०४ वैष्णवालङ्कारः

चतुर्थो विलासः

श्री-वैष्णवालङ्कारः

स्नात्वा श्री-कृष्ण-चैतन्य-नाम-तीर्थोत्तमे सकृत् ।
नित्याशुचिः शुचीन्द्रः सन् स्व-धर्मं वक्तुम् अर्हति ॥१॥

एतादृश-स्नानाद् अपि श्री-भगवन्-नाम-सेवनम् एव परम-शोधनम् इत्य् अभिप्रेत्य तेन चानधिकारिणो’प्य् आत्मनो भगवद्-धर्म-लिखने योग्यतां सम्भावयन् लिखति—स्नात्वेति । श्री-कृष्ण-चैतन्येति नामैव तीर्थोत्तमं, तस्मिन् सकृद् अपि स्नात्वा कदाचित् सेवित्वेत्य् अर्थः । नित्याशुचिः जात्यादिना पर्मापवित्रो’पि जनः शुचि-गण-श्रेष्ठः सन् वक्तुम् अर्हति प्रवचन-योग्यो भवतीत्य् अर्थः ॥१॥

अथ स्व-गृहम् आगच्छेद् आदौ नत्वेष्ट-देवताम् ।
गुरून् ज्येष्ठांश् च पुष्पैधः-कुशाम्भोधारकेतरान् ॥२॥

एधः काष्ठम् । पुष्पादीनां धारकेभ्य इतरान् अन्यान् । तथा च बृहन्-नारदीये सदाचार-प्रसङ्गे—

तथा स्नानं प्रकुर्वन्तं समित्-पुष्प-हरं तथा । उदपात्र-धरं चैव भुञ्जन्तं नाभिवादयेत् ॥ इति ॥२॥

तथा च श्री-नृसिंह-पुराणे—

जले देवं नमस्कृत्य ततो गच्छेद् गृहं पुमान् । पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् ॥३॥

अथ श्री-भगवन्-मन्दिर-संस्कारः

मन्दिरं मार्जयेद् विष्णोर् विधायाचमनादिकम् ।
कृष्णं पश्यन् कीर्तयंश् च दास्येनात्मानम् अर्पयेत् ॥४॥
शुद्धं गोमयम् आदाय ततो मृत्स्नां जलं तथा ।
भक्त्या तत् परितो लिम्पेद् अभुक्षेच् च तद्-अङ्गनम् ॥५॥

तत् विष्णु-मन्दिरं तस्याङ्गनम् अभ्युक्षेच् च ॥५॥

तथा च नवम-स्कन्धे [भा।पु। ९.४.२८] श्रीमद्-अम्बरीषोपाख्याने—

स वै मनः कृष्ण-पदारविन्दयोर् वचांसि वैकुण्ठ-गुणानुवर्णने करौ हरेर् मन्दिर-मार्जनादिषु श्रुतिं चकाराच्युत-सत्-कथोदये ॥६॥

आदि-शब्देन उपलेपनादीनि । श्रुतिं श्रोत्रं अच्युतस्य सत्-कथानाम् उदये श्रवणे प्रादुर्भावे वा चकार ॥६॥

एकादश-स्कन्धे [भा।पु। ११.११.३९] श्री-भगवद्-उद्धव-संवादे भगवद्-धर्म-कथने— सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दासवद् यद् अमायया ॥७॥

सम्मार्जनं रजसो’पाकरणम् । उपलेपः गोमयोदकादिभिर् आलेपनम् । सेकः तैर् एव प्रोक्षणं । मण्डल-वर्तनं सर्वओत्भद्रादि-रचनम् । मह्यं मम गृह-शुश्रूषणम् आलय-संस्कारः ॥७॥

अथ तत्र सम्मार्जन-माहात्म्यम्

श्री-नृसिंह-पुराणे—

नरसिंह-गृहे नित्यं यं सम्मार्जनम् आचरेत् । **समस्त-पाप-निर्मुक्तो विष्णु-लोके स मोदते ॥८॥ **

श्री-विष्णु-धर्मोत्तरे—

सम्मार्जनं तु यः कुर्यात् पुरुषः केशवालये । रजस्-तमोभ्यां निर्मुक्तः स भवेन् नात्र संशयः ॥९॥ पांशूनां यावतां राजन् कुर्यात् सम्मार्जनं नरः तावन्त्य् अब्दानि स सुखी नाकम् आसाद्य मोदते ॥१०॥

श्री-वाराहे—

यावत्कानि प्रहाराणि भूमि-सम्मार्जने ददुः ।
तावद्-वर्ष-सहस्राणि शाक-द्वीपे महीयते ॥११॥

यावत्कानि प्रहाराणि नपुंसकत्वम् आर्षम् । यावतः सम्मार्जन्या प्रहारान्, भूमेः सम्मार्जने, हे भूमीति पृथक् पदं वा ॥११॥

जायते मम भक्तश् च सर्व-धर्म-समन्वितः । शुचिर् भागवतः शुद्धो ह्य् अपराध-विवर्जितः ॥१२॥ ततो भुक्त्वा सर्व-भोगान् तीर्त्वा संसार-सागरम् । शाक-द्वीपात् परिभ्रष्टः स्वर्ग-लोकं स गच्छति ॥१३॥ नन्दनं वनम् आश्रित्य मोदते चाप्सरैः सह । नन्दनाच् च परिभ्रष्टो मम कर्म-व्यवस्थितः । सर्व-सङ्गात् परित्यज्य मम लोकं तु गच्छति ॥१४॥

मम कर्म-व्यवस्थितः मद्-भक्ति-निष्ठः सन्न् इत्य् अर्थः ॥१४॥

अथोपलेपन-माहात्म्यम्

तत्रैव—

गो-मयं गृह्य वै भूमिं मम वेश्मोपलेपयेत् । यावतस् तु पदांस् तत्र समन्ताद् उपलेपयेत् । तावद्-वर्ष-सहस्राणि मद्-भक्तो जायते तथा ॥१५॥

गृह्य गृहीत्वा । यावतः पदान् इति पुंस्त्वम् आर्षम् ॥१५॥

समीपे यदि वा दूरे यश् चालयति गोमयम् । यावत् तस्य पदाग्राणि तावत् स्वर्गे महीयते ॥१६॥ शाल्मलौ तत्-परिभ्रष्टो राजा भवति धार्मिकः । मद्-भक्तश् चैव जायते सर्व-शास्त्र-विशारदः ॥१७॥

तस्मात् स्वर्गात् परिभ्रष्टः सन् ॥१७॥

यश् चालेपयते भूमिं गो-मयेन दृढ-व्रतः । तस्य दृष्ट्वानुलेपं तु मम तुष्टिः प्रजायते ॥१८॥ गोश् च यस्याः पुरीषेण क्रियते भूमि-लेपनम् । एकेनैव तु लेपेन गो-योन्या विप्रमुच्यते ॥१९॥

सा गौर् विशेषेण प्रकर्षेण च मुच्यते गोलोकं यातीत्य् अर्थः ॥१९॥

स्थानोपलेपने भूमे सलिलं यो ददाति मे । तस्य पुण्यं महा-भागे शृणु तत्त्वेन निष्कलम् ॥२०॥

निष्कलं शुद्धम् ॥२०॥

यावन्ति जल-बिन्दूनि लिप्यमानस्य सुन्दरि । तावद्-वर्ष-सहस्राणि स्वर्ग-लोके महीयते ॥२१॥ यावन्तो बिन्दवः केचित् पानीयस्य वसुन्धरे । तावद् वर्ष-सहस्राणि क्रौञ्च-द्वीपे महीयते ॥२२॥

यावन्ति जल-बिन्दूनीति नपुंसकत्वम् आर्षम् । स्थानस्य लिप्यमानस्य सतः । यत्र यावन्तो जल-बिन्दवो भवन्तीत्य् अर्थः ॥२१-२२॥

क्रौञ्च-द्वीपात् परिभ्रष्टः सर्व-धर्म-परायणः । सर्व-सङ्गान् परित्यज्य मम लोकं च गच्छति ॥२३॥

पश्चाच् च स्वर्गात् परिभ्रष्टः सन् क्रौञ्च-द्वीपे गतो महीयते तत्रत्यैः पूज्यत इत्य् अर्थः ॥२३॥

श्री-विष्णु-धर्मोत्तरे—

कृत्वोपलेपनं विष्णोर् नरस् त्व् आयतने सदा । गो-मयेन शुभान् लोकान् अयत्नाद् एव गच्छति ॥२४॥ हस्त-प्रमाणं भू-भागम् उपलिप्य नराधिप । देव-रामा-शतं नाके लभते सततं नरः ॥२५॥

नारसिंहे—

गो-मयेन मृदा तोयैर् यः कुर्याद् उपलेपनम् । चान्द्रायण-फलं प्राप्य विष्णु-लोके महीयते ॥२६॥

तत्रैव श्री-धर्म-राजस्य दूतानुशासने—

सम्मार्जनं यः कुरुते गोमयेनोपलेपनम् । करोति भवने विष्णोस् त्याज्यं तेषां कुल-त्रयम् ॥२७॥

उपलेपकस्य पाप-क्षयादिकं किं वाच्यम् ? तस्य सम्बन्धिनाम् अपि तथैव स्याद् इति लिखति—सम्मार्जनम् इति । कुल-त्रयं पितृ-कुलं मातृ-कुलं भार्या-कुलं चेति ॥२७॥

अथाभुक्षण-माहात्म्यम्

श्री-विष्णु-धर्मोत्तरे (१.१६९.६, ?)—

अभ्युक्षणं तु यः कुर्यात् पानीयेन सुरालये । स शान्त-तापो भवति नात्र कार्या विचारणा ॥२८॥ अभ्युक्षणं तु यः कुर्याद् देव-देवाजिरे नरः । सर्व-पाप-विनिर्मुक्तो वारुणं लोकम् अश्नुते ॥२९॥

देवदेवस्य अजिरे अङ्गने ॥२९॥

सर्वतो-भद्र-पद्मादीन् अभिज्ञः स्वस्तिकानि च । विरचय्य विचित्राणि मण्डयेद् धरि-मन्दिरम् ॥३०॥

तथा च नारसिंहे—

सम्मार्जनोपलेपाभ्यां रङ्ग-पद्मादि-शोभनम् । कुर्यात् स्थानं महा-विष्णोः सोज्ज्वलाङ्गं मुदान्वितः ॥३१॥

रङ्गं विविध-वर्ण-चित्रं पद्मादि च । यद् वा, रङ्गैर् विचित्र-वर्ण-चूर्णैर् यत् पद्मादि तेन शोभितम् । आदि-शब्देन स्वस्तिकादि । उज्ज्वलानि शोभनानि अङ्गानि भित्ति-प्राकारादीनि तत्-सहितं च कुर्यात्। आङ्गान्य् अपि विभूषयेद् इत्य् अर्थः । क्रिया-विशेषणं वा, तथापि स एवार्थः ॥३१॥

अथ मण्डल-माहात्म्यम्

स्कन्द-पुराणे कार्त्तिक-प्रसङ्गे—

अगम्य-गमने पापम् अभक्ष्यस्य च भक्षणे । सर्वं तन्-नाशम् आप्नोति मण्डयित्वा हरेर् गृहम् ॥३२॥ अणु-मात्रं तु यः कुर्यान् मण्डलं केशवाग्रतः । मृदा धातु-विकारैश् च दिवि कल्प-शतं वसेत् ॥३३॥ शालग्राम-शिलाग्रे तु यः कुर्यात् स्वस्तिकं शुभम् । कार्त्तिके तु विशेषेण पुनात्य् आसप्तमं कुलम् ॥३४॥ मण्डलं कुरुते नित्यं या नारी केशवाग्रतः । सप्त-जन्मानि वैधव्यं न प्राप्नोति कदाचन ॥३५॥

मण्डलं सर्वतोभद्रादि । केशवाग्रतो मण्डलं करोतीति शेषः । कुरुत इति पूर्वेणैवानुषङ्गः ॥३३-३५॥

गृहीत्वा गो-मयं या तु मण्डलं केशवाग्रतः । भर्तुर् वियोगं नाप्नोति सन्ततेश् च धनस्य च ॥३६॥ प्राङ्गणं वर्णकोपेतं स्वस्तिकैश् च समन्वितम् । देवस्य कुरुते यस् तु क्रीडते भुवन-त्रये ॥३७॥

नारदीये—

मृदा धातु-विकारैर् वा वर्णकैर् गोमयेन वा । विष्णु-लोके’थ तत्र रथैः स-स्पृहं वीक्ष्यते सुखी ॥३८॥

उपलेपनं मण्डलादिकं करोतीति तथा सः ॥३८॥

हरि-भक्ति-सुधोदये—

उपलिप्यालयं विष्णोश् चित्रयित्वाथ वर्णकैः । विष्णु-लोके’थ तत्रस्थैः स-स्पृहं वीक्ष्यते सुखी ॥३९॥

अथ स्वस्तिक-लक्षणम्

आगमे—

विदिग्-गत-चतुष्काणि भित्त्वा षोडशधा सुधीः । मार्जयेत् स्वस्तिकाकारं श्वेत-पीतारुणासितैः ॥४०॥

तत्र च पञ्चरात्र-वचनम्—

रजांसि पञ्च-वर्णानि मण्डलार्थं हि कारयेत् । शालि-तण्डुल-चूर्णेन शुक्लं वा यव-सम्भवम् ॥४१॥ रक्त-कुङ्कुम-सिन्दूर-गैरिकादि-समुद्भवम् । हरि-तालोद्भवं पीतं रजनी-सम्भवं क्वचित् । कृष्णं दग्धैर् हरिद्-यवैर् हरित्-पीतैर् विमिश्रितम् ॥४२॥

श्वेतादि-वर्णैश् चूर्णैः हरिद्-यवैः हरिद्-वर्ण-यवैर् दग्धैः कृष्ण-वर्णं स्यात्, तच् च पीतैर् विमिश्रितं हरिद्वर्णं स्याद् इत्य् अर्थः । एवं वर्ण-पञ्चकम् उक्तम् ॥४०-४२॥

अथ तत्र ध्वज-पताकाद्य्-आरोपणम्

ततो ध्वज-पताकादि विन्यस्य हरि-मन्दिरे ।
विचित्रं भूषयेत् तच् च भगवद्-भक्तिमान् नरः ॥४३॥

तत् हरि-मन्दिरं च विचित्रं यथा स्यात् तथा भूषयेत् ॥४३॥

अथ ध्वरारोपण-माहात्म्यम्

ध्वजम् आरोपयेद् यस् तु प्रासादोपरि भक्तितः ।
तस्य ब्रह्म-पदे वासः क्रीडते ब्रह्मणा सह ॥४४॥

बृहन्-नारदीये [१.१९.२]—

यः कुर्याद् विष्णु-भवने ध्वजारोपणम् उत्तमम् । सम्पूज्यते विरिञ्च्य्-आद्यैः किम् अन्यैर् बहु-भाषितैः ॥४५॥

तत्रैवाग्रे च [ना।पु। १.१९.४२-३, ४५]—

पटो ध्वजस्य विप्रेन्द्र यावच् चलति वायुना । तावन्ति पाप-जालानि नश्यन्त्य् एव न संशयः ॥४६॥ महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । ध्वजं विष्णु-गृहे कृत्वा मुच्यते सर्व-पातकैः ॥४७॥ आरोपितं ध्वजं दृष्ट्वा येऽभिनन्दन्ति धार्मिकाः । तेऽपि सर्वे प्रमुच्यन्ते महा-पातक-कोटिभिः ॥४८॥ इति ।
एवं बृहन्-नारदीये ख्यातं यच् चान्यद् अद्भुतम् ।
ध्वजारोपण-माहात्म्यं तद् द्रष्टव्यम् इहाखिलम् ॥४९॥

अथ पतादारोपण-माहात्म्यम्

द्वारका-माहात्म्ये—

कृष्णालयं यः कुरुते पताकाभिश् च शोभितम् । सदैव तस्य लोके तु वासस् तस्य न चान्यतः ॥५०॥

विष्णु-धर्मोत्तरे—

पताकां च शुभां दत्त्वा तथा केशव-वेश्मनि । वायु-लोकम् अवाप्नोति बहून् अब्द-गणान् द्विजः ॥५१॥ दोधूयते यथा सा तु वायुना केशवालये । तथा तस्यापि सकलं देहात् पापं विधूयते ॥५२॥

अथ वन्दन-माला-कदली-स्तम्भारोपण-माहात्म्यम्

द्वारका-माहात्म्ये तत्रैव—

भूप वन्दन-मालां तु कुरुते कृष्ण-वेश्मनि । देवकन्यावृतैर् लक्षैः सेव्यते सुर-नायकैः ॥५३॥ यः कुर्यात् कृष्ण-भवनं कदली-स्तम्भ-शोभितम् । नन्दते चाप्सरो-युक्तः स्वागतं तस्य देव-राट् ॥५४॥

ध्वज-पताकादि-विन्यसेद् इत्य् आदि-शब्देन गृहीतस्य वन्दन-मालादेर् अपि विन्यास-माहात्म्यं लिखति—भूपेति द्वाभ्याम् । तस्य स्वागतं यथा स्यात् तथा नन्दते तम् अभिनन्दति हृष्टो भवतीति वा । यद् वा, तस्य शुभागमनम् अभिनन्दति । वन्दत इति वा पाठः ॥५३-५४॥

अथ पीठ-पात्र-वस्त्रादि-संस्कारः

तत्र ताम्रादि-पात्रं यत् प्रभोर् वस्त्रादिकं च यत् ।
पीठादिकं च तत् सर्वं यथोक्तं च विशोधयेत् ॥५५॥

तत्र पीठस्य संस्कारः

नारसिंहे—

पाद-पीठं च कृष्णस्य बिल्व-पत्रेण धर्षयेत् । उष्णाम्बुना च प्रक्षाल्य सर्व-पापैः प्रमुच्यते ॥५६॥

अथ तैजसादि-पात्राणां संस्कारः

मार्कण्डेय-पुराणे—

उडुम्बराणाम् अम्लेन क्षारेण त्रपु-सीसयोः । भस्माम्बुभिश् च काम्स्यानां शुद्धिः प्लावो द्रवस्य च ॥५७॥

उक्त-विधिं लिखति—उडुम्बराणाम् इत्य् आदिना शुचितामियाद् इत्य् अन्तेन । उडुम्बराणां ताम्राणां तन्-मय-पात्राणाम् इत्य् अर्थः । त्रपुर् अङ्गं भस्म-युक्तैरम्बुभिः । द्रवस्य गोरसादेः प्लावः प्लावनम् । तथा चोक्तं वशिष्ठेन—द्रवाणां प्लावनेनैव इति । तद्-विशेषो’ग्रे व्यक्तो भावी ॥५७॥

वायु-पुराणे च—

मणि-वज्र-प्रवालानां मुक्ता-शङ्खोपलस्य च । सिद्धार्थकानां कल्केन तिल-कल्केन वा पुनः ॥५८॥

मुक्तायाः शङ्खस्य उपलस्य च पाषाणस्य द्वन्द्वैक्यम् । सिद्धार्थकानां सर्षपाणाम्, शुद्धिर् इति शेषः प्रकरण-बलात् ॥५८॥

ब्राह्मे—

सुवर्ण-रूप्य-शङ्खाश्म-शुक्ति-रत्न-मयानि च ।
कांस्यायस्-ताम्र-रैत्यानि त्रपु-सीस-मयानि च ॥५९॥
निर्लेपानि तु शुध्यन्ति केवलेनोदकेन तु । **शूद्रोच्छिष्ठानि शोध्यानि त्रिधा क्षाराम्ल-वारिभिः ॥६०॥ **इति ।

रत्नमयानि स्फटिकादि-घटितानि पात्राणीइति शेषः । रैत्यानि पित्तल-रचितानि । निर्लेपाणि अन्नादि-लेप-रहितानि । शूद्रोच्छिष्टानि शूद्रोच्छिष्टानीत्य् अर्थः । यद्यपि श्री-भगवत्-पात्रेषु शूद्रोछिष्ट-स्पर्शो’पि न सम्भवेत्, तथापि कथञ्चिद् भ्रम-प्रमादतः स्याद् इति तच्-छुद्धिर् उक्ता । एवम् अग्रे’पि सर्वत्रोह्यम् । त्रिधा वार-त्रयम् इत्य् अर्थः । क्षारो भस्म ॥५९-६०॥

अतिदुष्टं तु पात्रादि विशोध्यातिथ्य-कर्मणे ।
युञ्ज्यात् तत्-परिवर्ताय प्रभु-कर्मान्तराय वा ॥६१॥
एतस्य परिवर्तेन प्रभवे’न्यत् समर्पयेत् ।
इत्य् अयं सर्वतो लोके सदाचारो विराजते ॥६२॥

मनुः [५.११४]—

ताम्रायः-कांस्य-रैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदक-वारिभिः ॥६३॥

यथार्हं—मलापगमानुसारेणेत्य् अर्थः । अम्लोदकं जम्बीरादि-रसः । तत्राम्लोदकेन ताम्रस्य । क्षारेणेतरेषां वारिणा तु तत्-तत्-समुदितेनोभयेषाम् एवेति ज्ञेयम् । यथार्हम् इत्य् उक्तेः ॥६३॥

शङ्खः—

अम्लोदकेन ताम्रस्य सीसस्य त्रपुणस् तथा । क्षारेण शुद्धिं कांस्यस्य लौहस्य च विनिर्दिशेत् ॥६४॥

तद् एवाभिव्यञ्जयति—अम्लोदकेनेति ॥६४॥

किं च—

सूतिकोच्छिष्ठ-भाण्डस्य सुराद्य्-उपहतस्य च । त्रिः-सप्त-मार्जनाच् छुद्धिर् न तु कांस्यस्य तापनम् ॥६५॥

एतच् च सर्वं स्वल्पोपहति-विषयकम् । अत्यन्तोपहतौ शुद्धिं लिखति—सूतिकेति त्रिभिः । सूतिका नव-प्रसूता अजात-शौचा । यद् वा, प्रसव-कारयित्री, तद्-उच्छिष्टस्य तद्-उच्छिष्ट-स्पृष्टस्य, तया वा यत्र भुक्तं तस्य भाण्डस्य तैजस-पात्रस्य, तत्-प्रकरणात् । आदि-शब्दात् शोणितादि । त्रिः-सप्त एकवैंशति-वारान् मार्जनाद् इत्य् अर्थः । केचिद् आहुः—सप्तभिर् यव-गोधूम-कलाया-माषादि-चूर्णैः प्रत्येकं त्रिर् मार्जनाच् छुद्धिः इति । कांस्य-पात्रस्य तु न तथा शुद्धिः । किन्तु तस्य तापनं दहनम् एव । भाजन इति पाठः सुगमः ॥६५॥

अन्यत्र च—

** ताम्रम् अम्लेन शुध्येन न चेदामिष-लेपनम् ।** आमिषेण तु यल् लिप्तं पुनर् दाहेन शुध्यन्ति ॥६६॥

ब्राह्मे—

** सूतिका-शव-विण्-मूत्र-रजःस्वल-हतानि च ।** ** प्रक्षेप्तव्यानि तान्य् अग्नौ यच् च यावत् सहेद् अपि ॥६७॥**

दाहे विशेषं लिखति—सूतिकेति । रजःस्वलेत्य् आकाराभाव आर्षः । सूतिकादिभिर् हतानि उपहतानि । तत्र सूतिका-रजःस्वलोपहतत्वं तत्-तद्-उच्छिष्ट-स्पर्शात् । तत्र तद्-भोजनाद् वा । सावेति दन्त्यादि-पाठे आसवो मद्यम् । यावद् इति यावन्तम् अग्निं कालं वा यद् द्रव्यं सहेत, तावन्त् अग्नौ तावन्तं वा कालं तद् द्रव्यं प्रक्षेप्तव्यम् इत्य् अर्थः ॥६७॥

अत एव देवलः—

लोहानां दहनाच् छुद्धिर् भस्मना गोमयेन वा । दहनात् खननाद् वापि शैलानाम् अम्भसापि वा ॥६८॥ काष्ठानां तक्षणाच् छुद्धिर् मृद्-गोमय-जलैर् अपि । मृण्-मयानां तु पात्राणां दहनाच् छुद्धिर् इष्यते ॥६९॥

न्यूनाधिकतया लिखितं तत् तत् सर्वं देवलोक्त्या संवादयति—लौहानाम् इति । सुवर्णादीनां धातूनां तन्मय-पात्राणाम् इत्य् अर्थः । अत्यन्तोपहतौ दहनात् । अन्यथा च भस्मादिनेत्य् अर्थः । एवम् अग्रे’पि ज्ञेयम् । खननं भूमिम् खात्वा दोषानुसारेण सप्ताहादि-कालं तwस्यां निक्षेपणं तस्मात् । शैलानां शैलादि-निर्मितानां, दहनात् पुनः पाकात् । तथा च याज्ञवल्क्यः—पुनः पाकान् मही-मयम् इति ॥६८॥

मनुः [५.१२३]—

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैह् पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्-मयम् ॥७०॥

तत्र चाल्पोपहतौ अत्यन्तोपहतौ च मृन्मयं त्याज्यम् एवेति लिखति—मद्यैर् इति । ष्ठीवनैः लाला-प्रक्षेपैः । पाठान्तरं स्पष्टम् ॥७०॥

वृद्ध-शातातपः—

संहतानां तु पात्राणां यद् एकम् उपहन्यते । तस्यैवं शोधनं प्रोक्तं सामान्य-द्रव्य-शुद्धि-कृत् ॥७१॥

संहतानाम् अन्योन्यं मिलित्वा सङ्घशः स्थितानां । तस्यैव तत् लिखितं शोधनं प्रोक्तं, न तु तेन स्पृष्टानाम् अन्येषाम् इत्य् अर्थः । पाठान्तरे सामान्यं समानैक-द्रव्य-विषयकं शोधनं द्रव्याणां सर्वेषाम् एवान्येषां शुद्धि-कृद् इत्य् अर्थः । अत एवोक्तं शातातपेनैव—

अशुचि संस्पृशेद् यस् तु एक एव स दुष्यति । तं स्पृष्ट्वान्यो न दुष्येत् तु सर्व-द्रव्येष्व् अयं विधिः ॥ इति ॥७१॥

अथ वस्त्रादीनां संस्कारः

तत्र शङ्खः—

तान्तवं मलिनं पूर्वम् अद्भिः क्षारैश् च शोधयेत् । अंशुभिः शोषयित्वा वा वायुना वा समाहरेत् ॥७२॥ ऊर्णा-पट्टांशुक-क्षौम-दुकूलाविक-चर्मणाम् । अल्पाशौचे भवेच् छुद्धिः शोषण-प्रोक्षणादिभिः ॥७३॥ तान्य् एवामेध्य-लिप्तानि नेनिज्याद् गौर-सर्षपैः । धान्य-कल्कैः पर्ण-कल्कैः रसैश् च फल-बल्कलैः ॥७४॥ तुलिकाद्य्-उपधानानि पुष्प-रत्नाम्बराणि च । शोधयित्वातपे किञ्चित् करैर् उन्मार्जयेन् मुहुः ॥७५॥ पश्चाच् च वारिणा प्रोक्ष्य शुचीत्य् एवम् उदाहरेत् । तान्य् अप्य् अतिमलाक्तानि यथावत् परिशोधयेत् ॥७६॥

तान्तवं—कार्पासिक-सूत्र-निर्मितं वस्त्रादि अंशुभिः सूर्य-रश्मिभिः वायुना वा शोषयित्वा शुष्कं कृत्वा, ऊर्णांशुकाविकयोः पशु-रोम-भेदेन द्रव्य-भेदेन वा भेदः । अल्पे’शौचे अशुद्धौ सत्यां शोषणं सूर्यांशु-वातादिना नेनिज्यात् शोधयेत् । फल-वल्कलैः तज्जैर् इत्य् अर्थः । पुष्प-रत्नाम्बराणि चित्र-पुष्पमयाम्बराणि स्वर्ण-रत्न-खचिताम्बराणि चेत्य् अर्थः ॥७२-७५॥

शातातपः—

कुसुम्भ-कुङ्कुमारक्तास् तथा लाक्षा-रसेन च । प्रक्षालनेन शुध्यन्ति चण्डाल-स्पर्शने तथा ॥७७॥

कुसुम्भेन कुङ्कुमेन वा आरक्ता रञ्जिता लाक्षा-रसेन वा रक्ताः पटाः । चण्डालेनान्येनाप्य् अस्पृश्या उपलक्ष्याः तत्-स्पर्शे सति प्रक्षालनेन शुध्यन्ति ॥७७॥

यमः—

कृष्णाजिनानां वातैश् च बालानां मृद्भिर् अम्भसा । गोमूत्रेणास्थि-दन्तानां क्षौमाणां गौर-सर्षपैः ॥७८॥

बालानां चामराणां । अस्थि शङ्खादि । दन्तः हस्त्यादेः ॥७८॥

शङ्खः—

सिद्धार्थकानां कल्केन दन्त-शृङ्ग-मयस्य च । गो-बालैः फल-पात्राणाम् अस्थ्नां स्याच् छृङ्गवत् तथा ॥७९॥

फल-पात्राणां नारिकेलादि-पात्राणां, अस्थ्नां शङ्खादीनाम् । शृङ्गवद् इति सर्षपाणां कल्केनेत्य् अर्थः ॥७९॥

किं च—

निर्यासानां गुडानां च लवणानां तथैव च । कुसुम्भ-कुसुमानां च ऊर्णाकार्पासयोस् तथा । प्रोक्षणात् कथिता शुद्धिर् इत्य् आह भगवान् यमः ॥८०॥

निर्यासानां हिङ्ग्व्-आदीनाम् ॥८०॥

मनुः [५.११८-९, १२२]

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्य-वाससाम् । प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥८१॥ चैलवत्-चर्मणां शुद्धिर् वैदलानां तथा-एव च । शाक-मूल-फलानां च धान्यवत्-शुद्धिर् इष्यते ॥८२॥ प्रोक्षणात् तृण-काष्ठं च पलालं चैव शुध्यति । मार्जन-उपाञ्जनैर् वेश्म पुनःपाकेन मृत्-मयम् ॥८३॥

वैदलानां विदारित-वेणु-वेत्र-दल-निर्मितानाम् । मार्जनैः रजः-शोधनैः । उपाञ्जनैः लेपनैश् च ॥८१-८२॥

किं च [मनु ५.१२६]—

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्-कृतः । तावन् मृद्-वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥८४॥

बृहस्पतिः—

वस्त्र-वैदल-चर्मादेः शुद्धिः प्रक्षालनं स्मृतम् । अतिदुष्टस्य तन्-मात्रं त्यजेच् छित्त्वा तु शुद्धये ॥८५॥

तन्-मात्रम् इति । यावद् अत्यन्त-दुष्टं तावन्-मात्रम् एव । न त्व् अन्यद् इत्य् अर्थः ॥८५॥

विष्णुः— मृत्-पर्ण-तृण-काष्ठानां श्वास्थि-चाण्डाल-वायसैः । स्पर्शने विहितं शौचं सोम-सूर्यांशु-मारुतैः ॥८६॥ बौधायनः— आसनं शयनं यानं नावः पन्थास् तृणानि च । मारुतार्केण शुध्यन्ति पक्वेष्ट-रचितानि च ॥८७॥

अथ धान्यादीनां संस्कारः

तत्र बौधायनः—

व्रीहयः प्रोक्षणाद् अद्भिः शाक-मूल-फलानि च । तन्-मात्रस्यापहाराद् वा निस्तुषीकरणेन च ॥८८॥

शङ्खः—

** श्रपणं घृत-तैलानां प्लावनं गो-रसस्य च ।** भाण्डानि प्लावयेद् अद्भिः शाक-मूल-फलानि च ॥८९॥

श्रपणं प्लावनम् । प्लावनम् एव विवृणोति—अद्भिस् तत्-तद्-भाण्डानि पचयेत् । अप्सु निमज्जयेद् इत्य् अर्थः । घृतादीनाम् अपि श्रपणासम्भवे सजातीय-द्रव्य-प्लावनेन शुद्धिर् बोद्धव्या ॥८९॥

ब्राह्मे—

द्रव-द्रव्याणि भूरीणि परिप्लाव्यानि चाम्भसा ॥९०॥ शस्यानि व्रीहयश् चैव शाक-मूल-फलानि च । त्यक्त्वा तु दूषितं भागं प्लाव्यान्य् अथ जलेन तु ॥९१॥

दूषितं भागं त्यक्त्वेति अत्यन्तोपहतौ ॥९१॥

बृहस्पतिः—

तापनं घृत-तैलानां प्लावनं गोरसस्य च ।
तन्-मात्रम् उद्धृतं शुध्येत् कठिनं तु पयोदधि ॥९२॥
अविलीनं तथा सर्पिर् विलीनं श्रपणेन तु । आधार-दोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ॥९३॥

तन्-मात्रं—यावद् उपहतं तावन्-मात्रम् इत्य् अर्थः । एतच् चानाकर-विषयम् ॥९२-९३॥

घृतं च पायसं क्षीरं तथैक्षव-रसो गुडः । शूद्र-भाण्ड-स्थितं तक्रं तथा मधु न दुष्यति ॥९४॥

आकर-भाण्डे च विशेषं लिखति—आधारेति । आधारः आकर-भाण्डं तद्-दोषेण । पायसं पयो-निर्वृत्तं दधि शूद्र-भाण्ड-स्थितम् अपि पात्रान्तरं नीतं सत् न दूष्यतीत्य् अर्थः । तथा च यमः—

आममांसं घृतं क्षौद्रं स्नेहाश् च फल-सम्भवाः । म्लेच्छ-भाण्ड-स्थिता दुष्या निष्क्रान्ताः शुचयः स्मृताः ॥ इति ।

अन्यत्र च—आकराः शुचयः सर्वे इति ॥९४॥

किं च मनुः [५.१४३]—

उच्छिष्टेन तु संस्पृष्टो द्रव्य-हस्तः कथं चन । अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥९५॥ इति ।
अन्ये’पि शुद्धि-विधयो द्रव्याणां स्मृति-शास्त्रतः ।
अपेक्ष्या वैष्णवैर् ज्ञेयास् तत्-तद्-विस्तारणैर् अलम् ॥९६॥

शुचिताम् इयात् द्रव्यं चाण्डालान्न-व्यतिरिक्तं ज्ञेयं, सदाचारात् । अन्न-विषये चोक्तम् आपस्तम्बेन—

कृत्वा मूत्रं पुरीषां च द्रव्य-हस्तः कथञ्चन ।

भूमाव् अन्नं प्रतिष्ठाप्य कृत्वा स्नानं यथा-विधि ॥

तत्-संयोगात् तु पक्वान्नम् उपस्पृश्य ततः शुचि ॥ इति ।

बृहस्पतिना च—

शौचं तु कुर्यात् प्रथमं पादौ प्रक्षालयेत् ततः ।

उपस्पृश्य तद् अभ्युक्ष्य गृहीतं शुचिताम् इयात् ॥ इति ।

यद्यपि भगवद्-द्रव्येषु तत्-तद्-उपघातो न घटते, तथापि भगवद्-अर्थ-तत्-तद्-द्रव्यार्पणापेक्षया, किं वा भ्रम-प्रमादादिना तत्-तद्-उपघात-सम्भावनया तत्-तच्-छुद्धिर् लिखितेति दिक् । वैष्णवैर् अपेक्षाश् चेत्, तर्हि स्मृति-शास्त्रेभ्यो ज्ञेयाः—

तीर्थे विवाहे यात्रायां सङ्ग्रामे देश-विप्लवे । नगर-ग्राम-दाहे च स्पृष्टास्पृष्टिर् न दुष्यति ॥ गोकुले कन्दुशालायां तैल-यन्त्रेक्षु-यन्त्रयोः । अमीमांस्यानि शौचानि स्त्रीषु बालातुरेषु च ॥ इत्य् आद्य् उक्तेः ।

तत् तस्मात् तेषां विस्तारणैर् विस्तरेण लिखनैर् अलम् । तत्र प्रयोजनं नास्ति, ग्रन्थ-विस्तार-भयाद् इत्य् अर्थः ॥९५-९६॥

अथ पूजार्थ-तुलसी-पुष्पाद्य्-आहरणम्

प्रणम्याथ महा-विष्णुं प्रार्थ्यानुज्ञां तु वैष्णवः ।
समाहरेत् श्री-तुलसीं पुष्पादि च यथोदितम् ॥९७॥

पुष्पम् । आदि-शब्देन पत्राङ्कुरादि । यथोदितं तत्र निषिद्ध-वर्जनाद्य्-अनुसारेणेत्य् अर्थः ॥९७॥

यच् च हारीत-वचनम्—

स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विजाः । देवतास् तन् न गृह्णन्ति भस्मीभवति काष्ठवत् ॥९८॥ इति ।

तच् च मध्याह्न-स्नान-विषयम्, यत उक्तं पाद्मे [५.९८.७] वैशाख-माहात्म्ये—

अस्नात्वा तुलसीं छित्त्वा देवार्थं पितृ-कर्मणि । तत् सर्वं निष्फलं याति पञ्चगव्येन शुध्यति ॥९९॥

अथ गृह-स्नान-विधिः

स्व-गृहे वाचरन् स्नानं प्रक्षाल्याङ्घ्री करौ तथा ।
आचम्यायम्य च प्राणान् कृत-न्यासो हरिं स्मरेत् ॥१००॥

प्राणान् आयम्य प्राणायामं कृत्वा ॥१००॥

ततो गङादिकं स्मृत्वा तुलसी-मिश्रितैर् जलैः ।
पूर्णे पात्रे समस्तानि तीर्थान्य् आवाहयेत् कृती ॥१०१॥

आवाहन-मन्त्रश् चायम्—

गङ्गे च यमुने चैव गोदावरि सरस्वति । **नर्मदे सिन्धु कावेरि जले’स्मिन् सन्निधिं कुरु ॥१०२॥ **इति ॥

अथवा जाह्नवीम् एव सर्व-तीर्थ-मयीं बुधः ।
आवाहयेद् द्वादशभिर् नामभिर् जल-भाजने ॥१०३॥

द्वादश-नामानि—

नलिनी नन्दिनी सीता मालिनी च महापगा ।
विष्णु-पादार्घ्य-सम्भूता गङ्गा त्रिपथ-गामिनी ।
**भागीरथी भोगवती जाह्नवी त्रिदशेश्वरी ॥१०४॥ \

**पद्म-पुराणे [५.९५.१७-१८] च वैशाख-माहात्म्ये—

नन्दिनीत्य् एव ते नाम वेदेषु नलिनीति च । दक्षा पृथ्वी च विहगा विश्व-गाथा शिव-प्रिया ॥१०५॥ विद्याधरी महा-देवी तथा लोक-प्रसादिनी । क्षेमङ्करी जाह्नवी च शान्ता शान्ति-प्रदायिनी ॥१०६॥
अथाचम्य गुरुं स्मृतानुज्ञां प्रार्थ्य च पूर्ववत् ।
कृष्ण-पादाब्जतो गङ्गां पतन्तीं मूर्ध्नि चिन्तयेत् ॥१०७॥

पूर्ववद् इति—देवदेव जगन्नाथ इत्य् अनुज्ञां प्रार्थ्येत्य् अर्थः ॥१०७॥

तथा चोक्तं श्री-नारद-पञ्चरात्रे—

स्वस्थितं पुण्डरीकाक्षं मन्त्र-मूर्तिं प्रभुं स्मरेत् । अनन्तादित्य-सङ्काशं वासुदेवं चतुर्भुजम् ॥१०८॥ शङ्ख-चक्र-गदा-पद्मधरं पीताम्बरावृतम् । श्यामलं शान्त-वदनं प्रसन्नं वरदेक्षणम् ॥१०९॥ दिव्य-चन्दन-लिप्ताङ्गं चारहास-मुखाम्बुजम् । अनेक-रत्न-सञ्छन्न-ज्वलन्-मकर-कुण्डलम् ॥११०॥ वनमाला-परिवृतं नारदादिभिर् अर्चितम् । केयूर-वलयोपेतं सुवर्ण-मुकुटोज्ज्वलम् । सर्वाङ्ग-सुन्दरं देवं सर्वाभरण-भूषितम् ॥१११॥ तत्-पाद-पङ्कजाद् धारां निपतन्तीं स्व-मूर्धनि । चिन्तयेद् ब्रह्म-रन्ध्रेण प्रविशन्तीं स्वकां तनुम् । तया सङ्क्षालयेत् सर्वम् अन्तर्-देह-गतं मलम् ॥११२॥ तत्-क्षणाद् विरजा मन्त्री जायते स्फटिकोपमः । **इदं स्नानान्तरं मान्त्रात् सहस्रम् अधिकं स्मृतम् ॥११३॥ **इति ।

सकृन् नारायणेत्य् आदि वचनं तत्र कीर्तयेत् ।
स्नान-काले तु तन्-नाम संस्मरेच् च महाप्रभुम् ॥११४॥

सकृन् नारायणेत्य् आद्य् उक्त्वा । आदि-शब्देन ध्यायेन् नारायणं देवम् इत्य् आदि लक्षणाद् वचनाद् धेतोस् तस्य नारायणस्य नाम कीर्तयेत् ॥११४॥

तथा च कूर्म-पुराणे—

** आपो नारायणोद्भूतास् ता एवास्यायनं यथः ।** ** तस्मान् नारायणं देवं स्नान-काले स्मरेद् बुधः ॥११५॥ **इति ।

स्नायाद् उष्णोदकेनापि शक्तो’प्य् आमलकैस् तथा ।
तिलैस् तैलैश् च संवर्ज्य प्रतिषिद्ध-दिनानि तु ॥११६॥

न केवलं शीतोदकेन, उष्णोदकेनापि । तथापि न केवलम् अशक्तः । शक्तो रोगादि-हीनो’पीत्य् अर्थः । रोगिणस् तु सदैवोष्णोदकेन स्नानम् उक्तं यमेन—

आदित्य-किरणैस् तप्तं पुनः पूतं च वह्निना । अस्नातम् आतुर-स्नाने प्रशस्तं तु शृतोदकम् ॥ इति ।

प्रतिषिद्ध-दिनान्य् अग्रे लेख्यानि ॥११६॥

अथोष्णोदक-स्नानम्

षट्-त्रिंशन्-मते—

आपः स्वभावतो मेध्या विशेषाद् अग्नि-योगतः । तेन सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥११७॥

यमश् च—

आपः स्वयं सदा पूता वह्नि-तप्ता विशेषतः । तस्मात् सर्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् ॥११८॥

यच् चोक्तं शङ्खेन—

स्नातस्य वह्नि-तप्तेन तथैवातप-वारिणा । **शरीर-शुद्धिर् विज्ञेया न तु स्नान-फलं भवेत् ॥११९॥ **इति ।

तत् तु काम्य-नैमित्तिक-विषयम् । अत एवोक्तं गर्गेण—

कुर्यान् नैमित्तिकं स्नानं शीताद्भिः काम्यम् एव च । नित्यं यादृच्छिकं चैव यथारुचि समाचरेत् ॥१२०॥

नित्य-स्नानं च यादृच्छिकम् अनियतम् । अतो निज-रुच्य्-अनुसारेण शीताभिर् उष्णाभिर् वाद्भिस् तत् कुर्याद् इत्य् अर्थः । यादृच्छिकं सुखार्थ-स्नानम् इति वा ॥१२०॥

अथ तत्र निषिद्ध-दिनानि

तत्र यमः—

पुत्र-जन्मनि सङ्क्रान्तौ ग्रहणे चन्द्र-सूर्ययोः । अस्पृश्य-स्पर्शने चैव न स्नायाद् उष्ण-वारिणा ॥१२१॥

वृद्ध-मनुः—

पौर्णमास्यां तथा दर्शे यः स्नायाद् उष्ण-वारिणा । स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः ॥१२२॥

अथामलक-स्नानम्

तत्र मार्कण्डेयः—

तुष्यत्य् आमलकैर् विष्णुर् एकादश्यां विशेषतः । श्री-कामः सर्वदा स्नानं कुर्वीतामलकैर् नरः ॥१२३॥ सप्तम्यां न स्पृशेत् तैलं नीलीवस्त्रं न धारयेत् । न चाप्य् आमलकं स्नायान् न कुर्यात् कलहं नरः ॥१२४॥

भृगुः—

अमां षष्ठीं सप्तमीं च नवमीं च त्रयोदशीम् । सङ्क्रान्तौ रवि-वारे च स्नान-मालकैस् त्यजेत् ॥१२५॥

याज्ञवल्क्यः—

धात्री-फलैर् अमावस्या-सप्तमी-नवमीषु च । यः स्नायात् तस्य हीयन्ते तेजश् चायुर्धनं सुताः ॥१२६॥

अथ तिल-स्नानम्

तत्र बृहस्पतिः—

सर्व-कालं तिलैः स्नानं पुनर् व्यासो’ब्रवीन् मुनिः ॥१२७॥

षट्त्रिंशन्-मते—

तथा सप्तम्य्-अमावस्या-सङ्क्रान्ति-ग्रहणेषु च । धन-पुत्र-कलत्रार्थी तिल-स्पृष्टं न संस्पृशेत् ॥१२८॥

अथ तैल-स्नानम्

तत्रैव—

षष्ठ्यां तैलम् अनायुष्यं चतुर्थीष्व् अपि च पर्वसु ॥१२९॥

योगी-याज्ञवल्क्यः—

दशम्यां तैलम् अपृष्ट्वा यः स्नायाद् अविचक्षणः । चत्वारि तस्य नश्यन्ति आयुः प्रज्ञा यशोधनम् ॥१३०॥

दशम्याम् अस्पृष्टेति । तस्यां तैल-स्नानस्यावश्यकतोक्ता ॥१३०॥

मोहात् प्रतिपदं षष्ठीं कुहूं रिक्तातिथिं तथा । तैलेनाभ्यञ्जयेद् यस् तु चतुर्भिः परिहीयते ॥१३१॥

चतुर्भिः पूर्वोक्तैर् आयुर्-आदिभिः ॥१३१॥

पञ्चदश्यां चतुर्दश्यां सप्तम्यां रवि-सङ्क्रमे । द्वादश्यां सप्तमीं षष्ठीं तैल-स्पर्शं विवर्जयेत् ॥१३२॥

अन्यच् च—

सप्तम्यां न स्पृशेत् तैलं नवम्यां प्रतिपद्य् अपि । अष्टम्यां च चतुर्दश्याम्म् अमावस्यां विशेषतः ॥१३३॥

विशेषत इत्य् अनेन सप्तम्य्-आदौ तैल-त्यागावश्यकताभिप्रेता ॥१३३॥

किं च—

स्नाने वा यदि वास्नाने पक्क-तैलं न दुष्यति ॥१३४॥

पक्क-तैलं च कदाचिद् अपि न दोषावहम् इति पूर्वोक्ते’पवादं लिखति—स्नाने वेति ॥१३४॥

किं च अत्रि-स्मृतौ—

तैलाभ्युक्तो घृताभ्यक्तो विण्-मूत्रे कुरुते द्विजः । अहो-रात्रोषितो भूत्वा पञ्च-गव्येन शुध्यति ॥१३५॥

कृत-तैलाभ्यङ्गस् तु विण्-मूत्रोत्सर्गं न कुर्याद् इति प्रसङ्गाल् लिखति—तैलेति । अहोरात्रम् उषित उपोषितो भूत्वा पञ्च-गव्य-पानेन शुद्धो भवेत् । पाठान्तरे तु अन्त्यज-स्पर्शं तदानीं यत्नेन वर्जयेद् इति भावः ॥१३५॥

अथाङ्गम् अलम् उत्तार्य स्नात्वा विधिवद् आचरेत् । नासालग्नेन चुलुकोदकेनैवाघ-मर्षणम् ॥१३६॥ ततो गुर्व्-आदि-पादोदैः प्राग्वत् कृत्वाभिषेचनम् । कार्यो’भिषेकः शङ्खेन तुलसी-मिश्रितैर् जलैः ॥१३७॥

अथ तुलसी-जलाभिषेक-माहत्म्यम्

गारुडे—

मार्जयत्य् अभिषेके तु तुलस्या वैष्णवो नरः । सर्व-तीर्थ-मयं देहं तत्-क्षणात् द्विज जायते ॥१३८॥ तुलसी-दलज-स्नाने एकादश्यां विशेषतः । मुच्यते सर्व-पापेभ्यो यद्यपि ब्रह्महा भवेत् ॥१३९॥ तन्-मूल-मृत्तिकाभ्यङ्गं कृत्वा स्नाति दिने दिने । दशाश्वमेधावभृतं लभते स्नान-जं फलम् ॥१४०॥ तुलसी-दल-सम्मिश्रं तोयं गङ्गा-समं विदुः । यो वहेच् छिरसा नित्यं धृता भवति जाह्नवी ॥१४१॥ पादोदकं ताम्र-पात्रे कृत्वा स-तुलसी-दलम् । शङ्खं कृत्वाभिषिञ्चेत मूलेनैव स्व-मूर्धनि ॥१४२॥

तन्-माहात्म्ये चोक्तं पाद्मे कार्त्तिक-माहात्म्ये—

द्वारका-चक्र-संयुक्त-शालग्राम-शिला-जलम् । शङ्खे कृत्वा तु निक्षिप्तं स्नानार्थं ताम्र-भाजने । **तुलसी-दल-संयुक्तं ब्रह्म-हत्या-विनाशनम् ॥१४३॥ **इति ।

स्नान-शाटीतरेणैव वाससाम्भांसि गात्रतः ।
सम्मार्ज्य वाससी दध्यात् परिधानोत्तरीयके ॥१४४॥

स्नान-शाठ्या इतरेण अन्येन ॥१४४॥

अथ वस्त्र-धारण-विधिः

तत्रात्रिः—

अधौतं कारु-धौतं वा परेद्यु-धौतम् एव वा । काषायं मलिनं वस्त्रं कौपीनं च परित्यजेत् ॥१४५॥ न चार्द्रम् एव वसनं परिदध्यात् कदाचन ॥१४६॥ नग्नो मलिन-वस्त्रः स्यात् नग्नश् चार्ध-पटस् तथा । नग्नो द्विगुण-वस्त्रः स्यान् नग्नो रक्त-पटस् तथा ॥१४७॥

नग्नो दिगम्बरः जैन-भेदो वा ॥१४७॥

नग्नश् च स्यूत-वस्त्रः स्यान् नग्नः स्निग्ध-पटस् तथा । द्विकच्छो’नुत्तरीयश् च नग्नश् चावस्त्र एव च ॥१४८॥ श्रौतं स्मार्तं तथा कर्म न नग्नश् चिन्तयेद् अपि । मोहात् कुर्वन्न् अधो गच्छेत् तद् भवेद् आसुरं स्मृतम् ॥१४९॥ जप-होमोपवासेषु धौत-वस्त्र-धरो भवेत् । अलङ्कृतः शुचिर् मौनी श्राद्धादौ च जितेन्द्रियः ॥१५०॥

गोभिलः—

एक-वस्त्रो न भुञ्जीत न कुर्याद् देवनार्चनम् ॥१५१॥

त्रैलोक्य-सम्मोहन-पञ्चरात्रे—

शुक्ल-वासो भवेन् नित्यं रक्तं चैव विवर्जयेत् ॥१५२॥

अङ्गिराः—

शौचं सहस्र-रोमाणां वाय्व्-अग्न्य्-अर्केन्दु-रश्मिभिः । रेतः-स्पृष्टं शव-स्पृष्टम् आविकं नैव दुष्यति ॥१५३॥

सहस्राणि असङ्ख्येयानि रोमाणि येषु तेषाम् ऊर्णादिर् निर्मितानां कम्बलानाम् इत्य् अर्थः । आविकं मेष-रोम-निर्मितं कम्बलादि ॥१५३॥

अन्यत्र च—

छिन्नं वा सन्धितं दग्ध्म् आविकं न प्रदुष्यति । आविकेन तु वस्त्रेण मानवः श्राद्धम् आचरेत् । गया-श्राद्ध-समं प्रोक्तं पितृभ्यो दत्तम् अक्षयम् ॥१५४॥ न कुर्यात् सन्धितं वस्त्रं देव-कर्मणि भूमिप । न दग्धं न च वै छिन्नं पारक्यं न तु धारयेत् ॥१५५॥ काक-विष्ठा-समं ह्य् उक्तम् अविधौतं च यद् भवेत् । रजकाद् आहृतं यच् च न तद् वस्त्रं भवेच् छुचि ॥१५६॥ कीट-स्पृष्टं तु यद् वस्त्रं पुरीषं येन कारितम् । मूत्रं वा मैथुनं वापि तद् वस्त्रं परिवर्जयेत् ॥१५७॥ आविकं तु सदा वस्त्रं पवित्रं राज-सत्तम । पितृ-देव-मनुष्याणां क्रियायां च प्रशस्यते ॥१५८॥ धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् । शुक्र-मूत्र-रक्त-लिप्तं तथापि परमं शुचि ॥१५९॥ अग्निर् आविक-वस्त्रं च ब्रह्मणाश् च तथा कुशाः । चतुर्णां न कृतो दोषो ब्रह्मणा परमेष्ठिना ॥१६०॥

किं चान्यत्र—

धारयेद् वाससी शुद्धे परिधानोत्तरीयके । अच्छिन्न-सुदशे शुक्ले आचामेत् पीठ-संस्थितः ॥१६१॥

अच्छिन्ना सुशोभना च दशा ययोस् ते ॥१६१॥

अथ पीठम्

बह्वृच-परिशिष्टे—

यतीनाम् आसनं शुक्लं कूर्माकारं तु कारयेत् । अन्येषां तु चतुष्पादं चतुरस्रं तु कारयेत् ॥१६२॥

वस्त्र-परिधानानन्तरं पीठे संस्थितः सन्न् आचामेद् इत्य् उक्तम् । तत्-पीठम् एव लिखति—यतीनाम् इत्य् आदिना ॥१६२॥

गो-शकृन्-मयं भिन्नं तथा पलाश-पैप्पलम् । लोह-बद्धं सदैवार्कं वर्जयेद् आसनं बुधः ॥१६३॥

अथासन-विधिः

तत्रैव—

दानम् आचमनं होमं भोजनं देवतार्चनम् । प्रौढ-पादो न कुर्वीत स्वाध्यायं चैव तर्पणम् ॥१६४॥ आसनारूढ-पादस् तु जानुनोर् वाथ जङ्घयोः । **कृतावस्क्थिको यस् तु प्रौढ-पादः स उच्यते ॥१६५॥ **इति ।

ततो भूमि-गताङ्घ्रिः सन् निविश्याचम्य दर्भ-भृत् ।
ऊर्ध्व-पुण्ड्रादिकं कुर्यात् श्री-गोपी-चन्दनादिना ॥१६६॥

दर्भ-भृत् कुश-पाणिः सन् । यद्यप्य् ऊर्ध्व-पुण्ड्र-निर्माणानन्तरं एवाचमनं युक्तम्, तथाप्य् अत्र पूजार्थ-तिलक-विशेषादि-निर्मितम् आदाव् आचमनं सत्-सम्प्रदायानुसारेण लिखितम् । तिलकानन्तरम् आचमनं च पूर्वं बहिः-स्नाने लिखितम् एवास्ति ॥१६६॥

तत्रादाव् अनुलेपेन भगवच्-चरणाब्जयोः ।
निर्माल्येन प्रसादेन सर्वाण्य् अङ्गानि मार्जयेत् ॥१६७॥

प्रसाद-रूपेण निर्माल्येन ॥१६७॥

तद् उक्तं ब्राह्मे श्री-भगवता—

शालग्राम-शिला-लग्नं चन्दनं धारयेत् सदा । **सर्वाङ्गेषु महा-शुद्धि-सिद्धये कमलासन ॥१६८॥ **इति ।

ततो द्वादशभिः कुर्यान् नामभिः केशवादिभिः ।
द्वादशाङ्गेषु विधिवद् ऊर्ध्व-पुण्ड्राणि वैष्णवः ॥१६९॥

केशवादिभिर् मूर्ति-पञ्जर-न्यासोक्तैर् द्वादशभिर् नामभिः क्रमेण ललाटादि-द्वादशाङ्गेषु ऊर्ध्व-पुण्ड्राणि द्वादश कुर्यात् । वैष्णव इति विशेषतो वैष्णवस्य विधेयत्वं सूचयति । विधिर् यथा स्याद् इत्य् अत्रायं विधिः मूर्ति-पञ्जर-न्यासानुसारेण प्रणव-पूर्वकं स-बिन्द्व्-अ-कारादि-द्वादश-वर्णैर् द्वादशादित्यैश् च सहितान् केशवादीन् द्वादश न्यसेत् । तत्र केचित् केशवादि-न्यासोक्तं कीर्त्यादि-द्वादश-शक्तिभिर् अपि सह न्यस्यन्ति । द्वादशादित्याश् चोक्ताः—

धातार्यमा च मित्रश् च वरुणो’ंशु-भगस् तथा । विवस्वान् इन्द्रः पूषा च पर्जन्य-त्वष्टृ-विष्णवः ॥ इति ।

ततश् चायं प्रयोगः—ओं अं धातृ-सहिताय केशवाय नमः ललाटे इत्य् आदि । किं च, ललाटोर्ध्व-पुण्ड्र-मालिकादिकं अग्रे व्यक्तं भावि । अन्याङ्गोर्ध्व-पुण्ड्राणां च केचिद् दीप-शिखाकारतया, केचिच् च वाह्नोर् वक्षः-स्थले पुण्ड्रम् अष्टाङ्गुलम् उदाहृतम् इत्य् आदि पद्म-पुराणोत्तर-खण्डोक्तानुसारेण वाह्नोर् वक्षः-स्थले पुण्ड्रं चाष्टाङ्गुल-प्रमाणम् अन्यत्र चतुर्-अङ्गुल-प्रमाणम् इत्य् एवं, तत्रापि केचिन् मध्ये छिद्रतयेच्छन्तीति विविधो विधिः । तत्र च निज-सम्प्रदाय-व्यवहार एवानुसर्तव्यः । इत्य् आद्य्-अभिप्रायेणैवाग्रे लेख्यं सम्प्रदायानुसारत इति ॥१६९॥

अथ द्वादश-तिलक-विधिः

पद्म-पुराणे उत्तर-खण्डे [६.२२५.४५-४७]—

ललाटे केशवं ध्यायेन् नारायणम् अथोदरे । वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥१७०॥ विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् । त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥१७१॥ श्रीधरं वाम-बाहौ तु हृषीकेशं तु कन्धरे । पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत् ॥१७२॥ तत्-प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥१७३॥

तत्-तन्-नामानि अङ्गानि च विभज्य दर्शयति ललाटे त्रिभिः । ध्यायेत् न्यसेत् ॥१७०॥ त्रिविक्रमं दक्षिणे कन्धरे । हृषीकेशं वामे कन्धरे ॥१७१-१७२॥ एवं केशवाद्यानां दामोदरान्तानां द्वादशानां न्यासम् उक्त्वा मस्तके श्री-वासुदेवस्य न्यासम् आह—तद् इति वासुदेवेति वासुदेवाय नमः इति । एतच् च समस्त-स्वरैः सह न्यसेद् इति ज्ञेयम् । केचिच् च द्वादशाक्षर-मन्त्रं मूर्धनि विन्यस्यन्ति । अत्रापि सत्-सम्प्रदायाचार एव गतिर् इति दिक् ॥१७३॥

किं च [६.२२५.५४]—

ऊर्ध्व-पुण्ड्रं ललाटे तु सर्वेषां प्रथमं स्मृतम् । **ललाटादि-क्रमेणैव धारणं तु विधीयते ॥१७४॥ **इति ।

एवं न्यासं समाचर्य सम्प्रदायानुसारतः ।
न्यसेत् किरीट-मन्त्रं च मूर्ध्नि सर्वार्थ-सिद्धये ॥१७५॥

सम्प्रदायानुसारत इति सर्वत्राग्रे’प्य् अनुवर्तनीयम् ॥१७५॥

अथ किरीट-मन्त्रः

**ओं श्री-किरीट-केयूर-हार-मकर-कुण्डल-चक्र-शङ्ख-गदा-पद्म-हस्त-पीताम्बर-धर श्रीवत्साङ्कित-वक्षः-स्थल श्री-भूमि-सहित-स्वात्म-ज्योतिर् दीप्ति-कराय सहस्रादित्य-तेजसे नमो नमः ॥१७६॥ **इति ।

अथोर्ध्व-पुण्ड्र-नित्यता

पाद्मे श्री-भगवद्-उक्तौ—

मत्-प्रियार्थं शुभार्थं वा रक्षार्थे चतुरानन । मत्-पूजा-होम-काले च सायं प्रातः समाहितः । मद्-भक्तो धारयेन् नित्यम् ऊर्ध्व-पुण्ड्रं भयापहम् ॥१७७॥

नित्यं धारयेद् इति नित्यता सिद्धा ॥१७७॥

तत्रैव श्री-नारदोक्तौ—

यज्ञो दानं तपो होमः स्वाध्यायः पितृ-तर्पणम् । व्यर्थं भवति तत् सर्वम् ऊर्ध्व-पुण्ड्रं विना कृतम् ॥१७८॥

तत्रैवोत्तर-खण्डे—

ऊर्ध्व-पुण्ड्रैर् विहीनस् तु किञ्चित् कर्म करोति यः । इष्टापूर्तादिकं सर्वं निष्फलं स्यान् न संशयः ॥१७९॥ ऊर्ध्व-पुण्ड्रैर् विहीनस् तु सन्ध्या-कर्मादिकं चरेत् । तत् सर्वं राक्षसं नित्यं नरकं चाधिगच्छति ॥१८०॥

अधुना अकरणे प्रत्यवाय-पुञ्जं दर्शयति यज्ञ इत्यादिना । चरेत् आचरेत् ॥१७८-१८०॥

अन्यच् च—

ऊर्ध्व-पुण्ड्रे त्रि-पुण्ड्रं यः कुरुते नराधमः । भङ्क्त्वा विष्णु-गृहं पुण्ड्रं स याति नरकं ध्रुवम् ॥१८१॥

विष्णु-गृहं हरि-मन्दिरम् ॥१८१॥

अत एव पाद्मे श्री-नारदोक्तौ—

यच् छरीरं मनुष्याणाम् ऊर्ध्व-पुण्ड्रं विना कृतम् । द्रष्टव्यं नैव तत् तावत् श्मशान-सदृशं भवेत् ॥१८२॥

पद्म-पुराणे—

ऊर्ध्व-पुण्ड्रं मृदा सौम्यं ललाटे यस्य दृश्यते । स चाण्डालो’पि शुद्धात्मा पूज्य एव न संशयः ॥१८३॥

धरेत् धारयेत् ॥१८३॥

स्कान्दे—

तिर्यक्-पुण्ड्रं न कुर्वीत सम्प्राप्ते मरणे’पि च ।
नैवान्यन् नाम च ब्रूयात् पुमान् नारारायणाद् ऋते ॥१८४॥
धारयेद् विष्णु-निर्माल्यं धूप-शेषं विलेपनम् । वैष्णवं कारयेत् पुण्ड्रं गोपी-चन्दन-सम्भवम् ॥१८५॥

तत्रैव कार्त्तिक-प्रसङ्गे—

यस्योर्ध्व-पुण्ड्रं दृश्येत ललाटे नो नरस्य हि । तद्-दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् ॥१८६॥

वैष्णवं हरि-मन्दिर-लक्षणम् ऊर्ध्व-पुण्ड्रं ललाट इति । ऊर्ध्व-पुण्ड्रस्य तत्रैव विहितत्वात् ॥१८५-१८६॥

अन्यत्रापि—

वैष्णवानां ब्राह्मणानाम् ऊर्ध्व-पुण्ड्रं विधीयते ।
अन्येषां तु त्रि-पुण्ड्रं स्याद् इति ब्रह्म-विदो विदुः ॥१८७॥

ब्राह्मणानां च अन्येषाम् अवैष्णव-शूद्राणाम् ॥१८७॥

त्रिपुण्ड्रं यस्य विप्रस्य ऊर्ध्व-पुण्ड्रं न दृश्यते । तं स्पृष्ट्वाप्य् अथवा दृष्ट्वा स-चेलं स्नानम् आचरेत् ॥१८८॥ ऊर्ध्व-पुण्ड्रे न कुर्वीत वैष्णवानां त्रिपुण्ड्रकम् । कृत-त्रि-पुण्ड्र-मर्त्यस्य क्रिया न प्रीतये हरेः ॥१८९॥

अतएवोत्तर-खण्डे—

अश्वत्थ-पत्र-सङ्काशो वेणु-पत्राकृतिस् तथा । पद्म-कुट्मल-सङ्काशो मोहनं त्रितयं स्मृतम् ॥१९०॥

एवम् अत्रोर्ध्व-पुण्ड्र-धारणस्य विहितत्वाद् अग्रे च वक्षो-बाहु-मूलादौ खड्ग-चक्रादि-मुद्रा-धारणस्य विहितत्वाद् अवैष्णव-स्मार्त-सम्मतम् अश्वत्थ-पत्राकारादिकं वक्षः-स्थलादौ न विधेयम् इति लिखति अश्वत्थेति । मोहनम् असुरानुसारि शुक्रादि-माया-विहितम् इत्य् अर्थः ॥१९०॥

अथोर्ध्व-पुण्ड्र-माहात्म्यम्

स्कान्दे कार्त्तिक-प्रसङ्गे—

ऊर्ध्व-पुण्ड्रो मृदा शुभ्रो ललाटे यस्य दृश्यते । चण्डालो’पि विशुद्धात्मा याति ब्रहम् सनातनम् ॥१९१॥

ऊर्ध्व-पुण्ड्र इति पुंस्त्वम् आर्षम् ॥१९१॥

ऊर्ध्व-पुण्ड्रे स्थिता लक्ष्मीर् ऊर्ध्व-पुण्ड्रे स्थितं यशः । ऊर्ध्व-पुण्ड्रे स्थिता मुक्तिर् ऊर्ध्व-पुण्ड्रे स्थितो हरिः ॥१९२॥

पद्म-पुराणे—

ऊर्ध्व-पुण्ड्रं मुदा सौम्यं ललाटे यस्य दृश्यते । स चाण्डालो’पि शुद्धात्मा पूज्य एव न संशयः ॥१९३॥

तत्रैवोत्तर-खण्डे शिवोमा-संवादे [६.२२५.२-३,५,७-१०]—

ऊर्ध्व-पुण्ड्रस्य मध्ये तु विशाले सुमनोहरे । **लक्ष्म्या सार्धं समासीनो देव-देवो जनार्दनः ॥१९४॥ **

समासीनो’स्ति ॥१९४॥

तस्माद् यस्य शरीरे तु ऊर्ध्व-पुण्ड्रं धृतो भवेत् । तस्य देहं भगवतो विमलं मन्दिरं शुभम् ॥१९५॥ ऊर्ध्व-पुण्ड्र-धरो विप्रः सर्व-लोकेषु पूजितः । विमान-वरम् आरुह्य याति विष्णोः परं पदम् ॥१९६॥ ऊर्ध्व-पुण्ड्र-धरं दृष्ट्वा सर्व-पापैः प्रमुच्यते । नमस्कृत्वाथवा भक्त्या सर्व-दान-फलं लभेत् ॥१९७॥ ऊर्ध्व-पुण्ड्र-धरं विप्रं यः श्राद्धे भोजयिष्यति । आकल्प-कोटि-पितरस् तस्य तृप्ता न संशयः ॥१९८॥ ऊर्ध्व-पुण्ड्र-धरो यस् तु कुर्याच् छ्राद्धं शुभानने । कल्प-कोटि-सहस्राणि गया-श्राद्ध-फलं लभेत् ॥१९९॥ यज्ञ-दान-तपश्-चर्या-जप-होमादिकं च यत् । ऊर्ध्व-पुण्ड्र-धरः कुर्यात् तस्य पुण्यम् अनन्तकम् ॥२००॥

श्री-ब्रह्माण्ड-पुराणे—

अशुचिर् वाप्य नाचारो मनसा पापम् आचरन् । शुचिर् एव भवेन् नित्यम् ऊर्ध्व-पुण्ड्राङ्कितो नरः ॥२०१॥

तत्रैव श्री-भगवद्-वचनम्—

ऊर्ध्व-पूण्ड्र-धरो मर्त्यो म्रियते यत्र कुत्रचित् । श्वपाको’पि विमानस्थो मम लोके महीयते ॥२०२॥ ऊर्ध्व-पूण्ड्र-धरो मर्त्यो गृहे यस्यान्नम् अश्नुते । तदा विंशत्-कुलं तस्य नरकाद् उद्धराम्य् अहं ॥२०३॥

विंशत् कुलं विंशति-कुलानि ॥२०३॥

अथोर्ध्व-पूण्ड्र-इर्माण-विधिः

श्री-ब्रह्माण्ड-पुराणे—

वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः । ऊर्ध्व-पूण्ड्रं महा-भाग स याति परमां गतिम् ॥२०४॥ दशाङ्गुल-प्रमाणं तु उत्तमोत्तमम् उच्यते । नवाङ्गुलं मध्यमं स्याद् अष्टाङ्गुलम् अतः परम् ॥२०५॥ एतैर् अङ्गुलि-भेदैस् तु कारयेन् न नखैः स्पृशेत् ॥२०६॥

ऊर्ध्व-पुण्ड्रस्य ललाटे मुख्यत्वात् तत्रत्योर्ध्व-पुण्ड्र-निर्माण-प्रकारं लिखति—वीक्ष्येत्य् आदिना ॥२०४॥ अतः-परं कनिष्ठम् इत्य् अर्थः ॥२०५॥

पद्म-पुराणे उत्तर-खण्डे तत्रैव [६.२५३.२१, ४०-४३] —

एकान्तिनो महा-भागाः सर्व-भूत-हिते रताः । सान्तरालं प्रकुर्वीरन् पुण्ड्रं हरि-पदाकृतिम् ॥२०७॥

सान्तरालं मध्ये छिद्रान्वितं, तद् एवाह—हरिपदाकृतीनि ॥२०७॥

श्यामं शान्ति-करं प्रोक्तं रक्तं वश्य-करं तथा । श्री-करं पीतम् इत्य् आहुः श्वेतं मोक्ष-करं शुभम् ॥२०८॥ वर्तुलं तिर्यग् अछिद्रं ह्रस्वं दीर्घं ततं तनुम् । वक्रं विरूपं बद्धाग्रं छिन्न-मूलं पद-च्युतम् ॥२०९॥ अशुभं रूक्षम् आसक्तं तथा नाङ्गुलि-कल्पितम् । विगन्धम् अवसह्यं च पुण्ड्रम् आहुर् अनर्थकम् ॥२१०॥

ततम् इति पाठे विस्तृतम् । पद-च्युतं स्थान-भ्रष्टं । अशुभ्रं मलिनम् । आसक्तम् अन्योन्य-संलग्नं । पाठान्तरं सुगमम् । विगन्धं दुर्गन्धि । अपसव्यं वाम-हस्त-कल्पितम् ॥२०८-२१०॥

आरभ्य नासिका-मूलं ललाटान्तं लिखेन् मृदा । नासिकायास् त्रयो भागा नासा-मूलं प्रचक्ष्यते ॥२११॥

त्रयो भागास् त्र्टीयो विभाग इत्य् अर्थः । तथा सदाचार-दर्शनात् ॥२११॥

समारभ्य भ्रुवोर् मध्यम् अन्तरालं प्रकल्पयेत् ॥२१२॥

तत्रैव [६.२५३.२६-७, २४]–

निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति ॥२१३॥ अच्छिद्रम् ऊर्ध्व-पुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः । तेषां ललाटे सततं शुनः पादो न संशयः ॥२१४॥ तस्माच् छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनम् । विप्राणां सततं कार्यं स्त्रीणां च शुभ-दर्शने ॥२१५॥

हरि-मन्दिर-लक्षणम्

नासादि-केश-प्रयन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् ।
मध्ये छिद्र-समायुक्तं तद् विद्याद् हरिमन्दिरम् ॥२१६॥

व्यपोहेति निरस्यतीति महा-दोषोक्त्या नित्यता बोधिता । एवम् अग्रे’प्य् ऊह्यम् ॥२१६॥

वाम-पार्श्वे स्थितो ब्रह्मा दक्षिणे च सदा-शिवः ।
मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥२१७॥

वायु-पुराणे सेवापराधे—

अधृत्वा चोर्ध्व-पुण्ड्रं च हरेः पूजां करोति यः । तिर्यक्-पुण्ड्र-धरो यस् तु यजेद् देवं जनार्दनम् ॥२१८॥ अच्चिद्रेणोर्ध्व-पुण्ड्रेण भस्मना तिर्यग्-अङ्गिना । अधृत्वा शङ्ख-चक्रे च चेत्य् आदिना दोष उक्तः ॥२१९॥

श्रुतिश् च, यजुर्वेदस्य हिरण्य-केशौर्य-शखायाम्—

हरेः पदाक्रान्तिम् आत्मनि धारयति यः । स परस्य प्रियो भवति स पुण्यवान् । **मध्ये छिद्रम् ऊर्ध्व-पुण्ड्रं ** **यो धारयति स मुक्तिभाग् भवति ॥२२०॥ **इति ।

तिलक-रचनाङ्गुलि-नियमः

स्मृतिः—

अनामिका कामदोक्ता मध्यम् आयुस्करी भवेत् । अङ्गुष्ठः पुष्टिदः प्रोक्तस् तर्जनी मोक्ष-दायिनी ॥२२१॥

अथोर्ध्व-पुण्ड्र-मृत्तिकाः

पद्म-पुराणे [६.२२५.३५-३८] तत्रैव—

पर्वताग्रे नदी-तीरे बिल्व-मूले जलाशये । सिन्धु-तीरे च वल्मीके हरि-क्षेत्रे विशेषतः ॥२२२॥ विष्णोः स्नानोदकं यत्र प्रवाहयति नित्यशः । पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकाम् ॥२२३॥ श्री-रङ्गे वेङ्कटाद्रौ च श्री-कूर्मे द्वारके शुभे । प्रयागे नारसिंहाद्रौ वाराहे तुलसी-वने ॥२२४॥

द्वारके द्वारकायां, वाराहे शूकर-क्षेत्रे ॥२२४॥

गृहीत्वा मृत्तिकां भक्त्या विष्णु-पाद-जलैः सह । धृत्वा पुण्ड्राणि चाङ्गेषु विष्णु-सायुज्यम् आप्नुयात् ॥२२५॥

तत्रैव—

** यत् तु दिव्यं हरि-क्षेत्रे तस्यैव मृदम् आहरेत् ॥२२६॥**

उक्तं च पाद्मे श्री-नारदेन—

ब्रह्मघ्नो वाथ गो-घ्नो वा हैतुकः सर्व-पाप-कृत् । गोपी-चन्दन-सम्पर्कात् पूतो भवति तत्-क्षणात् ॥२२७॥ गोपी-चन्दन-खण्डं तु यो ददातिइ हि वैष्णवे । कुलम् एकोत्तरं तेन सम्भवेत् तारितं शतम् ॥२२८॥

स्कन्द-पुराणे—

शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः । गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेत् तद् अघं कृतः ॥२२९॥ गोपी-मृत्-तुलसी शङ्खः शालग्रामः सचक्रकः । गृहे’पि यस्य पञ्चैते तस्य पाप-भयं कुतः ॥२३०॥

शालग्रामः शालग्राम-शिला स-चक्रकः द्वारका-चक्राङ्क-सहितः ॥२३०॥

काशी-खण्डे च श्री-यमेन—

श्रीखण्डे क्व स आमोदः स्वरोवर्णः क्व तादृशः । तत् पावित्र्यं क्व वै तीर्थे श्री-गोपी-चन्दने यथा ॥२३१॥

अथ गोपीचन्दनोर्ध्व-पुण्ड्र-माहात्म्यम्

उक्तं च गरुड-पुराणे नारदेन—

यो मृत्तिकां द्वारवती-समुद्भवां करे समादाय ललाट-पट्टके । करोति नित्यं त्व् अथ चोर्ध्व-पुण्ड्रं क्रिया-फलं कोटि-गुणं सदा भवेत् ॥२३२॥ क्रिया-विहीनं यदि मन्त्र-हीनं श्रद्धा-विहीनं यदि काल-वर्जितम् । कृत्वा ललाटे यदि गोपी-चन्दनं प्राप्नोति तत् कर्म-फलं सदा क्षयम् ॥२३३॥

गोपी-चन्दनम् इति ह्रस्वत्वम् आर्षम् । यदीत्य् अस्य पूर्वार्धेनैव सम्बन्धः । यद्यपि क्रियादि-हीनं कर्म स्यात् तथापि गोपीचन्दनं ललाटे कृत्वा तेनोर्ध्व-पुण्ड्रं निर्माय तत्-कलम् अक्षयं प्राप्नोतीत्य् अर्थः ॥२३३॥

गोपी-चन्दन-सम्भवं सुरुचिरं पुण्ड्रं ललाटे द्विजो नित्यं धारयते यदि द्विज-पते रात्रौ दिवा सर्वदा । यत् पुण्यं कुरु-जाङ्गले रवि-ग्रहे माध्यां प्रयागे तथा तत् प्राप्नोति खगेन्द्र विष्णु-सदने सन्तिष्ठते देववत् ॥२३४॥

द्विज-पते हे गरुड ॥२३४॥

यस्मिन् गृहे तिष्ठति गोपीचन्दनं भक्त्या ललाटे मनुजो बिभर्ति । तस्मिन् गृहे तिष्ठति सर्वदा हरिः श्रद्धान्वितः कंसहा विहङ्गम ॥२३५॥ यो धारयेत् कृष्ण-पुरी-समुद्भवां सदा पवित्रां कलि-किल्बिषापहाम् । नित्यं ललाटे हरि-मन्त्र-संयुतां यमं न पश्येद् यदि पाप-संवृतः ॥२३६॥

कृष्ण-पुरी श्री-द्वारका । तत्-समुद्भवं मृदम् इति शेषः ॥२३६॥

यस्यान्त-काले खग गोपी-चन्दनं बाह्वोर् ललाट्E हृदि मस्तके च । प्रयाति लोकं कमलालयं प्रभोर् गो-बाल-घाती यदि ब्रह्म-हा भवेत् ॥२३७॥ ग्रहा न पीडन्ति न रक्षसां गणाः यक्षाः पिशाचोरग-भूत-दानवाः । ललाट-पट्टे खग गोपी-चन्दनं सन्तिष्ठते यस्य हरेः प्रसादतः ॥२३८॥

न पीडन्ति न पीडयन्ति ॥२३८॥

पद्म-पुराणे श्री-गोतमेन—

अम्बरीष महाघस्य क्षयार्थे कुरु वीक्षणम् । ललाटे यैः कृतं नित्यं गोपी-चन्दन-पुण्ड्रकम् ॥२३९॥

काशी-खण्डे च श्री-यमेन—

दूताः शृणुत यद्-भालं गोपी-चन्दन-लाञ्छितम् । **ज्वलद्-इन्धनवत् सो’पि त्याज्यो दूरे प्रयत्नतः ॥२४०॥ **इति ।

इन्धनम् अङ्गारः ॥२४०॥

अथ तस्योपरि श्रीमत्-तुलसी-मूल-मृत्स्नया ।
तत्रैव वैष्णवैः कार्यम् ऊर्ध्व-पुण्ड्रं मनोहरम् ॥२४१॥

अथ श्री-तुलसी-मूल-मृत्तिका-पुण्ड्र-माहात्म्यम्

तन्-मृदं गृह्य यैः पुण्ड्रं ललाटे धारितं नरैः ।
प्रमाणकं कृतं तैस् तु मोक्षाय गमनं प्रति ॥२४२॥

तन्-मृदं श्री-तुलसी-मूल-मृत्तिकां, तत्-प्रसङ्गात् । गृह्य गृहीत्वा ॥२४२॥

तत्रैव च कार्त्तिक-माहात्म्ये ब्रह्म-नारद-संवादे—

तुलसी-मृत्तिका-पुण्ड्रं ललाटे यस्य दृश्यते । देहं न स्पृशति पापं क्रियमाणस् तु नारद ॥२४३॥

अप्य् अर्थे तु-शब्दः । क्रियमाणम् अपि पापं कर्तृ-देहम् अपि न स्पृशति, कुतो मन-आदीत्य् अर्थः ॥२४३॥

गरुड-पुराणे—

तुलसी-मृत्तिका-पुण्ड्रं यः करोति दिने दिने । **तस्यावलोकनात् पापं याति वर्ष-कृतं नृणाम् ॥२४४॥ **इति ।

तस्योपरिष्ठाद् भगवन्-निर्माल्यम् अनुलेपनम् ।
तथैव धार्यम् एवं हि त्रिविधं तिलकं स्मृतम् ॥२४५॥
ततो नारायणीं मुद्रां धारयेत् प्रीतये हरेः ।
मत्स्य-कूर्मादि-चिह्नानि चक्रादीन्य् आयुधानि च ॥२४६॥

अथ मुद्रा-धारण-नित्यता

स्मृतौ—

अङ्कितः शङ्ख-चक्राभ्याम् उभयोर् बाहु-मूलयोः । समर्चयेद् धरिं नित्यं नान्यथा पूजनं भवेत् ॥२४७॥

आदित्य-पुराणे—

शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-रहितं ब्राह्मणाधमम् । गर्दभं तु समारोप्य राजा राष्ट्रात् प्रवासयेत् ॥२४८॥

गारुडे श्री-भगवद्-उक्तौ—

सर्व-कर्माधिकारश् च शुचीनाम् एव चोदितः । शुचित्वं च विजानीयान् मदीयायुध-धारणात् ॥२४९॥

पाद्मे चोत्तर-खण्डे—

शङ्ख-चक्रादिभिश् चिह्नैर् विप्रः प्रियतमैर् हरेः । रहितः सर्व-धर्मेभ्यः प्रच्युतो नरकं व्रजेत् ॥२५०॥

श्रुतौ च यजुः-कठ-शाखायाम्—

धृतोर्ध्व-पुण्ड्रः कुत-चक्र-धारी विष्णुं परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन् महतो महान्तम् ॥२५१॥

अथर्वणि च—

एभिर् वयम् उरुक्रमस्य चिह्नैर् अङ्किता लोके सुभगा भवेम । **तद् विष्णोः परमं पदं ** **ये गच्छन्ति लाङ्छिताः ॥२५२॥ **इत्य् आदि ।

अतएव ब्रह्म-पुराणे–

कृष्णायुधाङ्कितं दृष्ट्वा सम्मानं न करोति यः । द्वादशाब्दार्जितं पुण्यं चाफलयोपगच्छति ॥२५३॥

कृतं गोपीचन्दनादिना निर्मितम् अङ्कितं चक्रम् धर्तुं शीलम् अस्येति तथा सः । किं वक्तव्यं मुद्रा-धारणस्य नित्यत्वं । तद्-धारक-सम्मानस्यापि नित्यता ब्राह्म-वचनेन गम्यते इति लिखति कृष्णेति ॥२५१-२५३॥

अथ मुद्रा-धारण-माहात्म्यम्

स्कान्दे श्री-सनत्-कुमार-मार्कण्डेय-संवादे—

यो विष्णु-भक्तो विप्रेन्द्र शङ्ख-चक्रादि-चिह्नितः । स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम् ॥२५४॥

तत्र वान्त्यत्र च—

नारायणायुधैर् नित्यं चिह्नितं यस्य विग्रहम् । पाप-कोटि-युक्तस्य तस्य किं कुरुते यमः ॥२५५॥ शङ्खोद्धारे तु यत् प्रोक्तं वसतां वर्ष-कोटिभिः । तत् फलं लिखिते शङ्खे प्रत्यहं दक्षिणे भुजे ॥२५६॥ यत् फलं पुष्करे नित्यं पुण्डरीकाक्ष-दर्शने । शङ्खोपरि कृते पद्मे तत् फलं समवाप्नुयात् ॥२५७॥ वामे भुजे गदा यस्य लिखिता दृश्यते कलौ । गदाधरो गया-पुण्यं प्रत्यहं तस्य यच्छति ॥२५८॥ यच् चानन्द-पुरे प्रोक्तं चक्र-स्वामी-समीपतः । गदाधोल्लिखिते चक्रे तत् फलं कृष्ण-दर्शने ॥२५९॥

श्री-भगवद्-उक्तौ—

यः पुनः कलि-काले तु मत्-पुरी-सम्भवां मृदम् । मत्स्य-कूर्मादिकां चिह्नं गृहीत्वा कुरुते नरः ॥२६०॥

मृदं गृहीत्वा चिह्नं कुरुते ॥२६०॥

देहे तस्य प्रविष्टो’हं जानन्तु त्रिदशोत्तमाः । तस्य मे नान्तरं किञ्चित् कर्तव्यं श्रेय इच्छता ॥२६१॥

मे मया सह अन्तरं भेदः न कर्तव्यम् ॥२६१॥

ममावतार-चिह्नानि दृश्यन्ते यस्य विग्रहे । मर्त्यैर् मर्त्यो न विज्ञेयः स नूनं मामकी तनूः ॥२६२॥

मामकी तनुः मदवतार इत्य् अर्थः ॥२६२।

पापं सुकृत-रूपं तु जायते तस्य देहिनः । ममायुधानि तस्याङ्गे लिखितानि कलौ युगे ॥२६३॥ उभाभ्याम् अपि चिह्नाभ्यां यो’ङ्कितो मत्स्य-मुद्रया । कूर्मयापि स्वकं तेजो निक्षिप्तं तस्य विग्रहे ॥२६४॥ शङ्खं च पद्मं च गदां रथाङ्गं मत्स्यं च कूर्मं रचितं स्व-देहे । करोति नित्यं सुकृतस्य वृद्धिं पाप-क्षयं जन्म-शतार्जितस्य ॥२६५॥

निक्षिप्तं मया । यः स्व-देहे रचितं करोति, स सुकृत-वृद्ध्य्-आदि करोतीत्य् अर्थः । समासस्थस्यापि पाप-शब्दस्य जन्म-शतार्जितस्येति विशेषणम् आर्षम् ॥२६४-२६५॥

तत्रैव श्री-ब्रह्म-नारद-संवादे—

कृष्ण-शस्त्राङ्क-कवचं दुर्भेद्यं देव-दानवैः । अदृश्यं सर्व-भूतानां शत्रूणां रक्षसाम् अपि ॥२६६॥ लक्ष्मीः सरस्वती दुर्गा सावित्री हरि-वल्लभा । नित्यं तस्य वसेद् देहे यस्य शङ्खाङ्किता तनुः ॥२६७॥ गङ्गा गया कुरुक्षेत्रं प्रयागं पुष्करादि च । नित्यं तस्य सदा तिष्ठेद् यस्य पदाङ्कितं वपुः ॥२६८॥ यस्य कौमोदकी-चिह्नं भुजे वामे कलि-प्रिय । प्रत्यहं तत्र द्रष्टव्यो गङ्गा-सागर-सङ्गमः ॥२६९॥ सव्ये करे गदाधस्तद् रथाङ्गं तिष्ठते यदि । कृष्णेन सहितं तत्र त्रैलोक्यं स-चराचरम् ॥२७०॥ त्रयो’ग्नयस् त्रयो देवा विष्णोस् त्रीणि पदानि च । निवसन्ति सदा यस्य यस्य देहे सुदर्शनम् ॥२७१॥

किं च—

कृष्णायुधाङ्किता मुद्रा यस्य नारायणी करे । ऊर्ध्व-लोकाधिकारी च स ज्ञेयस् त्रिदशां पतिः ॥२७२॥ कृष्ण-मुद्रा-प्रयुक्तस् तु दैवं पित्र्यं करोति यः । नित्यं नैमित्तिकं काम्यं प्रत्यहं चाक्षयं भवेत् ॥२७३॥ पीडयन्ति न तत्रैव ग्रहा ऋक्षाणि राशयः । अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी करे ॥२७४॥

वाराहे श्री-सनत्-कुमारोक्तौ—

कृष्णायुधाङ्कितं देहं गोपी-चन्दन-मृत्स्नया । प्रयागादिषु तीर्थेषु स गत्वा किं करिष्यति ॥२७५॥ यदा यस्य प्रपश्येत देहं शङ्खादि-चिह्नितम् । तदा तस्य जगत्-स्वामी तुष्टो हरति पातकम् ॥२७६॥ भवते यस्य देहे तु अहो-रात्रं दिने दिने । शङ्ख-चक्र-गदा-पद्मं लिखितं सो’च्युतः स्वयम् ॥२७७॥

त्रिदशां त्रिदशनाम् इत्य् अर्थः । प्रपश्येतेत्य् आर्षम् आत्मनेपदम् । भवते इति च ॥२७२-२७७॥

नारायणायुधैर् युक्तं कृत्वात्मानं कलौ युगे । कुरुते पुण्य-कर्माणि मेरु-तुल्यानि तानि वै ॥२७८॥

आत्मानं देहम् ॥२७८॥

शङ्खादिनाङ्कितो भक्त्या श्राद्धं यः कुरुते द्विज । विधि-हीनं तु सम्पूर्णं पितॄणां तु गया-समम् ॥२७९॥ यथाग्निर् दहते काष्ठं वायुना प्रेरितो भृशम् । तथा दह्यन्ति पापानि दृष्ट्वा कृष्णायुधानि वै ॥२८०॥

दह्यन्ति दहन्ति । पापानि स्वस्यान्येषां वा दह्यन्ते स्वयम् एव नश्यन्तीत्य् अर्थः ॥२८०॥

ब्राह्म्ये श्री-ब्रह्म-नारद-संवादे—

विष्णु-नामाङ्कितां मुद्राम् अष्टाक्षर-समन्विताम् । शङ्खादिकायुधादिकैर् युक्तां स्वर्ण-रूप्य-मयीम् अपि ॥२८१॥ धत्ते भागवतो यस् तु कलिकाले विशेषतः । प्रह्लादस्य समो क्षेयो नान्यथा कल-वल्लभ ॥२८२॥

किं च—

शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि । तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥२८३॥ कृष्णायुधाङ्कितो यस् तु श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य नारद ॥२८४॥

यदीति—न श्मशाने मिर्यत एव, यदि कदाचिन् मिर्यत इत्य् अर्थः ॥२८४॥

कृष्णायुधैः कलौ नित्यं मण्डितं यस्य विग्रहम् । तत्राश्रयं प्रकुर्वन्ति विवधा वासवादयः ॥२८५॥

विग्रहम् इति नपुंसकत्वम् आर्षम् ॥२८५॥

यः करोति हरेः पूजां कृष्ण-शस्त्राङ्कितो नरः । अपराध-सहस्राणि नित्यं हरति केशवः ॥२८६॥ कृत्वा काष्ठ-मयं बिम्बं कृष्ण-शस्त्रैस् तु चिह्नितम् । यो ह्य् अङ्कयति चात्मानं तत्-समो नास्ति वैष्णवः ॥२८७॥ पाषण्ड-पतित-व्रात्यैर् नास्तिकालाप-पातकैः । न लिप्यते कलि-कृतैः कृष्ण-शस्त्राङ्कितो नरः ॥२८८॥

किं च—

अष्टाक्षराङ्किता मुद्रा यस्य धातुमयी भवेत् । शङ्ख-पद्मादिभिर् युक्ता पूज्यते’सौ सुरासुरैः ॥२८९॥

काष्ठम् अयम् इति—काष्ठेत्य् उपलक्षणं, ताम्रादि-धातुमयम् इत्य् अपि ज्ञेयम् । स्वर्ण-रूप्यमयीम् अपीत्य् आदिना मुद्राया अपि तादृशत्वोक्तेः । अनेन वचनेन चैषा मुद्रा प्रतिबिम्बनीयेति केषाञ्चिन् मतं निरस्तम् ॥२८७-२८९॥

धृता नारायणी मुद्रा प्रह्लादेन पुरा कृते । विभीषणेन बलिना ध्रुवेण च शुकेन च ॥२९०॥

कृते सत्य-युगे नारायणाङ्किता मुद्रा प्रह्लादेन घृता पुरेति क्वचित् पाठः ॥२९०॥

मान्धातृणाम्बरीषेण मार्कण्ड-प्रमुखैर् द्विजैः । शङ्खादि-चिह्नितैः शस्त्रैर् देहे कृत्वा कलिप्रिय । आराध्य केशवात् प्राप्तं समीहित-फलं महत् ॥२९१॥

मान्दातृणेति मार्कण्डेति चार्षं छन्दो’नुरोधेन शस्त्रैः सह देहे कृत्वा मुद्राम् इति शेषः । आराध्य तेनैव केशवं सन्तोष्य ॥२९१॥

किं च—

गोपी-चन्दन-मृत्स्नाया लिखितं यस्य विग्रहे । शङ्ख-पद्मादि-चक्रं वा तस्य देहे वसेद् धरिः ॥२९२॥

तत्रैव श्री-सनत्-कुमारोक्तौ—

यस्य नारायणी मुद्रा देहं शङ्खादि-चिह्नितम् । धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा ॥२९३॥ द्वादशाक्षर-मन्त्रैस् तु नियुक्तानि कलेवरे । आयुधानि च विप्रस्य मत्-समः स च वैष्णवः ॥२९४॥

किं च—

यस्य नारायणी मुद्रा देहे शङ्खादि चिह्निता । सर्वाङ्गं चिह्नितं यस्य सस्त्रैर् नारायणोद्भवैः । प्रवेशो नास्ति पापस्य कवचं तस्य वैष्णवम् ॥२९५॥

अन्यत्र च—

एभिर् भागवतैश् चिह्नैः कलि-काले द्विजातयः । भवन्ति मर्त्य-लोके ते शापानुग्रह-कारकाः ॥२९६॥

अथ मुद्रा-धारण-विधिः

गौतमीये—

चक्रं च दक्षिणे बाहौ शङ्खं वामे’पि दक्षिणे । गदां वामे गदाधस्तात् पुनश् चक्रं च धारयेत् ॥२९७॥ शङ्खोपरि तथा पद्मं पुनः पद्मं च दक्षिणे । खड्गं वक्षसि चापं च स-शरं शीर्ष्णि धारयेत् ॥२९८॥

दक्षिणे’पि शङ्खं धारयेत्, यद्यपि दक्षिणे तु भुजे विप्रो विभृयाद् वै सुदर्शनम् इत्य् आदि वचनेन वामे शङ्खस्य धारणम् उक्तं, तथापि शङ्खोद्धारे तु यत् प्रोक्तम् इत्य् आदि-लिखित-वचनानुसारेण दक्षिणे’पि पुनः शङ्ख-धारणाधिकं लिखितम् ।

खड्गस्य वक्षसि सशर-चापस्य मूर्ध्नि धारणम् ।

ललाटे च गदा धार्या मूर्ध्नि चाप-शरं तथा । नन्दकश् चैव हृन्-मध्ये शङ्ख-चक्रे भुज-द्वये ।

इति सप्त-मुद्रा-धारणं वाराह-वचनानुसारेण लिखितम् । किन्तु निज-रुच्य्-अनुसारेण सर्वाणि सर्वत्रैव धारयेद् इत्य् अग्रे स्वयं लेख्यम् एवेति दिक् ॥२९७-२९८॥

इति पञ्चायुधान्य् आदौ धारयेद् वैष्णवो जनः । मत्स्यं च दक्षिणे हस्ते कूर्मं वाम-करे तथा ॥२९९॥

शङ्ख-चक्रे गदा खड्गश् चापश् चेत्य् एतानि पञ्चायुधानि ॥२९९॥

तथा चोक्तं—

दक्षिणे तु भुजे विप्रो विभृषाद् वै सुदर्शनम् । **मत्स्यं पद्मं चापरे’थ शङ्खं पद्मं गदास् तथा ॥३००॥ **इति ।

मत्स्यं पद्मं च दक्षिणे अथानन्तरम् अपरे वामे पाणौ शङ्खादिकं विभृयात् ॥३००॥

साम्प्रदायिक-शिष्टानाम् आचाराच् च यथारुचि ।
शङ्ख-चक्रादि-चिह्नानि सर्वेष्व् अङ्गेषु धारयेत् ॥३०१॥

लक्षणानि वेणु-प्रभृतीनि, यच् च पञ्चायुधेतर-भगवच्-चिह्नानां धारणं निषिद्धं तथा च पाद्मोत्तर-खण्डे—

अन्यैर् न दाहयेद् गात्रं ब्राह्मणो हरि-लाञ्छनात् । शङ्ख-चक्र-गदा-पद्म-शार्ङ्गाद् अन्यैर् हरेर् अपि ॥ इति ।

तत् तु तप्तमुद्रादि-विषयम् ॥३०१॥

भक्त्या निजेष्ट-देवस्य धारयेल् लक्षणान्य् अपि ॥३०२॥
चक्र-शङ्खौ च धार्यते सम्मिश्राव् एव कैश्चन ॥३०३॥

यद्यपि नित्य-पार्षदस्य भागवत-प्रवरस्य श्री-शङ्खस्य मुद्रा-धारणे कथञ्चिद् अपि दोषो न घटेत, तथापि तन्-नाद-स्रस्त-पत्नी-गर्भस्य कस्यचिद् ब्राह्मणस्य शाप-सत्यतार्थम् असुर-योनौ पाय्चजन्य-सञ्ज्ञयावतीर्णस्य शङ्खस्य तस्यासुरत्वम् उद्भाव्य कैश्चिद् वैष्णवैस् तच्-चिह्नं केवलं पृथङ् न धार्यत इति तन्-मतं लिखति चक्र-शङ्खौ चेति ॥३०३॥

श्री-गोपी-चन्दनेनैवं चक्रादीनि बुधो’न्वहम् ।
धारयेच् छयनादौ तु तप्तानि किल तानि हि ॥३०४॥

तानि चक्रादीनि तु तप्तानि वह्नौ विधिवत् सन्तप्य शयन-द्वादश्यां आदि-शब्दाद् उत्थानादि-द्वादशीषु च धारयेत् । अतो’त्र नित्य-कर्म-लिखने तद्-विध्य्-आदिकं न लिखितम् इति भावः । किलेति तत्र श्रुति-स्मृति-वाक्य-प्रामाण्यं बोधयति ॥३०४॥

अथ चक्रादीनां लक्षणानि

द्वादशारं तु षट्-कोणं वलयत्रय-संयुतम् ।
चक्रं स्याद् दक्षिणावर्तं शङ्खं च श्री-हरेः स्मृतः ॥३०५॥
गदा-पद्मादिकं लोक-सिद्धम् एव मतं बुधैः ।
मुद्रा वा भगवन्-नामाङ्किता वाष्टाक्षरादिभिः ॥३०६॥

+++लोक-सिद्धम् एव । यथा लोके दृश्यते तदाकारम् एवेत्य् अर्थः । भगवन्-नाम्ना कृष्ण-रामेत्य् आदिना अष्टाक्षर-मन्त्रादिभिर् वाङ्किता । आदि-शब्देन पञ्चाक्षरादि ॥३०६॥

अथ मालादि-धारणम्

ततः कृष्णार्पिता माला धारयेत् तुलसी-दलैः ।
पद्माक्षैस् तुलसी-काष्ठैः फलैर् धात्र्याश् च निर्मिताः ॥३०७॥

तुलसी-दलादिभिर् निर्मिता मालाः कृष्णार्पिताः सतीर् धारयेत् ॥३०७॥

धारयेत् तुलसी-काष्ठ-भूषणानि च वैष्णवः ।
मस्तके कर्णयोर् बाह्वोः करयोश् च यथा-रुचि ॥३०८॥

अथ माला-धारण-विधिः

स्कान्दे—

सन्निवेद्यैव हरये तुलसी-काष्ठ-सम्भवाम् । मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥३०९॥ हरये नार्पयेद् यस् तु तुलसी-काष्ठ-सम्भवाम् । मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥३१०॥ क्षालितां पञ्च-गव्येन मूल-मन्त्रेण मन्त्रिताम् । गायत्र्या चाष्त कृत्वा वै मन्त्रितां धूपयेच् च ताम् । विधिवत् परया भक्त्या सद्यो-जातेन पूजयेत् ॥३११॥ तुलसी-काष्ठ-सम्भूते माले कृष्ण-जन-प्रिये । बिभर्मि त्वाम् अहं कण्ठे कुरु मां कृष्ण-वल्लभम् ॥३१२॥ यथा त्वं वल्लभा विष्णोर् नित्यं विष्णु-जन-प्रिया । तथा मां कुरु देवेशि नित्यं विष्णु-जन-प्रियम् ॥३१३॥ दाने ला-धातुर् उद्दिष्टो लासि मां हरि-वल्लभे । भक्तेभ्यश् च समस्तेभ्यस् तेन माला निगद्यसे ॥३१४॥ एवं सम्प्रार्थ्य विधिवन् मालां कृष्ण-गले’र्पिताम् । धारयेद् वैष्णवो यो वै स गच्छेद् वैष्णवं पदम् ॥३१५॥

तत्रैव कार्त्तिक-प्रसङ्गे—

धात्री-फल-कृतां मालां कण्ठस्थां यो वहेन् न हि । वैष्णवो न स विज्ञेयो विष्णु-पूजा-रतो यदि ॥३१६॥

यदि यद्यपि ॥३१६॥

गारुडे—

धारयन्ति न ये मालां हैतुकाः पाप-बुद्धयः । नरकान् न निवर्तन्ते दग्धाः कोपाग्निना हरेः ॥३१७॥

हैतुका हेतु-वाद-निष्ठाः ॥३१७॥

अत एव स्कान्दे—

न जह्यात् तुलसी-मालां धात्री-मालां विशेषतः । महा-पातक-संहन्त्रीं धर्म-कामार्थ-दायिनीम् ॥३१८॥

न जह्यात्, नित्यत्वात् धात्री-मालां च । नित्यत्वे’पि फलं दर्शयति । विशेषतः सम्यक्तयेत्य् अर्तः । यद् वा, विशेषतो धात्री-मालां न जह्याद् इति तन्-नित्यत्वं नितराम् अभिप्रेतम् ॥३१८॥

अथ माला-धारण-माहात्म्यम्

अगस्त्य-संहितायाम्—

निर्माल्य-तुलसी-माला-युक्तो यश् चार्चयेद् धरिम् । यद् यत् करोति तत् सर्वम् अनन्त-फलदं भवेत् ॥३१९॥

निर्माल्यं भगवच्-छेषः, तद्-रूपा या तुलसी-माला तया युक्तः सन् ॥३१९॥

नारदीये—

ये कण्ठ-लग्न-तुलसी-नलिनाक्ष-माला ये वा ललाट-फल्के लसद् ऊर्ध्व-पुण्ड्राः । **ये बाहु-मूल-परिचिह्नित-शङ्ख-चक्रास् ** ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥३२०॥

लसत् श्री-हरि-मन्दिरतया शोभमानम् ऊर्ध्व-पुण्ड्रं येषां ते ॥३२०॥

किं च—

**भुज-युगम् अपि चिह्नैर् अङ्कितं यस्य विष्णोः ** परम-पुरुष-नाम्नां कीर्तनं यस्य वाचि । ऋजुतरम् अपि पुण्ड्रं मस्तके यस्य कण्ठे सरसिज-मणि-माला यस्य तस्यास्मि दासः ॥३२१॥

विष्णोश् चिह्नैः यस्य वाचि नाम्नां कीर्तनम् इत्य् अत्र दृष्टान्तत्वेन ज्ञेयम् । एवम् अन्यत्राप्य् ऊह्यम् ॥३२१॥

विष्णु-धर्मोत्तरे श्री-भगवद्-उक्तौ—

तुलसी-काष्ठ-मालां च कण्ठ-स्थां वहते तु यः । अप्य् अशौचो’प्य् अनाचारो माम् एवैति न संशयः ॥३२२॥

स्कान्दे—

धात्री-फल-कृता माला तुलसी-काष्ठ-सम्भवा । दृश्यते यस्य देहे तु स वै भागवतोत्तमः ॥३२३॥

तुलसी-काष्ठ-सम्भवा च ॥३२३॥

तुलसी-दलजां मालां कण्ठस्थां वहते तु यः । विष्णूत्तीर्णा विशेषेण स नमस्यो दिवौकसाम् ॥३२४॥ तुलसी-दलजा माला धात्री-फल-कृतापि च । ददाति पापिनां मुक्तिं किं पुनर् विष्णु-सेविनाम् ॥३२५॥

तत्रैव कार्त्तिक-प्रसङ्गे—

यः पुनस् तुलसी-मालां कृत्वा कण्ठे जनार्दनम् । पूजयेत् पुण्यम् आप्नोति प्रतिपुष्पं गवायुतम् ॥३२६॥

गवायुधम् । अयुत-सङ्ख्य-गोदान-फलम् इत्य् अर्थः ॥३२६॥

यावल् लुठति कण्ठ-स्था धात्री-माला नरस्य हि । तावत् तस्य शरीरे तु प्रीत्या लुठति केशवः ॥३२७॥ स्पृशेच् च यानि लोमानि धात्री-माला कलौ नृणाम् । तावद् वर्ष-सहस्राणि वसते केशवालये ॥३२८॥ यावद् दिनानि वहते धात्री-मालां कलौ नरः । तावद्-युग-सहस्राणि वैकुण्ठे वसतिर् भवेत् ॥३२९॥ माला-युग्मं वहेद् यस् तु धात्री-तुलसि-सम्भवम् । वहते कण्ठ-देशे तु कल्प-कोटि-ं दिवं वसेत् ॥३३०॥

तुलसी-सम्भवम् इति ह्रस्वत्वम् आर्षम् ॥३३०॥

गारुडे च मार्कण्डेयोक्तौ—

तुलसी-दलजां मालां कृष्णोत्तीर्णा वहेत् तु यः । पत्रे पत्रे’श्वमेधानां दशानां लभते फलम् ॥३३१॥ तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः । फलं यच्छति दैतारिः प्रत्यहं द्वारकोद्भवम् ॥३३२॥

द्वारकोद्भवं द्वारका-निवासजं फलं तस्मै प्रयच्छति ॥३३२॥

निवेद्य विष्णवे मालां तुलसी-काष्ठ-सम्भवम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ॥३३३॥ सदा प्रीतमनास् तस्य कृष्ण देवकी-नन्दनः । तुलसी-काष्ठ-सम्भूतां यो मालां वहते नरः । प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ॥३३४॥ तुलसी-काष्ठ-सम्भूतां शिरसो यस्य भूषणम् । बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥३३५॥ तुलसी-काष्ठ-मालाभिर् भूषितः पुण्यम् आचरेत् । पितॄणां देवतानां च कृतं कोटि-गुणं कलौ ॥३३६॥

पुण्यं पुण्य-कर्म । पितॄणां देवतानां च तत्-सम्बन्धि कर्म कृतं कोटि-गुणं भवेत् विशेषतः कलौ ॥३३६॥

तुलसी-काष्ठ-मालां तु प्रेत-राजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथा दलम् ॥३३७॥

नश्यन्ति अदृश्या भवन्ति । पलायन्त इत्य् अर्थः ॥३३७॥ \

तुलसी-काष्ठ-मालाभिर् भूषितो भ्रमते यदि । दुःस्वप्नं दुर्निमित्तं च न भयं शस्त्रजं क्वचित् ॥३३८॥

अथ गृहे सन्ध्योपासन-विधिः

सन्ध्योपास्त्य्-आदिकं कर्म ततः कुर्यात् यथा-विधि ।
कृष्ण-पादोदकेनैव तत्र देवादि-तर्पणम् ॥३३९॥

पूर्वं बहिस् तीर्थ-स्नाने सन्ध्योपासनादिकं लिखितम् । इदानीं गृह-विषयकं तल् लिखति—सन्ध्येति । तत्र तस्मिन् कर्मणि ॥३३९॥

शिरसा विष्णु-निर्माल्यं पादोदेनापि तर्पणम् ।
पितॄणां देवतानां च वैष्णवैस् तु समं मतम् ॥३४०॥

विष्णु-निर्माल्यं तद्-वहनम् इत्य् अर्थः । तद् द्वयं समं तुल्यं मतम् ॥३४०॥

सन्ध्योपास्तौ च वशिष्ठ-वचनम्—

गृहे त्व् एक-गुणा सन्ध्या गोष्ठे दश-गुणा स्मृता । शत-साहस्रिका नद्याम् अनन्ता विष्णु-सन्निधौ ॥३४१॥

अथ श्री-गुरु-पूजा

पूजयिष्यंस् ततः कृष्णम् आदौ सन्निहितं गुरुम् ।
प्रणम्य पूजयेद् भक्त्या दत्त्वा किञ्चिद् उपाअयनम् ॥३४२॥

स्मृति-महार्णवे—

रिक्त-पाणिर् न पश्येत राजानं भिषजं गुरुम् । नोपायन-करः पुत्रं शिष्यं भृत्यं निरीक्षयेत् ॥३४३॥

पश्येत पश्येत् । निरीक्षयेत् स्वार्थे इन् निरीक्षयेत् ॥३४३॥

किं च, श्री-भगवद्-उक्तौ—

प्रथमं तु गुरुं पूज्य ततश् चैव ममार्चनम् । कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥३४४॥

एवं किञ्चिद् उपायनं दत्त्वेत्य् अत्र प्रमाण-वचनं सङ्गृह्याधुना सन्निहितं सन्तं गुरुम् आदौ पूजयेद् इति श्री-भगवद्-वचनादिना प्रमाणयति—प्रथमम् इति द्वाभ्याम् । पूज्य पूजयित्वा ॥३४४॥

श्री-नारदेन च—

गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः । स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥३४५॥

श्रुतिषु [श्वेत्।उ। ६.२३]

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥३४६॥

अर्थाः पुरुषार्थाः ॥३४६॥

एकादश-स्कन्धे [११.१७.२७] श्री-भगवद्-उक्तौ—

आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥३४७॥

नासूयेत मा दोष-दृष्टिं कुर्यात् ॥३४७॥

दशम-स्कन्धे [भा।पु। १०.८०.३४] च—

नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन च । तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥३४८॥

इज्या यज्ञो गार्हस्थ्य-धर्मः । प्रजातिः प्रकृष्ट-जन्म उपनयनम्, तेन ब्रह्मचारि-धर्म उपलक्ष्यते, ताभ्याम् । तथा तपसा वाणप्रस्थ-धर्मेण । उपशमेन यति-धर्मेण वा । अहं परमेश्वरस् तथा न तुष्येयं, यथा सर्व-भूतात्मापि गुरु-शुश्रूषया ॥३४८॥

सप्तम-स्कन्धे [भा।पु। ७.१५.२६]—

यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ । मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥३४९॥

गुर्व्-अभक्त्या परमानर्थोक्त्या गुरु-भक्तिम् एव द्रढयति—यस्येति । साक्षाद् भूते मर्त्यासद्-धीः मर्त्य इति असद्-बुद्धिः । श्रुतं शास्त्राभ्यासः । कुञ्जर-शौचवत् व्यर्थम् एवेत्य् अर्थः ॥३४९॥

अन्यत्रापि—

साधकस्य गुरौ भक्तिं मन्दीकुर्वन्ति देवताः । यन् नो’तीत्य व्रजेद् विष्णुं शिष्यो भक्त्या गुरौ ध्रुवन् ॥३५०॥

मनु-स्मृतौ [२.१५३]—

अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥३५१॥

किं च—

** गुरुर् ब्रह्मा गुरुर् विष्णुर् गुरुर् देवो महेश्वरः ।** ** गुरुर् एव परं ब्रह्म तस्मात् सम्पूजयेत् सदा ॥३५२॥**

सम्पूजयेत् गुरुम् एव ॥३५२॥

वामन-कल्पे—

यो मन्त्रः स गुरुः साक्षात् यो गुरुः स हरिः स्मृतः । गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् ।
गुरोः समासने नैव न चैवोच्चासने वसेत् ॥३५३॥

विष्णु-रहस्ये—

तस्मात् सर्व-प्रयत्नेन यथा-विधि तथा गुरुम् । अभेदेनार्चयेत् यस् तु स मुक्ति-फलम् आप्नुयात् ॥३५४॥

विष्णु-धर्मे श्री-भागवते च हरिश्चन्द्रस्य—

गुरु-सुश्रूषणं नाम सर्व-धर्मोत्तमोत्तमम् । तस्माद् धर्मात् परो धर्मः पवित्रं नैव विद्यते ॥३५५॥ काम-क्रोधादिकं यद् यद् आत्मनो’निष्ट-कारणम् । एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥३५६॥

पाद्मे—

पितुर् आधिक्य-भावेन ये’र्चयन्ति गुरुं सदा । भवन्त्य् अतिथयो लोके ब्रह्मणस् ते विशां वर ॥३५७॥

तत्रैव देवहूति-स्तुतौ—

भक्तिर् यथा हरौ मे’स्ति तद्वन् निष्ठा गुरौ यदि । ममास्ति तेन सत्येन स्वं दर्शयतु मे हरिः ॥३५८॥

अदित्य-पुराणे—

अविद्यो वा स-विद्यो वा गुरुर् एव जनार्दनः । मार्गस्थो वाप्य् अमार्ग-स्थो गुरुर् एव सदा गतिः ॥३५९॥

अन्यत्र च—

हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन । तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत् ॥३६०॥

ब्रह्म-वैवर्ते—

अपि घ्नन्तः शपन्तो वा विरुद्धा अपि ये क्रुधाः । गुरवः पूजनीयास् ते गृहं नत्वा नयेत तान् ॥३६१॥

गुरव इति बहु-वचनं गौरवेण । यद् वा, प्रसङ्गाद् अन्येषाम् अपि गुरूणां सङ्ग्रहार्थम् । ते चोक्ताः कौर्मे—

उपाध्यायः पिता ज्येष्ठ-भ्राता चैव महीपतिः । मातुलः श्वशुरः सूतो मातामह-पितामहौ । वर्ण-ज्येष्ठः पितृव्यश् च सर्वे ते गुरवः स्मृताः । गुरूणाम् अपि सर्वेषां पूज्याः पञ्च विशेषतः । तेषाम् आद्यास् त्रयः श्रेष्ठास् तेषां माता सुपूजिता ॥

किं च—

यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥ आत्मनः सर्व-यत्नेन प्राण-त्यागेन वा पुनः । पूजनीया विशेषेण पञ्चैते भूतिम् इच्छता ॥ इति ॥३६१॥

तत् श्लाघ्यं जन्म धन्यं तत् दिनं पुण्याथ नाडिका । यस्यां गुरुं प्रणमते समुपास्य तु भक्तितः ॥३६२॥ उपदेष्टारम् आम्नायागतं परिहरन्ति ये । तान् मृतान् अपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥३६३॥

गुरु-त्यागेन परमानर्थं दर्शयन् गुरु-माहात्म्यम् एव द्रढयति—उपदेष्टारम् इति त्रिभिः । आम्नायागतं कुल-क्रमागतं वेद-विहितं वा ॥३६३॥

बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् । गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥३६४॥

बोधः ज्ञानं विद्या वा ॥३६४॥

अन्यत्र च—

प्रतिपद्य गुरुं यस् तु मोहाद् विप्रतिपद्यते । स कल्प-कोटिं नरके पच्यते पुरुषाधमः ॥३६५॥

गुरुं प्रतिपद्य, गुरुत्वेन स्वीकृत्य ॥३६५॥

पञ्चरात्रे—

अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् । पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥३६६॥

मार्गस्थो वाप्य् अमार्गस्थ इत्य् अनेन उपदेष्टारम् इत्य् आदिना च कथञ्चिद् अपि गुरुर् न त्याज्यः इति लिखितम् । अधुना तत्र मोहाद् अवैष्णवो गुरुः कृतश् चेत् तर्हि स परित्याज्य इति प्रसङ्गात् पूर्वत्रापवादं लिखति—अवैष्णवेति । ग्राहयेद् इति स्वार्थे इन् मन्त्रं गृह्णीयाद् इत्य् अर्थः । यद् वा, साधु-जनस् तादृशं जनं कृपया मन्त्रं ग्राहयेद् इत्य् अर्थः । वैष्णवात् प्रायो ब्राह्मणाद् एवेति ज्ञेयं, पूर्वं गुरु-लक्षणे तथा लिखनात् ॥३६६॥

अथ श्री-गुरु-भक्ति-फलम्

अगस्त्य-संहितायां—

ये गुर्व्-आज्ञां न कुर्वन्ति पापिष्ठाः पुरुषाधमाः । न तेषां नरक-क्लेश-निस्तारो मुनि-सत्तम ॥३६७॥ यैः शिष्यैः शश्वद् आराध्या गुरवो ह्य् अवमानिताः । पुत्र-मित्र-कलत्रादि-सम्पद्भ्यः प्रच्युता हि ते ॥३६८॥ अधिक्षिप्य गुरुं मोहात् परुषं प्रवदन्ति ये । शूकरत्वं भवत्य् एव तेषां जन्म-शतेष्व् अपि ॥३६९॥ ये गुरु-द्रोहिणो मूढाः सततं पाप-कारिणः । तेषां च यावत् सुकृतं दुष्कृतं स्यान् न संशयः ॥३७०॥

श्री-गुरु-भक्तेर् दार्ढ्यायैव तद्-अभक्तानां दुर्गति-दोषान् लिखति—ये गुर्व्-आज्ञाम् इत्य् आदिना । अत एव सततं पाप-कारिणो भवन्ति ॥३६७-३७०॥

अतः प्राग् गुरुम् अभ्यर्च्य कृष्ण-भावेन बुद्धिमान् । त्र्य्-अवरान् असमान् कुर्यात् प्रणामान् दण्ड-पातवत् ॥३७१॥

अत एव कौर्मे श्री-व्यास-गीतायाम्—

व्यत्यस्त पाणिना कार्यम् उपसङ्ग्रहणं गुरोः । **सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥३७२॥ **इति ।

त्रयो’वरा अन्त्या येषु तान् त्रिभ्यो’न्यूनान् इत्य् अर्थः । असमान् अयुग्म्नान् । उपसङ्ग्रहणं श्री-पद-द्वय-धारणम् । तत्-प्रकारम् एवाह—सव्येनेति । निज-सव्य-पाणिना गुरोः सव्य-पाद इत्य् अर्थः । एवम् अग्रे’पि ॥३७१-३७२॥

अथ श्री-गुरु-पादानां प्राप्यानुज्ञां च साधकः ।
प्राक् संस्कृतं हरेर् गेहं प्रवेक्ष्यन् पादुके त्यजेत् ॥३७३॥

श्री-गुरु-पादानाम् इति गौरवेण बहुत्वम् । साधकः श्री-भगवद्-आराधकः । प्रवेक्ष्यन् प्रवेशं करिष्यन् प्रवेशात् पूर्वम् एवेत्य् अर्थः । परिवर्जयेत् अग्न्य्-आगारादिभ्यो दूरतस् त्यजेद् इत्य् अर्थः ॥३७३॥

तथा चापस्तम्ब—

अग्न्य्-आगारे गवां गोष्ठे देव-ब्राह्मण-सन्निधौ । जपे भोजन-काले च पादुके परिवर्जयेत् ॥३७४॥ इति ।
ततः श्री-भगवत्-पूजा-मन्दिरस्याङ्गनं गतः ।
प्रक्षाल्य हस्तौ पादौ च द्वि-राचमनम् आचरेत् ॥३७५॥

तथा च मार्कण्डेये—

देवार्चनादि-कार्याणि तथा गुर्व्-अभिवादनम् । कुर्वीत सम्यग् आचम्य तद्वद् एव भुजि-क्रियाम् ॥३७६॥ इति ॥

सम्यग् आचम्येति द्विर् आचमनं बोधयति । तथैव सम्यक्त्वात् ॥३७६॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

श्री-वैष्णवालङ्कारो नाम

चतुर्थो विलासः

॥४॥