०२ दीक्षा

द्वितीयो विलासः

दैक्षिकः

तं श्रीमत्-कृष्ण-चैतन्यं वन्दे जगद्-गुरुम् ।
यस्यानुकम्पया श्वापि महाब्धिं सन्तरेत् सुखम् ॥१॥

नमः श्री-कृष्णाय भगवते भद्र-वन-चन्द्राय ।
अन्धः पश्यति शास्त्राणि शिला तरति वारिधिम् ।
यस्य प्रभावतो वन्दे तं श्री-चैतन्यम् ईश्वरम् ॥

कर्तव्यांशस्य विज्ञानम् अवश्यं सम्यग् इष्यते । अतो यस् तत्र सङ्क्षिप्तो ग्रन्थः सो’यं प्रपञ्च्यते । तत्रादौ विविध-मताकुलित-दीक्षा-विधि-लिखने परमाशक्तस्याप्य् आत्मनो भगवद्-अनुग्रहेण शक्ततां सम्भावयन्न् इव प्रारिप्सित-सिद्धये पूर्ववद् गुरु-रूपम् इष्ट-दैवतं प्रणमति तम् इति । श्रीमान् कृष्णश् चासौ चतिअन्य-देवश् च परमात्मेति तम् । पक्षे श्री-कृष्ण-चैतन्येति विख्यात-देवम् ईश्वरम् । साक्षात् तस्योपदेष्टृत्वासम्भवे’पि चित्ताधिष्ठातृत्वादिना सर्वेषाम् अपि जीवानां परम-गुरुतयामनो’पि स एव गुरुर् इत्य् अभिप्रेत्य लिखति जगद्-गुरुम् इति । पक्षे सर्वत्रैव भगवन्-नाम-सङ्कीर्तन-प्रधान-भक्ति-प्रचारणाज् जगतां गुरुत्वेन विशेषतो दीन-जन-विषयक-समग्रोपदेशानुग्रहणे गुरुम् इति ॥१॥

अथ दीक्षा-विधिः
दीक्षा-विधिर् लिख्यते’त्रानुसृत्य क्रम-दीपिकाम् ।
विना दीक्षां हि पूजायां नाधिकारो’स्ति कर्हिचित् ॥२॥

क्रम-दीपिकाम् अनुसृत्येति श्री-केशवाचार्य-विरचित-क्रम-दीपिकाख्य-ग्रन्थोक्तानुसारेणैव, न तु तद्-उक्त-विरोधेनेत्य् अर्थः । दीक्षा-विधि-लिखने हेतुः विनेति । हि यतः ॥२॥

आगमे—

द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥३॥
तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु ।
नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥४॥

अनुपेतानाम् अकृतोपनयनानाम् । उपनयनात् यज्ञोपवीतदानात् अनु अनन्तरं तु अधिकारः स्याद् एव । शिव-संस्तुतम् इति दीक्षितम् इत्य् अर्थः । प्रधानत्वेन श्री-विष्णु-दीक्षा-ग्रहणात् श्री-शिवस्यापि सम्यक् स्तुतिर् विषयम् इति भावः । एवं च दीक्षां विना पूजायाम् अनधिकारात् । तथा—

शालग्राम-शिला-पूजां विना यो’श्नाति किञ्चन । स चाण्डालादि-विष्ठायाम् आकल्पं जायते कृमिः ॥

इत्य् आदि वचनैः पूजायाश् चावश्यकत्वाद् दीक्षाया नित्यत्वं सिध्यति । श्री-शालग्राम-शिलाधिष्ठानं वर्गेषु मुख्यत्वात् सर्वाण्य् एव भगवद्-अनुष्ठानान्य् उपलक्षयति । नित्यत्वम् एव ब्रह्म-वचनेन साधयति ते नरा इति । जनार्दनो यैर् नार्चित इति दीक्षां विनार्चनासिद्धेः ॥३-४॥

स्कान्दे कार्त्तिक-प्रसङ्गे श्री-ब्रह्म-नारद-संवादे—

ते नराः पशवो लोके किं तेषां जीवने फलम् ।
यैर् न लब्धा हरेर् दीक्षा नार्चितो वा जनार्दनः ॥५॥

अदीक्षया दीक्षा-विधि-व्यतिरेकेण । देवतानां सर्वासाम् एव, तन्-मन्त्राधिष्ठातृ-देवताया वा शापः । यद्यपि पूर्वं लिखितायाः श्री-गुरूपसत्तेर् नित्यतया दीक्षाया अपि नित्यता सिद्धैव तथाप्य् उपसत्तेर् आश्रयण्-मात्रता-विवक्षया दीक्षायाश् च सविधि-मन्त्र-ग्रहणादि-रूपतया पृथग् उल्लेख इति दिक् ॥५॥

तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे, विष्णु-यामले च—

अदिक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ।
पशु-योनिम् अवाप्नोति दीक्षा-विरहितो जनः ॥६॥

विशेषतो विष्णु-यामले—

स्नेहाद् वा लोभतो वापि यो गृह्णीयाद् अदीक्षया ।
तस्मिन् गुरौ स-शिष्ये तु देवता-शाप आपतेत् ॥७॥

विष्णु-रहस्ये च—

अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् ।
कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥८॥

ननु यथा-कथञ्चिद् भगवद्-अर्चनेन महा-फलं श्रूयते अतो गुरोः सकाशाद् दीक्षा-ग्रहणे को’यम् आग्रहस् तत्राह–अविज्ञायेति । हरि-पूजा-विधेः क्रियानुष्ठानं विधानोक्तां पूर्व-पूर्वैर् उपदेष्टृभिर् यथा-विध्य् एवोपदिष्टां श्री-गुरु-मुखाद् विज्ञाय विशेषेणाज्ञात्वा विधानतो भक्त्या कुर्वन्न् अपि शतांशानाम् एकम् अंशं लभते । गुर्व्-अनपेक्षया पूर्व-पूर्व-शिष्ट-दर्शित-मार्गानादरेण पूजा-फलं न सम्यग् भवतीति भावः ॥८॥

दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् ।
तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व-कोविदैः ॥९॥

नित्यत्वम् एव द्रढयन् नित्यत्वे’पि दर्शपौर्णमासादिवत् फल-विशेषं च दर्शयन् दीक्षा-माहात्म्यं लिखति दिव्यम् इति त्रिभिः । तपस्विन इति । श्रेष्ठा ज्ञानादि-निष्ठेभ्यः परमोत्तमाः । नॄणां सर्वेषाम् एव द्विजत्वं विप्रता ॥९॥

अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।
गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा-पूर्वं विधानतः ॥१०॥

स्कान्दे तत्रैव श्री-ब्रह्म-नारद-संवादे—

तपस्विनः कर्म-निष्ठाः श्रेष्ठास् ते वै नरा भुवि ।
प्राप्ता यैस् तु हरेर् दीक्षा सर्व-दुःख-विमोचिनी ॥११॥

तन्त्र-सागरे च—

**यथा काञ्चनतां याति कांस्यं रस-विधानतः ।
तथा दीक्षा-विधानेन द्विजत्वं जायते नृणाम् ॥१२॥
अथ दीक्षा-कालः— तत्र मास-शुद्धिः **

आगमे—

मन्त्र-स्वीकरणं चैत्रे बहु-दुःह-फल-प्रदम् ।
वैशाखे रत्न-लाभः स्याज् ज्यैष्ठे तु मरणं ध्रुवम् ॥१३॥
आषाढे बन्धु-नाशाय श्रावणे तु भयावहम् ।
प्रजा-हानिर् भाद्रपदे सर्वत्र शुभम् आश्विने ॥१४॥
कार्त्तिके धन-वृद्धिः स्यान् मार्गशीर्षे शुभ-प्रदम् ।
पौषे तु ज्ञान-हानिः स्यान् माघे मेधावि-वर्धनम् ।
फाल्गुने सर्व-वश्यत्वम् आचार्यैः परिकीर्तितम् ॥१५॥

क्वचिच् च—

समृद्धिः श्रावणे नूनं ज्ञानं स्यात् कार्त्तिके तथा ।
फाल्गुने’पि समृद्धिः स्यान् मलमासं परित्यजेत् ॥१६ ॥

फल-भेदापेक्षया मत-भेदेन वा ज्ञेयः । एवम् अग्रे’पि ॥१६॥

गौतमीये—

मन्त्रारम्भस् तु चैत्रे स्यात् समस्त-पुरुषार्थदः ।
वैशाखे रत्न-लाभः स्यात् ज्यैष्ठे तु मरणं ध्रुवम् ॥१७॥
आषाढे बन्धु-नाशः स्यात् पूर्णायुः श्रावणे भवेत् ।
प्रजा-नाशो भवेद् भाद्रे आश्विने रत्न-सञ्चयः ॥१८॥
कार्त्तिके मन्त्र-सिद्धिः स्यात् मार्ग-शीर्षे तथा भवेत् ।
पौषे तु शत्रु-पीडा स्यात् माघे मेधा-विवर्धनम् ।
फाल्गुने सर्व-कामाः स्युर् मल-मासं परित्यजेत् ॥१९॥

स्कान्दे तत्रैव श्री-रुक्माङ्गद-मोहिनी-संवादे—

कार्त्तिके तु कृता दीक्षा नॄणां जन्म-निकृन्तनी ।
तस्मात् सर्व-प्रयत्नेन दीक्षां कुर्वीत कार्त्तिके ॥२०॥
श्रीमद्-गोपाल-मन्त्राणां दीक्षायां तु न दुष्यति ।
चैत्र-मासे यद् उक्ता तद् दीक्षा तत्रैव देशिकैः ॥२१॥

एवं निषिद्धे’पि चैत्रे श्री-गोपाल-मन्त्र-दीक्षाम् अनुजानाति—श्रीमद् इति । यद् यस्मात् तेषां श्री-गोपाल-मन्त्राणां दीक्षा चैत्र एव उक्ता श्री-केशवाचार्यादिभिः । तथा च क्रम-दीपिकायां (५.१)—चैत्रे कृत्वैव तन् मासि कर्मेति ॥ त्रैलोक्य-सम्मोहन-तन्त्रे च—

मधु-मासे तु सम्प्राप्ते द्वादश्यां समुपोषितः ।

आपूर्यमाण-पक्षे तु संशुद्धिं भावयेत् ततः ॥ इति ॥२१॥

अथ बार-शुद्धिः

रवौ गुरौ तथा सोमे कर्तव्यं बुध-शुक्रयोः ॥२२॥

अथ नक्षत्र-शुद्धिः

नारद-तन्त्रे—

रोहिणी श्रवणार्द्रा च धनिष्ठा चोत्तरात्रयः ।
पुष्यं शतभिषश् चैव दीक्षा-नक्षत्रम् उच्यते ॥२३॥

क्वचिच् च—

अश्विनी-रोहिणी-स्वाति-विशाखा-हस्तभेषु च ।
ज्येष्ठोत्तरा-त्रयेष्व् एव कुर्यान् मन्त्राभिषेचनम् ॥२४॥

अश्विन्यादि-नक्षत्रेष्व् अत्र पूर्वोक्तेन विरोध-भावे’पि ततो विशेष-लाभेन क्वचिच् चेति प्रयोगः । एवम् अग्रे’पि । मन्त्राभिषेचनं दीक्षाम् ॥२४॥

अथ तिथि-शुद्धिः

सार-सङ्ग्रहे—

द्वितीया पञ्चमी चैव षष्ठी चैव विशेषतः ।
द्वादश्याम् अपि कर्तव्यं त्रयोदश्याम् अथापि च ॥२५॥

क्वचिच् च—

**पूर्णिमा पञ्चमी चैव द्वितीया सप्तमी तथा ।
त्रयोदशी च दशमी प्रशस्ता सर्व-कामदा ॥२६॥ इति ।
एवं शुद्धे दिने शुक्ल-पक्षे शुक्र-गुरूदये ।
सल्-लग्ने चन्द्र-तारानुकूले दीक्षा प्रशस्यते ॥२७॥ \

**शुक्रस्य गुरोश् च बृहस्पतेर् ऊदये सति, न तु अस्त-समये ॥२७॥

अथात्रापवादः (विशेष-विधिः)

रुद्र-यामले—

सत्-तीर्थे’र्क-विधु-ग्रासे तन्तु-दामन-पर्वणोः ।
मन्त्र-दीक्षां प्रकुर्वीत मास-र्क्षादि न शोधयेत् ॥२८॥

तन्तु-पर्वः श्रावणे पवित्रारोपणोत्सवः । दामन-पर्वः चैत्रे दमनकारोपणोत्सवस् तयोः ॥२८॥

सुलग्न-चन्द्र-तारादि-बलम् अत्र सदैव हि ।
लब्धो’त्र मन्तोर् दीर्घायुः-सम्पत्-सन्तति-वर्धनः ॥२९॥

अत्र सत्-तीर्थादौ ॥२९॥

सूर्य-ग्रहण-कालेन समानो नास्ति कश्चन ।
यत्र यद् यत् कृतं सर्वम् अनन्त-फलदं भवेत् ।
न मास-तिथि-वारादि-शोधनं सूर्य-पर्वणि ॥३०॥

सत्-तीर्थादिष्व् अपि मध्ये सूर्य-पर्वणः प्राशस्त्यं दर्शयति सूर्येति सार्धेन ॥३०॥

तत्त्व-सागरे च—

दुर्लभे सद्-गुरूणां च सकृत् सङ्ग उपस्थिते ।
तद्-अनुज्ञा यदा लब्धा स दीक्षावसरो महान् ॥३१॥
ग्रामे वा यदि वारण्ये क्षेत्रे वा दिवसे निशि ।
आगच्छति गुरुर् दैवाद् यदा दीक्षा तदाज्ञया ॥३२॥
यदैवेच्छा तदा दीक्षा गुरोर् आज्ञानुरूपतः ।
न तीर्थं न व्रतं होमो न स्नानं न जप-क्रिया ।
दीक्षायाः करणं किन्तु स्वेच्छा-प्राप्ते तु सद्-गुरौ ॥३३॥

तत्र तत्रापि पुनर् अपवादं दर्शयति—यदैवेति सार्धेन ॥३३॥

अथ मण्डप-निर्माण-विधिः

क्रियावत्यादि-भेदेन भवेद् दीक्षा चतुर्विधा ।
तत्र क्रियावती दीक्षा सङ्क्षेपेणैव लिख्यते ॥३४॥

आदि-शब्देन कलात्मा कलावती वर्णमयी वेधमयी च । तथा च सारदा-तिलके—

चतुर्विधा सा सन्दिष्टा क्रियावत्यादिभेदतः । क्रिया-मयी वर्ण-मयी कलात्मा वेधमय्य् अपि ॥ इति ॥३४॥

भूमिं संस्कृत्य तस्याङ् चार्चयित्वा वास्तु-देवताः ।
सप्त-हस्त-मितं कुर्यान् मण्डपं रम्य-वेदिकम् ॥३५॥

संस्कृत्य तुष-केशाङ्गारास्थि-शर्करादि-दोषापसारेणोपस्कृत्य वास्तु-देवतार्चन-विधिस् तु प्रसिद्ध एव सारदा-तिलकादि-ग्रन्थ-सम्मतो’ग्रे प्रासाद-निर्माणे लेख्यो बाहुल्य-भयाद् अत्र न लिख्यते । सप्तभिर् हस्तैः परिमितम्, केचिच् च षड्भिर् अष्टभिर् द्वादशभिः षोडशभिर् वा हस्तैर् मितं मण्डपम् इच्छन्ति । तथा च वशिष्ट-संहितायाम्—षड्-द्वादशाष्टभिर् हस्तैः षोडशैर् वा समन्ततः इति । रम्या अत्यन्त-दैर्घ्य-ह्रस्वोच्च-नीचत्वादि-राहित्येन शोभना वेदिका यस्मिन् तत्, तां च मण्डप-मध्ये रचयेत् । तथा चोक्तम्—

पञ्च-हस्त-मितां तत्र चतुरस्रां चतुर्मुखाम् । हस्त-मात्रोच्छ्रितां रम्यां मध्ये वेदीं प्रकल्पयेत् ॥ इति ।

वशिष्ट-संहितायां च—

वायव्ये वाथ ऐशान्ये पूजा-वेदीं प्रकल्पयेत् । हस्तोन्नतां च विस्तीर्णां चतुरस्रां समन्ततः ॥ इति ।

अत्र च विरोधो मत-भेदादिना मण्डप-भेदेन परिहरणीयः । मण्डपानुमानेनैव मध्ये वेदीम् उत्तमां रचयेद् इति स्थितिः ॥३५॥

अष्ट-ध्वजं चतुर्धारं क्षीर-पादप-तोरणम् ।
त्रिगुणीकृत-सूत्राढ्यं कुशमालाभिवेष्टितम् ॥३६॥

मण्डपम् एव विशिनष्टि—अष्टेति । अष्ट-दिक्षु अष्टौ ध्वजा यस्मिन् तत्, क्षीर-युक्तैः पादपैः प्लक्षादिभिर् हस्त-मात्रम्भूम्य्-अन्तर्-निखातैस् तोरणं बहिर्-द्वारं यस्मिन् तत् । तथा च मत्स्य-पुराणे—

प्लाक्षं द्वारं भवेत् पूर्वं याम्यम् औडुम्बरं भवेत् । पञ्चाद् अश्वत्थ-घटितं नैयग्रोधं तथोत्तरम् ॥ इति ।

त्रिगुणीकृतेन सूत्रेण आढ्यया युक्तया अभितो वेष्टितम् । सर्वतो निबद्ध-कुश-जातेन त्रिगुणित-सूत्रेण परिवृतम् इत्य् अर्थः । केचिच् च त्रिसूत्र्या कुशमय-रज्जोपवेष्टितम् इत्य् आहुः ॥३६॥

अथ कुण्ड-निर्माण-विधिः

तस्मिंश् च दिशि कौवेर्यां चतुष्कोणं त्रिमेखलम् ।
कुण्डे कुर्याच् चतुर्विंशत्य्-अङ्गुलि-प्रमितं बुधह् ॥३७॥

तस्मिन् मण्डपे । तिस्रो मेखलाः खाताद् बहिर् उपर्य् उपरि यथाविधि निर्मायमाणा वप्रा यस्मिन् तत् ॥३७॥

खातं त्रिमेखलोच्छ्राय-सहितं तावद् आचरेत् ।
तस्मात् खाताद् बहिः कुर्यात् कण्ठम् एकाङ्गुलं ध्रुवम् ॥३८॥

तावच् चतुर्विंशत्य्-अङ्गुलि-परिमितं खातं च तिसृणां मेखलानाम् उच्छ्रायो नवाङ्गुल-परिमितस् तेन सहितम् एव कुर्यात् । न तु भूम्य्-अन्तरे च तावत् सर्वं खातं खनेद् इत्य् अर्थः । एवं च मेखला-त्रयाद् अधः पञ्चदशाङ्गुलानि खनेत् । तेन च मेखला-त्रयोच्छ्रायेण च मिलित्वा चतुर्विंशत्य्-अङ्गुल-गर्त-सम्पत्त्या यथोक्तं कुण्डं सिध्यतीति ज्ञेयम् । केचिच् च मन्यन्ते—भूम्य्-अन्तरे चतुर्विंशत्य्-अङ्गुलि-परिमितं खातं कुर्यात्, तस्माद् उपरि मेखला-त्रयं पृथग् एवेति, यत् खातं मेखला-त्रयाधो-भूम्य्-अन्तः कृतम् अस्ति तस्मात् । ध्रुवम् अवश्यम् एव ॥३८॥

तत्राद्य्-मेखलोच्छ्राय-विस्तारौ चतुर्-अङ्गुलौ ।
त्र्य्-अङ्गुलौ तौ द्वितीयायास् तृतीयाया युगाङ्गुलौ ॥३९॥

तत्र कुण्डे । आद्यायाः प्रथमाया मेखलाया उच्छ्राय उच्चता विस्तारः । द्वितीय-मेखलायास् तु तौ उच्छ्राय-विस्तारौ । युगाङ्गुलौ द्व्य्-अङ्गुलौ । एवम् आसाम् उच्छ्रायो नवाङ्गुल-परिमितः ॥३९॥

योनिं च पश्चिमे भागे मेखला-त्रितयोपरि ।
षड्-अङ्गुलां च विस्तारे दैर्घ्ये च द्वादशाङ्गुलाम् ॥४०॥
एकाङ्गुलां तथोच्छ्राये मध्ये छिद्र-समन्विताम् ।
गदाधराकृतिं कुर्याद् विधिवन् मेखलान्विताम् ॥४१॥

योनिं च कुण्डस्य पश्चिम-भागे कुर्याद् इति द्वाभ्याम् अन्वयः । गजस्य हस्तिनो’धरस्य ओष्ठस्येवाकृतिः । अग्रे सङ्कुचिताधो-विस्तृताधो-विस्तृता अश्वत्थ-दल-सदृशी यस्यास् ताम् । विधिवद् इति—सा च प्राङ्मुखी । तस्याः परितश् चैकाङ्गुला मेखला कार्या । कुण्ड-मध्ये च प्रविष्टं योन्य्-अग्रम् एकाङ्गुलं योनि-मूले च गज-कुम्भ-द्वयाकृति वृत्त-द्वयम् अर्घ्य-पात्रस्यैव कार्यम् इत्य् अर्थः । तथा च वशिष्ट-संहितायां—

गृहस्यैशान-भागे तु मण्डपं कारयेद् बुधः । षड्-द्वादशाष्टभिर् हस्तैः षोडशैर् वा समन्ततः ॥ चतुर्द्वार-समायुक्तं तोरणाद्यैर् अलङ्कृतम् । कुण्डं तन्-मध्य-भागे तु कारयेच् चतुरस्रकम् ॥ वितस्ति-द्वय-खातं यत् कुण्डं स-चतुरङ्गुलम् । विप्राणां क्षत्रियाणां तद्-अङ्गुल-त्रय-संयुतम् ॥ वैश्यानां द्व्य्-अङ्गुलाधिक्यं शूद्राणां हस्त-मात्रकम् । प्रथमा मेखला तत्र द्वादशाङ्गुल-विस्तृता ॥ चतुर्भिर् अङ्गुलैस् तस्याश् चोन्नतत्वं समन्ततः । तस्याश् चोपरि वप्रः स्याच् चतुरङ्गुलम् उन्नतः ॥

वप्रो मेखला—

अष्टाभिर् अङ्गुलैः सम्यग् विस्तीर्णस् तु समन्ततः । तस्योपरि पुनः कार्यो वप्रः सो’पि तृतीयकः ॥ चतुरङ्गुल-विस्तीर्णश् चोन्नतश् च तथा-विधः । योनिश् च पश्चिमे भागे प्राङ्-मुखा मध्य-संस्थिता ॥ षड्-अङ्गुलैश् च विस्तीर्णा चायता द्वादशाङ्गुलैः । पृष्टोनता गजौष्ठ्य् एव सच्-छिद्रा मध्यमोन्नता ॥ कण्ठो’ष्ट-यव-मात्रः स्यात् कुण्डं च कर-मात्रके । कण्ठो यत्नेन कर्तव्यो भुक्ति-मुक्ति-फलेप्सुभिः ।

नाभिर् अप्य् अथवा कुण्डम् एक-मेखलकं भवेत् ॥ इति ॥४०-४१॥

शतार्ध-होमे कुण्डं स्याद् ऊर्ध्व-मुष्टि-करोन्मितम् ।
शत-होमे’रत्नि-मात्रम् सहस्रे पाणिना मितम् ॥४२॥

अपरम् अपि किञ्चिद् विशेषं लिखति—शतार्धेति । सहस्रे होमानां, एवम् अग्रे’पि ॥४२॥

लक्षे चतुर्भिर् हस्तैश् च कोटौ तैर् अष्टभिर् मितम् ।
चतुरस्रं कुण्ड-खातं कुर्वीताधश् च तादृशम् ॥४३॥

तैः हस्तैः । तादृशम् इति यावद् दैर्घ्ये विस्तारे च तावद् अधस्ताद् अपि खातं कुर्याद् इत्य् अर्थः । तच् च मेखलोच्छ्राय-सहितम् एव ज्ञेयम् इति पूर्वं लिखितम् एव ॥४३॥

होमस् त्व् अधिक-सङ्खाकः कुण्डे वै न्यून-सङ्ख्यया ।
कृते कार्यो न च् अन्यून-सङ्ख्याकः सङ्खयाधिके ॥४४॥

तत्रैवापरम् अपि विशेषं लिखति–होमस् त्व् इति । न्यूनता होम-सङ्ख्यातो’ल्पया सङ्ख्यया कृते कुण्डे अधिका कुण्ड-सङ्खातो बहुला सङ्ख्या यस्य स कार्यः ।

न्यून-सङ्ख्यया ह्य् अधिक-सङ्ख्यायाम् अन्तर्भावात् । न च न्यून-सङ्ख्याको होमो’धिक-सङ्ख्याके कुण्डे कार्य इत्य् अर्थः । यद् उक्तं चाभियुक्तैः—

न्यून-सङ्ख्योदिते कुण्डे’धिको होमो विधीयते । अनुक्त-कुण्डो न्यूनस् तु नाधिके शस्यते क्वचित् ॥ इति ॥४४॥

यथाविध्य् एव कर्तव्यं कुण्डं यत्नेन धीमता ।
अन्यथा बहवो दोषा भवेयुर् बहु-दुःखदाः ॥४५॥

यथोक्त-विधि-कुण्ड-निर्माणे गुणं, तद्-उल्लङ्घने च दोषं लिखति—यथेति ॥४५॥

तद् उक्तं तान्त्रिकैः—

एवं लक्षण-संयुक्तं कुण्डम् इष्ट-फल-प्रदम् ।
अनेक-दोषदं कुण्डं यत्र न्यूनाधिकाम् भवेत् ॥४६॥
तस्मात् सम्यक् परीक्ष्यैव कर्तव्यं शुभम् इच्छता ।
हस्त-मात्रं स्थण्डिलं वा सङ्क्षिप्ते होम-कर्मणि ॥४७॥

हारीतेनापि—

विस्ताराधिक्य-हीनत्वे अल्पायुर् जायते ध्रुवम् ।
खाताधिक्ये भवेद् योगी हीने तु धन-सङ्क्षयः ।
कुण्डे वक्रे च सन्तापो मरणं छिन्न-मेखले ॥४८॥
शोकस् तु मेखलोनत्वे तदाधिक्ये पशु-क्षयः ।
भार्या-नाशो योनि-हीने कण्ठ-हीने शुभ-क्षयः ॥४९॥

मेखलाया ऊनत्वे न्यूनतायां सत्याम् । तस्या मेखलाया आधिक्ये ॥४९॥

अङ्गुलि-परिमाणं चोक्तम्—

तिर्यग्-यवोदराण्यष्टाव् ऊर्ध्वा वा ब्रीहयस् त्रयः ।
ज्ञेयम् अङ्गुलि-मानं तु मध्यमा मध्य-पर्वणा ॥५०॥ इति ।
विशेषो’पेक्षितो’न्यत्र स्रक्-स्रुव-प्रक्रियादिकः ।
ज्ञेयो ग्रन्थान्तरात् सो’त्राधिक्य-भीत्या न लिख्यते ॥५१॥

कुण्ड-निर्माणादाव् अपेक्ष्यम् अङ्गुल-मानं च लिखति । मध्यमाया अङ्गुले मध्यं पर्व वा । अन्यत्राप्य् उक्तम्—

आहुर् मन्त्र-विदो’ङ्गुलं वसु-यवैस् तिर्यक् च संस्थापितैस् तालं द्वादशभिश् च तैः परिमितं हस्तो द्वितालः पुनः । तौ द्वौ किष्कुर् इमौ धनुश् च धनुषां क्रोशः सहस्रं भवेत् तौ गव्यूतिम् उदाहरन्ति मुनयस् ताभिस् त्रिभिर् योजनम् ॥ इति ।

वसु-यवैः अष्टभिर् यवैः तैर् अङ्गुलैः, इमौ द्वौ किष्कुः, स्रुक्-स्रुवयोर् होमार्थक-पात्रयोः, प्रक्रिया निर्माणादि-विधिः, तत्-प्रभृतिको’त्र कुण्डादि-निर्माण-करणे यो’न्यो विशेषो’पेक्षितः स्यात्, स च वशिष्ट-संहितादि-ग्रन्थाद् विज्ञातव्यो’भिज्ञैः । आदि-शब्देन अङ्कुरारोपण-विध्य्-आदिः, अत्र ग्रन्थे च आधिक्य-भीत्या ग्रन्थ-विस्तार-भयेन स न लिख्यते । स्रुक्-स्रुव-लक्षणं च वशिष्ट-संहितायाम् उक्तम्—

स्रुवं बाहु-प्रमाणेन होमार्थं विदधीत वै । चतुरस्रं विधायादौ सप्त-पञ्चाङ्गुल-क्रमात् ॥ तृतीयांशेन गर्तं स्यात् तद्-अन्तर्-वृत्त-शोभितम् । स्नात्वा समं तिर्यग् ऊर्ध्वं तद्-अधः शोधयेद् बहिः ॥ चतुर्थांशं चाङ्गुलस्य शेषाच् चार्धं तद्-अन्ततः । रम्यां च मेखलां खाते शिष्टेनार्धेन कारयेत् ॥ कुर्यात् तिर्भाग-विस्तारम् अङ्गुष्ठेन समायुतम् । सार्धम् अङ्गुष्ठकं च स्यात् तद्-अग्रे तु मुखं भवेत् ॥ चतुष्कं शोभनं वृत्तिं द्व्य्-अङ्गुलं विदधीत वै । यथाल्प-पङ्के गोः पादं रुचिरं दृश्यते तथा ॥ पलाश-पत्रे निश्छिद्रे रुचिरे स्रुक्-स्रुवौ मुने । विदव्याद् वाश्वत्थ-पत्रे सङ्क्षिप्ते होम-कर्मणि ॥ इति ।

शारदा-तिलके च—

प्रकल्पयेत् स्रुवं विद्वान् वक्ष्यमाणेन वर्त्मना ।

श्री-पर्णी-शिशपा-क्षीर-शाखिष्व् एकतमं बुधः ॥

गृहीत्वा विभजेद् धरत-मात्रं षट्त्रिंशता पुनः ।

विंशत्य्-अंशैर् भवेत् कुण्डो वेदी तैर् अष्टभिर् भवेत् ॥

एकांशेन मितः कण्ठः सप्त-भाग-मितं मुखम् ।

वेदी-त्र्य्-अंशेन विस्तारः कण्ठस्य परिकीर्तितः ॥

अग्रं कण्ठ-समानं स्यान् मुखे मार्गं प्रकल्पयेत् ।

कनिष्ठाङ्गुलि-मानेन सर्पिषो निर्गमाय च ॥

वेदी-मध्ये विधातव्या भागेनैकेन कर्णिका ।

विदधीत बहिस् तस्या एकांशेन नाभितो’वटः ॥

तस्य खातं त्रिभिर् भागैर् वृत्तम् अर्धांशतो बहिः ।

अंशेनैकेन परितो दलानि परिकल्पयेत् ।

मेखला-मुख-वेद्योः स्यात्परितोर्धांशमानतः ॥

दण्ड-मूलाग्रयोः कुण्डी गुण-वेदांशकैः क्रमात् ।

कुण्डी यम-युगांशे स्याद् दण्डस्यानाह ईरितः ॥

षड्भिर् अंशैः पृष्ठ-भागो वेद्याः कूर्माकृतिर् भवेत् ।

हंसस्य वा हस्तिनो वा पत्रिणो वा मुखं लिखेत् ॥

मुखस्य पृष्ठ-भागे स्यात् सुप्रोक्षं लक्षणं स्रुचः ।

स्रुचश् चतुर्विञ्च्शतिभिर् भागैर् वा रचयेत् स्रुवम् ॥

द्वाविंशत्या दण्डमानम् अंशैर् एतस्य कीर्तितम् ॥

चतुर्विंशतिर् आनाहः कर्षाज्य-ग्राहि तच्-छिरः ।

अंश-द्वयेन निखनेत् पङ्के मृग-पदाकृतिम् ।

दण्ड-मूलाग्रयोः कुण्डी भवेत् कङ्कण-भूषिता ॥ इति ॥५०-५१॥

अथ दीक्षा-मण्डल-विधिः

अथोक्षिते पञ्च-गव्यैर् गन्धाम्भोभिश् च मण्डपे ।
यथाविधि लिखेद् दीक्षा-मण्डलं वेदिकोपरि ॥५२॥

अधुणा मण्डल-विधिं दर्शयति—अथेति त्रिभिः । उक्षिते प्रोक्षिते पञ्च-गव्यैः सुगन्धिभिर् जलैश् च, यथा-विधीति सर्वत्राग्रे’प्य् अनुवर्तनीयं, वेदिकाया मण्डपान्तर् विरचिताया वेद्या उपरि ॥५२॥

तन्-मध्ये चाष्ट-पत्राब्जं बहिर् वृत्त-त्रयं ततः ।
ततो राशींस् ततः पीठं चतुष्पाद-समन्वितम् ॥५३॥
तस्माद् बहिश् चतुर्दिक्षु लिखेद् वीथी-चतुष्टयम् ।
शोभापशोभा-कोणाढ्यं ततो द्वार-चतुष्टयम् ॥५४॥

तस्य मण्डलस्य मध्ये’ष्ट-पत्रं पद्मं लिखेद् इति परेण पूर्वेण वान्वयः । ततस् तस्माद् अब्जाद् बहिर्-वृत्त-त्रयम् । ततो वृत्त-त्रयाद् बहिः राशीन् मेषादीन् द्वादश । तेभ्यो बहिः पाद-चतुष्टय-युक्तं पीठम् आसनम् । तस्माद् बहिश् चतस्रो वीथ्यः । तस्माद् बहिश् चत्वारि द्वाराणि । तद्-उभयतः सर्वत्र शोभाम् । तत्-पार्श्वतश् चोपशोभाम् । तत्-प्रान्तेषु चत्वारि कोणानीत्य् अर्थः । तत्रायं सन्निवेशः । आदौ सप्तदशोर्ध्व-रेखा लिखेत् पश्चात् तद्-उपरि सम-भागेन तावतीरि (?) तिर्यग्-रेखां लिखेत् । एवं षट्-पञ्चाशद् अधिकं कोष्ठानां शतद्वयं भवति । तेषु च मध्ये षोडश कोष्ठाणि मार्जयित्वा तत्र पद्मम् । तद्-बहिर् वृत्त-त्रयं चाङ्कयेत् । तद्-बहिर् एक-पङ्क्ति-स्थानि षट्-त्रिंशत् मार्जयित्वा पीठं तत्रैव कोणेषु तत्र पाद-चतुष्कं च कल्पयेत् । तद्-बहिर् एक-पक्ति-स्थानि चतुश्चत्वारिंशत् मार्जयित्वा चतुर्-दिक्षु चतुर्-वीथीः प्रकल्पयेत् । तद्-बहिश् च पङ्क्ति-द्वय-स्थैर् द्वादशाधिक-शत-कोष्ठैश् चतुर्-दिक्षु चत्वारि द्वाराणि, तद्-उभयतः शोभाम् । तद्-अनन्तरम् उपशोभाम्, तद्-अनन्तरं च चतुष्कोणानीति । तत्राप्य् अयं प्रकारः बाह्य-पङ्क्ति-स्थ-मध्य-कोष्ठ-चतुष्टयं तद्-अभ्यन्तर-पङ्क्ति-स्थ-मध्य-कोष्ठ-द्वयं चेत्य् एवं कोष्ठ-षट्केनैकं द्वारं भवति । द्वारस्य एकस्मिन् भागे तथा पङ्क्ति-स्थम् एकं कोष्ठं तद्-अभ्यन्तर-पङ्क्ति-स्थ-कोष्ठ-त्रयं च चेत्य् एवं कोष्ठ-चतुष्टयेनैका शोभा भवति । तथा बाह्य-पङ्क्तिस्थं कोष्ठ-त्रयं तद्-अभ्यन्तर-पङ्क्ति-स्थम् एकं चेत्य् एवं कोष्ठ-चतुष्टयेनैकोपशोभा भवति । कोष्ठ-चतुष्केण कोणम् इति । एवम् अपर्स्मिन्न् अपि भागे शोभोपशोभा कोणानि ज्ञेयानि । एवम् एवान्य-दिक्-त्रये’पीति मिलित्वा द्वादशाधिक-कोष्ठ-शतं भवतीति दिक् ॥५३-५४॥

अथ दीक्षाङ्ग-पूजा

प्रातः-कृत्यं गुरुः कृत्वा यथा-स्थानं न्यसेत् ततः ।
शङ्खं पूजोपचारांश् च पुरो-लेख्य-प्रकारतः ॥५५॥

अधुना कलस-स्थापन-विधिं दर्शयति—प्रातः-कृत्यम् इत्य् आदिना भोज्यार्पणावधीत्य् अन्तेन । प्रातः-कृत्यं प्रातः-स्नानम् आरभ्यात्मार्पणान्तं भगवद्-अर्चनं यावन् नित्य-कर्म कृत्वा समाप्य । कथम् ? पुरो’ग्रे लेख्य-प्रकारेण तत्-प्रकारश् चाग्रे मुख्य-पूजा-प्रसङ्गे व्यक्तो भावीत्य् अर्थः । एवम् अन्यत्राप्य् अग्रे सर्वत्र बोद्धव्यम् । यथा-स्थानम् इति प्राङ्-मुखो मण्डलस्याग्रे स्वासनोपविष्टो दीक्षा-सङ्कल्पं विधाय मातृकादि-न्यासान् कृत्वा स्व-वामाग्रे शङ्खं पूजोपचारांश् चार्घ्यादि-द्रव्याणि स्व-स्व-पात्रे परिपूर्य यथोत्तरं स्थापयित्वा दक्षिण-भागे च पुष्पादीनि न्यसेद् इत्य् आदिकं ज्ञेयम् । एतच् चाग्रे मुख्य-पूजा-प्रकरणे प्रपञ्च्य लेख्यम् एव ॥५५॥

तत्रादौ कुम्भ-स्थापन-विधिः

गुरून् गणेशं चाभ्यर्च्य पीठ-पूजां विधाय च ।
पद्म-मध्ये न्यसेत् शालींस् तण्डुलांश् च कुशांस् तथा ॥५६॥

गुरून् निज-गुरु-परम-गुर्व्-आदीन् श्री-नारदादींश् चान्यान् अपि पूर्व-सिद्धान् भागवतान् मण्डलान्तः-पीठस्योत्तरे वायव्य-कोणाद् ऐशान-कोण-पर्यन्तम् अभ्यर्च्य, चतुर्थी-नमो’न्तैस् तत्-तन्-नामभिर् गन्धादिना सम्पूज्य प्रणाम-मुद्रां रदर्श्यानुज्ञाम् आदाय गणेशं च तद्-दक्षिण-भागे वीथ्यां यथोक्त-क्रमम् अभ्यर्च्य निर्विद्घ्नतां प्रार्थ्य मण्डल-मध्य-भागे पीठस्य पूजां च लेख्य-विधिनैव कृत्वा पद्मस्य मण्डलान्तर्-लिखितस्य मध्ये कर्णिकोपरि शालीन् धान्यानि एकाढक-परिमितानि । तथा तद्-अष्टमांश-परिमित-शुक्ल-तण्डुलान्य् अपि न्यस्य तद्-उपरि दर्भान् विन्यसेद् इत्य् एवं ग्रन्थान्तरानुसारेण विज्ञेयम् । तत्र च कूर्चाक्षत-युतान् दर्भान् इति ज्ञेयम् । कूर्चो’त्र कुश-त्रय-घटित-ब्रह्म-ग्रन्थिः । कुश-मुष्टिर् इति केचिद् आहुः ॥५६॥

वह्नेर् दश-कला यादि-वर्णाद्याश् च कुशोपरि ।
न्यस्याभ्यर्च्य जपंस् तारं न्यसेत् कुम्भं यथोदितम् ॥५७॥

कुशानाम् उपरि च वह्नेर् दश-कलाः प्रादक्षिण्येन न्यस्य गन्ध-पुष्पादिना ता एव पूजयित्वा तारं प्रणवं जपन् सन् तद्-दर्भोपर्य् एव कलसं स्थापयेत् । कथम्भूताः ? य-कार आदिर् येषां ते वर्णा आद्या आदि-स्थिता यासां ताः य-कारादि-क्ष-कारान्त-दशाक्षर-शिरस्का इत्य् अर्थः । यथोदितं शास्त्रविद्भिर् उक्तम् अनतिक्रम्य, अनेन नवं लोहितम् अव्रणं त्रिगुणीकृत्य कन्या-कर्तित-शोभन-कार्पस-सूत्रैर् अस्त्र-मन्त्रेण त्रिर् वेष्टितम् अगुरु-धूपामोदितम् इत्य् आदिकं बोद्धव्यम् । यथोदितम् इत्य् एतद् अग्रे’प्य् अनुवर्तनीयम् ॥५७॥

ताश् चोक्ताः—

धूम्रार्चिर् उष्मा ज्वलनी ज्वालिनी विस्फुलिङिनी ।
सुश्रीः सुरूपा कपिला हव्य-कव्यवहे अपि ॥५८॥ इति ।

हव्य-वहा कव्य-वहा चेति द्वे । प्रयोगश् चायं—धूमार्चिषे नम इत्य् आदि । केचिच् च दश-दल-कमलं सञ्चिन्त्य तत्-कर्णिकायां मं वह्नि-मण्डलाय नमः इति न्यस्य तद्-दश-दलेषु दश वह्नि-कला न्यसेद् इत्य् आहुः । एवम् एव हृदि द्वादश-दलं भ्रू-मध्ये (कण्ठ-मध्ये) च षोडश-दलं कमलं सञ्चिन्त्य अं अर्क-मण्डलाय नमः, उं सोम-मण्डलाय नमः इति क्रमेण तत्-तत्-कर्णिकयोर् न्यस्य तत्-तद्-दलेष्व् एव सूर्य-सोम-कला न्यसेद् इत्य् आहुः । अन्ये च आसाम् अष्ट-त्रिंशतो वह्न्य्-आदि-कलानाम् अन्यासां च पञ्चाशतः प्रणव-कलानां शुद्ध-जल-पूर्णे शङ्ख एव न्यासम् आहुः ॥५८॥

काद्यैष् ठान्तैर् युता भाद्यैर् डान्तैश् चार्णैर् विलोमगैः ।
सूर्यस्य च कलाः कुम्भे द्वादश न्यस्य पूजयेत् ॥५९॥

अधुना तस्मिन् कुण्डे सूर्य-कलानां न्यासादिकं लिखति—काद्यैर् इति । ककाराद्यैष् ठ-कारान्तैर् अर्णैर् वर्णैर् युता द्वादशापि कलाः । च-कारः समुच्चये । भ-काराद्यैर् ड-कारान्तैर् वर्णैर् अपि युताः । ननु, भ-कारादीनां द्वादश-वर्णानां ड-कारान्तता कथं स्यात् ? क्रमेण क्ष-कारान्तता-प्राप्तेस् तत्राह—विलोमगैः व्युत्क्रम-प्राप्तैः । अयम् अर्थः—अनुलोम-पठित-क-काराद्यैकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकाक्षरेण सहितम् आदौ सूर्य-कलासु संयोज्य न्यासादिकं कुर्याद् इति । प्रयोगश् च कं भं तपन्यै नम इत्य् आदि ॥५९॥

ताश् चोक्ताः—

तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥६०॥ इति ।
कुम्भान्तर् निक्षिपेन् मूल-मन्त्रेण कुसुमं सितम् ।
साक्षतं ससितं स्वर्णं स-रत्नं च कुशांस् तथा ॥६१॥

ततश् चोक्त-प्रकारेणाधार-रूपम् अग्निं कुम्भ-रूपं सूर्यं च विचिन्त्य कुम्भस्य तस्य अन्तर् मध्ये शुक्ल-कुसुमादिकं क्षिपेत् । स-सितं स-शर्करम् । तद् उक्तम्—

प्रोत्तोलयित्वा तन्-मध्ये शुक्ल-पुष्पं सितायुतम् । स्वर्णं रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ।

यच् च मूल-ग्रन्थआर्थाद् अधिकं किञ्चिल् लिख्यते, तत्-पूर्व-गतस्य यथोदितम् इत्य् अस्यानुवर्तनाद् इति ज्ञेयम् ॥६१॥

कुम्भं च विधिना तीर्थाम्बुना शुद्धेन पूरयेत् ।
जले चेन्दुकुला न्यस्य सस्वराः षोडशार्चयेत् ॥६२॥

विधिनेति—पीठ-कुम्भयोर् ऐक्यं विचिन्त्य विलोम-पठितैः क्ष-काराद्यैर् अ-कारान्तैर् मातृकाक्षरैर् वार-त्रयं मूल-मन्त्र-जपेन कुम्भं तं केवल-विमल-तीर्थोदकेन पूरयेत् । अत्र च शक्तौ कर्पुरादि-जलैः गव्य-दुग्धैः पञ्च-गव्यैः सर्वौषधि-जलैः क्षीर-द्रुमादि-क्वार्थ-जलैर् अन्यैर् वा महौषधि-तोयैः पूरयेद् इति । स्वरा अ-काराद्याश् चतुर्दश, साहचर्याद् विसर्गानुस्वारौ चेति षोडश । तत्-सहिता इन्दोः कलाः षोडश कुम्भोदकैर् विधिना क्रमेण न्यस्य पुष्पादिना पूजयेत् ॥६२॥ \

ताश् चोक्ताः—

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः ।
शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा ।
पूर्णा पूर्णामृता च ॥६३॥ इति ।

ज्योत्स्ना चैका श्रीश् चैका, पूर्णा चैका पूर्णामृता चैका इति द्वे प्रयोगश् च । अं अमृतायै नम इत्य् आदि ॥६३॥

शुद्धाम्बु-पूरिते शङ्खे क्षिप्त्वा गन्धाष्टकं कलाः ।
आवाह्य सर्वास् ताः प्राण-प्रतिष्ठाम् आचरेत् क्रमात् ॥६४॥

अथ शङ्ख-पूरण-विधिं दर्शयति—शुद्धेति । पूर्व-श्लोकस्थ-विधिनेत्य् अनुवर्तत एव । अतो हि मूल-मन्त्रेण शुद्धाम्बुना परिपूरिते, शक्तौ च पूर्ववत् कर्पूर-जलादिना पूरित इति ज्ञेयम् । ताः पूर्वोक्ताः । वह्न्य्-अर्केन्दु-कलाः सर्वाः शङ्ख एव क्रमात् पृथक् पृथग् आवाह्य तासां प्राण-प्रतिष्ठां क्रमेणैव कुर्यात् । तत्-तत्-प्राण-प्रतिष्ठा-प्रकारश् च श्री-पुरुषोत्तम-वन-विरचित-क्रम-दीपिका-टीकादि-ग्रन्थान्तरतो विज्ञेयः ॥६४॥

गन्धाष्टकं चोक्तम्—

**उशीरं कुङ्कुमं कुष्ठं बालकं चागुरुर् मुरा ।
जटा-मांसी चन्दनं चेतीष्टं गन्धाष्टकं हरेः ॥६५॥ **इति ।

इत्य् एतत् गन्धाष्टकं हरेः श्री-कृष्णस्य इष्टं प्रियम् ॥६५॥

कैश्चिच् चन्दन-कर्पूरागुरु-कुङ्कुम-रोचनाः ।
कक्कोल-कपि-मांस्यश् च गन्धाष्टकम् इदं मतम् ॥६६॥

कपिः शिह्लकः ॥६६॥ \

तथैवाकारजा वर्णैः कादिभिर् दशभिर् दश ।
उकारजाष्टकाराद्यैः प-काराद्यैर् म-कार-जाः ॥६७॥
चतस्रो बिन्दुजाः षाद्यैश् चतुर्भिर् नाद-जाः कलाः ।
स्वरैः षोडशभिर् युक्ता न्यसेच् छङ्खे च षोडश ॥६८॥

अथ पञ्चाशत् प्रणव-कलानां न्यासं लिखति—तथैवेति । अ-कारजा दश-कलाः क-कारादिभिर् दशभिर् वर्णैर् युक्तास् तस्मिन्न् एव शङ्खे न्यसेद् इति द्वाभ्याम् अन्वयः । दशेति दशभिर् इति चानुवर्तत एव । अत उ-कारजा दश ट-काराद्यैर् दशभिर् वर्णैर् युक्ताः । दशेति—म-कारजाश् च दश प-काराद्यैर् दशभिर् युक्ता इति ज्ञेयम् । ष-काराद्यैश् चतुर्भिर् वर्णैर् युक्ताश् चतस्रो बिन्दुजाः कला न्यसेत् । नादजाः षोडश च कलाः षोडशभिः स्वरैः । अ-कारादिभिर् युक्ता न्यसेत् ॥६७-६८॥

ताश् चोक्ताः—

सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् धृइत्ः स्थिरा ।
स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥६९॥
जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके ।
वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥७०॥
तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया ।
उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥७१॥
निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका परा ॥७२॥
सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा ।
व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥७३॥ इति ।

निवृत्त्यादयो नादजाः षोडश । क्वचिच् च सूक्ष्म-सूक्ष्मेति पाठः । ततश् च सूक्ष्मा एका, सूक्ष्मामृता चैका पूर्णा पूर्णामृता चेतिवत् । केषाञ्चिन् मते च अनन्त इति बहु-वचनान्तं नाद-सम्भवा इत्य् अस्य विशेषणम् । तथा च सारदा-तिलके—अनन्ताः स्वर-युताः इति । ततश् च सूक्ष्मा एका, असूक्ष्मा चैका । अमृता चैकेति तिस्रः ॥७२-७३॥

न्यासं कलानां सर्वासां कुर्याद् एकैकशः क्रमात् ।
नामोच्चार्य चतुर्थान्तं तत्-तद्-वर्णैर् नमो’न्तकम् ॥७४॥

न्यास-प्रकारं लिखति—न्यासम् इति । तैस् तैः प्राग्-उद्दिष्टैर् वर्णैः सह । प्रयोगश् च—कं सृष्ट्यै नमः इत्य् आदि । केचिच् च प्रणवाद्यम् एव सर्वं तत्-तन्-न्यासम् आहुः । तथान्ये च अ-कार-कलानां पाद-द्वय-सन्ध्य्-अग्रेषु, उ-कार-कलानां च कर-द्वय-सन्ध्य्-अग्रेषु, म-कार-कलानां च गुदाद्य्-अङ्गेषु दशसु, बिन्दु-कलानां च कण्ठ-चिबुक-भ्रू-द्वयेषु, नाद-कलानां च तत्-तन्-न्यास-स्थानेषु प्रकार-भेदेन न्यासम् आहुः । तत्-तत्-प्रतिष्ठादि-विधिश् च श्री-पुरुषोत्तम-वन-विरचित-क्रम-दीपिका-टीकादि-ग्रन्थतो विशेषेणावगन्तव्यः ॥७४॥

पूर्वं प्राण-प्रतिष्ठायास् तासाम् आवाहनात् परम् ।
ऋचः पञ्च यथा-स्थानं पठेत् ताश् चार्चयेत् कलाः ॥७५॥
हंशः शुचिषद् इत्य् आदौ प्रतद् विष्णुस् ततः परम् ।
त्र्यम्बकं तत् सवितुर् विष्णुर् योनिम् इति क्रमात् ॥७६॥

किं च, पूर्वम् इति तासाम् अकारजादि-कलानां, यथा-स्थानम् इति । शङ्ख-जले अ-कार-प्रभवानां कलानाम् आवाहनानन्तरं प्राण-प्रतिष्ठायाश् च प्राक् हंसः शुचि-षद् इत्य् ऋचम्। उ-कार-प्रभवाणां च प्रतद् विष्णुर् इति । म-कार-प्रभवाणां च । त्रियम्बकम् इति विष्णु-प्रभवाणां च तत्-सवितुर् इति । नाद-प्रभवाणां च विष्नुर् योनिम् इति । क्रमात् पठेद् इति ज्ञेयम् । क्वचिच् च त्र्यम्बकम् इति पाठः ॥७५-७६॥

तच् च शङ्खोदकं कुम्भे मूल-मन्त्रेण निक्षिपेत् ।
पिदध्यात् तन् मुखं शक्र-वल्ली-चूतादि-पल्लवैः ॥७७॥

तत् कला-न्यास-संस्कृतं च शङ्खस्थम् उदकं कुम्भे प्राक् स्थापिते तस्मिन् अर्पयेत् । तस्य कुम्भस्य मुखं शक्र-वल्ल्या इन्द्र-वल्ल्या आम्रादि-पल्लवैश् चाच्छादयेत् । आदि-शब्दाद् अश्वत्थादि ॥७७॥

शरावेनाथ पुष्पादि-युक्तेनाच्छाद्य तत् पुनः ।
संवेष्ट्य वस्त्र-युग्मेन ततः कुम्भं च मण्डयेत् ॥७८॥

तत् कुम्भ-मुखं पुष्पादि-सहितेन शरावेण पुनर् उपरि आच्छाद्य । आदि-शब्देअन फल-तण्डुलादि । पुनश् च तन्-मुखम् एव वस्त्र-द्वयेन वेष्टयित्वा मण्डयेत् पुष्प-चन्दनादिना॥७८॥

अथ कुम्भे श्री-भगवत्-पूजा-विधिः

तस्मिन्न् आवाह्य कलसे परं तेजो यथा-विधि ।
सकलीकृत्य चाचार्यः पूजयेद् आसनादिभिः ॥७९॥

परं तेजः नराकृति परं ब्रह्म श्री-कृष्णम् । यथा-विधीति मूल-मन्त्रेण श्री-मूर्तिं सञ्चिन्त्य कराभ्यां पुष्पाञ्जलिम् आदाय प्रवहन् नासा-पुटेन हृदयाद् देव-तेजः पुष्पाञ्जलाव् आनीय कलसादि-कल्पित-मूर्ताव् आवाहनं तन्-मन्त्रेण कुर्याद् इत्य् अर्थः । आसनादिभिर् उपचारैः । ते चाग्रे नित्य-पूजा-प्रसङ्गे विस्तार्य लेख्याः ॥७९॥

सकलीकरणं चोक्तम्—

देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिः ॥८०॥
केचिच् चाहुः कर-न्यासौ विनाखिलैः ।
न्यासैस् तत्-तेजसः साङ्गीकरणं सकलीकृतः ॥८१॥

किम् आहुस् तद् एव लिखति—करेत्य् आदि । तस्य ब्रह्म-स्वरूपस्य तेजसः साङ्गीकरणं ध्यानेन साकारतापादनम् ॥८१॥

एवं च कुम्भे तं साङ्गोपाङ्गं सावरणं प्रभुम् ।
अग्रतो लेख्य-विधिनार्चयेद् भोज्यार्पणावधि ॥८२॥

तं नराकृति पर-ब्रह्म-रूपं, प्रभुं श्री-कृष्णम् । एवम् आवाहनादिना नैवेद्य-समर्पणान्तम् अर्चयेत् । कथम् ? अग्रे नित्य-पूजा-प्रसङ्गे मुख्य-स्थाने लेख्येन प्रकारेण अतस् तत्रैव तत्-सर्व-प्रकारो विस्तार्य लेख्यस् तद्-दृष्ट्यात्रापि तथैव पूजा कर्तव्या । अधुना तल्-लिखनेनालम् इत्य् अर्थः ॥८२॥

नैवेद्यार्पणतः पश्चान् मण्डलस्य च सर्वतः ।
स-दीपान् पैष्टिकान् न्यस्येत् स-बीजाङ्कुर-भाजनात् ॥८३॥

बीजाङ्कुर-पात्र-सहितान् सतः उत्तमान् गव्य-वृतादि-साधितान् सम्यग् उल्ल्वलितान् दीपान् मण्डलस्य परितः स्थापयेत् । पैष्टिकान् पिष्टेन यव-चूर्णादिना निर्मितान् पात्रान् इत्य् अर्थः ॥८३॥

अथ दीक्षा-होम-विधिः

ततो दीक्षाङ्ग-होमार्थं कुण्डलस्य च सर्वतः ।
सम्मार्ज्य दर्भ-मार्जन्या यथा-विध्य् उपलेपयेत् ॥८४॥
विकीर्य सर्षपांस् तत्र गव्यैः सम्प्रोक्ष्य पञ्चभिः ।
मध्ये सम्पूजयेद् वास्तु-पुरुषं दिक्षु तत्-पतीन् ॥८५॥

दीक्षा-होम-विधिं लिखति—तत इत्य् आदिना यथोदितम् इत्य् अन्तेन । यथा-विधीति । वायु-बीज-जप्त-दर्भ-मार्जन्यादि-समम् आग्नेयीम् आरभ्य प्रादक्षिण्येन सम्मार्ज्य तथैव वरुण-बीजेन लेपनं कुर्याद् इत्य् अर्थः । यथाविधीत्य् अस्याग्रे’पि सर्वत्रानुवर्तनं कार्यम् । तत्-तत्-प्रकार-विशेषश् च ग्रन्थान्तरतो ज्ञेयः । सर्षपान् अस्त्र-मन्त्र-जप्तान् । तत्र कुण्डे दिक्षु च दशसु तत्-पतीन् दिक्-पालान् ॥८४-८५॥

शोषणादीनि कुण्डस्य कृत्वा प्रोक्ष्य कुशाम्बुभिः ।
उल्लिख्य चास्मिन् योन्य्-आदि-सहितं मण्डलं लिखेत् ॥८६॥

आदि-शब्देन दहन-प्लावन-काठिन्यादीनि, कुश-युक्तैर् अम्बुभिः । उल्लिख्य उल्लेखनं च कृत्वा । अस्मिन् कुण्डे आदि-शब्दाच् चक्र-वृत्तादि ॥८६॥

श्री-बीजं मध्य-योनौ च विलिख्याभुक्ष्य पूजयेत् ।
निधाय तत्र पुष्पादि-विष्टरं साधु कल्पयेत् ॥८७॥

अथाग्नि-संस्कारं लिखिष्यन्न् आदौ तत्-प्रतिष्ठां लिखति—श्री-बीजम् इति त्रिभिः । पुष्पादिना यद्-विष्टरं शय्या तत् । यद् वा, पुष्पादिकम् एव विष्टरत्वेन कल्पयित्वा तत्र मध्ययोनाव् एव निधाय । आदि-शब्देन अक्षत-कूर्चौ ॥८७॥

तत्र लक्ष्मी-मृत्यु-स्नानां विष्णुं चावाह्य पूजयेत् ।
ताम्रादि-पात्रेणानीयाग्रतो’ग्निं स्थापयेच् छुभ्रम् ॥८८॥

शुभम् आनन्दितम् । तथा चोक्तं—

प्रणम्य विधिनैवाग्निम् आहिताग्नेर् गृहाद् अपि । आनीय चादधीतात्र कुशैः प्रज्वाल्य यत्नतः ॥ इति ॥८८॥

गन्धादिनाग्निम् अभ्यर्च्य विष्णोः सक्रीडतः श्रिया ।
रेतो-रूपं विचिन्त्यामुं कुण्डं तारेण चार्चयेत् ॥८९॥

श्रिया सह सङ्क्रीडत आद्य-रसम् अनुभवतः । अमुम् अग्निम् । तारेण प्रणवेन ॥८९॥

वैश्वानरेति मन्त्रेणाच्छाच्याग्निं तं सद्-इन्धनैः ।
चित्-पिङ्गलेति प्रज्वाल्योपतिष्ठेद् अग्निम् इत्य् अमुम् ॥९०॥

एवम् अग्नेः प्रतिष्ठा-विधिं लिखित्वोपस्थान-विधिं लिखति—वैश्वेति । वैश्वानरेति मन्त्रस्याद्याक्षराणि । एवम् अग्रे’पि । सद्भिर् उत्तमैर् विहितैर् उत्तमैर् इन्धनैर् आच्छाद्य । चित्-पिङ्गलेति मन्त्रेण । अग्निम् इति मन्त्रेण अमुम् अग्निम् उपतिष्ठेत् ॥९०॥

जिह्वा न्यस्येत् सप्त त्स्मिन्न् अप्य् अङ्गेष्व् अङ्ग-देवताः ।
षट्सु षट् न्यस्य मूर्तीश् च न्यस्याष्टाभ्यर्चयेच् च ताः ॥९१॥

अथ संस्कारार्थम् एव प्रथमं न्यासादिकं लिखति—जिह्वा इति चतुर्भिः । षट्सु अङ्गेषु मूर्धादिषु षट् अङ्ग-देवता न्यस्य अष्टौ मूर्तीश् च न्यस्य ताश् च जिह्वाङ्ग-देवता-मूर्तीः प्रत्येकं चतुर्थी-नमो’न्तस् तत्-तन्-नामभिः पूजयेत् ॥९१॥

सप्त-जिह्वाश् चोक्ताः—

हिरण्या गगना रक्ता तथा कृष्णा च सुप्रभा ।
बहु-रूपाति-रूपा च सप्त जिह्वा वसोर् इमाः ॥९२॥

वसोर् अग्नेः । केचिच् च पद्मरागाः सुपर्णीत्य् आद्या सप्त जिह्वा अत्र मन्यन्ते ॥९२॥

अथाङ्ग-देवताः

सहस्रार्चिः स्वस्ति-पूर्ण उत्तिष्ठ-पुरुषस् तथा ।
धूम-व्यापी सप्त-जिह्वो धनुर्धर इति स्मृतः ॥९३॥

अष्ट-मूर्तयश् च

जात-वेदाः सप्त-जिह्वो हव्य-वाहन एव च ।
अश्वोदरज-सञ्ज्ञश् च तथा वैश्वानरो’परः ।
कौमार-तेजाश् च तथा विश्वदेव-मुखाह्वयौ ॥९४॥ इति ।

विश्वमुखो देवमुखश् चेति द्वौ । तथा च सारदा-तिलके—

जातवेदाः सप्त-जिह्वो हव्य-वाहन-सञ्ज्ञकह् । अश्वोदरज-सञ्ज्ञो’न्यस् तथा वैश्वानराह्वयः । कौमार-तेजाः स्याद् विश्वमुखो देवमुखस् तथा ॥ इति ॥९४॥

ततो वह्निं परिस्तीर्य संस्कृताज्यं यथा-विधि ।
हुत्वा च व्याहृतीः पश्चात् त्रीन् वारान् जुहुयात् पुनः ॥९५॥
ततो’स्य गर्भधानादीन् विवाहान्तान् यथाक्रमम् ।
संस्कारान् आचरेद् उक्त-मन्त्रेणाष्टाहुतैस् तथा ॥९६॥

परिस्तीर्य कुशाङ्कुरादिना अग्नेः परिस्तरणं कृत्वा, यथाविधीति सर्वत्रैव सम्बन्धनीयम्। ततश् च तापनाभिद्योतनादिनाज्य-संस्कारादि-प्रकारश् च याज्ञिकेषु सुप्रसिद्ध एव । अत्रापेक्षितश् चेत् श्री-पुरुषोत्तम-वन-विरचित-क्रम-दीपिका-टीका-ग्रन्थतो ज्ञेयः । पश्चात् प्रणव-व्याहृतीर् यथाविधि हुत्वा वैश्वानएर्त्य् आदिना अग्नेर् मूल-मन्त्रेण पुनस् त्रिः कृत्यो जुहुयात् च । शास्त्रोक्तेन मन्त्रेण स्वाहान्त-प्रणवेनान्येन च तत्-तत्-कर्म-विषयकेण मन्त्रेण आहुत्य्-अष्टकेन च अस्य वह्नेः संस्कारान् क्रमेण कुर्यात् । तत्-तद्-विधिर् अपि तत्-तद्-ग्रन्थत एव विशेषतः ज्ञेयः ॥९५-९६॥

इत्थं हि संस्कृते वह्नौ पीठम् अभ्यर्च्य तत्र च ।
देवम् आवाह्य गन्धादि-दीपान्त-विधिनार्चयेत् ॥९७॥

तत्र तस्मिन् पीठे, गन्धार्पणम् आरभ्य दीपार्पण-पर्यन्तम् अर्चयेद् इत्य् अर्थः । दीपान्तार्चनं चाग्नि-जिह्वायाः पुनर् भोगापेक्षया । पीठार्चन-देवावाहनादि-विधिश् चाग्रे व्यक्तो भावी ॥९७॥

तं चाग्निं देव-रसनां सङ्कल्प्याष्टोत्तरं बुधः ।
सहस्रं जुहुयात् सर्पिः-शर्करा-पायसैर् युतैः ॥९८॥

तं संस्कृतम् अग्निं च देवस्य भगवतो जिह्वात्वेन सङ्कल्प्य युतैर् मिलितैः ॥९८॥

हुत्वाज्येनाथ महती-व्याहृतीर् विधिना कृती ।
ग्रहर्क्ष-करणादिभ्यो बलिं दद्याद् यथोदितम् ॥९९॥

अथानन्तरं महा-व्याहृतीर् विधिना शास्त्रोक्त-प्रकारेण आज्येन हुत्वा । कृतीति । एवं होमं समाप्यात्मानं शिष्यं च प्रसादाम्बुभिर् अभ्युक्ष्य हुत-भस्मना तिलकं कुर्याद् इत्य् आदिकं कृतित्वं ज्ञेयम् । यथोदितम् इति मण्डल-मध्ये राशि-स्थानेषु तत्-तन्-मन्त्रैस् तत्-तत्-क्रमेण होमावशिष्त-पायस-तृतीयांशेन ग्रहादिभ्यो बलिं दद्यात् । तत्-तत्-प्रकार-विशेषो’पि तथैव ज्ञेयः । आदि-शब्दाच् च मीन-मेषयोर् अन्तराले सिंह-व्याघ्र-वराह-खर-गज-वृषभादीनां बलिर् ज्ञेयः । तथा चतुर्थांशेन मण्डलस्य दक्षिण-भागे गोमयोपलिप्त-प्रदेशे’ग्नये तेजो’धिपतये विष्णु-पार्षदेभ्यश् च सर्वेभ्यो बलिर् देय इत्य् आदि बोद्धव्यम् । तत्र च सर्वे तत्-तन्-मन्त्रा जल-गन्ध-पुष्प-दाने नमो’न्ताः । बलि-दाने स्वाहान्ताः । पुनर् जल-दाने तु तृप्यताम् इत्य् अन्ता अवगन्तव्या इति दिक् । यथोदितम् इत्य् अस्याग्रे’प्य् अनुवर्तनं कार्यम् ॥९९॥

अथ होम-द्रव्यादि-परिमाणम्

**कर्ष-मात्रं घृतं होमे शुक्ति-मात्रं पयः स्मृतम् ।
उक्तानि पञ्च-गव्यानि तत्-समानि मनीषिभिः ॥१००॥
तत्-समं मधु-दुग्धान्नम् अक्ष-मात्रम् उदाहृतम् ।
दधि प्रसृति-मात्रं स्यात् लाजाः स्युः मुष्टि-सम्मिताः ॥१०१॥ **इत्य् आदि ।

अथ नत्वाम्बु-पानार्थं प्रदायाचमनानि च ।
आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत् ॥१०२॥

अथ बलि-दानानन्तरं प्रणामं कृत्वा पानार्थं संस्कृतं जलं पश्चाद् आचमनार्ह्तं च जलं प्रदाय, तत्-तत्-प्रकारो’प्य् अपेक्षितो नित्य-पूजा-प्रसङ्गे व्यक्तो भाव्य् एव । अम्बु-प्रदानानन्तरम् अन्यत् कृत्यं विष्वक्सेनाय नैवेद्यांश-प्रदानं भगवते च गण्डूषाद्य्-अर्पणम् आरभ्यात्मार्पणान्तं सर्वं समापयेत् । तच् चाग्रे नित्य-पूजा-प्रसङ्गे लेख्य-प्रकारेणैवेत्य् अर्थः ॥१०२॥

अथ गुरु-शिष्य-नियमादिः

व्रत-स्थं वाग्-यतं शिष्यं प्रवेश्याथ यथा-विधि ।
तद्-देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम् ॥१०३॥

अथानन्तरम् उपवास-परं मौनिनं शिष्यं पूर्व-शिष्यैः प्रवेश्य । यथाविधीति प्रणामं कारयित्वा प्रोक्षणी-वारिणास्त्र-मन्त्रेण तं सम्प्रोक्ष्य किञ्चित् पञ्च-गव्य-प्राशनं कारयित्वा च तद्-देहे मातृकाङ्गानि मातृकां च न्यस्य ध्यान-पूर्वां मातृकां तस्मै गुरुर् उपदिशेद् इत्य् अर्थः ॥१०३॥

देवं सावरणं कुम्भ-गतं चानुस्मरन् गुरुः ।
जप्त्वाष्टोत्तर-साहस्रं शयीत प्राश्य किञ्चन ॥१०४॥

यथाविएधीत्य् अनुवर्तत एव । अतश् च आवरण-सहितं भगवन्तं तत्-स्थापित-कलस-गतं चिन्तयन् सन् तत्-कलस-जलं स्पृष्ट्वाष्टोत्तर-सहस्रं जप्त्वा पुष्पाञ्जलिं कृत्वाभिवन्द्य पञ्चगव्यादिकं किञ्चित् प्राश्य दीक्षा-सम्बन्धि-क्रिया-काण्डादिकं चानुसन्दधानः पवित्र-शय्यायां शयनं कुर्याद् इत्य् अर्थः ॥१०४॥

दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् ।
गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥१०५॥

शिष्यो’पि मातृकोपदेशं प्राप्य दर्भोपरि कृष्णाजिनोपविष्टः सन् मातृकां गुरुं च ध्यायन् मातृकां निद्रावशान्तं जपन् कृतोपवासः पूर्व-शिरस्क उत्तर-शिरस्को वा शयीतेति ॥१०५॥

इति पूर्व-दिन-कृत्यम् ।

अथ तद्-दिन-कृत्यानि

प्रातः-कृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् ।
हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि ॥१०६॥

प्रातः-कृत्यं प्रातः-स्नानम् आरभ्यात्मार्पणान्तं यावद् अशेषं कर्म समाप्य, कुम्भस्थं भगवन्तं पूर्ववद् अभ्यर्च्य होमं च तत्रैव कृत्वा बलिं च दत्त्वा बलि-दानानन्तरं यद् अन्यत् पानार्थ-जल-समर्पणादि कर्म आत्मार्पणान्तं सर्वम् एव पुनः कुम्भे कुर्याद् इत्य् अर्थः ॥१०६॥

संहार-मुद्रया कृष्णे संयोज्यावृत्ति-देवताः ।
तम् चामृत-मयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत् ॥१०७॥

आवरण-देवता गुरु-गणेश-व्यतिरिक्ता भवति । उद्वासनेन संयोज्य लीना इति विभाव्य तं च देवम् अमृत-मयं निष्कल-पूर्णानन्द-रूपेणावस्थितं ध्यात्वा विलापयेत् लीनत्वेन चिन्तयेत् ॥१०७॥

ध्वज-तोरण-दिक्-कुम्भ-मण्डपाद्य्-अधिदेवताः ।
सर्वा विभाव्य चिद्-रूपाः कुम्भे संयोज्य पूजयेत् ॥१०८॥

ध्वजादीनाम् अधिष्ठातृ-देवताः । आदि-शब्देन मण्डल-कुण्डादि ॥१०८॥

अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् ।
उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत् ॥१०९॥

अत इति गुरुं शिरस्य् उद्वास्याभ्यर्च्य गणेशं चाकाश उद्वास्याभ्यर्च्य यागावशिष्ट-द्रव्येण विष्वक्सेनं चाभ्यर्च्याकाश एवोद्वास्येत्य् अर्थः ॥१०९॥

कृतोपवासः शिष्यो’थ प्रातः-कृत्यं विधाय सः ।
शुक्ल-वस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥११०॥

प्रातः-कृत्यं स्नानाद्यावश्यकं कर्म, स दीक्षार्थी शुक्ले वस्त्रे यस्य तथाभूतः सन्, सुशोभनो वेशो’लङ्कारो यस्य तथाभूतः सन् । होमादि-कृतो विप्रान् गो-भूमि-वस्त्र-धान्यादि-द्रव्येण तोषयेत् ॥११०॥

गुरुं च भगवद्-दृष्ट्या परिक्रम्य प्रणम्य च ।
दत्त्वोक्तां दक्षिणां तस्मै स्व-शरीरं समर्पयेत् ॥१११॥

भगवद्-दृष्ट्या भगवान् एवायं साक्षाद् इत्य् एवं बुद्ध्येत्य् अर्थः । उक्तां शास्त्रेण, तथा हि—स्व-वित्तार्धं चतुर्थांशं दशांशं वाथ शक्तितः इति । एषा च गुरु-सन्तोषणार्था प्रथमा दक्षिणा चान्या मन्त्र-दानानन्तरं लेख्या ॥१११॥

अथ दीक्षाङ्ग-पूजा

तथा च दशम-स्कन्धे [भा।पु। १०.८०.४१]—

**इयद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् ।
यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥११२॥ **

निष्कृतं प्रत्युपकारः । सर्वेषाम् अर्थानाम् आत्मनश् चार्पणम् ॥११२॥

अथाभिषेचन-विधिः

यागालयाद् उत्तरस्याम् आशायां स्नान-मण्डपे ।
पीठे निवेश्य तं शिष्यं कारयेच् छोषणादिकम् ॥११३॥

गुरु-कृत्यं लिखति—यागेत्य् आदि षड्भिः । आशायां दिशि । अत्र चायं विधिर् द्रष्टव्यः—गोमयादिनोपलिप्ते विविक्ते वितानाद्य्-अलङ्कृते मण्डपे पद्म-स्वस्तिकादिकम् उद्धृत्य तत्र पीठं स्थापयित्वा तस्मिंश् च शिष्यं पूर्वाभिमुखम् उपवेश्य स्वयं च तद्-अभिमुखम् उपविश्य शोषण-दहन-प्लावनादि-रूपां भूत-शुद्धिं तस्य कारयेद् इति॥११३॥

पीठ-न्यासान्तम् अखिलं मातृकान्यास-पूर्वकम् ।
न्यासं शिष्य-तनौ कृत्वा पीठ-मन्त्रेण पूजयेत् ॥११४॥

पूजयेत् तद्-देह एव भगवन्तम् उद्दिश्य पुष्पाञ्जलिं कुर्याद् इत्य् अर्थः ॥११४॥

स-दूर्वाक्षत-पुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् ।
निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥११५॥

दूर्वाक्षत-पुष्प-सहितां गोरोचनाम् । तया तिलकं तस्य कारयेद् इति केचिद् आहुः । तस्य शिष्यस्यान्तिके कलसं पूर्व-संस्कृत-कुम्भं विश्वस्त-साधु-जन-हस्तेन नयेत् । आदि-शब्देन विप्राशीर्वाद-मङ्गल-घोष-गीत-कीर्तनादि ॥११५॥

श्री-कृष्णम् अथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा ।
नीराज्य शिष्यं तन्-मूर्ध्नि न्यसेत् तत्-पल्लवादिकम् ॥११६॥

अथानन्तरं हे भगवन् मदीयान्तःकरणे सन्निधि-विशेषं कृत्वा शिशोर् अस्य साधु-गुण-सम्पन्नस्यानुग्रहं कर्तुम् अर्हसीति सम्प्रार्थ्य । स्वयम् उत्तराभिमुखो वाम-हस्तेन कुम्भं धारयन् । कुम्भ-मुख-वर्ति-वस्त्रेण शिष्यं नीराज्य । तत्-कुम्भ-मुखस्थ-पल्लवादिकं शिष्यस्य मस्तके’र्पयेद् इति विधिर् अत्र द्रष्टव्यः ॥११६॥

तद् उक्तम्—

विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् ।
शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥११७॥

तद् एवाभिव्यञ्जयति—विधिवद् इति । सुर-द्रुमान्—कुम्भ-मुख-न्यस्तान् अश्वत्थ-पल्लवान् इत्य् अर्थः ॥११७॥ \

ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूल-मन्त्रतः ।
विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन् ॥११८॥

वार-त्रयं मूल-मन्त्रेण प्रथमं प्रोक्ष्य पशात् कुम्भं तं कराभ्यां गृहीत्वा तज्जलेन शिष्यस्य सर्वाङ्गं पूरयन् मूर्धन्य् अभिषेकं कुर्याद् इत्य् अर्थः । मनून् मन्त्रान् ॥११८॥

अथाभिषेक-मन्त्राः

वशिष्ठ-संहितायाम्—

सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्म-विष्णु-महेश्वराः ।
वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥११९॥
प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते ।
आखण्डलो’ग्निर् भगवान् यमो वै निरृतिस् तथा ॥१२०॥
वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः ।
ब्रह्मणा सहिता ह्य् एते दिक्-पालाः पान्तु वः सदा ॥१२१॥
कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः ।
बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना ॥१२२॥
एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः ।
देव-दानव-गन्धर्वा यक्ष-राक्षस-पन्नगाः ॥१२३॥
ऋषयो मुनयो गावो देव-मातर एव च ।
देव-पत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥१२४॥

दानवा दनोः पुत्राः दैत्या दितेः पुत्रा इति भेदः ॥१२३-१२४॥

अस्त्राणि सर्व-शस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश् च ये ॥१२५॥

अस्त्राणि शरादीनि । शस्त्राणि खड्गादीनि ॥१२५॥

सरितः सागराः शैलास् तीर्थानि जलदा नदाः ।
एते त्वाम् अभिषिञ्चन्तु धर्म-कामार्थ-सिद्धये ॥१२६॥

अथ मन्त्र-कथन-विधिः

परिधायांशुके शिष्य आचान्तो याग-मण्डपे ।
गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे ॥१२७॥

अंशुके वस्त्र-युग्मं, नवं सितं परिधाय स्नान-वासो’स्पृशन् कृताचमनः सन् । भक्त्या नत्वेति—भगवद्-बुद्ध्या बहुशो’ष्टाङ्ग-प्रणामं सपाद-ग्रहणं कृत्वेत्य् अर्थः । गुरोस् तस्य पूर्वाभिमुखम् उपविष्टस्य प्राग् एव कृत-प्राणायाम-षड्-अङ्ग-न्यासादिकस्य दक्षिण-भागे तद्-एक-चित्तो’भिमुखो बद्धाञ्जलिः सन् उपविशेद् इति ज्ञेयम् ॥१२७॥

गुरुः समर्प्य गन्धादीन् पुरुषाहार-सम्मितम् ।
निवेद्य पायसं कृष्णे कुर्यात् पुष्पाञ्जलिं ततः ॥१२८॥

आदि-शब्देन पुष्प-धूपादीन् ॥१२८॥

साम्प्रदायिक-मुद्रादि-भूषितं तं कृताञ्जलिम् ।
पञ्चाङ्ग-प्रमुखैर् न्यासैः कुर्यात् श्री-कृष्ण-साच्-छिशुम् ॥१२९॥

साम्प्रदायिकं गुरु-परम्परा-सिद्धम् । मुद्रा तिलक-मालादि स्वर्णाङ्गुलीयकादि च तेन भूषितम् । शिशुं निज-शिशुत्वेन वर्तमानम् इति स्नेह-विषयता सूचिता । तं शिष्यम् । श्री-कृष्ण-सात् श्री-कृष्णाय समर्पयेत् ॥१२९॥

न्यस्य पाणि-तलं मूर्ध्नि तस्य कर्णे च दक्षिणे ।
ऋष्य्-आदि-युक्तं विधिवन् मन्त्रं वार-त्रयं वदेत् ॥१३०॥
दीर्घ-मन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् ।
गुरु-दैवत-मन्त्रैक्यं शिष्यस् तं भावयन् पठेत् ॥१३१॥

तस्य शिष्यस्य मूर्ध्नि स्व-कर-तलं निधाय । विधिवद् इत्य् अत्रायं विधिर् द्रष्टव्यः । निमीलित-नयनं शिष्यं पटान्तरित उपविष्टो गुरुर् इदं वदेत्—दिव्य-दृष्ट्या भगवन्तम् अवलोकय इति । ततः सुवर्ण-शलाकया तं वक्षसि स्पृशेत् । अथ शिष्यो महा-फलम् एकं दत्त्वा वदेद् इदं—मयि प्रसीद लोचनाभ्यां विलोकय इति । अज्ञान-तिमिरान्धस्य इत्य् आदि पठेच् च । अथोन्मीलित-नयनस्य शिष्यस्य तनौ भगवन्तम् आविर्भूतं भावयन् गन्धादिभिर् अलङ्कृत्य पञ्चोपचारैश् च सम्पूज्य सुमुहूर्ते गीत-वाद्यादि-मङ्गल-घोषेण शिष्यस्य शिरसि कर-तलं न्यस्य ऋषि-च्छेदो देवतादिकम् उपदिश्य मूल-मन्त्रं वार-त्रयं दक्षिण-कर्णे ब्रूयाद् इति । आ सम्यक् ग्रहणं यावत् शिष्येण मन्त्रो यावता धृतो भवेत् तावद् वारं पठेद् इत्य् अर्थः । गुरुश् च देवता च मन्त्रश् च तेषाम् ऐक्यं चिन्तयन् तं मन्त्रम् उच्चारयेत् ॥१३१॥

साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे ।
करे’र्पयेद् वदन् मन्त्रो’यं समो’स्त्व् आवयोर् इति ॥१३२॥

इतः-परम् अयं मन्त्रो मम तव च समो’स्तु तुल्य-फलदो भवत्व् इत्य् एतद् वदन् ॥१३२॥

स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः ।
आगतां भावयेच् छिष्यो धन्यो’स्मीति विशेषतः ॥१३३॥

स्वस्माद् गच्छन्तीं मन्त्रात्मिकां विद्याम् । धन्यो’स्मीति च विशेषतो भावयेत् ॥१३३॥

महा-प्रसादं शिष्याय दत्त्वा तत्-पायसं गुरुः ।
निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥१३४॥
गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् ।
अष्टोत्तर-शतं जप्त्वा समयान् शृणुयात् ततः ॥१३५॥

तद् भगवन्-निवेदितं पुरुषाहार-परिमितं महा-प्रसाद-रूपं पायसं दत्त्वा । शुभाशिषः—आयुर् आरोग्यम् ऐश्वर्यम् अविनाशः स्वयं जयः । सौभाग्यं च—पुनश् चायुर् युष्माकं चास्तु सर्वदेत्य् आद्य् उक्ताः । जप्त्वा आवर्त्य, ततस् तस्माद् गुरोः सकाशात् समयान् आचारान् न्यास-ध्यानादीन् अन्यान् अपि वैष्णव-धर्मान् शृणुयात् ॥१३४-१३५॥

अथ समयाः

श्री-नारद-पञ्चरात्रे—

स्व-मन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि ।
गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥१३६॥
वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः ।
पूजनं च यथा-शक्ति तान् आपन्नांश् च पालयेत् ॥१३७॥

शास्त्रं श्री-भागवतादि पूजादि-सम्बन्धि वा, आपन्नान् आपद्-गतान् सतः ॥१३६-१३७॥

प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् ।
निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा ॥१३८॥

प्राप्तं निर्माल्यादि । अत एवोक्तं तत्रैव प्रायश्चित्त-प्रकरणे—

विष्णोर् निवेदितं प्राप्य निक्षिपेत् यत्र कुत्रचित् । अयोग्यस्याथवा दद्यात् सो’यम् अष्ट-शतं जपेत् ॥ इति ॥१३८॥

सोम-सूर्यान्तर-स्थं च गवाश्वत्थाग्नि-मध्यगम् ।
भावयेद् दैवतं विष्णुं गुरु-विप्र-शरीरगम् ॥१३९॥
यत्र यत्र परिवादो मात्सर्याच् छ्रूयते गुरोः ।
तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम् ॥१४०॥
यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद ।
नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥१४१॥

विभोः भगवतः ॥१४१॥

प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ।
प्रभाते च प्रवासे च स्व-मन्त्रं बहुशः स्मरेत् ॥१४२॥
स्वप्ने वाक्षि-समक्षं वा आश्चर्यम् अतिहर्षदम् ।
अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना ॥१४३॥

पञ्चरात्रान्तरे—

समयांश् च प्रवक्ष्यामि सङ्क्षेपात् पञ्चरात्रकात् ।
न भक्षयेन् मत्स्य-मांसं कूर्म-शूकरकांस् तथा ॥१४४॥

मत्स्य-मांसे निषिद्धे’पि पुनः कूर्मादि-निषेधः कदाचिद् रोगादिना मांसाशिनो’प्य् अवश्यं तद्-वर्जनाय ॥१४४॥

कांस्य-पात्रे न भुञ्जीत न प्लक्ष-बट-पत्रयोः ।
देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् ।
न सोपानत्क-चरणः प्रविशेद् अन्तरं क्वचित् ॥१४५॥

देवागार इत्य् अग्रे’प्य् अनुवर्तत एव । ततश् च अन्तरं देवागाराभ्यन्तरम् इत्य् अर्थः । क्वचित् कदाचिद् अपि । यद् वा, कस्मिंश्चिद् अपि देवागारे ॥१४५॥

एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि ।
जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥१४६॥

विशेषाद् इति अन्य-तिथिभ्यो विशेषेण एकादश्यां तत्रापि विशेषतो जागरणेनार्चयेद् इत्य् अर्थः॥१४६॥

सम्मोहन-तन्त्रे च—

**गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः ।
गोपयेच् च निजं मन्त्रं गोपयेन् निज-मालिकाम् ॥१४७॥ **इति ।

चतुर्-युक्-शत-सङ्ख्येषु प्राग् गुरोः समयेषु च ।
शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते ॥१४८॥

समय-श्रवणे मतान्तरं लिखति—चतुर्युग् इति । प्राक् प्रथमं गुरोः सकाशाद् अङ्गीकृतेष्व् एव ॥१४८॥

तथा च विष्णु-यामले—

गुरुः परीक्षयेच् छिष्यं संवत्सरम् अतन्द्रितः ।
नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम् ॥१४९॥

विहितान् विधेयान् इत्य् अर्थः । चतुर्युक्तशतम् ॥१४९॥

ब्राह्मे मुहूर्त उत्थानं महा-विष्णोः प्रबोधनम् ।
नीराजनं च वाद्येन प्रातः-स्नानं विधानतः ॥१५०॥
विशुद्धाहत-युग्-वस्त्र-धारणं देवतार्चनम् ।
गोपी-चन्दन-मृत्स्नायाः सर्वदा चोर्द्ध्व-पुण्ड्रकम् ॥१५१॥

विशुद्धं च पवित्रम् । आहतं च नूतनम् । पाठान्तरे विशुद्धेन जनेनाहृतम् आनीतं यत् युग्-वस्त्रं वस्त्र-युग्मं तस्य धारणम् । देवताया निजेष्ट-दैवतस्य अर्चनं तर्पणादिना जले पूजनम् । पाठान्तरे’पि स एवार्थः ॥१५१॥

पञ्चायुधानां विधृतिश् चरणामृत-सेवनम् ।
तुलसी-मणि-मालादि-भूषा-धारणम् अन्वहम् ॥१५२॥
शालग्राम-शिला-पूजा प्रतिमासु च भक्तितः ।
निर्माल्य-तुलसी-भक्षस् तुलस्य-वचयो विधेः ॥१५३॥

शालग्राम-शिलायां पूजा प्रतिमासु च पूजयेत्य् एष एको नियमः । निर्माल्य-तुलस्या भक्षः भक्षणं । भूषेति वा पाठः । भूषणत्वेन मस्तकादौ धारणम् इत्य् अर्थः । विधेर् यथाविधीत्य् अर्थः ॥१५३॥

विधिना तान्त्रिकी सन्ध्या शिखा-बन्धो हि कर्मणि ।
विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया ।
महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः ॥१५४॥

शक्त्यां शक्तौ सत्याम् । शक्त्येति पाठे’पि स एवार्थः । एवम् अग्रे’पि ॥१५४॥

विष्णु-भक्त्य्-अविरोधेन नित्य-नैमित्तिकी क्रिया ।
भूत-शुद्ध्य्-आदि-करणं न्यासाः सर्वे यथा-विधि ॥१५५॥

या विष्णु-भक्त्या सह विरुद्धा न भवतीत्य् अर्थः । पाठान्तरं स्पष्टम् ॥१५५॥

नवीन-फल-पुष्पादेर् भक्तितः सन्निवेदनम् ।
तुलसी-पूजनं नित्यं श्री-भागवत-पूजनम् ॥१५६॥
त्रि-कालं विष्णु-पूजा च पुराण-श्रुतिर् अन्वहम् ।
विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम् ॥१५७॥

पुराणानां श्री-भागवतादीनां श्रुतिः श्रवणम् ॥१५६-१५७॥

सर्वेषां पुण्य-कार्याणां स्वामि-दृष्ट्या प्रवर्तनम् ।
गुर्व्-आज्ञा-ग्रहणं तत्र विश्वासो गुरुणोदिते ॥१५८॥

स्वामि-दृष्ट्या भगवद्-आज्ञा-बुद्ध्या । यथा नियुक्तो’स्मि तथा करोमीति बुद्ध्या वा । यद् वा, स्वामीति-बुद्ध्या दास-भावेनेत्य् अर्थः ॥१५८॥

यथा-स्व-मुद्रा-रचनं गीत-नृत्यादि भक्तितः ।
शङ्खादि-ध्वनि-माङ्गल्य-लीलाद्य्-अभिनयो हरेः ।
नित्य-होम-विधानं च बलि-दानं यथा-विधि ॥१५९॥

यथास्वं निज-मन्त्र-देवतानुसारेण मुद्राणां रचनं बन्धनम् । तथा स्वेति पाठे’पि स एवार्थः ॥१५९॥ \

साधूनां स्वागतं पूजा शेष-नैवेद्य-भोजनम् ।
ताम्बूल-शेष-ग्रहणं वैष्णवैः सह सङ्गमः ॥१६०॥
विशिष्ट-धर्म-जिज्ञासा दशम्यादि-दिन-त्रये ।
व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥१६१॥
पर्वयात्रादि-करणं वासराष्टक-सद्-विधिः ।
विष्णोः सर्वर्तु-चर्या च महाराजोपचारतः ॥१६२॥

स्वागतं पूजा चेत्य् एक एव नियमः । विशेषतो धर्मस्य वैष्णव-कृत्यस्य । यद् वा, विशिष्ट-धर्मस्य भगवद्-धर्मस्य जिज्ञासा । दशम्यादि-दिन-त्रयेषु दशम्य्-एकादशी-द्वादशीषु यद्-व्रतं च भक्षणादि-नियमस् तस्मिन् नियमेन निश्चयेन स्वास्थ्यं श्रद्धया स्थैर्यम् इत्य् अर्थः । पर्व जन्माष्टम्यादि-महोत्सवः । यात्रा देवालयादि-गमनं, आदि-शब्देन तुलसी-पुष्प-वाटिकादि-तत्-तद्-विधानं । वासराष्टकंअष्ट महा-द्वादश्यः । तस्य सद्-विधिः सत्कारः । यथा-विधि प्रतिपालनम् इत्य् अर्थः । सर्वेषु ऋतुषु वसन्तादिषु चर्या तत्-तत्-कालीन-पुष्पादिभिः परिचर्या दोलान्दोलनादि-क्रिया वा । सा च महाराजोपचारतः शक्तौ सत्याम् इति ज्ञेयम् ॥१६०-१६२॥

सर्वेषां वैष्णवानां च व्रतानां परिपालनम् ।
गुराव् ईश्वर-भावश् च तुलसी-सङ्ग्रहः सदा ॥१६३॥
शयनाद्य्-उपचारश् च रामादीनां च चिन्तनम् ॥१६४॥

शयनं शय्या । आदि-शब्दात् पाद-संवाहनादिः । तत्-तद्-रूपो वा उपचारह् । रामादीनां चिन्तनं—

रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेन् नित्यं दुःस्वप्नः तस्य नश्यति ॥ इत्य् आद्य् उक्तेः ॥१६४॥

सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना ।
तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥१६५॥

अधुना वर्ज्यान् द्विपञ्चाशन् नियमान् आह—सन्ध्ययोर् इत्य् आदिना सदेत्य् अन्तेन । तथा-शब्देन नैवेति सर्वत्राग्रे’प्य् अनुवर्ण्यते ॥१६५॥

गुर्व्-अग्रे पाद-विस्तार-च्छायाया लङ्घनं गुरोः ।
शक्तौ स्नान-क्रिया-हानिर् देवतार्चन-लोपनम् ॥१६६॥
देवतानां गुरूणां च प्रत्युत्थानाद्य-भावनम् ।
गुरोः पुरस्तात् पाण्डित्यं प्रौढ-पाद-क्रिया तथा ॥१६७॥

प्रत्युत्थानाद्नाम् अभावनम् अकरणम् इत्य् अर्थः । प्रौढ-पाद-लक्षणम् उक्तम्—

आसनारूढ-पादस् तु जानुनोर् वाथ जङ्घयोः । कृतावसक्थिको यस् तु प्रौढ-पादः स उच्यते ॥१६७॥

अमन्त्र-तिलकाचामो नीली-वस्त्र-विधारणम् ।
अभक्तैः सह मैत्र्य्-आदि असच्-छास्त्र-परिग्रहः ।
तुच्छ-सङ्ग-सुखासक्तिर् मद्य-मांस-निषेवणम् ॥१६८॥

मन्त्रं विना तिलकं आचामश् चाचमनम् इति । द्वाभ्याम् एक एव नियमः ॥१६८॥

मादकौषध-सेवा च मसुराद्य्-अन्न-भोजनम् ।
शाकं तुम्बी कलञ्जादि तथाभक्तान्न-सङ्ग्रहः ।
अवैष्णव-व्रतारम्भस् तथा जप्यम् अवैष्णवम् ॥१६९॥

आदि-शब्देन दग्धान्नादि । आदि-शब्दात् वृन्ताकादि । अभक्तान् अवैष्णवात् अन्नस्य सङ्ग्रहः परिग्रहः । सङ्ग्रह-शब्देन क्षुत्-पीडयोदर-भरण-मात्रान्न-ग्रहणम् अनुज्ञातम्॥१६९॥

अभिचारादि-करणं शक्त्या गौणोपचारकम् ।
शोकादि-पारवश्यं च दिग्-विद्धैकादशी-व्रतम् ॥१७०॥
शुक्ला-कृष्णाविभेदश् चासद्-व्यापारो व्रते तथा ।
शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥१७१॥

दिग् दशमी-व्रते असद्-व्यापारः द्यूत-क्रीडादि ॥१७०-१७१॥

द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा ।
तत्र विष्णोर् दिवा-स्नानं श्राद्धं हर्य्-अनिवेदितैः ॥१७२॥

तत्र द्वादश्याम् ॥१७२॥

वृद्धाव् अतुलसी-श्राद्धं तथा श्राद्धम् अवैष्णवम् ।
चरणामृत-पाने’पि शुद्ध्य्-अर्थाचमन-क्रिया ॥१७३॥

वृद्धौ वृद्धि-श्राद्धे । तुलसीं विना श्राद्धम् । अवैष्णवं वैष्णव-जन-रहितं भगवद्-अनिवेदितान्नादि-विहितं वा चरणामृत-पाने सत्य् अपि शुद्ध्य्-अर्थम् इतर-जल-पान-विहिताचमनं यथा कथञ्चित् पूर्वजात-शुद्धेः पावित्र्यायाचमनम् इत्य् अर्थः ॥१७३॥

काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् ।
पूजा-काले’सद्-आलापः कर-वीरादि-पूजनम् ॥१७४॥

कर-वीर-शब्देन गृह-कर-वीरम् । आदि-शब्दाच् चार्कादि ज्ञेयम् । तेन यद् भगवतः पूजनं तत् ॥१७४॥

आयसं धूप-पात्रादि तिर्यक्-पुण्ड्रं प्रमादतः ।
पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चल-चित्ततः ॥१७५॥

प्रमादतो’पि ॥१७५॥

एक-हस्त-प्रणामादि अकाले स्वामि-दर्शनम् ।
पर्युषितादि-दुष्टानाम् अन्नादीनां निवेदनम् ॥१७६॥

आदि-शब्देन एक-प्रदक्षिणादि । यद्यपि एतत् सर्वम् अग्रे लेख्य-तत्-तत्-प्रकरणे विशेषतो’भिव्यक्तं भावि । तथापि सुख-बोधायात्र किञ्चिद् विवृतम् ॥१७६॥

सङ्ख्यां विना मन्त्र-जपस् तथा मन्त्र-प्रकाशनम् ।
सदा शक्त्यां मुख्य-लोपो गौण-काल-परिग्रहः ॥१७७॥

शक्त्यां शक्तौ सत्यम् अपि । कदासक्त्येति-पाठे कुत्सित-कर्माद्य्-अभिनिवेशेन मुख्य-कालस्य लोपः । अत एव गौण-कालस्य परिग्रह इत्य् एक एव नियमः ॥१७७॥ \

**प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा ।
चतुः-शतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः ॥१७८॥
अङ्गीकारे कृते बाढं तन्-नीराजन-पूर्वकम् ।
देव-पूजां कारयित्वा दक्ष-कर्णे मन्त्रं जपेत् ॥१७९॥ **इति ।

बाढम् अङ्गीकारे शिष्येण तेषां स्वीकारे कृते सति, तस्य शिष्यस्य नीराजन-पूर्वकम् ॥१७९॥ \

ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् ।
तत्-पाद-पङ्कजं शिष्यः प्रतिष्ठाप्य स्व-मूर्धनि ॥१८०॥

तस्य गुरोः पाद-पङ्कजं स्वीय-मूर्धनि प्रतिष्ठाप्य चिरं भक्त्या निधाय ॥१८०॥

अथ न्यासान् गुरुः स्वस्मिन् कृत्वान्तर्-यजनं तथा ।
साष्टं सहस्रं तन्-मन्त्रं स्व-शक्त्य्-अक्षतये जपेत् ॥१८१॥
शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः ।
दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् सम्पूज्य भोजयेत् ॥१८२॥

तम् उपदिष्टं मन्त्रम् अष्टोत्तर-सहस्र-वारान् जपेत् । स्व-शक्तेः अक्षतये अहानये स्व-सामर्थ्य-रक्षणार्थम् इत्य् अर्थः । तत् दीक्षार्थानीतं मण्डप-स्थितं कुम्भादिकं सर्वम् एव द्रव्यम् । अन्यच् च मन्त्र-दक्षिणादि-रूपम् । तद् उक्तं—

प्रकारान्तरम् आलम्ब्य गुरुं यत्नेन तोषयेत् । गुरु-पुत्र-कलत्रादींस् तोषयेत् कनकादिभिः ॥ इति ।

विप्रान् ऋत्विजो’न्यान् सद्-ब्राह्मणान् शक्त्या सम्यक् पूजयित्वा ॥१८१-१८२॥

श्री-गुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः ।
तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥१८३॥
इति दीक्षा-विधानेन यो मन्त्रं लभते गुरोः ।
स भाग्यवान् चिरञ्जीवी कृत-कृत्यश् च जायते ॥१८४॥

समेधितः सम्यग् वर्धितः । इति अनेनोक्तेन । गुरोः सकाशात् ॥१८३-१८४॥

तथा च सम्मोहन-तन्त्रे श्री-शिवोमा-संवादे—

एवं यः कुरुते मर्त्यः करे तस्य विभूतयः ।
अतः परं महा-भागे नान्यत् कर्मास्ति भूतले ।
यस्याचरण-मात्रेण साक्षात् कृष्णः प्रसीदति ॥१८५॥

एवम् उक्त-प्रकारेण, हे महाभागे देवि ॥१८५॥

प्रायः प्रपञ्च-सारादाव् उक्तो’यं तान्त्रिको विधिः ।
दीक्षाया लिख्यते दिव्यो विधिः पौराणिको’धुना ॥१८६॥

अयं लिखितो यो दीक्षा-विधिः स प्रायस् तान्त्रिकः । यतः प्रपञ्चसारादौ तन्त्रोक्तानुसारिणि ग्रन्थे उक्तः । तथा च क्रम-दीपिकायाम्—प्रपञ्चसारादौ-प्रथितात्र दीक्षेत्य् आदि । दिव्य इति पुराणानां माहात्म्य-विशेषात् । तथा च पाद्मे श्री-शिव-पार्वती-संवादे—वेदार्थाद् अधिकं मान्यं पुराणार्थं च भामिनि इति । यद् वा, निज-प्रियतमां श्री-धरणीं प्रति पृथ्वी-समुद्धारकेण श्री-भगवता साक्षाद्-उक्तत्वात् ॥१८६॥

अथ वराह-पुराणोक्त-दीक्षा-विधिः
इदानीं शृणु मे देवि पञ्च-पातक-नाशनम् ।
यजनं देव-देवस्य विष्णोः पुत्र-वसु-प्रदम् ॥१८७॥
इह जन्मनि दारिद्र्य-व्याधि-कुष्ठादि-पीडितः ।
अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि ।
तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम् ॥१८८॥

हे देवि धरणि यजनं पूजा-विधिम् । यद् यदि स्वयम् एवायं भगवान् विष्णुस् तथापि परम-विनयादिना आत्मानं साक्षाद् अनिर्दिशन् विष्णोर् इत्य् उक्तवान् । एवम् अग्रे’पि बोद्धव्यम् ॥१८७-१८८॥

दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् ।
नारायणं परं देवं यः पश्यति विधानतः ॥१८९॥

कुतो लक्ष्म्य्-आदिकं भवति ? तदाह—दृष्ट्वेति द्वाभ्याम् । मण्डले सर्वतोभद्रादौ दर्शन-प्रकारम् एवाह—नारायणम् इति । नवनाभे चक्रे षोडशारे’ष्ट-पत्रं वेत्य् अर्थः । एतच् चाग्रे व्यक्तं भावि । आचार्योपदिष्टं मन्त्र-मूर्तिं देवं यः पश्यति मन्त्रं सम्यक् जानाति । तस्य लक्स्ंयादिकं सद्य एव भवतीत्य् अर्थः ॥१८९-१९०॥

पूजितं नव-नाभे तु षोडशाब्ज-दले तथा ।
आचार्य-दर्शितं देवं मन्त्र-मूर्तिम् अयोनिजम् ॥१९०॥
कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः ।
सर्वासु च यजेद् देवं द्वादशीषु विधानतः ॥१९१॥
सङ्क्रान्तौ च महाभागे चन्द्र-सूर्य-ग्रहे’पि वा ।
यः पश्यति हरिं देवं पूजितं गुरुणा शुभे ।
तस्य सद्यो भवेत् तुष्टिः पाप-ध्वंसो’प्य् अशेषतः ॥१९२॥

दीक्षा-कालम् आह—कार्त्तिक इति सार्धेन । शुद्धायां शुक्लायाम् । सर्वास्व् इति मार्गशीर्ष्-माघादि-चतुष्टय श्रावणाश्विनानां शुक्ला-द्वादशीषु चेति ग्रन्थान्तरानुसारतो ज्ञेयम् । तथा सङ्क्रान्ताव् इति । तत्-तन्-मास-सङ्कृआन्तिष्व् अपीत्य् अर्थः । एवम् अग्रे’पि बोद्धव्यम् ॥१९१-१९२॥

स सामान्यो हि देवानां भवतीति न संशयः ॥१९३॥

देवानां ब्रह्मादीनां सामान्यः सदृश इत्य् अर्थः ॥१९३॥

ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परीक्षणम् ।
संवत्सरं गुरुः कुर्याज् जाति-शौच-क्रियादिभिः ॥१९४॥

दीक्षाधिकारिण आह—ब्राह्मणेति सार्ध-द्वयेन । भक्तानाम् इति पाठे’पि सेवकानां शूद्राणाम् इत्य् अर्थः ॥१९४॥

उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् ।
ते’पि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् ।
संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम् ॥१९५॥

उपसन्नान् निकटागतान् प्रति, ततः संवत्सरानन्तरम् एव, जात्यादि ज्ञात्वा दीक्षाया योग्या अयोग्या वेति मनसा विचारयेत् । यद् वा, सहवासादिना निकट-वर्तिनः सतस् तान् ज्ञात्वा व्यवहारादिना परीक्ष्य हृदयेन परीक्ष्य हृदयेन बुद्ध्या अवधारयेत्, दीक्षायोग्यत्वेन निश्चिनुयात् । यद् वा, उपसन्नान् कृतोपसत्तिकान् दीक्षाधिकारिण इति दृढं जानीयाद् इत्य् अर्थः । उपपन्नान् इति पाठे’पि तथैवार्थः । भक्तिमतो भक्ति-युक्तान् आत्मनः स्वान् प्रति परमेश्वरं गुरुं ज्ञात्वा । यद् वा, षष्ठ्य्-अन्तम् एव पद-द्वयं । ततश् च भक्तिमत इत्य् आत्मनो विशेषणं । यद् वा, भक्त्मन्तः प्रीति-युक्ताः सन्तः । गुरुम् आत्मनः परमेश्वरं ज्ञात्वा । ततश् च भक्तिमत इत्य् आर्षम् ॥१९५॥

संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥१९६॥

तेषु यः परीक्षितः शिष्यः स प्रसादयेत् ॥१९६॥

भगवंस् त्वत्-प्रसादेन संसारार्णव-तारणम् ।
इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन ॥१९७॥

तत्-प्रकारम् एवाह—भगवन्न् इति । इच्छाम इति बहुत्वं निज-पुत्राद्य्-अपेक्षया ॥१९७॥

एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः ।
अभ्यर्च्य तद्-अनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥१९८॥
क्षीर-वृक्ष-समुद्भूतं मन्त्रितं परमेष्ठिना ।
भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥१९९॥

अभ्यर्थ्य प्रार्थ्य अभ्यर्च्य धनादिना सम्मान्य तेन गुरुणानुज्ञातः सन्, कार्तिकस्य दशम्यां क्षीर-युक्त-वृक्षोद्भूतां दन्त-काष्ठं परमेष्ठिना मूल-मन्त्रेण मन्त्रितं सायं सन्ध्यानन्तरं भक्षयित्वा देवालये भूमै शयीत ॥१९८-१९९॥

स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः ।
ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः ।
एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत् ॥२००॥

तद्वद् इति । स्वप्नानुसारेणेत्य् अर्थः । तद् उक्तम्—

क्रूर-स्वप्ने’धमा दीक्षादुष्त-स्वप्ने तु मध्यमा । उत्तम-स्वप्न-पूर्वा तु दीक्षा सर्वोत्तमा मता ॥ इति ॥२००॥

गुरुश् च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् ।
लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः ॥२०१॥
षोडशारं लिखेच् चक्रं नव-नाभम् अथापि वा ।
अष्ट-पत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः ॥२०२॥

कल्पितायां संस्कृतायां, वर्तयेत् विरचयेत्, विधानत इति । पुण्याहं स्वस्त्य्-आदिकं वाचयित्वेत्य् आदिकं बोद्धव्यम् । एवम् अग्रे’प्य् अस्य पदस्यानुवर्तनाद् विज्ञेयम् इति दिक् । पञ्च-वर्णेन रजसा यथा-शोभनं लिखेत् ॥२०१-२०२॥

नेत्र-बन्धं प्रकुर्वीत सित-वस्त्रेण यत्नतः ।
वर्णानुक्रमतः शिष्यान् पुर्ष्प-हस्तान् प्रवेशयेत् ॥२०३॥

शुक्ल-वस्त्रेण नेत्र-बन्धं शिष्याणां कुर्यात् । शिष्याणां प्रवेशनं च मण्डलान्तः-स्थापित-कलसेषु भगवतैन्द्रादीनां च पूजानन्तरम् एव ज्ञेयम् ॥२०३॥

नव-नाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः ।
तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत् ॥२०४॥

वर्णकैः पञ्च-वर्णैश् चूर्णादिभिः । इन्द्रम् ऐन्द्र्यां पूजयेद् इत्य् अत्र दिङ्-मण्डले च विन्यस्येत्य् आदि-वक्ष्यमाण-वचनतो ग्रन्थानुसारतश् चैवं विधानं ज्ञेयम् । नव-नाभ-मण्डले प्रागादि-क्रमेणाष्टषु दिक्ष्व् अष्ट-कलसान् । मध्ये चैकम् इत्य् एवं नव-कलसान् एकाकारानव्रणानुदध्य्-अक्षत-वस्त्र-युग्म-पुष्प-माला-गन्धालङ्कृतान् अन्तः-प्रक्षिप्त-पञ्च-पल्लव-सप्त-मृत्तिका-तीर्थोदक-परिपूरितान् उपरि-स्थापित-यव-शाल्य्-अन्यतर-पूर्ण-स-दीप-शराव-मुखान् यवानां ब्रीहीणां चोपरि विन्यस्यादौ मध्य-कलसे मूल-मन्त्रेण भगवन्तम् आवाहनादि-गन्ध-पुष्पान्तैर् उपचारैः सम्पूज्य पश्चाद् इन्द्रं पूर्वस्यां दिशि अग्न्य्-आदींश् च स्व-स्व-दिशि क्रमेण पूजयेद् इति ॥२०४॥

लोक-पालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः ।
यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् ।
वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥२०५॥

द्विजो गुरुः । न्यसेद् इति । तत्र स्थापित-कलसे आवाह्य पूजयेद् इत्य् अर्थः ॥२०५॥

धनदं चोत्तरे न्यस्य रुद्रम् ऐशान-गोचरे ।
सम्पूज्यैवं विधानेन दिक्-पत्रेषु विशेषतः ।
अधः-पत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम् ॥२०६॥

सम्पूज्य पूजयित्वा, विधानेनेत्य् उक्तेर् एवं ज्ञेयम्—व्याहृतिभिः शुक्लाक्षतैः इन्द्रागच्छेत्य् आदि-प्रयोगेनावाह्य प्रणवादिना चतुर्थी-नमो’न्तेन तत्-तन्-नाम-मन्त्रेण स-शक्तिकान् स-परिवारान् सायुधान् सवाहनान् स-गन्ध-पुष्पाद्यैर् उपचारैः सम्पूज्येति विधानेनेति पदम् अग्रे’प्य् अनुवर्तनीयम् ॥२०६॥

पूर्व-पत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा ।
अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा ।
पूजयेद् वासुदेवं तु सर्व-पातक-शान्तिदम् ॥२०७॥

ततो मध्यम-कलसस्यैव परितः पूर्व-दक्षिण-पश्चिमोत्तर-पत्रेषु श्री-सङ्कर्षण-प्रद्युम्नानिरुद्ध-वासुदेवान् क्रमेण तथैव पूजयेद् इत्य् आह—पूर्वेति सार्धेन ॥२०७॥

ऐशान्यां विन्यसेच् छङ्खम् आग्नेय्यां चक्रम् एव च ।
सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च ॥२०८॥
नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा ।
वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान् ॥२०९॥
धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् ।
श्रीवत्सं कौस्तुभं चैव देवस्य पुरतो’र्चयेत् ॥२१०॥
एवं पूज्य यथा-न्यायं देवदेवं जनार्दनम् ।
दिङ्-मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः ।
वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥२११॥

यथा-न्यायं यथोचितं पूज्य सम्पूज्य । तच् च क्रम-दीपिकाद्य्-अनुसारेण द्रष्टव्यम् ॥२११॥

स्नापयेन् मुक्ति-कामांस् तु वैष्णवेन घटेन तु ।
श्री-कामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु ॥२१२॥
जय-प्रताप-कामांस् तु आग्नेयेनाभिषेचयेत् ।
मृत्युञ्जय-विधानेन याम्येन स्नापनं तथा ॥२१३॥
दुष्ट-प्रध्वंस्नायालं नैरृतेन विधीयते ।
शान्तये वारुण्येनाथ पाप-नाशाय वायवम् ॥२१४॥
द्रव्य-सम्पत्ति-कामस्य कौवरेण विधीयते ।
रौद्रेण ज्ञान-हेतुस् तु लोक-पाल-घटास् त्व् इमे ॥२१५॥

ततो धूप-दीपाद्यैर् अशेषैर् उपचारैर् भगवन्तम् इन्द्रादींश् च पूजयित्वा शिष्याय मण्डलं दर्शयित्वा पुष्पाञ्जलि-पूर्वकं प्रणामं कारयित्वा वैष्णवादिभिर् नवभिर् एव कलसैः शिष्यं स्नापयेद् इति ज्ञेयम् । तत्र च कलस-भेदेन फल-भेदम् आह—स्नापयेद् इति चतुर्भिः ॥२१२-२१५॥

एकैकेन नरः स्नातः सर्व-पाप-वर्जितः ।
भवेद् अव्याहत-ज्ञानः श्रीमांश् च पुरुषः सदा ॥२१६॥
किं पुनर् नवभिः स्नातो नरः पातक-वर्जितः ।
जायते विष्णु-सदृशः सद्यो राजाथवा पुनः ॥२१७॥

पुनश् चैकैकेन स्नानस्य फल-विशेषं समुचितैश् च तैर् महा-फलम् आह—एकैकेनेति द्वाभ्याम् ॥२१६-२१७॥

अथवा दिक्षु सर्वासु यथा-सङ्ख्येन लोकपान् ।
पूजयेत् स्व-स्व-नाम्ना तु षड्-भिन्नेन विधानतः ॥२१८॥

पूजायां पक्षान्तरम् आह—अथवेति । स्व-स्व-नाम्ना स्व-स्व-नाम-मन्त्रेण हृदयादि-क्रमेण षड्भिन्नेन इन्द्रादीनां षड्-अङ्ग-पूजा कार्येत्य् अर्थः ॥२१८॥

एवं सम्पूज्य देवांस् तु लोक-पालान् प्रसन्न-धीः ।
पश्चात् परीक्षितान् शिष्यान् बद्ध-नेत्रान् प्रवेशयेत् ॥२१९॥
आग्नेय-धारणा-दग्धान् वायुना विधूतांस् ततः ।
सोमेनाप्य् आयितान् पश्चाच् छ्रावयेन् नियमान् बुधः ॥२२०॥

अथ परिहित-शुक्ल-नव-वस्त्रं तादृग्-उत्तरीयम् आचान्तम् अलङ्कृतं शुक्ल-वस्त्र-बन्ध-नेत्रं शिष्यं मण्डलं प्रदक्षिणेन प्रवेश्य प्राङ्-मुखम् उपविष्टं तं वाय्व्-अग्नि-वरुण-बीजैः कृत-भूत-शुद्धिं प्रणतं प्रह्वी-भूतं समयान् श्रावयेद् इत्य् आह—एवम् इति द्वाभ्याम् । आग्नेय्या धारणया दग्धान् इति तद्-दग्धत्वं ध्यानेनैवेति ज्ञेयम् । एवम् अग्रे’पि ॥२१९-२२०॥

न निन्देद् अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च ।
रुद्रम् आदियम् अग्निं च लोक-पालान् ग्रहांस् तथा ।
वन्देत वैष्णवं चापि पुरुषं पूर्व-दीक्षितम् ॥२२१॥

समयान् एवाह—न निन्देद् इति सार्धेन । पूर्व-दीक्षितं दीक्षा-क्रमेण स्वस्मात् ज्येष्ठम् इत्य् अर्थः । ब्राह्मणादीनाम् एतेषां वन्दनादिना सम्माननैव कार्या, न तु कदाचिद् अपि निन्देद् इत्य् अर्थः ॥२२१॥

एवं तु समयान् श्राव्य पश्चाद् धोमं तु कारयेत् ।
तत्त्वानि शिष्य-देहेषु विन्यस्य च विशोधयेत् ॥२२२॥
ओं नमो भगवते विष्णवे सर्व-रूपिणे हुं स्वाहा ॥२२३॥
षोडशाक्षर-मन्त्रेण होमयेज् ज्वलितानलः ।
गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत् ॥२२४॥
त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ ।
ततो’पनीय दृग्-बन्धं पुरः शिष्यं निवेश्य च ।
प्रायः पूर्वोक्त-विधिना मन्त्रं तस्मै गुरुर् दिशेत् ॥२२५॥

श्राव्य श्रावयित्वा शिष्येण सहर्षं तद्-अङ्गीकारे कृते पश्चाद् धोमं कुर्यात् । तत्त्वानि विन्यस्य क्रम-दीपिकाद् युक्त-तत्त्व-न्यासादिकं कृत्वा तद्-देहात् विशोधयेत् । होम-विधिम् आह—षोडशेति सार्धेन होमयेत् होमं कुर्यात् । तत्-प्रकारम् एव शिष्यं विशिष्य दर्शयति—गर्भेति । आदि-शब्देन पुंसवन-सीमन्तोन्नयन-जातकर्म-नामकरणान्न-प्राशन-चौडोपनयन-स्नान-विवाहाख्याः संस्काराः । अत्र चायं प्रकारो ग्रन्थान्तरानुसारेण द्रष्टव्यः । षोडशार-चक्रे’ष्टदल-कमले वा पीठ-पूजां कृत्वावाहनादिभिर् उपचारैर् भगवन्तम् अभ्यर्च्य स्व-गृह्योक्त-विधिनाग्नि-स्थापनादि-कर्म पूर्व-लिखितवद्-विधायात्रोक्तेन षोडशाक्षर-मन्त्रेणाग्नेर् गर्भाधानादि-संस्कारान् कुर्यात् । तत्र च प्रत्येक-संस्कारम् आहुति-त्रयं जुहुयाद् इति । किं च, अनन्तरम् आज्य-भागान्ते मूलमन्त्रेणाग्नौ देवम् आवाह्य गन्धादिभिर् उपचारैर् अभ्यर्च्य षोडशाक्षर-मन्त्रेणाष्टोत्तरं सहस्रं शतं वा संस्कृत्याज्येन जुहुयात् । ततः स्विष्ट-कृतादि-होम-शेषं समाप्य पूर्णाहुतिं दत्त्वा वैश्वानरं प्रणवादि-नमो’न्त-मन्त्रेण गन्धादिभिर् उपचारैर् अभ्यर्च्य शिष्यं प्रणमय्य मण्डलस्यैशान-दिशि पुष्पादि-भूषितायां भुवि रचितं भद्रपीठम् आनीयास्त्र-मन्त्राभिमन्त्रितैः पुष्पैः सम्भाव्य पाश-निराकरण-बुद्ध्या नेत्र-बन्धन-वस्त्रम् अपनीय ज्ञान-रूप-हैम-शलाकया नयने उन्मील्य पुष्पाञ्जलिं ग्राहयित्वा—

अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चाक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥ इति ।

गुरु-पादयोर् दत्त-पुष्पाञ्जलिं भद्र-पीठे पुरत उपविष्टो गुरुः स्वन्यस्तासने तम् उपवेश्य शक्त्य्-उच्चलन-मार्गेण निज-मध्यम-नाडीं तन्-मध्यम-नाड्यां समाविशन्तीं विचिन्त्य शक्तिं च तन् नांशिकतया तद्-धृदये समुल्लसन्तीम्परिभाव्य स्व-हृदयाच् च पर-विद्यां वर्ण-रूपेण चिद्-आनन्द-स्फुलिङ्ग-मालाम् इव तद्-वदनं प्रविशन्तीं ध्यायेत् । ततश् च मूल-मन्त्रं त्रिः शिष्य-कर्णे श्रावयेत् । पश्चाद् अर्घ्य-पात्र-जलेन अमुक-र्षिम् अमुक-छन्दस्कम् अमुक-देवताकम् मौक-नाम्ने मद्-अंशाय तुभ्यम् अहं सम्प्रददे । अयं चावयोः समान-फल-प्रदो भवत्व् इति तद्-धस्ते निक्षिपेत् । तथैव शिष्यो’पि गुरु-देवता-मन्त्रैक्यं भावयन् यथा-शक्ति जपेद् इति ॥२२२-२२५॥

होमान्ते दीक्षितः पश्चाद् दापयेद् गुरु-दक्षिणाम् ।
हस्त्य्-अश्व-रत्न-कटकं हेम-ग्रामादिकं नृपः ॥२२६॥
दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा ।
दापयेद् इतरो युग्मं सहिरण्यं यथा-विधि ॥२२७॥

ततश् च पुण्याहं वाचयित्वा गुरवे दक्षिणां दद्याद् इत्य् आह—होमान्त इति । दीक्षितः गृहीत-दीक्षाकः सन्, नृप इति राज-तुल्य-शक्तिश् चेद् इत्य् अर्थः । युग्मं वस्त्र-द्वयम्, तत्-पश्चाच् चैवम् अत्र विधानं ज्ञेयम् । अद्य-प्रभृति यावज्-जीवं श्री-विष्णु-प्रीति-कामः प्रत्यहं भगवन्तं श्री-कृष्णं पूजयिष्य इति सङ्कल्प्य देवं गुरूपदिष्ट-मार्गेण पूजयित्वा सर्व-देवता उद्वास्य ब्राह्मणान् भोजयित्वा दीक्षोपकरण-जातं गुरवे निवेद्य स्वजनान् अपि सम्मानयेद् इति ॥२२६-२२७॥

एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे ।
तद् अशक्यं तु गदितुम् अपि वर्ष-शतैर् अपि ॥२२८॥

दीक्षा-फलम् आह—एवम् इत्य् आदिना श्रुतिर् इत्य् अन्तेन ॥२२८॥

दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि ।
तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥२२९॥
जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धु-सागरे ।
देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥२३०॥
ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् ।
तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥२३१॥
देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च ।
कदा मे भारते वर्षे जन्म स्याद् भूत-धारिणि ॥२३२॥
दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा ।
वाराहं षोडशात्मानं युक्ता देहे कदाचन ।
पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत् ॥२३३॥

जय-माधव-शब्दाढ्य-मानसोल्लास-पुस्तकात् ।

दीक्षा-पद्धतिम् आलोच्य टीकेयं लिखिता मया ॥

वाराहं वराह-पुराणं, षोडशानां श्री-भागवत-व्यतिरिक्त-पद्म-पुराणादीनाम्, आत्मानम् आश्रयं प्रवर्तकं वा प्रथमं श्री-व्यासतस् तस्यैवाविर्भाव-प्रसिद्धेः । देहे युक्त्वा श्रवणादिना संयुज्य । यद् वा, षोडशानां तत्त्वानाम् आत्मानम् अधिष्ठातारं षोडश-यज्ञ-मूर्तिं वा श्री-वराह-रूपं भगवन्तं देहे मनः-प्रधाने इन्द्रियाद्यात्मके वा ध्यानादिना साक्षाद् इव स्फोरयित्वा ॥२२९-२३३॥

एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च ।
वाराह-यागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥२३४॥

किं चिन्तयन्ति ? तद् आह—वाराह-यागम् इति । हे धरे इति तच्-चिन्तनं कथयन् श्री-वराह-भगवान् धरणीं सम्बोधयति ॥२३४॥

एष ते विधिर् उद्दिष्टो मया ते भूत-धारिणि ।
देव-गन्धर्व-यक्षाणां सर्वथा दुर्लभो ह्य् असौ ॥२३५॥

उद्दिष्टः सङ्क्षेपेण कथितः ॥२३५॥

एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् ।
यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः ॥२३६॥

अथ सङ्क्षिप्त-दीक्षा

सङ्क्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते ।
मुख्य-कल्पे ह्य् अशक्तस्य जनस्य स्याद् धिताय च ॥२३७॥

अशक्तस्य हिताय यः स्यात् ॥२३७॥

सु-मुहूर्ते’थ सम्प्राप्ते सर्वतोभद्र-मण्डले ।
नूतनं गन्ध-पुष्पादि-मण्डितं कलसं न्यसेत् ॥२३८॥
वस्त्रावृतं पयः पूर्णं पञ्च-पल्लव-संयुतम् ।
सर्वौषधि-पञ्च-रत्न-मृत्स्ना-सप्तक-गर्भितम् ॥२३९॥

मृत्तिकाश् च सप्तोक्ताः—

अश्व-स्थानाद् गज-स्थानाद् वल्मीकाच् च चतुष्पथात् ।
राज-द्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः ॥२४०॥ इति ।
कृष्णम् अभ्यर्च्य तं कुम्भं कुश-कूर्चेन देशिकः ।
देय-मन्त्रेण साष्टं तु सहस्रम् अभिमन्त्रयेत् ॥२४१॥

साष्टाम् अष्टोत्तरं सहस्रम् ॥२४१॥

तद्-अद्भिः पूर्ववच् छिष्यम् अभिषिच्य दिशेन् मनुम् ।
शिष्यो’र्चयेद् गुरुं भक्त्या यथा-शक्ति द्विजान् अपि ॥२४२॥

दिशेत् कथयेत् ॥२४२॥

अथोपदेशस् तत्त्व-सागरे—

अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् ।
तद्-अम्भसाभिषिच्याष्ट वारान् मूलेन के करम् ॥२४३॥
निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः ।
चन्द्र-सूर्य-ग्रहे तीर्थे सिद्ध-क्षेत्रे शिवालये ।
मन्त्र-मात्र-प्रकथनम् उपदेशः स उच्यते ॥२४४॥

के मस्तके । करं निधाय । अमुं मूल-मन्त्रम् ॥२४३-२४४॥

तत्र तत्रैव विशेषः श्री-नारद-पञ्चरात्रे—

वित्त-लोभाद् विमुक्तस्य स्वल्प-वित्तस्य देहिनः ।
संसार-भय-भीतस्य विष्णु-भक्तस्य तत्त्वतः ॥२४५॥
अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा ।
द्रव्य-हीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥२४६॥

पूर्व-लिखित-विस्तीर्णे सङ्क्षिप्ते च विधाव् अपवादं लिखति—वित्तेति सार्धैः पञ्चभिः । बीजैर् यवादिभिः । वचसैव वा ॥२४५-२४६॥

यः समः सर्व-भूतेषु विरागो वीत-मत्सरः ।
जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः ॥२४७॥
कर्मणा मनसा वाचा भीते चाभयदः सदा ।
सम-बुद्धि-पदं प्राप्तस् तत्रापि भगवन्-मयः ॥२४८॥
पञ्च-काल-परश् चैव पञ्चरात्रार्थवित् तथा ।
विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् ।
वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥२४९॥

ननु तथा दीक्षा-विधिः कथं सम्पूर्णो’स्त्व् इत्य् आशङ्क्याह—य इति सार्ध-त्रिभिः । सर्वैर् अङ्गस्य देहास्याद-यवैर् अन्वितः सम-बुद्धीनां ज्ञानिनां पदम् । पञ्चसु कालेषु यत् कृत्यं तत्-पर इत्य् अर्थः । एकम् अप्य् अनेक-भेद-प्राप्तम् इति भेदाभेद-सिद्धान्तापेक्षया, उपसन्नतान् भक्त्या प्रपन्नान् इत्य् अर्थः ॥२४७-२४९॥

अथ मन्त्र-दान-माहात्म्यम्

स्कान्दे ब्रह्म-नारद-संवादे—

इह कीर्तिं वदान्यत्वं प्रजा-वृद्धिं धनं सुखम् ।
विद्या-दानेन लभते सात्त्विको नात्र संशयः ॥२५०॥

विद्या मन्त्र एवात्र सर्व-पुरुषार्थोपायत्वात् । अत एव क्रम-दीपिकायां—विद्यां न यः संविवित्सुः इति । कीर्तिं प्रतिष्ठां वदान्यत्वं च दान-शीलताम् । यद् वा, वदान्यत्व-रूपां कीर्तिं कृत-महा-दानत्वात् । सात्त्विकः निष्कपटः श्रद्धावान् वा ॥२५०॥


यथा सुराणां सर्वेषां परमः परमेश्वरः ।
तथैव सर्व-दानानां विद्या-दानं परं स्मृतम् ॥२५१॥
यावच् च पातकं तेन कृतं जन्म-शतैर् अपि ।
तत् सर्वं नाशम् आप्नोति विद्या-दानेन देहिनाम् ॥२५२॥
विद्या-दानात् परं दानं न भूतं न भविष्यति ।
येन दत्तेन चाप्नोति शिवं परम-कारणम् ॥२५३॥

देहिनां देहिनः प्रति । शिवं मङ्गल-रूपं परम-सुखात्मकं वा । परम-कारणं श्री-ब्रह्म श्री-कृष्णं वा ॥२५२-२५३॥

इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे

दैक्षिको नाम द्वितीयो विलासः ।

॥२॥