तृतीय-विलासः
शौचीयः
वन्दे’नन्ताद्भुतैश्वर्यं श्री-चैतन्यं महाप्रभुम् । नीचो’पि यत्-प्रसादात् स्यात् सदाचार-प्रवर्तकः ॥१॥
प्रभुः श्री-कृष्ण-चैतन्यो जीयात् यत्-कृपया भवेत् ।
श्वापि सिंहस् तृणं मेरुर् मूर्खो विद्वान् मृतो’सुमान् ॥*॥
निकृष्टस्याप्य् आत्मनः सदाचार-लिखने श्री-भगवतो’नुकम्पयाधिकारं सामर्थ्यं च द्योतयंस् तं प्रणमति—वन्दे इति । यस्य प्रसादाद् धेतोर् नीच-जनो’पि लिखनादि-द्वारा सदाचाराणां प्रवर्तको भवति । तत्र हेतुः—अनन्तम् अद्भुतं चावितर्क्यम् ऐश्वर्यं प्रभावो यस्य तम् । यतो महाप्रभुं परमेश्वरम् ॥१॥
पुंसो गृहीत-दीक्षस्य श्री-कृष्णं पूजयिष्यतः । आचारो लिख्यते कृत्यं श्रुति-स्मृत्य्-अनुसारतः ॥२॥
पुंसः पुं-मात्रस्येत्य् अर्थः । श्री-विष्णु-दीक्षा-ग्रहण-मात्रेण सर्वेषाम् एव तत्राधिकारात् । यद्यपि स्त्रीणाम् अप्य् अधिकारो’स्ति इति पूर्वं लिखितं, तथापि कर्मसु पुंसः प्राधान्यात् पुंस इत्य् अत्र लिखितम् । एवम् अग्रे लेख्यं ब्राह्मणम् इत्य् आदिकम् अप्य् ऊह्यम् । श्री-कृष्णं पूजयिष्यत इति तत्-पूजार्थक इत्य् अर्थः । श्रुत्य्-आद्य्-अनुसारेण कृत्यम् अवश्यं कर्तुं योग्यं यत् यत् कर्म, श्रुति-स्मृत्य्-अनुसारत इत्य् अस्य लिख्यत इत्य् अनेन वा सम्बन्धः ॥२॥
**अथ दीक्षितस्य पूजाया नित्यता **
लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्र-देवताम् । सर्व-कर्माफलं तस्यानिष्टं यच्छति देवता ॥३॥
अथ सद्-आचारः
न किञ्चित् कस्यचित् सिध्येत् सद्-आचारं विना यतः । तस्माद् अवश्यं सर्वत्र सद्-आचारो ह्य् अपेक्ष्यते ॥४॥
ननु पूजा-विधिर् एव लिख्यताम् । किम् अन्याचार-लिखनेनेत्य् आशङ्क्य प्रथमं सदाचारस्य नित्यतां लिखति—न किञ्चिद् इति । हि निश्चये । एतेन शास्त्रादि-प्रमाणं सूचितम् ॥४॥
विष्णु-पुराणे [वि।पु। ३.८.९] —
वऋणाश्रमाचरवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥५॥
अन्यः सदाचाराद् विष्णोर् आराधनात् परः पन्था केवल-योगाभ्यासादिः । तस्य विष्णोस् तोष-कारको न भवति । अत एवोक्तं प्रथम-स्कन्धे—स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे [भा।पु। १.२.६] इति । इति धर्मस् तु सदाचार-लक्षण एव ॥५॥
**अथ सद्-आचारस्य नित्यता
मार्कण्डेय-पुराणे श्रीमद्-आलसालर्क-संवादे—**
गृहस्थेन सदा कार्यम् आचार-परिपालनम् । न ह्य् आचार-विहीनस्य सुखम् अत्र परत्र च ॥६॥ यज्ञ-दान-तपांसीह पुरुषस्य न भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥७॥
भविष्योत्तरे च श्री-कृष्ण-युधिष्ठिर-संवादे— आचार-हीनं न पुनन्ति वेदाः यद्यप्य् अधीताः सह षड्भिर् अङ्गैः । छन्दांस्य् एनं मृत्यु-काले त्यजन्ति नीडं शकुन्ता इव जात-पक्षाः ॥८॥
मृत्यु-काले त्यजन्ति—पर-लोके किम् अपि फलं न प्रयच्छन्तीत्य् अर्थः ॥८॥
कपाल-स्थं यथा तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात् स्थान-दोषेण वृत्त-हीने तथाशुभम् । आचार-रहितो राजन् नेह नामुत्र निन्दति ॥९॥ इति ।
वृत्तं सदाचारः । तेन हीने । शुभं तीर्थाटनादि पुण्य-कर्म ॥९॥
लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति । स्मरणाद्य्-आत्मकस्यापि सद्-आचारस्य नित्यता ॥१०॥
ननु अन्यैर् अपि विशेष-वचनैः स्पष्ट-सदाचारस्य नित्यत्वं लिख्यताम् । तत्र लिखति—लेख्येनेति । स्मरणादीनां स्मरणम् आरभ्यात्र ग्रन्थे लेख्यानां नित्य-पक्षम् आसादि-कृत्यानाम् अग्रे लेख्येन नित्यत्वेनैव सदाचारस्यापि नित्यता सेत्स्यत्य् एव । अतएवाधुना तत्-तद्-वचन-लिखन-बाहुल्येनालम् इति भावः । ननु भगवत्-स्मरणादेर् नित्यतया सदाचारस्य नित्यता कथम् अस्तु ? तत्र लिखति स्मरणाद्य्-आत्मकस्येति । सदाचारस्यैव तत्-तल्-लक्षणद् इत्य् अर्थः ॥१०॥
विष्णु-पुराणे [३.११.३] तत्रैव गृहि-धर्म-प्रसङ्गे —
सद्-आचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥११॥ साधवः क्षीण-दोषास् तु सच्-छब्दः साधु-वाचकः । तेषाम् आचरणं यत् तु सद्-आचारः स उच्यते ॥१२॥
सदाचारस्यैव लक्षणम् आह—साधव इति ॥१२॥
काशी-खण्डे स्कन्दागस्त्य-संवादे—
अनध्ययन-शीलं च सद्-आचार-विलङ्घिनम् । सालस्यं च दुरन्नादं ब्राह्मणं बाधते’न्तकः ॥१३॥ ततो’भ्यसेत् प्रयत्नेन सद्-आचारं सदा द्विजः । तीर्थान्य् अप्य् अभिलष्यन्ति सद्-आचार-समागमम् ॥१४॥
यद्यपि काशी-खण्डम् आधुनिकं कल्पितं काव्यम् इति पुराण-तत्त्ववित्सु प्रसिद्धम्, तथापि तद्-आकार-स्कान्द-वायव्य-कौर्मादि-प्रतिपादित-सदाचार-विषयकाणि कानिचिद् वचनानि स्मृति-संवलितान्य् अत्र सङ्गृहीतानि इत्य् अदोषः । अनध्ययन-शीलम् इति सालस्यम् इति दुरन्नादम् इति च दृष्टान्तत्वेन हेतुत्वेनैवोक्तम् । तत्र च तेषां हेतु-हेतुमत्ता यथा-क्रमम् ऊह्या ॥१३-१४॥
भविष्योत्तरे च तत्रैव—
आचार-प्रभवो धर्मः सन्तश् चाचार-लक्षणाः । साधूनां च यथा वृत्तं स सद्-आचार इष्यते ॥१५॥
तस्मात् कुर्यात् सद्-आचारं य इच्छेद् गतिम् आत्मनः । सर्व-लक्षण-हीनो’पि समुदाचारवान् नृप । श्रद्दधानो’नसूयश् च सर्वान् कामान् अवाप्नुयात् ॥१६॥
सम्यग् उत्कृष्ट आचारः समुदाचारः सदाचार एव तद्वान् ॥१६॥
किं च—
आचार एव धर्मस्य मूलं राजन् कुलस्य च । आचाराद् विच्युतो जन्तुर् न कुलीनो न धार्मिकः ॥१७॥
किं च— आचारो भूति-जनन आचारः कीर्ति-वर्धनः । आचाराद् वर्धते ह्य् आयुर् आचारो हन्त्य् अलक्षणम् ॥१८॥ आचार एव नृप-पुङ्गव सेव्यमानो धर्मार्थ-काम-फलदो भवितेह पुंसाम् । तस्मात् सदैव विदुषावहितेन राजन् शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः ॥१९॥
अथ तत्र नित्य-कृत्यानि
ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् । प्रक्षाल्य पाणि-पादौ च दन्त-धावनम् आचरेत् ॥२०॥
सद्-आचारम् एव नित्य-पक्षम् आसादि-कृत्येन ग्रन्थ-समाप्ति-पर्यन्तं लिखन् आदौ अत्र नित्य-कृत्यानि लिखति—ब्राह्म इत्य् आदिना कृष्ण कृष्णेति कीर्तयन् समुत्थाय, दन्तानां धावनं शोधनम् । तच् च कदाचिद् विहित-काष्ठैः कदाचित् तृणादिभिश् च । तत् तु पूजा-निरतानां श्री-भगवत्-प्रबोधनाद्य्-अर्थं तद्-अग्रे गमिष्यतां ततः प्राग् अधुनैव युक्तम् । यत उक्तं श्री-वराहेण—
दन्त-काष्थम् अखादित्वा यस् तु माम् उपसर्पति । सर्व-काल-कृतं कर्म तेनैवैकेन नश्यति ॥ इति ।
तत्र च दन्त-काष्थम् अखादित्वेति दन्तान् अशोधयित्वेति ज्ञेयम् । प्रतिपदादिषु दन्त-काष्ठ-निषेधात् । तद्-विशेषश् चाग्रे विस्तरतो व्यक्तो भावी ॥२०॥
आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च । पुनर् आचमने कुर्याल् लेख्येन विधिनाग्रतः ॥२१॥
रात्रेः । रात्रौ परिहितम् इत्य् अर्थः । अन्यत् शुद्ध-वसनम् । आचमने आचमन-द्वयम् । तथा चोकं—
सुप्त-वासः परिधाय तथा दृष्टाप्य् अमङ्गलम् । प्रमादाद् अशुइच् स्पृष्ट्वा द्व्राचान्तः शुचिर् भवेत् ॥ इति ।
ननु दन्त-धावनादिकम् अत्र कथ्यतां, तत्र लिखति—अग्रतस् तत्-तन्-मुख्य-प्रकरणे लेख्येन विधिनेति । ब्राह्म-मुहूर्त-कृत्य-लिखन-प्रकरणे प्रातः-स्मरण-कीर्तनादि-मुख्य-कर्म-परित्यागेनोत्थान-मात्र-लिखनानन्तरं दन्त-धावनादि-विधि-विस्तार-लेखो न युक्तः । अतो’ग्रे लेख्यः ॥२१॥
अथेच्छन् परमां शुद्धिं मूर्ध्नि ध्यात्वा गुरोः पदौ । स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद् उदीरयेत् ॥२२॥
परमाम् उत्कृष्टां, बहिर्-अन्तर्-विशोधनात् । श्री-गुरु-पद-ध्याने चागमोक्तो’यं विशेषो द्रष्टव्यः—
ब्रह्म-रन्ध्र-स्थिते पद्मे सहस्र-दल-शोभिते । श्री-गुरुं परमात्मानं व्याख्या-मुद्रा-लसत्-करम् । द्विनेत्रं द्वि-भुजं पीतं ध्य्ञेद् अखिल-सिद्धिदम् ॥ इति ।
गुरोः पादाव् एव स्तुत्वा तस्य उत्कर्षम् उत्कीर्त्य पश्चान् निजेष्ट-दैवतं श्री-कृष्णं कीर्तयन् स्मरंश् च लेख्यं जयतीत्य् आदिकं पठेत् । यद्यपि स्मरणस्य मनः-संयोग-लक्षणत्वाद् आदौ स्मरणे सत्य् अपि पश्चात् कीर्तनं, तथाप्य् अत्र कीर्तनस्य मुख्यत्वाभिप्रायेण स्मरणस्य पश्चान्-निर्देशः । पूर्वं कृष्ण-कृष्णेति तन्-नामोच्चारणम् एव, अधुना तु शुद्ध्यानन्तरं श्री-भागवतादि-श्लोकादि-पाठेन रूप-लीलादि-विशेषेण कीर्तनम् इति विशेषः । शतृङ्-द्वयस्य तद्-उदीरणम् एव तत्-कीर्तन-स्मरणात्मकम् इत्य् अर्थः । यद् वा, द्वयम् अपि हेतौ कीर्तयितुं स्मर्तुं चेति तथैवार्थः । ततश् च कीर्तनेनैव स्मरण-विशेषोत्पत्तेः स्मरंश् चेति पश्चाल् लिखितम् ॥२२॥
**अथ प्रातः-स्मरण-कीर्तने
[भा।पु। १०.९०.४८]—**
जयति जन-निवासो देवकी-जन्म-वादो यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् । स्थिर-चर-वृजिन-घ्नः सु-स्मित-श्री-मुखेन **व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥२३॥ **
जयति सर्वोत्तमतया वर्तेत श्री-कृष्णः । जनेषु निवसति अन्तर्यामितयेति तथा सः । अतो देवक्यां जन्मेति वद-मात्रं यस्य सः । यदु-वराः परिषत् सभा-सेवक-रूपा यस्य सः । इच्छा-मात्रेण निरसन-समर्थो’पि दोर्भिर् अधर्मं निरस्यन् क्षिपन् । स्थिर-चर-वृजिन-घ्नः अधिकारि-विशेषानपेक्षया वृन्दावन-तरु-गवादीनां संसार-दुःख-हन्ता । तथा विलास-वैदग्ध्यानपेक्षया व्रज-वनितानां पुर-वनितानां च सुस्मितेन श्रीमता मुखेनैव काम-देवं वर्धयन् । कामश् चासौ दीव्यति विजिगीषते संसारम् इति देवस् तम् । भोग-द्वारा मोक्ष-प्रदम् इत्य् अर्थः ।
अथवा—
श्रीधर-स्वामि-पादानां व्याख्यातो’धिकम् अत्र यत् ।
किञ्चिल् लिखामि तत् तैस् तु क्षन्तव्यं गुरवो हि ते ॥
श्री-कृष्णो जयति सर्वोत्कर्षेण वर्तते । तद् एव प्रतिपादयति—जनानां जीवानां निवास आश्रयः । यद् वा, जनेषु निज-भक्तेषु नितरां प्राकट्येन वासो यस्य । अत एव भक्त-वात्सल्येन देवक्यां जन्म आविर्भावः । वादश् च भाषणं तद्-आश्वासनाद्य्-अर्थं तादृश-निज-भक्तेषु जन्म-कारणादि-कथन-रूपो यस्य तथा । यदु-वरस्य यादव-राजस्य कंस-पितुर् अपि उग्रसेनस्य । यद् वा, यदूनां सामान्येन सर्वेषां एव यादवानां वरा दिव्या सभा सुधर्माख्या यस्मात् । तथा जन्म-मात्रेणैवापनीतम् अपि अधर्मं निज-भक्त-विनोदार्थं स्वैः सौन्दर्यादिना असाधारणैर् दोर्भिर् अस्यन्न् अधर्म-हेतु-तत्-तद्-दैत्यादि-वधेन विनाशयन् । दोर्भिर् इति बहुत्वं भारताद्य्-उक्तानुसारेण भारत-युद्धादौ चतुर्भुजानां । तथा हरिवंशोक्तानुसारेण बाण-य् द्धादाव् अष्ट-भ्जानां च प्रकटनात् । यद् वा, दोर्भिर् इति दोर्भिः भक्त-वात्सल्येन साहाय्य-कल्पितैर् इत्य् अर्थः । यद् वा, क्षत्रियाणां भगवतो बाहुजत्वात् बलाधिक्याद्य्-अपेक्षया कार्य-कारणाभेदेन दोर्भिः क्षत्रियैर् इनांउत्तम् । तत्रापि स्वैर् निजैः यादव-पाण्डवादिभिः ।
स्थिराणां चराणां च सर्वेषां अपि तदानीन्तनानां जीवानां संसार-दुःख-हन्ता । व्रज-पुर-वनितानां । यद् वा, व्रज एव पुरं विचित्र-विलास-वैदग्धी-विषयत्वात् तद्-वनितानां । कामेषु देवः श्रेष्ठस् तद्-एक-निष्ठत्वात् परम-प्रेम-परिणति-रूप-काम-विशेषाच् च तं वर्धयन् । तच् च निजेन सुस्मितेन श्री-मुखेनैव । एवं तेनैव परम-मोहन-सौन्दर्यादिना तादृश-काम-वर्धनान् मोक्षानन्दे’पि सामान्य-भजनानन्दे’पि च परम-नैरपेक्ष्याद् अयुक्तम् एव । तत् कामस्य श्रैष्ठ्यम् । वर्धयन्न् इति वर्तमानत्वेन तादृश-कामस्य परम-प्रेम-परिणाम-लक्षणतया प्रेम्णश् चातृप्ति-स्वभावकतया पैच्छेदाभावो दर्शितः । एवं दशम-स्कन्ध-शेषे निखिल-लीला-कथनान्ते तथोक्त्या सर्वदैव ताभिः सह संयोगः सूचितः ।
किं च, शतृङ्-अन्त-पदस्यावश्यक- क्रिया-पद-सहितान्वयेन तासां तादृश-काम-वर्धनेनैव जयतीति परमोत्कर्षताभिप्रेता । एवं तद्-अर्थम् एव देवक्यां जन्मादिकम् इत्य् एवं सर्वम् अवतार-प्रयोजनम् । तत्रैव पर्यवस्यतीति दिक् ।
मङ्गलायास्य पद्यस्य पाठ्यमानस्य सर्वतः ।
विस्तार्य लिखितो’त्रार्थो लेख्यो’ग्रे यो हि दुर्गमः ॥२३॥
स्मृते सकल-कल्याण-भाजनं यत्र जायते । पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥२४॥
एवं मङ्गलम् आचर्य सर्व-कर्म-सिद्धये भगवद्-एक-शरणो भवेद् इत्य् आशयेन लिखति—स्मृत इति । यत्र यस्मिन् हरौ ॥२४॥
**विदग्ध-गोपाल-विलासिनीनां ** सम्भोग-चिह्नाङ्कित-सर्व-गात्रम् । पवित्रम् आम्नाय-गिराम् अगम्यं ब्रह्म प्रपद्ये नव-नीत-चौरम् ॥२५॥
कौशिकी-वृत्ति-गानाद्य्-अभिप्रायेण श्री-कृष्णस्य प्रातः-कालीन-रूप-लीलादि-स्मरण-कीर्तनार्थं लिखति—विदग्धेति । पवित्रम् अपि वेद-वाक्यागोचरम् । पर-ब्रह्मापि विदग्धानां गोप-रमणीनां सम्भोगस्य चिह्नैर् नख-क्षतादिभिर् अङ्कितानि सर्व-गात्राणि यस्य तं प्रपद्ये । नवनीतस्य प्रातर् दधिमन्थनोत्थितस्य । चौरं चौर्येण भक्षयन्तम् इत्य् अर्थः । तथा च तच्-चिह्नाङ्कितम् अपि ज्ञेयम् ॥२५॥
दशम-स्कन्धे [भा।पु। १०.४६.४६]—
उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥२६॥ इति ।
एवं साक्षाद्-भगवतः कीर्तन-स्मरणे लिखित्वा प्रिय-जन-प्रेम-द्वारापि कीर्तन-स्मरण-विशेषं लिखति—उद्गायतीनाम् इति । दिशां दश-दिक्-स्थानां जीवानाम् अमङ्गलम् ऐहिकामुष्मिकम् अखिलम् अभद्रम् । यद् वा, अ-कारो विष्णुस् तद्-रूपं मङ्गलम् । किं वा, न विद्यते मङ्गलं यस्मात् तद् अमङ्गलम् । अनुत्तमादिवत् परम-मङ्गलम् इत्य् अर्थः । तच् च मुख्य-वृत्त्या श्री-भगवत्-प्रेमैव, यत् येन ध्वनिना दिशः प्रति नितरां रस्यते आस्वादः कार्यत इत्य् अर्थः ॥२६॥
पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः । चतुःश्लोकीम् इमां सर्व-दोष-शान्त्यै शुभाप्तये ॥२७॥
यद्यपि लेख्य-श्लोक-चतुष्टये श्री-गोपाल-देवस्य कीर्तन-स्मरण-विशेषो नास्ति, तथापि बहुल-शिष्टाचारापेक्षया तत् पठितव्यम् इति लिखति—पठेद् इति । सर्वेषां दुःस्वप्नादि-दोषाणां शान्तये—इत्य् एषां श्लोकानां प्रायो गजेन्द्र-मोक्षाख्यान-परतया दुःस्वप्नाद्य्-उपशान्तय [भा।पु। ८.४.१५] इत्य् आदि तत्रत्योक्त्य्-अभिप्रायेण ॥२७॥
प्रातः स्मरामि भव-भीति-महार्ति-शान्त्यै नारायणं गरुड-वाहनम् अब्ज-नाभम् । ग्राहाभिभूत-वर-वारि-वारण-मुक्ति-हेतुं चक्रायुधं तरुण-वारिज-पत्र-नेत्रम् ॥२८॥ प्रातर् नमामि मनसा वचसा च मूर्ध्ना पादारविन्द-युगलं परमस्य पुंसः । **नारायणस्य नरकार्णव-तारणस्य ** पारायण-प्रवण-विप्र-परायणस्य ॥२९॥
पारायणं वेदाध्ययन-साकल्यं तस्मिन् प्रवणस् तत्-पर इत्य् अर्थः । यद् वा, पारायणेन प्रवणः प्रणतो यो विप्रस् तस्य परं परमम् अअनम् आश्रयस् तस्य ॥२९॥
प्रातर् भजामि भजताम् अभयङ्करं तं प्राक् सर्व-जन्म-कृत-पाप-भयावहत्यै । यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर- शोक-प्रणाशम् अकरोद् धृत-शङ्ख-चक्रः ॥३०॥ श्लोक-त्रयम् इदं पुण्यं प्रातः प्रातः पठेत् तु यः । लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-पदं हरिः ॥३१॥ इति । तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः । किन्तु स्वाभीष्ट-रूपादि श्री-कृष्णस्य विचिन्तयेत् ॥३२॥ इत्थं विदध्याद् भगवत्-कीर्तन-स्मरणादिकम् । सर्व-तीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम् ॥३३॥
तथा च स्कान्दे स्कन्दं प्रति श्री-शिवोक्तौ— सकृन् नारायणेत्य् उक्त्वा पुमान् कल्प-शत-त्रयम् । गङ्गादि-सर्व-तीर्थेषु स्नातो भवति पुत्रक ॥३४॥
भगवत्-कीर्तन-स्मरणे एव सर्व-तीर्थाभिषेक इत्य् अत्र प्रमाणं लिखति—सकृद् इति । कल्प-शत-त्रयम् इत्य् अस्य नित्य-तथापिअं सदैवेत्य् अर्थः ॥३४॥
अन्यत्र च—
शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् । कीर्तनात् तस्य पापस्य नाशम् आयात्य् अशेषतः ॥३५॥ इति ।
कथं बहिर्-अन्तर्-विशोधनम् ? तल् लिखति—शयनाद् इति । कीर्तनात् केवलाद् एव ॥३५॥
माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्य-प्रसङ्गतः । स्मरणस्य तु माहात्म्यम् अधुना लिख्यते कियत् ॥३६॥
मुख्ये प्रसङ्गे इति कीर्तनस्यैव प्राधान्येन प्रसङ्गे सति लेख्यम् । अधुना चान्य-सङ्गत्या गौणत्वात् लिहितुम् अयोग्यम् इत्य् अर्थः । एवम् अग्रे’पि ज्ञेयम् ॥३६॥
**तत्रादौ तस्य नित्यता
पाद्मे बृहत्-सहस्र-नाम्नि स्तोत्रे [६.७१.१००]–**
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् । सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥३७॥
जातुचित् कदाचिद् अपि न विस्मर्तव्यः । एतयोः स्मरणयोर् एव किङ्कराः अनुगाः । स्मृतौ सर्वे विधयः तत्-कृत-पुण्यानि, विस्मृतौ च सर्वे निषेधास् तत्-कृत-पापानि स्वयम् एवानुगच्छन्तीत्य् अर्थः ॥३७॥
स्कान्दे कार्त्तिक-प्रसङ्गे श्रीमद्-अगस्त्योक्तौ—
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥३८॥
काशी-खण्डे च श्री-ध्रुव-चरिते— इयम् एव परा हानिर् उपसर्गो’यम् एव च । अभाग्यं परमं चैतद् वासुदेवं न यत् स्मरेत् ॥३९॥ ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः । ऋते विष्णु-स्मृतेर् यातास् तेषु मुष्टो यमेन सः ॥४०॥ इति ।
ऋते विष्णु-स्मृतेर् विष्णु-स्मरणं विना, यस्य जनस्य, याता अपगताः, तेषु मुहूर्तादिषु मुष्टो वञ्चितो वशीकृत इत्य् अर्थः ॥४०॥
नित्यत्वे’प्य् अस्य माहात्म्यं विचित्र-फल-दानतः । ज्ञेयं शास्त्रोदितं दर्श-पूर्णमासादिवद् बुधैः ॥४१॥
ननु शास्त्रेषु स्मरणस्य तत्-तत्-फल-श्रवणात् कथं नित्यत्वं सिध्येद् इत्य् आशङ्क्याह—नित्यत्वे’पीति । अस्य स्मरणस्य शास्त्रोदितं विचित्र-फल-दानतो मात्रात्मअं दर्शपौर्णमासादिवत् । आदि-शब्दाद् अग्निहोत्रादि, यथा तेषां नित्यत्वे’पि सति फलानि श्रूयन्ते, तथात्रापि बुधैः शास्त्रविद्भिर् ज्ञेयम् । एतच् च मीमांसा-शास्त्र-निपुणैः श्री-कृष्ण-देवाचार्यादिभिर् एकादशी-प्रसङ्गे विवृत्य लिखितम् अस्तिति नात्र विस्तार्यते । एवम् अग्रे’पि सर्वत्रैव बोद्धव्यम् इति ॥४१॥
**अथ स्मरण-माहात्म्यम्
तत्र सर्व-तीर्थ-स्नानाधिकत्वम्
उक्तं च स्मार्तैर् अपि—**
मान्त्रं पार्थिवम् आग्नेयं वायव्यं दिव्यम् एव च । वारुणं मानसं चेति स्नानं सप्त-विधं स्मृतम् ॥४२॥ शं न आपस् तु वै मान्त्रं मृद्-आलम्भं तु पार्थिवम् । भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥४३॥ आतपे सति या वृष्टिर् दिव्यं स्नानं तद् उच्यते । बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते बुधैः । ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तनम् ॥४४॥
स्मार्तैर् अपीति—भगवद्-भक्ति-परैर् उच्यते एव, स्मृत्य्-उक्त-कर्म-परैर् अप्य् उक्तम् इत्य् अर्थः । शं न आपस् त्व् इति मन्त्राद्य-वर्णाः । इदम् अपि स्मार्तानां एव मतम् । व्यवहारानां तु मूल-मन्त्रादिनैव । मृदः मृत्तिकाया आलम्भः स्पर्शनं यस्मिन् तत् । मनसा ध्यानम् इति केवल-मनः-संयोग-मात्र-रूपं स्मरणं लक्ष्यते । ध्यानम् इत्य् उक्ते’पि मनसेति प्रयोगात् ॥४२-४४॥
किं च—
असामर्थ्येन कायस्य काल-देशाद्य्-अपेक्षया । तुल्य-फलानि सर्वाणि स्युर् इत्य् आह पराशरः ॥४५॥ स्नानानां मानसं स्नानं मन्व्-आद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि वै द्विजाः ॥४६॥
अथ चैतेषु व्यापार-तारतम्यादिना तारतम्यं ज्ञेयम् इति लिखति—असामर्थ्येनेति, कालाद्य्-अपेक्षया च । आदि-शब्देन अधिकारी ग्राह्यः । किं च, स्नानानां इति द्विजा इति । तेषां एव स्नानादौ मुख्यत्वात् । हे द्विजा इति वा ॥४५-४६॥
**परम-शोधकत्वम्
गारुडे श्री-नारदोक्तौ, विष्णु-धर्मे च पुलस्त्योक्तौ—**
अपवित्रः पवित्रो वा सर्वावस्थां गतो’पि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥४७॥
स बाह्याभ्यन्तर इति । बाह्येन शरीरादिना आभ्यन्तरेण च मन-आदिना सह शुद्धो’भूद् इत्य् अर्थः ॥४७॥
यद्यप्य् उपहतः पापैर् मनसात्यन्त-दुस्तरैः । तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥४८॥
मनसापि अत्यन्त-दुस्तरैः । अनन्तत्वात् । गणयितुम् अशक्यैः । किं पुनर् वाचेत्य् अर्थः । यद् वा, मनः-सङ्कल्पितेनापि प्रायश्चित्त-शतेन परमापरिहार्यैः । किं पुनः साक्षात् प्रायश्चित्त-कर्मानुष्ठानेनेत्य् अर्थः । तस्य दुष्करत्वात् । यद् वा, मनसा संस्मरन् इत्य् अन्वयः । ततश् च मनसेति केवलं मनसि कथञ्चित् संयोग-मात्रम् अभिप्रेतम् ॥४८॥
श्री-विष्णु-पुराणे [वि।पु। २.६.३७-३८]—
प्रायश्चित्तान्य् अशेषाणि तपः-कर्मात्मकानि वै । यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥४९॥ कृते पापे’नुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरि-संस्मरणं परम् ॥५०॥
तपांसि कृच्छ्रादीनि । कर्माणि दान-जपादीनि, तद्-आत्मकानि । तेषां मध्ये तेभ्यो वा परं श्रेष्ठम् । श्रेष्ठत्वम् एवाह—कृत इति । प्रकर्षेण जायते, तस्यैव मत्वाद्य्-उक्तानां तपो-दानादीनां मध्ये एकं किञ्चिद् अनुरूपं प्रायश्चित्तम्, तद्-अनुतप्तस्य तेष्व् अनधिकारात् । हरि-स्मरणं तु परम् अनुतापानपेक्षया निःशेष-पाप-क्षय-हेतुत्वात् । अवशेनापि यन् नाम्नि कीर्तिते इति, हरिर् हरति पापानि इत्य् आद्य् उक्तेः ॥४९-५०॥
किं च [वि।पु। ६.८.२१]—
कलि-कल्मषम् अत्युग्रं नरकार्ति-प्रदं नॄणाम् । प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते ॥५१॥
अधुना परम-दुष्परिहर-कलि-महा-पातकस्यापि नाशकम् इत्य् आह—कलीति । सद्यः तत्-कालीनम् एव कलि-सुदुस्तरम् । यद् वा, यत्र यस्मिन् हरौ, अनुकरणेनापि संस्मृते सति, अनुकरणेनापि स्मृतेः, सम्यक्त्वाभिप्रायेण सं-शब्दः ॥५१॥
कौर्मे श्री-भगवद्-उक्तौ—
ये मां जनाः संस्मरन्ति कलौ सकृद् अपि प्रभुम् । तेषां नश्यति तत् पापं भक्तानां पुरुषोत्तमे ॥५२॥
तस्य कलेर् अपि पापम् । यतस् तेन स्मरणेनैव, पुरुषोत्तमे मयि । भक्तानां भक्तिमतां सताम् ॥५२॥
बृहन्-नारदीये [ना।पु। १.१०.१००] शुक्र-बलि-संवादे—
हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥५३॥
तत्रैव [ना।पु। १.३०.९३] प्रायश्चित्त-प्रसङ्गान्ते — महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । स वै विमुच्यते सद्यो यस्य विष्णु-परं मनः ॥५४॥
ब्रह्म-वैवर्ते— कर्मणा मनसा वाचा यः कृतः पाप-सञ्चयः । सो’प्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्रि-पङ्कजम् ॥५५॥
अत एवोक्तं स्कान्दे कार्त्तिक-प्रसङ्गे श्री-पराशरेण— यम-मार्गं महा-घोरं नरकांश् च यमं तथा । स्वप्ने’पि न नरः पश्येद् यः स्मरेद् गरुड-ध्वजम् ॥५६॥
स्वप्ने’पि न नरः पश्येत् इति पापनुत्पत्तेः । कथञ्चित् जातस्यापि सङ्क्षयाद् वा ॥५६॥
षष्ठ-स्कन्धे [भा।पु। ६.१.१९] श्री-शुकेन—
सकृन् मनः कृष्ण-पदारविन्दयोर् निवेशितं तद्-गुण-रागि यैर् इह । न ते यमं पाश-भृतश् च तद्-भटान् स्वप्ने’पि पश्यन्ति हि चीर्ण-निष्कृताः ॥५७॥
सकृद् अपि । एवम् अपि-शब्दस्य सर्वत्रान्वयाद् अयम् अर्थः—किं पुनः सदा । किं पुनः सर्वेन्द्रियाणि, किं पुनः सर्वाङ्ग-सौन्दर्यादौ, किं पुनः स्वतो निविष्टं, किं पुनस् तद्-रूप-नामानुरागीति । कारुण्यादिना गुण-रागित्वेनोपकारापेक्षया सोपाधिकत्वापत्तेस् तस्य न्यूनतया कैमुतिक-न्याय-सिद्धिः । तथा यैर् अपि कैश्चित् इहापि यत्र कुत्रचित् इति । तथा कुतो याम्या यातनाः । कुतश् च बन्धनार्ह्तानीत-पाशान् । कुतश् च निर्बलान् यम-दूतान् इति । तथा कुतः साक्षाद्-भय-तर्जनादिकम् अनुभवेयुर् इति । यतः चीर्ण-निष्कृताः तेनैव कृत-प्रायश्चित्ताः । एवं यथा-कथञ्चित् स्मरण-मात्रेण सर्व-पाप-क्षयात् सर्वेषां एव नरकाद्य्-अभावो’भिप्रेतः । इत्थं च विष्णु-परं मन इत्य् अत्र विष्ण्व्-आश्रयं कथञ्चित् तत्-समीपगम् इति ज्ञेयम् । तथा हरि-संस्मरणम् इत्य् आदौ सं-शब्दादिकं भगवत्-स्मरणस्य सर्व-स्मरणतः सम्यक्तया स्वरूप-निर्देश-मात्र-परं, न तु विशेषण-परम् इति दिक् । यद्यपि परम-शोधकत्व-पापोन्मूलनत्वयोर् अभेद एव पर्यवस्यति, तथापि पात्मअ-शोधकत्वस्य तात्कालिक-पापाद्य्-अशुद्धितो बाह्याभ्यन्तर-पवित्रता-मात्र-लक्षणत्वेन पापोन्मूलनत्वस्य चानेक-जन्म-कृत-वासनाशेष-पाप-क्षपण-रूपतया कश्चिद् भेदः कल्प्यः । एवम् अन्यत्रापि ज्ञेयम् ॥५७॥
**सर्वापद्-विमोचकत्वम्
श्री-विष्णु-पुराणे [वि।पु। १.१७.४४] श्री-प्रह्लादोक्तौ—**
दन्ता गजानां कुलिशाग्र-निष्ठुराः शीर्णा यद् एते न बलं ममैतत् । महा-विपत्-पात-विनाशनो’यं जनार्दनानुस्मरणानुभावः ॥५८॥
वामन-पुराणे च— विष्टयो व्यतिपाताश् च ये’न्ये दुर्नीति-सम्भवाः । ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः ॥५९॥
पाद्मे माघ-माहात्म्ये देव-द्युति-स्तुतौ— यस्य स्मरण-मात्रेण न मोहो न च दुर्गतिः । न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम् ॥६०॥
**दुर्वासनोन्मूलनत्वम्
द्वादश-स्कन्धे [भा।पु। १२.३.४७]—**
यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् । एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥६१॥
धातु-जं ताम्रादि-संश्लेष-जातं हेम्नो दौर्वर्ण्यं मालिन्यं हेम्नि स्थितः सन्, वह्निर् एव हरति, एवं योगिनाम् अपि । सताम् आत्म-त्यागो मनसि प्राप्तः स्मृतः सन्, विष्णुर् एव, न तु योगादिकम् इत्य् अर्थः ॥६१॥
**सर्व-मङ्गल-कारित्वम्
पाण्डव-गीतायाम्—**
लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः । येषाम् इन्दीवर-श्यामो हृदयस्थ-जनार्दनः ॥६२॥
**सर्व-सत्-कर्म-फलदत्वम्
स्कान्दे कार्त्तिक-प्रसङ्गे’गस्त्योक्तौ—**
देवेषु यज्ञेषु तपःसु चैव दानेषु तीर्थेषु व्रतेषु चैव । इष्टेषु पूर्तेषु च यत् प्रदिष्टं नॄणां स्मृते तत्-फलम् अच्युते च ॥६३॥
**कर्म-साद्गुण्य-कारित्वम्
बृहन्-नारदीये [ना।पु।]—**
न्यूनातिरिक्तता सिद्धा कलौ वेदोक्त-कर्मणाम् । हरि-संस्मरणम् एवात्र सम्पूर्ण-फल-दायकम् ॥६४॥
सिद्धेति । स्वभावतो’वश्यं स्याद् एवेत्य् अर्थः ॥६४॥
स्मृतौ च—
प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥६५॥
**सर्व-कर्माधिकत्वम्
बृहन्-नारदीये कलि-प्रसङ्गे [ना।पु।]—**
तुला-पुरुष-दानानां राजसूयाश्वमेधयोः । फलं विष्णोः स्मृति-समं न जातु द्विज-सत्तम ॥६६॥
द्वादश-स्कन्धे [भा।पु। १२.३.४८]— विद्या-तपः-प्राण-निरोध-मैत्री तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभते’न्तर्-आत्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥६७॥
विद्या उपासना अध्ययनं वा । तपः स्व-धर्माचरणं । प्राण-निरोधः प्राणायामः । मैत्री भूतेषु स्नेहः । अन्तरात्मा मनः । हृदिस्थे स्मृते ॥६७॥
विष्णु-पुराणे [वि।पु। १.१७.३६] हिरण्यकशिपुं प्रति श्री-प्रह्लादोक्तौ—
भयं भयानाम् अपहारिणि स्थिते मनस्य् अनन्ते मम कुत्र तिष्ठति । यस्मिन् स्मृते जन्म-जरोद्भवानि भयानि सर्वाण्य् अपयान्ति तात ॥६८॥
तत्रैवान्यत्र [वि।पु। २.६.४०]— **
विष्णु-संस्मरणात् क्षीण-समस्त-क्लेश-सञ्चयः ।** मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो’नुमीयते ॥६९॥
विष्णोः संस्मरणात् क्षीणः क्षयं गतः । समस्त-क्लेशानां पाप-मूलानां रागादीनां सञ्चयः समूहो यस्य सः । स्वर्ग-प्राप्तिस् तु तस्याति-तुच्छत्वात् विघ्न-प्रायैवेत्य् अर्थः ॥६९॥
बृहन्-नारदीये [ना।पु। १.१.६५]—
**वरं वरेण्यं वरदं पुराणं ** निज-प्रभा-भावित-सर्व-लोकम् । **सङ्कल्पितार्थ-प्रदम् आदि-देवं ** स्मृत्वा व्रजेन् मुक्ति-पदं मनुष्यः ॥७०॥
वरं वरेण्यं परम-श्रेष्ठम् इत्य् अर्थः । यद् वा, वरं श्रेष्ठं वरेण्यं सर्वैर् वरण-योग्यम् इत्य् अर्थः ॥७०॥
स्कान्दे—
यस्य स्मरण-मात्रेण जन्म-संसार-बन्धनात् । विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे ॥७१॥
प्रभविष्णवे नित्य-प्रभाव-शीलाय, अतो’त्र न किम् अपि विचार्यम् इति भावः । तथा हि पाद्मे कार्त्तिक-माहात्म्ये—
न चात्र संशयः कार्यं ईशितृत्वम् इदं हरेः । राजा हि कस्यचिद् धृत्वा सर्वस्वं चेत् प्रयच्छति । परस्मै तस्य कस् तत्र नियन्ता स्यात् प्रभोर् यथा ॥ इति ॥७१॥
तत्रैव कार्त्तिक-प्रसङ्गे श्री-पराशरोक्तौ—
तदैव पुरुषो मुक्तो जन्म-दुःख-जरादिभिः । भक्त्या तु परया नूनं यदैव स्मरते हरिम् ॥७२॥
**भगवत्-प्रसादनम्
बृहन्-नारदीये [ना।पु। १.१.७७]—**
येन केनाप्य् उपायेन स्मृतो नारायणोऽव्ययः । अपि पातक-युक्तस्य प्रसन्नः स्यान् न संशयः ॥७३॥
**श्री-वैकुण्ठ-लोक-प्रापकत्वम्
वामन-पुराणे—**
अनाद्य्-अनन्तम् अजरामरं हरिं ये संस्मरन्त्य् अहरहर् नियतं नरा भुवि । **तत् सर्वगं ब्रह्म परं पुराणं ** ते यान्ति वैष्णव-पदं धुर्वम् अव्ययं च ॥७४॥
वैषव-पदं श्री-विष्णोः स्थानं, तस्यैव विशेषणं सर्वगम् इत्य् आदि । सच्-चिद्-आनन्द-रूपत्वात् ॥७४॥
पाद्मे (३.३१.१०१) देव-दूत-विकुण्डल-संवादे यमस्य दूतानुशासने—
स्मरन्ति ये सकृद् भूताः प्रसङ्गेनापि केशवम् । ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥७५॥
हे दूताः ! परं सर्वतः ॥७५॥
ब्रह्म-पुराणे विष्णु-रहस्ये (२१६.८८)—
शाठ्येनापि नरा नित्यं ये स्मरन्ति जनार्दनम् ।
ते’पि यान्ति तनुं त्यक्त्वा विष्णु-लोकम् अनामयम् ॥७६॥
अनामयं सर्व-दोष-रहितम् ॥७६॥ \
विष्णु-धर्मोत्तरे—
निराशीर् निर्ममो यस् तु विष्णोर् ध्यान-परो भवेत् । तत्-पदं समवाप्नोति यत्र गत्वा न शोचति ॥७७॥
**सारूप्य-प्रापणम्
काशी-खण्डे श्री-बिन्दु-माधव-प्रसङ्गे अग्नि-बिन्दु-स्तुतौ—**
ये त्वां त्रिविक्रम सदा हृदि शीलयन्ति कादम्बिनी-रुचिर् अरोचिषम् अम्बुजाक्ष । सौदामिनी-विलसितांशुक-वीत-मूर्ते ते’पि स्पृशन्ति तव कान्तिम् अचिन्त्य-रूपाम् ॥७८॥
शीलयन्ति अभ्यस्यन्ति, स्पृशन्ति किञ्चित् सादृश्येन लभन्ते । इहैव यथा श्री-प्रह्लादोद्धवादयः । अत्र च पेशस्कारि-स्मरणात् कीटो’त्र एवेति दृष्टान्तो द्रष्टव्यः ॥७८॥
श्री-भगवद्-गीतासु [गीता ८.५]—
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति स मद्-भावं याति नास्त्य् अत्र संशयः ॥७९॥
अप्य्-अर्थे च-कारः । अन्त-काले’पि, किं पुनः सर्व-कालं स्वस्थावस्थायां इत्य् अर्थः । मद्-भावं मत्त्वं मत्-सारूप्यम् इति यावत् ॥७९॥
दशम-स्कन्धे [भा।पु। १०.८०.११] पृथुकोपाख्याने—
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्यभीष्टान् जगद्-गुरुः ॥८०॥
अर्थान् कामांश् च यच्छति इति किं वक्तव्यम् इत्य् अर्थः । कथम्-भूतान् नात्यभीष्टान् भगवतो भजतो वा जनस्य अनतिप्रायान्, परिणाम-विरसत्वात् । जगद्-गुरुर् इति भक्तस्य कथञ्चिद् अत्यभीष्टान् अपि सतस् तस्मै पिता पुत्रायापथ्यम् इव न दद्याद् इति भावः ॥८०॥
वैष्णवे—
वासुदेवे मनो यस्य जप-होमार्चनादिषु । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्-फलम् ॥८१॥
जपादिषु कर्मसु तत्-साद्गुण्यार्थम् अपि यस्य वासुदेवे मनः, येन श्री-कृष्ण-स्मरणं कृतम् इत्य् अर्थः । यद् वा, येषु क्रियमाणेष्व् अपि वासुदेव एव मनः जपादि-साध्यम् ऐन्द्र्य-पदं, आदि-शब्दाद् ब्राह्मं च तत्-तत्-कृत-चित्त-शुद्ध्य्-आदि-जातं मुक्त्य्-आदिकम् अपि सर्वम् अन्यत् फलं विघ्न एव, तत्-स्मरणस्यैव परम-फलत्वात् ॥८१॥
गारुडे—
महतस् तपसो मूलं प्रसवः पुण्य-सन्ततेः । जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥८२॥
प्रसवः फलम् । नियतं निश्चितम् एव ॥८२॥
द्वितीय-स्कन्धे [भा।पु। २.१.६]—
एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया । जन्म-लाभः परः पुंसाम् अन्ते नारायण-स्मृतिः ॥८३॥
साङ्ख्यम् आत्मानात्म-विवेकः, योगो’ष्टाङ्गस् ताभ्यां, तथा स्व-धर्मे परितो निष्ठाया कृत्वा पुंसां जन्मनो यो लाभः फलम् एतावान् एव, न त्व् अन्य इति योगादीनां तद्-एक-परतोक्ता । को’सौ ? तद् आह—नारायणस्य स्मृतिर् इति । अन्ते तु स्मृतिः परमो लाभः, न तन्-महिमानं वक्तुं शक्यत इत्य् अर्थः । यद् वा, अन्ते’पि स्मृतिः परमो लाभः किं पुनर् आजन्म सदा स्मृतिर् इत्य् अर्थः । अन्यत् समानम् ॥८३॥
अत एव जरासन्ध-निरुद्ध-नृप-वर्गैः प्रार्थितं दशम-स्कन्धे [भा।पु। १०.७३.१५]— तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥८४॥
येन उपायेन । यथा यथावत् स्मृतिः प्रेम-स्मरणम् इत्य् अर्थः । यद् वा, यथावत् संसरतां देहाद्य्-आसक्त्या नितरां संसार-दुःखं लभमानानाम् अपीत्य् अर्थः ॥८४॥
श्री-नारदेनापि [भा।पु। १०.६९.१८]—
दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः । संसार-कूप-पतितोत्तरणावलम्बं ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥८५॥ इति ।
जनताया भक्त-वर्गस्यापवर्ग-रूपं ब्रह्मादिभिर् अपि हृदि चिन्त्यम् एव । संसार-कूपे पतितानाम् उत्तरणाय सुखोत्थानाय अवलम्बम् आश्रयम् । ईदृशं तवाङ्घ्रि-कमलं मया दृष्टम्, अतः कृत-कृत्यो’स्मि । तथापि भगवत्-स्मृतिर् यथा स्यात् तथानुगृहाण, येन तवाङ्घ्रिं ध्यायन्न् एव चरामि ।
यद् वा, एवम् अनन्य-गतिकत्वेन मम त्वदीयाङ्घ्रि-कमल-ध्यानं कदाचिद् एतद्-दर्शनं च भवेद् एव, किन्तु मद्-विषयिया तव स्मृतिर् मनो-वृत्तिर् यथा स्यात् तथानुगृहाण । यद् वा, दृष्टत्वाद् अन्यत्र गतो’प्य् एतद् एव चिन्तयन् चरिष्यामि । किन्त्व् अनेनानुग्रहेणालम् अधुना तथानुग्रहं कुरु, यथा अस्मृति-हेतु स्मरणाभावः स्यात् । अन्यत्र गतस्य स्तस् तत्-स्मरणेन विरह-दुःख-वृद्धेर् वरम् अस्मरणम् एवानुग्रह इत्य् अर्थः । एतच् च सदा श्री-कृष्ण-पाद-पद्मान्तिके वासम् अलभमानस्य प्रेमोद्रेक-वाक्य-गाम्भीर्यं, एवम् अपि स्मरणस्यैव परम-माहात्म्यं पर्यवस्यतीति दिक् ॥८५॥
कृष्ण-स्मरण-माहात्म्य-महाब्धिर् दुस्तरो धिया । यो यियासति तत्-पारं स हि चैतन्य-वञ्चितः ॥८६॥
धिया दुस्तरं अर्थतो वचनतश् च बुद्ध्यापि, अस्तु तावल् लिखनेन, पारं गन्तुम् अशक्यम् इत्य् अर्थः। धियेत्य् अस्याग्र एवान्वयः । तस्य पारं यो यातुम् इच्छति । स चैतन्येन वञ्चितः अचेतन इत्य् अर्थः । स्व-मते श्री-चैतन्य-देवेन मायया प्रतारितः परित्यक्तो वेत्य् अर्थः । निजाशक्ये कर्मणि प्रवृत्तेः ॥८६॥
ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसी-दलैः । गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम् ॥८७॥
पादोदकं श्री-भगवच्-चरणामृतं प्राक् आदौ पीत्वेत्य् अत्र कारणम् अग्रे लेख्यम्—
शालग्राम-शिला-तोयम् अपीत्वा यस् तु मस्तके । प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ इति ।
तुलसी-दलैः कृत्वा सह वा गृहीतेन तेन पादोदकेनैव स्व-मस्तके’भिषेकं कुर्यात् ॥८७॥
अथादौ श्री-गुरुं नत्वा श्री-कृष्णस्य पदाब्जयोः । किञ्चिद् विज्ञापयन् सर्वस्व-कृत्यान्य् अर्पयेन् नमेत् ॥८८॥
विज्ञापन-द्वारैव सर्वाणि स्वस्य कृत्याणि अर्पयन् नमेत् साष्टाङ्ग-प्रणामं कुर्यात् । अग्रे यथाविधीति लिखनात् ॥८८॥
**अथ प्रातः प्रणामः
वामन-पुराणे—**
सर्व-मङ्गल-मङ्गल्यं वरेण्यं वरदं शिवम् । नारायणं नमस्कृत्य सर्व-कर्माणि कारयेत् ॥८९॥
**अथ विज्ञापनम्
विष्णु-धर्मोत्तरे—**
यद्-उत्सवादिकं कर्म तत् त्वया प्रेरितो हरे । करिष्यामि त्वया ज्ञेयम् इति विज्ञापनं मम ॥९०॥ प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया । यद् यत् कारयसीशान तत् करोमि तवाज्ञया ॥९१॥
विज्ञापयन्न् इति लिखितं तत्-प्रकारम् एव लिखति—यद् इति । तच् च तवाज्ञेयम् इत्य् एव करिष्यामि ॥९०॥ कारयसीति करोत्य् अर्थस्य सर्व-धात्व्-अर्थेष्व् अन्तर्भावात् । बाह्याभ्यन्तर-सर्वेन्द्रिय-चेष्टितं व्याप्नोषि ॥९१॥
त्रैलोक्य-चैतन्यमयादि-देव श्री-नाथ विष्णो भवद्-आज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसार-यात्राम् अनुवर्तयिष्ये ॥९२॥
संसार-यात्रां लोक-व्यवहारम् ॥९२॥
संसार-यात्राम् अनुवर्तमानं त्वद्-आज्ञया श्री-नृहरे’न्तरात्मन् । स्पर्धातिरस्कार-कलि-प्रमाद- भयानि मा माभिभवन्तु भूमन् ॥९३॥
मा मां । भूमन् हे महत्तम ! एवं यद्-उत्सवादिकं कर्मेत्य् आदिनोक्त्वम् । यथाविधीति पद्भ्यां कराभ्यां जानुभ्याम् इत्य् आदिनाग्रे लेख्य-प्रकारेणेत्य् अर्थः । चतुः-सङ्ख्या अवरा अन्त्या येषु तान् । चतुः-सङ्ख्याया न्यूनान् न कुर्यात् । अधिकान् एव कुर्याद् इत्य् अर्थः ॥९३-९८॥
जानामि धर्मं न च मे प्रवृत्तिर् जानाम्य् अधर्मं न च मे निवृत्तिः । **त्वया हृषीकेश हृदि स्थितेन ** यथा नियुक्तो’स्मि तथा करोमि ॥९४॥
**अथ प्रणाम-वाक्यानि
महाभारते—**
नमो ब्रह्मण्य-देवाय गो-ब्राह्मण-हिताय च । जगद्-धिताय कृष्णाय गोविन्दाय नमो नमः ॥९५॥
गरुड-पुराणे— असुर-विबुध-सिद्धैर् ज्ञायते यस्य नान्तः सकल-मुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः । निखिल-हृदि निविष्टो वेत्ति यः सर्व-साक्षी तम् अजम् अमृतम् ईशं वासुदेवं नतो’स्मि ॥९६॥
विष्णु-पुराणे [वि।पु। ??]— यज्ञिभिर् यज्ञ-पुरुषो वासुदेवश् च सात्वतः । वेदान्त-वेदिभिर् विष्णुः प्रोच्यते यो नतो’स्मि तम् ॥९७॥ एवं विज्ञापयन् ध्यायन् कीर्तयंश् च यथाविधि । प्रणामानाचरेच् छक्त्या चतुः-सङ्ख्यावरान् बुधः ॥९८॥ श्री-गोपी-चन्दनेनोर्ध्व-पुण्ड्रं कृत्वा यथा-विधि । आसीत प्राङ्-मुखो भूत्वा शुद्ध-स्थाने शुभासने ॥९९॥
यथा-विधि हरि-मन्दिर-निर्माणादि-प्रकारेण, शुभे उत्तमे विहितासने, तत् तत् सर्वम् अग्रे व्यक्तं भावि ॥९९॥
तथा च नारदीय-पञ्चरात्रे—
निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः । आसने प्राङ्-मुखो भूत्वा विहिते चोपविश्य वै ॥१००॥ सम्प्रदायानुसारेण भूत-शुद्धिं विधाय च । प्राणायामांश् च विधिवत् कृष्णं ध्यायेत् यथोदितम् ॥१०१॥
निर्गत्य गृहान् निःसृत्य मूत्रोत्सर्गादिकं कृत्वेत्य् अर्थः । विधिवद् आचम्य अस्य क्रियान्वय-श्लोको’त्रानुपयुक्तत्वात् न लिखितः ॥ निज-सम्प्रदायस्यानुसारेणेति भूत-शुद्धेर् विविध-रूपत्वात् प्राणायामांश् च विधाय ॥१००-१०१॥
तथा चोक्तम्—
उपपातकेषु सर्वेषु पातकेषु महत्सु च । प्रविश्य रजनी-पादं विष्णु-ध्यानं समाचरेत् ॥१०२॥
उपपातकादिष्व् अपि निमित्तेषु । किं पुनर् विष्णु-ध्यानार्थम् ॥१०२॥
वैहायस-पञ्चरात्रे च—
तथैव रात्रि-शेषं तु कालं सूर्योदयावधि । कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन वै ॥१०३॥
रात्रेः शेषं कालं व्याप्य तस्माद् आरभ्येत्य् अर्थः ॥१०३॥
विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम् । जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः ॥१०४॥
अत एव विष्णु-स्मृतौ— रात्रेस् तु पश्चिमे यामे मुहूर्तौ ब्राह्म्य उच्यते ॥१०५॥ इति ।
आदि-शब्देन प्रणामोर्ध्व-पुण्ड्र-भूत-शुद्धि-प्राणायामादिः ॥१०५॥
पादोदपानादीनां च स विधिर् महिमाग्रतः । लेख्यो’धुना तु ध्यानस्य स सङ्क्षेपेण लिख्यते ॥१०६॥
विधिः तत्-पान-तन्-मन्त्रोच्चारणादि-प्रकारस् तत्-सहितः । स ध्यानस्य विधिर् महिमा चेत्य् अर्थः ॥१०६॥
तापनीय-श्रुतिषु [गो।ता।उ। १.९-११]—
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥१०७॥ गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् । द्वियालङ्करणोपेतं रत्न-पङ्कज-मध्यगम् ॥१०८॥ कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् । **चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥१०९॥ **
गोपैर् गोपीभिर् गोभिश् च आवीतं परिवेष्टितम् ॥१०८॥
मृत्युञ्जय-संहितानुसारोदित-सारदा-तिलके च—
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् । गोविन्दं पुण्डरीकाक्षं गोप-कन्याः सहस्रशः ॥११०॥ आत्मनो वदनाम्भोज-प्रेरिताक्षि-मधु-व्रताः । काम-बाणेन विवशाश् चिरम् आश्लेषेणोत्सुकाः ॥१११॥ मुक्ताहार-लसत्-पीनोत्तुङ्गस्तन-भरानताः । स्रस्त-धम्मिल्ल-वसना मद-स्खलित-भाषणाः ॥११२॥ दन्त-पङ्क्ति-प्रभोद्भासि-स्पन्दमानाधराञ्चिताः । विलोभयन्तीर् विविधैर् विभ्रमैर् भाव-गर्भितैः ॥११३॥
गोप-कन्या एव विशिनष्टि—आत्मन इति त्रिभिः । गोविन्दस्य वदनाम्भोजे प्रेरिता अक्षि-मधुव्रता याभिस् ताः । विलोभयन्तीर् गोविन्दम् एव ॥१११-११३॥
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं **गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥११४॥ **इति । श्री-गौतमीय-तन्त्रादौ तद्-ध्यानं प्रथितं परम् । अग्रतो’त्रापि संलेख्यं यद् इष्टं तत्र तद् भजेत् ॥११५॥
आदि-शब्देन त्रैलोक्य-सम्मोहन-तन्त्र-सनत्-कुमार-कल्पादि-तन्त्राः । तस्य गोविन्दस्य परम् च ध्यानं प्रसिद्धम् एव । अत्र ग्रन्थे’प्य् अग्रतो लेख्यं क्रम-दीपिकोक्तम् अथ प्रकट-सौरभ [ह।भ।वि। ४.१६८फुल्, क्र।दी। ३.१फुल्] इत्य् आदि । श्री-गौतमीय-तन्त्रे च पीताम्बर [ह।भ।वि। ४.२०४फुल्] इत्य् आदि । तत्र ध्याने यस्य यत् प्रियं स्यात्, तत् संसेवताम् । तत्र श्री-गौतमीय-तन्त्रे नवीन-नीरद-श्यामम् इत्य् आदिकं सुप्रसिद्धम् एव । सम्मोहन-तन्त्रे च श्री-शिवेनोक्तम्—
शृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि । तवैव पौरुषं रूपं गोपिका-वदनामृतम् ॥ सदा निषेवितं रागाद् भवद्-विरह-भीरुणा । सत्यभामादि-रूपाभिर् माया-मूर्तिभिर् अष्टभिः ॥ ध्यायेन् मदन-गोपालं सञ्ज्ञया भुवन-त्रये । ध्यानं तस्य प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ॥ सर्व-रोगोपशमनं सत्-पुत्रावाप्ति-कारकम् । सौभाग्य-दायकं नृणां स्त्रीणां चैव विशेषतः ॥ किम् अत्र बहुनोक्तेन ध्यानेनानेन भाविनि । यद् यद् इच्छति तत् सर्वं नरः प्राप्नोत्य् असंशयम् ॥ श्रीमद्-बालार्क-सङ्काशं पद्म-रागारुण-प्रभम् । बन्धूक-बन्धुर् आलोकं सन्ध्या-रागोपम-द्युतिम् ॥ मुकुटानेक-माणिक्य-प्रभा-पल्लविताम्बरम् । किरीटोपान्त-विन्यस्त-बर्हि-बर्हावतंसकम् ॥ कस्तूरी-तिलकाक्रान्त-कमनीयालक-स्थलम् । स्मर-कोदण्ड-विन्यस्त-सुसान्द्र-कुटिल-भ्रुवम् ॥ स्मेर-गण्ड-स्थलं श्रीमद् उन्नतायत-नासिकम् । करुणा-लहरी-पूर्ण-कर्णान्तायत-लोचनम् ॥ कर्णावलम्बि-सौर्वर्ण-कर्णिकारावतंसिनम् । निस्तुल-स्थूल-माणिक्य-चारु-मौक्तिक-कुण्डलम् ॥ दन्तांशु-सुसमाश्लिष्ट-कोमलाधर-पल्लवम् । असाधारण-सौभाग्य-चिबुकोद्देश-शोभितम् ॥ शशाङ्क-बिम्बाहङ्कार-श्लाघानन्द-कराननम् । अनर्घ्य-रत्न-ग्रैवेय-विलसत्-कम्बु-कन्धरम् ॥ सौरभालोलैर् आलम्बैः शुभैर् मन्दार-दामभिः । तद्-अंशु-मौक्तिकैर् हारैर् वैजयन्त्या च मालया ॥ श्रीवत्स-कौस्तुभाभ्यां च परिष्कृत-भुजान्तरम् । रत्न-कङ्कण-केयूरैर् भूषितैर् दशभिर् भुजैः । चक्रं पुष्प-शरं पद्मं शूलं शाङ्खेन्दु-कार्मुकम् । गदां पाशं च मुरलीं बिभ्राणं मोहनाकृतिम् । नम्न-नाभिं रोम-राजि-बलिमत्-पल्लवोदरम् । विशङ्कट-कटी-देशं वाचाल-मणि-मेखलम् । स्फुरत्-सौदामिनी-च्छाया-दायाद-कनकाम्बरम् ॥ मणि-मञ्जीर-किरणैः किञ्जल्कित-पदाम्बुजम् । शानोल्लीढ-मणि-श्रेणी-रम्याङ्घ्रि-नख-मण्डलम् । आपाद-कण्ठम् आमुक्त-भूषा-शत-मनोहरम् ॥ कल्प-वृक्ष-महारामे महिते रत्न-मण्डपे । चिन्तामणि-महा-पीठे मध्ये हैम-सरोरुहे ॥ कर्णिकोपरि सन्दीप्ते श्रीमच्-चक्रासने शुभे । तिष्ठन्तं देव-देवेशं त्रिभङ्गी-ललिताकृतिम् ॥ वामांस-शिखरोपान्त-व्यालोल-मणि-कुण्डलम् । उदञ्चित-भ्रुवं किञ्चित् सुशोणाधर-पल्लवम् ॥ गान-व्याजामृत-रसैर् व्यञ्जित-श्रुति-वैभवैः । तत्-तत्-स्वरानुगुण्येन वेण-रन्ध्राण्य् अनुक्रमात् ॥ आवृण्वन्तं विवृण्वन्तं मुहुर् अङ्गुलि-पल्लवैः । उपास्यमानम् आनन्दात् सदारैर् दिविषद्-गणैः ॥ कृत-दुन्दुभि-निर्घोषैर् मुक्ति-प्रसव-वृष्टिभिः । ध्यायेन् मदन-गोपालं मन्त्री शुचिर् अलङ्कृतः । सर्वान् कामान् अवाप्नोति दुर्लभान् अप्य् अयत्नतः ॥ इति ।
तत्रैवान्यत्र—
ध्यायेद् वृन्दावने सम्यक् सिद्ध-चारण-वेष्टिते । गो-गोप-गोपिकाक्रान्ते कल्प-पादप-शोभिते ॥ तन्-मध्ये द्विभुजं ध्यायेत् पञ्चवर्षम् अथाच्युतम् । स्निग्धेन्द्र-नील-रुचिरं पूर्ण-चन्द्र-निभाननम् ॥ प्रसन्न-वदनं शान्तं स्निग्ध-लीलालकावृतम् । काक-पक्षाधरं मन्त्री दाम-भूषित-मूर्धजम् ॥ किङ्किणी-जाल-सद्-रत्न-कटि-सूत्र-विभूषितम् । मुक्ता-दाम-लसद्-गात्रं हरि-चन्दन-चर्चितम् ॥ केयूर-कटका-नद्धं रत्नोल्लासित-कुण्डलम् । दधानं दक्षिणे पाणौ नवनीतं सुशोभनम् ॥ वामे हाटक-सन्नद्धां यष्टिम् इष्टां सुशोभनाम् । हेम-पद्मोपरि स्वैरं नृत्यन्तं वन-मालिनम् ॥ इति ।
अस्मिंश् च ध्याने पञ्चवर्षत्वादिना पूर्वस्मिंश् चारुण-कान्ति-दश-भुजत्वादिना लिखितं सनत्-कुमार-कल्पे च—
कह्लार-कुसुम-श्यामम् अभोरुह-निभेक्षणम् । वेणनुआदरतं देवं बर्हि-बर्हावतंसकम् ॥ दिव्य-पीताम्बर-धरं पूर्ण-चन्द्र-निभाननम् । वन्यैस् तमाल-कुसुमैः शोभितं वन-मालया ॥ नेत्रोत्पलैश् च गोपीनां अर्चितं सुन्दराकृतिम् । हार-केयूर-मुकुट-कुण्डलोदर-बन्धनैः ॥ विराजमानं श्रीवत्स-कौस्तुबोद्भासितोरसम् । गोपी-जनैः परिवृतं मूले कल्प-तरोः स्थितम् ॥ गोपालैर् गोप-निवहैः शुद्ध-सत्त्वैर् अमत्सरैः । आवृतं देवता-वृन्दैः पुष्पाञ्जलि-करैर् दिवि ॥ वेणु-नाद-समाविष्ट-चित्त-वृत्तिभिर् अन्वितम् । दिव्येन वेणु-नादेन नयन्तं स्व-वशं जगत् ॥ इति ।
एतच् च पूर्वाचार्यैर् लिखितत्वाद् अत्र न लिखितम् इति दिक् ॥११५॥
बृहत्-शाताताप-स्मृतौ—
पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति । प्राणायाम-शतेनैव यत् पापं नश्यते नॄणाम् ॥११६॥ प्राणायाम-सहस्रेण यत् पापं नश्यते नॄणाम् । क्षण-मात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति ॥११७॥
विष्णु-धर्मे— सर्व-पाप-प्रसक्तो’पि ध्यायन् निमिषम् अच्युतम् । भूतस् तपस्वी भवति पङ्क्ति-पावन-पावनः ॥११८॥
भूयो’धिकं यथा स्यात् तथा, पङ्क्तेः पावनाद् अपि पावनः परम-पावन इत्य् अर्थः ॥११८॥
विष्णु-पुराणे (?) च—
ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु । प्रायश्चित्तं हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥११९॥
**कलि-दोष-हरत्वम्
बृहन्-नारदीये कलि-प्रसङ्गे [ना।पु। १.४१.९७]—**
समस्त-जगद्-आधारं परमार्थ-स्वरूपिणम् । घोरे कलि-युगे प्राप्ते विष्णुं ध्यायन् न सीदति ॥१२०॥
**सर्व-धर्माधिकारित्वम्
स्कान्दे कार्त्तिक-माहात्म्ये अगस्त्योक्तौ—**
किन्त्व् अस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः । यो नित्यं ध्यायते देवं नारायणम् अनन्य-धीः ॥१२१॥
**मोक्ष-प्रदत्वम्
बृहन्-नारदीये कलि-प्रसङ्गे [ना।पु। १.४०.५२]—**
**ये मानवा विगत-राग-परावर-ज्ञा ** नारायणं सुर-गुरुं सततं स्मरन्ति । **ध्यानेन तेन हत किल्बिष-चेतनास् ते ** मातुः पयोधर-रसं न पुनः पिबन्ति ॥१२२॥
विगत-रागाश् च ते परापरज्ञाश् च कारण-कार्याभिज्ञाः पूर्वत एवZअ-जीव-तत्त्वज्ञा वा ध्यान-रूपेण तेन स्मरणेन सतत-स्मरणात् । अत्र च वामन-पुराणे—
ते धौत-पाण्डुर-पटा इव राजहंसाः । संसार-सागर-जलस्य तरन्ति पारम् ॥ इति परार्धम् ॥१२२॥
**श्री-वैकुण्ठ-प्रापकत्वम्
स्कान्दे श्री-ब्रह्मोक्तौ—**
मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः । सो’पि सद्-गतिम् आप्नोति किं पुनस् तत्-परायणः ॥१२३॥
अतन्द्रितः अनलसः सन्, सतीम् उत्तमां, सतां वा भक्तानां गतिं गम्यं प्राप्यं श्री-वैकुण्ठ-लोकम् ॥१२३॥
पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [प।पु। १.९६.७८] —
ध्यायन्ति पुरुषं दिव्यम् अच्युतं ये स्मरन्ति च । लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा पुरातनी ॥१२४॥
+++बेतस्यएएन् वेर्से ५० अन्द् हेरे नेएद्स् तो बे दोउब्लेछेच्केद्। थे रेस्त् हस् बेएन् दोने।
**सारूप्य-प्रापणम्
एकादश-स्कन्धे [भा।पु। ११.५.४८]—**
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- शाल्वादयो गति-विलास-विलोकनाद्यैः । ध्यायन्त आकृत-धियः शयनासनादौ तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥१२५॥
शयनादौ वैरेणापि यं भगवन्तं ध्यायन्तो गत्य्-आदिभिः आकृत-धियस् तत्-तद्-आकारा धीर् येषां तथा-भूताः सन्तस् तत्-साम्यं सारूप्यं प्रापुः । ततोऽनुरक्त-धियां तत्-साम्य-प्राप्तिर् भवतीति किं वाच्यम् ॥१२५॥
**स्वतः परम-फलत्वम्
चतुर्थ-स्कन्धे [भा।पु। ४.२०.२९] श्री-पृथूक्तौ—**
भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥१२६॥
स्कन्द-पुराणे ब्रह्मोक्तौ च— आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः । इदमे एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥१२७॥
अत एवोक्तं हायशीर्ष-पञ्चरात्रे नारायण-व्यूह-स्तवे— ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः । ध्यायन्ति परमात्मानं तेभ्यो’पीह नमो नमः ॥१२८॥ इति । स्मरणे यत् तन्-माहात्म्यं तद् ध्याने’प्य् अखिलं विदुः । भेदः कल्प्येत सामान्य-विशेषाभ्यां तयोः कियान् ॥१२९॥
सामान्यम् । भगवति मनः-संयोजन-मात्रं । विशेषः—श्री-मूर्त्य्-अङ्ग-लावण्यादि-भावना, ताभ्यां तयोः स्मरण-ध्यानयोः कियान् अल्प एव भेदः कल्प्यते, एतच् च विवेच्य लिखितम् एव ॥१२९॥
अथ श्री-भगवत्-प्रबोधनम्
ततो देवालये गत्वा घण्टाद्य्-उद्घोष-पूर्वकम् । प्रबोध्य स्तुतिभिः कृष्णं नीराज्यं प्रार्थयेद् इदम् ॥१३०॥
स्तुतिभिः श्रुति-स्तुत्या अन्याभिश् च प्रबोधनोपयुक्ताभिः नीराज्य प्रथमं दीप-मात्रेण नीराजनं कृत्वा ॥१३०॥
तृतीय-स्कन्धे [भा।पु। ३.९.२५]—
सो’साव् अदभ्र-करुणो भगवान् विवृद्ध- प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्व-विजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥१३१॥
विजृम्भन् विजृमभयन् प्रकाशयन् ॥१३१॥
देव-प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकन-दानेन भूयो मां पारयाच्युत ॥१३२॥ इति । देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् । कृष्णस्य तुलसी-वर्जं निर्माल्यम् अपसारयेत् ॥१३३॥
इष्टानि स्वस्य कृष्णस्य वा प्रियाणि सहस्र-नामादीनि । देवस्य माल्यं निर्माल्यं, तस्य अपनयनम् उत्तारणम् । समूहनं मार्जन्या तृणाद्य्-अपसारणम् ॥१३३॥
**अथ निर्माल्योत्तारणम्
अत्रि-स्मृतौ—**
प्रातः-काले सदा कुर्यान् निर्माल्योत्तारणं बुधः । तृषिताः पशवो बद्धाः कन्यका च रजस्वला । देवता च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥१३४॥
नारसिंहे श्री-यमोक्तौ— देव-माल्यापनयनं देवागारे समूहनम् । स्नापनं सर्व-देवानां गो-प्रदान-समं स्मृतम् ॥१३५॥
नारद-पञ्चरात्रे— यः प्रातर् उत्थाय विधाय नित्यं निर्माल्यम् ईशस्य निराकरोति । न तस्य दुःखं न दरिद्रता च नाकाल-मृत्युर् न च रोग-मात्रम् ॥१३६॥ अरुणोदय-वेलायां निर्माल्यं शल्यतां व्रजेत् । प्रातस् तु स्यान् महाशल्यं घटिका-मात्र-योगतः ॥१३७॥ अतिशल्यं विजानीयात् ततो वज्र-प्रहारवत् । अरुणोदय-वेलायां शल्यं तत् क्षमते हरिः ॥१३८॥ घटिकायाम् अतिक्रान्तौ क्षुद्रं पातकम् आवहेत् । मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते ॥१३९॥ अतिपातकम् एव् स्यात् घटिकानां चतुष्टये । मुहूर्त-त्रितये पूर्णे महा-पातकम् उच्यते ॥१४०॥ ततः परं ब्रह्म-वधो महा-पातक-पञ्चकम् । प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥१४१॥ निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते । अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत् ॥१४२॥ पूर्णे मुहूर्ते सञ्जाते सहस्रं सार्धम् उच्यते । सहस्र-द्वितीयं कुर्यात् घटिकानां चतुष्टये ॥१४३॥ मुहूर्त-त्रितये’तीते अयुतं जपम् आचरेत् । प्रहरे पूर्णतां याते पुरश्चरणम् उच्यते । प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥१४४॥
अथ श्री-मुख-प्रक्षालनम्
श्री-हस्ताङ्घ्रि-मुखाम्भोज-क्षालनाय च तद्-गृहे । गण्डूषाणि जलैर् दत्त्वा दन्त-काष्ठं समर्पयेत् ॥१४५॥ जिह्वोल्लेखनिकां दत्त्वा पादुके शुद्ध-मृत्तिकाम् । सलिलं च पुनर् दद्याद् वासो’पि मुख-मार्जनम् ॥१४६॥ ततः श्री-तुलसीं पुण्याम् अर्पयेत् भगवत्-प्रियाम् । तन्-माहात्म्यं च तन्-मुख्य-प्रसङ्गे लेख्यम् अग्रतः ॥१४७॥
भगवत्-प्रियाम् इति मुख-प्रक्षालनावसरे’प्य् अस्मिन् तत्-समर्पणे तथा तुलसी-व्यतिरिक्त-निर्माल्योत्तारणे च कारणं ज्ञेयम् ॥१४७॥
**अथ दन्त-काष्ठार्पण-माहात्म्यम्
विष्णु-धर्मोत्तरे—**
दन्त-काष्ठ-प्रदानेन दन्त-सौभाग्यम् ऋच्छति । जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते ॥१४८॥ पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् । मृद्-भाग-दानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम् ॥१४९॥
अथ मङ्गल-नीराजनम्
पठित्वाथ प्रियान् श्लोकान् महा-वादित्र-निस्वनैः । प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्-धितम् ॥१५०॥
श्लोकान्—बर्हापीडं क्वचित् इति, विनाशाय इत्य् आदीन् । मङ्गलम् इत्य् आख्या यस्य तत् ॥१५०॥
नीराजनं त्व् इदं सर्वैः कर्तव्यं शुचि-विग्रहैः । परम-श्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥१५१॥
स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्ट-पूरकम् । समस्त-दैन्य-दारिद्र्य-दुरिताद्य्-उपशान्ति-कृत् ॥१५२॥
**अथ प्रातः-स्नानार्थोद्यमः **
ततो’रुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः । कीर्तयन् कृष्ण-नामानि तीर्थं गच्छेद् अनन्तरम् ॥१५३॥
तथा च शुक्र-स्मृतौ— ब्राह्मे मुहूर्ते चोत्थाय शुचिर् भूत्वा समाहितः । स्वस्तिकाद्य्-आसनं बद्ध्वा ध्यात्वा कृष्ण-पादाम्बुजम् ॥१५४॥ ततो निर्गत्य निलयान्नामानीमानि कीर्तयेत् । श्री-वासुदेवानिरुद्ध-प्रद्युम्नाधोक्षजाच्युत । श्री-कृष्णानन्त गोविन्द सङ्कर्षण नमो’स्तु ते ॥१५५॥ गत्वा तीर्थादिकं तत्र निक्षिप्य स्नान-साधनम् । विधिनाचर्य मैत्र्य्-आदि-कृत्यं शौचं विधाय च । आचम्य खानि सम्मार्ज्य स्नानं कुर्यात् यथोचितम् ॥१५६॥
विधिनेति सर्वत्रान्वेति । मैत्रं पुरीषोत्सर्गस् तद्-आदिकं । खानि इन्द्रिय-च्छिद्राणि । यथोचितं वर्णाश्रमाद्य्-अनुरूपम् । अत्र च प्रायो गृहस्थस्यैव लेख-श्री-भगवत्-पूजा-विधि-योग्यत्वात् तस्यैवायम् आचारो ज्ञेयः । अत एव श्री-विष्णु-पुराणाद्य्-उक्तानि प्रायो गृहि-धर्म-वचनान्य् एव लिखितानीति दिक् ॥१५६॥
**अथ मैत्रादि-कृत्य-विधिः
श्री-विष्णु-पुराणे [वि।पु। ३.११.८-१५] और्व-सगर-संवादे गृहि-धर्म-कथने—**
ततः कल्ये समुत्थाय कुर्यान् मैत्रं नरेश्वर । नैरृत्याम् इषु-विक्षेपम् अतीत्याधिकं गृहात् ॥१५७॥
कल्ये ऊषसि । ग्रामस्य नैरृत्यां दिशि ॥१५७॥
दूराद् आवसथान् मूत्रं पुरीषं च समुत्सृजेत् । पादाव् असेचनोच्छिष्टे प्रक्षिपेन् न गृहाङ्गणे ॥१५८॥
तद्-असम्भवे स्व-गृहाद् दूरे मूत्राद्य्-उत्सर्गं कुर्यात् ॥१५८॥
आत्म-च्छायां तरोश् छायां गो-सूर्याग्न्य्-अनिलांस् तथा । गुरुं द्विजादींश् च बुधो न मेहेत कदाचन ॥१५९॥
गवादीन् गुरुं द्विजादींश् च प्रति तद्-अभिमुखो न मेहेद् इत्य् अर्थः ॥१५९॥
न कृष्टे शस्य-मध्ये वा गो-व्रजे जन-संसदि । न वर्त्मनि न नद्य्-आदि-तीर्थेषु पुरुषर्षभ ॥१६०॥ नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् । उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥१६१॥ उदङ्मुखो दिवोत्सर्गं विपरीत-मुखो निशि । कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥१६२॥ तृणैर् आच्छाद्य वसुधां वस्त्र-प्रावृत-मस्तकः । तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥१६३॥
तथा कौर्मे व्यास-गीतायाम्— निधाय दक्षिणे कर्णे ब्रह्म-सूत्रम् उदङ्मुखः । अन्तर्धाप्य महीं काष्ठैः पत्रैर् लोष्ट्रैस् तृणेन वा ॥१६४॥
तथेति । गृहि-धर्म-कथन एवेत्य् अर्थः । श्री-विष्णु-पूर्वत्वतः किञ्चिद् विशेषम् अपेक्ष्य श्री-कूर्म-पूर्वत्व-काशी-खण्ड-वचनानि लिखति—निधायेत्य् आदि । एवम् अग्रे’पि सर्वम् ऊह्यम् ॥१६४॥
प्रावृत्य तु शिरः कुर्याद् विन्-मूत्रस्य विसर्जनम् । न चैवाभिमुखः स्त्रीणां गुरु-ब्राह्मणयोर् गवाम् । न देव-देवालयोर् नापाम् अपि कदाचन ॥१६५॥ नदीं ज्योतींषि वीक्षित्वा न वाय्व्-अग्नि-मुखो’पि वा । प्रयादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥१६६॥
वीक्षित्वेत्य् आर्षं पश्यन्न् इत्य् अर्थः । प्रत्यादित्यम् इति तत्-तद्-अभिमुखः सन् न कुर्याद् इति पूर्ववद् अर्थः ॥१६६॥
काशी-काण्डे श्री-स्कन्दागस्त्य-संवादे—
ततश् चावश्यकं कर्तुं नैरृतीं दिशम् आश्रयेत् । ग्रामाद् धनुः-शतं गच्छेन् नगराच् च चतुर्गुणम् ॥१६७॥ कर्णोपवीत्य्-उदग्-वक्त्रो दिवसे सन्ध्ययोर् अपि । विन्-मूत्रे विसृजेन् मौनी निशायां दक्षिणा-मुखः ॥१६८॥ नालोकयेद् दिशो भागान् ज्योतिश् चक्रं नभो’मलम् । वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत् प्रयत्नवान् ॥१६९॥
तत्रैवाग्रे— न मूत्रं गो-व्रजे कुर्यान् न वल्मीके न भस्मनि । न गर्तेषु स-सत्त्वेषु न तिष्ठन् न व्रजन्न् अपि ॥१७०॥ यथा-सुख-मुखो रात्रौ दिवा छायान्धकारयोः । भीतिषु प्राण-बाधायां कुर्यान् मल-विसर्जनम् ॥१७१॥
विष्णु-पुराणे [वि।पु। ३.११.१६-१८] तत्रैव— वल्मीक-मूषिकोत्खातां मृदं नान्तर्-जलात् तथा । शौचावशिष्टां गेहाच् च न दद्याल् लेप-सम्भवाम् ॥१७२॥
लेप-सम्भवां भित्ति-गताम् ॥१७२॥
अन्तःप्राण्यवपन्नां च हलोत्खातां च पार्थिव । परित्यजेन् मृदश् चैताः सकलाः शौच-साधने ॥१७३॥
अन्तर् मध्ये प्राणिभिः कीटैः अवपन्नाम् उपहताम् । पाठान्तरे—अणुभिः सूक्ष्मैः प्राणिभिर् अवपन्नाम् ॥१७३॥
एका लिङ्गे गुदे तिस्रस् दश वाम-करे नृप । हस्त-द्वये सप्तान्या मृदः शौचोपपादिकाः ॥१७४॥
यम-स्मृतौ— तिस्रस् तु पादयोर् देयाः शुद्धि-कामेन नित्यशः ॥१७५॥
किं च— तिस्रस् तु मृत्तिका देयाः कृत्वा तु नख-शोधनम् ॥१७६॥
एवं मत-भेदः स-पादुक-निष्पादुकादि-भेदेन कल्प्यः । पादयोर् इति प्रत्येकं तिस्र इति ज्ञेयम् । देया हस्तयोर् इति शेषः ॥१७५-१७६॥
काशी-खण्डे च तत्रैव—
गुह्ये दद्यान् मृदं चैकां पायौ पञ्चाम्बु-सान्तराः । दश वाम-करे चापि सप्त पाणि-द्वये मृदः ॥१७७॥
अम्बुसान्तराः–मध्ये मध्ये जल-सहिताः ॥१७७॥
एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः स्मृताः । इत्थं शौचं गृही कुर्याद् गन्ध-लेप-क्षयावधि ॥१७८॥ क्रमाद् द्विगुणम् एतत् तु ब्रह्मचर्यादिषु त्रिषु । दिवा विहित-शौचाच् च रात्राव् अर्धं समाचरेत् ॥१७९॥ रुजार्धं च तद्-अर्धं च पथि चौरादि-पीडिते । तद्-अर्ध-योषितां चापि स्वास्थ्ये न्यूनं न कारयेत् । आर्द्र-धात्री-फलोन्माना मृदः शौचे प्रकीर्तिताः ॥१८०॥
शङ्ख-स्मृतौ— मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते यया ॥१८१॥
त्रिपर्वी मध्यवर्त्य्-अङ्गुलि-त्रयस्यादि-पर्व-त्रयम् । एषा च गुअ-व्यतिरिक्ते ज्ञेया ॥१८१॥
दक्ष-स्मृतौ—
अर्ध-प्रसृति-मात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तद्-अर्धं परिकीर्तिता ॥१८२॥
अत एव लिखति—अर्धेति । प्रथमा गुदे देयानां आद्या ॥१८२॥
**अथ केवल-मूत्रोत्सर्गे
दक्षः—**
एका लिङ्गे तु सव्ये त्रिर् उभयोर् मृद्-द्वयं स्मृतम् ॥१८३॥
सव्ये हस्ते । उभयोर् हस्तयोः ॥१८३॥
ब्राह्मे—
पादयोर् द्वे गृहीत्वा च सुप्रक्षालित-पाणिना । आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥१८४॥
**आचमन-विधिः
विष्णु-पुराणे [वि।पु_। _३.११.१९-२१] तत्रैव—**
अच्छेनागन्ध-फेनेन जलेनाबुद्बुदेन च । आचामेत मृदं भूयस् तथा दद्यात् समाहितः ॥१८५॥
आचामेत्य् आचमनं प्रस्तुत्य तस्य पूर्वाङ्गम् आह—मृदम् इति । अन्यां मृदम् आदद्यात् ॥१८५॥
निष्पादिताङ्घ्रि-शौचस् तु पादाव् अभ्युक्ष्य वै पुनः । त्रिः पिबेत् सलिलं तेन तथा द्विः परिमार्जयेत् ॥१८६॥
तथा च निष्पादितम् अङ्घ्रि-शौचं येन सः । यद् वा, भूयो’न्यां मृदं दद्यात् पादयोर् इति शेषः । ततश् चाचामेद् इत्य् अर्थः । तेन पादाभ्युक्षण-त्रिः-पान-शेष-सलिलेन द्विः परिमार्जयेन् मुखम् इति शेषः ॥१८६॥
शीर्षण्यानि ततः खानि मूर्धानं च मृदा लभेत् । बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥१८७॥
आलभेत् स्पृशेत् । असञ्जपन्न् इति पाठे मौनी भूत्वेत्य् अर्थः ॥१८७॥
अत्र च विशेषो दक्षेणोक्तः—
प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेद् अम्बु वीक्षितम् । संवृत्ताङ्गुष्ठ-मूलेन द्विः प्रमृज्यात् ततो मुखम् ॥१८८॥ संहत्य तिसृभिः पूर्वम् आस्यम् एवम् उपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥१८९॥ अङ्गुष्ठानामिकाभ्यां तु चक्षुः-श्रोत्रे पुनः पुनः । कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै । सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥१९०॥
तथा काशी-खण्डे तत्रैव— प्राग् आस्य उदगास्यो वा सूपविष्टः शुचौ भुवि । उपस्पृशेद् विहीनायां तुषाङ्गारास्थि-भस्मभिः ॥१९१॥ अनुष्णाभिर् अफेनाभिर् अद्भिर् हृद्गाभिर् अत्वरः । ब्राह्मणो ब्रह्म-तीर्थेन दृष्टि-पूतनाभिर् आचमेत् ॥१९२॥ कण्ठ-गाभिर् नृपः शुध्येत् तालुगाभिस् तथोरुजः । स्त्री-शूद्रावास्यसंस्पर्श-मात्रेणापि विसुध्यतः ॥१९३॥
याज्ञवल्क्य-स्मृतौ— **पाद-क्षालन-शेषेण नाचामेत् वारिणा द्विजः । ** यद्य् आचमेत् स्रावयित्वा भूमौ बौधायनो’ब्रवीत् ॥१९४॥
भूमौ स्रावयित्वा किञ्चिद् वारि प्रक्षिप्य ॥१९४॥
भरद्वाज-स्मृतौ—
पाणिना दक्षिणेनैव संहताङ्गुलिनाचमेत् । मुक्ताङ्गुष्ठक-निष्ठेन नक-स्पृष्टा अपस् त्यजेत् ॥१९५॥
कौर्मे च व्यास-गीतायाम्— भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । औष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥१९६॥ रेतो-मूत्र-पुरीषाणाम् उत्सर्गे’नृत-भाषणे । ष्थीवित्वाध्ययनारम्भे काश-श्वासागमे तथा ॥१९७॥ चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः । सन्ध्योर् उभयोस् तद्वद् आचान्तो’प्य् आचमेत् पुनः ॥१९८॥
समभ्यस्य परिभ्रमणेन सम्यक् स्पृष्ट्वा इत्य् अर्थः ॥१९८॥
किं च—
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छ-शिखो’पि वा । अकृत्वा पादयोः शौचम् आचान्तो’प्य् अशुचिर् भवेत् ॥१९९॥
पादयोः शौचम् अकृत्वेति भोजन-पान-शयनादौ पादयोर् अशुद्ध्याभावे’प्य् आचमन-साङ्गतार्थं शौचम् उक्तम् ॥१९९॥
सोपानत्कौ जलस्थो वा नोष्णीषी चाचमेद् बुधः । न चैव वर्ष-धाराभिर् हस्तोच्छिष्टे तथा बुधः ॥२००॥
हस्ते उच्छिष्टे सति सन्धिर् आर्षः ॥२००॥
नैक-हस्तार्पिउत्त-जलैर् विना सूत्रेण वा पुनः । न पादुकासन-स्थो वा बहिर् जानुर् अथापि वा ॥२०१॥
**अथ वैष्णवाचमनम् **
त्रिः-पाने केशवं नारायणं माधवम् अप्य् अथ । प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ ॥२०२॥
तत्र लिखिताचमन-विधौ श्री-भगवन्-नाम-जपेन कञ्चिद् विशेषं तान्त्रिक-सम्मतं लिखति—त्रिः-पाण इत्य् आदि षड्भिः । त्रिः-पानादौ केशवादिकं कृष्णान्तं चतुर्विंशति-सङ्ख्यकं श्री-भगवन्-नाम नमो’न्तं चतुर्थ्य्-अन्तं च केशवाय नम इत्य् आदि-प्रयोगेन क्रमाज् जपन् यथा-विधि आचमनं कुर्याद् इति सर्वैर् अन्वयः । त्रिः-पाने वार-त्रय-जलाचमने केशवादि-त्रयम् ॥२०२॥
मधुसूदनम् एकं च मार्जने’न्यं त्रिविक्रमम् ॥२०३॥
मधुसूदनम् एकम् अन्यं च त्रिविक्रमम् इत्य् उभाव् इत्य् अर्थः ॥२०३॥
उन्मार्जने’प्य् अधरयोर् वामन-श्रीधराव् उभौ ॥२०४॥
अपि-शब्दाद् अधर्योर् मार्जन इति ज्ञेयम् । उभाव् इति पुंस्तं सञ्ज्ञिनोर् अभेद-विवक्षया ॥२०४॥
प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः । पद्मनाभं प्रोक्षणे तु मूर्ध्नो दामोदरं ततः ॥२०५॥
पाण्योर् द्वयोः प्रक्षालने, हृषीकेशम् एकम् एव । पादयोश् च प्रक्षालने पद्मनाभम् एकम्, अतस् अद्-अनन्तरं मूर्ध्नः प्रोक्षणे दामोदरम् एकम् ॥२०५॥
वासुदेवं मुखे सङ्कर्षणं प्रद्युम्नम् इत्य् उभौ । नासयोर् नेत्र-युगले’निरुद्धं पुरुषोत्तमम् । अधोक्षजं नृसिंहं च कर्णयोर् नाभितो’च्युतम् ॥२०६॥
नासयोस् तु द्वयोः सङ्कर्षणं प्रद्युम्नं चेति द्वौ । नाभितः नाभौ ॥२०६॥
जनार्दनं च हृदये उपेन्द्रं मस्तके ततः । दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि । नमो’नन्तं च चतुर्थ्य्-अन्तम् आचामेत् क्रमतो जपन् ॥२०७॥
यथा-विधीति । पूर्व-लिखिताचमन-विध्य्-अनुसारेण, त्रिः-पान-प्रकारः मार्जनादाव् अङ्गुलि-नियमश् च, तथा ओष्ठ-मार्जनम् ऊर्ध्वोष्ठ-क्रमेण नासादि-स्पर्शश् च, दक्षिण-क्रमेणेत्य् आदि-प्रकारश् च सदाचारतो ज्ञेय इत्य् अर्थः । तथा चागमतः श्री-रामार्चन-चन्द्रिकायां—
केशवाद्यैस् त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ । द्वाभ्यां ओष्ठौ च सम्मार्ज्य द्वाभ्यां उन्मार्जनं तथा ॥ एकेन हस्तौ प्रक्षाल्य पादाव् अपि तथैकतः । सम्प्रोक्ष्यैकेन मूर्धानं ततः सङ्कर्षणादिभिः ॥ आस्य-नासाक्षि-कर्णांश् च नाभ्य्-उरः-स्कन्धकान् स्पृशेत् । एवम् आचमनं कृत्वा साक्षान् नारायणो भवेत् ॥ केशव-नारायण-माधव-गोविन्द-विष्णु-मधुसूदन-त्रिविक्रम-वामन-श्रीधर-हृषीकेश-पद्मनाभ-दामोदर-वासुदेव-सङ्कर्षण-प्रद्युम्न-अनिरुद्ध-पुरुषोत्तम-अधोक्षज-नृसिंहाच्युत-जनार्दनोपेन्द्र-हरि-कृष्ण-भगवन्-नामभिर् एभिश् चतुर्थ्य्-अन्तैर् नमो’नकैर् इत्य् आदि ॥२०७॥ अशक्तः केवलम् दक्षं स्पृशेत् कर्णं तथा च वाक् । कुर्वीतालभनं वापि दक्षिण-श्रवणस्य वै ॥२०८॥
इन्द्रिय-च्छिद्रादि-मार्जने च अशक्त्य्-आद्य्-अपेक्षया स्मृत्य्-उक्तं पक्षान्तरं लिखति—अशक्त इति । रोगादिना असमर्थश् चेत् तर्हि केवलं दक्षं निज-दक्षिणं कर्णं स्पृशेत् । ननु तत्र किं प्रमाणम् ? तत्र लिखति—तथा च वाग् इति । यतस् तथैव वचनम् अस्तीत्य् अर्थः । ताम् एव मार्कण्डेय-पुराणे श्रीमद्-आलसोक्तां लिखति—कुर्वीतेति । आलभनं स्पर्शनम् । वै प्रसिद्धौ । तच् च स्मृति-पुराणादिवत् सुप्रसिद्धम् एवेत्य् अर्थः । केचिच् च त्रिर् जलाचमनाशक्ताव् अपि पक्षम् एतं मन्यन्ते । तत्र च जलाद्य्-असम्भवे’पि, एतच् च केवलम् इत्य् अनेनापि सूचितम् । तच् च तत्रैवोक्तम्—यथा विभवतो ह्य् एतत् पूर्वाभावे ततः परम् इति । अस्यार्थः—विभवः सामर्थ्यादिः । पूर्वोक्त-त्रिर्-आचमनासम्भवे ततो’नन्तरम् उक्तं दक्षिण-कर्णालभनादिकं कार्यं, नान्यद् इत्य् अर्थः ॥२०८॥
**अथ दन्त-धावन-विधिः
तत्र कात्यायनः—**
उत्थाय नेत्रं प्रक्षाल्य शुचिर् भूत्वा समाहितः । परिजप्य च मन्त्रेण भक्षयेद् दन्त-धावनम् ॥२०९॥
श्री-भगवत्-पूजा-निरताः शयनाद् उत्थायैव दन्त-धावनमाचरेयुर् इति पूर्वं लिखितम् । अधुना शौच-वर्ग-विधि-प्रसङ्गे तद्-विधिर् लिख्यते । उत्थायेत्य् आदिना प्रक्षाल्य मार्जनादिना नेत्रे उन्मील्य । एवं च प्रातः-कृत्यम् एवेदं व्यक्तम् । तथा च व्यासः—शुद्ध्य्-अर्थं प्रातर् उत्थाय भक्षयेद् दन्त-धावनम् इति । अशक्तौ च स्नान-काले’पि दन्द-धावनं न दोषावहम् । विरक्तानां सतां केषाञ्चित् तादृशाचार-दर्शनात् । अत एव कौर्मे श्री-व्यास-गीतायां—
प्रक्षाल्य दन्त-काष्ठं वै भक्षयित्वा विधानतः । आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ॥ इति ।
प्रातः-स्नान-काल एवोक्तम् । मार्कण्डेय-पुराणे च—
केश-प्रसाधनादर्श-दर्शनं दन्द-धावनम् । पूर्वाह्न एव कार्याणि इति पूर्वाह्न-मात्र-कृत्यम् इत्य् उक्तम् ।
यच् चोक्तम्—
यो मोहात् स्नान-वेलायां भक्षयेद् दन्त-धावनम् । निराशास् तस्य गच्छन्ति देवताः पितरस् तथा ॥ इति ।
तच् च मध्याह्न-स्नान-विषयं ज्ञेयम् ॥२०९॥
मन्त्रश् चायम्—
आयुर् बलं यशो वर्चः प्रजा पशु-वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥२१०॥
**तस्य नित्यता
काशी-खण्डे—**
अथो मुख-विशुद्ध्य्-अर्थं गृह्णीयाद् दन्त-धावनम् । आचान्तो’प्य् अशुचिर् यस्माद् अकृत्वा दन्त-धावनम् ॥२११॥
वाराहे च— दन्त-काष्ठम् अखादित्वा यस् तु माम् उपसर्पति । सर्व-काल-कृतं कर्म तेन चैकेन नश्यति ॥२१२॥
**अथ दन्त-काष्ठ-निषिद्ध-दिनानि
मनुः—**
चतुर्दश्य्-अष्टमी-दर्श-पौर्णमास्य्-अर्क-सङ्क्रमः । एषु स्त्री-तैल-मांसानि दन्त-काष्ठानि वर्जयेत् ॥२१३॥
संवर्तकः— आद्ये तिथौ नवम्यां च क्षये चन्द्रमसस् तथा । आदित्य्-वारे शौरे च वर्जयेद् दन्त-धावनम् ॥२१४॥
कात्यायनः— प्रतिपद्-दर्श-षष्ठीषु नवम्यां च विशेषतः । दन्तानां काष्ठ-संयोगो दहत्य् आसप्तमं कुलम् ॥२१५॥
विशेषतः इत्य् अनेन क्वचित् चतुर्दश्य्-आदौ । क्वचिच् च व्यतीपात-जन्म-दिनादौ कृत-दन्त-काष्ठ-निषेधापेक्षया प्रतिपदादिषु तन्-निषेधाधिक्यं बोध्यते । अत एव दहतीत्य् आदिना तत्र दोषो’पि महान् दर्शित इति दिक् ॥२१५॥
वृद्ध-वशिष्ठः—
उपवासे तथा श्राद्धेन खादेद् दन्त-धावनम् ।
दन्तानां काष्ठ-संयोगो हन्ति सप्त-कुलानि वै ॥२१६॥
अन्यत्र च— प्रतिपद्-दर-षष्ठीषु नवम्य्-एकादशी-रवौ । दन्तानां काष्ठ-संयोगो हन्ति पुण्यं पुरा-कृतम् ॥२१७॥
नवम्याम् एकादश्यां रविवारे चेत्य् अर्थः ॥२१७॥
**अथ तत्र प्रतिनिधिः **
दिनेष्व् एतेषु काष्ठैर् हि दन्तानां धावनस्य तु । निषिद्धत्वात् तृणैः कुर्यात् तथा काष्ठेतरैश् च तत् ॥२१८॥
एतेषु प्रतिपदादिषु निषिद्ध-दिनेषु काष्ठैः कृत्वा दन्तानां धावनस्य निषिद्धत्वात् निषेधनात् तत्-तद्-दन्त-धावनं तृणैः पर्णैः काष्ठाद् इतरैर् अन्यश् च त्वग्-आदिभिः कुर्यात् । यद् वा, काष्ठेतरैर् इति हेतौ विशेषणम् । ततश् च काष्ठैर् एव निषेधनात् तृणादीनां च काष्थेतरत्वात् तैर् दन्त-धावनम् अदुष्तम् इत्य् अर्थः ॥२१८॥
तथा च व्यासः—
प्रतिपद्-दर्श-षष्ठीषु नवम्यां दन्त-धावनम् । पर्णैर् अन्यत्र काष्ठैश् च जीवोल्लेख्हः सदैव हि ॥२१९॥
अन्यत्र प्रतिपदादि-व्यतिरिक्त-दिनेषु, अत्र च रविवारादाव् अपि पर्णैर् एव तथा तृणैश् चापीति पूर्वापर-वचनानुसारेण बोद्धव्यम् ॥२१९॥
पैठीनसिः—
अलाभे च निषेधे वा काष्ठानां दन्त-धावनम् । पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥२२०॥
अथ तत्रैवापवादः
काष्ठैः प्रतिपद्-आदौ यन् निषिद्धं दन्त-धावनम् । तृण-पर्णैस् तु तत् कुर्याद् अमाम् एकादशीं विना ॥२२१॥
अमाम् अमावस्याम् । एकादशीम् इत्य् उपवास-दिनं लक्षयति । कदाचिद् द्वादशीषु जन्माष्टम्य्-आदिषु चोपवासात् अमावस्यां दन्त-काष्ठा-ग्रहणं न कार्यम् । तथा च मत्स्य-विष्णु-पुराणयोः—
छिनत्ति वीरुधौ यस् तु वीरुत्-संस्थे निशाकरे । पत्रं वा पातयत्य् एकं ब्रह्म-हत्यां स विन्दति ॥ इति ॥२२१॥
अत एव व्यासस्य वचनान्तरम्—
अलाभे दन्त-काष्ठानां निषिद्धायां तथा तिथौ । अपां द्वादश-गण्डूषैर् विदध्याद् दन्त-धावनम् ॥२२२॥
निषिद्धायां इति पूर्वं प्रतिपद्-आदिषु निषिद्ध-दिनेषु पर्णैर् दन्त-धावनस्यानुज्ञातत्वात् पुनश् च अपां द्वादश-गण्डूषैर् इत्य् अनुज्ञातत्वाद् एकादश्याद्य्-उपवास-दिनेषु अपां गण्डूषैर् इति व्यवस्थापयितव्यम् । एवं च अमाम् एकादशीं विनेति वाक्यं सुसङ्गतम् इति दिक् ॥२२२॥
काशी-खण्डे तत्रैव—
अलाभे दन्त-काष्ठानां निषिद्धे वाथ वासरे । गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥२२३॥ इति ॥ तृण-पर्णादिना केचित् उपवास-दिनेष्व् अपि । दन्त-धावनम् इच्छन्ति मुख-शोधन-तत्पराः ॥२२४॥
उपवासे’पि नो दुष्येद् इति वचनं च स्व-मते’प्य् अन्य-स्त्री-विषयकं ज्ञेयम् । तत्राञ्जनादि-निषेधनात् । अत एव केचिद् इच्छन्तीति लिखितम् । व्रत-दिने पर्णडिनापि दन्तानां धावने दाक्षिणात्य-श्री-वैषवानां व्यवहारो’पि प्रमाणम् इति दिक् ॥२२४॥
काशी-खण्डे तत्रैव—
मुखे पर्युषिते यस्माद् भवेद् अशुचि-भाग् नरः । ततः कुर्यात् प्रयत्नेन शुद्ध्य्-अर्थं दन्त-धावनम् ॥२२५॥ उपवासे’पि नो दुष्येद् दन्त-धावनम् अञ्जनम् । गन्धालङ्कार-सद्-वस्त्र-पुष्प-मालानुलेपनम् ॥२२६॥
**अथ दन्त-काष्ठानि
स्मृतौ—**
सर्व कण्टकिनः पुण्याः आयुर्दाः क्षीरिणः स्मृताः । कटु-तिक्त-कषायाश् च बलारोग्य-सुख-प्रदाः ॥२२७॥
किं च— पलाशानां दन्त-काष्ठं पादुके चैव वर्जयेत् । वर्जयेच् च प्रयत्नेन बटं वाश्वत्थम् एव च ॥२२८॥
कौर्मे श्री-व्यास-गीतायाम्— मध्याङ्गुलि-समस्थौल्यं द्वादशाङ्गुल-सम्मितम् । स-त्वचं दन्त-काष्ठं यत् तद्-अग्रे न तु धारयेत् ॥२२९॥
स-त्वचम् इति । अदन्तत्वच-शब्दो’प्य् अस्ति आवन्तो वा । त्वचा सहितम् इत्य् अर्थः ॥२२९॥
क्षीरि-वृक्ष-समुद्भूतं मालती-सम्भवं शुभम् । अपामार्गं च बिल्वं वा कर-वीरं विशेषतह् ॥२३०॥ वर्जयित्वा निनितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥२३१॥
निन्दितानि अर्क-कर्वूरादीनि । पापं वर्ज्यं दिनं प्रतिपद्-आदि ॥२३१॥
न पाटयेत् दन्त-काष्ठं नाङ्गुल्य्-अग्रेण धारयेत् । प्रक्षाल्य भुक्त्वा तज् जह्यात् शुचौ देशे समाहितः ॥२३२॥
काशी-खण्डे च तत्रैव— कनिष्ठाग्र-परीणाहं स-त्वचं निर्व्रणं ऋजुम् । द्वादशाङ्गुल-मानं च सार्द्रं स्याद् दन्त-धावनम् । जिह्वोल्लेखनिकाम् वापि कुर्याच् चापाकृतिं शुभाम् ॥२३३॥
परीणाहः स्थौल्यं सार्द्रम् आर्द्रता-युक्तम् ॥२३३॥
रामार्चन-चन्द्रिकायाम् च—
दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम् इत्य् आदि-मन्त्रात् प्रातः क्षीर्य्-आदि-काष्ठाद् वट-खदिर-पलाशैर् विनार्काम्र-बिल्वैः । भुक्त्वा गण्डूष-षट्कं द्विर् अपि कुशम् ऋते देशिनीम् अङ्गुलीभिर् नन्दाभूताष्ट-पर्वण्य् अपि न खलु नवम्य्-अर्क-सङ्क्रान्ति-पाते ॥२३४॥
वटादि-काष्ठैर् विना क्षीर्यादि-काष्ठात् प्रातर् दन्तानाम् उल्लेखो धावनं भवति । कीदृशात् ? वितस्त्या द्वादशाङ्गुलैः परिमितात् । कुशं देशिनीं च विना अङ्गुलीभिर् गण्डूष-षट्कं द्विर् भुक्त्वा, द्वादश-जल-गण्डूषाणि गृहीत्वेत्य् अर्थः । नन्दादिषु च दन्तोल्लेखो न भवति । तत्र नन्दा—प्रतिपत् षष्ठी एकादशी च । भूता चतुर्दशी । अष्ट अष्टमी । पर्व अमावस्या पौर्णमास्य्-आदि । पातो व्यतीपातो द्वन्द्वैक्यम् । एवं निषेध-वैविध्यं विविध-वेद-शाखा-सेविनां कर्म-पराणां नाना-देवता-भक्तानां मत-भेदेन मन्त्रश् च श्रौतो’यम् । अन्नाद्यायाद्याप्य् ऊह्यं सोमो राजायम् आगमन् स मे मुखं सम्मार्ज्यते, यश्चसा च भगेन वा इति ॥२३४॥
अथ केश-प्रसाधनादिः
ततश् चाचम्य विधिवत् कृत्वा केश-प्रसाधनम् । स्मृत्वा प्रणव-गायत्र्यौ निबध्नीयाच् छिखां द्विजः ॥२३५॥
द्विज इति स्नाने शूद्रस्य मुक्त-शिखत्वात् ॥२३५॥
तथा चोक्तं—
न दक्षिणा-मुखो नोर्ध्वं कुर्यात् केश-प्रसाधनम् । स्मृत्वोङ्कारं च गायत्रीं निबध्नीयाच् चिखान्ततः ॥२३६॥
विधिवद् इति लिखितम् । तं विधिम् एव लिखति—न दक्षिणेति ॥२३६॥
**अथ स्नानम्
विष्णु-पुराणे [वि।पु। ३.११.२५] तत्रैव—**
नदी-नद-तडागेषु देव-खात-जलेषु च । नित्य-क्रियार्थं स्नायीत गिरि-प्रस्रवणेषु च ॥२३७॥ कूपेषूद्धृत-तोयेन स्नानं कुर्वीत वा भुवि । स्नायीतोद्धृत-तोयेन अथवा भुव्य् असम्भवे ॥२३८॥
कूपेषु कलसादिभिर् उद्धृत-तोयेन भुवि तत्-तट-भूमौ स्नायात् । गमनाद्य्-अशक्ततया । तत्-तट-भुवि स्नानासम्भवे कूपाद् उद्धृतेन शीतोदकेन स्नायात् । तत्राप्य् अशक्तौ उष्णोदकेन स्नायात् इति ज्ञेयम् । तथा चोक्तम्—
आपः स्वभावतो मेध्याः किं पुनर् वह्नि-संयुक्ताः । तस्मात् सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥ इति ॥२३७॥
**अथ स्नान-नित्यता
तत्र कात्यायनः—**
यथाहनि तथा प्रातर् नित्यं स्नायाद् अनातुरः । अत्यन्त-मलिनः कायो नव-च्छिद्र-समन्वितः । स्रवत् एव दिवा-रात्रौ प्रातः-स्नानं विशोधनम् ॥२३९॥
दक्षः— प्रातर्-मध्याह्नयोः स्नानं वानप्रस्थ-गृहस्थयोः । यतेस् त्रि-सवनं स्नानं सकृत् तु ब्रह्मचारिणः ॥२४०॥ सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना ॥२४१॥
अशक्तौ सत्याम् । अपि निश्चितं सकृद् अपीति वा कुर्युर् एव । तत्राप्य् अशक्तौ उदकं विनेति मन्त्र-स्नानादिकं कुर्युर् इत्य् अर्थः । यद् वा, अशक्तौ सत्याम् उदकं विना जलाभावे च सति सकृत् कुर्युः । एवं स्नानस्य नित्यता सिद्धैव ॥२४१॥
किं च—
अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां सदा । आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥२४२॥
अशिरस्कम् इत्य् आदिनापि नित्यतैवाभिप्रेता ॥२४२॥
शङ्खश् च—
अस्नातस् तु पुमान् नार्हो जपादि-हवनादिषु ॥२४३॥
कौर्मे व्यास-गीतायाम्— प्रातः-स्नानं विना पुंसां पापित्वं कर्मसु स्मृतम् । होमे जपे विशेषेण तस्मात् स्नानं समाचरेत् ॥२४४॥
काशी-खण्डे— प्रस्वेद-लालसाद्याक्लिन्नो निद्राधीनो यतो नरः । प्रातः-स्नानात् ततो’र्हः स्यान् मन्त्र-स्तोत्र-जपादिषु ॥२४५॥
पाद्मे च देवहूति-विकुण्डल-संवादे [प।पु। ३.३१.५५-५६]— स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः । अस्नायिनो’शुचेस् तस्य विमुखाः पितृ-देवताः ॥२४६॥ स्नान-हीनो नरः पापः स्नान-हीनो नरो’शुचिः । अस्नायी नरकं भुङ्क्ते पुंस्-कीटादिषु जायते ॥२४७॥
**अथ स्नान-माहात्म्यम्
महाभारते [५.३७.२९] उद्योग-पर्वणि श्री-विदुरोक्तौ—**
गुणा दश स्नान-शीलं भजन्ते बलं रूपं स्वर-वर्ण-प्रशुद्धिः । स्पर्शश् च गन्धश् च विशुद्धता च श्रीः सौकुमार्यं प्रवराश् च नार्यः ॥२४८॥
स्वर-वर्णयोः प्रकर्षेण सिद्धिर् इति । महा-पातकादिकं हरति ॥२४८॥
पाद्मे च [३.३१.५४-५८] तत्रैव—
याम्यं हि यातना-दुःखं नित्य-स्नायी न पश्यति । नित्य-स्नानेन पूयन्ते अपि पाप-कृतो नराः ॥२४९॥ प्रातः-स्नानं हरेद् वैश्य बाह्याभ्यन्तरजं मलम् । प्रातः-स्नानेन निष्पापो नरो न निरयं व्रजेत् ॥२५०॥ ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि । तेनैव नरकं यान्ति न जायन्ते कुयोनिषु ॥२५१॥ दुःस्वप्ना दुष्ट-चिन्ताश् च बन्ध्या भवन्ति सर्वदा । प्रातः-स्नानेन शुद्धानां पुरुषाणां विशां वर ॥२५२॥
अत्रि-स्मृतौ— स्नाने मनः-प्रसादः स्याद् देवा अभिमुखाः सदा । सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥२५३॥ महा-पापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम् । शोक-दुःखादि हरते प्रातः-स्नानं विशेषतः ॥२५४॥
कौर्मे तत्रैव— प्रातः-स्नानं प्रशंसन्ति दृष्टादृष्ट-करं हि तत् । प्रातः-स्नानेन पापानि पूयन्ते नात्र संशयः ॥२५५॥
दृष्टादृष्ट-करं ऐहिकामुष्मिक-शुभ-कारि । पूयन्ते नश्यन्ति ॥२५५॥
काशी-खण्डे च—
प्रातः-स्नानात् यतः शुध्येत् कायो’यं मलिनः सदा । छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवा-निशम् ॥२५६॥ उत्साह-मेधा-सौभाग्य-रूप-सम्पत्-प्रवर्तकम् । मनः-प्रसन्नता-हेतुः प्रातः-स्नानं प्रशस्यते ॥२५७॥ प्रातः प्रातस् तु यत् स्नानं सञ्जाते चारुणोद्वये । प्राजापत्य-समं प्राहुस् तन् महाघ-विघातकृत् ॥२५८॥ प्रातः-स्नानं हरेत् पापम् अलक्ष्मीं ग्लानिम् एव च । अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥२५९॥ नोपसर्पन्ति वै दुष्टाः प्रातः-स्नायि-जनं क्वचित् । दृष्टादृष्ट-फलं तस्मात् प्रातः-स्नानं समाचरेत् ॥२६०॥ स्नान-मात्रं तथा प्रातः-स्नानं चात्र नियोजितम् । यद्यप्य् अन्यो’न्य-मिलिते पृथग् ज्ञेये तथाप्य् अमू ॥२६१॥
अथ स्नान-विधिः
अथ तीर्थ-गतस् तत्र धौत-वस्त्रं कुशांस् तथा । मृत्तिकां च तटे न्यस्य स्नायात् स्व-स्व-विधानतः ॥२६२॥
इदानीं स्नानावधिं लिखन् आदौ वैदिक-व्यवहार-प्रवर-श्री-कृष्ण-देवाचार्यादि-सम्मतं वैदिक-तान्त्रिक-विधि-विमिश्रितं स्नान-विधिं लिखति—अथेत्य् आदिना । स्व-स्व-विधान्तः निज-निज-वर्णाश्रम-शाखाद्य्-आचारानुसारेण ॥२६२॥
अधौतेन तु वस्त्रेण नित्य-नैमित्तिकीं क्रियाम् । कुर्वन् न फलम् आप्नोति कृता चेन् निष्फला भवेत् ॥२६३॥ धौताङ्घ्रि-पाणिर् आचान्तः कृत्वा सङ्कल्पम् आदरात् । गङ्गादि-स्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥२६४॥ सागर-स्वन-निर्घोष-दण्ड-हस्तासुरान्तक । जगत्-स्रष्टर् जगन्-मर्दिन् नमामि त्वां सुरेश्वर ॥२६५॥ इमं मन्त्रं समुच्चार्य तीर्थ-स्नानं समाचरेत् । अन्यथा तत्-फलस्यार्धं तीर्थेशो हरति स्वयम् ॥२६६॥ नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् । देवदेव जगन्नाथ शङ्ख-चक्र-गदाधर । देहि विष्णो ममानुज्ञां तव तीर्थ-निषेवणे ॥२६७॥ इति । विधिवन् मृदम् आदाय तीर्थ-तोये प्रविश्य च । प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्क-सम्मुखः ॥२६८॥
अन्यत्र नदी-प्रवाह-व्यतिरिक्ते ॥२६८॥
दिग्-बन्धं विधिनाचर्य तीर्थानि परिकल्प्य च । आवाहयेद् भगवतीं गङ्गाम् आदित्य-मण्डलात् ॥२६९॥ दर्भ-पाणिः कृत-प्राणायामः कृष्ण-पदाम्बुजम् । **ध्यात्वा तन्-नाम सङ्कीर्त्य निमज्जेत् पुण्य-वारिणि ॥२७०॥ ** आचम्य मूल-मन्त्रं च स-प्राणायामकं जपन् । कृष्णं ध्यायन् जले भूयो निमज्ज्य स्नानम् आचरेत् ॥२७१॥ कृत्वाघ-मर्षणान्तं च नामभिः केशवादिभिः । तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत् ॥२७२॥
**तत्र विशेषः
श्री-नारद-पञ्चरात्रे—**
**प्रसिद्धेषु च तीर्थेषु यद्य् अन्यस्याभिधां स्मरेत् ।
स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत् ॥२७३॥ **इति ।
अन्यस्य तीर्थस्याभिधां नाम, क्षणात् सद्य एवेत्य् अर्थः । अतो’प्रसिद्ध-तीर्थेषु विष्णु-तीर्थम् इति प्रसिद्धेषु च तत्-तन्-नामैव स्मरेद् इत्य् अर्थः । अत एव निमज्जनात् प्राक् मृद्-ग्रहणं तथाघ-मर्षणादिकं च वैदिकं तान्त्रिकं च कृष्ण-ध्यानादिकं मूल-मन्त्र-जपनं केशवादि-नामभिर् द्वादश-वार-निमज्जनादिकं चेत्य् एवं मिश्रितं विवेचनीयम् ॥२७३॥
**इति वैदिक-तान्त्रिक-मिश्रितो विधिः ।
पाद्मे वैशाख्य-माहात्म्ये [प।पु। ५.९५.१२-१६, २०-२३] श्री-नारदाम्बरीष-संवादे—**
एवम् उच्चार्य तत्-तीर्थे पादौ प्रक्षाल्य वाग् यतः । स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः ॥२७४॥ तीर्थं प्रकल्पयेद् धीमान् मूल-मन्त्रम् इमं पठन् । ओं नमो नारायणाय मूल-मन्त्र उदाहृतः ॥२७५॥
एवं विमिश्रित-स्नान-विधिं लिखित्वा इदानीं तत्रैव तीर्थ-कल्पनादौ पुराणोक्तं किञ्चिद् विशेषं लिखति—एवम् इत्य् आदिना देव-देव जगन्नाथ इत्य् आदिकम् एतद् उच्चार्य, उक्तेन मूल-मन्त्रेणैव सप्त-वारान् यद्-अभिजप्तम् अभिमन्त्रितं जलं तत् । तृतीयान्त-पाठे भावे क्त-प्रत्ययः । मृद्-ग्रहणानन्तरं पुनः स्नानादिकं तु समानम् एवेति विशेषेण तत्र लिखितम् ॥२७४-२७५॥
दर्भ-पाणिस् तु विधिवद् आचान्तः प्रणतो भुवि । चतुर्-हस्त-समायुक्तं चतुरस्रं समन्ततः ॥२७६॥ प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः । विष्णु-पाद-प्रसूतासि वैष्णवी विष्णु-देवता । त्राहि नस् त्वेनसस् तस्माद् आजन्म-मरणान्तिकात् ॥२७७॥ इत्य् आदि । सप्त-वाराभिजप्तेन कर-सम्पुट-योजिते । मूर्ध्नि कृत्वा जलं भूपश् चतुर् वा पञ्च सप्त वा । स्नानं कृत्वा मृदा तद्वद् आमन्त्र्य तु विधानतः ॥२७८॥ अश्व-क्रान्ते रथ-क्रान्ते विष्णु-क्रान्ते वसुन्धरे । मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥२७९॥ उद्धृतासि वराहेण विष्णुना शत-बाहुना । **नमस् ते सर्व-लोकानां प्रभवारणि सुव्रते ॥२८०॥ **इति । गुरोः सन्निहितस्याथ पित्रोश् च चरणोदकैः । **विप्राणां च पदाम्भोधिः कुर्यान् मूर्धन्य् अभिषेचनम् ॥ **
सन्निहितस्येति । यदि तदानीं तत्र सन्निधौ गुर्व्-आदयो वर्तेरन् तर्हीत्य् अर्थः ॥२८१॥
तथा च पाद्मे—
गुरोः पादोदकं पुत्र तीर्थ-कोटि-फल-प्रदम् ॥२८२॥
किं च— विप्र-पादोदक-क्लिन्नं यस्य तिष्ठति वै शिरः । तस्य भागीरथी-स्नानम् अहन्य् अहनि जायते ॥२८३॥
तथा गौतमीय-तन्त्रे— पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे । स-सागराणि तीर्थानि पादे विप्रस्य दक्षिणे ॥२८४॥ इति । शङ्खे वसन्ति सर्वाणि तीर्थानि च विशेषतः । शङ्खेन मूल-मन्त्रेणाभिषेकं पुनर् आचरेत् ॥२८५॥
सर्वाणि तीर्थानि शङ्खे वसन्तीति हेतोः । पुनर् अभिषेकं शङ्खेन विशेषतः कुर्यात् । तच् च निज-मूल-मन्त्रेणैव ॥२८५॥
तथैव तुलसी-मिश्र-शालग्राम-शिलाम्भसा । अभिषेकं विदध्याच् च पीत्वा तत् किञ्चिद् अग्रतः ॥२८६॥
तत् श्री-शालग्राम-शिलाम्भः किञ्चिद् आदौ पीत्वा प्राश्य ॥२८६॥
तद् उक्तं गौतमीय-तन्त्रे—
शालग्राम-शिला-तोयं तुलसी-गन्ध-मिश्रितम् । कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निज-मूर्धनि ॥२८७॥ शालग्राम-शिला-तोयम् अपीत्वा यस् तु मस्तके । प्रेक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥२८८॥ विष्णु-पादोदकात् पूर्वं विप्र-पादोदकं पिबेत् । विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते ॥२८९॥
श्री-चरणामृत-धारण-मन्त्रः
अकाल-मृत्यु-हरणं सर्व-व्याधि-विनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥२९०॥ इति । लेख्यो’ग्रे कृष्ण-पादाब्ज-तीर्थ-धारण-पानयोः । महिमात्र तु तत्-तीर्थेनाभिषेकस्य लिख्यते ॥२९१॥
कृष्ण-पादाब्जयोः तीर्थं स्नानोदकं, तस्य धारणं मूर्ध्नि ग्रहणं पानं च, तयोः । तेन कृष्ण-पादाब्ज-स्नानोदक-रूपेण तीर्थेन यो’भिषेकस् तस्य महिमा माहात्म्यम् अत्र अस्मिन् प्रसङ्गे लिख्यते ॥२९१॥
**अथ श्री-चरणोदकाभिषेक-माहात्म्यम्
पद्म-पुराणे [३.३१.३८, १३९-१४०]—**
स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः । शालग्राम-शिला-तोयैर् यो’भिषेकं समाचरेत् ॥२९२॥ गङ्गा गोदावरी रेवा नद्यो मुक्ति-प्रदास् तु याः । निवसन्ति सतीर्थास् ताः शालग्राम-शिला-जले ॥२९३॥ कोटि-तीर्थ-सहस्रैस् तु सेवितैः किं प्रयोजनम् । तीर्थं यदि भवेत् पुण्यं शालग्राम-शिलोद्भवम् ॥२९४॥
गङ्गा-गोदावरीत्य् आदिषु येषु श्लोकेष्व् अभिषेक-शब्दो नास्ति, ते’प्य् अत्र पादोदकाभिषेक-माहात्म्ये केचिल् लिखिताः, स्नाने तृइथापेक्षया तेषु च श्लोकेषु पादोदकस्य तीर्थत्वाद्य्-उक्तेर् इति दिक् ॥२९३-२९४॥
तत्रैव श्री-गौतमाम्बरीष-संवादे—
येषां धौतानि गात्राणि हरेः पादोदकेन वै । अम्बरीष कुले तेषां दासो’स्मि वशगः सदा ॥२९५॥ राजन्ते तानि तावच् च तीर्थानि भुवन-त्रये । यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥२९६॥
स्कान्दे कार्त्तिक-माहात्म्ये— गृहे’पि वसतस् तस्य गङ्गा-स्नानं दिने दिने । शालग्राम-शिला-तोयैर् यो’भिषिञ्चति मानवः ॥२९७॥
तत्रैवान्यत्र च— यानि कानि च तीर्थानि ब्रह्माद्या देवतास् तथा । विष्णु-पादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥२९८॥ शालग्रामोद्भवो देवो देवो द्वारवती-भवः । उभयोः स्नान-तोयेन ब्रह्म-हत्या निवर्तते ॥२९९॥
किं च— स वै चावभृत-स्नातः स च गङ्गा-जलाप्लुतः । विष्णु-पादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥३००॥
श्री-नृसिंह-पुराणे— गङ्गा-प्रयाग-गय-नैमिष-पुष्कराणि पुण्यानि यानि कुरु-जाङ्गल-यामुनानि । कालेन तीर्थ-सलिलानि पुनन्ति पापं पादोदकं भगवतः प्रपुनाति सद्यः ॥३०१॥
स्मृतौ च— त्रि-रात्रि-फलदा नद्यो याः काश्चिद् असमुद्रगाः । समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः ॥३०२॥ षण्-मास-फलदा गोदा वत्सरस्य तु जाह्नवी । पादोदकं भगवतो द्वादशाब्द-फल-प्रदम् ॥३०३॥
**तन्-नित्यता
गरुड-पुराणे—**
जलं च येषां तुलसी-विमिश्रितं पादोदकं चक्र-शिला-समुद्भवम् । नित्यं त्रि-सन्ध्यं प्लवते न गात्रं **खगेन्द्र ते धर्म-बहिष्कृता नराः ॥३०४॥ **इति ।
चक्र-शिला श्री-शालग्राम-शिला श्री-द्वारका-चक्राङ्क-शिला च तत् स्थानाद् उद्भूतं पादोदकं च, न प्लावते न स्नापयतीत्य् अर्थः ॥३०४॥
ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भ-मुद्रया । मूलेनाथाविशेषेण कुर्याद् देवादि-तर्पणम् ॥३०५॥
मूल-मन्त्रेण कुम्भ-मुद्रया त्रीन् जलाञ्जलीन् निज-मूर्ध्नि प्रक्षिप्य, अथानन्तरम् अविशेषेण सामान्यतो देवादि-तर्पणं कुर्यात् । आदि-शब्देन ऋषीणां पितॄणां तत्-तन्-नामानि, विशेषतो देवादि-तर्पणम् अग्रे लेख्यम् एव ॥
**अथ सामान्यतो देवादि-तर्पणम्
तच् च वैदिकेषु प्रसिद्धम् एव—**
**ब्रह्मादयो ये देवास् तान् देवान् तर्पयामि । ** **भूर्-देवांस् तर्पयामि । भुवर्-देवांस् तर्पयामि । ** **स्वर्-देवांस् तर्पयामि । ** भूर्-भुवः-स्वर्-देवांस् तर्पयामि ॥३०६॥ इत्य् आदि ।
इत्य् आदीत्य् आदि-शब्देन कृष्ण-द्वैपायनादयो ये ऋषयस् तान् ऋषीन् तर्पयामि । भू-ऋषींस् तर्पयामि। भुवः ऋषींस् तर्पयामि। स्वः ऋषींस् तर्पयामि। भूर्-भुवः-स्वः ऋषींस् तर्पयामि। सोमः पितृमान् यमो’ङ्गिरो’ग्निष्वात्ताः कव्यवाहनादयो ये पितरस् तान् पितॄंस् तर्पयामि इत्य् एवं पूर्ववत् ॥३०६॥
आचाम्याङ्गानि सम्मार्ज्य स्नान-वस्त्राण्य-वाससा । परिधायांशुके शुक्ले निविश्याचमनं चरेत् ॥३०७॥
स्नानस्य यद् वस्त्रं यद् परिधाय स्नानं कृतं, तस्माद् अन्येन वाससा । एतेन स्नान-शाट्य्-अञ्चलेन पाणिना वा गात्रं न सम्मर्जयेद् इत्य् अर्थः । तथा च विष्णु-पुराणे सदाचार-कथने—स्नातो नाङ्गानि मार्जेत स्नान-शाट्या न पाणिना इति ॥३०७॥
विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः । विधाय वैदिकीं सन्ध्याम् अथोपासीत तान्त्रिकीम् ॥३०८॥
विधिवत् तत् तद्-विधि-युक्तं यथा स्याद् इति सर्वत्रैवानुवर्तयितव्यम् ॥३०८॥
अथ वैदिकी सन्ध्या
कौर्मे तत्रैव—
प्राक्-कुलेषु ततः स्थित्वा दर्भेषु सुसमाहितः । प्राणायाम-त्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः ॥३०९॥
प्राक्-कूलेषु प्राग्-अग्रेष्व् इत्य् अर्थः ॥३०९॥
मनु-स्मृतौ (?)1—
ब्राह्मणाः शाक्तिकाः सर्वे न शैवा न च वैष्णवाः । यत उपासते देवीं गायत्रीं वेद-मातरम् ॥३१०॥ या च सन्ध्या जगत्-सूतिर् मायातीता हि निष्कला । ऐश्वरी केवला शक्तिस् तत्त्व-त्रय-समुद्भवा ॥३११॥ ध्यात्वार्क-मण्डल-गतां सावित्रीं तां जपेद् बुधः । प्राङ्-मुखः सततं विप्रः सन्ध्योपासनम् आचरेत् ॥३१२॥
किं च— सहस्र-परमां नित्यं शत-मध्यां दशावराम् । सावित्रीं वै जपेद् विद्वान् प्राङ्-मुखः प्रयतः स्थितः ॥३१३॥
सहस्रं सहस्र-वार-जपः परमः । जपे श्रेष्ठ-पक्षो यस्या इति तथा-भूताम् इत्य् अर्थः । एवम् अन्यद् अप्य् ऊह्यम् ॥३१३॥
किं च—
सन्ध्या-हीनो’शुचिर् नित्यम् अनर्हः सर्व-कर्मसु । यद् अन्यत् कुरुते किञ्चिन् न तस्य फलम् अप्नुयात् ॥३१४॥ यो’न्यत्र कुरुते यत्नं धर्म-कार्ये द्विजोत्तमः । विहाय सन्ध्या-प्रणतिं स याति नरकायुतम् ॥३१५॥
एवं सन्ध्योपासनस्य विधिं लिखित्वा नित्यतां च लिखति—सन्ध्या-हीन इति द्वाभ्याम् ॥३१४-३१५॥
**
अनन्य-चेतसः शान्ता ब्राह्मणा वेद-पारगाः ।** उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे परां गतिम् ॥३१६॥
माहात्म्यं लिखति—अनन्येति ॥३१६॥
अथ तान्त्रिकी सन्ध्या
ततः सम्पूज्य सलिले निजां श्री-मन्त्र-देवताम् । तर्पयेद् विधिना तस्य तथैवावरणानि च ॥३१७॥
तथा च बोधायन-स्मृतौ— हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् । अर्चन्ति सूरयो नित्यं जपेन रवि-मण्डले ॥३१८॥
अर्चन्ति अर्चयन्ति ॥३१८॥
पाद्मे च तत्रैव—
सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥३१९॥
अथ तद्-विधिः
मूल-मन्त्रम् अथोच्चार्य ध्यायन् कृष्णाङ्घ्रि-पङ्कजे । श्री-कृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती ॥३२०॥ ध्यानोद्दिष्ट-स्वरूपाय सूर्य-मण्डल-वर्तिने । कृष्णाय काम-गायत्र्या दद्याद् अर्घ्यम् अनन्तरम् ॥३२१॥
**अथ काम-गायत्री
श्री-सनत्-कुमार-कल्पे—**
आदौ मन्मथम् उद्धृत्य काम-देव-पदं वदेत् । आयान्ते विद्महे पुष्प-बाणायेति पदं वदेत् । धीमहीति तथोक्त्वाथ तन् नो’नङ्गः प्रचोदयात् ॥३२२॥ इति ।
मन्मथं काम-बीजं आदौ वदेत् । ततः कामदेवेति । ततः आयेति । तद्-अन्ते विद्महे इति । ततः पुष्प-बाणायेति । ततश् च धीमहीति । ततश् च तन् नो’नङ्गः प्रचोदयाद् इति वदेद् इत्य् अर्थः । क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि तन् नो’नङ्गः प्रचोदयात् इति भवति ॥३२२॥
अथार्क-मण्डले कृष्णं ध्यात्वैतां दशधा जपेत् । क्षमस्वेति तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते ॥३२३॥
एतां काम-गायत्रीं दशधा दश-वारान् जपन् सन्, तं कृष्णम् ॥३२३॥
विधिस् तान्त्रिक-सन्ध्याया जले’र्चायाश् च कश्चन । यो’न्यो मन्येत सो’प्य् अत्र तद्-विशेषाय लिख्यते ॥३२४॥
तयोस् तान्त्रिक-सन्ध्या-जलार्चयोर् विधि-विशेष-ज्ञापनायेत्य् अर्थः ॥३२४॥
**अथ मतान्तर-तान्त्रिक-सन्ध्या-विधिः **
आदौ दक्षिण-हस्तेन गृह्णीयाद् वारि वैष्णवः । ततो हृदय-मन्त्रेण वाम-पाणि-तले’र्पयेत् ॥३२५॥
अर्पयेत् न्यसेत् तद् वार्य् एव ॥३२५॥
तद्-अङ्गुली-विनिर्याताम्भः-कणैर् दक्ष-पाणिना । मस्तके नेत्र-मन्त्रेण कुर्यात् सम्प्रोक्षणं ततः ॥३२६॥ शिष्टं तच् चास्त्र-मन्त्रेणादायाम्भो दक्ष-पाणिना । अधः क्षिपेत् पुनश् चैवम् इति वार-चतुष्टयम् ॥३२७॥
तस्य वाम-पाणेर् अङ्गुलिभ्यो विनिर्यातैः विनिःसृतैः अम्भःकणैः जल-बिन्दुभिर् दक्षेण दक्षिणेन पाणिना । शिष्टम् अवशिष्टं यद् वाब्म-पाणि-तलस्थं तत् । इति वार-चतुष्टयं कुर्याद् इत्य् अर्थः ॥३२६-७॥
पुनर् हृदय-मन्त्रेणादायाम्भो दक्ष-पाणिना । नासा-पुटेन वामेनाघ्रायान्येन विसर्जयेत् ॥३२८॥
पुनः अम्भो जलं दक्ष-पाणिना आदाय गृहीत्वा, वामेन नासा-पुटेनाघ्रायेति आघ्राणेनान्तर्गत-दोषं प्रक्षाल्य । अन्येन दक्षिणेन नासा-पुटेन निःसार्य विसृजेद् इत्य् अर्थः ॥३२८॥
अथाम्भो’ञ्जलिम् आदाय सूर्य-मण्डल-वर्तिने । अर्घ्यं गोपाल-गायत्र्या कृष्णाय त्रिर् निवेदयेत् ॥३२९॥
सा चोक्ता— ब्रूयाद् गोपी-जनं ङे’न्तं विद्महे इत्य् अतः परम् । पुनर् गोपी-जनं तद्वद् धीमहीति ततः परम् । तन् नः कृष्ण इति प्रान्ते प्र-पूर्वं चोदयाद् इति ॥३३०॥
ङे इति चतुर्थ्य्-एक-वचनं । अन्ते यस्य तं गोपी-जनं । तद्वच् चतुर्थ्य्-अन्तम् इत्य् अर्थः । प्रान्ते सर्व-शेषे प्र-शब्द-पूर्वकं चोदयाद् इति ब्रूयात् । ततश् चैवं स्यात्—गोपी-जनाय विद्महे गोपी-जनाय धीमहि तन् नः कृष्णः प्रचोदयाद् इति ॥३३०॥
मूर्ध्नि न्यसेत् तद्-अङ्गानि ललाटे नेत्रयोर् द्वयोः । भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा क्रमात् ॥३३१॥
तस्या गोपाल-गायत्र्याः । अङ्गानि षट्-मूर्धादि-षट्-स्थानेषु क्रमान् न्यसेद् इत्य् अर्थः ॥३३१॥
तानि चोक्तानि—
पञ्चभिश् च त्रिभिश् चैव पञ्चभिश् च त्रिभिः पुनः । चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकैः ॥३३२॥ इति ।
अङ्गान्य् एव विभज्य दर्शयति—पञ्चभिर् इति । वर्णकैर् वर्णैः । स्वार्थे कः ॥३३२॥
रास-क्रीडा-रतं कृष्णं ध्यात्वा चादित्य-मण्डले । तत्-सम्मुखोत्क्षिप्त-भुजो गायत्रीं तां जपेत् क्षणम् ॥३३३॥
तस्य आदित्य-मण्डलस्य सम्मुखे अभिमिउखे उत्क्षिप्तौ भजौ येन तथाभूतः सन् ॥३३३॥
**अथ तत्र जले श्री-भगवत्-पूजा-विधिः **
अङ्ग-न्यासं स्व-मन्त्रेण कृत्वाथाब्जं जलान्तरे । सञ्चिन्त्य पीठ-मन्त्रेण तर्पयेच् च सकृत् सकृत् ॥३३४॥ तस्मिंश् च कृष्णम् आवाह्य सकली-कृत्य मानसान् । पञ्चोपचारात् दत्त्वाप्सु धेनु-मुद्रां प्रदर्शयेत् ॥३३५॥
एतस्मिन् अब्जे । मानसान् मनः-कल्पितान् गन्धादीन् पञ्चोपचारान् ॥३३५॥
तज्-जलं चामृतं ध्यात्वा स्व-मन्त्रेणाभिमन्त्र्य च । अष्टोत्तर-शतं कृष्णोत्तमाङ्गे तर्पयेत् कृती ॥३३६॥
अमृत-रूपं चिन्तयित्वा । कृतीत्य् अनेन आवरण-तर्पणादिकम् उद्वासनं च पूर्वानुसारेण कुर्याद् एवेति बोध्यते ॥३३६॥
ततश् च मूल-मन्त्रेण वारान् वै पञ्च-विंशतिम् । अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥३३७॥
**अथ विशेषतो देवादि-तर्पणम्
पाद्मे [१.२०.१५६-१६३] तत्रैव—**
ब्रह्माणं तर्पयेत् पूर्वं विष्णुं रुद्रं प्रजापतीन् । देवा यक्षास् तथा नागा गन्धर्वाप्सरसां गणाः ॥३३८॥ क्रूराः सर्पाः सुपर्णाश् च तरवो जम्भकादयः । विद्याधरा जलधरास् तथैवाकाश-गामिनः ॥३३९॥ निराधाराश् च ये जीवा पाप-धर्म-रताश् च ये । तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥३४०॥ कृतोपवीतो देवेभ्यो निवीती च भवेत् ततः । मनुष्यांस् तर्पयेद् भक्त्या ऋषि-पुत्रान् ऋषींस् तथा ॥३४१॥ सनकश् च सनन्दश् च तृतीयश् च सनातनः । कपिलश् चासुरिश् चैव वोढुः पञ्च-शिखस् तथा । सर्वे ते तृप्तिम् आयान्तु मद्-दत्तेनाम्बुना सदा ॥३४२॥ मरीचिम् अत्र्य्-अङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च । देव-ब्रह्म-ऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः ॥३४३॥ अपसव्यं ततः कृत्वासव्यं जानु च भूतले । अग्निष्व् आत्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः ॥३४४॥ कव्यानलौ बर्हिषदस् तथा चैवाज्यपाः पुनः । तर्पयेत् पितृ-भक्त्या च स-तिलोदक-चन्दनैः ॥३४५॥ यमाय धर्म-राजाय मृत्यवे चान्तकाय च । **वैवस्वताय कालाय सर्व-भूताक्षयाय च ॥३४६॥ ** औडुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्र-गुप्ताय वै नमः ॥३४७॥ दर्भ-पाणिः सुप्रयतः पितॄन् स्वान् तर्पयेत् ततः ॥३४८॥ पित्रादीन् नाम-गोत्रेण तथा माता-महान् अपि । सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत् ॥३४९॥ ये’बान्धवा बान्धवा वा ये’न्य-जन्मनि बान्धवाः । ते तृप्तिम् अखिलां यान्तु ये चास्मत्-तोय-काङ्क्षिणः ॥३५०॥ इति । सन्ध्योपासनतः पूर्वं केचिद् देवादि-तर्पणम् । मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः ॥३५१॥
इदं तत्-तन्-नामभिर् विशेषतो देवादि-तर्पणम्, तच् च सकृद् एव मन्यन्ते, न तु सामान्य-विशेषाभ्यां वार-द्वयम् इत्य् अर्थः । कुतः ? पुराणानि पाद्म-कौर्मादीनि तद्-उक्तानुसारात् ॥३५१॥
तथा च पाद्मे, स्नाने मृद्-ग्रहणानन्तरम्—
एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥३५२॥
ततस् तु तर्पणं कुर्याद् इति सामान्यतस् तर्पणं न स्यात्, तन्-निरस्तम् एव ब्रह्माणम् इत्य् आदि-विशेषोक्तिः । तथा कौर्मे’पि—
स्नात्वा सन्तर्पयेद् देवान् ऋषीन् पितॄन् गणांस् तथा ।
आचम्य मन्त्रवन् नित्यं पुनर् आचम्य वाग् यतः ॥
सम्मार्ज्य मन्त्रैर् आत्मानं कुशैः सोदक-बिन्दुभिः । आपोहिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ ओङ्कार-व्याहृति-युतां गायत्रीं वेद-मातरम् । जप्त्वा जलाञ्जलिं दद्यात् भास्करं प्रति तन्-मनाः ॥ इति ।
भास्करोपस्थानं च सन्ध्योपासनानन्तरम् । अथोह्पतिष्ठेद् आदित्यम् उदयन्तं समाहितः इत्य् आदिना तत्रैवोक्तम् अस्ति । एवं मत-भेदः शाखादि-भेदेनोक्तः ॥३५२॥
अत एव श्री-रामार्चन-चन्द्रिकायाम्—
निष्पीडयित्वा वस्त्रं तु पश्चात् सन्ध्यां समाचरेत् । अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत् ॥३५३॥
निष्पीडयतिवेत्य् आर्षं निष्पीड्य ॥३५३॥
किं च—
वस्त्रं त्रिगुणितं यस् तु निष्पीडयति मूढ-धीः । वृथा स्नानं भवेत् तस्य निष्पीडयति चाम्बुनि ॥३५४॥
प्रसङ्गाद् वस्त्र-निष्पीडने विधि-विशेषं श्री-रामार्चन-चन्द्रिकोक्तम् एव लिखति—वस्त्रम् इति ॥३५४॥
काशी-काण्डे—
अपि सर्व-नदी-तोयैर् मृत्-कूटैश् चाथ गो-रसैः । आपातम् आचरेच् छौचं भाव-दुष्टो न शुद्धि-भाक् ॥३५५॥ नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः । शतशो’पि तथा स्नाता न शुद्धा भाव-दूषिताः ॥३५६॥
आपातम् मरण-पर्यन्तम् आचरन्न् अपि, भाव-दुष्टो नास्तिक इत्य् अर्थः ॥३५५॥
पाद्मे वैशाख-माहात्म्ये [५.८७.३०,३३] श्री-नारदाम्बरीष-संवादे—
**पुण्येन गाङ्गेन जलेन काले ** देशेऽपि यः स्नान-परोऽपि भूप । **आजन्मतो भाव-हतोऽपि दाता ** न शुद्ध्यतीत्य् एव मतं ममैतत् ॥३५७॥ **प्रज्वाल्य वह्निं घृत-तैल-सिक्तं ** प्रदक्षिणावर्त-शिखं स्व-काले । प्रविश्य दग्धः किल भाव-दुष्टो न स्वर्गम् आप्नोति फलं न चान्यत् ॥३५८॥
अतएव भविष्योत्तरे— यस्य हस्तौ च पादौ च वाङ् मनश् च सुसंयतम् । विद्या-तपश् च कीर्तिश् च स तीर्थ-फलम् आप्नुयात् ॥३५९॥
यस्येति । हस्तादि-संयमेन तीर्थे पापानुत्पत्तेः विद्यादिना च श्रद्धा-विशेषाद्य्-उत्पत्तेर् यथोक्त-फल-लाभः स्याद् इत्य् अर्थः ॥३५९॥
अश्रद्दधानः पापात्मा नास्तिको’च्छिन्न-संशयः । हेतु-निष्ठश् च पञ्चैते न तीर्थ-फल-भागिनः ॥३६०॥
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
शौचीयो नाम तृतीयो विलासः ।
॥३॥
Nओतेस्
Nओत् फ़ोउन्द् इन् पुब्लिस्हेद् एदितिओन्स्।