हरि-भक्ति-विलासः
(१)
प्रथमो विलासः
गौरवः
अथ मङ्गलाचरणम्
चैतन्य-देवं भगवन्तम् आश्रये
श्री-वैष्णवानां प्रमुदे’ञ्जसा लिखन् ।
आवश्यकं कर्म विचार्य साधुभिः
सार्धं समाहृत्य समस्त-शास्त्रतः ॥१॥
श्री-श्री-मदन-मोहनः कृष्णो जयति ।
ब्रह्मादि-शक्ति-प्रदम् ईश्वरं
तं दातुं स्व-भक्तिं कृपयावतीर्णम् ।
चैतन्य-देवं शरणं प्रपद्ये
यस्य प्रसादात् स्व-वशे’र्थ-सिद्धिः ॥
लिख्यते भगवद्-भक्ति-विलासस्य यथा-मति । टीका दिग्-दर्शनी नाम तद्-एकांशार्थ-बोधिनी ॥
सुदुष्करे कर्मणि प्रवर्तमानो ग्रन्थकारस् तत्-संसिद्धये प्रथमं परम-गुरु-रूपं श्रीमद्-इष्ट-दैवतं शरणत्वेनाश्रयति चैतन्येति । चैतन्यं विशुद्धं ज्ञानं तद्-रूपो यो देवो जगत्-पूज्यस् तं देवेषु मध्ये यो ज्ञान-घनस् तम् इत्य् अर्थः । यद् वा, चैतन्यस्य चित्तस्य देवो’धिष्ठाता यः श्री-वासुदेवस् तम् । अथवा, चैतन्यं चेतना जीवन-हेतुस् तस्य देवो नाथस् तं प्राणेश्वरम् इत्य् अर्थः । आश्रये शरणं यामि । किम्-अर्थं ? श्रीमतां वैष्णवानां आवश्यकं अवश्य कृत्यं यत् कर्म तत् साधुभिः सदाचार परैर् वैष्णवैर् एव सर्वं विचार्य लिखन् लिखितुं हेतौ शतृङ् तच् च किम्-अर्थं तेषाम् एव प्रकृष्ट-मुदे परम-हर्षाय ।
ननु तव नीचस्य कथम् एतत् सिद्ध्यतु तत्राह भगवन्तम् इति सर्वैश्वर्य-युक्तं कारुण्याद्य्-अखिल-भजनीय-गुणवन्तं वा श्री-कृष्णम् इति वा कृष्णस् तु भगवान् स्वयम् इति श्री-भागवतोक्तेः । एवं पक्ष-त्रये क्रमेण सम्बन्धनीयम् । तादृशस्य महाप्रभोर् आश्रयणेन न किम् अप्य् असाध्यम् इति भावः । किं च, तच्-छक्त्यैव तन्-नियोजनेन वा तन्-माहात्म्येन वा अहम् अत्र प्रवृत्तो’स्मि न तु स्वातन्त्र्यादिनेति निजौद्धत्यादि-परिहारः । स्व-मते च श्री-चैतन्य-देवेति—प्रसिद्ध-सञ्ज्ञं भगवन्तं महाप्रभुम् । तत् कारुण्य-महिम्ना तद्-आश्रितस्य मम न किम् अपि दुष्करं सर्वम् एव सुख-साध्यम् इत्य् अर्थः । ननु तत् सर्वं श्रुति-स्मृति-पुराणागमादिषु सर्वत्र वर्तत एव किं तल्-लिखनेन तत्राह समस्तेभ्यः शास्त्रेभ्यः सम्यक् आहृत्य आनीय । तत्र तत्र स्थाने स्तितम् अहम् अत्र यथा योग्यं सङ्गमय्य तत्-तत्-पद्य-जातम् एकत्रीकृत्य लिखिष्यामीत्य् अर्थः ॥१॥
भक्तेर् विलासांश् चिनुते प्रबोधा-
नन्दस्य शिष्यो भगवत्-प्रियस्य ।
गोपाल-भट्टो रघुनाथ-दासं
सन्तोषयन् रूप-सनातनौ च ॥२॥
विलासान् परम-वैभव-रूपान् भेदान् चिनुते समाहरति । भक्ति-विलासानां चयनेनास्य ग्रन्थस्य भक्ति-विलासेति सञ्ज्ञायां कारणम् एकम् उद्दिष्टम् । भगवत्-प्रियस्येति बहुव्रीहिणा तत्-पुरुषेण वा समासेन तस्य माहात्म्य-जातं प्रतिपादितम् । एवं तच्-छिष्यस्य श्री-गोपाल-भट्टस्यापि तादृक्त्वं बोद्धव्यम् । श्री-रघुनाथ-दासो नाम गौड-कायस्थ-कुल-भास्करः परम-भागवतः श्री-मथुराश्रितस् तदादीन् निज-सङ्गिनं सन्तोषयितुम् इत्य् अर्थः ॥२॥
मथुरा-नाथ-पादाब्ज-प्रेम-भक्ति-विलासतः ।
जातं भक्ति-विलासाख्यं तद्-भक्ताः शीलयन्त्व् इमम् ॥३॥
श्री-मथुरा-नाथस्य भगवतः पादाब्जे विषये श्री-गोपाल-भट्टस्य प्रेम-भक्तिस् तस्य विलासतः उल्लासात् । यद् वा, मथुरायां यो नाथस् तस्य प्रभोः श्री-कृष्णस्य पादाब्जयोर् भक्ति-विलासः भक्ति-क्षेत्रत्वात् तस्माज् जातम् इदं ग्रन्थस्य भक्ति-विलासेत्य् आख्यायां कारणान्तरं ज्ञेयम् । इमं ग्रन्थं तद्-भक्ताः श्री-मथुरा-नाथ-पादाब्जे भ्रमराः शीलयन्तु अभ्यस्यन्त्व् इत्य् अर्थः । शोभयन्त्व् इति पाठे दोषापकरणेन निरन्तर-श्रवण-कीर्तन-प्रचारणादिना वा अलङ्कुर्वन्त्व् इति विनय-विशेषः ॥३॥ \
जीयासुर् आत्यन्तिक-भक्ति-निष्ठाः
श्री-वैष्णवा माथुर-मण्डले’त्र ।
काशीश्वरः कृष्ण-वने चकास्तु
श्री-कृष्ण-दासश् च स-लोकनाथः ॥४॥
शोभा-पादनं चास्य श्री-मथुरा-नाथ-चरणारविन्द-भक्ति-रसिकानां श्री-मथुरायां सुख-निवासेन स्वत एव सम्पद्यते इत्य् आद्य् अभिप्रायेणाशास्ते जीयासुर् इति श्री-भगवद्-भक्ति-प्रवर्तनादि-लक्षण-निजोत्कर्षम् आविष्कुर्वन्त्व् इत्य् अर्थः । मथुरा-मण्डले श्री-मथुरा-नगर-मध्ये प्रायस् तत्रैव तेषाम् अवस्थितेः कृष्ण-वनं वृन्दावनं तापनीय-श्रुत्य्-उक्तानुसारात् तस्मिन् क्रीडतु श्रवण-कीर्तनादि-भक्त्या सुखं निवसत्व् इत्य् अर्थः । लोकनाथेन सह वर्तत इति तथा सः । इत्य् अन्योन्यं तयोः प्रीति-विशेषः सूचितः । एवं च यदैषां तत्र तत्र निवासस् तदानीम् अयं ग्रन्थो जात इत्य् अपि सूचितम् ॥४॥
तत्र लेख्य-प्रतिज्ञा
आदौ स-कारणं लेख्यं श्री-गुर्व्-आश्रयणं ततः ।
गुरुः शिष्यः परीक्षादिर् भगवान् मनवो’स्य च ।
मन्त्राधिकारी सिद्ध्य्-आदि-शोधनं मन्त्र-संस्क्रियाः ॥५॥
लिखन्न् इति यल् लिखितं तल् लेख्यम् एव प्रतिजानीते प्रतिजानीते आदाव् इत्य् आदि त्रयोविंशतिभिः । कारण-सहितं श्री-गुरोर् आश्रयणं उपसत्तिर् आदौ लेख्यम् इत्य् अस्य लिङ्ग-वचन-व्यत्ययेन यथायथं सर्वत्रान्वयः । ततस् तद्-अनन्तरं गुरुः कीदृश इति तस्य लक्षणं लेख्यम् इत्य् अर्थः । अस्य भगवतो मनवो मन्त्राश् च तन्-माहात्म्यादिकं च लेख्यम् इत्य् अर्थः ॥५॥
दीक्षा नित्यं ब्राह्म-काले शुभोत्थानं पवित्रता ॥६॥
दीक्षा तद्-विधिर् लेख्य इत्य् अर्थः । एवम् अग्रे’पि सर्वत्र मूल-ग्रन्थानुसारेण यथायथम् ऊह्यम् । नित्यम् इत्य् अस्य शरणागतिर् इत्य् अन्तम् अनुवृत्तिः । शरणागतेर् अपि नित्य-कृत्येष्व् अन्तर्भावेन तद्-अवधि नित्य-कृत्यानाम् एव लिखनात् । अत एव तद्-अनन्तरं नित्य-कृत्य-व्यवच्छेदार्थं पक्षेष्व् इति लेख्यम् । ब्राह्म-काले ब्राह्म्य-मुहूर्ते शुभं शुभ-कर्मार्थं कृष्ण-कृष्णेति कीर्तनादिना मङ्गलावहं वा यद् उत्थानं शय्या-त्यागस् तत् । पवित्रता पाणि-पाद-प्रक्षालन-दन्त-धावनाचमनादिना शुचित्वम् । एतद् आदि सर्वं यद्यप्य् अग्रे स्वत एव तत्-तत्-प्रकरणतो व्यक्तं भावि, तथापि सुख-बोधार्थम् अधुनात्र किञ्चिद् अभिव्यज्यते ॥६॥
प्रातः स्मृत्यादि कृष्णस्य वाद्यादैश् च प्रबोधनम् ।
निर्माल्योत्तारणाद्य्-आदौ मङ्गलारात्रिकं ततः ॥७॥
प्रातर् इति नित्यम् इतिवत् मध्याह्न-कृत्यं यावद् अनुवर्तत एव । एवं मध्याह्नादिकं चोह्यम् । स्मृतिः स्मरणम् । आदि-शब्देन प्रातः कीर्तन-प्रणमन-विज्ञापनादि । प्रबोधनं वाद्यैः । आदि-शब्दात् स्तुति-पाठादिभिः । निर्माल्योत्तारणं आदि-शब्देन श्री-मुख-प्रक्षालन-दन्त-काष्ठार्पणादि । आदाव् इति प्रथमं निर्माल्योत्तारणस्य आवश्यकत्वात्॥७॥
मैत्रादि-कृत्यं शौचाचमनं दन्तस्य धावनम् ।
स्नानं तान्त्रिक-सन्ध्यादि देव-सद्मादि-संस्क्रिया ॥८॥
निज-दन्त-धावनं यद्यप्य् उत्थानानन्तरम् एव कृत्यम् इति पवित्रान्तः पूर्वं प्रविष्टम् एव तथापि शौचादि-विधि-प्रसङ्गतो’त्र तद्-विधि-मात्र-लिखनम् । तान्त्रिकी सन्ध्या तद्-उपास्तिः । आदि-शब्देन जले भगवत्-पूजा । देव-सद्मनः भगवद्-आलयस्य संस्क्रिया सम्मार्जनादिना स्वस्तिक-निर्माण-ध्वज-पताकाद्य्-आरोपणेन च । आदि-शब्दात् पीठ-पात्र-वस्त्रादि-संस्कारः ॥८॥ \
तुलस्याद्याहृतिर् गेह-स्नानम् उष्णोदकादिकम् ।
वस्त्रं पीठं चोर्ध्व-पुण्ड्रं श्री-गोपी-चन्दनादिकम् ॥९॥
तुलस्याः । आदि-शब्दात् पुष्पादीनां चाहरणम् । गेहे निज-गेहे, स्नानं तद्-विधिः । तच् च बहिस् तीर्थाभावेन किं वा श्री-भगवद्-आलय-संस्काराद्य्-अनन्तरम् एव पूजार्थं पुनः स्नानापेक्षया ज्ञेयं तत्रैवोष्णदकामलकादि-स्नान-व्यवस्था च । वस्त्रं स्नानानन्तरं निज-परिधेयं पीठम् आचमनाद्य्-अर्थं निजासनम् ॥९॥
चक्रादि-मुद्रा माला च गृह-सन्ध्यार्चनं गुरोः ।
माहात्म्यं चाथ कृष्णस्य द्वार-वेश्मान्तरार्चनम् ॥१०॥
गुरोर् अर्चनं माहात्म्यं च । अथेति गुरु-पूजानन्तरम् एव भगवत्-पूजाया विधेयत्वात् । द्वारं वेश्मान्तरं च गृह-मध्यं तयोर् अर्चनम् ॥१०॥
पूजार्थासनम् अर्घ्यादि-स्थापनं विघ्न-वारणम् ।
श्री-गुर्व्-आदि-नतिर् भूत-शुद्धिः प्राण-विशोधनम् ॥११॥
पूजार्थेति पूर्व-लिखितात् निज-पीठाद् भेदार्थं अर्घ्य-पात्रादीनां स्थापनम् इति तत्-तद्-द्रव्याणां तत्-तत्-पात्रे च तत्-तत्-पात्राणां च तत्-तत्-स्थानेषु धारणं तथा मङ्गल-घट-स्थापनं चेत्य् अर्थः । प्राण-विशोधनं प्राणायाम इत्य् अर्थः ॥११॥
न्यास-मुद्रा-पञ्चकं च कृष्ण-ध्यानान्तरार्चने ।
पूजा पदानि श्री-मूर्ति-शालग्राम-शिलास् तथा ॥१२॥
न्यासाः मातृकादीनाम् ऋष्य्-आद्य्-अन्तानाम् । मुद्रा-पञ्चकं वेणु-वनमालादि-मुद्राः पञ्च । कृष्णस्य ध्यानं, अथ प्रकट-सौरभेत्य् अद्य् उक्तम् । अन्तरार्चनं च ध्यानान्तरम् अन्तर् योगः । पूजायाः पदानि स्थानानि । श्री-शालग्राम-शिलादीनि सूर्याग्न्य्-आदीनि च । श्री-मूर्तयः श्री-भगवत्-प्रतिकृतयः श्री-शालग्राम-शिलाश् च तत्-तल्-लक्षणादि ॥१२॥
द्वारकोद्भव-चक्राणि शुद्धयः पीठ-पूजनम् ।
आवाहनादि तन्-मुद्रा आसनादि-समर्पणम् ॥१३॥
शुद्धयः क्षालनादिना श्री-मूर्तादिनाम् । आवाहनं आदि शब्दात् संस्थापन-सन्निधापनादि सप्तकम् । तन्-मुद्राः आवाहनादि मुद्राः । आसनस्य आदि-शब्दात् स्वागतानन्तरं अर्घ्य-पाद्याचमनीय-मधुपर्क-पुनर्-आचमनीयानां च समर्पणम् ॥१३॥
स्नपनं शङ्ख-घण्टादि-वाद्यं नाम-सहस्रकम् ।
पुराण-पाठो वसनम् उपवीतं विभूषणम् ॥१४॥
स्नपने अभ्यङ्ग-द्रव्य-पञ्च्चामृतोद्वर्तनादीनि न पृथक् लिखितानि । तेषां स्नपनाङ्गत्वात्, एवम् अन्यद् अप्य् ऊह्यम् । भगवतः स्नाने शङ्ख-स्नपनस्य घण्टावाद्यस्य च फल-विशेषोक्तेः शङ्ख-घण्टयोर् माहात्म्यं आदि-शब्दात् तत्रैव शङ्खादि-वाद्यस्य च माहात्म्यं लेख्यम् इत्य् अर्थः । वसनादिकं स्नपनानन्तरं भगवते’र्पणम् ॥१४॥
गन्धः श्री-तुलसी-काष्ठ-चन्दनं कुसुमानि च ।
पत्राणि तुलसी चाङ्गोपाङ्गावरण-पूजनम् ॥१५॥
गन्धान्तर्गतस्यापि श्री-तुलसी-काष्ठ-चन्दनस्य पृथक् लेखो माहात्म्य-विशेषतः एवम् अन्यद् अप्य् ऊह्यम् । पत्राणि बिल्वादीनाम् । अङ्गानां मन्त्र-वर्णादीनां उपाङ्गानां च वेदादीनाम् । आवरणानां च गोप-कुमारादीनां पूजा ॥१५॥
धूपो दीपश् च नैवेद्यं पानं होमो बलि-क्रिया ।
अवगण्डूषाद्यास्यवासो दिव्य-गन्धादिकं पुनः ॥१६॥
बलि-क्रिया, विष्वक्सेनादिभ्यो भगवद्-उच्छिष्टांश-प्रदानम् । अवगण्डूषं गण्डूषार्थ-जलम् । आदि-शब्देन दन्त-शोधन-पुनर्-आचमन-श्री-मुख-मार्जनादि । आस्य-वासः लवङ्ग-ताम्बूलादि मुख-वासः ॥१६॥
राजोपचारा गीतादि महा-नीराजनं तथा ।
शङ्खादि-वादनं साम्बु-शङ्ख-नीराजनं स्तुतिः ॥१७॥
राजोपचाराः छत्र-चामरादयः । गीतं आदि शब्दात् वाद्यं नृत्यं च । शङ्खादीनां वादनं, पूर्वं स्नान-सम्बन्धि अधुना च महा-निराजन-विषयकम् इति भेदः ॥१७॥
नतिः प्रदक्षिणा कर्माद्य्-अर्पणं जप याचने ।
आगः-क्षमापणं नानागांसि निर्माल्य-धारणम् ॥१८॥
जल-युक्त-शङ्खेन नीराजनम् । जपः याचनं च प्रार्थना । आगसाम् अपराधानां क्षमापणम् । नाना—नाना-विधान्य् आगांसि । निर्माल्यस्य श्री-भगवत्-पादाब्जोत्तीर्णस्य तुलस्यादेर् निज-मस्तके धारणम् ॥१८॥
शङ्खाम्बु-तीर्थं तुलसी-पूजा तन्-मृत्तिकादि च ।
धात्री-स्नान-निषेधस्य कालो वृत्तेर् उपार्जनम् ॥१९॥
शङ्खाम्बु श्री-भगवान् नीराजित-शङ्ख-जलम् । तीर्थं श्री-चरणोदकम् । तुलसी-वने श्री-भगवतस् तुलस्याश् च पूजनं तस्यास् तुलस्या मृत्तिका काष्ठादि । धात्री-आमलकी तन्-माहात्म्यम् इत्य् अर्थः ॥१९॥
मध्याह्ने वैश-देवादि-श्राद्धं चानर्प्यम् अच्युते ।
विनार्चाम् अशने दोषास् तथानर्पित-भोजने ॥२०॥
नैवेद्य-भक्षणं सन्तः सत्-सङ्गो’सद्-असङ्गतिः ।
असद्-गतिर् वैष्णवोपहास-निन्दादि-दुष्फलम् ॥२१॥
वैश्वदेवादिकं श्राद्धं च वैष्णवैर् यथा कार्यं तद्-विधिर् इत्य् अर्थः वैष्णव-कृत्यानाम् एव लिखनात् । अच्युते श्री-भगवति, अनर्प्यं अर्पणायोग्यम् । अर्चां भगवत्-पूजां विना भोजने दोषाः । तथेति भगवत्य् अनर्पितस्य द्रव्यस्य भोजने च दोषाः । सन्तः श्री-भगवद्-भक्ताः असद्भिर् असङ्गतिः असत्-सङ्ग-परित्याग इत्य् अर्थः । असतां गतिर् निष्ठा । वैष्णवानाम् उपहासादिना यद् दुष्टं फलं भवति तत् । यद्यप्य् असद्-गत्य्-अन्तर्गतम् एव तत् स्यात् तथापि विशेषतो वैष्णव-विषयकापराध-लक्षण-परमासाधुत्व-परिहारार्थं पृथक् लिखितम् ॥२०-२१॥
सतां भक्तिर् विष्णु-शास्त्रं श्रीमद्-भागवतं तथा ।
लीला-कथा च भगवद्-धर्माः सायं निज-क्रियाः ॥२२॥
कर्म-पात-परीहारस् त्रिकालार्चा विशेषतः ।
नक्तं कृत्यान्यथो पूजा-फल-सिद्ध्य्-आदि-दर्शनम् ॥२३॥
भक्तिर् अभिगमन-स्तुत्य्-आदिना सम्माननम् । लीला-कथेति भगवल्-लीला-कथायाः श्रवण-कीर्तनादि । तत् त्यागे दोषश् च । निज-क्रियाः, सन्ध्योपास्त्यादि-कर्माणि । वैष्णवानां कर्म-पातस्य परिहारः । तद्-दोष-निराकरण-सिद्धान्त इत्य् अर्थः । विशेषतस् त्रिकालार्चनम् । काल-त्रय-पूजा-विधि-विशेष इत्य् अर्थः । नक्तं कृत्यानि गीत-वाद्यादि-पूर्वकं श्री-भगवच्-छयनोपचार-कल्पनादीनि । पूजा-फलस्य सिद्धिः यथा सम्पूर्णता स्यात् तत्-प्रकार इत्य् अर्थः । आदि-शब्देन अशक्तस्य पूजा-फल-प्राप्त्य्-उपायः । दर्शनं पूजायाः श्री-मूर्तेर् वावलोकनम् ॥२२-२३॥
विष्ण्व्-अर्थ-दानं विविधोपचारा न्यून-पूरणम् ।
शयनं महिमार्चायाः श्रीमन्-नाम्नस् तथाद्भुतः ॥२४॥
नामापराधा भक्तिश् च प्रेमाथाश्रयणादयः ।
पक्षेष्व् एकादशी साङ्गा श्री-द्वादश्य्-अष्टकं महत् ॥२५॥
कृत्यानि मार्ग-शीर्षादि-मासेषु द्वाद्शेष्व् अपि ।
पुरश्चरण-कृत्यानि मन्त्रं सिद्धस्य लक्षणम् ॥२६॥
मूर्त्याविर्भावनं मूर्ति-प्रतिष्ठा कृष्ण-मन्दिरम् ।
जीर्णोद्धृतिः श्री-तुलसी-विवाहो’नन्य-कर्म च ॥२७॥
विष्ण्व्-अर्थं कपिलादि-दानम् । तद्-दुग्धादिना नित्य-पूजा-सिद्धेर् नित्य-पूजार्थ-द्रव्य-दानाभिप्रायतो वा नित्य-कृत्य-मध्ये लिखितम् । न्यून-पूरणं अलब्धोपचार-समाधानं शयनं निज-शयन-विधिः । अर्चायाः श्री-भगवत्-पूजाया महिमा माहात्म्यं श्रीमन्-नाम्नश् च महिमा । अद्भुत इति श्री-भगवन्-नाम-माहात्म्ये’र्थवाद-कल्पना परम-दोषावहा । नाम सेवया नामापराध-क्षयश् चेत्य् अपि सूचयति । भक्तिः श्री-भगवद्-भक्तेर् दोर्-लब्धादि-माहात्म्यं लक्षणं चेत्य् अर्थः । प्रेमा प्रेम-सम्पत्ति-लक्षणम् इत्य् अर्थः । आश्रयणं शरणागतिस् तस्य कादाचित्कत्वे’पि नित्य-कृत्यान्तर्-लेखो नित्यं श्री-भगवत्-स्थानाश्रयादि-लक्षणतया नित्यम् आनुकूल्यस्य सङ्कल्पादि-लक्षणतया च नित्य-कृत्यान्तर् एव पर्यावसानात् । आदि-शब्देन उच्चावच-सदाचाराः । एवं लेख्य-नित्य-कृत्यातिक्रमेण प्रतिज्ञाय पक्ष-कृत्यम् आसकृत्यादीनि लेख्यानि प्रतिजानीते पक्षेष्व् इत्य् आदिना । अङ्गानि दशम्यादि-दिन-त्रय-नियमाः जागरणं द्वादश्य्-अपेक्षणादीनि च तैः सहितम् एकादशी-व्रतम् । तत्-तन्-माहात्म्यं तत्-तद्-व्रत-दिन-निर्णयादि चेत्य् अर्थः । एवम् अन्यद् अप्य् ऊह्यम् । सङ्गेति लिङ्ग-वचन-व्यत्ययेन सर्वत्र यथायथं योज्यम् । सिद्धस्य पुरश्चरणादिना सिद्ध-मन्त्रस्येत्य् अर्थः । मूर्तीनां श्री-भगवत्-प्रतिभानाम् आविर्भावनं शिल्पादि द्वारा निष्पादनम् इत्य् अर्थः । कथञ्चिद् वैगुण्ये श्री-मूर्तेः पुनः संस्कार-प्रतिष्ठा विध्य्-अन्तर्गत एवेति पृथक् नोल्लिखितः । एवं प्रकारादि-निर्णय-वृक्ष-रोपणादिकम् अपि मन्दिरानुसङ्गिकतया प्र्ठक् नोल्लिखितम् । जीर्णानां प्रासादादीनां उद्धृतिर् उदारः । अनन्यानां एकान्तिनां कृतम् ॥२४-२७॥
तत्र श्री-गुरूपसत्ति-कारणम्
कृपया कृष्ण-देवस्य तद्-भक्त-जन-सङ्गतः ।
भक्तेर् माहात्म्यम् आकर्ण्य ताम् इच्छन् सद्-गुरुं भजेत् ॥२८॥
अधुना प्रतिज्ञातं तत् तद् एव विस्तार्य लिखति तत्रेत्यादिना यावत् समाप्ति । तत्र तेषु श्री-गुरूपसत्तेः पपद्येत उपासित संश्रयतेत्य् आदिनाग्रे लेख्यायाः कारणम् इदं लिख्यत इति शेषः । एवम् अग्रे’पि सर्वत्र । तद् एव लिखति—कृपयेत्य् आदिना पुरुषो वेदेत्य् अन्तेन । कृष्ण-देवस्य कृपया यस् तस्य भक्त-जनैः सङ्गस् तस्मात् । माहात्म्यं मोक्षाद् अप्य् आदिक्यादि तां भक्तिं सन्तं लेख्य-लक्षणैर् उत्तमं गुरुम् आश्रयेत् ॥२८॥
अत्रानुभूयते नित्यं दुःख-श्रेणी परत्र च ।
दुःसहा श्रूयते शास्त्रात् तितीर्षेद् अपि तां सुधीः ॥२९॥
ननु विषय-सुखासक्तानां तादृश-ज्ञानं दुर्घटम् एवेति कुतो भक्तीच्छास्तु ? सत्यं, दुःख-सागर-तरणेच्छयापि भक्तिं वाञ्छन् सद्-गुरुम् अपेक्षेतैवेत्य् आशयेन लिखति—अत्रेति । दुःखस्य श्रेणी-परम्परा शास्त्राच् छ्रूयत इति वेद-वाक्ये विश्वासात् सापि प्रत्येतव्यैव। न त्व् अविश्वसनीयेत्य् अर्थः । अतस् तां दुःख-श्रेणीम् अपि तरितुम् इच्छेत्, मा तादृश-माहात्म्यं भक्तिम् इच्छत्व् इत्य् अहो बत शोच्यतेत्य् अपि-शब्दार्थः । सुधीश् चेत्, अन्यथा विचाराभावेन पशुवन् निर्बुद्धिर् एवेत्य् अर्थः । यद् वा, मिथ्या-दुःखावली-सहनेन व्याधादिवत् कुधीर् एवेत्य् अर्थः ॥२९॥
तथा चोक्तम् एकादश-स्कन्धे [भा।पु। ११.९.२९]—
लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः । तूर्णं यतेत न पतेद् अनु-मृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥३०॥
स्व-लिखितम् एतद् एव महा-पुराणोक्त-पद्य-द्वयेन प्रमाणयति—तथा चोक्तम् इति ।
ये श्री-भागवतादीनां श्लोकार्था विदिता हि ते । सुदुर्गमस् तथाप्य् अर्थस् तेषु कश्चिद् विशिष्यते ॥
तथा हि—मृत्योर् अनु पश्चात् यावन् न पतेत् तावद् एव निःश्रेयसाय तृउणं यतेत । यद् वा, अनु निरन्तरं मृत्यवो मरणानि यस्य । यद् वा, मृत्यु-हेतवो रोगादयो मृत्यव इव विविध-बहुल-महा-दुःखानि वा यस्मिन् तत् । विषयस् तु सर्वतः पश्व्-आदि-योनिष्व् अपि स्याद् एव ॥३०॥
स्वयं श्री-भगवता च [भा।पु। ११.२०.१७]—
नृ-देहम् आद्यं सु-लभं सु-दुर्लभं प्लवं सु-कल्पं गुरु-कर्ण-धारम् । मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥३१॥
स्वयम् इति । निजेष्ट-दैवत-श्री-कृष्णाभिप्रायेण । यद् वा, कृष्णस् तु भगवान् स्वयम् इत्य् अभिप्रायेण । चकाराद् उक्तम् इति पूर्व-गत-पदेनान्वयः । एवम् अग्रे’पि बोद्धव्यम् । नृ-देहं प्लवं नावं प्राप्येत्य् अध्याहारः । आद्यं सर्व-फलानां मूलम् । एतद् उपार्जित-कर्मभिः सर्व-फलावाप्तेः । सुदुर्लभम् उद्यम-कोटिभिर् अपि प्राप्तुम् अशक्यम् । तथापि सुलभं सत् यदृच्छया लब्धत्वात् । सुकल्पं पटुतरम् । गुरुः संश्रित-मात्र एव कर्णधारो नेता यस्य तत् । मया स्मृत-मात्रेणानुकूलेन मारुतेन प्रेरितम् । यद् वा, अत्रापि कृत्वेत्य् अध्याहार्यं । वक्तुर् गाम्भीर्येण तद्-उक्तौ स्वभावत उन्नेय-शतापातात् । ततश् चायम् अर्थः—नृ-देहम् इदं गुरु-कर्णधारं कृत्वा कर्णधारनीयमान-प्लववद् आश्रय-मात्रेण गुरुणा सत्-कृत्याभिमुखं प्रवर्त्य तथानुकूल-वात-प्रेरितवत् स्मृति-मात्रेण मयाधिष्ठितं सत् कृतार्थं कृत्वा यो न तरेत्, स आत्महैवेति ॥३१॥
अथ श्री-गुरूपसत्तिः
तत्रैव श्री-प्रबुद्ध-योगेश्वरोक्तौ [भा।पु। ११.३.२१]—
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥३२॥
एवं कारणम् उल्लिख्य कार्यं लिखति—तस्माद् इत्य् आदिना । शाब्दे ब्रह्मणि वेदाख्ये न्यायतो निष्णातं तत्त्वज्ञम् । अन्यथा संशय-निरासकत्वायोगात् । परे च ब्रह्मण्य् अपरोक्षानुभवेन निष्णातम् । अन्यथा बोध-सञ्चारायोगात् । पर-ब्रह्म-निष्णातत्व-द्योतकम् आह—उपशमाश्रयं परम-शान्तम् इति । यद् वा, परे ब्रह्मणि श्री-कृष्णे शमो मोक्षस् तद्-उपरि वर्तत इति उपशमो भक्ति-योगस् तद्-आश्रयं सदा श्रवण-कीर्तनादि-परं श्री-वैष्णव-वरम् इत्य् अर्थः । अन्यत् समानम् ॥३२॥
स्वयं श्री-भगवद्-उक्तौ [भा।पु। ११.१०.५]—
मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥३३॥
माम् अभितो भक्त-वात्सल्यादि-माहात्म्यानुभव-पूर्वकं जानातीति तथा तम् । अत एव मयि आत्मा चित्तं यस्य तं, बहुव्रीहौ कः । अस्य पद्यस्य पूर्वार्धं—यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् इत्य् अत्रानुपयुक्तत्वान् न लिखितम् । एवम् अन्यत्राप्य् अग्रे ज्ञेयम् ॥३३॥
क्रम-दीपिकायां [४.२] च—
विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् ।
वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत ॥३४॥
श्रुताव् अपि [मु।उ। १.२.१२, छा।उ। ६.१४.२]—
**तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेत् ** समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् । आचार्यवान् पुरुषो वेद ॥३५॥
निर्मलाङ्गं व्याधि-रहितं, वेद-शास्त्रागमानां ये विमलाः । पन्थानो मार्गास् तेषां वेत्तारम् । सत्सु सतां मतं सम्मतं, विद्यां संसार-दुःख-तरणाद्य्-उपायं मन्त्रम्। प्रवणा नम्रा विनीता देशिकैक-परा वा तनुर् मनश् च यस्य तथा-भूतः सन्, देशिकं गुरुम् । एवं प्रवण-तनु-मनस्त्वादि श्रुत्य्-उक्त-समित्-पाणित्वादि च गुरूपसत्तेर् आद्य-प्रकारो ज्ञेयः ॥३४-३५॥
अथ गुरूपसत्ति-नित्यता
श्री-भागवते दशम-स्कन्धे श्रुति-स्तुतौ [भा।पु। १०.८७.३३]—
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः । व्यसन-शतान्विताः समवहाय गुरोश् चरणं वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥३६॥
विजितेन्द्रिय-प्राणैर् अपि अदमित-मनो’श्वं ये नियन्तुं प्रयतन्ते । गुरोश् चरणम् अनाश्रित्य ते उपायेषु खिद्यन्ते क्लिश्यन्तीत्य् उपाय-खिदः सन्तो बहु-व्यसनाकुला इह संसार-समुद्रे सन्ति तिष्ठन्ति । पुनः पुनर् दुःखम् एव प्राप्नुवन्तीत्य् अर्थः । हे अज भगवन् ! अकृत-कर्णधरा अस्वीकृत-नाविका वणिजो यथा तद्वत् ॥३६॥
श्रुतौ च [कठ।उ। १.२.९]—
नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ॥३७॥
शोभन-ज्ञानाय प्रेष्ठा परम-योग्यत्वेन प्रियतमा एषा मतिस् तर्केण निज-न्यायेन हेतुना प्रोक्ताद् अन्येन विधिना कृत्वा नापनेया अपमार्गे न प्रवेशनीयेत्य् अर्थः ॥३७॥
अथ विशेषतः श्री-गुरोर् लक्षणानि
मन्त्र-मुक्तावल्याम्—
अवदातान्वयः शुद्धः स्वोचिताचार-तत्-परः । आश्रमी क्रोध-रहितो वेदवित् सर्व-शास्त्रवित् ॥३८॥ श्रद्धावान् अनसूयश् च प्रिय-वाक् प्रिय-दर्शनः । शुचिः सुवेशस् तरुणः सर्व-भूत-हिते रतः ॥३९॥ धीमान् अनुद्धत-मतिः पूर्णो’हन्ता विमर्शकः । स-गुणो’र्चासु कृतधीः कृतज्ञः शिष्य-वत्सलः ॥४०॥
शाब्दे परे च निष्णातम् [भा।पु। ११.३.२१] इत्य् आदिना प्राक् सामान्यतः सङ्क्षेपेण गुरु-लक्षणान्य् उल्लिख्याधुना तान्य् एव विशेषतो विस्तार्य । किं वा, पूर्वं गुर्व्-आश्रयणानुषङ्गेन गौणतया लिखित्वेदानीं मुख्यत्वेन लिखति अवदातेत्य् आदिना । अवदातः शुद्धः पातित्यादि-दोष-रहितो’न्वयो वंशो यस्य, सद्-वंश-जात इत्य् अर्थः । शुद्धः स्वयम् अपि पातित्यादि-दोष-रहितः । अहन्ता अहिंसकः । यद् वा, अहन्ताया विमर्शकस् तत्त्व-विचारकः । गुणा वात्सल्यादयस् तद्-युक्तः । अर्चासु भगवत्-पूजासु, पाठान्तरे स-गुणस्य सत्त्व-गुणाधिष्ठातुः, कारुण्यादि-गुण-युक्तस्य वा भगवतः अर्चासु प्रतिमासु कृतधीः तत्-पूजायां कृत-निश्चय इत्य् अर्थः॥३८-४०॥
निग्रहानुग्रहे शक्तो होम-मन्त्र-परायणः । ऊहापोह-प्रकार-ज्ञः शुद्धात्मा यः कृपालयः । इत्य् आदि-लक्षणैर् युक्तो गुरुः स्याद् गरिमा-निधिः ॥४१॥
गरिमेत्य् आ-कारान्तत्वम् आर्षत्वात् सोढव्यम् । यद् वा, गरिम्ण आ सम्यक् निधिर् निधानम् । यद् वा, साक्षाद् गरिम-रूपो निधि-रूपश् चेति पद-द्वयम् । गरिमाम्बुधिर् इति पाठस् तु स्पष्ट एव॥४१॥
अगस्त्य-संहितायां च—
देवतोपासकः शान्तो विषयेष्व् अपि निःस्पृहः । अध्यात्मविद् ब्रह्म-वादी वेद-शास्त्रार्थ-कोविदः ॥४२॥ उद्धर्तुं चैव संहर्तुं समर्थो ब्राह्मणोत्तमः । तत्त्वज्ञो यन्त्र-मन्त्राणां मर्म-भेत्ता रहस्यवित् ॥४३॥ पुरश्चरण-कृद् धोम-मन्त्र-सिद्धः प्रयोगवित् । तपस्वी सत्य-वादी च गृहस्थो गुरुर् उच्यते ॥४४॥
ब्रह्मवादी । वेदाध्यापकः । मर्म-भेत्ता । संशय-ग्रन्थि-च्छेत्ता ॥४२-४४॥
विष्णु-स्मृतौ—
परिचर्या-यशो-लाभ-लिप्सुः शिष्याद् गुरुर् नहि । कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः ॥४५॥ निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः । सर्व-संशय-सञ्छेत्ता नालसो गुरुर् आहृतः ॥४६॥
तत्-तद्-गुण-युक्तो’पि केवलं निज-परिचर्याद्य्-अर्थं शिष्यानुबन्धको गुरुर् उपेक्ष्य इति लिखति—परिचर्येति । लाभो धनादिः । शिष्यात् दीक्षयेत् शिष्यं कुर्याद् इत्य् अर्थः । यद् वा, शिष्यात् शिष्यतः सकाशात् परिचर्यादि-लिप्सुर् यः, स गुरुर् न भवतीत्य् अर्थः । तर्हि किम्-अर्थं गुरुः स्यात् ? इत्य् अपेक्षायां लिखति—कृपा-सिन्धुर् इति । परम-दयालुतया लोक-हितार्थम् एवेति भावः । अत्रोक्तानां सुसम्पूर्ण इत्य् आदीनां विशेषणानां हेतु-हेतुमत्तोह्या । आहृतो व्याहृत उक्तो वा, गुरुर् आडयम् इति पाठः क्वचित् ॥४५-४६॥
श्री-नारद-पञ्चरात्रे श्री-भगवन्-नारद-संवादे—
ब्राह्मणः सर्व-काल-ज्ञः कुर्यात् सर्वेष्व् अनुग्रहम् । तद्-अभावाद् द्विज-श्रेष्ठः शान्तात्मा भगवन्-मयः ॥४७॥ भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्-क्रिया-परः । सिद्धि-त्रयम् आयुक्त आचार्यत्वे’भिषेचितः ॥४८॥ क्षत्र-विट्-शूद्र-जातीनां क्षत्रियो’नुग्रहे क्षमः । क्षत्रियस्यापि च गुरोर् भावाद् ईदृशो यदि ॥४९॥ वैश्यः स्यात् तेन कार्यश् च द्वये नित्यम् अनुग्रहः । सजातीयेन शूद्रेण तादृशेन महा-मते । अनुग्रहाभिषेकौ च कार्यौ शूद्रस्य सर्वदा ॥५०॥
एवं विप्र एव गुरुः स्याद् इत्य् आयातम् । तद्-अभावे किं कार्यम् इति लिखति—ब्राह्मण इति सार्धैश् चतुर्भिः । सर्वे पञ्चरात्र-विधानोक्ताः पञ्च कालास् तान् जानातीति तथा सः । सर्वेषु वर्णेषु अनुग्रहं मन्त्र-प्रदानादिकम् । तद्-अभावाच् च क्षत्रियः क्षत्रादीनाम् अनुग्रहे क्षम इति द्वाभ्याम् अन्वयः । हे द्विज-श्रेष्ठ श्री-नारद ! शान्तात्मा शान्त-स्वभावः । भावितात्मा शुद्ध-चित्तः, सर्वं दीक्षा-विधानादिकं जानातीति तथा सः । सिद्धि-त्रयं पुरश्चरणादिना मन्त्र-गुरु-देवतानां यत् साधनं तेन संयुक्तः । आचार्यत्वे मन्त्रोपदेष्टृत्वे । पुरश्चरणानन्तरं निज-गुरुणाभिषिक्तः । अन्यथोपदेशे ’धिकारानुपपत्तेः । तच् चोक्तं तत्रैव पुरश्चरणानन्तरम् अभिषेकान्ते—
ततो’भिषिच्य विधिना स्वाधिकारे नियोजयेत् । गृहीत्वा तेन कर्तव्यं गुरुत्वम् इतरेषु च ॥ इति ।
स्वाधिकारे उपदेष्टृत्वादिके नियोजयेद् गुरुः तेन शिष्येणेतीदृशः । उक्त-लक्षण-क्षत्रिय-सदृशः । द्वये वैश्य-शूद्रयोर् इत्य् अर्थः । अन्यत्र प्रातिलोम्य-दोषापत्तेः । तच् चाग्रे निषिद्धम् एव । तादृशेन उक्त-लक्षण-क्षत्रिय-सदृशेन ॥४७-५०॥
किं च—
वर्णोत्तमे’थ च गुरौ सति या विश्रुते’पि च ।
स्वदेशतो’थ वान्यत्र नेदं कार्यं शुभार्थिना ॥५१॥
तत्रैवापवादम् आह—वर्णोत्तम इति । इदम् अनुग्रहादिकम् ॥५१॥
विद्यमाने तु यः कुर्यात् यत्र तत्र विपर्ययम् ।
तस्येहामुत्र नाशः स्यात् तस्माच् छास्त्रोक्तम् आचरेत् ॥
क्षत्र-विट्-शूद्र-जातीयः प्रातिलोम्यं न दीक्षयेत् ॥५२॥
इह लोके’मुत्र च तस्य नाशः सर्वार्थ-हानिः स्यात् ॥५२॥
पाद्मे च [प।पु। ६.२५३.२६]–
महा-भागवतः श्रेष्ठो ब्राह्मणो वै गुरुर् नृणाम् । सर्वेषाम् एव लोकानाम् असौ पूज्यो यथा हरिः ॥५३॥
महा-भागवत-श्रेष्ठो’शेष-वैष्णव-धर्म-रतः श्री-भगवन्-माहात्म्यादि-ज्ञानवांश् च । अस्य लक्षणम् अग्रे भगवद्-भक्त-लक्षणे विशेषतो व्यक्तं भावि ॥५३॥
महा-कुल-प्रसूतो’पि सर्व-यज्ञेषु दीक्षितः । **सहस्र-शाखाध्यायी च न गुरुः स्याद् अवैष्णवः ॥५४॥ **इति ।
ब्राह्मणो’पि सत्-कुल-धर्माध्ययनादिना प्रख्यातो’पि अवैष्णवश् चेत् तर्हि गुरु न भवतीति सर्वत्रापवादं लिखति—महा-कुलेति । कुले महति जातो’पीति क्वचित् पाठः । अत एवोक्तं पञ्चरात्रे—
अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ इति ।
इति-शब्द-प्रयोगो’त्रोदाहृतानाम् अन्यत्र वचनानां प्रायो निज-ग्रन्थ-वचनतो व्यवच्छेदार्थम् । एवम् अग्रे’प्य् अन्यत्र । यद्यपि प्रति-प्रकरणान्ते उदाहृत-तत्-तच्-छास्त्र-वचनान्ते च सर्वत्र इति-शब्दो युज्येत, तथापि तत्-तद्-व्यवच्छेदः प्रकरणादीनाम् अभेदाद् व्यक्त एवेति ग्रन्थ-बाहुल्य-भयान् न लिखितः ॥५४॥
गृहीत-विष्णु-दीक्षाको विष्णु-पूजा-परो नरः ।
वैष्णवो’भिहितो’भिज्ञैर् इतरो’स्माद् अवैष्णवः ॥५५॥
अवैष्णव इत्य् उक्तम् । तत्रादौ सामान्यतो वैष्णव-लक्षणं लिखन् तद्-इतरत्वेनावैष्णवं लक्षयति—गृहीतेति । अस्माद् वैष्णवाद् इतरो भिन्नः ॥५५॥
तत्त्व-सागरे—
बह्वाशी दीर्घ-सूत्री च विषयादिषु लोलुपः । हेतु-वाद-रतो दुष्टो’वाग्-वादी गुण-निन्दकः ॥५६॥ अरोमा बहु-रोमा च निन्दिताश्रम-सेवकः । काल-दन्तो’सितौष्ठश् च दुर्गन्धि-श्वास-वाहकः ॥५७॥ दुष्ट-लक्षण-सम्पन्नो यद्यपि स्वयम् ईश्वरः । बहु-प्रतिग्रहासक्त आचार्यः श्री-क्षयावहः ॥५८॥
अवाग्-वादी । अवाच्य-पर-पापादि-वक्ता । ईश्वरः दानादिषु समर्थस् तथापि चेद् बहु-प्रतिग्रहासक्तः ॥५६-५८॥
अथ शिष्य-लक्षणानि
मन्त्र-मुक्तावल्याम्—
शिष्यः शुद्धान्वयः श्रीमान् विनीतः प्रिय-दर्शनः । सत्य-वाक् पुण्य-चरितो’दभ्र-धीर् दम्भ-वर्जितः ॥५९॥ काम-क्रोध-परित्यागी भक्तश् च गुरु-पादयोः । देवता-प्रवणः काय-मनो-वाग्भिर् दिवा-निशम् ॥६०॥ नीरुजो निर्जिताशेष-पातकः श्रद्ध्यान्वितः । द्विज-देव-पितॄणां च नित्यम् अर्चा-परायणः ॥६१॥ युवा विनियताशेष-करणः करुणालयः । इत्य् आदि-लक्षणैर् युक्तः शिष्यो दीक्षाधिकारवान् ॥६२॥
अदभ्र-धीः महा-बुद्धिः ॥५९-६२॥
एकादश-स्कन्धे च [भा।पु। ११.१०.६]—
अमान्य् अमत्सरो दक्षो निर्ममो दृठ-सौहृदः । असत्वरो’र्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥६३॥
दक्षः अनलसः । निर्ममः जायादिषु ममता-शून्यः । गुरौ तु दृढ-सौहृदः । असत्वरः अव्यग्रः । अमोघ-वाक् व्यर्थालाप-रहितः ॥६३॥
अथापेक्ष्याः
अगस्त्य-संहितायाम्—
अलसा मलिनाः क्लिष्टा दाम्भिकाः कृपणास् तथा । दरिद्रा रोगिणो रुष्टा रागिणो भोग-लालसाः ॥६४॥ असूया-मत्सर-ग्रस्ताः शठाः परुष-वादिनः । अन्यायोपार्जित-धनाः पर-दार-रताश् च ये ॥६५॥ विदुषां वैरिणश् चैव अज्ञाः पण्डित-मानिनः । भ्रष्ट-व्रताश् च ये कष्ट-वृत्तयः पिशुनाः खलाः ॥६६॥ बह्व्-आशिनः क्रूर-चेष्टा दुरात्मनश् च निन्दित । इत्य् एवम् आदयो’प्य् अन्ये पापिष्ठाः पुरुषाधमाः ॥६७॥
तत्-तद्-गुण-हीनान् अपि भक्त्य्-आर्त्या वा प्रपन्नान् स्वीकुर्वतापि श्री-गुरुणा लेख्य-दोषवन्तो’वश्यम् उपेक्ष्या इत्य् आशयेन तान् लिखति—अलसा इति पञ्चभिः । क्लिष्टा वृथाक्लेश-कारिणः । रागिणो विषयासक्ताः । भोग-लालसा लुब्धा इत्य् अर्थः । पिशुना पर-दोष-सूचकाः । खलाः पर-दुःखदाः ॥६४-६७॥
अकृत्येभ्यो’निवार्याश् च गुरु-शिक्षा-सहिष्णवः । एवम्भूताः परित्याज्याः शिष्यत्वे नोपकल्पिताः ॥६८॥
गुरु-शिक्षाया असहन-शीलाः शिष्यत्वे न केनाप्य् उपकल्पिता न विहिताः । शिष्या न कृता इत्य् अर्थः । यद् वा, उपकल्पिता न भवन्ति । शिष्यत्वं नार्हन्ति । शिष्या न कार्या इत्य् अर्थः ॥६८॥
यद्य् एते ह्य् उपकल्पेरन् देवताक्रोश-भाजनाः । भवन्तीह दर्द्रास् ते पुत्र-दार-विवर्जिताः ॥६९॥ नारकाश् चैव देहान्ते तिर्यञ्चः प्रभवन्ति ते ॥७०॥
लोभादिना तेषां स्वीकारेण श्री-गुरौ महा-दोषाः पर्यवस्यन्तीत्य् आह—यद्यैत इति सार्धेन ॥६९-७०॥
हयशीर्ष-पञ्चरात्रे—
जैमिनिः सुगतश् चैव नास्तिको नग्न एव च ।
कपिलश् चाक्षपादश् च षड् एते हेतु-वादिनः ॥७१॥ एतन्-मतानुसारेण वर्तन्ते ये नराधमाः । **ते हेतु-वादिनः प्रोक्तास् तेभ्यस् तन्त्रं न दापयेत् ॥७२॥ **इति ।
अथ परीक्षणम्
तयोः परीक्षा चान्यो’न्यम् एकाब्दं सह-वासतः ।
व्यवहार-स्वभावानुभवेनैवाभिजायते ॥७३॥
तयोः गुरु-शिष्ययोः । अन्यो’न्यम् इत्य् अस्य परार्धेनाप्य् अन्वयः । व्यवहारः चेष्टा । स्वभावः शीलम् । तयोर् अनुभवेनैव अभितो जायते ॥७३॥
मन्त्र-मुक्तावल्यां—
तयोर् वत्सर-वासेन ज्ञातान्योन्य-स्वभावयोः । गुरुता शिष्यता चेति नान्यथैवेति निश्चयः ॥७४॥
श्रुतिश् च— नासंवत्सर-वासिने देयात् ॥७५॥
सार-सङ्ग्रहे’पि— सद्-गुरुः स्वाश्रितं शिष्यं वर्षम् एकं परीक्षयेत् ॥७६॥ राज्ञि चामात्यजा दोषाः पत्नी-पापं स्व-भर्तरि । तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम् ॥७७॥
गुरुणा त्व् अवश्यम् एव शिष्य-परीक्षा कार्येत्य् अत्र हेतुम् आह—राज्ञीति ॥७७॥
क्रम-दीपिकायां तु [४.३]—
सन्तोषयेद् अकुटिलार्द्रेतरान्तरात्मा तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या । अब्द-त्रयङ्कमलन्âभधिया’तिधीरस् तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् ॥७८॥
एवं वर्षम् एकं परीक्षा च ततो दीक्षेति निश्चितम् । तत्र श्री-गोपाल-मन्त्र-वर-दीक्षायां वर्ष-त्रय-गुरु-सेवानन्तरम् एव दीक्षेति तत्-तत्त्व-विदां मतं लिखन् दीक्षा-प्राक्तन-गुरु-सेवा-विधिं च सङ्क्षेपेण दर्शयति—सन्तोषयेद् इति । तं गुरुं विवक्षतुः वक्तुम् इच्छतु । दीक्षर्थं प्रार्थनं कुर्याद् इत्य् अर्थः । अब्द-त्रयम् इत्य् अत्र विशेषो ग्रन्थान्तराद् द्रष्टव्यः । तथा हि—
त्रिषु वर्षेषु विप्रस्य षड्-वर्षेषु नृपस्य च । विशो नवसु वर्षेषु परीक्षेतेति शस्यते । समास्व् अपि द्वादशसु तेषां ये वृषलादयः ॥ इति ।
यच् च शारदा-तिलकादाव् उक्तम्—
एकाब्देन भवेद् विप्रो भवेद् अब्द-द्वयान् नृपः । भवेद् अब्द-त्रयैर् वैश्यः शूद्रो वर्ष-चतुष्टयैः ॥ इति ।
तद् अत्यन्त-पूर्व-परिशीलित-विषयम् इति विवेचनीयम् ॥६८॥
अथ विशेषतः श्री-गुरु-सेवा-विधिः
कौर्मे श्री-व्यास-गीतायाम्—
उद-कुम्भं कुशान् पुष्पं समिधो’स्याहरेत् सदा । मार्जनं लेपनं नित्यम् अङ्गानां वाससां चरेत् ॥७९॥ नास्य निर्माल्य-शयनं पादुकोपासनहाव् अपि । आक्रामेद् आसनं छ्यायाम् आसन्दीं वा कदाचन ॥८०॥ साधयेद् दन्त-काष्ठादीन् कृत्यं चास्मै निवेदयेएत् ॥८१॥
सन्तोषयेद् इत्य् आदिना सामान्यतः सङ्क्षेपेण लिखितं श्री-गुरु-सेवा-विधिं विशेषतो विस्तार्य लिखति—उद-कुम्भम् इत्य् आदिना । अस्य गुरोर् मार्जनादिकं गृहस्य आङ्गानां चेत्य् अर्थः । तत्राङ्गानां लेपनं चन्दनादिनेति ज्ञेयम् । पादुकोपानहोश् चर्म-काष्ठादि-भेदेनावान्तर-भेदः । आसन्दीं भोजन-पात्राधार-त्रिपादिकाम् ॥७९-८१॥
अनापृच्छ्य न गन्तव्यं भवेत् प्रिय-हिते रसः । न पादौ सारयेद् अस्य सन्निधाने कदाचन ॥८२॥ जृम्भा-हास्यादिकं चैव कण्ठ-प्रावरणं तथा । वर्जयेत् सन्निधौ नित्यम् अथास्फोटनम् एव च ॥८३॥
सारयेत् प्रसारयेत् । आदि-शब्दाद् उच्चैर् भाषादि । आस्फोटनम् आग्गुल्यादीनाम् ॥८२-८३॥
किं च—
श्रेयस् तु गुरुवद् वृत्तिर् नित्यम् एव समाचरेत् । गुरु-पुत्रेषु दारेषु गुरोश् चैव स्व-बन्धुषु ॥८४॥
नित्यं गुरु-पुत्रादिषु श्रेयः हितं सम्यग् आचरेत् । गुरुवद् वृत्तिः । गुराव् इव गुरु-पुत्रादिष्व् अपि वृत्तिर् व्यवहारो यस्य तथा-भूतः सन् । स्वा ज्ञातयो बन्धवः सम्बन्धिनस् तेषु । पाठान्तरे श्रेयो यथा स्यात् तथा गुराव् इव तद्-धियाचरेत् । यदाचरेत् तत् श्रेय इति वा ॥८४॥
उत्सादनं वै गात्राणां स्नापनोच्छिष्ट-भोजने । न कुर्याद् गुरु-पुत्रस्य पादयोः शौचम् एव च ॥८५॥ गुरुवत् परिपूज्याश् च स-वर्णा गुरु-योषितः । असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥८६॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च । गुरु-पत्न्या च कार्याणि केशानां च प्रसाधनम् ॥८७॥
तत्रापवादम् आह—उत्सादनम् इति त्रिभिः । गात्राणाम् उत्सादनम् । उद्वर्तनं शौचं प्रक्षालनम् । असवर्णा इति पूर्व-ब्राह्मणानां क्षतिर्यादि-कन्या-परिग्रहात् । यद्यप्य् एतत् सर्वं श्रीव्यास-देवेन वेदाध्यापक-गुरु-सेवाधिकृत्योक्तं, तथापि साङ्ग-वेदाध्यापने मन्त्रोपदेशश् च स्वत एव सिध्यतीत्य् एवं मन्त्र-गुर्वोर् अभेदात् । विशेषतश् च सेवा-विधि-साम्याद् अत्र लिखितम् इति दिक् । एवम् अन्यत्राप्य् ऊह्यम् ॥८७-८९॥
देव्य्-आगमे श्री-शिवोक्तौ—
गुरु-शय्यासनं यानं पादुके पाद-पीठकम् । स्नानोदकं तथा छायां लङ्घयेन् न कदाचन ॥८८॥ गुरोर् अग्रे पृथक्-पूजाम् अद्वैतं च परित्यजेत् । दीक्षां व्याख्यां प्रभुत्वं च गुरोर् अग्रे विवर्जयेत् ॥८९॥
अद्वैतम् अभेदोक्तिः । दीक्षाम् अन्यस्मै दीक्षा-रदानम् ॥८८-८९॥
श्री-नारदोक्तौ—
यत्र यत्र गुरुं पश्येत् तत्र तत्र कृताञ्जलि । प्रणमेत् दण्डवद् भूमौ छिन्न-मूल इव द्रुमः ॥९०॥ गुरोर् वाक्यासनं यानं पादुकोपानहौ तथा । वस्त्रं छायां तथा शिष्यो लङ्घयेन् न कदाचन ॥९१॥
पादुकोपानहोश् चर्म-काष्ठादि-भेदेनावान्तर-भेदः पूर्वम् एव लिखितः ॥९०-९१॥
श्री-मनु-स्मृतौ— (नोत् फ़ोउन्द्)
नोदाहरेद् गुरोर् नाम परोक्षम् अपि केवलम् । न चैवास्यानुकुर्वीत गति-भाषण-चेष्टितम् ॥९२॥ गुरोर् गुरौ सन्निहिते गुरुवद् धृतिम् आचरेत् । न चाविसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥९३॥
केवलं शुद्धं नामाक्षर-मात्रकम् इत्य् अर्थः । स्वान् गुरून् पित्रादीन् ॥९२-९३॥
श्री-नारद-पञ्चरात्रे—
यथा तथा यत्र तत्र न गृह्णीयाच् च केवलम् । अभक्त्या न गुरोर् नाम गृह्णीयाच् च यतात्मवान् ॥९४॥ प्रणवः श्रीस् ततो नाम विष्णु-शब्दाद् अनन्तरम् । पाद-शब्द-समेतं च नत-मूर्धाञ्जली-युतः ॥९५॥
तर्हि कुत्रचित् कथं गृह्णीयाद् इत्य् अपेक्षायाम् आह—गृह्णीयाच् चेत्य् आदिना । अञ्जलीति दीर्घत्वम् आर्षम् । ओं श्री-अमुक-विष्णुपादा इत्य् एवम् । तच् च नत-मूर्धाञ्जलि-युक्तः सन् गृह्णीयाद् इत्य् अर्थः ॥९४-९५॥
किं च—
न तम् आज्ञापयेन् मोहात् तस्याज्ञां न च लङ्घयेत् ।
नानिवेद्य गुरोः किञ्चिद् भोक्तव्यं वा गुरोस् तथा ॥९६॥ \
अन्यत्र च—
आयान्तम् अग्रतो गच्छेद् गच्छन्तं तम् अनुव्रजेत् । आसने शयने वापि न तिष्ठेद् अग्रतो गुरोः ॥९७॥ यत् किञ्चिद् अन्न-पानादि प्रियं द्रव्यं मनोरमम् । समर्प्य गुरवे पश्चात् स्वयं भुञ्जीत प्रत्यहम् ॥९८॥
श्री-विष्णु-स्मृतौ— न गुरोर् अप्रियं कुर्यात् ताडितः पीडितो’पि वा । नावमन्येत तद्-वाक्यं नाप्रियं हि समाचरेत् ॥९९॥ आचार्यस्य प्रियं कुर्यात् प्राणैर् अपि धनैर् अपि । कर्मणा मनसा वाचा स याति परमां गतिम् ॥१००॥
मोहाद् अपि गुरोः किञ्चिन् न भोक्तव्यम् । तच् चाज्ञां विनेति बोद्धव्यम् । अन्यथाज्ञा-लङ्घन-दोषापत्तेः । एतच् च सर्वं दीक्षानन्तरम् अपि शिष्यस्य कृत्यं ज्ञेयम् । सदैव गुरु-भक्तेर् अनुष्ठेयत्वात् । अत एवैतत् दीक्षानन्तरम् अपि क्वचिद् उक्तम् अस्ति ॥९९-१००॥
श्री-नारद-पञ्चरात्रे—
यो वक्ति न्याय-रहितम् अन्यायेन शृणोति यः । ताव् उभौ नरकं घोरं व्रजतः कालम् अक्षयम् ॥१०१॥
परीक्षां विना गुरु-सेवादिं विना च मन्त्रस्य कथने ग्रहणे च महान् अनर्थ इति लिखति—यो वक्तीति । न्यायः द्वयोर् अन्योन्य-परीक्षण-पूर्वक-गुरु-सेवादि-प्रकारस् तद्-रहितम् ।१०१॥
वैष्णव-तन्त्रे—
त्रायस्व भो जगन्नाथ गुरो संसार-वह्निना । **दग्धं मां काल-दष्टं च त्वाम् अहं शरणं गतः ॥१०२॥ **इति ।
एवं सेवया गुरु-सन्तोषणानन्तरं मन्त्र-दीक्षार्थं यथा शिष्येण प्रार्थयितव्यं तद् विज्ञापयितुं लिखति त्रायस्वेति ॥१०२॥
तत्र श्री-वासुदेवस्य सर्व-देव-शिरोमणेः ।
पादाम्बुजैक-भाग् एव दीक्षा ग्राह्या मनीषिभिः ॥१०३॥
तत्र तस्यां गृह्यमानायां दीक्षायां तु पादाम्बुजम् एकम् एव भजति आश्रयतीति तथा सा । मनीषिभिर् इति । अन्यथा निर्बुद्धितैवेति भावः ॥१०३॥
प्रथम-स्कन्धे [भा।पु। १.२.२३]—
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर् युक्तः परम-पुरुष एक इहास्य धत्ते । स्थित्य्-आदये हरि-विरिञ्चि-हरेति सञ्ज्ञाः श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥१०४॥
तत्र हेतुं दर्शयन् श्री-वासुदेवस्य भगवतो माहात्म्यं लिखति—सत्त्वम् इत्यादिना । तत्र ब्रह्मादीनां त्रयाणाम् अपीश्वरत्वे’प्य् एकटमत्वे’पि च श्री-वासुदेवस्याधिक्यम् आह—सत्त्वम् इति । इह यद्यप्य् एक एव परः पुमान् ईश्वरः अस्य विश्वस्य स्थिति-सृष्टि-लयार्थं हरि-विरिञ्चि-हरेति सञ्ज्ञा धत्ते । तथापि तत्र तेषां मध्ये सत्त्व-तनोः श्री-वासुदेवाद् एव श्रेयांसि शुभ-फलानि स्युः ॥१०४॥
किं च [भा।पु। १.१८.२१]—
अथापि यत्-पाद-नखावसृष्टं जगद् विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्य् अन्यतमो मुकुन्दात् को नाम लोके भगवत्-पदार्थः ॥१०५॥
अथापि यद्यपि त्रय एवैते ईश्वरास् तथापीत्य् अर्थः । यद् वा, अथेत्य् अर्थान्तरे । विरिञ्चिनोपहृतं समर्पितम् अर्हणाम्भः अर्घ्योदकं यस्य पाद-नखाद् अवसृष्टं निःसृतम् अपि । यद् वा, पाद-नखेनावज्ञया त्यक्तम् अपि ईश-सहितं जगत् पुनाति । विरिञ्चोपहृतं शेषम् इत्य् अनेन श्री-ब्रह्म-शिवयोर् अप्य् उपासकत्वम् उक्तम् । तस्मान् मुकुन्दाद् व्यतिरिक्तः को नाम भगवत्-पदार्थो’भिधेयः । सर्वेश्वरः स विष्णुर् एक एवेत्य् अर्थः ॥१०५॥
श्री-दशम-स्कन्धे [भा।पु। १०.८९.१५]—
तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः । भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो’भयम् ॥१०६॥
तद् भृगु-वर्णितं श्री-भगवन्-माहात्म्यं विस्मिता तादृशापराधे’पि निर्विकारत्वेन । यद् वा, अविस्मितास् तस्य स्वत एव तथा सम्भावनया । भूयांसं महत्तमं । श्रद्दधुर् निश्चितवन्तः ॥१०६॥
पाद्मे वैशाख-माहात्म्ये यम-ब्राह्मण-संवादे [प।पु। ५.९७.२७]—
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास् तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम- व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥१०७॥
जल्पन्त्व् इत्य् उपहासे, जानन्त एव जानन्तु इत्य् आदिवत् । समस्तानाम् आगमानां शास्त्राणां व्यापारेषु प्रयोजनेषु विवेचनस्य व्यापारस्य दूषणत्वेन तद् एव स्कन्द-पुराणादि-विचारस्य व्यतिकरम् आसङ्गं प्रापितेषु सत्सु सिद्धान्ते विषये विष्णुर् एक एव भगवान् सर्वेश्वर इति निश्चीयते ॥१०७॥
नारसिंहे—
सत्यं सत्यं पुनः सत्यम् उत्क्षिप्य भुजम् उच्यते । वेदाच् छास्त्रं परं नास्ति न देवः केशवात् परः ॥१०८॥
वेदाच् छास्त्रं परं परमं नास्तीति दृष्टान्तत्वेनोक्तम् ॥१०८॥
यतः पाद्मे—
अरिर् मित्रं विषं पथ्यम् अधर्मो धर्मतां व्रजेत् । सुप्रसन्ने हृषीकेशे विपरीते विपर्ययः ॥१०९॥
तत्रैव श्री-भगवद्-वाक्यम्— मन्-निमित्तं कृतं पापम् अपि धर्माय कल्पते । माम् अनादृत्य धर्मो’पि पापं स्यान् मत्-प्रभावतः ॥११०॥
अतएवोक्तं स्कान्दे श्री-ब्रह्म-नारद-संवादे— वासुदेवं परित्यज्य यो’न्यं देवम् उपासते । स्व-मातरं परित्यज्य श्वपचीं वन्दते हि सः ॥१११॥
तत्रैवान्यत्र— वासुदेवं परित्यज्य यो’न्यं देवम् उपासते । त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥११२॥
एवं ब्रह्मादिभ्यो’खिल-देवेभ्यो माहात्म्यं विलिख्याधुना तत्-परित्यागेनान्य-देवता-भजनस्य दूषणत्वेन तद् एव स्कन्द-पुराणादि-वाक्यैर् द्रढयति—वासुदेवम् इत्य् आदिना । उपासत इत्य् आर्षम् उपास्ते ॥१०९-११२॥
महाभारते—
यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते । स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥११३॥ अनादृत्य तु यो विष्णुम् अन्य-देवं समाश्रयेत् । गङ्गाम्भसः स तृष्णार्तो मृग-तृष्णां प्रधावति ॥११४॥
गङ्गाम्भसः सकाशात् तत् परित्यज्येत्य् अर्थः ॥११३-११४॥
पञ्चरात्रे—
यो मोहाद् विष्णुम् अन्येन हीन-देवेन दुर्मतिः । साधारणं सकृद् ब्रूते सो’न्त्यजो नान्त्यजो’न्त्यजः ॥११५॥
अस्तु तावत् परित्यागे न दोषः । अन्य-देव-सामान्य-दृष्टैव महान् अनर्थ इति लिखति—य इति । मोहाद् अपि हीनेन विष्ण्व्-अपेक्षया निकृष्टेन देवेन । जाताव् एकत्वम् । साधारणं तुल्यम् । सकृद् अपि अत्यन्त-नीचः स एव, न तु चाण्डालादिर् इत्य् अर्थः ॥११५॥
वैष्णव-तन्त्रे—
न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जङाः । एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥११६॥
अन्यत्र च— यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥११७॥ इति ।
किं च, यस् त्व् इति । आदि-शब्देन इन्द्रादयः । अयं भावः—श्री-ब्रह्म-रुद्रौ गुणावतारौ इन्द्रादयो विभूतयः । भगवान् श्री-नारायणो’वतारी परमेश्वर इत्य् एतत् शास्त्रैः प्रतिपाद्यते । अतो’न्यैः सह तस्य साम्य-दृष्ट्या शास्त्रानादरेण पाषाण्डिता निष्पाद्यत इति । अत एवोक्तं बृहत्-सहस्र-नाम-स्तोत्रे श्री-महादेवेन—
नावैष्णवाय दातव्यं विकल्पोपहतात्मने । भक्ति-श्रद्धा-विहीनाय विष्णु-सामान्युअ-दर्शिने ॥ इति ।
तद्-अन्ते श्री-दुर्गा-देव्या च—
अहो सर्वेश्वरो विष्णुः सर्व-देवोत्तमोत्तमः । जगद्-आदि-गुरुर् मूढैः सामान्य इव वीक्ष्यते ॥ इति ॥११६-११७॥
सहस्र-नाम-स्तोत्रादौ श्लोकौघाः सन्ति चेदृशाः ।
विशेषतः सत्त्व-निष्ठैः सेव्यो विष्णुर् न चापरः ॥११८॥
तथा च श्री-हरि-वंशे शिव-वाक्यम्—
हरिर् एव सदाराध्यो भवद्भिः सत्त्व-संस्थितैः । विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥११९॥ इति ।
ईदृशाः श्री-भगवन्-माहात्म्य-परा इत्य् अर्थः । तथा च तत्रैव श्री-महादेव-वाक्यम्—
न यान्ति तत्-परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् । सर्व-भावैर् अनाश्रित्य पुराणं पुरुषोत्तमम् ॥ तम् एव तपसा नित्यं भजामि स्तौमि चिन्तये । तेनाद्वितीय-महिमा जगत्-पूज्यो’स्मि पार्वति ॥ इति ।
तत्रैव नाम-मध्ये—
सर्व-देवैक-शरणं सर्व-देवैक-देवतम् । सूर्य-कोटि-प्रतीकाशो यम-कोटि-दुरासदः ॥ ब्रह्म-कोटि-जगत्-स्रष्टा वायु-कोटि-महाबलः । कोटीन्दु-जगदानन्दी शम्भु-कोटि-महेश्वरः ॥ इत्यादि ।
तद्-अन्ते च श्री-दुर्गा-देवी-वाक्यम्—
अहो बत महत् कष्टं समस्त-सुखदे हरौ । विद्यमाने’पि सर्वेशे मूढे क्लिश्यन्ति संस्मृतौ ॥ यम् उद्दिश्य सदा नाथो महेशो’पि दिगम्बरः । जटा-भस्मानुलिप्ताङ्गस् तपस्वी वीक्ष्यते जनैः ॥ ततो’धिको’स्ति को देवो लक्ष्मी-कान्तान् मधुद्विषः ॥ इत्य् आदि ।
वीक्ष्यते जनैर् इति न त्व् एतद् अप्रत्यक्षं, किन्तु साक्षात् सर्व-लोकैर् दृश्यत एवेत्य् अर्थः । आदि-शब्देन लघु-सहस्र-नाम-स्तोत्रादिः । तत्र लघु-सहस्र-नाम-स्तोत्रे आरम्भे—
परमं यो महत्-तेजः परमं यो महत्-तपः । परमं यो महद्-ब्रह्म परमं यः परायणम् ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां यो’व्ययः पिता ॥ इत्य् आदि ।
अन्ते च—
द्यौः स-चन्द्रार्क-नक्षत्रा खं दिशो भूर् महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ इत्य् आदि च ।
विशेषत इति तमसा रजसा चोपहत-चित्ताः किल कथञ्चिद् अन्यं वा भजन्तां नाम । सात्त्विकैस् त्व् अवश्यं श्री-विष्णुर् एव भजनीय इत्य् अर्थः । अतो यो’न्यं भजेत् स तमो-रजो-दूषित इति भावः । पठध्वं जपत । ध्यातेत्य् आर्षम् ध्यायत ।
ननु ईदृशानि हृत्-कर्ण-रसायनानि श्री-भगवन्-माहात्म्य-पराणि वचनानि सर्व-शास्त्रतः समाहृत्यापराण्य् अपि लिख्यन्ताम् । तत्राह—ईदृग् इति । ग्रन्थस्य बाहुल्यं विस्तरस् तेन तद्-रूपो वा दोषो भवेत् । तत् तस्मात् हेतोः । यद् वा, तद् इत्य् अव्ययं तानीत्य् अर्थः । यावन्ति यत्रापेक्षितानि भवन्ति, तावन्त्य् एव तत्र लिख्यन्ते, न त्व् अधिकानीत्य् अर्थः । एतेन चाद्र्शानि बहुतराणि वचनानि सन्तीति बोधितम् । लिख्यन्त इति वर्तमान-निर्देशाद् अग्रे’प्य् एवम् एव लेख्यानीति ज्ञेयम् ॥११९-१२०॥
ईदृङ्-माहात्म्य-वाक्येषु सङ्गृहीतेषु सर्वतः ।
ग्रन्थ-बाहुल्य-दोषः स्याल् लिख्यन्ते’पेक्षितानि तत् ॥१२०॥
अथ श्री-वैष्णव-मन्त्र-माहात्म्यम्
आगमे—
मन्त्रान् श्री-मन्त्र-राजादीन् वैष्णवान् गुर्व्-अनुग्रहात् । सर्वैश्वर्यं जपन् प्राप्य याति विष्णोः परं पदम् ॥१२१॥ पुण्यं वर्ष-सहस्रैर् यैः कृतं सुविपुलं तपः । जपन्ति वैष्णवान् मन्त्रान् नरास् ते लोक-पावनाः ॥१२२॥
वैष्णवे च— प्रजपन् वैष्णवान् मन्त्रान् यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यो मुच्यते’सौ महा-भयात् ॥१२३॥ इति ।
लिख्यते विष्णु-मन्त्राणां महिमाथ विशेषतः ।
तात्पर्यतः श्री-गोपाल-मन्त्र-माहात्म्य-पुष्टये ॥१२४॥
एवं सामान्यतो लिखित्वा विशेषतो लिखितुं प्रतिजानीते—लिख्यत इति । अथ सामान्यतो लिखनानन्तरम् अधुना विशेषतो लिख्यते । ननु अग्रे श्री-मदन-गोपाल-देवस्य सम्मोहनाख्याष्टादशाक्षर-मन्त्र-पूजा-विधिर् एव लेख्यस् तत् किम् अन्य-मन्त्र-माहात्म्य-लिखनेन ? तत्राह—तात्पर्यत इति । अयम् अर्थः—श्री-गोपाल-देवो’यम् अवतारी कृष्णस् तु भगवान् स्वयम् इत्य् उक्तेः । विचित्र-माहात्म्य-विशेष-प्रकटनाच् च । अतो’वताराणां माहात्म्येन तस्यैव माहात्म्य-विशेष-सिद्धेः साक्षात् तन्-मन्त्रस्यापि माहात्म्यं स्वतः पुष्टम् एव स्यात् । अतस् तद्-अर्थम् एव लिख्यत इति ॥१२४॥
तत्र द्वादशाक्षराष्टाक्षरयोर् माहात्म्यम्
पद्म-पुराणे देवदूत-विकुण्डल-संवादे—
साङ्गं स-मुद्रं स-न्यासं स-ऋषि-दैवतम् । स-दीक्षा-विधि स-ध्यानं स-यन्त्रं द्वादशाक्षरम् ॥१२५॥ अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः । तान् दृष्ट्वा ब्रह्महा शुध्येते यतो विष्णवः स्वयम् ॥१२६॥ शङ्खिनश् चक्रिणो भूत्वा ब्रह्मायुर् वन-मालिनः । वसन्ति वैष्णवे लोके विष्णु-रूपेण ते नराः ॥१२७॥
तत्र श्री-वैष्णव-तन्त्रेषु मध्ये । छन्देत्य् अदन्तत्वम् आर्षं छन्दो-भङ्ग-भयात् । विष्णव इति विष्णु-सारूप्य-प्राप्तेः । विष्णो रूपेणेत्य् अनुक्त-वर्णाकारादि-ग्रहणार्थम् ॥१२५-१२७॥
तत्रैव द्वादशाक्षरयस् चतुर्थ-स्कन्धे [भा।पु। ४.८.५३]—
जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥१२८॥
सामान्यतो द्वयोर् अपि लिखित्वाधुना विशेषतो लिखति—तत्रेति । तत्र द्वयोर् द्वादशाक्षराष्टाक्षरयोर् एव मध्ये । श्री-नृपात्मज हे श्री-ध्रुव ॥१२८॥
श्री-विष्णु-पुराणे [वि।पु। १.६.४०]—
गत्वा गत्वा निवर्तन्ते चन्द्र-सूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षर-चिन्तकाः ॥१२९॥
अष्टाक्षरस्य, यथा नारद-पञ्चरात्रे— त्रयो वेदाः षड्-अङ्गानि छन्दांसि विविधाः सुराः । सर्वम् अष्टाक्षरान्तःस्थं यच् चान्यद् अपि वाङ्-मयम् ॥१३०॥ सर्व-वेदान्त-सारार्थं संसारार्णव-तारणः । गतिर् अष्टाक्षरो नॄणां न पुनर् भव-काङ्क्षिणाम् ॥१३१॥ यत्राष्टाक्षर-संसिद्धो महा-भागो महीयते । न तत्र सञ्चरिष्यन्ति व्याधि-दुर्भिक्ष-तस्कराः ॥१३२॥ देव-दानव-गन्धर्वाः सिद्ध-विद्याधरादयः । प्रणमन्ति महात्मानम् अष्टाक्षर-विदं नरम् ॥१३३॥ व्यक्तं हि भगवान् एव साक्षान् नारायणः स्वयम् । अष्टाक्षर-स्वरूपेण मुखेषु परिवर्तते ॥१३४॥
न पुनर् भवत्य् अत्र समासे’पि न-कार-स्थितिर् आर्षत्वात् । मुखेषु परिवर्तते आदिर् भवतीति वाङ्-मय-स्वरूपत्वात् ॥१२९-१३४॥
पाद्मोत्तर-खण्डे [प।पु। ६.२२६.१८]—
एवम् अष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थ-साधकः । सर्व-दुःख-हरः श्रीमान् सर्व-मन्त्रात्मकः शुभः ॥१३५॥
श्रीः सर्व-शोभा-सम्पत्तिर् वा तद्वान् । सेवकस्य श्री-प्रद इत्य् अर्थः । स्वतश् च शुभः मङ्गल-स्वरूपः ॥१३५॥
लिङ्ग-पुराणे—
किम् अन्यैर् बहुभिर् मन्त्रैः किम् अन्यैर् बहुभिर् व्रतैः । नमो नारायणेति मन्त्रः सर्वार्थ-साधकः ॥१३६॥ तस्मात् सर्वेषु कालेषु नमो नारायणेति यः । जपेत् स याति विप्रेन्द्र विष्णु-लोकं स-बान्धवः ॥१३७॥
भविष्य-पुराणे— अष्टाक्षरो महा-मन्त्रः सर्व-पाप-हरः परः । सर्वेषां विष्णु-मन्त्राणां राजत्वे परिकीर्तितः ॥१३८॥
श्री-शुक-व्यास-संवादे च— नमो नारायणायेति मन्त्रः सर्वार्थ-साधकः । भक्तानां जपतां तात स्वर्ग-मोक्ष-फल-प्रदः ॥१३९॥ एष एव परो मोक्ष एष स्वर्ग उदाहृतः । सर्व-वेद-रहस्येभ्यः सार एष समुद्धृतः ॥१४०॥
विष्णुना वैष्णवानां तु हिताय मनुना पुरा । कीर्तितः सर्व-पापघ्नः सर्व-काम-प्रदायकः ॥१४१॥ नारायणाय नम इत्य् अयम् एव सत्यं संसार-घोर-विष-संहरणाय मन्त्रः । शृण्वन्तु सत्य-मतयो मुदितास् तरागा उच्चैस्तराम् उपदिशाम्य् अहम् ऊर्ध्व-बाहुः ॥१४२॥ भूत्वोर्ध्व-बाहुर् अद्याहं सत्य-पूर्वं ब्रवीमि वः । हे पुत्र-शिष्याः शृणुत न मन्त्रो’ष्टाक्षरात् परः ॥१४३॥
हे तात ! हे शुक ! विष्णुना समुद्धृतः । मनुना कीर्तितः जप्तः लोकेषु वा कथितः । मुदिताश् च ते’स्तरागाश् च विरक्ताश् च । हे शिष्याः ॥१३५-१४३॥
अतएवोक्तं गारुडे—
आसीनो वा शयानो वा तिष्ठानो यत्र तत्र वा । नमो नारायणेति मन्त्रैक-शरणो भवेत् ॥१४४॥
तिष्ठान इत्य् आर्षं तिष्ठन् ॥१४४॥
तापनी-श्रुतिषु [नृ।ता।उ। १.५.८]—
देवा ह वै प्रजापतिम् अब्रुवन्न् आनुष्टुभस्य मन्त्र-राजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्र-राजं नारसिंहम् आनुष्टुभं नित्यम् अधीते सो’ग्नि-पूतो भवति स वायु-पूतो भवति स आदित्य-पूतो भवति स सोम-पूतो भवति स सत्य-पूतो भवति स ब्रह्म-पूतो भवति स विष्णु-पूतो भवति स रुद्र-पूतो भवति स सर्व-पूतो भवति स सर्व-पूतो भवति ॥१४५॥
तत्रैवान्ते [नृ।ता।उ। ५.९-१०]— अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समं । वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समं । यतीनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन तत्-समम् । तद् वा एतत् परमं धाम मन्त्र-राजाध्यापकस्य यत्र न सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदा-शिवं ब्रह्मादि-वन्दितं योगि-ध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । तद् एतद् ऋचाभ्युक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तद् विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर् यत् परमं पदम् ॥१४६॥
अथ श्री-राम-मन्त्राणां माहात्म्यम्
अगस्त्य-संहितायाम्—
सर्वेषु मन्त्र-वर्गेषु श्रेष्ठं वैष्णवम् उच्यते । गाणपत्येषु शैवेषु शाक्त-सौरेष्व् अभीष्टदम् ॥१४७॥ वैष्णवेष्व् अपि मन्त्रेषु राम-मन्त्राः फलाधिकाः । गाणपत्य्-आदि-मन्त्रेभ्यः कोटि-कोटि-गुणाधिकाः ॥१४८॥ विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि । विनैव न्यास-विधिना जप-मात्रेण सिद्धिदाः ॥१४९॥ मन्त्रेष्व् अष्टस्व् अनायास-फलदो’यं षड्-अक्षरः । षड्-अक्षरो’यं मन्त्रस् तु महाघौघ-निवारणः ॥१५०॥ मन्त्र-राज इति प्रोक्तः सर्वेषाम् उत्तमोत्तमः । दैनन्दिनं तु दुरितं पक्ष-मास-र्तु-वर्षजम् ॥१५१॥ सर्वं दहति निःशेषं तूलाचलम् इवानलः । ब्रह्म-हत्या-सहस्राणि ज्ञानाज्ञान-कृतानि च ॥१५२॥ स्वर्ण-स्तेय-सुरापान-गुरु-तल्प-युतानि च । कोटि-कोटि-सहस्राणि ह्य् उपपापानि यान्य् अपि । सर्वाण्य् अपि प्रणश्यन्ति राम-मन्त्रानुकीर्तनात् ॥१५३॥
तापनी-श्रुतिषु च— य एतत् तारकं ब्राह्मणो नित्यम् अधीते, स पाप्मानं तरति, स मृत्युं तरति, स भ्रू-हत्यां तरति, स सर्व-हत्यां तरति, स संसारं तरति, स सर्वं तरति, स विमुक्ताश्रितो भवति, सो’मृतत्वं च गच्छति ॥१५४॥
अथ गोपाल-देव-मन्त्र-माहात्म्यम्
**मन्त्रास् तु कृष्ण-देवस्य साक्षाद् भगवतो हरेः ।
सर्वावतार-बीजस्य सर्वतो वीर्यवत्तमाः ॥१५५॥ \
**सर्वतः सर्वेभ्यः श्री-नृसिंह-रघुनाथादि-मन्त्रेभ्यो’पि वीर्यवत्तमाः परम-प्रभाववन्तः । तत्र हेतुः—सर्वावतार-बीजस्य । कृष्णस् तु भगवान् स्वयम् इत्य् अवतारित्वोक्तेः ॥१५५॥
तथा च बृहद्-गौतमीये श्री-गोविन्द-वृन्दावनाख्ये—
सर्वेषां मन्त्र-वर्याणां श्रेष्ठो वैष्णव उच्यते । विशेषात् कृष्ण-मनवो भोग-मोक्षैक-साधनम् ॥१५६॥ यस्य यस्य च मन्त्रस्य यो यो देवस् तथा पुनः । अभेदात् तन्-मनूनां च देवता सैव भाष्यते ॥१५७॥ कृष्ण एव परं ब्रह्म सच्चिदानन्द-विग्रहः । स्मृति-मात्रेण तेषां वै भुक्ति-मुक्ति-फल-प्रदः ॥१५८॥ इति ।
तत्रापि भगवत्तां स्वां तन्वतो गोप-लीलया ।
तस्य श्रेष्ठतमा मन्त्रास् तेष्व् अप्य् अष्टादशाक्षरः ॥१५९॥
तत्र तेषु श्री-द्वारकानाथ-दैवतादि-मन्त्रेष्व् अपि मध्ये तस्य श्री-कृष्ण-देवस्यैव गोप-लीलया निजां भगवत्तां तन्वतः विस्तारयतः सतो ये मन्त्रास् त एव श्रेष्ठतमाः । तेष्व् अपि मध्ये’ष्टादशाक्षरः सम्मोहनाख्यया प्रसिद्धः श्रेष्ठ इत्य् अर्थः ॥१५९॥
तापनी-श्रुतिषु (१.२-८)—
**ओं। मुनयो ह वै ब्राह्मणम् ऊचुः—कः परमो देवः ? ** **कुतो मृत्युर् बिभेति ? कस्य विज्ञानेनाखिलं विज्ञातं भाति ? ** केनेदं विश्वं संसरतीति । **तान् उ होवाच ब्राह्मणः— कृष्णो वै परमं दैवतम् । गोविन्दान् मृत्युर् बिभेति । गोपी-जन-वल्लभ-ज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । ** **तम् उ होचुः—कः कृष्णो ? गोविन्दः को’सौ ? ** **गोपी-जन-वल्लभः कः ? का स्वाहा ? इति । ** **तान् उवाच ब्राह्मणः पाप-कर्षणो गो-भूमि-वेद-विदितो वेदिता गोपी-जनाविद्या-कला-प्रेरकस् तन्-माया चेति । सकलं परं ब्रह्मैव तत् । ** **यो ध्यायति रसति भजति सो’मृतो भवति सो’मृतो भवतीति । ** **ते होचुः— किं तद्-रूपं किं रसनं कथं वाहो तद्-भजनं । तत् सर्वं विविदिषताम् आख्याहीति । तद् उ होवाच हैरण्यः— गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् ॥१६०॥ **
ह स्फुटं, वै प्रसिद्धम् । ब्राह्मणं ब्रह्म-वेत्तारं ब्रह्माणम् इत्य् अर्थः ॥
तद् ब्रह्म दैवतम् इति पूर्व-प्रक्रान्तं वा । पाप-कर्षन इति द्वितीयस्य पदार्थः । गौः स्वर्गः । गो-भूमि-वेदेषु विदितः । तेषां च वेदितेति तृतीयस्यार्थः । गोपी-जनो’विद्यायाः कलाः स्त्रीत्वात् अंशास् तत्-प्रेरकः । यद् वा, गोपी-जना एव आ सम्यक् विद्या । प्राप्त्य्-उपायत्वात् । सैव कला शक्ति-विशेषस् तस्याः प्रेरक इति चतुर्थस्य । तन्-माया चेति पञ्चस्येति दिक् ।
तद् ब्रह्म दैवतम् इति पूर्व-प्रक्रान्तं वा । पाप-कर्षन इति द्वितीयस्य पदार्थः । गौः स्वर्गः । गो-भूमि-वेदेषु विदितः । तेषां च वेदितेति तृतीयस्यार्थः । गोपी-जनो’विद्यायाः कलाः स्त्रीत्वात् अंशास् तत्-प्रेरकः । यद् वा, गोपी-जना एव आ सम्यक् विद्या । प्राप्त्य्-उपायत्वात् । सैव कला शक्ति-विशेषस् तस्याः प्रेरक इति चतुर्थस्य । तन्-माया चेति पञ्चस्येति दिक् ॥
रसति आस्वादयति कीर्तनादिना ॥
किं च, तत्रैवाग्रे (गो।ता।उ। १.१४-१६)—
**भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् ** मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् । कृष्णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधाराधयन्ति । गोपीजन-वल्लभो भुवनानि दध्रे **स्वाहाश्रितो जगद् एजयत् स्व-रेताः ॥१६१॥ **
एजयति ऐजयत् चेष्टां कारयामास । गोपी-जन-वल्लभ एवेत्य् अर्थः । स्व-रेताः स्वस्माद् उद्भूतम् इत्य् अर्थः ॥१६१॥
वायुर् यथैको भुवनं प्रविष्टो जन्ये जन्ये पञ्च-रूपो बभूव । कृष्णस् तथैको’पि जगद्-धितार्थं **शब्देनासौ पञ्च-पदो विभाति ॥१६२॥ **इति ।
अपघनं शरीरम् । जन्ये जन्ये प्रति-शरीरम् । पञ्च-पदः अष्टादशाक्षरो’यं मन्त्रः ॥१६२॥
किं च तत्रैवोपासन-विधि-कथनानन्तरम् (गो।ता।उ। १.१९-२४)—
एको वशी सर्वगः कृष्ण ईड्य एको’पि सन् बहुधा यो विभाति । तं पीठस्थं ये’नुभजन्ति धीरास् **तेषां सुखं शाश्वतं नेतरेषाम् ॥१६३॥ ** नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पीठगं ये’नुभजन्ति धीरास् तेषां सिद्धिः शाश्वती नेतरेषाम् ॥१६४॥ एतद् विष्णोः परमं पदं ये नित्य-मुक्ताः संयजन्ते न कामान् । तेषाम् असौ गोप-रूपः प्रयत्नात् प्रकाशयेद् आत्म-पदं तदैव ॥१६५॥ यो ब्रह्माणं विदधाति पूर्वं यो विद्यास् तस्मै गोपायति स्म कृष्णः । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अनुव्रजेत ॥१६६॥
प्रेम्णैवात्म-वृत्तेः प्रकाशो यस्य तम् । पाठान्तरं सुगमम् ॥१६६॥
ओङ्कारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्चपदं मनुम् । तेषाम् असौ दर्शयेद् आत्म-रूपं तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥१६७॥
नित्य-शान्त्यै नित्यायै अविनश्वरायै शान्त्यै सुखाय, अबुध्यत प्रबोधं प्राप्तः ॥१६७॥
तस्माद् अन्ये पञ्चपदाद् अभूवन् गोविन्दस्य मनवो मानवानाम् । दशार्णाद्यास् ते’पि सङ्क्रन्दनाद्यैर् अभ्यस्यन्ते भूति-कामैर् यथावत् ॥१६८॥
किं च तत्रैव (गो।ता।उ। १.२५-२६)— तद् उ होवाच ब्राह्मणो’साव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सो’बुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मया’नुकूलेन हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो । लात् पृथिवी । ईतो’ग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्लीं-काराद् असृजम् । कृष्णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात् तद्-उत्तरात् स्त्री-पुमादि चेदं सकलम् इदं इति ॥१६९॥
पुनश् च स्तुतः सन् प्राकाशयद् भगवान् एव । यद् वा णि-प्रत्ययस्य अत्रानधिकार्थत्वं प्राकाशतेत्य् अर्थः । प्राकाशयम् इति वा पाठः । कात् क-कारात् । आपो जलम् । ल-कारात् पृथिवी । ई-काराद् अग्निः । बिन्दोः सकाशाच् चन्द्रः । तस्य नादाद् अर्कः । यात् य-काराद् वायुर् अभूद् इति शेषः । उत्तरात् गोविन्दायेत्य् अस्मात् । सुरभिं गो-जातिम् । तद्-उत्तरात् गोपी-जनेत्य् अस्मात् विद्याश् चतुर्दश । तद्-उत्तरात् वल्लभेत्य् आदितः । वेदयित्वा विदित्वा । अन्याभ्यो वा विज्ञाप्य । ओङ्कारान्तरालकं प्रणव-पुटितम् इत्य् अर्थः । अभित आनयत् साधयामास । यस्य पूर्व-पदाद् इत्य् आदि च कल्पान्तरे प्रकारान्तराभिप्रायेण । पूर्वम् अर्शत् परामर्शात् । यद् वा, पूर्वेषां मर्शात् विचाराद् अपीति ॥१६९॥
तथा च गौतमीय-तन्त्रे—
क्लीं-काराद् असृजद् विश्वम् इति प्राह श्रुतेः शिरः । ल-कारात् पृथिवी जाता क-काराज् जल-सम्भवः ॥१७०॥ ई-काराद् वह्निर् उत्पन्नो नादाद् वायुर् अजायत । बिन्दोर् आकाश-सम्भूतिर् इति भूतात्मको मनुः ॥ स्वा-शब्देन च क्षेत्रज्ञो हेति चित्-प्रकृतिः परा । तयोर् ऐक्य-समुद्भूतिर् मुख-वेष्टन-वर्णकः ॥ अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥१७१॥
पुनश् च सा श्रुतिः— एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदयित्वा ओङ्कारान्तरालकं मनुम् आवर्तयत् सङ्ग-रहितो’भ्यानयत् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तस्माद् एनं नित्यम् अभ्यसेत् ॥१७२॥ इत्य् आदि ।
तत्रैवाग्रे— यस्य पूर्व-पदाद् भूमिर् द्वितीयात् सलिलोद्भवः । तृतीयात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः ॥१७३॥ पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् । चन्द्र-ध्वजो’गमद् विष्णुः परमं पदम् अव्ययम् ॥१७४॥ ततो विशुद्धं विमलं विशोकम् अशेष-लोभादि-निरस्त-सङ्गम् । यत् तत् पदं पञ्च-पदं तद् एव स वासुदेवो न यतो’न्यद् अस्ति ॥१७५॥ तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणो’हं परमया स्तुत्या तोषयामि ॥१७६॥ इति ।
किं च स्तुत्य्-अनन्तरम्— अमुं पञ्चपदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं तत् पदं तत् । अनेजद् एकं मनसो जवीयो नैतद् देवा आप्नुवन् पूर्वम् अर्शात् ॥१७७॥ तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इति ओं तत् सद् इति ॥१७८॥
त्रैलोक्य-सम्मोहन-तन्त्रे च, देवीं प्रति श्री-महादेवोक्ताष्टादशाक्षर-प्रसङ्ग एव— धर्मार्थ-काम-मोक्षाणाम् ईश्वरो जगद्-ईश्वरः । सन्ति तस्य महाभागा अवताराः सहस्रशः ॥१७९॥ तेषां मध्ये’वताराणां बालत्वम् अतिदुर्लभम् । अमानुषाणि कर्माणि तानि तानि कृतानि च ॥१८०॥ शापानुग्रह-कर्तृत्वे येन सर्वं प्रतिष्ठितम् । तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गम् अनुत्तमम् ॥१८१॥ यस्य विज्ञान-मात्रेण नरः सर्वज्ञताम् इयात् । पुत्रार्थी पुत्रम् आप्नोति धर्मार्थी लभते धनम् ॥१८२॥ सर्व-शास्त्रार्थ-पारज्ञो भवत्य् एव न संशयः । त्रैलोक्यं च वशीकुर्यात् व्याकुलीकुरुते जगत् ॥१८३॥ मोहयेत् सकलं सो’पि मारयेत् सकलान् रिपून् । बहुना किम् इहोक्तेन मुमुक्षुर् मोक्षम् आप्नुयात् ॥१८४॥ यथा चिन्तामणिः श्रेष्ठो यथा गौश् च यथा सती । यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥१८५॥ यथावद् अखिल-श्रेष्ठं यथा शास्त्रं तु वैष्णवम् । यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥१८६॥
बालत्वं शैशवं चाञ्चल्यं वा, येन बालत्वेन हेतुना सर्वं जगत् शपने’नुग्रहणे च प्रतिष्ठां प्राप्तम् । तद्-बाल्य-चरितादि-महिम्ना विश्वम् एव सर्वार्थ-शक्ति-विशेष-युक्तम् अभूद् इत्य् अर्थः । श्रेष्ठः सर्वार्थ-साधने परमोत्तमः । यथा चिन्तामणादयः सर्वार्थ-साधकाः । तथा मन्त्रोत्तमो’सौ अष्टादशाक्षर-मन्त्रो’पि सर्वार्थ-साधक इत्य् अर्थः । यद् वा, यथा मणिषु चिन्तामणिः श्रेष्ठः, गोषु गौः काम-धेनुः । यद् वा, पशुषु गौः । नारीषु च सती । वर्णेषु विप्रः । नदीषु गङ्गा । तथासौ मन्त्रेषूत्तम इत्य् अर्थः । एवम् अग्रे’पि । यावत् सम्यक्तया अखिलेषु शास्त्रेषु श्रेष्ठम् ॥१८०-१८६॥
किं च—
अतो मया सुरेशानि प्रत्यहं जप्यते मनुः । नैतेन सदृशः कश्चिद् जगत्य् अस्मिन् चरचरे ॥१८७॥
सनत्कुमार-कल्पे’पि— गोपाल-विषया मन्त्रास् त्रयस्त्रिंशत् प्रभेदतः । तेषु सर्वेषु मन्त्रेषु मन्त्र-राजम् इमं शृणु ॥१८८॥ सुप्रसन्नम् इमं मन्त्रं तन्त्रे सम्मोहनाह्वये । गोपनीयस् त्वया मन्त्रो यत्नेन मुनि-पुङ्गव ॥१८९॥
मुनि-पुङ्गव हे नारद ॥१८९॥
अनेन मन्त्र-राजेन महेन्द्रत्वं पुरन्दरः । जगाम देव-देवेशो विष्णुना दत्तम् अञ्जसा ॥१९०॥ दुर्वाससः पुरा शापाद् असौभाग्येन पीडितः । स एव सुभगवत्वं वै तेनैव पुनर् आप्तवान् ॥१९१॥ बहुना किम् इहोक्तेन पुरश्चरण-साधनैः । विनापि जप-मात्रेण लभते सर्वम् ईप्सितम् ॥१९२॥
प्रभुं श्री-कृष्ण-चैतन्यं तं नतो’स्मि गुरूत्तमम् ।
कथञ्चिद् आश्रयाद् यस्य प्राकृतो’प्य् उत्तमो भवेत् ॥१९३॥
एवं तत्-तन्-माहात्म्य-लिखने’योग्यस्याप्य् आत्मनो भगवन्-महिम्ना योग्यतां सम्भावयन् परम-गुरुं श्री-भगवन्तं प्रणमति—प्रभुम् इति ॥१९३॥
अथाधिकार-निर्णयः
तान्त्रिकेषु च मन्त्रेषु दीक्षायां योषिताम् अपि ।
साध्वीनाम् अधिकारो’स्ति शूद्रादीनां च सद्-धियाम् ॥१९४॥
सद्-धियाम् उत्तम-बुद्धीनां विप्र-सेवादि-पराणाम् इत्य् अर्थः ॥१९४॥
तथा च स्मृत्य्-अर्थ-सारे पाद्मे च वैशाख-माहात्म्ये [६.८४.४८, ५२-४] श्री-नारदाम्बरीष-संवादे—
आगमोक्तेन मार्गेण स्त्री-शूद्रैर् अपि पूजनम् । कर्तव्यं श्रद्धया विष्णोश् चिन्तयित्वा पतिं हृदि ॥१९५॥ शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वे’प्य् आगम-मार्गेण कुर्युर् वेदानुकारिणा ॥१९६॥ स्त्रीणाम् अप्य् अधिकारोऽस्ति विष्णोर् आराधनादिषु । पति-प्रिय-रतानां च श्रुतिर् एषा सनातनी ॥१९७॥
अगस्त्य-संहितायां श्री-राम-मन्त्र-राजम् उद्दिश्य— शुचिव्रततमाः शूद्रा धार्मिका द्विज-सेवकाः । स्त्रियः पति-व्रताश् चान्ये प्रतिलोमानुलोमजाः ॥ लोकाश् चाण्डाल-पर्यन्ताः सर्वे’प्य् अत्राधिकारिणः ॥१९८॥ इति ।
गुरुश् च सिद्ध-साध्यादि-मन्त्र-दाने विचारयेत् ।
स्व-कुलान्य् अकुलत्वं च बाल-प्रौढत्वम् एव च ॥१९९॥
स्त्री-पुं-नपुंसकत्वं च राशि-नक्षत्र-मेलनम् ।
सुप्त-प्रबोध-कालं च तथा ऋण-धनादिकम् ॥२००॥
राशि-मेलनं नक्षत्र-मेलनं च । आदि-शब्देन राशि-शुद्धिर् इत्य् एवम् अष्टधा शोधनं ज्ञेयम् ॥२००॥
अथ सिद्ध-साध्यादि-शोधनम्
सारदा-तिलके—
प्राक् प्रत्यग् अग्रा रेखाः स्युः पञ्च याम्योत्तराग्रगाः । तावत्यश् च चतुष्कोष्ठ-चतुष्कं मण्डलं भवेत् ॥२०१॥
यद्यप्य् एतत् सिद्ध-साध्यादि-ज्ञानं मुद्रा-दर्शन-प्रकारवद् विना गुरु-मुखात् सम्यक् विज्ञातं न स्यात्, तथाप्य् अत्र शब्दार्थ एव केवलं लिख्यते । तथा हि—प्राञ्चि पूर्वाणि, प्रत्यञ्चि पश्चिमानिइ अग्राणि यासां ताः । पूर्व-पश्चिमाभिमुखा ऊर्ध्वाः पञ्च-रेखा लेख्या इत्य् अर्थः । तथा याम्योत्तराग्रगा दक्षिणोत्तर-मुखास् तावत्यः पञ्चैव रेखा ऊर्ध्व-रेखोपरि सम-कोष्ठाभिप्रायेण तिर्यक् लेख्या इत्य् अर्थः । ततश् च चत्वारि कोष्ठ-चतुष्काणि यस्मिन् तथा-भूतं मण्डलं भवेत् । एवं चतुर्भिः कोष्ठैर् एकं कोष्ठं ज्ञेयम् इत्य् एवं चत्वारि कोष्ठानि मुख्यानि भवन्ति । पुनश् च एकस्यैवावान्तर-कोष्ठानि चत्वारीत्य् एवं षोडश कोष्ठानि भवन्ति । तद्-रूपम् एकं चतुरस्रं मण्डलं स्याद् इत्य् अर्थः । एतच् च दीक्षा-मण्डलादिवन् नाम्नैव मण्डलं, न तु मण्डलाकारं चतुष्कोणत्वात् ॥२०१॥
इन्द्व्-अग्नि-रुद्र-नव-नेत्र-युगेन दिक्षु ऋत्व्-अष्ट-षडश-चतुर्दश-भौतिकेषु । पाताल-पञ्चदश-वह्नि-हिमांशु-कोष्ठे वर्णांल् लिखेल् लिपि-भवान् क्रमशस् तु धीमान् ॥२०२॥
तस्मिन् मण्डले च यत् कर्तव्यं, तदाह—इन्द्व् इति । लिपि-भवान् वर्णान्—अ-कारादि-क्ष-कारान्त-पञ्चाशद्-अक्षराणि । यद् वा, क-कार-ष-कार-संयोग-सिद्ध-क्षकार-व्यतिरिक्तान् पञ्चाशद् वर्णान् इन्द्व्-आदि-सङ्ख्या-सङ्केतितेषु कोष्ठेषु क्रमशः अ-कारादि-क्रमेण इन्द्व्-आदि-क्रमेण च लिखेत् । तत्र इन्दुश् चन्द्र एकः । तस्मिन् आद्ये कोष्ठे अ-कारं लिखेद् इत्य् अर्थः । एवं अग्नौ तृतीये आ-कारम् । रुद्रे एकादशे इ-कारम् । इने सूर्य द्वादश-कोष्ठे । भौतिके पञ्चमे महा-भूत-पञ्चकत्वात् । वह्नयस् त्रयः । हिमांशुर् एकः, अङ्कस्य वाम-गतित्वाद् वह्नि-हिमांशुभ्यां द्वाभ्यां त्रयोदशेति ज्ञेयम् । तत्र च त्रयोदशे कोष्ठे अ-कारस्य षोडश-वर्ण अ इति-वर्णं लिखेद् इत्य् अर्थः । पुनस् तथैव प्रथम-कोष्ठे क-कार इत्य् एवं यावद् वर्णावली-समाप्तिः पुनः पुनर् लिखेत् । एवम् एव श्री-कृष्ण-देवाचार्येणापि श्री-नृसिंह-परिचर्या-ग्रन्थे लिखितं—
आद्याग्नीश-ग्रहाक्षाब्धि-सूर्य-दिग्-रस-दिग्-गजाः । कला-मन्व्-इषु सप्ताह-विश्वे वर्णान् पुनर् न्यसेत् ॥ इति ॥२०२॥ जन्म-र्क्षाक्ष-रतौ यावन्-मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठकैस् त्व् एकम् इति कोष्ठ-चतुष्टये ॥२०३॥
ततः शिष्यस्य यज् जन्म-नक्षत्रानुरूप-नामाद्याक्षरं नाम-प्रथमाक्षरम् इत्य् अर्थः । मध्य-देशादाव् अत्र प्र्ञओ जन्म-नक्षत्रानुरूप-नामाद्य्-अक्षर-करणात् । तस्माद् आरभ्य मन्त्रस्य ग्राह्यस्य आदिमाक्षरम् आद्य-वर्णं यावद् वीक्ष्यं विचारयितव्यम् । यद् वा, सिद्धादि-गणनया गुण-दोषादिकं द्रष्टव्यम् इत्य् अर्थः । कथं कुत्र ? तद् आह—चतुर्भिः कोष्ठैर् एकं कोष्ठं द्रष्टव्यम् । एवं तन्-मण्ड्ज्ञानले कोष्ठ-चतुष्टयं स्यात्। तस्मिन् प्रथमं वीक्ष्य । यद् वा, सिद्धादि-क्रमा ज्ञेयाः । इत्य् अनेन परेणान्वयः । पश्शात् तत्-कोष्ठ-चतुष्टयस्य यान्य् अवान्तराणि कोष्ठानि षोडश तेषु च ज्ञेया इति प्रकार-द्वयम् । तच् च जन्म-नक्षत्राक्षरात् सव्यतः वाम-गत्येत्य् अर्थः । अत एवोक्तं श्री-कृष्ण-देवाचार्येण तत्रैव—सव्ये नामाद्याक्षरतः सिद्धादि-क्रम इष्यते इति । एवं सिद्धादि-कोष्ठ-स्थानं च तेनैव दर्शितम्—
नवैक-पञ्चभिः सिद्धः साध्यः षड्-दश-पञ्चकैः । सुसिद्धस् त्रिसप्त-रुद्रैस् तुर्याष्ट-द्वादशै रिपुः ॥ इति ।
एवं सारदा-तिलकस्य मतं विलिख्य श्री-कृष्ण-देवाचार्य-मतं लिखति क्वचिच् चेत्य् आदिना । चतुर्षु पदेषु कोष्ठेषु तिष्ठति वर्तत इति । तथा तस्यां लिपौ चतुष्कोण-मण्डल-रूप-लेखे साधकस्य शिष्यस्य आख्या नाम तस्या आदि-वर्णतः प्रथमाक्षरम् आरभ्य मन्त्रस्याद्याक्षर-पर्यन्तं मुहुर् मुहुर् गणनीयम् । साधकानाम् आद्याक्षरतः सव्ये वामे क्रमेण सिद्धादयो ज्ञेया इत्य् अर्थः । यत्र मन्त्रस्याद्याक्षरं तत्र सिद्धः, ततो द्वितीये कोष्ठे साध्यः, तृतीये प्रसिद्धः, चतुर्थे’रिः, इत्य् एतद् ऊह्यम् । अत एव तस्य सव्यत इत्य् उक्तम् इति दिक् ॥२०३॥
पुनः कोष्ठक-कोष्ठेषु सव्यतो जन्मभाक्षरात् ।
सिद्ध-साध्य-सुसिद्धारिक्रमाज् ज्ञेया विचक्ष्णैः ॥२०४॥ सिद्धः सिध्यति कालेन साध्यस् तु जप-होमतः । सुसिद्धो ग्रह-मात्रेण अरिर् मूल-निकृन्तनः ॥२०५॥
तत्र च गणनया सिद्धादि-स्थानं प्राप्ते सति मन्त्राद्य्-अक्षरे यत् फलं स्यात्, तद् आह—सिद्ध इत्य् आदि पञ्चभिः । ग्रहः ग्रहणं तन्-मात्रेण अचिराद् एव सिध्यतीत्य् अर्थः ॥२०५॥
सिद्ध-सिद्धो यथोक्तेन द्वि-गुणात् सिद्ध-साधकः । सिद्ध-सुसिद्धो’र्ध-जपात् सिद्धारिर् हन्ति बान्धवान् ॥२०६॥ साध्य-सिद्धो द्विगुणिकः साध्य-साध्यो ह्य् अनर्थकः । तत्-सुसिद्धस् त्रिगुणितात् साध्यारिर् हन्ति गोत्रजान् ॥२०७॥ सुसिद्ध-सिद्धोर्ध-जपात् तत्-साध्यस् तु गुणाधिकात् । तत्-सुसिद्धो ग्रहाद् एव सुसिद्धारिः स्व-गोत्रहा ॥२०८॥ अरि-सिद्धः सुतान् हन्याद् अरि-साध्यस् तु कन्यकाः । तत्-सुसिद्धस् तु पत्नी-घ्नस् तद्-अरिर् हन्ति साधकम् ॥२०९॥
एवं चतुः-कोष्ठ्य-व्यवस्थया फलम् उक्त्वाधुना तद्-अवान्तर-षोडश-कोष्ठ-व्यवस्थया पूर्वापराभ्यां चतुर्धान्यो’न्य-संयोगेन फलम् आह—सिद्ध-सिद्ध इति चतुर्भिः । तत् सुसिद्धः साध्य-सुसिद्धः, तत्-साध्यः सुसिद्ध-साध्यः, तत्-सुसिद्धः सुसिद्ध-सुसिद्धः । एवम् अग्रे’पि ॥२०६-२०९॥
तथा च तन्त्रे, अस्य च मन्त्र-विशेषे’पवादः—
नृसिंहार्क-वराहाणां प्रासाद-प्रणवस्य च । वैदिकस्य च मन्त्रस्य सिद्धादीन् नैव शोधयेत् ॥२१०॥ स्वप्न-लब्धे स्त्रिया दत्ते माला-मन्त्रे च त्र्य्-अक्षरे । एकाक्षरे तथा मन्त्रे सिद्धादीन् नैव शोधयेत् ॥२११॥
अस्य एवम् उक्तस्य सिद्धादिशोधनस्य तु ॥२१०-२११॥
स्व-कुलान्य् अकुलत्वादि विज्ञेयं चागमान्तरात् ।
न विस्तर-भयाद् अत्र व्यर्थत्वाद् अपि लिख्यते ॥२१२॥
श्रीमद्-गोपाल-देवस्य सर्वैश्वर्य-प्रदर्शिनः ।
तादृक्-शक्तिषु मन्त्रेषु नहि किञ्चिद् विचार्यते ॥२१३॥
वर्थत्वे हेतुं लिखति—श्रीमद् इति । तादृशी श्री-गोपाल-देव-सदृशी शक्तिर् येषां तेषु ॥२१३॥
तथा च क्रम-दीपिकायाम् [१.४]
सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वय-जन्मभेषु दाता फलानाम् अभिवाञ्छितानां द्राग् एव गोपालक-मन्त्र एषः ॥२१४॥
नाना-विधा आह्वया नामानि जन्मभानि च जन्म-नक्षत्राणि येषां वर्णादीनां तेष्व् अपि । यद् वा, तेषां नानाह्वय-जन्मभेषु सत्स्व् अपि एष श्री-गोपाल-मन्त्रो’भिवाञ्छितानां फलानां शीघ्रम् एव दाता ॥२१४॥
त्रैलोक्य-सम्मोहन-तन्त्रे च, अष्टादशाक्षर-मन्त्रम् अधिकृत्य श्री-शिवेनोक्तम्—
न चात्र शात्रवा दोषा नर्णस्वादि-विचारणा । ऋक्ष-राशि-विचारो वा न कर्तव्यो मनौ प्रिये ॥२१५॥ केचिच् छिन्नाश् च रुद्धाश् च केचिन् मद-समुद्धताः । मलिनाः स्तम्भिताः केचित् कीलिता दूषिता अपि । एतैर् दोषैर् युतो नायं यतस् त्रिभुवनोत्तमः ॥२१६॥ इति ।
अत्र अस्मिन् मन्त्रे शात्रवाः शत्रु-सम्बन्धिनो दोषाः सिद्धादि-शोधनोक्ताः ऋणं च स्वं धनं च तद्-आदि-विचारणा च न कर्तव्या । अन्य-मन्त्राणां दोषान् आह—केचिद् इति । उक्तं च छिन्नादीनां लक्षणं सारदा-तिलके—
मनोर् यस्यादिमध्यान्तेष्व् आनीलं बीजम् उच्यते । संयुक्तं वा वियुक्तं वा स्वराक्रान्तं त्रिधा पुनः ॥ चतुर्धा पञ्चधा वाथ समन्त्रश् छिन्न-सञ्ज्ञकः । माया नमामि च पदं नास्ति यस्मिन् स कीलितः ॥ एकं मध्ये द्वयं मूर्ध्नि यस्मिन्न् अस्त्र-पुरन्दरौ । न विद्येते स मन्त्रः स्यात् स्तम्भितः सिद्धि-रोधनः ॥ आदि-मध्यावसानेषु भवेद् अर्ण-चतुष्टयम् । यस्य मन्त्रः स मलिनो मन्त्र-वित्तं विवर्जयेत् ॥ मन्त्रो वाप्य् अथवा विद्या सप्ताधिक-दशाक्षरः । फट्-कार-पञ्चकादिर् यो मदोन्मत्त उदीरितः ॥ यस्य मध्ये द-कारो वा क्रोधो वा मूर्धनि त्रिधा । अस्त्रं तिष्ठति मन्त्रः स तिरस्कृत इतीरितः ॥ इत्य् आदि ।
अयम् अष्टादशाक्षरः श्री-गोपाल-मन्त्रः ॥२१५॥
सामान्यतश् च यथा बृहद्-गौतमीये—
अथ कृष्ण-मनून् वक्ष्ये दृष्टादृष्ट-फल-प्रदान् । यान् वै विज्ञाय मुनयो लेभिरे मुक्तिम् अञ्जसा ॥२१७॥ गृहस्था वनगाश् चैव यतयो ब्रह्मचारिणः । स्त्रियः शूद्रादयश् चैव सर्वे यत्राधिकारिणः ॥२१८॥ नात्र चिन्त्यो’रि-शुद्ध्यादिर् नारि-मित्रादि-लक्षणम् । न वा प्रयास-बाहुल्यं साधने न परिश्रमः ॥२१९॥ अज्ञान-तूल-राशेश् च अनलः क्षण-मात्रतः । सिद्ध-साध्य-सुसिद्धारि-रूपा नात्र विचारणा ॥२२०॥ सर्वेषां सिद्ध-मन्त्राणां यतो ब्रह्माक्षरो मनुः । प्रजापतिर् अवापाग्र्यं देव-राज्यं शचीपतिः । अवापुस् त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः ॥२२१॥ इत्य् आदि ।
तत्रैवान्तरे— विष्णु-भक्त्या विशेषेण किं न सिध्यति भूतले । कीटादि-ब्रह्म-पर्यन्तं गोविन्दानुग्रहान् मुने ॥२२२॥ सर्व-सम्पत्ति-निलयाः सर्वत्राप्य् अकुतोभयाः । इत्य् आदि कथितं किञ्चिन् माहात्म्यं वो मुनीश्वराः ॥२२३॥ आकाशे तारका यद्वत् सिन्धोः सैकत-सृष्टिवत् । एतद्-विज्ञान-मात्रेण लभेन् मुक्तिं चतुर्विधाम् ॥२२४॥ एतद्-अन्येषु मन्त्रेषु दोषाः सन्ति परे च ये । तद्-अर्थं मन्त्र-संस्कारा लिप्यन्ते तन्त्रतो दश ॥२२५॥
एवं सम्मोहन-तन्त्राद्य्-उक्त-प्रकारेण । अन्येषु श्री-गोपाल-देव-मन्त्र-व्यतिरिक्तेषु । परे सिद्धादि-शोधनोक्त-दोषतो’न्ये’पि छिन्नत्वादयः । तद् अर्थम् इति—ये केचिद् अन्य-मन्त्र-साधका भवेयुस् तेषां तद्-दोष-शोधनार्थम् इत्य् अर्थः । तच् च तात्पर्येण श्री-गोपाल-देव-मन्त्र-माहात्म्य-विख्यापनार्थम् एवेति भावः । तन्त्रत आगम-शास्त्रोक्ता इत्य् अर्थः ॥२२५॥
सारदा-तिलके—
जननं जीवनं चेति ताडनं रोधनं तथा । अथाभिषेको विमलीकरणाप्यायने पुनः । तर्पणं दीपनं गुप्तिर् दशैता मन्त्र-संस्क्रियाः ॥२२६॥ मन्त्राणां मातृका-मध्याद् उद्धारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्र-वर्णान् जपेत् सुधीः ॥२२७॥ एतज् जीवनम् इत्य् आहुर् मन्त्र-तन्त्र-विशारदाः । मनोर् वर्णान् समालिख्य ताडयेच् चन्दनाम्भसा ॥२२८॥
प्रत्येकं वायुना मन्त्री ताडनं तद् उदाहृतम् । विलिख्य मन्त्रं तं मन्त्री प्रसूनैः कर-वीरजैः ॥२२९॥ तन्-मन्त्राक्षर-सङ्ख्यातैर् हन्याद् यत् तेन रोधनम् । स्वतन्त्रोक्त-विधानेन मन्त्री मन्त्रार्ण-सङ्ख्यया ॥२३०॥
अश्वत्थ-पल्लवैर् मन्त्रम् अभिषिञ्चेद् विशुद्धये । सञ्चिन्त्य मनसा मन्त्रं योतिर् मन्त्रेण निर्दहेत् ॥२३१॥
मन्त्रे मूल-त्रयं मन्त्री विमलीकरणं त्व् इदम् । तार-व्योमाग्नि-मनु-युग-दण्डी ज्योतिर् मनुर् मतः । कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ॥२३२॥
ज्योतिर् मन्त्रेणेत्य् उक्तं तम् एवाह तारेति । व्योमेत्यादिना तत्-तद्-बीजं बोध्यते । एवम् अग्रे मायादाव् अपि ॥२३२॥
तेन मन्त्रेण विधिवद् एतद् आप्यायनं स्मृतम् । मन्त्रेण वारिणा यन्त्रे तर्पणं तर्पणं स्मृतम् ॥२३३॥ तार-माया-रमा-योगो मनोर् दीपनम् उच्यते । जप्यमानस्य मन्त्रस्य गोपनं त्व् अप्रकाशनम् ॥२३४॥
बलित्वात् कृष्ण-मन्त्राणां संस्कारापेक्षणं नहि ।
सामान्योद्देश-मात्रेण तथाप्य् एतद् उदीरितम् ॥२३५॥
इति श्री-गोपाल-भट्ट-विलिखिते श्री-भगवद्-भक्ति-विलासे
गौरवो नाम प्रथमो विलासः ।