत्यहं द्वादश शिलाः शालग्रामस्य यो’र्चयेत् । द्वारवत्याः शिला-युक्ताः स वैकुण्ठे महीयते ॥४५९॥

**अथ श्री-द्वारका-चक्राङ्क-लक्षणानि **

श्री-प्रह्लाद-संहितायाम्—

एकः सुदर्शनो द्वाभ्यां लक्ष्मी-नारायणः स्मृतः । त्रिभिस् त्रिविक्रमो नाम चतुर्भिश् च जनार्दनः ॥४६०॥ पञ्चभिर् वासुदेवस् तु षड्भिः प्रद्युम्न उच्यते ।

**सनातनः- **एकः एकचक्रो यः स सुदर्शन इत्यर्थः; द्वाभ्यां चक्राभ्याम् एवम् अग्रेऽप्य् ऊह्यम् ॥४६०॥

सप्तभिर् बलदेवस् तु अष्टभिः पुरुषोत्तमः ॥४६१॥ नवभिश् च नव-व्यूहो दशभिर् दश-मूर्तिकः । एकादशैश् चानिरुद्धो द्वादशैर् द्वादशात्मकः । अन्येषू बहु-चक्रेषु अनन्तः परिकीर्तितः ॥४६२॥

**सनातनः- **नव-व्यूहः नृसिंह-वराह-हयग्रीव-नारायण-ब्रह्माणः पञ्च, श्री-वासुदेवाद्यश् चत्वारः, एवं नव-व्यूह-रूपः; मत्स्य-कुर्मादि-दशावतारात्मकः । एकादशैर् इत्य् आर्षम्, एकादशभिः । पाठान्तरे एकादश चक्राणि यदि स्यूस् तर्हि अनिरुद्ध इत्यर्थः । एवमग्रेऽपि; द्वादशात्मकः द्वादशादित्य-रूपः, केशव-नारायणादि-द्वादशरूपो वा ॥४६२॥

अथ द्वादश-चक्राङ्क-माहात्म्यम्

वाराहे—

ये केचिच् चैव पाषाणा विष्णु-चक्रेण मुद्रिताः । तेषां स्पर्शन-मात्रेण मुच्यते सर्व-पातकैः ॥४६३॥

गारुडे—

सुदर्शनाद्यास् तु शिलाः पूजिताः सर्व-कामदाः ॥४६४॥

स्कान्दे च—

भक्त्या वा यदि वाभक्त्या चक्राङ्कं पूजयेन् नरः । अपि चेत् सुदुराचारो मुच्यते नात्र संशयः ॥४६५॥

द्वारका-माहात्म्ये च द्वारका-गतानां श्री-ब्रह्मादीनाम् उक्तौ—

एतद् वै चक्र-तीर्थं तु यच् छिला चक्र-चिह्निता । मुक्तिदा पापिनां लोके म्लेच्छ-देशे’पि पूजिता ॥४६६॥

अथ तेष्व् एव चक्र-भेदेन फल-भेदः

कपिल-पञ्चरात्रे—

एक-चक्रस् तु पाषाणो द्वारवत्याः सुशोभनः । सुदर्शनाभिधो यो’सौ मोक्षैक-फल-दायकः ॥४६७॥ लक्ष्मी-नारायणो द्वाभ्यां भुक्ति-मुक्ति-फल-प्रदः । एभिश् चाच्युत-रूपो’सौ फलम् ऐन्द्रं प्रयच्छति ॥४६८॥ चतुर्-भुजश् चतुश्-चक्रश् चतुर्-वर्ग-फल-प्रदः । पञ्चभिर् वासुदेवश् च जन्म-मृत्यु-भयापहः ॥४६९॥ षड्भिः प्रद्युम्न एवासौ लक्ष्मीं कान्तिं ददाति सः । सप्तभिर् बलभद्रो’सौ गोत्र-कीर्ति-विवर्धनः ॥४७०॥ ददाति वाञ्छितं सर्वम् अष्टभिः पुरुषोत्तमः । नव-चक्रो नृसिंहस् तु फलं यच्छत्य् अनुत्तमम् ॥४७१॥ राज्य-प्रदो दशभिस् तु दशावतारकः स्मृतः । एकादशभिर् ऐश्वर्यम् अनिरुद्धः प्रयच्छति ॥४७२॥ निर्वाणं द्वादशात्मासौ सौख्यदश् च सुपूजितः ॥४७३॥

**अथ वर्णादि-भेदेन दोष-गुणाः पूज्यत्वापूज्यत्वे च **

तत्रैव—

कृष्ण मृत्यु-प्रदो नित्यं धूम्रश् चैव भयावहः । अस्वास्थ्यं कर्बुरो दद्यान् नीलस् तु धन-हानिदः ॥४७४॥ छिद्रो दारिद्र्य-दुःखानि दद्यात् सम्पूजितो ध्रुवम् । पाण्डरस् तु महद् दुःखं भग्नो भार्या-वियोगदः ॥४७५॥ पुत्र-पौत्र-धनैश्वर्य-सुखम् अत्यन्तम् उत्तमम् । ददाति शुक्ल-वर्णश् च तस्माद् एनं समर्चयेत् ॥४७६॥

**सनातनः- **छिद्रः स-च्छिद्र इत्यर्थः; शुक्लः शुभ्रः वर्णो यस्य सः ॥४७५-४७६॥

श्री-प्रह्लाद-संहितायाम्—

कृष्णा मृत्यु-प्रदा नित्यं कपिला च भयावहा । रोगार्तिं कर्बुरा दद्यात् पीता वित्त-विनाशिनी ॥४७७॥ धूम्राभा वित्त-नाशाय भग्ना भार्या-विनाशिका । सच्-छिद्रा च त्रिकोणा च तथा विषम-चक्रिका । अर्ध-चन्द्राकृतिर् या च पूज्यास् ता न भवन्ति हि ॥४७८॥

**सनातनः- **ताः स-च्छिद्राद्याः कृष्णादयो वा ॥४७८॥

गार्ग्य-गालवयोः—

सुखदा सम-चक्रा तु द्वादशी चोत्तमा शुभा । वर्तुला चतुरस्रा च नराणां च सुख-प्रदा ॥४७९॥

**सनातनः- **द्वादशी द्वादशात्मक-सञ्ज्ञिका द्वादश-कोणा वा ॥४७९॥

त्रिकोणा विषमा चैव छिद्रा भग्ना तथैव च । अर्ध-चन्द्राकृतिर् या तु पूजार्हा न भवेत् तु सा । फलं नोत्पद्यते तत्र पूजितायां कदाचन ॥४८०॥ इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे आधिष्ठानिको नाम पञ्चमो विलासः