विश्वास-प्रस्तुतिः
वन्दे ऽनन्ता1द्भुतैश्वर्यं श्रीचैतन्यं महाप्रभुम् ।
नीचो ऽपि यत्प्रसादात् स्यात् सदाचारप्रवर्तकः ॥१ ॥
प्रभुः श्रीकृष्णचैतन्यो जीयात् यत्कृपया भवेत् ।
श्वापि सिंहस् तृणं मेरुर् मूर्खो विद्वान्2 मृतो3 ऽसुमान् ॥
निकृष्टस्याप्य् आत्मनः सदाचारलिखने श्रीभगवतो ऽनुकम्पयाधिकारं सामर्थ्यं च द्योतयंस् तं प्रणमति वन्दे इति । यस्य प्रसादाद् धेतोर् नीचजनो ऽपि लिखनादिद्वारा सदाचाराणां प्रवर्तको भवति । तत्र हेतुः । अनन्तम् अद्भुतं चावितर्क्यम् ऐश्वर्यं प्रभावो यस्य तम् । यतो महाप्रभुं परमेश्वरम् ॥१ ॥
पुंसो गृहीतदीक्षस्य श्रीकृष्णं पूजयिष्यतः ।
आचारो लिख्यते कृत्यः4 श्रुतिस्मृत्य्5अनुसारतः ॥२ ॥
पुंसः पुम्मात्रस्येत्य् अर्थः । श्रीविष्णुदीक्षाग्रहणमात्रेण सर्वेषाम् एव तत्राधिकारात् । यद्य् अपि स्त्रीणाम् अप्य् अधिकारो ऽस्तीति6 पूर्वं लिखितं, तथापि कर्मसु पुंसः7 प्राधान्यात् पुंस इत्य् अत्र लिखितम् । एवम् अग्रे लेख्यं ब्राह्मणम् इत्यादिकम् अप्य् ऊह्यम् । श्रीकृष्णं पूजयिष्यत इति तत्पूजार्थक इत्य् अर्थः । श्रुत्याद्यनुसारेण कृत्यम्8 अवश्यं कर्तुं योग्यं यत्9 कर्म, श्रुतिस्मृत्यनुसारत इत्य् अस्य लिख्यत इत्य् अनेन वा सम्बन्धः ॥२ ॥
अथ दीक्षितस्य पूजाया नित्यता
आगमे—10
लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्रदेवताम् ।
Broo
Chapter Three: On Purification
¹I bow to Śrī Caitanya Mahāprabhu, whose majesty is unlimited and wonderful, and by whose mercy even a fallen person can become an authority on Sadācāra.
DDṬ: Glory to Lord Śrī Kṛṣṇa Caitanya! By his mercy, a dog can become a lion; grass, a mountain; a fool, a sage; the dead, alive!
The author writes the verse above to make it clear that even he, who is debased, can by the mercy of the Lord get the eligibility and the ability for writing about Sadācāra. By the reason of his mercy, even a lowly person will become an authority on Sadācāra through methods such as writing about it. The reason for this is that his majesty or prowess is unlimited, wonderful and unfathomable. Therefore, he is Mahāprabhu, the highest Lord.
²Now will be described, according to Śruti and Smṛti, the conduct to be adopted by a man who has accepted initiation and who is setting out to worship Śrī Kṛṣṇa.
Of a man: just of men. When it comes to accepting blessed Viṣṇu initiation, everyone is eligible. Even though it was mentioned earlier on (1.193–197) that also women too are eligible, still, because of the predominance of men when it comes to rituals, the word man has been given here. Statements such as “a Brāhmaṇa” further on in the book should be understood in the same way.[^FNB000262] […]
The Mandatoriness of Worship for the Initiated
In the Āgama:
³The deity gives undesired fruit for all rites of one who has received a mantra but does not regularly worship the divinity of the mantra.
मूलम्
वन्दे ऽनन्ता1द्भुतैश्वर्यं श्रीचैतन्यं महाप्रभुम् ।
नीचो ऽपि यत्प्रसादात् स्यात् सदाचारप्रवर्तकः ॥१॥
प्रभुः श्रीकृष्णचैतन्यो जीयात् यत्कृपया भवेत् ।
श्वापि सिंहस् तृणं मेरुर् मूर्खो विद्वान्2 मृतो3 ऽसुमान् ॥
निकृष्टस्याप्य् आत्मनः सदाचारलिखने श्रीभगवतो ऽनुकम्पयाधिकारं सामर्थ्यं च द्योतयंस् तं प्रणमति वन्दे इति । यस्य प्रसादाद् धेतोर् नीचजनो ऽपि लिखनादिद्वारा सदाचाराणां प्रवर्तको भवति । तत्र हेतुः । अनन्तम् अद्भुतं चावितर्क्यम् ऐश्वर्यं प्रभावो यस्य तम् । यतो महाप्रभुं परमेश्वरम् ॥१॥
पुंसो गृहीतदीक्षस्य श्रीकृष्णं पूजयिष्यतः ।
आचारो लिख्यते कृत्यः4 श्रुतिस्मृत्य्5अनुसारतः ॥२॥
पुंसः पुम्मात्रस्येत्य् अर्थः । श्रीविष्णुदीक्षाग्रहणमात्रेण सर्वेषाम् एव तत्राधिकारात् । यद्य् अपि स्त्रीणाम् अप्य् अधिकारो ऽस्तीति6 पूर्वं लिखितं, तथापि कर्मसु पुंसः7 प्राधान्यात् पुंस इत्य् अत्र लिखितम् । एवम् अग्रे लेख्यं ब्राह्मणम् इत्यादिकम् अप्य् ऊह्यम् । श्रीकृष्णं पूजयिष्यत इति तत्पूजार्थक इत्य् अर्थः । श्रुत्याद्यनुसारेण कृत्यम्8 अवश्यं कर्तुं योग्यं यत्9 कर्म, श्रुतिस्मृत्यनुसारत इत्य् अस्य लिख्यत इत्य् अनेन वा सम्बन्धः ॥२॥
अथ दीक्षितस्य पूजाया नित्यता
आगमे—10
लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन् मन्त्रदेवताम् ।
विश्वास-प्रस्तुतिः
अथ सदाचारः14
न किञ्चित् कस्यचित् सिध्येत् सदाचारं विना यतः ।
तस्माद् अवश्यं सर्वत्र सदाचारो ह्य् अपेक्ष्यते15 ॥४॥
ननु पूजाविधिर् एव लिख्यताम् । किम् अन्याचारलिखनेनेत्य् आशङ्क्य प्रथमं सदाचारस्य नित्यतां लिखति न किञ्चिद् इति । हि निश्चये । एतेन16 शास्त्रादिप्रामाण्यं17 तत्र18 सूचयति19 ॥४॥
अथ सदाचार20नित्यता
श्रीविष्णुपुराणे और्वसागरसंवादे—21
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था नान्यत् तत्तोषकारणम्22 ॥५॥
अन्यः सदाचाराद् विष्णोर् आराधनात् परः पन्था केवलयोगाभ्यासादिः । तस्य विष्णोस् तोषकारको न भवति । अत एवोक्तं प्रथमस्कन्धे । स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे । इति । धर्मस् तु सदाचारलक्षण एव ॥५॥
मार्कण्डेयपुराणे श्रीमदालसालर्कसंवादे—23
गृहस्थेन सदा कार्यम् आचारपरिपालनम् ।
न ह्य् आचारविहीनस्य सुखम् अत्र परत्र वा24 ॥६॥
यज्ञदान25तपांसीह पुरुषस्य न भूतये26 ।
भवन्ति यः सदा27चारं समुल्लङ्घ्य प्रवर्तते28 ॥७॥
अन्यः सदाचाराद्29 विष्णोर् आराधनात् परः पन्था केवलयोगाभ्यासादिः । तस्य विष्णोस् तोषकारको न भवति । अत एवोक्तं प्रथमस्कन्धे । स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे । इति । धर्मस् तु सदाचारलक्षण एव ॥५॥
Broo
Sadācāra
⁴Since nobody can succeed in anything without Sadācāra, one should therefore everywhere have regard for Sadācara.
Now let the rules for worship be described. Fearing that someone may wonder why he writes about other rules of conduct, the author here states the mandatoriness of Sadācāra. The word therefore is used in the sense of “certainly”. By this, the author indicates the evidence of scripture and so on.
The Mandatoriness of Sadācāra
In a conversation between Aurva and Sāgara in the Viṣṇu Purāṇa (3.8.9):
⁵Man worships the Highest Lord Viṣṇu by following Varṇāśrama; there is no other way to please him.[^FNB000263]
Other: a different way than worship of Viṣṇu through Sadācāra, such as by only practising yoga.[^FNB000264] That will not please Viṣṇu. This is also stated in the First book (BhP1.2.6): “The highest Dharma of men is that from which comes devotion to Adhokṣaja”. And Dharma is characterised by Sadācāra.
In a conversation between Ālasa and Alarka in the Mārkaṇḍeya Purāṇa (31.6–7):
⁶A householder should always act in accordance with the Ācāra, for there is no happiness either here or in the next life without Ācāra. ⁷Sacrifices, gifts and penances will here not be for the benefit of a man who here acts in violation of Sadācāra.
मूलम्
अथ सदाचारः14
न किञ्चित् कस्यचित् सिध्येत् सदाचारं विना यतः ।
तस्माद् अवश्यं सर्वत्र सदाचारो ह्य् अपेक्ष्यते15 ॥४॥
ननु पूजाविधिर् एव लिख्यताम् । किम् अन्याचारलिखनेनेत्य् आशङ्क्य प्रथमं सदाचारस्य नित्यतां लिखति न किञ्चिद् इति । हि निश्चये । एतेन16 शास्त्रादिप्रामाण्यं17 तत्र18 सूचयति19 ॥४॥
अथ सदाचार20नित्यता
श्रीविष्णुपुराणे और्वसागरसंवादे—21
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुर् आराध्यते पन्था नान्यत् तत्तोषकारणम्22 ॥५॥
अन्यः सदाचाराद् विष्णोर् आराधनात् परः पन्था केवलयोगाभ्यासादिः । तस्य विष्णोस् तोषकारको न भवति । अत एवोक्तं प्रथमस्कन्धे । स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे । इति । धर्मस् तु सदाचारलक्षण एव ॥५॥
मार्कण्डेयपुराणे श्रीमदालसालर्कसंवादे—23
गृहस्थेन सदा कार्यम् आचारपरिपालनम् ।
न ह्य् आचारविहीनस्य सुखम् अत्र परत्र वा24 ॥६॥
यज्ञदान25तपांसीह पुरुषस्य न भूतये26 ।
भवन्ति यः सदा27चारं समुल्लङ्घ्य प्रवर्तते28 ॥७॥
अन्यः सदाचाराद्29 विष्णोर् आराधनात् परः पन्था केवलयोगाभ्यासादिः । तस्य विष्णोस् तोषकारको न भवति । अत एवोक्तं प्रथमस्कन्धे । स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे । इति । धर्मस् तु सदाचारलक्षण एव ॥५॥
विश्वास-प्रस्तुतिः
भविष्योत्तरे च श्रीकृष्णयुधिष्ठिरसंवादे—
आचारहीनं न पुनन्ति वेदाः
यद्य् अप्य् अधीताः सह षड्भिर् अङ्गैः ।
छन्दांस्य् एनं मृत्युकाले त्यजन्ति
नीडं30 शकुन्ता31 इव जात32पक्षाः33 ॥८॥
मृत्युकाले त्यजन्ति परलोके34 किम् अपि फलं न प्रयच्छन्तीत्य्35 अर्थः ॥८॥
कपालस्थं36 यथा तोयं श्वदृतौ वा यथा पयः ।
दुष्टं स्यात् स्थानदोषेण वृत्त37हीने तथा38 शुभम्39 ।
आचाररहितो राजन् नेह नामुत्र नन्दति40 ॥ इति4142 ॥९॥
वृत्तं सदाचारः । तेन हीने जने43 । शुभं44 तीर्थाटनादि पुण्यकर्म ॥९॥
लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति45 ।
स्मरणाद्यात्मकस्यापि सदाचारस्य नित्यता ॥१०॥
ननु अन्यैर् अपि विशेषवचनैः स्पष्ट46सदाचारस्य नित्यत्वं लिख्यताम् । तत्र लिखति लेख्येनेति । स्मरणादीनां स्मरणम् आरभ्यात्र ग्रन्थे लेख्यानां नित्यपक्षमासादिकृत्यानाम् अग्रे लेख्येन नित्यत्वेनैव सदाचारस्यापि नित्यता सेत्स्यत्य् एव । अत एवाधुना47 तत्तद्48वचनलिखनबाहुल्येनालम् इति भावः । ननु49 भगवत्स्मरणादि50नित्यतया सदाचारस्य नित्यता51 कथम् अस्तु? तत्र लिखति स्मरणाद्यात्मकस्येति । सदाचारस्यैव52 तत्तल्लक्षणत्वाद् इत्य् अर्थः ॥१०॥
Broo
And in a conversation between Śrī Kṛṣṇa and Yudhiṣṭhira in the Bhaviṣyottara Purāṇa (–):
⁸The Vedas will not purify one who lacks Ācāra,
even if studied together with their six corollary limbs.
The hymns abandon him at the time of death,
like birds who have grown their wings leave their nest.
Abandon him at the time of death: they do not produce any fruit in the next world. This is the meaning.
⁹Like water in a skull or milk in a bag of dogskin is contaminated by the fault of place, so also is anything good when it is bereft of good conduct. O king, one without Ācāra enjoys neither this nor the next life.[^FNB000265]
Good conduct: Sadācāra. Anything good: good deeds, such as visiting Tīrthas.
¹⁰By the mandatoriness of remembrance and so on, described below, the mandatoriness of Sadācāra too, which consists of remembrance and so on, will be established.
Now, let the mandatoriness of Sadācāra be plainly written with specific statements! In reply to this, the author writes this verse. By the statements of the mandatoriness of remembrance and so on, the daily, fortnightly and monthly duties, beginning with remembrance [of Viṣṇu in the morning] that will be given further on in this book, the mandatoriness of Sadācāra as well will be established. The implied meaning is “enough of writing down statements about all of this!”
Now, how does the mandatoriness of Sadācāra follow from the mandatoriness of remembering the Lord and so on? This he explains with which consists of remembrance, because all these items are the indications of Sadācāra. This is the meaning.
मूलम्
भविष्योत्तरे च श्रीकृष्णयुधिष्ठिरसंवादे—
आचारहीनं न पुनन्ति वेदाः
यद्य् अप्य् अधीताः सह षड्भिर् अङ्गैः ।
छन्दांस्य् एनं मृत्युकाले त्यजन्ति
नीडं30 शकुन्ता31 इव जात32पक्षाः33 ॥८॥
मृत्युकाले त्यजन्ति परलोके34 किम् अपि फलं न प्रयच्छन्तीत्य्35 अर्थः ॥८॥
कपालस्थं36 यथा तोयं श्वदृतौ वा यथा पयः ।
दुष्टं स्यात् स्थानदोषेण वृत्त37हीने तथा38 शुभम्39 ।
आचाररहितो राजन् नेह नामुत्र नन्दति40 ॥ इति4142 ॥९॥
वृत्तं सदाचारः । तेन हीने जने43 । शुभं44 तीर्थाटनादि पुण्यकर्म ॥९॥
लेख्येन स्मरणादीनां नित्यत्वेनैव सेत्स्यति45 ।
स्मरणाद्यात्मकस्यापि सदाचारस्य नित्यता ॥१०॥
ननु अन्यैर् अपि विशेषवचनैः स्पष्ट46सदाचारस्य नित्यत्वं लिख्यताम् । तत्र लिखति लेख्येनेति । स्मरणादीनां स्मरणम् आरभ्यात्र ग्रन्थे लेख्यानां नित्यपक्षमासादिकृत्यानाम् अग्रे लेख्येन नित्यत्वेनैव सदाचारस्यापि नित्यता सेत्स्यत्य् एव । अत एवाधुना47 तत्तद्48वचनलिखनबाहुल्येनालम् इति भावः । ननु49 भगवत्स्मरणादि50नित्यतया सदाचारस्य नित्यता51 कथम् अस्तु? तत्र लिखति स्मरणाद्यात्मकस्येति । सदाचारस्यैव52 तत्तल्लक्षणत्वाद् इत्य् अर्थः ॥१०॥
विश्वास-प्रस्तुतिः
अथ सदाचार53माहात्म्यम्
श्री54विष्णुपुराणे तत्रैव गृहि55धर्मप्रसङ्गे—
सदाचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥११॥
साधवः क्षीणदोषास् तु सच्छब्दः साधुवाचकः ।
तेषाम् आचरणं यत् तु सदाचारः स उच्यते ॥१२॥
सदाचारस्यैव56 लक्षणम् आह साधव इति ॥१२॥
काशीखण्डे स्कन्दागस्त्यसंवादे—
अनध्ययनशीलं च सदाचारविलङ्घिनम्57 ।
सालस्यं च दुरन्नादं58 ब्राह्मणं बाधते ऽन्तकः ॥१३॥
ततो ऽभ्यसेत्59 प्रयत्नेन सदाचारं सदा60 द्विजः ।
तीर्थान्य् अप्य् अभिलष्यन्ति सदाचारसमागमम्61 ॥१४॥
यद्य् अपि काशीखण्डम् आधुनिकं कल्पितं काव्यम् इति पुराणतत्त्ववित्सु प्रसिद्धम्, तथापि तदाकारस्कान्दवायव्यकौर्मा62दिप्रतिपादितसदाचारविषयकाणि तस्य63 कानिचिद् वचनानि स्मृतिसम्मतान्य्64 अत्र सङ्गृहीतानीत्य् अदोषः । अनध्ययनशीलम् इति सालस्यम् इति दुरन्नादम् इति च दृष्टान्तत्वेन हेतुत्वेनैवोक्तम् । तत्र च तेषां हेतुहेतुमत्ता यथाक्रमम् ऊह्या65 ॥१३–१४॥
भविष्योत्तरे च66 तत्रैव—
आचार67प्रभवो धर्मः सन्तश् चाचार68लक्षणाः ।
साधूनां च यथा69 वृत्तं70 स सदाचार71 इष्यते72 ॥१५॥
तस्मात् कुर्यात् सदाचारं य इच्छेद् गतिम् आत्मनः ।
सर्वलक्षणहीनो ऽपि समुदाचारवान्73 नृप ।
श्रद्दधानो ऽनसूयश् च सर्वान् कामान् अवाप्नुयात् ॥१६॥
Broo
The Greatness of Sadācāra
This is stated in the context of the Dharma of householders in the Viṣṇu Purāṇa (3.11.2cd–3):
¹¹Saintly, faultless men who follow Sadācāra conquer both this world and the next. The word Sat means saintly, ¹²and that which is their conduct (ācaraṇa) is called Sadācāra.
In these verses, the author states the characteristics of Sadācāra.
In a conversation between Skanda and Agastya in the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.42–43):
¹³Death will take away that Brāhmaṇa who neglects his holy reading, who transgresses Sadācāra, who is lazy and who eats evil food. ¹⁴Therefore, a Brāhmaṇa should always diligently practise Sadācāra! Even the Tīrthas long to meet a man of Sadācāra.
Even though it is well-known among experts in Purāṇic wisdom that the Kāśīkhaṇḍa is a modern poetical creation, still whatever statements on Sadācāra that are collected here in that form are presented in texts such as the Skanda, Vāyu and Kūrma Purāṇas and approved by the Smṛtis, so there is no fault.
With the examples of neglecting holy reading, laziness and eating evil food the author describes [not following Sadācāra] through its causation. Since these items are causes of each other, they should be understood in due succession.
This is also stated in the Bhaviṣyottara Purāṇa (–):
¹⁵Dharma springs from Ācāra, and the saints are characterised by their Ācāra. That which is the conduct of the saints is known as Sadācāra. ¹⁶Therefore, one who want to reach his goal should follow Sadācāra. O king, one who faithfully and without envy follows Samudācāra will attain all his desires, even were he without any qualities.
मूलम्
अथ सदाचार53माहात्म्यम्
श्री54विष्णुपुराणे तत्रैव गृहि55धर्मप्रसङ्गे—
सदाचारवता पुंसा जितौ लोकाव् उभाव् अपि ॥११॥
साधवः क्षीणदोषास् तु सच्छब्दः साधुवाचकः ।
तेषाम् आचरणं यत् तु सदाचारः स उच्यते ॥१२॥
सदाचारस्यैव56 लक्षणम् आह साधव इति ॥१२॥
काशीखण्डे स्कन्दागस्त्यसंवादे—
अनध्ययनशीलं च सदाचारविलङ्घिनम्57 ।
सालस्यं च दुरन्नादं58 ब्राह्मणं बाधते ऽन्तकः ॥१३॥
ततो ऽभ्यसेत्59 प्रयत्नेन सदाचारं सदा60 द्विजः ।
तीर्थान्य् अप्य् अभिलष्यन्ति सदाचारसमागमम्61 ॥१४॥
यद्य् अपि काशीखण्डम् आधुनिकं कल्पितं काव्यम् इति पुराणतत्त्ववित्सु प्रसिद्धम्, तथापि तदाकारस्कान्दवायव्यकौर्मा62दिप्रतिपादितसदाचारविषयकाणि तस्य63 कानिचिद् वचनानि स्मृतिसम्मतान्य्64 अत्र सङ्गृहीतानीत्य् अदोषः । अनध्ययनशीलम् इति सालस्यम् इति दुरन्नादम् इति च दृष्टान्तत्वेन हेतुत्वेनैवोक्तम् । तत्र च तेषां हेतुहेतुमत्ता यथाक्रमम् ऊह्या65 ॥१३–१४॥
भविष्योत्तरे च66 तत्रैव—
आचार67प्रभवो धर्मः सन्तश् चाचार68लक्षणाः ।
साधूनां च यथा69 वृत्तं70 स सदाचार71 इष्यते72 ॥१५॥
तस्मात् कुर्यात् सदाचारं य इच्छेद् गतिम् आत्मनः ।
सर्वलक्षणहीनो ऽपि समुदाचारवान्73 नृप ।
श्रद्दधानो ऽनसूयश् च सर्वान् कामान् अवाप्नुयात् ॥१६॥
विश्वास-प्रस्तुतिः
सम्यग् उत्कृष्ट आचारः समुदाचारः74 सदाचार एव तद्वान् ॥१६॥
किं च—
आचार एव धर्मस्य मूलं राजन् कुलस्य च ।
आचाराद् विच्युतो जन्तुर्75 न कुलीनो न धार्मिकः ॥१७॥
किं च—
आचारो भूतिजनन76 आचारः कीर्तिवर्धनः ।
आचाराद् वर्धते ह्य् आयुर्77 आचारो हन्त्य् अलक्षणम्78 ॥१८॥
आचार एव नृपपुङ्गव सेव्यमानो
धर्मार्थकामफलदो भवितेह79 पुंसाम् ।
तस्मात् सदैव विदुषावहितेन80 राजन्
शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः ॥१९॥
अलक्षणं दारिद्र्यादि अपमृत्यादि वा । यथा स्मरणादीनां नित्यतया सदाचारस्य नित्यता तथा तेषां माहात्म्येनास्यापि81 माहात्म्यं सुसिध्येद् एवेति । लिखितन्यायेन स्पष्टत्वान् न लिखितम् ॥१८–१९॥
अथ तत्र नित्यकृत्यानि82
ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् ।
प्रक्षाल्य पाणिपादौ च दन्तधावनम् आचरेत् ॥२०॥
कृष्णेति83 कीर्तयन्84 समुत्थाय । दन्तानां धावनं शोधनम् । तच् च कदाचिद् विहितकाष्ठैः कदाचित् तृणादिभिश् च । तत् तु पूजानिरतानां श्रीभगवत्प्रबोधनाद्यर्थं तदग्रे गमिष्यतां ततः प्राग् अधुनैव युक्तम् । यत85 उक्तं श्रीवराहेण । दन्तकाष्ठम् अखादित्वा यस् तु माम् उपसर्पति । सर्वकालकृतं कर्म तेनैवैकेन नश्यति ॥ इति । तत्र च86 दन्तकाष्ठम् अखादित्वेति87 दन्तान् अशोधयित्वेति ज्ञेयम् । प्रतिपदादिषु दन्तकाष्ठनिषेधात् । तद्विशेषश्88 चाग्रे विस्तरतो व्यक्तो89 भावी90 ॥२०॥
Broo
Completely (samyak) excellent (utkṛṣṭa) Ācāra is Samudācāra or Sadācāra.
And also:
¹⁷O king, Ācāra is the root of Dharma and good breeding. Without Ācāra, a person is neither righteous nor noble.
And also:
¹⁸Ācāra engenders wealth, Ācāra promotes fame. Life is prolonged by Ācāra; Ācāra destroys inauspiciousness.
Inauspiciousness means things such as poverty or untimely death.
¹⁹O best of kings! When men here follow Ācāra,
it awards the fruit of Dharma, Artha and Kāma.
Therefore, O king, wise people should attentively
follow the statements of the scriptures, every day.
Just as the mandatoriness of Sadācāra follows from the mandatoriness of remembrance and so on, so also its greatness follows from their greatness. This has not been stated [in the text] because it clearly follows from what has been written.
Daily Duties
²⁰One should rise during the watch of Brahman, chant “Kṛṣṇa! Kṛṣṇa!”, wash hands and feet and brush the teeth.
[…] Brush the teeth means clean the teeth, and that sometimes with the prescribed twigs and sometimes with grass and so forth. This applies to those who are engaged in worship and who go in front of the Lord in order to perform rituals such as waking him up. Therefore it is appropriate [to mention it] now, at the beginning. As Śrī Varāha says (Varāha Purāṇa 130.1): “If one approaches me without biting the tooth-twig, by this alone, his rituals performed at all times are destroyed.” Without biting the tooth-twig should be understood to mean without cleaning the teeth, since tooth-twigs are forbidden on days such as Pratipad. The details concerning this will be elaborated on below (3.209–234).
मूलम्
सम्यग् उत्कृष्ट आचारः समुदाचारः74 सदाचार एव तद्वान् ॥१६॥
किं च—
आचार एव धर्मस्य मूलं राजन् कुलस्य च ।
आचाराद् विच्युतो जन्तुर्75 न कुलीनो न धार्मिकः ॥१७॥
किं च—
आचारो भूतिजनन76 आचारः कीर्तिवर्धनः ।
आचाराद् वर्धते ह्य् आयुर्77 आचारो हन्त्य् अलक्षणम्78 ॥१८॥
आचार एव नृपपुङ्गव सेव्यमानो
धर्मार्थकामफलदो भवितेह79 पुंसाम् ।
तस्मात् सदैव विदुषावहितेन80 राजन्
शास्त्रोदितो ह्य् अनुदिनं परिपालनीयः ॥१९॥
अलक्षणं दारिद्र्यादि अपमृत्यादि वा । यथा स्मरणादीनां नित्यतया सदाचारस्य नित्यता तथा तेषां माहात्म्येनास्यापि81 माहात्म्यं सुसिध्येद् एवेति । लिखितन्यायेन स्पष्टत्वान् न लिखितम् ॥१८–१९॥
अथ तत्र नित्यकृत्यानि82
ब्राह्मे मुहूर्त उत्थाय कृष्ण कृष्णेति कीर्तयन् ।
प्रक्षाल्य पाणिपादौ च दन्तधावनम् आचरेत् ॥२०॥
कृष्णेति83 कीर्तयन्84 समुत्थाय । दन्तानां धावनं शोधनम् । तच् च कदाचिद् विहितकाष्ठैः कदाचित् तृणादिभिश् च । तत् तु पूजानिरतानां श्रीभगवत्प्रबोधनाद्यर्थं तदग्रे गमिष्यतां ततः प्राग् अधुनैव युक्तम् । यत85 उक्तं श्रीवराहेण । दन्तकाष्ठम् अखादित्वा यस् तु माम् उपसर्पति । सर्वकालकृतं कर्म तेनैवैकेन नश्यति ॥ इति । तत्र च86 दन्तकाष्ठम् अखादित्वेति87 दन्तान् अशोधयित्वेति ज्ञेयम् । प्रतिपदादिषु दन्तकाष्ठनिषेधात् । तद्विशेषश्88 चाग्रे विस्तरतो व्यक्तो89 भावी90 ॥२०॥
विश्वास-प्रस्तुतिः
आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च ।
पुनर् आचमने91 कुर्याल् लेख्येन विधिनाग्रतः ॥२१॥
रात्रेः92 रात्रौ परिहितम् इत्य् अर्थः93 । अन्यत् शुद्धवसनम् । आचमने आचमनद्वयम् । तथा चोक्तम् । सुप्तवासः परिधाय तथा दृष्ट्वाप्य् अमङ्गलम् । प्रमादाद् अशुचिं स्पृष्ट्वा द्विराचान्तः शुचिर् भवेत् ॥ इति94 । ननु दन्त95धावनादिकम् अत्र कथ्यतां,96 तत्र97 लिखति अग्रतस्98 तत्तन्मुख्यप्रकरणे लेख्येन विधिनेति । ब्राह्ममुहूर्तकृत्यलिखने ऽस्मिन्99 प्रातःस्मरण100कीर्तनादिमुख्यकर्मपरित्यागेनोत्थानमात्रलिखनानन्तरं दन्तधावनादिविधिविस्तारलेखो न युक्तः । अतो101 ऽग्रे ज्ञेयः102 ॥२१॥
अथेच्छन् परमां शुद्धिं103 मूर्ध्नि ध्यात्वा गुरोः पदौ104 ।
स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद्105 उदीरयेत् ॥२२॥
परमाम् उत्कृष्टां, बहिरन्तर्विशोधनात् । श्रीगुरुपदध्याने चागमोक्तो ऽयं विशेषो द्रष्टव्यः । ब्रह्मरन्ध्रस्थिते106 पद्मे सहस्रदलशोभिते । श्रीगुरुं परमात्मानं व्याख्यामुद्रालसत्करम् । द्विनेत्रं द्विभुजं पीतं ध्यायेद् अखिलसिद्धि107दम् ॥ इति । गुरोः पादाव् एव स्तुत्वा108 तस्य उत्कर्षम् उत्कीर्त्य पश्चान् निजेष्टदैवतं श्री109कृष्णं कीर्तयन् स्मरंश् च एतल्110लेख्यं जयतीत्यादिकं पठेत् । यद्य् अपि स्मरणस्य मनःसंयोगलक्षणत्वाद्111 आदौ स्मरणे सत्य् एव112 पश्चात् कीर्तनं, तथाप्य् अत्र कीर्तनस्य मुख्यत्वाभिप्रायेण स्मरणस्य पश्चान्निर्देशः113 । पूर्वं कृष्ण114कृष्णेति तन्नामोच्चारणम् एव, अधुना तु115 शुद्ध्यनन्तरं श्रीभागवतादिश्लोकादिपाठेन
Broo
²¹Having performed Ācamana, one should discard the night-clothes, wear others and again perform double Ācamana, according to the rules that will be given below.
Night-clothes means the clothes that one has used during the night. Others: clean clothing. Double Ācamana means two Ācamanas. As it is said: “By two Ācamanas one becomes clean after touching something impure by mistake, seeing something inauspicious or wearing one’s sleeping clothes.”
Now let brushing the teeth and other duties be described, and therefore the author writes: according to the rules that will be given below, at their main occasion. It is not appropriate to here, in connection with describing the duties at the watch of Brahman, to leave aside the important duties of morning remembrance, chanting and give a detailed description of the rules for brushing the teeth immediately upon getting up from the bed. Therefore, they will be described further on (3.185).[^FNB000266]
²²Then, desiring the highest purity, one should meditate on the guru’s feet on one’s head. Having praised them, one should then utter this, glorifying and remembering Kṛṣṇa:
The highest means superior, since it purifies one both internally and externally. The details for meditating on the guru’s feet should be understood from this statement of the Āgama: “One should meditate on the guru, the highest self, situated on a thousand-petalled lotus at the Brahmarandhra, his hand showing the sign of teaching, two-eyed, two-handed, yellow, the giver of all perfection”.
Having praised the feet of the guru and having glorified his excellence, glorifying and remembering one’s chosen Lord, Śrī Kṛṣṇa, one should recite the prayer given next. Even though remembrance comes first—because remembrance is characterised by the application of the mind—and glorification comes after, still, intending to show the pre-eminence of glorification, remembrance is mentioned second here.
Earlier, in the statement “Kṛṣna! Kṛṣṇa!” (3.20), uttering his name was already mentioned, but now, after purifying oneself, there is special glorification of him through reciting verses of scriptures such as the Bhāgavata, pointing out specific qualities and pastimes. The meaning of the two present
मूलम्
आचम्य वसनं रात्रेस् त्यक्त्वान्यत् परिधाय च ।
पुनर् आचमने91 कुर्याल् लेख्येन विधिनाग्रतः ॥२१॥
रात्रेः92 रात्रौ परिहितम् इत्य् अर्थः93 । अन्यत् शुद्धवसनम् । आचमने आचमनद्वयम् । तथा चोक्तम् । सुप्तवासः परिधाय तथा दृष्ट्वाप्य् अमङ्गलम् । प्रमादाद् अशुचिं स्पृष्ट्वा द्विराचान्तः शुचिर् भवेत् ॥ इति94 । ननु दन्त95धावनादिकम् अत्र कथ्यतां,96 तत्र97 लिखति अग्रतस्98 तत्तन्मुख्यप्रकरणे लेख्येन विधिनेति । ब्राह्ममुहूर्तकृत्यलिखने ऽस्मिन्99 प्रातःस्मरण100कीर्तनादिमुख्यकर्मपरित्यागेनोत्थानमात्रलिखनानन्तरं दन्तधावनादिविधिविस्तारलेखो न युक्तः । अतो101 ऽग्रे ज्ञेयः102 ॥२१॥
अथेच्छन् परमां शुद्धिं103 मूर्ध्नि ध्यात्वा गुरोः पदौ104 ।
स्तुत्वा च कीर्तयन् कृष्णं स्मरंश् चैतद्105 उदीरयेत् ॥२२॥
परमाम् उत्कृष्टां, बहिरन्तर्विशोधनात् । श्रीगुरुपदध्याने चागमोक्तो ऽयं विशेषो द्रष्टव्यः । ब्रह्मरन्ध्रस्थिते106 पद्मे सहस्रदलशोभिते । श्रीगुरुं परमात्मानं व्याख्यामुद्रालसत्करम् । द्विनेत्रं द्विभुजं पीतं ध्यायेद् अखिलसिद्धि107दम् ॥ इति । गुरोः पादाव् एव स्तुत्वा108 तस्य उत्कर्षम् उत्कीर्त्य पश्चान् निजेष्टदैवतं श्री109कृष्णं कीर्तयन् स्मरंश् च एतल्110लेख्यं जयतीत्यादिकं पठेत् । यद्य् अपि स्मरणस्य मनःसंयोगलक्षणत्वाद्111 आदौ स्मरणे सत्य् एव112 पश्चात् कीर्तनं, तथाप्य् अत्र कीर्तनस्य मुख्यत्वाभिप्रायेण स्मरणस्य पश्चान्निर्देशः113 । पूर्वं कृष्ण114कृष्णेति तन्नामोच्चारणम् एव, अधुना तु115 शुद्ध्यनन्तरं श्रीभागवतादिश्लोकादिपाठेन
विश्वास-प्रस्तुतिः
रूपलीलादिविशेषेण कीर्तनम् इति विशेषः116 । शतृङ्द्वयस्य तदुदीरणम् एव तत्कीर्तनस्मरणात्मकम् इत्य् अर्थः । यद् वा, द्वयम् अपि हेतौ कीर्तयितुं स्मर्तुं चेति तथैवार्थः117118 । ततश् च कीर्तनेनैव स्मरणविशेषोत्पत्तेः स्मरंश् चेति पश्चाल् लिखितम् ॥२२॥
अथ प्रातःस्मरणकीर्तने
जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्119 स्वैर्120 दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥२३॥
जयति सर्वोत्तमतया वर्तेत श्रीकृष्णः । जनेषु निवसति अन्तर्यामितयेति तथा सः । अतो देवक्यां जन्मेति वादमात्रं यस्य सः । यदुवराः परिषत् सभासेवकरूपा यस्य सः । इच्छामात्रेण निरसनसमर्थो ऽपि दोर्भिर् अधर्मं निरस्यन् क्षिपन् । स्थिरचरवृजिनघ्नः अधिकारिविशेषानपेक्षया वृन्दावनतरु121गवादीनां संसारदुःखहन्ता । तथा विलासवैदग्ध्यानपेक्षया व्रजवनितानां पुरवनितानां च सुस्मितेन श्रीमता मुखेनैव कामदेवं वर्धयन् । कामश् चासौ दीव्यति122 विजिगीषते संसारम् इति देवश् च तम्, भोगद्वारा मोक्षप्रदम् इत्य् अर्थः । अथवा । श्रीधरस्वामिपादानां व्याख्या विद्याङ्कितो ऽधिकम्123 । किञ्चिल् लिखामि124 तत् तैस् तु125 क्षन्तव्यं गुरवो
Broo
participles [glorifying and remembering] is that uttering this has the feature of glorifying and remembering him. Or else, the two have the meaning of “in order to glorify and remember”. And also, because of the appearance of a specific type of remembrance through glorification, remembrance is mentioned last.
The Morning Glorification and Remembrance
²³May Jananivāsa, said to be born of Devakī, be supreme,
surrounded by the best of the Yadus, removing Adharma with his own arms!
He is the destroyer of the evils of non-moving and moving beings,
by his sweetly smiling face awakening the god of love in the women of Vrajapura.[^FNB000267]
Supreme: may Śrī Kṛṣṇa exist with the greatest excellence, he who as the inner ruler is Jananivāsa, the one who lives in men, he who is only said to be born of Devakī. […] Even though able to dispel Adharma by simply desiring so, he removes it, throws it away with his own arms. By disregarding the distinction between qualified and unqualified, he is the destroyer of the wrongs, the killer of the pain of birth and death of non-moving and moving beings such as the trees and cows of Vṛndāvana. Also, by his sweetly smiling face awakening the god of love, he does not distinguish between the expertise in playfulness of the women of Vraja and the women of pura, the town. And this is the god (deva) of love who sports with (√div) or overcomes birth and death. The meaning is that through enjoyment, he gives liberation.[^FNB000268]
Or alternatively:
May the revered Śrīdhara Svāmin forgive
whatever I have here written here
surpassing his commentary,
for he is my guru.
मूलम्
रूपलीलादिविशेषेण कीर्तनम् इति विशेषः116 । शतृङ्द्वयस्य तदुदीरणम् एव तत्कीर्तनस्मरणात्मकम् इत्य् अर्थः । यद् वा, द्वयम् अपि हेतौ कीर्तयितुं स्मर्तुं चेति तथैवार्थः117118 । ततश् च कीर्तनेनैव स्मरणविशेषोत्पत्तेः स्मरंश् चेति पश्चाल् लिखितम् ॥२२॥
अथ प्रातःस्मरणकीर्तने
जयति जननिवासो देवकीजन्मवादो
यदुवरपरिषत्119 स्वैर्120 दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥२३॥
जयति सर्वोत्तमतया वर्तेत श्रीकृष्णः । जनेषु निवसति अन्तर्यामितयेति तथा सः । अतो देवक्यां जन्मेति वादमात्रं यस्य सः । यदुवराः परिषत् सभासेवकरूपा यस्य सः । इच्छामात्रेण निरसनसमर्थो ऽपि दोर्भिर् अधर्मं निरस्यन् क्षिपन् । स्थिरचरवृजिनघ्नः अधिकारिविशेषानपेक्षया वृन्दावनतरु121गवादीनां संसारदुःखहन्ता । तथा विलासवैदग्ध्यानपेक्षया व्रजवनितानां पुरवनितानां च सुस्मितेन श्रीमता मुखेनैव कामदेवं वर्धयन् । कामश् चासौ दीव्यति122 विजिगीषते संसारम् इति देवश् च तम्, भोगद्वारा मोक्षप्रदम् इत्य् अर्थः । अथवा । श्रीधरस्वामिपादानां व्याख्या विद्याङ्कितो ऽधिकम्123 । किञ्चिल् लिखामि124 तत् तैस् तु125 क्षन्तव्यं गुरवो
विश्वास-प्रस्तुतिः
हि ते ॥ श्रीकृष्णो जयति सर्वोत्कर्षेण वर्तते । तद् एव प्रतिपादयति । जनानां जीवानां निवास आश्रयः । यद् वा, जनेषु निजभक्तेषु नितरां प्राकट्येन वासो यस्य । अत एव भक्तवात्सल्येन देवक्यां जन्म आविर्भावः । वादश् च भाषणं126 तदाश्वासनाद्यर्थं तादृशनिजभक्तेषु127 जन्मकारणादिकथनरूपो128 यस्य तथा । यदुवरस्य यादवराजस्य कंसपितुर् अपि उग्रसेनस्य । यद् वा, यदूनां सामान्येन सर्वेषां एव यादवानां वरा दिव्या सभा सुधर्माख्या यस्मात् । तथा जन्ममात्रेणैवापनीतम् अपि अधर्मं निजभक्तविनोद्129आर्थं स्वैः सौन्दर्यादिना असाधारणैर् दोर्भिर् अस्यन्न् अधर्महेतु130दैत्यादिवधेन विनाशयन् । दोर्भिर् इति बहुत्वं भारताद्युक्तानुसारेण भारतयुद्धादौ चतुर्भुजानाम् । तथा हरिवंशोक्तानुसारेण बाणयुद्धादाव् अष्टभुजानां च प्रकटनात् । यद् वा, दोर्भिर् इति131 दोर्भिः भक्तवात्सल्येन साहाय्य132कल्पितैर् इत्य् अर्थः । यद् वा, क्षत्रियाणां भगवतो बाहुजत्वाद् बलाधिक्याद्यपेक्षया कार्यकारणाभेदेन दोर्भिः क्षत्रियैर् इत्य् उक्तं, तत्रापि133 स्वैर् निजैः यादवपाण्डवादिभिः । स्थिराणां चराणां च सर्वेषाम् अपि तदानीन्तनानां जीवानां संसारदुःख134हन्ता । व्रजपुरयोर् वनितानाम् । यद् वा,135 व्रज एव पुरं विचित्रविलासवैदग्धीविषयत्वात् तद्वनितानाम् । कामेषु देवः श्रेष्ठस् तदेकनिष्ठत्वात् परमप्रेमपरिणतिरूपकामविशेषाच् च तं वर्धयन्136 । तच् च निजेन सुस्मितेन137 श्री138मुखेनैव । एवं तेनैव परममोहनसौन्दर्यादिना तादृशकामवर्धनान् मोक्षानन्दे ऽपि139 सामान्यभजनानन्दे ऽपि च परमनैरपेक्ष्याद् अयुक्तम्140 एव, तत् कामस्य श्रैष्ठ्यम् । वर्धयन्न् इति वर्तमानत्वेन तादृशकामस्य परमप्रेमपरिपाक141लक्षणतया प्रेम्णश् चातृप्तिस्वभावकतया परिच्छेदाभावो दर्शितः । एवं दशमस्कन्धशेषे निखिललीलाकथनान्ते तथोक्त्या सर्वदैवताभिः सह संयोगः सूचितः । किं च, शतृङन्त142पदस्यावश्य143क144क्रियापदसहितान्वयेन
Broo
Supreme: may Śrī Kṛṣṇa exist with the greatest excellence. This the author unfolds: he is Jananivāsa, the home (nivāsa) or shelter of the people (jana) or living beings. Alternatively, the people (jana) or his own devotees are his full (ni) abode (vāsa). Furthermore, because of his affection for his devotees he was born of, appeared from Devakī. He is said or explained to born of Devakī in order to encourage them, to have a form that is said to have been born from such a devotee of his. The best (vara) of the Yadus means the king of the Yadus, Kaṃsas’s father Ugrasena. Otherwise, it may mean he from whom comes the divine assembly-house (varas) of all the Yadus or Yādavas, called Sudharman. Even though Adharma has been removed simply by his birth, in order to delight his devotees, he is with his own arms, extraordinary on account of their beauty and so on, removing or destroying it through killing the different demons and so on that are the cause of Adharma.
Following the statements of scriptures such as the Mahābhārata, the word arms is in the plural to indicate the four arms he showed during occasions such as the Mahābhārata war. Similarly, following the statement of the Harivaṃśa (2.123.4), he exhibited eight arms for example when fighting Bāṇa. Alternatively, the arms refer to the allies he took by affection for his devotees. Or else, because the Kṣatriyas spring from the arms of the Lord, in consideration of their abundance of strenght and so on, the word arms refers, by the non-difference between cause and effect, to the Kṣatriyas, and his own among them to his own Yādavas, Pāṇḍavas and others.
He takes away the pain of birth and death from the non-moving and moving beings, from all living beings present at that time. He is awakening the god of love, the god or foremost of all types of love, in the women of Vraja and the pura, the town; or else, of Vrajapura, by his wonderful playful expertise being encompassed (pura) or restricted to them only, because of their exclusive faith in him and because there is no distinction between him and the form developing from the highest love (preman). And he does so by his own sweetly smiling blessed face.
The supremacy of this love is its complete disregard even for the bliss of liberation or even the bliss of general worship, by awakening such love by his supremely charming beauty and so forth. The present tense of the word awakening shows that there is no difference between such love and divine love, by this love being a transformation of the highest divine love, and by virtue of the insatiable nature of divine love. Also, this statement at the end of the tenth book and the description of all his pastimes hints at his eternal connection with these women.
Moreover, by connecting a word in the present participle (awakening) with a verb expressing necessity (may he be supreme), the author intends
मूलम्
हि ते ॥ श्रीकृष्णो जयति सर्वोत्कर्षेण वर्तते । तद् एव प्रतिपादयति । जनानां जीवानां निवास आश्रयः । यद् वा, जनेषु निजभक्तेषु नितरां प्राकट्येन वासो यस्य । अत एव भक्तवात्सल्येन देवक्यां जन्म आविर्भावः । वादश् च भाषणं126 तदाश्वासनाद्यर्थं तादृशनिजभक्तेषु127 जन्मकारणादिकथनरूपो128 यस्य तथा । यदुवरस्य यादवराजस्य कंसपितुर् अपि उग्रसेनस्य । यद् वा, यदूनां सामान्येन सर्वेषां एव यादवानां वरा दिव्या सभा सुधर्माख्या यस्मात् । तथा जन्ममात्रेणैवापनीतम् अपि अधर्मं निजभक्तविनोद्129आर्थं स्वैः सौन्दर्यादिना असाधारणैर् दोर्भिर् अस्यन्न् अधर्महेतु130दैत्यादिवधेन विनाशयन् । दोर्भिर् इति बहुत्वं भारताद्युक्तानुसारेण भारतयुद्धादौ चतुर्भुजानाम् । तथा हरिवंशोक्तानुसारेण बाणयुद्धादाव् अष्टभुजानां च प्रकटनात् । यद् वा, दोर्भिर् इति131 दोर्भिः भक्तवात्सल्येन साहाय्य132कल्पितैर् इत्य् अर्थः । यद् वा, क्षत्रियाणां भगवतो बाहुजत्वाद् बलाधिक्याद्यपेक्षया कार्यकारणाभेदेन दोर्भिः क्षत्रियैर् इत्य् उक्तं, तत्रापि133 स्वैर् निजैः यादवपाण्डवादिभिः । स्थिराणां चराणां च सर्वेषाम् अपि तदानीन्तनानां जीवानां संसारदुःख134हन्ता । व्रजपुरयोर् वनितानाम् । यद् वा,135 व्रज एव पुरं विचित्रविलासवैदग्धीविषयत्वात् तद्वनितानाम् । कामेषु देवः श्रेष्ठस् तदेकनिष्ठत्वात् परमप्रेमपरिणतिरूपकामविशेषाच् च तं वर्धयन्136 । तच् च निजेन सुस्मितेन137 श्री138मुखेनैव । एवं तेनैव परममोहनसौन्दर्यादिना तादृशकामवर्धनान् मोक्षानन्दे ऽपि139 सामान्यभजनानन्दे ऽपि च परमनैरपेक्ष्याद् अयुक्तम्140 एव, तत् कामस्य श्रैष्ठ्यम् । वर्धयन्न् इति वर्तमानत्वेन तादृशकामस्य परमप्रेमपरिपाक141लक्षणतया प्रेम्णश् चातृप्तिस्वभावकतया परिच्छेदाभावो दर्शितः । एवं दशमस्कन्धशेषे निखिललीलाकथनान्ते तथोक्त्या सर्वदैवताभिः सह संयोगः सूचितः । किं च, शतृङन्त142पदस्यावश्य143क144क्रियापदसहितान्वयेन
विश्वास-प्रस्तुतिः
तासां तादृशकामवर्धनेनैव जयतीति परमोत्कर्षताभिप्रेता । एवं तदर्थम् एव देवक्यां जन्मादिकम् इत्य् एवं सर्वम् अवतारप्रयोजनम् । तत्रैव पर्यवस्यतीति दिक्145 । मङ्गलायास्य पद्यस्य पाठ्यमानस्य सर्वतः । विस्तार्य लिखितो ऽत्रार्थो लेख्यो ऽग्रे यो हि दुर्गमः ॥२३॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥२४॥
एवं मङ्गलम् आचर्य सर्वकर्म146सिद्धये भगवदेकशरणो भवेद् इत्य् आशयेन लिखति स्मृत इति । यत्र यस्मिन् हरौ ॥२४॥
विदग्धगोपालविलासिनीनां
सम्भोगचिह्नाङ्कित147सर्वगात्रम्148 ।
पवित्रम् आम्नायगिराम् अगम्यं
ब्रह्म149 प्रपद्ये नवनीतचौरम् ॥२५॥
अधुना प्रातः150 कौशिकीवृत्तिगानाद्यभिप्रायेण श्रीकृष्णस्य151 प्रातःकालीनरूपलीलादिस्मरणकीर्तनार्थं लिखति विदग्धेति । पवित्रम् अपि वेदवाक्यागोचरम्152 । परब्रह्मापि विदग्धानां गोपरमणीनां सम्भोगस्य चिह्नैर् नखक्षतादिभिर् अङ्कितानि सर्वगात्राणि यस्य तं प्रपद्ये । नवनीतस्य प्रातर् दधिमन्थनोत्थितस्य । चौरं चौर्येण भक्षयन्तम् इत्य् अर्थः । तथा च153 तच्चिह्नाङ्कितम्154 अपि155 ज्ञेयम् ॥२५॥
Broo
“May he be supreme, through the awakening of such love in them!” in the strongest sense. Thus, this is the very reason of the descent, being born of Devakī and so on. This only is what it amounts to. This is the drift.[^FNB000269]
I have here elaborately and from every side explained this verse to be chanted for auspiciousness. Further on, I will explain only what is difficult.
²⁴From the remembrance of whom a person becomes the abode of all auspiciousness—I take shelter of that unborn, eternal Hari.[^FNB000270]
Having thus recited the auspicious verse, the author writes this verse, with the thought that in order to complete all one’s actions, one must take exclusive shelter of the Lord. […]
²⁵I take shelter of that Brahman who steals fresh butter—
who is pure, unreachable through the hymns of the Vedas,
and whose whole body is marked with the signs of
of the clever milkmaids’ passion![^FNB000271]
Using songs and so on in the Graceful style,[^FNB000272] the author writes this verse to glorify and remember Śrī Kṛṣṇa’s morning pastimes, form and so on. I take shelter of him, who even though pure, is beyond the statements of the Vedas, who even though the highest Brahman, all the limbs of whom are marked with the signs of passion such as scratches from the nails of the milkmaids. Who steals fresh butter: in the morning, he steals and eats butter straight out of the churning pot.
मूलम्
तासां तादृशकामवर्धनेनैव जयतीति परमोत्कर्षताभिप्रेता । एवं तदर्थम् एव देवक्यां जन्मादिकम् इत्य् एवं सर्वम् अवतारप्रयोजनम् । तत्रैव पर्यवस्यतीति दिक्145 । मङ्गलायास्य पद्यस्य पाठ्यमानस्य सर्वतः । विस्तार्य लिखितो ऽत्रार्थो लेख्यो ऽग्रे यो हि दुर्गमः ॥२३॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस् तम् अजं नित्यं व्रजामि शरणं हरिम् ॥२४॥
एवं मङ्गलम् आचर्य सर्वकर्म146सिद्धये भगवदेकशरणो भवेद् इत्य् आशयेन लिखति स्मृत इति । यत्र यस्मिन् हरौ ॥२४॥
विदग्धगोपालविलासिनीनां
सम्भोगचिह्नाङ्कित147सर्वगात्रम्148 ।
पवित्रम् आम्नायगिराम् अगम्यं
ब्रह्म149 प्रपद्ये नवनीतचौरम् ॥२५॥
अधुना प्रातः150 कौशिकीवृत्तिगानाद्यभिप्रायेण श्रीकृष्णस्य151 प्रातःकालीनरूपलीलादिस्मरणकीर्तनार्थं लिखति विदग्धेति । पवित्रम् अपि वेदवाक्यागोचरम्152 । परब्रह्मापि विदग्धानां गोपरमणीनां सम्भोगस्य चिह्नैर् नखक्षतादिभिर् अङ्कितानि सर्वगात्राणि यस्य तं प्रपद्ये । नवनीतस्य प्रातर् दधिमन्थनोत्थितस्य । चौरं चौर्येण भक्षयन्तम् इत्य् अर्थः । तथा च153 तच्चिह्नाङ्कितम्154 अपि155 ज्ञेयम् ॥२५॥
विश्वास-प्रस्तुतिः
उद्गायतीनाम्156 अरविन्दलोचनं
व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः ।
दध्नश् च निर्मन्थनशब्दमिश्रितो
निरस्यते येन157 दिशाम् अमङ्गलम्158 ॥ इति159 ॥२६॥
एवं साक्षाद्160भगवतः कीर्तनस्मरणे लिखित्वा प्रियजनप्रेमद्वारा161 कीर्तनस्मरणविशेषं लिखति उद्गायतीनाम् इति । दिशां दशदिक्स्थानां जीवानाम् अमङ्गलम्162 ऐहिकामुष्मिकम् अखिलम् अभद्रम् । यद् वा, अकारो विष्णुस् तद्रूपं मङ्गलम् । किं वा, न विद्यते मङ्गलं यस्मात् तद् अमङ्गलम्163 अनुत्तमादिवत् । परममङ्गलम् इत्य् अर्थः । तच् च मुख्यवृत्त्या श्री164भगवत्प्रेमैव, यत्165 येन ध्वनिना दिशः प्रति नितरां रस्यते आस्वादः166 कार्यत इत्य् अर्थः ॥२६॥
पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः ।
चतुःश्लोकीम् इमां सर्वदोषशान्त्यै167 शुभाप्तये ॥२७॥
यद्य् अपि लेह्य168श्लोकचतुष्टये श्रीगोपालदेवस्य कीर्तनस्मरणविशेषो नास्ति, तथापि बहुलशिष्टाचारापेक्षया तत् पठितव्यम् इति लिखति पठेद् इति । सर्वेषां169 दुःस्वप्नादिदोषाणां शान्तये इत्य् एषां श्लोकानां प्रायो170 गजेन्द्रमोक्षाख्यानपरतया दुःस्वप्नाद् उपशान्तय इत्यादि तत्रत्योक्त्यभिप्रायेण ॥२७॥
Broo
²⁶As the women of Vraja sang about the lotus-eyed one,
their song blended with the sound of their churning,
touched the sky and removed
the Amaṅgala in the directions.[^FNB000273]
Having thus written about the glorification and remembrance of the Lord himself, the author in this verse describes a special type of glorification and remembrance through the love of [the Lord’s] dear associates. The Amaṅgala in the directions: everything inauspicious for the living beings of this world and the next in the ten directions.
Alternatively, the letter A denotes Viṣṇu, so Amaṅgala means the auspiciousness of him. Or else, Amaṅgala is that beyond which nothing more auspicious exists, like words such as Anuttama, that is, the supreme auspiciousness.[^FNB000274] The primary meaning of that is nothing else than love for the Lord, and that is by the sound being removed or really moved out into the directions for all to relish. This is the meaning.
²⁷Following the tradition of saints, one should next recite the following four verses to alleviate all disadvantages and to attain auspiciousness.[^FNB000275]
In this verse, the author explains that even though the following four verses contain no particular glorification and remembrance of Lord Gopāla, still, they should be recited, following the opinion of numerous preceptors. To alleviate all disadvantages: to alleviate everyone’s disadvantages of nightmares and so on. The meaning of this statement is that these verses are, like the narration of the liberation of Gajendra, especially intended to “alleviate nightmares and so on” (BhP8.4.15).
मूलम्
उद्गायतीनाम्156 अरविन्दलोचनं
व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः ।
दध्नश् च निर्मन्थनशब्दमिश्रितो
निरस्यते येन157 दिशाम् अमङ्गलम्158 ॥ इति159 ॥२६॥
एवं साक्षाद्160भगवतः कीर्तनस्मरणे लिखित्वा प्रियजनप्रेमद्वारा161 कीर्तनस्मरणविशेषं लिखति उद्गायतीनाम् इति । दिशां दशदिक्स्थानां जीवानाम् अमङ्गलम्162 ऐहिकामुष्मिकम् अखिलम् अभद्रम् । यद् वा, अकारो विष्णुस् तद्रूपं मङ्गलम् । किं वा, न विद्यते मङ्गलं यस्मात् तद् अमङ्गलम्163 अनुत्तमादिवत् । परममङ्गलम् इत्य् अर्थः । तच् च मुख्यवृत्त्या श्री164भगवत्प्रेमैव, यत्165 येन ध्वनिना दिशः प्रति नितरां रस्यते आस्वादः166 कार्यत इत्य् अर्थः ॥२६॥
पठेत् पुनश् च साधूनां सम्प्रदायानुसारतः ।
चतुःश्लोकीम् इमां सर्वदोषशान्त्यै167 शुभाप्तये ॥२७॥
यद्य् अपि लेह्य168श्लोकचतुष्टये श्रीगोपालदेवस्य कीर्तनस्मरणविशेषो नास्ति, तथापि बहुलशिष्टाचारापेक्षया तत् पठितव्यम् इति लिखति पठेद् इति । सर्वेषां169 दुःस्वप्नादिदोषाणां शान्तये इत्य् एषां श्लोकानां प्रायो170 गजेन्द्रमोक्षाख्यानपरतया दुःस्वप्नाद् उपशान्तय इत्यादि तत्रत्योक्त्यभिप्रायेण ॥२७॥
विश्वास-प्रस्तुतिः
प्रातः स्मरामि भवभीतिमहार्ति-शान्त्यै नारायणं गरुडवाहनम् अब्जनाभम् । ग्राहाभिभूतवरवारण171मुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥२८॥
प्रातर् नमामि मनसा वचसा च172 मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारायण173प्रवण174विप्रपरायणस्य175 ॥२९॥
पारायणं वेदाध्ययनसाकल्यं तस्मिन् प्रवणस् तत्पर इत्य् अर्थः । यद् वा,176 पारायणेन प्रवणः प्रणतो177 यो विप्रस् तस्य परं परमम् अयनम् आश्रयस् तस्य ॥२९॥
प्रातर् भजामि भजताम् अभयङ्करं178 तं
प्राक् सर्वजन्मकृतपापभयावहत्यै179 ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
शोकप्रणाशम् अकरोद् धृतशङ्खचक्रः ॥३०॥
श्लोक180त्रयम् इदं पुण्यं प्रातः प्रातः181 पठेत् तु यः ।
लोकत्रयगुरुस् तस्मै182 दद्याद्183 आत्मपदं184 हरिः ॥ इति ॥३१॥
तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः185 ।
किं तु स्वाभीष्टरूपादि श्रीकृष्णस्य186 विचिन्तयेत्187 ॥३२॥
इत्थं विदध्याद् भगवत्कीर्तनस्मरणात्मकम्188 ।
सर्वतीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम् ॥३३॥
तथा च स्कान्दे स्कन्दं श्रीशिवोक्तौ—
सकृन् नारायणयेत्य् उक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक189 ॥३४॥
Broo
²⁸To alleviate the terrible pain of the fear of birth and death,
in the morning I remember the lotus-navelled Nārāyaṇa, riding on Garuḍa,
the cause of liberation of the great elephant attacked by a crocodile,
armed with the disc, eyes like tender lotus petals.
²⁹With mind, words and head
in the morning I bow to the lotus feet of Nārāyaṇa,
the supreme person, the rescuer from the oceans of hell,
the refuge of a Brāhmaṇa devoted to sacred recitations.
Devoted to sacred recitations means that such a Brāhmaṇa is devoted to his Vedic recitations. Alternatively, devoted (pravaṇa) means that he is bowed down (praṇata) by his sacred recitation. […]
³⁰To destroy the fear of the sins of all my previous lifetimes
in the morning I worship him who gives fearlessness to his worshippers,
he who, carrying disc and conch, removed the horrible affliction
of Gajendra, whose foot was caught the mouth of the crocodile.
³¹Hari, the guru of the three worlds, will give his own abode to one who morning after morning recites these three verses.
³²Such verses are mentioned here and there by convention, but one should meditate on the form and so on of Śrī Kṛṣṇa that is dear to oneself.
³³Thus, the glorification and remembrance of the Lord should be understood to be like having bathed in all the Tīrthas, purifying both within and without.
This is explained by Śiva to Skanda in the Skānda Purāṇa (–):[^FNB000276]
³⁴O son, a man who utters “Nārāyaṇa” once becomes one who has bathed in the Ganges and all the holy places for three hundred Kalpas.
मूलम्
प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनम् अब्जनाभम् ।
ग्राहाभिभूतवरवारण171मुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥२८॥
प्रातर् नमामि मनसा वचसा च172 मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य
पारायण173प्रवण174विप्रपरायणस्य175 ॥२९॥
पारायणं वेदाध्ययनसाकल्यं तस्मिन् प्रवणस् तत्पर इत्य् अर्थः । यद् वा,176 पारायणेन प्रवणः प्रणतो177 यो विप्रस् तस्य परं परमम् अयनम् आश्रयस् तस्य ॥२९॥
प्रातर् भजामि भजताम् अभयङ्करं178 तं
प्राक् सर्वजन्मकृतपापभयावहत्यै179 ।
यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-
शोकप्रणाशम् अकरोद् धृतशङ्खचक्रः ॥३०॥
श्लोक180त्रयम् इदं पुण्यं प्रातः प्रातः181 पठेत् तु यः ।
लोकत्रयगुरुस् तस्मै182 दद्याद्183 आत्मपदं184 हरिः ॥ इति ॥३१॥
तद् एतल् लिखितं कुत्र कुत्रचिद् व्यवहारतः185 ।
किं तु स्वाभीष्टरूपादि श्रीकृष्णस्य186 विचिन्तयेत्187 ॥३२॥
इत्थं विदध्याद् भगवत्कीर्तनस्मरणात्मकम्188 ।
सर्वतीर्थाभिषेकं वै बहिर् अन्तर्विशोधनम् ॥३३॥
तथा च स्कान्दे स्कन्दं श्रीशिवोक्तौ—
सकृन् नारायणयेत्य् उक्त्वा पुमान् कल्पशतत्रयम् ।
गङ्गादिसर्वतीर्थेषु स्नातो भवति पुत्रक189 ॥३४॥
विश्वास-प्रस्तुतिः
भगवत्कीर्तनस्मरणे एव सर्वतीर्थाभिषेक इत्य् अत्र प्रमाणं लिखति सकृद् इति । कल्पशतत्रयम् इत्य् अस्यानन्त्ये190 तात्पर्यं सदैवेत्य् अर्थः ॥३४॥
अन्यत्र191 च—
शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् ।
कीर्तनात् तस्य पापस्य192 नाशम् आयात्य्193 अशेषतः ॥ इति ॥३५॥
कथं बहिरन्तर्विशोधनम्? तल्लिखति शयनाद् इति194 । कीर्तनात् केवलाद् एव ॥३५॥
माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्यप्रसङ्गतः ।
स्मरणस्य तु195 माहात्म्यम् अधुना लिख्यते कियत् ॥३६॥
मुख्ये प्रसङ्गे इति कीर्तनस्यैव प्राधान्येन प्रसङ्गे सति लेख्यम्, अधुना चान्यसङ्गत्या गौणत्वाल् लिखितुम् अयोग्यम् इत्य् अर्थः । एवम् अग्रे ऽपि ज्ञेयम्196 ॥३६॥
तत्रादौ तस्य नित्यता
पाद्मे बृहत्सहस्रनाम197स्तोत्रे—
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युर् एतयोर् एव किंकराः ॥३७॥
जातुचित् कदाचिद् अपि न विस्मर्तव्यः । एतयोः स्मरणविस्मरणयोर्198 एव किंकराः अनुगाः । स्मृतौ सर्वे विधयः तत्कृतपुण्यानि विस्मृतौ च सर्वे निषेधास्199 तत्कृतपापानि, स्वयम् एवानुगच्छन्तीत्य् अर्थः ॥३७॥
स्कान्दे कार्त्तिक200प्रसङ्गे श्रीमदगस्त्योक्तौ—
सा201 हानिस् तन् महच् छिद्रं सा चान्धजडमूकता202 ।
यन् मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥३८॥
Broo
In this verse, the author provides evidence for the statement that glorification and remembrance of the Lord equals having bathed in all holy places. Because for three hundred kalpas really is an endless time, the purport is “forever”. This is the meaning.
And elsewhere:[^FNB000277]
³⁵One who glorifies Madhusūdana when getting up from bed sends by this glorification all his sins to their destruction.
How is it “purifying both within and without” (
HBV3.33)? That the author shows with this verse. By this glorification: by this alone.
³⁶The greatness of glorification will be given further on, at its main occasion, but something of the greatness of remembrance will be described now.
At its main occasion: at its principal occasion. The meaning is that because it is now secondary, being connected with something else, it would be improper to write about it here. Similar cases further on should be understood in the same way.
First: The Mandatoriness of Remembrance
In the Bṛhatsahasranāma hymn of the Pādma Purāṇa (6.71.100):[^FNB000278]
³⁷One should always remember Viṣṇu and never forget him—all the injunctions and prohibitions are simply servants of these two.
[…] The meaning is that all the injunctions and the merits earned from them will come to one when the Lord is remembered, and when the Lord is forgotten, all the prohibitions and the sins earned from them will appear.
In the words of Agastya in the Skānda Purāṇa, in the context of Kārttika (–):
³⁸Not to remember Vāsudeva for a Muhūrta or even for a moment is failure, being blind, dumb and imbecile.
मूलम्
भगवत्कीर्तनस्मरणे एव सर्वतीर्थाभिषेक इत्य् अत्र प्रमाणं लिखति सकृद् इति । कल्पशतत्रयम् इत्य् अस्यानन्त्ये190 तात्पर्यं सदैवेत्य् अर्थः ॥३४॥
अन्यत्र191 च—
शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् ।
कीर्तनात् तस्य पापस्य192 नाशम् आयात्य्193 अशेषतः ॥ इति ॥३५॥
कथं बहिरन्तर्विशोधनम्? तल्लिखति शयनाद् इति194 । कीर्तनात् केवलाद् एव ॥३५॥
माहात्म्यं कीर्तनस्याग्रे लेख्यं मुख्यप्रसङ्गतः ।
स्मरणस्य तु195 माहात्म्यम् अधुना लिख्यते कियत् ॥३६॥
मुख्ये प्रसङ्गे इति कीर्तनस्यैव प्राधान्येन प्रसङ्गे सति लेख्यम्, अधुना चान्यसङ्गत्या गौणत्वाल् लिखितुम् अयोग्यम् इत्य् अर्थः । एवम् अग्रे ऽपि ज्ञेयम्196 ॥३६॥
तत्रादौ तस्य नित्यता
पाद्मे बृहत्सहस्रनाम197स्तोत्रे—
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युर् एतयोर् एव किंकराः ॥३७॥
जातुचित् कदाचिद् अपि न विस्मर्तव्यः । एतयोः स्मरणविस्मरणयोर्198 एव किंकराः अनुगाः । स्मृतौ सर्वे विधयः तत्कृतपुण्यानि विस्मृतौ च सर्वे निषेधास्199 तत्कृतपापानि, स्वयम् एवानुगच्छन्तीत्य् अर्थः ॥३७॥
स्कान्दे कार्त्तिक200प्रसङ्गे श्रीमदगस्त्योक्तौ—
सा201 हानिस् तन् महच् छिद्रं सा चान्धजडमूकता202 ।
यन् मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥३८॥
विश्वास-प्रस्तुतिः
काशीखण्डे च श्री203204ध्रुवचरिते—
इयम् एव परा हानिर् उपसर्गो ऽयम् एव च205 ।
अभाग्यं परमं चैतद्206 वासुदेवं न यत्207 स्मरेत् ॥३९॥
ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः ।
ऋते विष्णुस्मृतेर् यातास् तेषु मुष्टो यमेन सः ॥ इति208 ॥४०॥
ऋते209 विष्णुस्मृतेर् विष्णुस्मरणं विना, यस्य जनस्य, याता अपगताः, तेषु मुहूर्तादिषु मुष्टो वञ्चितो वशीकृत इत्य् अर्थः ॥४०॥
नित्यत्वे ऽप्य् अस्य माहात्म्यं विचित्रफलदानतः ।
ज्ञेयं शास्त्रोदितं दर्शपूर्ण210मासादिवद् बुधैः ॥४१॥
ननु शास्त्रेषु स्मरणस्य तत्तत्फलश्रवणात् कथं नित्यत्वं सिध्येद् इत्य् आशङ्ख्य लिखति211 नित्यत्वे ऽपीति । अस्य स्मरणस्य212 शास्त्रोदितं विचित्रफलदानतो माहात्म्यं दर्शपौर्ण213मासादिवत् । आदिशब्दाद् अग्निहोत्रादि, यथा तेषां नित्यत्वे ऽपि सति फलानि श्रूयन्ते । तथात्रापि बुधैः शास्त्रविद्भिर् ज्ञेयम् । एतच् च मीमांसाशास्त्रनिपुणैः श्रीकृष्णदेवाचार्यादिभिर् एकादशीप्रसङ्गे विवृत्य लिखितम् अस्तीति नात्र विस्तार्यते214 । एवम् अग्रे ऽपि सर्वत्रैव बोद्धव्यम् इति ॥४१॥
अथ स्मरणमाहात्म्यम्
तत्र सर्वतीर्थ215स्नानाधिकत्वम्216
उक्तं च217 स्मार्तैर् अपि—
मान्त्रं पार्थिवम् आग्नेयं वायव्यं218 दिव्यम् एव च ।
वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम् ॥४२॥
शं न आपस् तु वै मान्त्रं मृदालम्भं तु पार्थिवम् ।
भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥४३॥
आतपे सति या वृष्टिर् दिव्यं स्नानं219 तद् उच्यते ।
बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते220 बुधैः ।
ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तितम् ॥४४॥
Broo
And in the story of Dhruva in the Kāśīkhaṇḍa (–):[^FNB000279]
³⁹When one does not remember Vāsudeva, that is the supreme failure and evil, the greatest misfortune. ⁴⁰During the time passed without remembrance of Viṣṇu—whether Muhūrtas, Kṣanas, Kāṣṭhas or Nimeṣas—one is deceived by Yama.
[…]
⁴¹Even though this is mandatory, its greatness, giving manifold fruits, is known by the wise from the scriptures, such as in the case of rituals such as the Darśapūrṇamāsa.
Now, since one hears from the scriptures about different results of remembrance, how can it be a mandatory function? Fearing this doubt, the author writes this verse. […] And so forth refers to rites such as fire sacrifices, where even though they are mandatory, one hears about their fruits. The wise, those who have knowledge of the scriptures, know the same to be true here. And since this is elaborately discussed in connection with Ekādaśī (12.3–35, 104) by experts in Mīmāṃsā scriptures such as Śrī Kṛṣṇadeva Ācārya, it is not expanded on here. This should be understood in every case below as well.
The Greatness of Remembrance
It Surpasses Bathing at All Tīrthas
This is stated even by the Smārtas:[^FNB000280]
⁴²Bathing with mantras, earth, fire, air, divinely, with water and in the mind—these are known as the seven types of bathing. ⁴³Mantra-bathing is
ŚAṂ NA ĀPAḤ; touching mud is bathing with earth; bathing with fire is to do so with ashes; the dust raised by cows is bathing with wind; ⁴⁴rain during sunshine is called a divine bath. Bathing outside in a river or the like is called bathing with water by the wise, and meditation on Viṣṇu in the mind is called bathing in the mind.
मूलम्
काशीखण्डे च श्री203204ध्रुवचरिते—
इयम् एव परा हानिर् उपसर्गो ऽयम् एव च205 ।
अभाग्यं परमं चैतद्206 वासुदेवं न यत्207 स्मरेत् ॥३९॥
ये मुहूर्ताः क्षणा ये च याः काष्ठा ये निमेषकाः ।
ऋते विष्णुस्मृतेर् यातास् तेषु मुष्टो यमेन सः ॥ इति208 ॥४०॥
ऋते209 विष्णुस्मृतेर् विष्णुस्मरणं विना, यस्य जनस्य, याता अपगताः, तेषु मुहूर्तादिषु मुष्टो वञ्चितो वशीकृत इत्य् अर्थः ॥४०॥
नित्यत्वे ऽप्य् अस्य माहात्म्यं विचित्रफलदानतः ।
ज्ञेयं शास्त्रोदितं दर्शपूर्ण210मासादिवद् बुधैः ॥४१॥
ननु शास्त्रेषु स्मरणस्य तत्तत्फलश्रवणात् कथं नित्यत्वं सिध्येद् इत्य् आशङ्ख्य लिखति211 नित्यत्वे ऽपीति । अस्य स्मरणस्य212 शास्त्रोदितं विचित्रफलदानतो माहात्म्यं दर्शपौर्ण213मासादिवत् । आदिशब्दाद् अग्निहोत्रादि, यथा तेषां नित्यत्वे ऽपि सति फलानि श्रूयन्ते । तथात्रापि बुधैः शास्त्रविद्भिर् ज्ञेयम् । एतच् च मीमांसाशास्त्रनिपुणैः श्रीकृष्णदेवाचार्यादिभिर् एकादशीप्रसङ्गे विवृत्य लिखितम् अस्तीति नात्र विस्तार्यते214 । एवम् अग्रे ऽपि सर्वत्रैव बोद्धव्यम् इति ॥४१॥
अथ स्मरणमाहात्म्यम्
तत्र सर्वतीर्थ215स्नानाधिकत्वम्216
उक्तं च217 स्मार्तैर् अपि—
मान्त्रं पार्थिवम् आग्नेयं वायव्यं218 दिव्यम् एव च ।
वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम् ॥४२॥
शं न आपस् तु वै मान्त्रं मृदालम्भं तु पार्थिवम् ।
भस्मना स्नानम् आग्नेयं स्नानं गोरजसानिलम् ॥४३॥
आतपे सति या वृष्टिर् दिव्यं स्नानं219 तद् उच्यते ।
बहिर् नद्यादिषु स्नानं वारुणं प्रोच्यते220 बुधैः ।
ध्यानं यन् मनसा विष्णोर् मानसं तत् प्रकीर्तितम् ॥४४॥
विश्वास-प्रस्तुतिः
स्मार्तैर्221 अपीति । भगवद्भक्तिपरैर् उच्यत एव स्मृत्युक्तकर्मपरैर् अप्य् उक्तम् इत्य् अर्थः । शं न आपस् त्व् इति मन्त्राद्यवर्णाः, इदम् अपि स्मार्तानाम् एव मतं, वैष्णवानां तु मूलमन्त्रादिनैव । मृदः मृत्तिकाया आलम्भः स्पर्शनं यस्मिन् तत्, मनसा ध्यानम् इति केवलमनःसंयोगमात्ररूपं स्मरणं लक्ष्यते ध्यानम् इत्य् उक्ते ऽपि मनसेति प्रयोगात्222 ॥४२–४४॥
किं च—223
असामर्थ्येन कायस्य कालदेशाद्यपेक्षया ।
तुल्यफलानि224 सर्वाणि स्युर् इत्य् आह पराशरः ॥४५॥
स्नानानां225 मानसं स्नानं मन्वाद्यैः परमं स्मृतम् ।
कृतेन226 येन मुच्यन्ते गृहस्था227 अपि वै द्विजाः ॥४६॥
न चैतेषु228 व्यापारतारतम्यादिना तारतम्यं ज्ञेयम् इति लिखति असामर्थ्येनेति । कालाद्यपेक्षया च । आदिशब्देनाधिकारी ग्राह्यः229 । किं च, स्नानानाम् इति द्विजा इति तेषाम् एव स्नानादौ मुख्यत्वात् । हे द्विजा इति वा230 ॥४५–४६॥
परमशोधकत्वम्
गारुडे श्रीनारदोक्तौ विष्णुधर्मे च पुलस्त्योक्तौ—231
अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥४७॥
स बाह्याभ्यन्तर इति बाह्येन शरीरादिना आभ्यन्तरेण च मनआदिना सह शुद्धो ऽभूद् इत्य् अर्थः ॥४७॥
Broo
Even by the Smārtas: the idea is that devotees of the Lord will naturally say so, but so do those attached to the rituals given in the Smṛtis as well.
ŚAṂ NA ĀPAḤ are the first syllables of the mantra,[^FNB000281] but this is the teaching of the Smārtas; Vaiṣṇavas use their root mantras and so on. […] In the mind meditating: since even in the statement, “remembrance that has the form of contact only with the mind itself is called meditation,”[^FNB000282] the word “mind” is used.
And also:[^FNB000283]
⁴⁵By considering time, place and so on, they all give the full fruit to an unfit body—so says Parāśara.[^FNB000284] ⁴⁶Of all types of bathing, Manu and others consider mental bathing the best. By its performance, even householder Brāhmaṇas are liberated.
To show that there is no gradation among these types of bathing by the gradation of function, the author provides verse45. The words and so on refer to eligibility. Furthermore, in the next verse Brāhmaṇas are mentioned because of their pre-eminence in rites such as bathing. Alternatively, the word is in the vocative case.[^FNB000285]
It Is Supremely Purifying
In the words of Nārada in the Gāruḍa Purāṇa (2.1.47.52), and of Pulastya in the Viṣṇudharma:[^FNB000286]
⁴⁷Whether clean or unclean, in all conditions, one who remembers the lotus-eyed Lord is internally and externally pure.
Internally and externally pure: the meaning is that he becomes cleansed both externally, bodily, and intenally, in the mind and so on.
मूलम्
स्मार्तैर्221 अपीति । भगवद्भक्तिपरैर् उच्यत एव स्मृत्युक्तकर्मपरैर् अप्य् उक्तम् इत्य् अर्थः । शं न आपस् त्व् इति मन्त्राद्यवर्णाः, इदम् अपि स्मार्तानाम् एव मतं, वैष्णवानां तु मूलमन्त्रादिनैव । मृदः मृत्तिकाया आलम्भः स्पर्शनं यस्मिन् तत्, मनसा ध्यानम् इति केवलमनःसंयोगमात्ररूपं स्मरणं लक्ष्यते ध्यानम् इत्य् उक्ते ऽपि मनसेति प्रयोगात्222 ॥४२–४४॥
किं च—223
असामर्थ्येन कायस्य कालदेशाद्यपेक्षया ।
तुल्यफलानि224 सर्वाणि स्युर् इत्य् आह पराशरः ॥४५॥
स्नानानां225 मानसं स्नानं मन्वाद्यैः परमं स्मृतम् ।
कृतेन226 येन मुच्यन्ते गृहस्था227 अपि वै द्विजाः ॥४६॥
न चैतेषु228 व्यापारतारतम्यादिना तारतम्यं ज्ञेयम् इति लिखति असामर्थ्येनेति । कालाद्यपेक्षया च । आदिशब्देनाधिकारी ग्राह्यः229 । किं च, स्नानानाम् इति द्विजा इति तेषाम् एव स्नानादौ मुख्यत्वात् । हे द्विजा इति वा230 ॥४५–४६॥
परमशोधकत्वम्
गारुडे श्रीनारदोक्तौ विष्णुधर्मे च पुलस्त्योक्तौ—231
अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥४७॥
स बाह्याभ्यन्तर इति बाह्येन शरीरादिना आभ्यन्तरेण च मनआदिना सह शुद्धो ऽभूद् इत्य् अर्थः ॥४७॥
विश्वास-प्रस्तुतिः
विशेषतो विष्णुधर्मे232 तत्रैव—233
यद्य् अप्य् उपहतः पापैर् मनसात्यन्तदुस्तरैः ।
तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥४८॥
मनसापि अत्यन्तदुस्तरैर् अनन्तत्वात् गणयितुम् अशक्यैः, किं पुनर्234 वाचेत्य्235 अर्थः । यद् वा, मनःसंकल्पितेनापि प्रायश्चित्तशतेन236 परमापरिहार्यैः, किं पुनः साक्षात् प्रायश्चित्तकर्मानुष्ठानेनेत्य् अर्थः, तस्य दुष्करत्वात् । यद् वा, मनसा संस्मरन्न् इत्य् अन्वयः । ततश् च237 मनसेति केवलं मनसि कथञ्चित् संयोगमात्रम् अभिप्रेतम् ॥४८॥
पापोन्मूलत्वम्238
श्री239विष्णुपुराणे—
प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥४९॥
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु240 तस्यैकं हरि241संस्मरणं परम्242 ॥५०॥
तपांसि कृच्छ्रादीनि, कर्माणि243 दानजपादीनि तदात्मकानि,244 तेषां मध्ये तेभ्यो वा परं श्रेष्ठम् । श्रेष्ठत्वम् आह245 कृत इति । प्रकर्षेण जायते, तस्यैव मन्वाद्युक्तानां तपोदानादीनां मध्ये एकं किञ्चिद् तद्246अनुरूपं प्रायश्चित्तम्, अननु247तप्तस्य तेष्व् अनधिकारात् । हरिस्मरणं तु परम् अनुतापानपेक्षया अपि248 निःशेषपापक्षयहेतुत्वात् । अवशेनापि यन्249नाम्नि कीर्तिते250 इति हरिर् हरति पापानि इत्याद्युक्तेः ॥४९–५०॥
Broo
Specifics are given in the same place in the Viṣṇudharma:[^FNB000287]
⁴⁸Even if affected with evils that are extremely difficult to pass over with the mind, one who remembers Viṣṇu is nevertheless both internally and externally pure.
Extremely difficult to pass over even with the mind: since they are innumerable, they cannot be counted. How much more so with words?—this is the meaning. Alternatively, they are most difficult to get rid of, even by a hundred imagined atonements. How much more so by actually performing the rituals of atonement?—this is the meaning, because they are so hard to do.
Otherwise, with the mind could be connected to the next line, that is, one who with the mind remembers Viṣṇu. And there the statement with the mind is intended to show some type of contact within the mind alone.[^FNB000288]
It Uproots Sins
In the Viṣṇu Purāṇa (2.6.39–40):[^FNB000289]
⁴⁹Endless atonements consisting of penances and rituals—remembrance of Kṛṣṇa is superior to all of them! ⁵⁰For a person who repents after performing a sin, the one supreme atonement is remembering Hari.
Penances: painful observances, rituals: giving charity, reciting mantras and so on. […] The author else explains how remembrance of Kṛṣṇa is superior to all of this, that is, when intense repentance awakes in a person who has wronged, there should be some one corresponding atonement for him among all the penances, charity and so forth prescribed by authorities such as Manu, since one who does not repent is not eligible for any of them. But remembrance of Hari is supreme, because it does not even consider repentance, since it is the cause of the destruction of all sins. This is shown by statements such as “One who chants his name even unwillingly …” (Garuḍa Purāṇa 1.228.12, cited in
HBV11.317) and “Hari takes the wrongs …” (Bṛhannāradīya Purāṇa 11.99, cited in
HBV3.53).[^FNB000290]
मूलम्
विशेषतो विष्णुधर्मे232 तत्रैव—233
यद्य् अप्य् उपहतः पापैर् मनसात्यन्तदुस्तरैः ।
तथापि संस्मरन् विष्णुं स बाह्याभ्यन्तरः शुचिः ॥४८॥
मनसापि अत्यन्तदुस्तरैर् अनन्तत्वात् गणयितुम् अशक्यैः, किं पुनर्234 वाचेत्य्235 अर्थः । यद् वा, मनःसंकल्पितेनापि प्रायश्चित्तशतेन236 परमापरिहार्यैः, किं पुनः साक्षात् प्रायश्चित्तकर्मानुष्ठानेनेत्य् अर्थः, तस्य दुष्करत्वात् । यद् वा, मनसा संस्मरन्न् इत्य् अन्वयः । ततश् च237 मनसेति केवलं मनसि कथञ्चित् संयोगमात्रम् अभिप्रेतम् ॥४८॥
पापोन्मूलत्वम्238
श्री239विष्णुपुराणे—
प्रायश्चित्तान्य् अशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां कृष्णानुस्मरणं परम् ॥४९॥
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु240 तस्यैकं हरि241संस्मरणं परम्242 ॥५०॥
तपांसि कृच्छ्रादीनि, कर्माणि243 दानजपादीनि तदात्मकानि,244 तेषां मध्ये तेभ्यो वा परं श्रेष्ठम् । श्रेष्ठत्वम् आह245 कृत इति । प्रकर्षेण जायते, तस्यैव मन्वाद्युक्तानां तपोदानादीनां मध्ये एकं किञ्चिद् तद्246अनुरूपं प्रायश्चित्तम्, अननु247तप्तस्य तेष्व् अनधिकारात् । हरिस्मरणं तु परम् अनुतापानपेक्षया अपि248 निःशेषपापक्षयहेतुत्वात् । अवशेनापि यन्249नाम्नि कीर्तिते250 इति हरिर् हरति पापानि इत्याद्युक्तेः ॥४९–५०॥
विश्वास-प्रस्तुतिः
कलि251कल्मषम् अत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते ॥५१॥
यत्र252 यस्मिन् हरौ, संस्मृते सत्य्253 अनुकरणेनापि स्मृतेः, सम्यक्त्वाभिप्रायेण संशब्दः ॥५१॥
कौर्मे श्रीभगवदुक्तौ—
ये मां जनाः संस्मरन्ति कलौ सकृद् अपि प्रभुम् ।
तेषां नश्यति254 तत् पापं भक्तानां पुरुषोत्तमे ॥५२॥
तत्कालीनाम् अपि सुदुस्तरम् । यद् वा,255 तस्य कलेर् अपि पापं यतस् तेन स्मरणेनैव, पुरुषोत्तमे मयि, भक्तानां भक्तिमतां सताम् ॥५२॥
बृहन्नारदीये शुक्रबलिसंवादे—
हरिर् हरति256 पापानि दुष्टचित्तैर् अपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥५३॥
पापेन न लिप्यत257 इति पुनः258 पापानुत्पत्तेः, कथञ्चिज् जातस्यापि संक्षयाद् वा ॥५३॥
Broo
And also (Viṣṇu Purāṇa 6.8.21):[^FNB000291]
⁵¹The terrible evils of Kali that cause men the sufferings of hell are immediately destroyed when he is once recollected.
When he, Hari, is recollected or remembered even in imitation.[^FNB000292] The prefix saṃ- is used in the sense of “completely”.
In the words of the Lord in the Kūrma Purāṇa (1.27.10):
⁵²For the devotees of the Highest Lord, the people in Kali who remember me, the Lord, even once, that sin is destroyed.
That sin means the sin of that age, very difficult to overcome. Or else it means even the sin of Kali. […] Devotees: persons who have devotion to the Highest Lord, to me.
In a discussion between Śukra and Bali in the Bṛhannāradīya Purāṇa (11.99):[^FNB000293]
⁵³When remembered, Hari takes the sin of even the evil-minded, just as fire burns even if touched by accident.
He will not be tainted by sin, because sin does not arise in him, or else, because of its destruction even were it to appear.[^FNB000294]
मूलम्
कलि251कल्मषम् अत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृद् यत्रानुसंस्मृते ॥५१॥
यत्र252 यस्मिन् हरौ, संस्मृते सत्य्253 अनुकरणेनापि स्मृतेः, सम्यक्त्वाभिप्रायेण संशब्दः ॥५१॥
कौर्मे श्रीभगवदुक्तौ—
ये मां जनाः संस्मरन्ति कलौ सकृद् अपि प्रभुम् ।
तेषां नश्यति254 तत् पापं भक्तानां पुरुषोत्तमे ॥५२॥
तत्कालीनाम् अपि सुदुस्तरम् । यद् वा,255 तस्य कलेर् अपि पापं यतस् तेन स्मरणेनैव, पुरुषोत्तमे मयि, भक्तानां भक्तिमतां सताम् ॥५२॥
बृहन्नारदीये शुक्रबलिसंवादे—
हरिर् हरति256 पापानि दुष्टचित्तैर् अपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्य् एव हि पावकः ॥५३॥
पापेन न लिप्यत257 इति पुनः258 पापानुत्पत्तेः, कथञ्चिज् जातस्यापि संक्षयाद् वा ॥५३॥
विश्वास-प्रस्तुतिः
तत्रैव प्रायश्चित्तप्रसङ्गान्ते—
महापातकयुक्तो वा युक्तो259 वा260 सर्वपातकैः ।
स वै विमुच्यते सद्यो यस्य विष्णुपरं मनः ॥५४॥
ब्रह्मवैवर्ते—
कर्मणा मनसा वाचा यः कृतः पापसञ्चयः ।
सो ऽप्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्रिपङ्कजम् ॥५५॥
अत एवोक्तं स्कान्दे261 कार्त्तिकप्रसङ्गे श्री262पराशरेण—
यममार्गं महाघोरं नरकांश् च यमं तथा ।
स्वप्ने ऽपि न नरः पश्येद् यः स्मरेद् गरुडध्वजम् ॥५६॥
षष्ठस्कन्धे श्रीशुकेन—
सकृन् मनः कृष्णपदारविन्दयोर्
निवेशितं तद्गुणरागि यैर् इह ।
न ते यमं पाशभृतश् च तद्भटान्
स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥५७॥
सकृद् अपि, एवम् अपिशब्दस्य सर्वत्रान्वयाद् अयम् अर्थः । किं पुनः सदा, किं पुनः सर्वेन्द्रियाणि, किं पुनः सर्वाङ्गसौन्दर्यादौ, किं पुनः स्वतो निविष्टं, किं पुनस् तद्रूपनामानुरागीति । कारुण्यादिना263 गुणरागित्वेनोपकारापेक्षया सोपाधिकत्वापत्तेस् तस्य न्यूनतया कैमुतिकन्यायसिद्धिः । तथा यैर् अपि कैश्चित् इहापि यत्र कुत्रचित् इति । तथा कुतो याम्या यातनाः, कुतश् च बन्धनार्थानीतपाशान्, कुतश् च निर्बलान् यमदूतान् इति । तथा कुतः साक्षाद्भयतर्जनादिकम्264 अनुभवेयुर् इति । यतश् चीर्ण265निष्कृतास् तेनैव कृतप्रायश्चित्ताः । एवं यथाकथञ्चित् स्मरणमात्रेण सर्वपापक्षयात् सर्वेषाम् एव नरकाद्यभावो ऽभिप्रेतः । इत्थं च विष्णुपरं मन इत्य्
Broo
In the same book, in connection with atonement (Bṛhannāradīya Purāṇa 18.97):
⁵⁴He whose mind is devoted to Viṣṇu is immediately freed, even if he is burdened with great sins or all kinds of sins.
In the Brahmavaivarta Purāṇa (–):
⁵⁵When one remembers the lotus feet of Kṛṣṇa, all the sins one has performed by body, mind or words go to their destruction.
For this reason, Parāśara says this in the Skānda Purāṇa, in connection with Kārttika (–):
⁵⁶A person who remembers him who carries the banner of Garuḍa will not see, even in a dream, the terribly frightening path to Yama, the hells, or Yama himself.
In the Sixth Book (BhP6.1.19), Śuka says:
⁵⁷Those who have once placed their minds here
at the lotus feet of Kṛṣṇa, enamoured by his qualities,
will not even in their dreams see Yama or his men
bearing ropes, for they have done their expiations.
Even once. Now, since the word even should be construed with every word, this is the meaning: how much more if always? “How much more if all the senses, how much more if on the beauty, etc, of all the limbs, how much more if it rests there by itself, how much more if attached to his form and names?” This is an argument a fortiori, because it is a less evident proposition than the more evident corollary of being enamoured by his qualities of compassion and so on.
Similarly, even those who: whoever, even here: anywhere. Similarly, “Where are the torments of hell, where are those who bring ropes to bind with, and from where are those weakling messengers of Yama?” Similarly, “Where could one possibly experience such an intensely frightening threat”? Because [persons who remember the Lord] have done their expiations, have performed their atonements. Thus, because of the destruction of all sins simply by remembrance in any way whatsoever, it is indicated that they will all be free from hell and so on.
मूलम्
तत्रैव प्रायश्चित्तप्रसङ्गान्ते—
महापातकयुक्तो वा युक्तो259 वा260 सर्वपातकैः ।
स वै विमुच्यते सद्यो यस्य विष्णुपरं मनः ॥५४॥
ब्रह्मवैवर्ते—
कर्मणा मनसा वाचा यः कृतः पापसञ्चयः ।
सो ऽप्य् अशेषः क्षयं याति स्मृत्वा कृष्णाङ्घ्रिपङ्कजम् ॥५५॥
अत एवोक्तं स्कान्दे261 कार्त्तिकप्रसङ्गे श्री262पराशरेण—
यममार्गं महाघोरं नरकांश् च यमं तथा ।
स्वप्ने ऽपि न नरः पश्येद् यः स्मरेद् गरुडध्वजम् ॥५६॥
षष्ठस्कन्धे श्रीशुकेन—
सकृन् मनः कृष्णपदारविन्दयोर्
निवेशितं तद्गुणरागि यैर् इह ।
न ते यमं पाशभृतश् च तद्भटान्
स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥५७॥
सकृद् अपि, एवम् अपिशब्दस्य सर्वत्रान्वयाद् अयम् अर्थः । किं पुनः सदा, किं पुनः सर्वेन्द्रियाणि, किं पुनः सर्वाङ्गसौन्दर्यादौ, किं पुनः स्वतो निविष्टं, किं पुनस् तद्रूपनामानुरागीति । कारुण्यादिना263 गुणरागित्वेनोपकारापेक्षया सोपाधिकत्वापत्तेस् तस्य न्यूनतया कैमुतिकन्यायसिद्धिः । तथा यैर् अपि कैश्चित् इहापि यत्र कुत्रचित् इति । तथा कुतो याम्या यातनाः, कुतश् च बन्धनार्थानीतपाशान्, कुतश् च निर्बलान् यमदूतान् इति । तथा कुतः साक्षाद्भयतर्जनादिकम्264 अनुभवेयुर् इति । यतश् चीर्ण265निष्कृतास् तेनैव कृतप्रायश्चित्ताः । एवं यथाकथञ्चित् स्मरणमात्रेण सर्वपापक्षयात् सर्वेषाम् एव नरकाद्यभावो ऽभिप्रेतः । इत्थं च विष्णुपरं मन इत्य्
विश्वास-प्रस्तुतिः
अत्र विष्ण्वाश्रयं कथञ्चित् तत्समीपगम् इति ज्ञेयम् । तथा266 हरिसंस्मरणम् इत्यादौ संशब्दादिकं भगवत्स्मरणस्य267 सर्वस्मरणतः268 सम्यक्तया स्वरूपनिर्देशमात्रपरं, न तु विशेषणपरम् इति दिक् । यद्य् अपि परमशोधकत्वपापोन्मूलनत्वयोर् अभेद एव पर्यवस्यति, तथापि परमशोधकत्वस्य269 तात्कालिकपापाद्यशुद्धितो बाह्याभ्यन्तरपवित्रतामात्रलक्षणत्वेन पापोन्मूलनत्वस्य चानेकजन्मकृत270वासनाशेषपापक्षपणरूपतया कश्चिद् भेदः कल्प्यतः271 । एवम् अन्यत्रापि ज्ञेयम् ॥५७॥
सर्वापद्विमोचकत्वम्
श्रीविष्णुपुराणे श्रीप्रह्लादोक्तौ—
दन्ता गजानां कुलिशाग्रनिष्ठुराः
शीर्णा यद् एते272 न बलं ममैतत् ।
महाविपत्पातविनाशनो ऽयं
जनार्दनानुस्मरणानुभावः ॥५८॥
वामनपुराणे—273
विष्टयो व्यतिपाताश् च ये ऽन्ये दुर्नीतिसम्भवाः ।
ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः ॥५९॥
पाद्मे माघ274माहात्म्ये देव275द्यु276तिस्तुतौ—277
यस्य स्मरणमात्रेण न मोहो न च दुर्गतिः ।
न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम् ॥६०॥
Broo
In this manner, it should also be understood that he whose mind is devoted to Viṣṇu (3.54), who here somehow takes shelter of Viṣṇu, will gain his presence. Similarly, in the phrase beginning with remembrance of Hari (3.64), the prefix saṃ- is meant only to show the nature of remembrance of the Lord as being the best of all remembrance of all; it is not meant as a qualifier. This is the drift.[^FNB000295]
Even though [the categories of] “supremely purifying” and “uprooting sins” are one and the same, still, some kind of a diffence can be conceived between them as “supremely purifying” is characterised by only internal and external purity from the pollution of sins and the like in the present, while “uprooting sins” destroys sins and all their impressions from innumerable earlier lives. Other similar instances should be understood in the same way.
It Liberates One from All Misfortune
In the words of Prahlāda in the Viṣṇu Purāṇa (1.17.44):[^FNB000296]
⁵⁸It was not my strength that broke the tusks of the elephants,
hard as the edge of Indra’s Vajra;
it was the consequence of remembering Janārdana,
protecting one from falling into terrible calamities.
And in the Vāmana Purāṇa (94.61):[^FNB000297]
⁵⁹Drudgery, misfortune and whatever else arises from bad conduct, all of those calamities are destroyed by the remembrance of Viṣṇu.
In the prayers of Devadyuti in the Greatness of Māgha in the Pādma Purāṇa (6.128.240):[^FNB000298]
⁶⁰I worship that Unlimited one, simply by the remembrance of whom there is no illusion, no misfortune, no illness and no suffering.
मूलम्
अत्र विष्ण्वाश्रयं कथञ्चित् तत्समीपगम् इति ज्ञेयम् । तथा266 हरिसंस्मरणम् इत्यादौ संशब्दादिकं भगवत्स्मरणस्य267 सर्वस्मरणतः268 सम्यक्तया स्वरूपनिर्देशमात्रपरं, न तु विशेषणपरम् इति दिक् । यद्य् अपि परमशोधकत्वपापोन्मूलनत्वयोर् अभेद एव पर्यवस्यति, तथापि परमशोधकत्वस्य269 तात्कालिकपापाद्यशुद्धितो बाह्याभ्यन्तरपवित्रतामात्रलक्षणत्वेन पापोन्मूलनत्वस्य चानेकजन्मकृत270वासनाशेषपापक्षपणरूपतया कश्चिद् भेदः कल्प्यतः271 । एवम् अन्यत्रापि ज्ञेयम् ॥५७॥
सर्वापद्विमोचकत्वम्
श्रीविष्णुपुराणे श्रीप्रह्लादोक्तौ—
दन्ता गजानां कुलिशाग्रनिष्ठुराः
शीर्णा यद् एते272 न बलं ममैतत् ।
महाविपत्पातविनाशनो ऽयं
जनार्दनानुस्मरणानुभावः ॥५८॥
वामनपुराणे—273
विष्टयो व्यतिपाताश् च ये ऽन्ये दुर्नीतिसम्भवाः ।
ते सर्वे स्मरणाद् विष्णोर् नाशम् आयान्त्य् उपद्रवाः ॥५९॥
पाद्मे माघ274माहात्म्ये देव275द्यु276तिस्तुतौ—277
यस्य स्मरणमात्रेण न मोहो न च दुर्गतिः ।
न रोगो न च दुःखानि तम् अनन्तं नमाम्य् अहम् ॥६०॥
विश्वास-प्रस्तुतिः
दुर्वासनोन्मूलनत्वम्
द्वादशस्कन्धे—
यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातुजम् ।
एवम् आत्मगतो विष्णुर् योगिनाम् अशुभाशयम् ॥६१॥
धातुजं ताम्रादिसंश्लेषजातं, हेम्नो दौर्वर्ण्यं मालिन्यं हेम्नि स्थितः सन् बहिर् एव हरति,278 एवं योगिनाम् अपि सताम् आत्मगतो मनसि प्राप्तः स्मृतः सन्, विष्णुर् एव न तु योगादिकम् इत्य् अर्थः279 ॥६१॥
सर्वमङ्गलकारित्वम्
पाण्डवगीतायाम्—
लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः ।
येषाम् इन्दीवरश्यामो हृदयस्थो जनार्दनः ॥६२॥
सर्वसत्कर्मफलदत्वम्280
स्कान्दे कार्त्तिकप्रसङ्गे ऽगस्त्योक्तौ—281
वेदेषु282 यज्ञेषु तपःसु चैव
दानेषु तीर्थेषु व्रतेषु चैव ।
इष्टेषु पूर्तेषु283 च यत्284 प्रदिष्टं
नृणां स्मृते तत्फलम् अच्युते285 च286 ॥६३॥
कर्मसाद्गुण्यकारित्वम्
बृहन्नारदीये—
न्यूनातिरिक्तता सिद्धा287 कलौ वेदोक्तकर्मणाम् ।
हरिस्मरणम् एवात्र सम्पूर्णफलदायकम् ॥६४॥
Broo
It Uproots Bad Habits
In the Twelfth Book (BhP12.3.47):
⁶¹Just as fire applied to gold removes any discoloration caused by other metals, so when Viṣṇu comes to the self of the yogins, all their impurities are cleansed.
When applied to gold, fire takes away any discoloration, dirtiness caused by other metals, of the gold being contaminated with copper and so on. So also in the case of the yogins, it is Viṣṇu, who when remembered enters the mind and becomes their self. The meaning is that it is not yoga or something similar [that cleanses them].
It Causes All Auspiciousness
In the Pāṇḍava Gītā (44):
⁶²There is gain, there is victory for those in whose hearts Janārdana, dark as the blue lotus, resides; how could there be any defeat for them?
It Bestows the Fruits of All Holy Observances
In the words of Agastya in connection with Kārttika in the Skānda Purāṇa (–):
⁶³That fruit which is ordained for the Vedas,
sacrifices, penances, gifts, pilgrimages,
observances, rites for oneself and for others—
that comes to men when they remember Acyuta.
It Causes the Excellence of Rituals
In the Bṛhannāradīya Purāṇa (38.107):
⁶⁴In the age of Kali, Vedic rituals may be defective, effective or superfluous, but simple remembrance of Hari will bring the whole fruit.
मूलम्
दुर्वासनोन्मूलनत्वम्
द्वादशस्कन्धे—
यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातुजम् ।
एवम् आत्मगतो विष्णुर् योगिनाम् अशुभाशयम् ॥६१॥
धातुजं ताम्रादिसंश्लेषजातं, हेम्नो दौर्वर्ण्यं मालिन्यं हेम्नि स्थितः सन् बहिर् एव हरति,278 एवं योगिनाम् अपि सताम् आत्मगतो मनसि प्राप्तः स्मृतः सन्, विष्णुर् एव न तु योगादिकम् इत्य् अर्थः279 ॥६१॥
सर्वमङ्गलकारित्वम्
पाण्डवगीतायाम्—
लाभस् तेषां जयस् तेषां कुतस् तेषां पराभवः ।
येषाम् इन्दीवरश्यामो हृदयस्थो जनार्दनः ॥६२॥
सर्वसत्कर्मफलदत्वम्280
स्कान्दे कार्त्तिकप्रसङ्गे ऽगस्त्योक्तौ—281
वेदेषु282 यज्ञेषु तपःसु चैव
दानेषु तीर्थेषु व्रतेषु चैव ।
इष्टेषु पूर्तेषु283 च यत्284 प्रदिष्टं
नृणां स्मृते तत्फलम् अच्युते285 च286 ॥६३॥
कर्मसाद्गुण्यकारित्वम्
बृहन्नारदीये—
न्यूनातिरिक्तता सिद्धा287 कलौ वेदोक्तकर्मणाम् ।
हरिस्मरणम् एवात्र सम्पूर्णफलदायकम् ॥६४॥
विश्वास-प्रस्तुतिः
सिद्धेति स्वभावतो ऽवश्यं स्याद् एवेत्य् अर्थः ॥६४॥
स्मृतौ च—288
प्रमादात् कुर्वतां289 कर्म प्रच्यवेता290ध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥६५॥
सर्वकर्माधिकत्वम्291
बृहन्नारदीये कलिप्रसङ्गे—
तुलापुरुषदानानां राजसूयाश्वमेधयोः ।
फलं विष्णोः292 स्मृतिसमं न जातु द्विजसत्तम293 ॥६६॥
द्वादशस्कन्धे—
विद्यातपःप्राणनिरोधमैत्री-
तीर्था294भिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभते ऽन्तरात्मा
यथा हृदिस्थे भगवत्य् अनन्ते ॥६७॥
विद्या उपासना295 अध्ययनं वा । तपः स्वधर्माचरणम् । प्राणनिरोधः प्राणायामः । मैत्री भूतेषु स्नेहः । अन्तरात्मा मनः हृदिस्थे स्मृते ॥६७॥
सर्वभयापहारित्वम्
विष्णुपुराणे हिरण्यकशिपुं प्रति श्रीप्रह्लादोक्तौ—296
भयं भयानाम् अपहारिणि स्थिते
मनस्य्297 अनन्ते मम कुत्र तिष्ठति298 ।
यस्मिन् स्मृते299 जन्मजरोद्भवानि
भयानि सर्वाण्य् अपयान्ति तात ॥६८॥
Broo
Effective: by their own nature, they just might be so. This is the meaning.
And in the Smṛti:[^FNB000299]
⁶⁵By the remembrance of Viṣṇu, the rituals that people perform negligently at sacrifices become complete—so says the Śruti.
It Surpasses All Rituals
In the Bṛhannāradīya Purāṇa, in connection with the age of Kali (–):
⁶⁶O best of Brāhmaṇas, giving gifts equal to the weight of a man or the Rājasūya- or Aśvamedha-sacrifices do give results equal to that of remembering Viṣṇu.
In the Twelfth Book (BhP12.3.48):
⁶⁷By knowledge, penance, restraint of the breath, compassion,
baths at Tīrthas, observances, gifts or recitations
the inner self does not attain the complete purification
it does when the unlimited Lord resides in the heart.
Knowledge: worship or study. Penance: following one’s own Dharma. Restraint of the breath: Prāṇāyama. Compassion: affection towards all creatures. The inner self: the mind. Resides in the heart: is remembered.
It Removes All Fears
In the words of Prahlāda to Hiraṇyakaśipu in the Viṣṇu Purāṇa (1.17.36):[^FNB000300]
⁶⁸Where is fear when the Unlimited,
the remover of fear, remains in my mind?
O father, when he is remembered,
all the fears of birth and old age retire.
मूलम्
सिद्धेति स्वभावतो ऽवश्यं स्याद् एवेत्य् अर्थः ॥६४॥
स्मृतौ च—288
प्रमादात् कुर्वतां289 कर्म प्रच्यवेता290ध्वरेषु यत् ।
स्मरणाद् एव तद् विष्णोः सम्पूर्णं स्याद् इति श्रुतिः ॥६५॥
सर्वकर्माधिकत्वम्291
बृहन्नारदीये कलिप्रसङ्गे—
तुलापुरुषदानानां राजसूयाश्वमेधयोः ।
फलं विष्णोः292 स्मृतिसमं न जातु द्विजसत्तम293 ॥६६॥
द्वादशस्कन्धे—
विद्यातपःप्राणनिरोधमैत्री-
तीर्था294भिषेकव्रतदानजप्यैः ।
नात्यन्तशुद्धिं लभते ऽन्तरात्मा
यथा हृदिस्थे भगवत्य् अनन्ते ॥६७॥
विद्या उपासना295 अध्ययनं वा । तपः स्वधर्माचरणम् । प्राणनिरोधः प्राणायामः । मैत्री भूतेषु स्नेहः । अन्तरात्मा मनः हृदिस्थे स्मृते ॥६७॥
सर्वभयापहारित्वम्
विष्णुपुराणे हिरण्यकशिपुं प्रति श्रीप्रह्लादोक्तौ—296
भयं भयानाम् अपहारिणि स्थिते
मनस्य्297 अनन्ते मम कुत्र तिष्ठति298 ।
यस्मिन् स्मृते299 जन्मजरोद्भवानि
भयानि सर्वाण्य् अपयान्ति तात ॥६८॥
विश्वास-प्रस्तुतिः
मोक्षप्रदत्वं
वैष्णवे—300
विष्णुसंस्मरणात् क्षीणसमस्तक्लेशसञ्चयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो ऽनुमीयते ॥६९॥
विष्णोः संस्मरणात् क्षीणः क्षयं गतः समस्तक्लेशानां पापमूलानां रागादीनां सञ्चयः समूहो यस्य सः । स्वर्गप्राप्तिस् तु तस्यातितुच्छत्वाद् विघ्नप्रायैवेत्य् अर्थः ॥६९॥
बृहन्नारदीये—
वरं वरेण्यं वरदं पुराणं
निजप्रभाभासित301सर्वलोकम् ।
संकल्पितार्थप्रदम् आदिदेवं
स्मृत्वा व्रजेन् मोक्षपदं मनुष्यः ॥७०॥
वरं वरेण्यं परमश्रेष्ठम् इत्य् अर्थः । यद् वा, वरं श्रेष्ठं वरेण्यं सर्वैर् वरणयोग्यम् इत्य् अर्थः ॥७०॥
स्कान्दे—
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे ॥७१॥
प्रभविष्णवे नित्यप्रभावशीलाय । अतो ऽत्र न किम् अपि विचार्यम् इति भावः । तथापि302 पाद्मे कार्त्तिकमाहात्म्ये । न चात्र संशयः कार्य ईशितृत्वम् इदं हरेः । राजा हि कस्यचिद् धृत्वा सर्वस्वं चेत् प्रयच्छति । परस्मै तस्य कस् तत्र303 नियन्ता स्यात् प्रभोर् यथा । इति ॥७१॥
Broo
It Awards Liberation
In the Viṣṇu Purāṇa (2.6.42):[^FNB000301]
⁶⁹For one who remembers Viṣṇu, all faults are completely removed, and he attains liberation. For him, attaining heaven is reckoned as an impediment.
[…] All faults: the roots of sins, such as attachment. As attaining heaven is completely trifling for him, it is only an impediment.
In the Bṛhannāradīya Purāṇa (1.68):
⁷⁰The man who remembers the best object of desire,
the bestower of benedictions, the ancient one,
illuminating the entire world with his own light,
the giver of one’s desired objects, the original God,
will go to the abode of liberation.
The best object of desire means the most supreme, or else the best means the supreme object of desire of those worth desiring.
In the Skānda Purāṇa (–):
⁷¹Obeisance to Viṣṇu, Prabhaviṣṇu, simply by the remembrance of whom one is liberated from the bondage of birth and rebirth!
Prabhaviṣṇu: he who is characterised by eternal power. The sense is that for this reason, there is nothing to doubt here. This is also stated in the section of the Padma Purāṇa dealing with the greatness of Kārttika (–): “One should not doubt this: such is the mastery of Hari, for if a king takes everything from someone and bestows it to someone else, who could restrain him? So it is with the Lord.”
मूलम्
मोक्षप्रदत्वं
वैष्णवे—300
विष्णुसंस्मरणात् क्षीणसमस्तक्लेशसञ्चयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस् तस्य विघ्नो ऽनुमीयते ॥६९॥
विष्णोः संस्मरणात् क्षीणः क्षयं गतः समस्तक्लेशानां पापमूलानां रागादीनां सञ्चयः समूहो यस्य सः । स्वर्गप्राप्तिस् तु तस्यातितुच्छत्वाद् विघ्नप्रायैवेत्य् अर्थः ॥६९॥
बृहन्नारदीये—
वरं वरेण्यं वरदं पुराणं
निजप्रभाभासित301सर्वलोकम् ।
संकल्पितार्थप्रदम् आदिदेवं
स्मृत्वा व्रजेन् मोक्षपदं मनुष्यः ॥७०॥
वरं वरेण्यं परमश्रेष्ठम् इत्य् अर्थः । यद् वा, वरं श्रेष्ठं वरेण्यं सर्वैर् वरणयोग्यम् इत्य् अर्थः ॥७०॥
स्कान्दे—
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस् तस्मै विष्णवे प्रभविष्णवे ॥७१॥
प्रभविष्णवे नित्यप्रभावशीलाय । अतो ऽत्र न किम् अपि विचार्यम् इति भावः । तथापि302 पाद्मे कार्त्तिकमाहात्म्ये । न चात्र संशयः कार्य ईशितृत्वम् इदं हरेः । राजा हि कस्यचिद् धृत्वा सर्वस्वं चेत् प्रयच्छति । परस्मै तस्य कस् तत्र303 नियन्ता स्यात् प्रभोर् यथा । इति ॥७१॥
विश्वास-प्रस्तुतिः
तत्रैव कार्त्तिकप्रसङ्गे श्री304पराशरोक्तौ—
तदैव पुरुषो मुक्तो305 जन्मदुःखजरादिभिः ।
भक्त्या तु परया306 नूनं यदैव स्मरते हरिम् ॥७२॥
भगवत्307प्रसादनम्
बृहन्नारदीये—308
येन केनाप्य् उपायेन स्मृतो नारायणो ऽव्ययः ।
अपि पातकयुक्तस्य प्रसन्नः स्यान् न संशयः ॥७३॥
श्रीवैकुण्ठलोक309प्रापकत्वम्
वामनपुराणे—
अनाद्यनन्तम् अजरामरं हरिं
ये310 संस्मरन्त्य् अहर् अहर् नियतं311 नरा भुवि ।
तत् सर्वगं312 ब्रह्म परं पुराणं
ते यान्ति वैष्णवपदं ध्रुवम् अव्ययं च ॥७४॥
वैष्णवपदं श्रीविष्णोः स्थानं313 । तस्यैव विशेषणं सर्वगम् इत्यादि, सच्चिदानन्दरूपत्वात् ॥७४॥
पाद्मे देवदूतविकुण्डलसंवादे श्री314यमस्य दूता315नुशासने—
ये स्मरन्ति सकृद् दूताः316 प्रसङ्गेनापि केशवम् ।
ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥७५॥
हे दूताः! परं सर्वतः श्रेष्ठम्317 ॥७५॥
Broo
In the words of Parāśara in the same book, in connection with Kārttika (–):
⁷²When a person with the highest devotion remembers Hari, he is liberated from birth, suffering, old age and so on.
It Propitiates the Lord
In the Bṛhannāradīya Purāṇa (1.82):
⁷³By whatever method the imperishable Nārāyāṇa is remembered, he without a doubt becomes gracious, even to a sinner.
It Leads One to the Vaikuṇṭha World
In the Vāmana Purāṇa (67.70):[^FNB000302]
⁷⁴Those men on earth who constantly and day by day
remember the beginningless and endless, unaging and deathless Hari
will go to the all-pervading Brahman, supreme, ancient:
the constant and imperishable abode of Viṣṇu.
Abode of Viṣṇu means the dwelling of Viṣṇu; its distinguishing marks are that it is all-pervading and so on, since it consists of being, cognisance and bliss.
In the instructions of Yama to his messengers, in a conversation between the messengers of the gods and Vikuṇḍala in the Padma Purāṇa (3.31.101):
⁷⁵O messengers! Those who once remember Keśava, even incidentally, are freed from all sins and go to the supreme abode of Viṣṇu.
[…] Supreme: best of all.
मूलम्
तत्रैव कार्त्तिकप्रसङ्गे श्री304पराशरोक्तौ—
तदैव पुरुषो मुक्तो305 जन्मदुःखजरादिभिः ।
भक्त्या तु परया306 नूनं यदैव स्मरते हरिम् ॥७२॥
भगवत्307प्रसादनम्
बृहन्नारदीये—308
येन केनाप्य् उपायेन स्मृतो नारायणो ऽव्ययः ।
अपि पातकयुक्तस्य प्रसन्नः स्यान् न संशयः ॥७३॥
श्रीवैकुण्ठलोक309प्रापकत्वम्
वामनपुराणे—
अनाद्यनन्तम् अजरामरं हरिं
ये310 संस्मरन्त्य् अहर् अहर् नियतं311 नरा भुवि ।
तत् सर्वगं312 ब्रह्म परं पुराणं
ते यान्ति वैष्णवपदं ध्रुवम् अव्ययं च ॥७४॥
वैष्णवपदं श्रीविष्णोः स्थानं313 । तस्यैव विशेषणं सर्वगम् इत्यादि, सच्चिदानन्दरूपत्वात् ॥७४॥
पाद्मे देवदूतविकुण्डलसंवादे श्री314यमस्य दूता315नुशासने—
ये स्मरन्ति सकृद् दूताः316 प्रसङ्गेनापि केशवम् ।
ते विध्वस्ताखिलाघौघा यन्ति विष्णोः परं पदम् ॥७५॥
हे दूताः! परं सर्वतः श्रेष्ठम्317 ॥७५॥
विश्वास-प्रस्तुतिः
ब्रह्मपुराणे विष्णुरहस्ये च—318
शाठ्येनापि नरा विष्णुं ये स्मरन्ति जनार्दनम् ।
ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम् ॥७६॥
अनामयं सर्वदोषरहितम् ॥७६॥
विष्णुधर्मोत्तरे—
निराशीर् निर्ममो यस् तु विष्णोर् ध्यानपरो319 भवेत् ।
तत्पदं समवाप्नोति यत्र गत्वा320 न321 शोचति322 ॥७७॥
सारूप्यप्रापणम्
काशीखण्डे श्री323बिन्दु324माधवप्रसङ्गे अग्निबिन्दु325स्तुतौ—
ये त्वां त्रिविक्रम सदा हृदि326 शीलयन्ति327
कादम्बिनीरुचिररोचिषम्328 अम्बुजाक्ष329 ।
सौदामिनीविलसितांशुकवीतमूर्ते
ते ऽपि स्पृशन्ति तव कान्तिम् अचिन्त्यरूपाम् ॥७८॥
शीलयन्ति अभ्यस्यन्ति, स्पृशन्ति किञ्चित् सादृश्येन330 लभन्ते,331 इहैव यथा श्रीप्रह्लादोद्धवादयः । अत्र च पेशस्कारिस्मरणात् कीटो ऽत्र332 एवेति दृष्टान्तो द्रष्टव्यः ॥७८॥
श्रीभगवद्गीतासु—
अन्त333काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥७९॥
अप्यर्थे चकारः334 । अन्तकाले ऽपि, किं पुनः335 सर्वकालं स्वस्थावस्थायाम् इत्य् अर्थः । मद्भावं मत्त्वं मत्सारूप्यम् इति यावत् ॥७९॥
Broo
In the Brahma Purāṇa (216.88) and in the Viṣṇurahasya:
⁷⁶People who remember Janārdana, even deceitfully, will after leaving their bodies go to the salubrious world of Viṣṇu.
Salubrious means free from all faults.
In the Viṣṇudharmottara Purāṇa (3.341.113cd–114ab):
⁷⁷One who, desireless and selfless, becomes attached to meditating on Viṣṇu, attains his abode. Having gone there one does not grieve.
It Leads to Sameness of Form
In the Agnibindu hymn in connection with Bindumādhava in the Kāśīkhaṇḍa (Skanda Purāṇa 4.60.36):
⁷⁸O Trivikrama, lotus-eyed one, whose form is wrapped
in a garment glittering like lightning! Those who in their hearts
constantly contemplate you, with the hue of a splendid bank of clouds,
will also touch your inconceivable beauty.
[…] Touch means that they attain it with some similarity. In this world as well, as seen in examples such as Prahlāda and Uddhava. Here examples such as that of the worm meditating on a wasp should also be considered.[^FNB000303]
In the Bhagavad Gītā (8.5):
⁷⁹One who remembers me alone, even while giving up his body at the time of death, attains my nature. There is no doubt about this.
[…] Even at the time of death: let alone one who remembers me at all times and in a healthy condition. This is the meaning. My nature means the state of being me, to be precise, having sameness of form with me.
मूलम्
ब्रह्मपुराणे विष्णुरहस्ये च—318
शाठ्येनापि नरा विष्णुं ये स्मरन्ति जनार्दनम् ।
ते ऽपि यान्ति तनुं त्यक्त्वा विष्णुलोकम् अनामयम् ॥७६॥
अनामयं सर्वदोषरहितम् ॥७६॥
विष्णुधर्मोत्तरे—
निराशीर् निर्ममो यस् तु विष्णोर् ध्यानपरो319 भवेत् ।
तत्पदं समवाप्नोति यत्र गत्वा320 न321 शोचति322 ॥७७॥
सारूप्यप्रापणम्
काशीखण्डे श्री323बिन्दु324माधवप्रसङ्गे अग्निबिन्दु325स्तुतौ—
ये त्वां त्रिविक्रम सदा हृदि326 शीलयन्ति327
कादम्बिनीरुचिररोचिषम्328 अम्बुजाक्ष329 ।
सौदामिनीविलसितांशुकवीतमूर्ते
ते ऽपि स्पृशन्ति तव कान्तिम् अचिन्त्यरूपाम् ॥७८॥
शीलयन्ति अभ्यस्यन्ति, स्पृशन्ति किञ्चित् सादृश्येन330 लभन्ते,331 इहैव यथा श्रीप्रह्लादोद्धवादयः । अत्र च पेशस्कारिस्मरणात् कीटो ऽत्र332 एवेति दृष्टान्तो द्रष्टव्यः ॥७८॥
श्रीभगवद्गीतासु—
अन्त333काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥७९॥
अप्यर्थे चकारः334 । अन्तकाले ऽपि, किं पुनः335 सर्वकालं स्वस्थावस्थायाम् इत्य् अर्थः । मद्भावं मत्त्वं मत्सारूप्यम् इति यावत् ॥७९॥
विश्वास-प्रस्तुतिः
श्रीभगवद्वशीकरणम्
दशमस्कन्धे पृथुकोपाख्याने—336
स्मरतः पादकमलम् आत्मानम् अपि यच्छति ।
किं त्व् अर्थकामान् भजतो नात्यभीष्टान् जगद्गुरुः ॥८०॥
अर्थान् कामांश् च यच्छतीति किं वक्तव्यम् इत्य् अर्थः । कथम्भूतान् नात्यभीष्टान् भगवतो भजतो वा जनस्य अनतिप्रियान्, परिणामविरसत्वात् । जगद्गुरुर् इति । भक्तस्य कथञ्चिद् अत्यभीष्टान्337 अपि सतस् तस्मै पिता पुत्रायापथ्यम् इव न दद्याद् इति भावः ॥८०॥
स्वतः परमफलत्वम्
वैष्णवे—
वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्फलम्338 ॥८१॥
जपादिषु339 कर्मसु तत्साद्गुण्यार्थम् अपि यस्य वासुदेवे मनः, येन श्रीकृष्णस्मरणं कृतम् इत्य् अर्थः । यद् वा,340 येषु क्रियमाणेष्व् अपि यस्य341 वासुदेव एव मनः जपादिसाध्यम् ऐन्द्र्यपदम्, आदिशब्दाद् ब्राह्मं च तत्तत्कृतचित्तशुद्ध्यादिजात342मुक्त्यादिकम् अपि सर्वम् अन्यत् फलं विघ्न एव । तत्स्मरणस्यैव परमफलत्वात् ॥८१॥
Broo
It Subdues the Blessed Lord
In the episode of the flattened rice[^FNB000304] in the Tenth Book (BhP10.77.11):
⁸⁰The preceptor of the worlds bestows his very self to one who remembers his lotus feet! How much more riches and pleasures, which are not even particularly desireable to his devotee?
“Let alone bestowing riches and pleasures?”—this is the meaning. For a person who worships the Lord, how are such items? Not particularly desireable, not very dear, since their consequences are unpleasant. The implied meaning is that being the preceptor of the worlds he will not give something even very desirable to his devotee, just like a father will not give his son something unsuitable.
It Is the Highest Fruit in Itself
In the Viṣṇu Purāṇa (2.6.43):
⁸¹O Maitreya, true fruits such as the position of Indra are obstacles for one who keeps his mind on Vāsudeva during recitations, fire sacrifices, ritual worship and so on.
The meaning is that remembrance of Śrī Kṛṣṇa is achieved by one who keeps his mind on Vāsudeva during rituals such as recitations, even merely to perfect these activities. Or else, the perfections attainable by recitations and so on, such as that of the position of Indra or Brahmā or all other fruits such as the liberation that follows the purity of mind which all these rituals bring, are all simply obstacles when the mind is fixed on Vāsudeva alone, even in such rituals, for remembering Vāsudeva brings the highest fruit.
मूलम्
श्रीभगवद्वशीकरणम्
दशमस्कन्धे पृथुकोपाख्याने—336
स्मरतः पादकमलम् आत्मानम् अपि यच्छति ।
किं त्व् अर्थकामान् भजतो नात्यभीष्टान् जगद्गुरुः ॥८०॥
अर्थान् कामांश् च यच्छतीति किं वक्तव्यम् इत्य् अर्थः । कथम्भूतान् नात्यभीष्टान् भगवतो भजतो वा जनस्य अनतिप्रियान्, परिणामविरसत्वात् । जगद्गुरुर् इति । भक्तस्य कथञ्चिद् अत्यभीष्टान्337 अपि सतस् तस्मै पिता पुत्रायापथ्यम् इव न दद्याद् इति भावः ॥८०॥
स्वतः परमफलत्वम्
वैष्णवे—
वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादि सत्फलम्338 ॥८१॥
जपादिषु339 कर्मसु तत्साद्गुण्यार्थम् अपि यस्य वासुदेवे मनः, येन श्रीकृष्णस्मरणं कृतम् इत्य् अर्थः । यद् वा,340 येषु क्रियमाणेष्व् अपि यस्य341 वासुदेव एव मनः जपादिसाध्यम् ऐन्द्र्यपदम्, आदिशब्दाद् ब्राह्मं च तत्तत्कृतचित्तशुद्ध्यादिजात342मुक्त्यादिकम् अपि सर्वम् अन्यत् फलं विघ्न एव । तत्स्मरणस्यैव परमफलत्वात् ॥८१॥
विश्वास-प्रस्तुतिः
गारुडे—343
महतस् तपसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतं344 स्मरणं हरेः ॥८२॥
प्रसवः फलम् । नियतं निश्चितम् एव ॥८२॥
द्वितीयस्कन्धे—
एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभः345 परः पुंसाम् अन्ते नारायणस्मृतिः ॥८३॥
सांख्यम् आत्मानात्मविवेकः, योगो ऽष्टाङ्गस् ताभ्याम् । तथा346 स्वधर्मे परितो निष्ठाया347 कृत्वा पुंसां जन्मनो348 लाभः फलम् एतावान् एव, न त्व् अन्य इति योगादीनां तदेकपरतोक्ता । को ऽसौ? तद्349 आह नारायणस्य स्मृतिर् इति । अन्ते च350 स्मृतिः परमो लाभः, न351 तन्महिमा352 वक्तुं353 शक्यत इत्य् अर्थः । यद् वा, अन्ते ऽपि स्मृतिः परमो लाभः354 किं पुनर् आजन्म सदा स्मृतिर् इत्य् अर्थः । अन्यत् समानम् ॥८३॥
अत एव जरासन्ध355नि356रुद्धनृप357वर्गैः358 प्रार्थितं दशमस्कन्धे—
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम्359 इह ॥८४॥
येन उपायेन, यथा यथावत् या360 स्मृतिः प्रेमस्मरणम् इत्य् अर्थः । यद् वा, यथावत् संसरतां देहाद्यासक्त्या नितरां संसारदुःखं लभमानानाम् अपीत्य् अर्थः ॥८४॥
Broo
In the Garuḍa Purāṇa (–):[^FNB000305]
⁸²Remembrance of Hari is certainly the root of great austerity, the birth of all merit, the sweet fruit of life!
Birth means fruit. […]
In the Second Book (BhP2.1.6):
⁸³For any person, this is the best gain of life: to remember Nārāyaṇa at the end, be it through Sāṃkhya, Yoga or complete dedication to one’s own Dharma.
This is the gain or fruit of birth for a person, through Sāṃkhya, discrimination of self and non-self, or Yoga of eight parts, or by acting from a thorough dedication to one’s own Dharma, but it is not something else, that is, that which is declared to be the supreme perfection in processes such as yoga. What is it then? This the author states by saying to remember Nārāyaṇa. Remembrance at the end is the highest gain. The meaning is, “It is not possible to describe its greatness!” Or else the meaning is that if remembrance even at the end is the highest gain, what can be said of constant remembrance since birth? [In this interpretation] the rest will be the same.
Furthermore, in the prayers of the kings captured by Jarāsandha in the Tenth Book, (BhP10.70.15):
⁸⁴Instruct us in that method by which even we mortals here may not cease remembering your lotus feet!
[…] Remembrance means loving recollection. Mortals means those who constantly experience the sufferings of birth and death, because of attachment to their bodies and so on.
मूलम्
गारुडे—343
महतस् तपसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतं344 स्मरणं हरेः ॥८२॥
प्रसवः फलम् । नियतं निश्चितम् एव ॥८२॥
द्वितीयस्कन्धे—
एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभः345 परः पुंसाम् अन्ते नारायणस्मृतिः ॥८३॥
सांख्यम् आत्मानात्मविवेकः, योगो ऽष्टाङ्गस् ताभ्याम् । तथा346 स्वधर्मे परितो निष्ठाया347 कृत्वा पुंसां जन्मनो348 लाभः फलम् एतावान् एव, न त्व् अन्य इति योगादीनां तदेकपरतोक्ता । को ऽसौ? तद्349 आह नारायणस्य स्मृतिर् इति । अन्ते च350 स्मृतिः परमो लाभः, न351 तन्महिमा352 वक्तुं353 शक्यत इत्य् अर्थः । यद् वा, अन्ते ऽपि स्मृतिः परमो लाभः354 किं पुनर् आजन्म सदा स्मृतिर् इत्य् अर्थः । अन्यत् समानम् ॥८३॥
अत एव जरासन्ध355नि356रुद्धनृप357वर्गैः358 प्रार्थितं दशमस्कन्धे—
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम्359 इह ॥८४॥
येन उपायेन, यथा यथावत् या360 स्मृतिः प्रेमस्मरणम् इत्य् अर्थः । यद् वा, यथावत् संसरतां देहाद्यासक्त्या नितरां संसारदुःखं लभमानानाम् अपीत्य् अर्थः ॥८४॥
विश्वास-प्रस्तुतिः
श्री361नारदेनापि—
दृष्टं तवाङ्घ्रिकमलं362 जनतापवर्गं
ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं
ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ इति ॥८५॥
जनताया भक्तवर्गस्यापवर्गरूपं, ब्रह्मादिभिर् अपि हृदि चिन्त्यम् एव । संसारकूपे पतितानाम् उत्तरणाय सुखोत्तानाय अवलम्बम् आश्रयम्, ईदृशं तवाङ्घ्रिकमलं मया दृष्टम्, अतः कृतार्थो ऽस्मि । तथापि त्वत्363स्मृतिर् यथा स्यात् तथानुगृहाण, येन तवाङ्घ्रिं ध्यायन्न् एव चरामि । यद् वा, अधुना दृष्टम् अन्यत्र गतो ऽपीमं त्वदङ्घ्रिं ध्यायन्न् एव । किं च, यथावत् स्मृतिः स्याद् इत्य् अनुग्रहं कुरु । यद् वा, एवम् अनन्यगतिकत्वेन मम त्वदीयाङ्घ्रिकमलध्यानं कदाचिद् एतद्364 दर्शनं च भवेद् एव, किं तु मद्विषयिका तव स्मृतिर् मनोवृत्तिर् यथा365 स्यात् तथानुगृहाण । यद् वा, दृष्टत्वाद् अन्यत्र गतो ऽप्य् एतद् एव चिन्तयन् चरिष्यामि, किं त्व् अनेनानुग्रहेणालम् अधुना तथानुग्रहं366 कुरु, यथा अस्मृतिः स्मरणाभवः स्यात् । अन्यत्र गतस्य सतस् तत्स्मरणेन विरहदुःखवृद्धेर्367 वरम् अस्मरणम् एवानुग्रह इत्य् अर्थः । एतच् च सदा श्रीकृष्णपादपद्मान्तिके वासम् अलभमानस्य प्रेमोद्रेकवाक्यगाम्भीर्यम्, एवम् अपि स्मरणस्यैव परममाहात्म्यं पर्यवस्यतीति दिक् ॥८५॥
कृष्णस्मरणमाहात्म्यमहाब्धिर् दुस्तरो धिया ।
यो यियासति तत्पारं स हि चैतन्यवञ्चितः ॥८६॥
धिया दुस्तरं368369 अर्थतो वचनतश् च बुद्ध्यापि, अस्तु तावल् लिखनेन, पारं गन्तुम् अशक्यम् इत्य् अर्थः । धियेत्य् अस्याग्र एवान्वयः370 । तस्य पारं यो यातुम् इच्छति । स चैतन्येन वञ्चितः अचेतन इत्य् अर्थः । स्वमते श्री371चैतन्यदेवेन मायया प्रतारितः परित्यक्तो वेत्य् अर्थः । निजाशक्ये कर्मणि प्रवृत्तेः372 ॥८६॥
Broo
And also by Nārada (BhP10.66.18):
⁸⁵I have seen your lotus feet, the liberation of humankind,
that Brahmā and others of deep thoughts in their hearts meditate upon,
the lifeline of deliverance for those fallen into the well of birth and death.
Grant me remembrance, so that I may wander thinking of them.
I have seen your lotus feet that have the form of liberation for humankind, the devotees, that are meditated upon by even Brahmā and others in their hearts, and that are the lifeline or shelter for deliverance, easy emergence for those who have fallen into the well of birth and death. For this I am thankful. Still, grant that I may have remembrance of you, so that remembering your feet I may wander around.
Or else: Grant me remembrance such as the way in which I now think of your feet as I have seen them, even when I go somewhere else.
Or else: Since I have no other shelter, I sometimes meditate on your lotus feet and sometimes I see them, but grant for me that your remembrance, the activity of your mind, may be directed towards me.
Or else: because I have seen them, even if I go somewhere else I will wander thinking of them, but enough of this mercy today! Grant me that I will forget them![^FNB000306] For one who has gone elsewhere, remembering the lotus feet of the Lord will only lead to an increase of the pain of separation, so grant that I may forget them! This is the meaning. These are deep words that spring from an excess of love in one who has not gained residence at the lotus feet of Śrī Kṛṣṇa, and from this follows the supreme greatness of remembrance by itself. This is the drift.
⁸⁶The ocean of the greatness of remembering Kṛṣṇa is hard to traverse with the mind! He who desires to cross to the other side is tricked by Caitanya.
Hard to traverse with the mind, with the intellect, both with respect to the sense and to the words, so even more so by writing. The meaning is that it is impossible to cross to the other side. […] One who desires to cross to its other side is tricked by caitanya or sense, that is, is senseless. In the author’s own opinion, such a person is tricked, deceived or rejected by the Māyā of Śrī Caitanyadeva. […]
मूलम्
श्री361नारदेनापि—
दृष्टं तवाङ्घ्रिकमलं362 जनतापवर्गं
ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाधबोधैः ।
संसारकूपपतितोत्तरणावलम्बं
ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ इति ॥८५॥
जनताया भक्तवर्गस्यापवर्गरूपं, ब्रह्मादिभिर् अपि हृदि चिन्त्यम् एव । संसारकूपे पतितानाम् उत्तरणाय सुखोत्तानाय अवलम्बम् आश्रयम्, ईदृशं तवाङ्घ्रिकमलं मया दृष्टम्, अतः कृतार्थो ऽस्मि । तथापि त्वत्363स्मृतिर् यथा स्यात् तथानुगृहाण, येन तवाङ्घ्रिं ध्यायन्न् एव चरामि । यद् वा, अधुना दृष्टम् अन्यत्र गतो ऽपीमं त्वदङ्घ्रिं ध्यायन्न् एव । किं च, यथावत् स्मृतिः स्याद् इत्य् अनुग्रहं कुरु । यद् वा, एवम् अनन्यगतिकत्वेन मम त्वदीयाङ्घ्रिकमलध्यानं कदाचिद् एतद्364 दर्शनं च भवेद् एव, किं तु मद्विषयिका तव स्मृतिर् मनोवृत्तिर् यथा365 स्यात् तथानुगृहाण । यद् वा, दृष्टत्वाद् अन्यत्र गतो ऽप्य् एतद् एव चिन्तयन् चरिष्यामि, किं त्व् अनेनानुग्रहेणालम् अधुना तथानुग्रहं366 कुरु, यथा अस्मृतिः स्मरणाभवः स्यात् । अन्यत्र गतस्य सतस् तत्स्मरणेन विरहदुःखवृद्धेर्367 वरम् अस्मरणम् एवानुग्रह इत्य् अर्थः । एतच् च सदा श्रीकृष्णपादपद्मान्तिके वासम् अलभमानस्य प्रेमोद्रेकवाक्यगाम्भीर्यम्, एवम् अपि स्मरणस्यैव परममाहात्म्यं पर्यवस्यतीति दिक् ॥८५॥
कृष्णस्मरणमाहात्म्यमहाब्धिर् दुस्तरो धिया ।
यो यियासति तत्पारं स हि चैतन्यवञ्चितः ॥८६॥
धिया दुस्तरं368369 अर्थतो वचनतश् च बुद्ध्यापि, अस्तु तावल् लिखनेन, पारं गन्तुम् अशक्यम् इत्य् अर्थः । धियेत्य् अस्याग्र एवान्वयः370 । तस्य पारं यो यातुम् इच्छति । स चैतन्येन वञ्चितः अचेतन इत्य् अर्थः । स्वमते श्री371चैतन्यदेवेन मायया प्रतारितः परित्यक्तो वेत्य् अर्थः । निजाशक्ये कर्मणि प्रवृत्तेः372 ॥८६॥
विश्वास-प्रस्तुतिः
ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसीदलैः ।
गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम् ॥८७॥
अथादौ श्रीगुरुं नत्वा श्रीकृष्णस्य पदाब्जयोः ।
किञ्चिद् विज्ञापयन् सर्वस्वकृत्यान्य् अर्पयेन्373 नमेत् ॥८८॥
पादोदकं श्रीभगवच्चरणामृतं प्राक् आदौ पीत्वेत्य् अत्र कारणम् अग्रे लेख्यम्374 । शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके । प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ इति । तुलसीदलैः कृत्वा सह वा गृहीतेन तेन पादोदकेनैव स्वमस्तके375 ऽभिषेकं कुर्यात्376 । विज्ञापनद्वारैव सर्वाणि377 स्वस्य कृत्यानि अर्पयन् नमेत् साष्टाङ्गप्रणामं कुर्यात्, अग्रे यथा378विधीति लिखनात् ॥८७–८८॥
अथ प्रातः प्रणामः379
वामन380पुराणे—
सर्वमङ्गलमाङ्गल्यं वरेण्यं वरदं शिवम् ।
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥८९॥
अथ विज्ञापनम्
विष्णुधर्मोत्तरे—381
यद् उच्छ्वासादिकं382 कर्म तत् त्वया प्रेरितो हरे ।
करिष्यामि त्वदाज्ञेयम्383 इति विज्ञापनं मम ॥९०॥
प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया ।
यद् यत् कारयसीशान तत् करोमि तवाज्ञया384 ॥९१॥
विज्ञापयन्न्385 इति लिखितं तत्प्रकारम् एव लिखति यद् इति । तच् च त्वद्386आज्ञेयम् इत्य् एव387 करिष्यामि । कारयसीति करोत्य् अर्थस्य सर्वधात्वर्थेष्व् अन्तर्भावात्, बाह्याभ्यन्तरसर्व्388एन्द्रियचेष्टितं व्याप्नोति389 ॥९०–९१॥
Broo
⁸⁷Then one should first drink some foot-water with leaves of Tulasī. One should then take some of it and sprinkle it on one’s head.
The reason for first drinking foot-water, the nectar of the feet of the Lord, will be given further on (3.288): “One who pours the water from the Śālagrāma-stone on the head without having drunk it should be called a Brāhmaṇa-killer.”[^FNB000307] […]
⁸⁸Now one should first bow to the blessed preceptor, and then bow to the lotus feet of Śrī Kṛṣṇa, offering some prayers dedicating all of one’s deeds.
One should bow, prostrate with eight limbs, offering all of one’s deeds through prayers, since it is written further on “according to the rules” (3.98).
Morning Obeisances
In the Vāmana Purāṇa (94.60):[^FNB000308]
⁸⁹One should bow to Nārāyaṇa, the auspiciousness of everything auspicious, the most excellent, the bestower of boons, the gracious one, and dedicate all of one’s activities to him.
The Prayer
In the Viṣṇudharmottara Purāṇa (–):[^FNB000309]
⁹⁰O Hari! May my every breath and every action be inspired and ordered by you; this is my prayer. ⁹¹O Viṣṇu! You, Hṛṣīkeśa, have awakened me in the morning, and whatever you, Īśāna, make me do, that I will do on your order.
“Offering prayers” was mentioned before (3.88). In these verses the author describes the manner of doing so. […] Make me do: the verb “to do” is used since it is included in all other verbs. You permeate the actions of all the senses, both internal and external.
मूलम्
ततः पादोदकं किञ्चित् प्राक् पीत्वा तुलसीदलैः ।
गृहीतेनाचरेत् तेन स्वमूर्धन्य् अभिषेचनम् ॥८७॥
अथादौ श्रीगुरुं नत्वा श्रीकृष्णस्य पदाब्जयोः ।
किञ्चिद् विज्ञापयन् सर्वस्वकृत्यान्य् अर्पयेन्373 नमेत् ॥८८॥
पादोदकं श्रीभगवच्चरणामृतं प्राक् आदौ पीत्वेत्य् अत्र कारणम् अग्रे लेख्यम्374 । शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके । प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥ इति । तुलसीदलैः कृत्वा सह वा गृहीतेन तेन पादोदकेनैव स्वमस्तके375 ऽभिषेकं कुर्यात्376 । विज्ञापनद्वारैव सर्वाणि377 स्वस्य कृत्यानि अर्पयन् नमेत् साष्टाङ्गप्रणामं कुर्यात्, अग्रे यथा378विधीति लिखनात् ॥८७–८८॥
अथ प्रातः प्रणामः379
वामन380पुराणे—
सर्वमङ्गलमाङ्गल्यं वरेण्यं वरदं शिवम् ।
नारायणं नमस्कृत्य सर्वकर्माणि कारयेत् ॥८९॥
अथ विज्ञापनम्
विष्णुधर्मोत्तरे—381
यद् उच्छ्वासादिकं382 कर्म तत् त्वया प्रेरितो हरे ।
करिष्यामि त्वदाज्ञेयम्383 इति विज्ञापनं मम ॥९०॥
प्रातः प्रबोधितो विष्णो हृषीकेशेन यत् त्वया ।
यद् यत् कारयसीशान तत् करोमि तवाज्ञया384 ॥९१॥
विज्ञापयन्न्385 इति लिखितं तत्प्रकारम् एव लिखति यद् इति । तच् च त्वद्386आज्ञेयम् इत्य् एव387 करिष्यामि । कारयसीति करोत्य् अर्थस्य सर्वधात्वर्थेष्व् अन्तर्भावात्, बाह्याभ्यन्तरसर्व्388एन्द्रियचेष्टितं व्याप्नोति389 ॥९०–९१॥
विश्वास-प्रस्तुतिः
त्रैलोक्यचैतन्यमयादिदेव
श्रीनाथ विष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्राम् अनुवर्तयिष्ये ॥९२॥
संसारयात्रां लोकव्यवहारम् ॥९२॥
संसारयात्राम् अनुवर्तमानं
त्वदाज्ञया श्रीनृहरे ऽन्तरात्मन् ।
स्पर्धातिरस्कारकलिप्रमाद-
भयानि मा माभिभवन्तु भूमन्390 ॥९३॥
मा मां भूमन् हे महत्तम ॥९३॥
जानामि धर्मं न च मे प्रवृत्तिर्
जानाम्य् अधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेश391 हृदि स्थितेन
यथा नियुक्तो ऽस्मि तथा करोमि392 ॥९४॥
अथ393 प्रणामवाक्यानि
महाभारते—
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय394 गोविन्दाय नमो नमः ॥९५॥
गरुडपुराणे—
Broo
⁹²Primeaval God, consciousness of the three worlds!
Lord of Śrī! Viṣṇu! On your order only
have I arisen in the morning, and for your pleasure
will I pursue the journey of worldly life.
The journey of worldly life means worldly conduct.
⁹³I pursue the journey of worldly life
on your order, O Man-lion, Inner self!
May envy, disdain, quarrel, illusion and fear
never overcome me, Great one![^FNB000310]
[…]
⁹⁴I know what is right, but have no inclination.
I know what is wrong, but have no disinclination—
O Hṛṣīkeśa, you are situated in my heart,
and as you order me will I act.
Words of Obeisance
In the Mahābhārata (–):[^FNB000311]
⁹⁵Obeisance to the god of the Brāhmaṇas, to the benefactor of cows and Brāhmaṇas! Obeisances, obeisances to the benefactor of the world, to Kṛṣṇa, to Govinda!
In the Garuḍa Purāṇa (1.234.59d–60c):[^FNB000312]
मूलम्
त्रैलोक्यचैतन्यमयादिदेव
श्रीनाथ विष्णो भवदाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्राम् अनुवर्तयिष्ये ॥९२॥
संसारयात्रां लोकव्यवहारम् ॥९२॥
संसारयात्राम् अनुवर्तमानं
त्वदाज्ञया श्रीनृहरे ऽन्तरात्मन् ।
स्पर्धातिरस्कारकलिप्रमाद-
भयानि मा माभिभवन्तु भूमन्390 ॥९३॥
मा मां भूमन् हे महत्तम ॥९३॥
जानामि धर्मं न च मे प्रवृत्तिर्
जानाम्य् अधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेश391 हृदि स्थितेन
यथा नियुक्तो ऽस्मि तथा करोमि392 ॥९४॥
अथ393 प्रणामवाक्यानि
महाभारते—
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय394 गोविन्दाय नमो नमः ॥९५॥
गरुडपुराणे—
विश्वास-प्रस्तुतिः
असुरविबुधसिद्धैर् ज्ञायते यस्य नान्तः
सकलमुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः ।
निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी
तम् अजम् अमृतम् ईशं वासुदेवं नतो ऽस्मि ॥९६॥
विष्णुपुराणे—
यज्ञिभिर् यज्ञपुरुषो वासुदेवश् च सात्वतैः ।
वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥ इति395 ॥९७॥
एवं विज्ञापयन्396 ध्यायन्397 कीर्तयंश् च यथाविधि ।
प्रणामान् आचरेच् छक्त्या चतुःसंख्यावरान् बुधः ॥९८॥
श्रीगोपीचन्दनेनोर्ध्वपुण्ड्रं कृत्वा यथाविधि ।
आसीत प्राङ्मुखो भूत्वा शुद्ध398स्थाने शुभासने ॥९९॥
एवं यद् उच्छ्वासादिकं कर्मेत्यादिनोक्तम् । यथाविधीति पद्भ्यां कराभ्यां जानुभ्याम् इत्यादिनाग्रे लेख्यप्रकारेणेत्य् अर्थः । चतुःसंख्या अवरा अन्त्या येषु तान्, चतुःसंख्याया न्यूनान् न कुर्यात् । अधिकान् एव कुर्याद् इत्य् अर्थः । यथाविधि हरिमन्दिरनिर्माणादिप्रकारेण, शुभे उत्तमे विहितासने, तत्तत् सर्वम् अग्रे व्यक्तं भावि399 ॥९८–९९॥
तथा च400 नारदीयपञ्चरात्रे—
निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः ।
आसने प्राङ्मुखो भूत्वा विहिते चोपविश्य वै401402 ॥ इति403 ॥१००॥
निर्गत्य गृहान् निःसृत्य मूत्रोत्सर्गादिकं कृत्वेत्य् अर्थः । विधिवद् आचम्य अस्य क्रियान्वयश्लोको ऽत्रानुपयुक्तत्वात् न लिखितः ॥१००॥
Broo
⁹⁶He whom the demons, gods and Siddhas cannot fully fathom,
the completely pure one whom all the sages internally meditate upon,
he who knows and who, situated within all hearts, is the witness of all—
I bow to this unborn, deathless Lord Vāsudeva.
In the Viṣṇu Purāṇa (5.17.15):[^FNB000313]
⁹⁷I bow to him who is called Viṣṇu by the knowers of the Vedānta, Vāsudeva by the Sātvatas and Lord of Sacrifice by the sacrificers!
⁹⁸Thus praying, meditating and glorifying, the wise one should according to the rules bow down according to his ability, but at least four times.
Thus: uttering verses such as “May my every breath and every action …” (3.90). The meaning of according to the rules is with feet, hands, knees and so on, following that which will later on be explained (8.359–364). The meaning of at least four times is that one may not bow down less than that, but that one may bow down more times.
⁹⁹Sitting on a suitable seat in a pure place and facing east, one should apply the vertical marks with Gopīcandana according to the rules.
According to the rules means by the way of creating Hari’s temple and so on. A suitable or splendid seat of the prescribed type. All of this will be made clear below (4.204–219, 5.24–27).
And also in the Nārada Pañcarātra (–):[^FNB000314]
¹⁰⁰After the intelligent one has gone out, he should do Ācamaṇa according to the rules, enter again and sit down on the prescribed seat, facing east.
Has gone out: after he has left the house to attend to the calls of nature. Do Ācamaṇa according to the rules: because it does fit not the context, the verse that details its performance is not given here.
मूलम्
असुरविबुधसिद्धैर् ज्ञायते यस्य नान्तः
सकलमुनिभिर् अन्तश् चिन्त्यते यो विशुद्धः ।
निखिलहृदि निविष्टो वेत्ति यः सर्वसाक्षी
तम् अजम् अमृतम् ईशं वासुदेवं नतो ऽस्मि ॥९६॥
विष्णुपुराणे—
यज्ञिभिर् यज्ञपुरुषो वासुदेवश् च सात्वतैः ।
वेदान्तवेदिभिर् विष्णुः प्रोच्यते यो नतो ऽस्मि तम् ॥ इति395 ॥९७॥
एवं विज्ञापयन्396 ध्यायन्397 कीर्तयंश् च यथाविधि ।
प्रणामान् आचरेच् छक्त्या चतुःसंख्यावरान् बुधः ॥९८॥
श्रीगोपीचन्दनेनोर्ध्वपुण्ड्रं कृत्वा यथाविधि ।
आसीत प्राङ्मुखो भूत्वा शुद्ध398स्थाने शुभासने ॥९९॥
एवं यद् उच्छ्वासादिकं कर्मेत्यादिनोक्तम् । यथाविधीति पद्भ्यां कराभ्यां जानुभ्याम् इत्यादिनाग्रे लेख्यप्रकारेणेत्य् अर्थः । चतुःसंख्या अवरा अन्त्या येषु तान्, चतुःसंख्याया न्यूनान् न कुर्यात् । अधिकान् एव कुर्याद् इत्य् अर्थः । यथाविधि हरिमन्दिरनिर्माणादिप्रकारेण, शुभे उत्तमे विहितासने, तत्तत् सर्वम् अग्रे व्यक्तं भावि399 ॥९८–९९॥
तथा च400 नारदीयपञ्चरात्रे—
निर्गत्याचम्य विधिवत् प्रविश्य च पुनः सुधीः ।
आसने प्राङ्मुखो भूत्वा विहिते चोपविश्य वै401402 ॥ इति403 ॥१००॥
निर्गत्य गृहान् निःसृत्य मूत्रोत्सर्गादिकं कृत्वेत्य् अर्थः । विधिवद् आचम्य अस्य क्रियान्वयश्लोको ऽत्रानुपयुक्तत्वात् न लिखितः ॥१००॥
विश्वास-प्रस्तुतिः
सम्प्रदायानुसारेण भूतशुद्धिं विधाय च ।
प्राणायामांश् च विधिवत् कृष्णं ध्यायेद् यथोदितम्404 ॥१०१॥
निजसम्प्रदायस्यानुसारेणेति भूतशुद्धेर् विविध405रूपत्वात् प्राणायामांश् च विधाय ॥१०१॥
तथा चोक्तम्—
उपपातकेषु सर्वेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं विष्णुध्यानं समाचरेत् ॥१०२॥
उपपातकादिष्व् अपि निमित्तेषु, किं पुनर् विष्णुध्यानार्थम्406 इत्य् अर्थः407 ॥१०२॥
वैहायसपञ्चरात्रे च—408
तथैव रात्रिशेषं तु कालं सूर्योदयावधि ।
कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन409 वै ॥१०३॥
विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम्410 ।
जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः411 ॥१०४॥
रात्रेः शेषं कालं व्याप्य तस्माद् आरभ्येत्य् अर्थः । आदिशब्देन प्रणामोर्ध्वपुण्ड्रभूतशुद्धिप्राणायामादिः412 ॥१०३–१०४॥
अत एव विष्णुस्मृतौ—
रात्रेस् तु पश्चिमो यामो मुहूर्तो413414 ब्राह्म415 उच्यते ॥ इति ॥१०५॥
पादोदपानादीनां च सविधिर् महिमाग्रतः ।
लेख्यो ऽधुना तु ध्यानस्य स संक्षेपेण लिख्यते416 ॥१०६॥
Broo
¹⁰¹According to his tradition, he should perform Bhūtaśuddhi, proper Prāṇāyāma and meditate on Kṛṣṇa in the authoritative way.
According to one’s tradition: since there are so many types of Bhūtaśuddhi. […]
It is also said:[^FNB000315]
¹⁰²In the case of all minor and major wrongs one should get up at the end of night and meditate on Viṣṇu.
Even when minor wrongs and so on are the reason, let alone for the sake of meditating on Viṣṇu.
And in the Vaihāyasa Pañcarātra:[^FNB000316]
¹⁰³Likewise, at the time that comes at the end of the night but before sunrise, the worshipper should always meditate and perform recitations.
The meaning of the time approaching the end of the night is that one should begin at that time.
¹⁰⁴The night should be divided into five parts. During the last one the practitioner should always worship the gods, meditate, perform recitations and fire sacrifices, and so on.
And so on refers to practices such as obeisances, applying the vertical mark, Bhutaśuddhi and Prāṇāyāma.
This also in the Viṣṇu Smṛti (–):[^FNB000317]
¹⁰⁵The last watch of the night is known as the watch of Brahman.
¹⁰⁶The rules and greatness of drinking foot-water and so on will be given further on (3.286–304). Now I will briefly give those for meditation.
मूलम्
सम्प्रदायानुसारेण भूतशुद्धिं विधाय च ।
प्राणायामांश् च विधिवत् कृष्णं ध्यायेद् यथोदितम्404 ॥१०१॥
निजसम्प्रदायस्यानुसारेणेति भूतशुद्धेर् विविध405रूपत्वात् प्राणायामांश् च विधाय ॥१०१॥
तथा चोक्तम्—
उपपातकेषु सर्वेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं विष्णुध्यानं समाचरेत् ॥१०२॥
उपपातकादिष्व् अपि निमित्तेषु, किं पुनर् विष्णुध्यानार्थम्406 इत्य् अर्थः407 ॥१०२॥
वैहायसपञ्चरात्रे च—408
तथैव रात्रिशेषं तु कालं सूर्योदयावधि ।
कर्तव्यं सजपं ध्यानं नित्यम् आराधकेन409 वै ॥१०३॥
विभज्य पञ्चधा रात्रिं शेषे देवार्चनादिकम्410 ।
जपं होमं तथा ध्यानं नित्यं कुर्वीत साधकः411 ॥१०४॥
रात्रेः शेषं कालं व्याप्य तस्माद् आरभ्येत्य् अर्थः । आदिशब्देन प्रणामोर्ध्वपुण्ड्रभूतशुद्धिप्राणायामादिः412 ॥१०३–१०४॥
अत एव विष्णुस्मृतौ—
रात्रेस् तु पश्चिमो यामो मुहूर्तो413414 ब्राह्म415 उच्यते ॥ इति ॥१०५॥
पादोदपानादीनां च सविधिर् महिमाग्रतः ।
लेख्यो ऽधुना तु ध्यानस्य स संक्षेपेण लिख्यते416 ॥१०६॥
विश्वास-प्रस्तुतिः
विधिः तन्417मन्त्रोच्चारणादिप्रकारस् तत्सहितः, स ध्यानस्य विधिर् महिमा चेत्य् अर्थः418 ॥१०६॥
अथ प्रातर्ध्यानम्
तापनीय419श्रुतिषु—
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं मौनमुद्राढ्यं वनमालिनम् ईश्वरम् ॥१०७॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम्420 ।
दिव्यालङ्करणोपेतं रक्तपङ्कजमध्यगम् ॥१०८॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्421 चेति तं422 कृष्णं मुक्तो भवति संसृतेः ॥१०९॥
गोपैर् गोपीभिर् गोभिश्423 च आवीतं424 परिवेष्टितम् ॥१०८॥
मृत्युञ्जयसंहितानुसारोदित425426शारदातिलके च—
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम्427 ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ॥११०॥
आत्मनो वदनाम्भोजप्रेरिता428क्षिमधुव्रताः ।
कामबाणेन विवशाश्429 चिरम् आश्लेषणोत्सुकाः ॥१११॥
मुक्ताहारलसत्पीनकुम्भ430स्तनभरानताः ।
स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः ॥११२॥
दन्तपङ्क्तिप्रभोद्भासिस्पन्दमानाधराञ्चिताः ।
विलोभयन्तीर् विविधैर् विभ्रमैर् भावगर्भितैः ॥११३॥
Broo
The rules refer to the manner of uttering the proper mantras and so on. Those for meditation means the rules and greatness of meditation.
The Morning Meditation
In the Gopālatāpanī Upaniṣad (1.9–11):
¹⁰⁷With eyes like perfect lotuses, dark as a raincloud, clad in lightning, two-armed, showing the Mudrā of silence and wearing a garland of forest flowers; the Lord is ¹⁰⁸surrounded by cowherds and cowherdesses, bedecked with divine ornaments, sitting in the centre of a red under a desire tree, ¹⁰⁹served by breezes moistened by spray from the waters of the Kālindī—one who thus attentively meditates on Kṛṣṇa becomes free from birth and death.
[…]
And in the Śāradātilaka, following the Mṛtuñjaya Saṃhitā (17.88cd–93):
¹¹⁰One should continually remember the lotus-eyed Govinda in delightful Vṛndāvana, enchanting thousands of cowherd girls, ¹¹¹whose bumblebee-eyes are directed toward his lotus face, whom his arrows of love have made powerless, who are since long eager for his embraces, ¹¹²who lean forward under the burden of their full and upraised breasts shining with pearl necklaces, whose braids and garments have become loose, whose talk has been made unsteady by desire, ¹¹³whose quivering lips are beautified by the brilliance of their teeth, alluring him with various amorous gestures, pregnant with meaning.
मूलम्
विधिः तन्417मन्त्रोच्चारणादिप्रकारस् तत्सहितः, स ध्यानस्य विधिर् महिमा चेत्य् अर्थः418 ॥१०६॥
अथ प्रातर्ध्यानम्
तापनीय419श्रुतिषु—
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुजं मौनमुद्राढ्यं वनमालिनम् ईश्वरम् ॥१०७॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम्420 ।
दिव्यालङ्करणोपेतं रक्तपङ्कजमध्यगम् ॥१०८॥
कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।
चिन्तयंश्421 चेति तं422 कृष्णं मुक्तो भवति संसृतेः ॥१०९॥
गोपैर् गोपीभिर् गोभिश्423 च आवीतं424 परिवेष्टितम् ॥१०८॥
मृत्युञ्जयसंहितानुसारोदित425426शारदातिलके च—
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम्427 ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ॥११०॥
आत्मनो वदनाम्भोजप्रेरिता428क्षिमधुव्रताः ।
कामबाणेन विवशाश्429 चिरम् आश्लेषणोत्सुकाः ॥१११॥
मुक्ताहारलसत्पीनकुम्भ430स्तनभरानताः ।
स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः ॥११२॥
दन्तपङ्क्तिप्रभोद्भासिस्पन्दमानाधराञ्चिताः ।
विलोभयन्तीर् विविधैर् विभ्रमैर् भावगर्भितैः ॥११३॥
विश्वास-प्रस्तुतिः
फुल्लेन्दीवरकान्तिम् इन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कम् उदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ इति431 ॥११४॥
गोपकन्या एव विशिनष्टि आत्मन इति त्रिभिः । गोविन्दस्य वदनाम्भोजे प्रेरिता अक्षिमधुव्रता432 याभिस् ताः, विलोभयन्तीर् गोविन्दम्433 एव ॥१११–११४॥
श्रीगौतमीयतन्त्रादौ434 तद्ध्यानं प्रथितं435 परम् ।
अग्रतो ऽत्रापि436 संलेख्यं यद् इष्टं तत्र तद् भजेत्437 ॥११५॥
आदिशब्देन त्रैलोक्यसम्मोहनतन्त्रसनत्कुमारकल्पादि438 । तस्य गोविन्दस्य परम् च439 ध्यानं प्रसिद्धम् एव । अत्र ग्रन्थे ऽप्य् अग्रतो लेख्यं क्रमदीपिकोक्तम् अथ प्रकटसौरभ इत्यादि । श्री440गौतमीयतन्त्रे441 च पीताम्बरधर442 इत्यादि । तत्र ध्याने यस्य यत् प्रियं स्यात्, तत् सं443सेव्यताम् । तत्र श्री444गौतमीयतन्त्रे नवीननीरदश्यामम् इत्यादिकं सुप्रसिद्धम् एव । सम्मोहनतन्त्रे च श्रीशिवेनोक्तम् । शृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि । तवैव पौरुषं रूपं गोपिकानयना445मृतम् ॥ सदा
Broo
¹¹⁴Beautiful as a blooming blue lotus, with a face like the moon,
delighting in wearing a peacock-feather crown,
marked with Śrīvatsa, bearing the illustrious Kaustubha,
dressed in yellow, charming,
with a body worshipped by the lotuses of the milkmaids’ eyes,
surrounded by cows and cowherds,
bedecked with divine ornaments—
I worship Govinda, fond of playing the melodious flute.
[…]
¹¹⁵Books such as the Gautamīya Tantra have highly celebrated meditations on him. They will also be collected later on in this book (5.168–216). From there one should select what one likes.
Books such as refers to Trailokyasammohana Tantra, Sanatkumāra Kalpa and so on. […] In this book as well the meditation “Now, with clean mind …” of the Kramadīpikā (3.1–36) as well as the meditation “Now I will describe …” of the Gautamīya Tantra (4.16–33) will be given further on (5.168–216). One should make use of the meditation that one likes. The meditation “Dark as a new raincloud …” of the Gautamīya Tantra (10.142cd–159ab) is very famous.[^FNB000318]
In the Sammohana Tantra, Śiva says: “Listen goddess, mistress of the world! I will tell you a secret. Your own male form, the nectar of the faces
मूलम्
फुल्लेन्दीवरकान्तिम् इन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कम् उदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ इति431 ॥११४॥
गोपकन्या एव विशिनष्टि आत्मन इति त्रिभिः । गोविन्दस्य वदनाम्भोजे प्रेरिता अक्षिमधुव्रता432 याभिस् ताः, विलोभयन्तीर् गोविन्दम्433 एव ॥१११–११४॥
श्रीगौतमीयतन्त्रादौ434 तद्ध्यानं प्रथितं435 परम् ।
अग्रतो ऽत्रापि436 संलेख्यं यद् इष्टं तत्र तद् भजेत्437 ॥११५॥
आदिशब्देन त्रैलोक्यसम्मोहनतन्त्रसनत्कुमारकल्पादि438 । तस्य गोविन्दस्य परम् च439 ध्यानं प्रसिद्धम् एव । अत्र ग्रन्थे ऽप्य् अग्रतो लेख्यं क्रमदीपिकोक्तम् अथ प्रकटसौरभ इत्यादि । श्री440गौतमीयतन्त्रे441 च पीताम्बरधर442 इत्यादि । तत्र ध्याने यस्य यत् प्रियं स्यात्, तत् सं443सेव्यताम् । तत्र श्री444गौतमीयतन्त्रे नवीननीरदश्यामम् इत्यादिकं सुप्रसिद्धम् एव । सम्मोहनतन्त्रे च श्रीशिवेनोक्तम् । शृणु देवि प्रवक्ष्यामि रहस्यं भुवनेश्वरि । तवैव पौरुषं रूपं गोपिकानयना445मृतम् ॥ सदा
विश्वास-प्रस्तुतिः
निषेवितं रागाद्446 भवद्विरहभीरुणा । सत्यभामादिरूपाभिर् मायामूर्तिभिर् अष्टभिः ॥ ध्यायेन् मदनगोपालं संज्ञया भुवनत्रये । ध्यानं तस्य प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ सर्वरागो447पशमनं सत्पुत्रावाप्ति448कारकम्449 । सौभाग्यदायकं नॄणां स्त्रीणां चैव विशेषतः ॥ किम् अत्र बहुनोक्तेन ध्यानेनानेन भाविनि450 । यद् यद् इच्छति तत् सर्वं नरः प्राप्नोत्य् असंशयम्451 ॥ श्रीमद्बालार्कसंकाशं पद्मरागारुणप्रभम् । बन्धूकबन्धुरालोकं सन्ध्यारागोपमद्युतिम् ॥ मुकुटानेकमाणिक्यप्रभापल्लविताम्बरम् । किरीटोपान्तविन्यस्तबर्हिबर्हावतंसकम् ॥ कस्तूरीतिलकाक्रान्तकमनीयालिकस्थलम् । स्मरकोदण्डविन्यस्तसुसान्द्रकुटिलभ्रुवम् ॥ स्मेरगण्डस्थलं श्रीमदुन्नतायतनासिकम् ॥ करुणालहरीपूर्णकर्णान्तायतलोचनम् । कर्णावलम्बिसौर्वर्णकर्णिकारावतंसिनम् ॥ निस्तुल452स्थूलमाणिक्यचारुमौक्तिककुण्डलम् । दन्तांशुसुसमाश्लिष्टकोमलाधरपल्लवम् ॥ असाधारणसौभाग्यचिबुकोद्देशशोभितम् । शशाङ्कबिम्बाहङ्कारश्लाघानन्दकराननम् ॥ अनर्घ्यरत्नग्रैवेयविलसत्कम्बुकन्धरम् । सौरभालोलैर् आलम्बैः453 शुभैर् मन्दारदामभिः ॥ तदंशुमौक्तिकैर् हारैर् वैजयन्त्या च मालया । श्रीवत्सकौस्तुभाभ्यां च परिष्कृतभुजान्तरम् ॥ रत्नकङ्कणकेयूरैर् भूषितैर् दशभिर् भुजैः । चक्रं पुष्पशरं पद्मं शूलं454 शाङ्खेन्दुकार्मुकम् ॥ गदां पाशं च मुरलीं बिभ्राणं मोहनाकृतिम् । निम्ननाभिं रोमराजि455बलिमत्पल्लवोदरम् ॥
Broo
of the milkmaids, is always passionately worshipped by the eight manifestations of Māyā in the form of Satyabhāmā and the others, fearing separation from you. One should meditate on him who is known in the three worlds as, ‘Enchanting Gopāla’. I will now describe to you this meditation, the remover of all sins, the alleviator of all passions, the giver of virtuous sons, the bestower of welfare for men and especially women. What is the need for more words? By this meditation, noble one, a human being can surely attain whatever he desires.
Resembling the beautiful newly risen sun, reddishly shining as a ruby; with the lustre of Bandhūka (Pentapetes Phoenicea) and Bandhura (Ixora); whose garments are filled with the radiance of rubies and countless pearls; who wears a peacock feather placed at the edge of his crown; whose enchanting forehead is marked with a spot made with musk; whose very strong and curved eyebrows defeat Smara’s bow; whose cheeks are beautfully smiling; whose beautiful nose is raised and long; whose eyes, filled with the waves of compassion, extend to his ears; who is ornamented with golden Karṇikāra-flowers (Pterospermum Acerifolium) dangling from his ears; who wears beautiful pearl ear-ornaments with matchlessly large rubies; whose soft lips are smoothly embraced by the rays of his teeth; who is beautified by an uncommonly lovely chin; whose exhilarating face shatters the ego of the disc of the moon; whose shell-like neck[^FNB000319] glitters with a necklace of priceless jewels; whose breast is adorned with fragrant, swinging and dangling beautiful Mandāra (Erythrina Indica) garlands, pearl necklaces glittering with his brilliance, a Vaijayantī-garland, the Śrīvatsa mark and the Kaustubha-jewel; who in his ten arms, decorated with jewelled bracelets and wrist-ornaments, enchantingly holds the disc, the flower arrow, lotus flower, spear, conch shell, moon bow, club, noose and flute; whose navel is deep; the blossom of whose belly receives the tribute of a line of hair; whose loins are very broad; whose belt is jingling with gems; whose golden garment is the heir of the beauty of flashing lightning; whose jewelled anklets make filaments for his lotus-feet; the circlets of whose foot nails are like a delightful row of gems polished with a whetstone; who from head to toe is dressed in hundreds of enchanting ornaments; who stands on a glorious, beautiful and shining disc seat, on the pericarp of a golden lotus flower, in the middle of a great pedestal of touchstone, in a celebrated pavillion of jewels, in a great grove of desire trees; the Lord of the god of gods whose lovely form bends in three places; whose trembling jewel ear-rings almost touches the top of his left shoulder;
मूलम्
निषेवितं रागाद्446 भवद्विरहभीरुणा । सत्यभामादिरूपाभिर् मायामूर्तिभिर् अष्टभिः ॥ ध्यायेन् मदनगोपालं संज्ञया भुवनत्रये । ध्यानं तस्य प्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ सर्वरागो447पशमनं सत्पुत्रावाप्ति448कारकम्449 । सौभाग्यदायकं नॄणां स्त्रीणां चैव विशेषतः ॥ किम् अत्र बहुनोक्तेन ध्यानेनानेन भाविनि450 । यद् यद् इच्छति तत् सर्वं नरः प्राप्नोत्य् असंशयम्451 ॥ श्रीमद्बालार्कसंकाशं पद्मरागारुणप्रभम् । बन्धूकबन्धुरालोकं सन्ध्यारागोपमद्युतिम् ॥ मुकुटानेकमाणिक्यप्रभापल्लविताम्बरम् । किरीटोपान्तविन्यस्तबर्हिबर्हावतंसकम् ॥ कस्तूरीतिलकाक्रान्तकमनीयालिकस्थलम् । स्मरकोदण्डविन्यस्तसुसान्द्रकुटिलभ्रुवम् ॥ स्मेरगण्डस्थलं श्रीमदुन्नतायतनासिकम् ॥ करुणालहरीपूर्णकर्णान्तायतलोचनम् । कर्णावलम्बिसौर्वर्णकर्णिकारावतंसिनम् ॥ निस्तुल452स्थूलमाणिक्यचारुमौक्तिककुण्डलम् । दन्तांशुसुसमाश्लिष्टकोमलाधरपल्लवम् ॥ असाधारणसौभाग्यचिबुकोद्देशशोभितम् । शशाङ्कबिम्बाहङ्कारश्लाघानन्दकराननम् ॥ अनर्घ्यरत्नग्रैवेयविलसत्कम्बुकन्धरम् । सौरभालोलैर् आलम्बैः453 शुभैर् मन्दारदामभिः ॥ तदंशुमौक्तिकैर् हारैर् वैजयन्त्या च मालया । श्रीवत्सकौस्तुभाभ्यां च परिष्कृतभुजान्तरम् ॥ रत्नकङ्कणकेयूरैर् भूषितैर् दशभिर् भुजैः । चक्रं पुष्पशरं पद्मं शूलं454 शाङ्खेन्दुकार्मुकम् ॥ गदां पाशं च मुरलीं बिभ्राणं मोहनाकृतिम् । निम्ननाभिं रोमराजि455बलिमत्पल्लवोदरम् ॥
विश्वास-प्रस्तुतिः
विशङ्कटकटीदेशं वाचालमणिमेखलम् । स्फुरत्सौदामिनीच्छायादायादकनकाम्बरम् ॥ मणिमञ्जीरकिरणैः किञ्जल्कितपदाम्बुजम् । शानोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलम्456 ॥ आपादकण्ठम् आमुक्तभूषाशतमनोहरम् । कल्पवृक्षमहारामे महिते रत्नमण्डपे ॥ चिन्तामणिमहापीठे मध्ये हैमसरोरुहे । कर्णिकोपरि सन्दीप्ते श्रीमच्चक्रासने शुभे457 ॥ तिष्ठन्तं देवदेवेशं त्रिभङ्गीललिताकृतिम् । वामांसशिखरोपान्तव्यालोलमणिकुण्डलम् ॥ उदञ्चितभ्रुवं किञ्चित् कुञ्जिताधर458पल्लवम् । गानव्याजामृतरसैर् व्यञ्जितश्रुतिवैभवैः ॥ तत्तत्स्वरानुगुण्येन वेणुरन्ध्राण्य् अनुक्रमात् । आवृण्वन्तं विवृण्वन्तं मुहुर् अङ्गुलिपल्लवैः ॥ उपास्यमानम् आनन्दात् सदारैर् दिविषद्गणैः । कृतदुन्दुभिनिर्घोषैर् मुक्ति459प्रसववृष्टिभिः ॥ ध्यायेन् मदनगोपालं मन्त्री शुचिर् अलङ्कृतः । सर्वान् कामान् अवाप्नोति दुर्लभान् अप्य् अयत्नतः ॥ इति । तत्रैवान्यत्र । ध्यायेद् वृन्दावने सम्यक् सिद्धचारणवेष्टिते । गोगोपगोपिकाक्रान्ते कल्पपादपशोभिते ॥ तन्मध्ये द्विभुजं ध्यायेत् पञ्चवर्षम् अथाच्युतम् । स्निग्धेन्द्रनीलरुचिरं पूर्णचन्द्रनिभाननम् ॥ प्रसन्नवदनं शान्तं460 स्निग्धलीला461लकावृतम् । काकपक्षधरं मन्त्री दामभूषितमूर्धजम् ॥ किङ्किणीजालसद्रत्नकटिसूत्रविभूषितम् । मुक्तादामलसद्गात्रं हरिचन्दनचर्चितम् ॥ केयूरकटकानद्धं रत्नोल्लासितकुण्डलम् । दधानं दक्षिणे पाणौ नवनीतं सुशोभनम् ॥ वामे हाटकसन्नद्धां यष्टिम् इष्टां सुशोभनाम् । हेमपद्मोपरि स्वैरं नृत्यन्तं वनमालिनम् ॥ इति । अस्मिंश् च ध्याने पञ्चवर्षत्वादिना पूर्वस्मिंश् चारुणकान्तिदशभुजत्वादिना निजमनोऽतृप्त्या ध्यानद्वयम् इदं462 मूले न लिखितम् इति ज्ञेयम् । अत्र चान्य463सौन्दर्यविशेषाद्युक्त्य्464अपेक्षया लिखितं सनत्कुमारकल्पे465 च । कह्लार466कुसुमश्यामम् अम्भोरुहनिभेक्षणम् । वेणुनादरतं देवं बर्हिबर्हावतंसकम् ॥ दिव्यपीताम्बरधरं पूर्णचन्द्रनिभाननम् । वन्यैस् तमालकुसुमैः शोभितं वनमालया ॥ नेत्रोत्पलैश् च गोपीनाम् अर्चितं सुन्दराकृतिम् । हारकेयूरमुकुटकुण्डलोदरबन्धनैः ॥ विराजमानं श्रीवत्सकौस्तुबोद्भासितोरसम् । गोपीजनैः परिवृतं मूले कल्पतरोः स्थितम् ॥ गोपालैर् गोपनिवहैः शुद्धसत्त्वैर् अमत्सरैः ॥ आवृतं देवतावृन्दैः पुष्पाञ्जलिकरैर् दिवि ॥ वेणुनादसमाविष्टचित्तवृत्तिभिर् अन्वितम् । दिव्येन वेणुनादेन नयन्तं स्ववशं जगत् ॥ इति । एतच् च लिखितैर् उक्तार्थत्वान्467 न लिखितम् इति दिक्468 ॥११५॥
Broo
whose eyebrows are slightly arched; the blossom of whose lips are darkly red; who with his finger-buds incessantly but in due order covers and uncovers the holes of his flute, filled with nectarean Rasa appearing like song, having the majesty of revealed scripture and endowed with all the musical notes; who is blissfully worshipped by the gods and their wives with the sound of drumbeats and showers of flower blossoms—clean and ornamented, the worshipper should meditate on this Enchanting Gopāla. He will easily attain all his desires, even those hard to obtain.”
Elsewhere in the same book: “One should meditate on Vṛndāvana, completely surrounded by Siddhas and Cāraṇas, frequented by cows, cowherds and milkmaids and decorated with desire trees. In the centre, on top of a lotus flower made of gold, the worshipper should meditate on Acyuta, who is two-armed; five years old; beautiful as a resplendant sapphire; whose face resembles the full moon; whose face is gracious, peaceful and encircled by glossy, playful curls of hair and side-locks; the hair of whose head is decorated with a garland; who is ornamented with a sash embroidered with small bells and fine jewels; on whose body swings garlands of pearls; who is anointed with yellow sandalwood pulp; who wears bracelets and arm rings and dangling ear-ornaments; who in his right hand holds bright fresh butter and in his left a favourite stick made of brilliant gold; who is spontaneously dancing; and who wears a garland of forest flowers.”
It should be understood that since the author’s own heart was not satisfied with details such as Kṛṣṇa being five years old in this meditation or reddish as the morning sun and ten-armed in the previous one, these two meditations have not been given in the main text.
Regarding statements about his exquisite loveliness here and elsewhere, it is also written in the Sanatkumāra Kalpa: “Who is dark as the flower of a water-lily; whose eyes are like lotus petals; the Lord who is fond of playing the flute; who is decorated with a peacock feather; who wears a divine, yellow garment; whose face resembles the full moon; who is beautified with wild Tamāla flowers and a forest-flower garland; who is worshipped by the lotus eyes of the milkmaids; whose appearance is lovely; who shines with necklaces, bracelets, earrings, a crown and a belt; whose chest gleams with the Śrīvatsa-mark and the Kaustubha jewel; who stands beneath a desire-tree, surrounded by milkmaids, cowherd boys and non-envious cowherd men of pure Sattva; who is canopied by throngs of divinities in the sky, holding flowers in their hands and whose mental motions are arrested by the sound of the flute; who independently governs the world with the divine sound of his flute …”
Since this has the same meaning as what has been written, it has not been given here. This is the drift.
मूलम्
विशङ्कटकटीदेशं वाचालमणिमेखलम् । स्फुरत्सौदामिनीच्छायादायादकनकाम्बरम् ॥ मणिमञ्जीरकिरणैः किञ्जल्कितपदाम्बुजम् । शानोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलम्456 ॥ आपादकण्ठम् आमुक्तभूषाशतमनोहरम् । कल्पवृक्षमहारामे महिते रत्नमण्डपे ॥ चिन्तामणिमहापीठे मध्ये हैमसरोरुहे । कर्णिकोपरि सन्दीप्ते श्रीमच्चक्रासने शुभे457 ॥ तिष्ठन्तं देवदेवेशं त्रिभङ्गीललिताकृतिम् । वामांसशिखरोपान्तव्यालोलमणिकुण्डलम् ॥ उदञ्चितभ्रुवं किञ्चित् कुञ्जिताधर458पल्लवम् । गानव्याजामृतरसैर् व्यञ्जितश्रुतिवैभवैः ॥ तत्तत्स्वरानुगुण्येन वेणुरन्ध्राण्य् अनुक्रमात् । आवृण्वन्तं विवृण्वन्तं मुहुर् अङ्गुलिपल्लवैः ॥ उपास्यमानम् आनन्दात् सदारैर् दिविषद्गणैः । कृतदुन्दुभिनिर्घोषैर् मुक्ति459प्रसववृष्टिभिः ॥ ध्यायेन् मदनगोपालं मन्त्री शुचिर् अलङ्कृतः । सर्वान् कामान् अवाप्नोति दुर्लभान् अप्य् अयत्नतः ॥ इति । तत्रैवान्यत्र । ध्यायेद् वृन्दावने सम्यक् सिद्धचारणवेष्टिते । गोगोपगोपिकाक्रान्ते कल्पपादपशोभिते ॥ तन्मध्ये द्विभुजं ध्यायेत् पञ्चवर्षम् अथाच्युतम् । स्निग्धेन्द्रनीलरुचिरं पूर्णचन्द्रनिभाननम् ॥ प्रसन्नवदनं शान्तं460 स्निग्धलीला461लकावृतम् । काकपक्षधरं मन्त्री दामभूषितमूर्धजम् ॥ किङ्किणीजालसद्रत्नकटिसूत्रविभूषितम् । मुक्तादामलसद्गात्रं हरिचन्दनचर्चितम् ॥ केयूरकटकानद्धं रत्नोल्लासितकुण्डलम् । दधानं दक्षिणे पाणौ नवनीतं सुशोभनम् ॥ वामे हाटकसन्नद्धां यष्टिम् इष्टां सुशोभनाम् । हेमपद्मोपरि स्वैरं नृत्यन्तं वनमालिनम् ॥ इति । अस्मिंश् च ध्याने पञ्चवर्षत्वादिना पूर्वस्मिंश् चारुणकान्तिदशभुजत्वादिना निजमनोऽतृप्त्या ध्यानद्वयम् इदं462 मूले न लिखितम् इति ज्ञेयम् । अत्र चान्य463सौन्दर्यविशेषाद्युक्त्य्464अपेक्षया लिखितं सनत्कुमारकल्पे465 च । कह्लार466कुसुमश्यामम् अम्भोरुहनिभेक्षणम् । वेणुनादरतं देवं बर्हिबर्हावतंसकम् ॥ दिव्यपीताम्बरधरं पूर्णचन्द्रनिभाननम् । वन्यैस् तमालकुसुमैः शोभितं वनमालया ॥ नेत्रोत्पलैश् च गोपीनाम् अर्चितं सुन्दराकृतिम् । हारकेयूरमुकुटकुण्डलोदरबन्धनैः ॥ विराजमानं श्रीवत्सकौस्तुबोद्भासितोरसम् । गोपीजनैः परिवृतं मूले कल्पतरोः स्थितम् ॥ गोपालैर् गोपनिवहैः शुद्धसत्त्वैर् अमत्सरैः ॥ आवृतं देवतावृन्दैः पुष्पाञ्जलिकरैर् दिवि ॥ वेणुनादसमाविष्टचित्तवृत्तिभिर् अन्वितम् । दिव्येन वेणुनादेन नयन्तं स्ववशं जगत् ॥ इति । एतच् च लिखितैर् उक्तार्थत्वान्467 न लिखितम् इति दिक्468 ॥११५॥
विश्वास-प्रस्तुतिः
अथ ध्यानमाहात्म्यम्
तत्र पापप्रणाशत्वम्
बृहच्छातातापस्मृतौ—
पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति ।
प्राणायामशतेनैव यत्469 पापं नश्यते नृणाम्470 ॥११६॥
प्राणायामसहस्रेण यत् पापं नश्यते नृणाम्471 ।
क्षणमात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति ॥११७॥
विष्णु472धर्मे—
सर्वपापप्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् ।
भूयस् तपस्वी भवति पङ्क्तिपावनपावनः ॥११८॥
भूयो ऽधिकं यथा स्यात् तथा,473 पङ्क्तेः पावनाद् अपि पावनः परमपावन इत्य् अर्थः ॥११८॥
विष्णु474पुराणे च—
ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं475 हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥११९॥
कलिदोषहरत्वम्
बृहन्नारदीये कलिप्रसङ्गे—
समस्तजगदाधारं परमार्थस्वरूपिणम् ।
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन् न सीदति ॥१२०॥
सर्वधर्माधिकारित्वम्476
स्कान्दे कार्त्तिकमाहात्म्ये अगस्त्योक्तौ—
Broo
The Greatness of Meditation
It Destroys Sins
In the Bṛhacchātātāpa Smṛti:[^FNB000320]
¹¹⁶The sins that a person destroys by fasting for two weeks, the sins that humans destroy by hundreds of Prāṇāyāmas, ¹¹⁷the sins that humans destroy by even thousands of Prāṇāyāmas—all those sins are destroyed by a moment of meditation on Hari.
In the Viṣṇudharma (–):[^FNB000321]
¹¹⁸Even if one who is afflicted with all kinds of sins meditates for a moment on Acyuta, he becomes more than an ascetic, a purifier of purifying society!
[…] A purifier of purifying society means that he is most purifying.
And in the Viṣṇu Purāṇa (–):[^FNB000322]
¹¹⁹One should meditate on Lord Nārāyaṇa while bathing and performing rituals, for this is the sure atonement for all kinds of evil deeds.
It Removes the Faults of the Kali Age
In connection with the age of Kali in the Bṛhannāradīya Purāṇa (38.103):
¹²⁰One who meditates on Viṣṇu, the maintainer of the whole world and the very form of the highest truth, will not despair when the terrible age of Kali comes.
It Gives One Eligibility for All Rituals
In the words of Agastya in the Greatness of Kārttika in the Skanda Purāṇa (–):
मूलम्
अथ ध्यानमाहात्म्यम्
तत्र पापप्रणाशत्वम्
बृहच्छातातापस्मृतौ—
पक्षोपवासाद् यत् पापं पुरुषस्य प्रणश्यति ।
प्राणायामशतेनैव यत्469 पापं नश्यते नृणाम्470 ॥११६॥
प्राणायामसहस्रेण यत् पापं नश्यते नृणाम्471 ।
क्षणमात्रेण तत् पापं हरेर् ध्यानात् प्रणश्यति ॥११७॥
विष्णु472धर्मे—
सर्वपापप्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् ।
भूयस् तपस्वी भवति पङ्क्तिपावनपावनः ॥११८॥
भूयो ऽधिकं यथा स्यात् तथा,473 पङ्क्तेः पावनाद् अपि पावनः परमपावन इत्य् अर्थः ॥११८॥
विष्णु474पुराणे च—
ध्यायेन् नारायणं देवं स्नानादिषु च कर्मसु ।
प्रायश्चित्तं475 हि सर्वस्य दुष्कृतस्येति निश्चितम् ॥११९॥
कलिदोषहरत्वम्
बृहन्नारदीये कलिप्रसङ्गे—
समस्तजगदाधारं परमार्थस्वरूपिणम् ।
घोरे कलियुगे प्राप्ते विष्णुं ध्यायन् न सीदति ॥१२०॥
सर्वधर्माधिकारित्वम्476
स्कान्दे कार्त्तिकमाहात्म्ये अगस्त्योक्तौ—
विश्वास-प्रस्तुतिः
किं तस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः ।
यो नित्यं ध्यायते देवं477 नारायणम् अनन्यधीः ॥१२१॥
मोक्षप्रदत्वम्
बृहन्नारदीये प्र478दक्षिनामाहात्म्यान्ते—
ये मानवा विगतरागपरापरज्ञा479
नारायणं सुरगुरुं सततं स्मरन्ति480 ।
ध्यानेन तेन481 हत किल्बिषवेदनास्482 ते
मातुः पयोधररसं न पुनः पिबन्ति ॥१२२॥
विगतरागाश् च ते परापरज्ञाश् च कारणकार्याभिज्ञाः परमेश्वरजीवतत्त्वज्ञा वा ध्यानरूपेण तेन स्मरणेन सततस्मरणात् । अत्र च वामनपुराणे । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् इति परार्धम् ॥१२२॥
श्रीवैकुण्ठप्रापकत्वम्483
स्कान्दे श्रीब्रह्मोक्तौ—
मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः ।
सो ऽपि सद्गतिम् आप्नोति किं पुनस् तत्परायणः ॥१२३॥
अतन्द्रितः अनलसः सन्, सतीम् उत्तमां, सतां वा भक्तानां गतिं गम्यं प्राप्यं श्रीवैकुण्ठलोकम् ॥१२३॥
पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे—
ध्यायन्ति पुरुषं दिव्यम् अच्युतं च स्मरन्ति ये ।
लभन्ते ते ऽच्युतस्थानं श्रुतिर् एषा पुरातनी ॥१२४॥
Broo
¹²¹What is the use of many holy places or of many vows for a person who with unflinching thoughts always meditates on Lord Nārāyaṇa?
It Affords One Liberation
At the end of the Greatness of Obeisances in the Bṛhannāradīya Purāṇa (37.122):
¹²²Humans who, freed from passions and knowing the higher and the lower,
constantly remember Nārāyaṇa, the master of the gods,
are by this meditation freed from faults in and suffering,
and they will never again drink the breastmilk of a mother.
[…] Knowing the higher and the lower: who know cause and effect, or who know the truth about the Highest Lord and the individual selves. […] This is also explained in the Vāmana Purāṇa (–):[^FNB000323] “… these royal swans, as if clad in washed, white clothes, will cross to the other side of the ocean of birth and death.” This was the second half of the verse.
It Brings One to Vaikuṇtha
In the words of Brahmā in the Skanda Purāṇa (–):[^FNB000324]
¹²³Even one who alertly meditates on Nārāyaṇa for even a Muhūrta will attain the true destination, let alone those who are devoted to him!
Alertly: without laziness. True destination means the highest place, or else the place to reach for the true, that is, the devotees, which is Vaikuṇtha.
In a discussion between Yama and a Brāhmaṇa in the Greatness of Vaiśākha in the Padma Purāṇa (5.96.78cd–79ab):
¹²⁴Those who meditate on the divine person and remember the infallible one will attain the infallible abode. This is the ancient revelation.
मूलम्
किं तस्य बहुभिस् तीर्थैः किं तस्य बहुभिर् व्रतैः ।
यो नित्यं ध्यायते देवं477 नारायणम् अनन्यधीः ॥१२१॥
मोक्षप्रदत्वम्
बृहन्नारदीये प्र478दक्षिनामाहात्म्यान्ते—
ये मानवा विगतरागपरापरज्ञा479
नारायणं सुरगुरुं सततं स्मरन्ति480 ।
ध्यानेन तेन481 हत किल्बिषवेदनास्482 ते
मातुः पयोधररसं न पुनः पिबन्ति ॥१२२॥
विगतरागाश् च ते परापरज्ञाश् च कारणकार्याभिज्ञाः परमेश्वरजीवतत्त्वज्ञा वा ध्यानरूपेण तेन स्मरणेन सततस्मरणात् । अत्र च वामनपुराणे । ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम् इति परार्धम् ॥१२२॥
श्रीवैकुण्ठप्रापकत्वम्483
स्कान्दे श्रीब्रह्मोक्तौ—
मुहूर्तम् अपि यो ध्यायेन् नारायणम् अतन्द्रितः ।
सो ऽपि सद्गतिम् आप्नोति किं पुनस् तत्परायणः ॥१२३॥
अतन्द्रितः अनलसः सन्, सतीम् उत्तमां, सतां वा भक्तानां गतिं गम्यं प्राप्यं श्रीवैकुण्ठलोकम् ॥१२३॥
पाद्मे वैशाखमाहात्म्ये यमब्राह्मणसंवादे—
ध्यायन्ति पुरुषं दिव्यम् अच्युतं च स्मरन्ति ये ।
लभन्ते ते ऽच्युतस्थानं श्रुतिर् एषा पुरातनी ॥१२४॥
विश्वास-प्रस्तुतिः
ध्यायन्ति श्रीपादाब्जतलम् आरभ्य श्रीकेशाग्र484पर्यन्तं तत्485तत्सौन्दर्यादिसहितं चिन्तयन्ति । अप्यर्थे चकारः । ध्यायन्तीत्य्486 एतद् अस्तु ये स्मरन्त्य् अपि, यथा कथञ्चित् भगवति मनः संयोजयन्ति ते ऽपि । एवं ध्यानस्मरणयोर् भेदः487 कल्पनीयः, ध्यायन्तीति स्मरन्तीति488 पृथक् प्रयोगात् । अत एवाग्रे लेख्यः भेदः कल्प्येत सामान्यविशेषाभ्यां तयोर् इति केचिच् च कल्पयन्ति । लघुलघूच्चारणं स्मरणं कीर्तनस्489 तूच्चैर् इति, कुत्रचिन् नामकीर्तनप्रसङ्गे490 ऽस्मरणोक्तेः, तच् चासङ्गतम् इव । श्रवणं कीर्तनं विष्णोः स्मरणम् इत्यादौ वागुपासनारूपात् कीर्तनान् मानसोपासनारूपस्य स्मरणस्य पृथग् उक्तेः । एवं च नामकीर्तनप्रसङ्गे स्मरणं नाम्न एव मनसि चिन्तनम् इति ज्ञेयम् इति दिक् ॥१२४॥
सारूप्यप्रापणम्491
एकादशस्कन्धे—
वैरेण यं492 नृपतयः शिशुपालशाल्व-
पौण्ड्रादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त493 आकृतधियः शयनासनादौ
तत्साम्यम् आपुर् अनुरक्तधियां पुनः किम् ॥१२५॥
शयनादौ वैरेणापि यं भगवन्तं ध्यायन्तो494 गत्यादिभिः आकृतधियस्495 तत्तदाकारा धीर् येषां तथाभूताः सन्तस्496 तत्साम्यं सारूप्यं प्रापुः । अतो497 ऽनुरक्तधियां तत्साम्यप्राप्तिर् भवतीति किं वाच्यम् ॥१२५॥
स्वतः परमफलत्वम्
चतुर्थे498 श्री499पृथूक्तौ—500
भजन्त्य् अथ त्वाम् अत एव साधवो
व्युदस्त501मायागुणविभ्रमो502दयम् ।
भवत्पदानुस्मरणाद् ऋते503 सतां
निमित्तम् अन्यद् भगवन् न विद्महे ॥१२६॥
Broo
Meditate on means to visualise him from the bottom of the blessed lotus feet to the top of the blessed hair together with the respective beauty and so on of all these bodily parts. The word and is used in the sense of “also”. [This result applies to] those who meditate, granted, but also those who “remember,” that is, somehow or other direct their minds to the Lord. In this way, a difference should be conceived between meditation and remembrance, as the words “meditating” and “remembering” are used separately.
For this very reason, the statement below, “through generality and particularity” (3.129) shows that some conceive of a difference between the two, so that “remembrance is a very soft articulation but glorification is loud,” because sometimes remembrance is not mentioned in connection with glorifying the Name. But that appears incongruous, as remembrance, a form of mental worship, is mentioned separately from glorification, a form of verbal worship, in statements such as “Hearing, glorifying and remembering Viṣṇu” (BhP7.5.23). So too remembrance should be understood in the context of glorifying the Name, as thinking about the Name in the mind. This is the drift.
It Leads to Sameness of Form
In the Eleventh Book (BhP11.5.48):
¹²⁵When kings such as Śiśupāla, Śālva and Pauṇḍra, while lying down,
sitting and so on, meditated on him, fixing their minds on
his gait, gestures and glances, attained similarity to him,
what then can be said of those whose minds are fond of him?
[…]
It Awards the Highest Fruit on Its Own Accord
In the words of Pṛthu in the Fourth Book (BhP4.18.29):
¹²⁶Therefore, the saints worship only you,
who dispels the illusion of Māyā’s qualities.
Apart from remembering your feet, O Lord,
we know no other purpose of the saints.
मूलम्
ध्यायन्ति श्रीपादाब्जतलम् आरभ्य श्रीकेशाग्र484पर्यन्तं तत्485तत्सौन्दर्यादिसहितं चिन्तयन्ति । अप्यर्थे चकारः । ध्यायन्तीत्य्486 एतद् अस्तु ये स्मरन्त्य् अपि, यथा कथञ्चित् भगवति मनः संयोजयन्ति ते ऽपि । एवं ध्यानस्मरणयोर् भेदः487 कल्पनीयः, ध्यायन्तीति स्मरन्तीति488 पृथक् प्रयोगात् । अत एवाग्रे लेख्यः भेदः कल्प्येत सामान्यविशेषाभ्यां तयोर् इति केचिच् च कल्पयन्ति । लघुलघूच्चारणं स्मरणं कीर्तनस्489 तूच्चैर् इति, कुत्रचिन् नामकीर्तनप्रसङ्गे490 ऽस्मरणोक्तेः, तच् चासङ्गतम् इव । श्रवणं कीर्तनं विष्णोः स्मरणम् इत्यादौ वागुपासनारूपात् कीर्तनान् मानसोपासनारूपस्य स्मरणस्य पृथग् उक्तेः । एवं च नामकीर्तनप्रसङ्गे स्मरणं नाम्न एव मनसि चिन्तनम् इति ज्ञेयम् इति दिक् ॥१२४॥
सारूप्यप्रापणम्491
एकादशस्कन्धे—
वैरेण यं492 नृपतयः शिशुपालशाल्व-
पौण्ड्रादयो गतिविलासविलोकनाद्यैः ।
ध्यायन्त493 आकृतधियः शयनासनादौ
तत्साम्यम् आपुर् अनुरक्तधियां पुनः किम् ॥१२५॥
शयनादौ वैरेणापि यं भगवन्तं ध्यायन्तो494 गत्यादिभिः आकृतधियस्495 तत्तदाकारा धीर् येषां तथाभूताः सन्तस्496 तत्साम्यं सारूप्यं प्रापुः । अतो497 ऽनुरक्तधियां तत्साम्यप्राप्तिर् भवतीति किं वाच्यम् ॥१२५॥
स्वतः परमफलत्वम्
चतुर्थे498 श्री499पृथूक्तौ—500
भजन्त्य् अथ त्वाम् अत एव साधवो
व्युदस्त501मायागुणविभ्रमो502दयम् ।
भवत्पदानुस्मरणाद् ऋते503 सतां
निमित्तम् अन्यद् भगवन् न विद्महे ॥१२६॥
विश्वास-प्रस्तुतिः
स्कन्दपुराणे ब्रह्मोक्तौ504 च—505
आलोड्य506 सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदम् एव507 सुनिष्पन्नं ध्येयो नारायणः सदा508 ॥१२७॥
अत एवोक्तं509 हयशीर्षपञ्चरात्रे नारायणव्यूहस्तवे—
ये त्यक्तलोकधर्मार्था विष्णुभक्ति510वशं गताः511 ।
ध्यायन्ति परमात्मानं512 तेभ्यो नित्यं नमो नमः ॥ इति ॥१२८॥
स्मरणे यत्513 तन्514 माहात्म्यं तद्ध्याने ऽप्य् अखिलं515 विदुः ।
भेदः कल्प्येत516 सामान्यविशेषाभ्यां तयोः कियान्517 ॥१२९॥
सामान्यम् भगवति मनःसंयोजनमात्रम् । विशेषः श्रीमूर्त्यङ्गलावण्यादिभावना, ताभ्यां तयोः स्मरणध्यानयोः कियान् अल्प एव भेदः कल्प्यते,518 एतच् च विवेच्य519 लिखितम् एव ॥१२९॥
ततो देवालये गत्वा घण्टाद्युद्घोषपूर्वकम् ।
प्रबोध्य522 स्तुतिभिः कृष्णं नीराज्य प्रार्थयेद् इदम्523 ॥१३०॥
स्तुतिभिः श्रुतिस्तुत्या अन्याभिश् च524 प्रबोधनोपयुक्ताभिः नीराज्य प्रथमं दीपमात्रेण नीराजनं कृत्वा ॥१३०॥
Broo
And in the words of Brahmā in the Skanda Purāṇa (–):[^FNB000325]
¹²⁷After stirring all the scriptures and considering them again and again, this only is abundantly clear: one should always meditate on Nārāyaṇa!
This is also said in Nārāyaṇavyūha hymn of the Hayaśīrṣa Pañcarātra (–):[^FNB000326]
¹²⁸Repeated obeisances to those who here have renounced wordly virtue and riches, who have taken shelter of devotion to Viṣṇu and who meditate on the Highest self!
¹²⁹The greatness which pertains to remembrance fully pertains also to meditation. Through generality and particularity, some small difference can be made between the two.
Through generality or simply fixing the mind on the Lord and particularity, visualising the sweetness, etc, of the limbs of the blessed form, some small or minor difference is made between remembrance and meditation.[^FNB000327] Considering this, these sections [3.42–85, 3.116–128] have been written.
Waking the Blessed Lord
¹³⁰One should then go to the abode of the Lord, announce oneself by bells, etc, wake Kṛṣṇa by hymns, perform Nīrājana and offer him this prayer:
By hymns: by hymns taken from the Śruti and other places that are suitable for waking him. Perform Nīrājana: one should first offer Nīrājana only with a light.
मूलम्
स्कन्दपुराणे ब्रह्मोक्तौ504 च—505
आलोड्य506 सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदम् एव507 सुनिष्पन्नं ध्येयो नारायणः सदा508 ॥१२७॥
अत एवोक्तं509 हयशीर्षपञ्चरात्रे नारायणव्यूहस्तवे—
ये त्यक्तलोकधर्मार्था विष्णुभक्ति510वशं गताः511 ।
ध्यायन्ति परमात्मानं512 तेभ्यो नित्यं नमो नमः ॥ इति ॥१२८॥
स्मरणे यत्513 तन्514 माहात्म्यं तद्ध्याने ऽप्य् अखिलं515 विदुः ।
भेदः कल्प्येत516 सामान्यविशेषाभ्यां तयोः कियान्517 ॥१२९॥
सामान्यम् भगवति मनःसंयोजनमात्रम् । विशेषः श्रीमूर्त्यङ्गलावण्यादिभावना, ताभ्यां तयोः स्मरणध्यानयोः कियान् अल्प एव भेदः कल्प्यते,518 एतच् च विवेच्य519 लिखितम् एव ॥१२९॥
ततो देवालये गत्वा घण्टाद्युद्घोषपूर्वकम् ।
प्रबोध्य522 स्तुतिभिः कृष्णं नीराज्य प्रार्थयेद् इदम्523 ॥१३०॥
स्तुतिभिः श्रुतिस्तुत्या अन्याभिश् च524 प्रबोधनोपयुक्ताभिः नीराज्य प्रथमं दीपमात्रेण नीराजनं कृत्वा ॥१३०॥
विश्वास-प्रस्तुतिः
सो525 ऽसाव् अदभ्रकरुणो526 भगवान् वि527वृद्ध
प्रेमस्मितेन नयनाम्बुरुहं528 विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात् पुरुषः पुराणः ॥१३१॥
विजृम्भन् विजृम्भयन्529 प्रकाशयन्530 ।
देव प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पारयाच्युत ॥ इति ॥१३२॥
देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् ।
कृष्णस्य तुलसीवर्जं निर्माल्यम् अपसारयेत् ॥१३३॥
इष्टानि स्वस्य कृष्णस्य वा प्रियाणि सहस्रनामादीनि ॥१३३॥
अथ निर्माल्योत्तारणम्
अत्रिस्मृतौ—
प्रातःकाले सदा कुर्यान्531 निर्माल्योत्तारणं532 बुधः ।
तृषिताः पशवो बद्धाः533 कन्यका च रजस्वला ।
देवताश् च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥१३४॥
नारसिंहे श्रीयमोक्तौ—534
देवमाल्यापनयनं देवागारे समूहनम् ।
स्नापनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥१३५॥
देवस्य माल्यं निर्माल्यं, तस्यापनयनम्535 उत्तारणम् । समूहनं मार्जन्या तृणा536द्यपसारणम् ॥१३५॥
Broo
In the Third Book (BhP3.9.25):
¹³¹With a broad, loving smile, this most merciful Lord
opens his lotus eyes and arises
to conquer the worlds. With sweet words
may this ancient person also remove our dejection!
[…]
¹³²O Lord! Remover of the fear of your devotees! O Keśava, show your mercy to me by the gift of your glance! O Infallible one, save me again![^FNB000328]
¹³³Having entered the abode of the Lord, one should, while chanting favourite hymns, remove Kṛṣṇa’s Nirmālya,[^FNB000329] except for Tulasī-leaves.
Favourite: hymns that are dear to oneself or to Kṛṣṇa, such as that of a thousand names.
Removing Nirmālya
In the Atri Smṛti (–):[^FNB000330]
¹³⁴The wise one should always remove Nirmālya in the morning. Bound and thirsty cattle, a menstruating but unmarried daughter may and gods with Nirmālya remove all the merit one has gained.
In the words of Yama in the Nṛsiṃha Purāṇa (–):[^FNB000331]
¹³⁵Taking away the Mālya of the Lord, sweeping the house of the Lord and bathing all the gods is known as equal to the gift of a cow.
The Mālya of the Lord means Nirmālya. Taking away is removing it. Sweeping refers to removing grass and so on with a broom.
मूलम्
सो525 ऽसाव् अदभ्रकरुणो526 भगवान् वि527वृद्ध
प्रेमस्मितेन नयनाम्बुरुहं528 विजृम्भन् ।
उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात् पुरुषः पुराणः ॥१३१॥
विजृम्भन् विजृम्भयन्529 प्रकाशयन्530 ।
देव प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पारयाच्युत ॥ इति ॥१३२॥
देवालयं प्रविश्याथ स्तोत्राणीष्टानि कीर्तयन् ।
कृष्णस्य तुलसीवर्जं निर्माल्यम् अपसारयेत् ॥१३३॥
इष्टानि स्वस्य कृष्णस्य वा प्रियाणि सहस्रनामादीनि ॥१३३॥
अथ निर्माल्योत्तारणम्
अत्रिस्मृतौ—
प्रातःकाले सदा कुर्यान्531 निर्माल्योत्तारणं532 बुधः ।
तृषिताः पशवो बद्धाः533 कन्यका च रजस्वला ।
देवताश् च सनिर्माल्या हन्ति पुण्यं पुराकृतम् ॥१३४॥
नारसिंहे श्रीयमोक्तौ—534
देवमाल्यापनयनं देवागारे समूहनम् ।
स्नापनं सर्वदेवानां गोप्रदानसमं स्मृतम् ॥१३५॥
देवस्य माल्यं निर्माल्यं, तस्यापनयनम्535 उत्तारणम् । समूहनं मार्जन्या तृणा536द्यपसारणम् ॥१३५॥
विश्वास-प्रस्तुतिः
नारदपञ्चरात्रे—
यः प्रातर् उत्थाय537 विधाय538 नित्यं
निर्माल्यम् ईशस्य निराकरोति ।
न तस्य दुःखं न दरिद्रता च
नाकालमृत्युर् न च रोगमात्रम् ॥१३६॥
अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् ।
प्रातस् तु स्यान्539 महाशल्यं घटिकामात्रयोगतः ॥१३७॥
अतिशल्यं विजानीयात् ततो वज्रप्रहारवत् ।
अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥१३८॥
घटिकायाम्540 अतिक्रान्तौ क्षुद्रं पातकम् आवहेत्541 ।
मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते ॥१३९॥
अतिपातकम् एव स्याद् घटिकानां चतुष्टये ।
मुहूर्त542त्रितये पूर्णे महापातकम् उच्यते543 ॥१४०॥
ततः544 परं ब्रह्मवधो महापातकपञ्चकम् ।
प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥१४१॥
निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते545 ।
अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत् ॥१४२॥
पूर्णे मुहूर्ते सञ्जाते सहस्रं546 सार्धम् उच्यते547 ।
सहस्रद्वितीयं कुर्यात् घटिकानां चतुष्टये ॥१४३॥
मुहूर्तत्रितये ऽतीते अयुतं जपम् आचरेत् ।
प्रहरे पूर्णतां याते548 पुरश्चरणम् उच्यते ।
प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥१४४॥
अथ श्री549मुखप्रक्षालनम्
श्रीहस्ताङ्घ्रिमुखाम्भोजक्षालनाय च तद्गृहे ।
गण्डूषाणि जलैर् दत्त्वा दन्तकाष्ठं समर्पयेत् ॥१४५॥
जिह्वोल्लेखनिकां दत्त्वा550 पादुके शुद्धमृत्तिकाम् ।
सलिलं च पुनर् दद्याद् वासो ऽपि मुखमार्जनम् ॥१४६॥
ततः श्रीतुलसीं पुण्याम् अर्पयेद् भगवत्प्रियाम् ।
तन्माहात्म्यं च तन्मुख्यप्रसङ्गे लेख्यम् अग्रतः551 ॥१४७॥
Broo
In the Nārada Pañcarātra (–):
¹³⁶One who rises in the morning, performs the daily rites,
and removes the Nirmālya of the Lord,
for him there will be no sorrow, no poverty,
no untimely death nor even any disease.
¹³⁷At the time of sunrise, the Nirmālya becomes a thorn; when one Ghaṭikā[^FNB000332] has passed of the morning, a great thorn. ¹³⁸Then it should be understood to become a terrible thorn, striking hard as the Vajra. At the time of sunrise, Hari suffers that thorn.
¹³⁹When one Ghaṭikā has passed, one incurs a small sin, but when a full Muhūrta[^FNB000333] has passed, that is said to be a full sin, ¹⁴⁰and when four Ghaṭikās[^FNB000334] have passed, that is a heinous sin, and when three Muhūrtas[^FNB000335] have gone by, that is called a great sin. ¹⁴¹Greater than that is the killing of a Brāhmaṇa and all the five great sins, which is when a full Prahara[^FNB000336] has passed. There is no atonement for that.
¹⁴²Now the atonement for delaying with the [removal of the] Nirmālya will be explained. When half a Muhūrta[^FNB000337] has passed, one should do a thousand recitations. ¹⁴³When a full Muhūrta has gone by, fifteen hundred recitations are prescribed. When four Ghaṭikās have passed, two thousand recitations, ¹⁴⁴and when three Muhūrtas have passed, one should perform ten thousand recitations. For a full Prahara one must do Puraścaraṇa—but for more than a Prahara, there is no atonement.
Cleansing the Blessed Mouth
¹⁴⁵In the Lord’s temple, one should offer mouthfuls of water for cleaning the blessed hands, feet and lotus face, and then present a tooth-twig. ¹⁴⁶After offering a tongue-scraper, sandals and a small lump of pure clay, one should again offer water and a cloth for cleaning the face. ¹⁴⁷Then one should offer blessed Tulasī, dear to the Lord. Its greatness will be given further on, in its own context (7.267–348).
मूलम्
नारदपञ्चरात्रे—
यः प्रातर् उत्थाय537 विधाय538 नित्यं
निर्माल्यम् ईशस्य निराकरोति ।
न तस्य दुःखं न दरिद्रता च
नाकालमृत्युर् न च रोगमात्रम् ॥१३६॥
अरुणोदयवेलायां निर्माल्यं शल्यतां व्रजेत् ।
प्रातस् तु स्यान्539 महाशल्यं घटिकामात्रयोगतः ॥१३७॥
अतिशल्यं विजानीयात् ततो वज्रप्रहारवत् ।
अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥१३८॥
घटिकायाम्540 अतिक्रान्तौ क्षुद्रं पातकम् आवहेत्541 ।
मुहूर्ते समतिक्रान्ते पूर्णं पातकम् उच्यते ॥१३९॥
अतिपातकम् एव स्याद् घटिकानां चतुष्टये ।
मुहूर्त542त्रितये पूर्णे महापातकम् उच्यते543 ॥१४०॥
ततः544 परं ब्रह्मवधो महापातकपञ्चकम् ।
प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥१४१॥
निर्माल्यस्य विलम्बे तु प्रायश्चित्तम् अथोच्यते545 ।
अतिक्रान्ते मुहूर्तार्धे सहस्रं जपम् आचरेत् ॥१४२॥
पूर्णे मुहूर्ते सञ्जाते सहस्रं546 सार्धम् उच्यते547 ।
सहस्रद्वितीयं कुर्यात् घटिकानां चतुष्टये ॥१४३॥
मुहूर्तत्रितये ऽतीते अयुतं जपम् आचरेत् ।
प्रहरे पूर्णतां याते548 पुरश्चरणम् उच्यते ।
प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥१४४॥
अथ श्री549मुखप्रक्षालनम्
श्रीहस्ताङ्घ्रिमुखाम्भोजक्षालनाय च तद्गृहे ।
गण्डूषाणि जलैर् दत्त्वा दन्तकाष्ठं समर्पयेत् ॥१४५॥
जिह्वोल्लेखनिकां दत्त्वा550 पादुके शुद्धमृत्तिकाम् ।
सलिलं च पुनर् दद्याद् वासो ऽपि मुखमार्जनम् ॥१४६॥
ततः श्रीतुलसीं पुण्याम् अर्पयेद् भगवत्प्रियाम् ।
तन्माहात्म्यं च तन्मुख्यप्रसङ्गे लेख्यम् अग्रतः551 ॥१४७॥
विश्वास-प्रस्तुतिः
भगवत्प्रियाम् इति552 मुखप्रक्षालनावसरे ऽप्य् अस्मिन् तत्समर्पणे तथा तुलसीव्यतिरिक्तनिर्माल्योत्तारणे च कारणं ज्ञेयम् ॥१४७॥
अथ श्री553दन्तकाष्ठार्पण554माहात्म्यम्
विष्णुधर्मोत्तरे—
दन्तकाष्ठप्रदानेन दन्तसौभाग्यम् ऋच्छति ।
जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते ॥१४८॥
पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् ।
मृद्भागदानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम् ॥१४९॥
अथ मङ्गलनीराजनम्
पठित्वाथ555 प्रियान् श्लोकान् महावादित्रनिस्वनैः ।
प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्धितम् ॥१५०॥
श्लोकान् बर्हापीडम् इति क्वचिद्556 वनाशायेत्यादीन्557 । मङ्गलम् इत्य् आख्या यस्य तत् ॥१५०॥
नीराजनं त्व्558 इदं सर्वैः कर्तव्यं शुचिविग्रहैः ।
परमश्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥१५१॥
स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्टपूरकम् ।
समस्तदैन्यदारिद्र्यदुरिताद्युपशान्तिकृत् ॥१५२॥
अथ प्रातःस्नानार्थोद्यमः
ततो559 ऽरुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः ।
कीर्तयन् कृष्णनामानि तीर्थं गच्छेद् अनन्तरम् ॥१५३॥
Broo
Dear to the Lord: this should be understood to be the reason for why it is offered even at the occasion of cleaning the mouth and why it is excempt from the removal of Nirmālya.
The Greatness of Offering the Blessed Tooth-Twig
In the Viṣṇudharmottara Purāṇa (–):
¹⁴⁸By the gift of a tooth-twig, one attains good teeth, by offering a tongue-scraper, one becomes free from disease. ¹⁴⁹By the gift of sandals, one attains one’s desired destination, and through the gift of a piece of clay, one attains the incomparable land of God.
The Auspicious Nīrājana
¹⁵⁰Having recited one’s favourite verses, one should then, to the great sound of instruments, perform the Nīrājana of the Lord called “auspicious,” beneficial to the world.
Verses: such as “Wearing a peacock-feather in his hair …” (BhP10.21.5) or “One day …” (BhP10.12.1).[^FNB000338]
¹⁵¹Everyone should perform this Nīrājana with clean bodies. With great faith, people should always get up to see it. ¹⁵²For women, men and everyone it bestows everything they desire! It removes all affliction, poverty and discomfort.
The Preliminaries of the Morning Bath
¹⁵³Then, at the end of dawn, one should go outside to bathe. Chanting the names of Kṛṣṇa, one should go straight to a Tīrtha.
मूलम्
भगवत्प्रियाम् इति552 मुखप्रक्षालनावसरे ऽप्य् अस्मिन् तत्समर्पणे तथा तुलसीव्यतिरिक्तनिर्माल्योत्तारणे च कारणं ज्ञेयम् ॥१४७॥
अथ श्री553दन्तकाष्ठार्पण554माहात्म्यम्
विष्णुधर्मोत्तरे—
दन्तकाष्ठप्रदानेन दन्तसौभाग्यम् ऋच्छति ।
जिह्वोल्लेखनिकां दत्त्वा विरोगस् त्व् अभिजायते ॥१४८॥
पादुकायाः प्रदानेन गतिम् इष्टाम् अवाप्नुयात् ।
मृद्भागदानाद् देवस्य भूमिम् आप्नोत्य् अनुत्तमाम् ॥१४९॥
अथ मङ्गलनीराजनम्
पठित्वाथ555 प्रियान् श्लोकान् महावादित्रनिस्वनैः ।
प्रभोर् नीराजनं कुर्यान् मङ्गलाख्यं जगद्धितम् ॥१५०॥
श्लोकान् बर्हापीडम् इति क्वचिद्556 वनाशायेत्यादीन्557 । मङ्गलम् इत्य् आख्या यस्य तत् ॥१५०॥
नीराजनं त्व्558 इदं सर्वैः कर्तव्यं शुचिविग्रहैः ।
परमश्रद्धयोत्थाय द्रष्टव्यं च सदा नरैः ॥१५१॥
स्त्रीणां पुंसां च सर्वेषाम् एतत् सर्वेष्टपूरकम् ।
समस्तदैन्यदारिद्र्यदुरिताद्युपशान्तिकृत् ॥१५२॥
अथ प्रातःस्नानार्थोद्यमः
ततो559 ऽरुणोदयस्यान्ते स्नानार्थं निःसरेद् बहिः ।
कीर्तयन् कृष्णनामानि तीर्थं गच्छेद् अनन्तरम् ॥१५३॥
विश्वास-प्रस्तुतिः
तथा च शुक्र560स्मृतौ—
ब्राह्मे मुहूर्ते चोत्थाय561 शुचिर् भूत्वा समाहितः ।
स्वस्तिकाद्यासनं बद्ध्वा ध्यात्वा कृष्ण562पदाम्बुजम् ॥१५४॥
ततो निर्गत्य निलयान् नामानीमानि कीर्तयेत् ।
श्रीवासुदेवानिरुद्धप्रद्युम्नाधोक्षजा563च्युत ।
श्रीकृष्णानन्द564 गोविन्द संकर्षण नमो ऽस्तु ते ।
गत्वा तीर्थादिकं तत्र निक्षिप्य स्नानसाधनम् ॥ इति565566 ॥१५५॥
विधिनाचर्य मैत्रादिकृत्यं शौचं विधाय च567 ।
आचम्य खानि सम्मार्ज्य स्नानं कुर्यात् यथोचितम्568 ॥१५६॥
विधिनेति सर्वत्रान्वेति । मैत्रं पुरीषोत्सर्गस् तदादिकम् । खानि इन्द्रियच्छिद्राणि । यथोचितं वर्णाश्रमाद्यनुरूपम् । अत्र च प्रायो गृहस्थस्यैव लेख्यश्रीभगवत्पूजाविधियोग्यत्वात् तस्यैवायम् आचारो ज्ञेयः । अत एव श्री569विष्णुपुराणाद्युक्तानि प्रायो गृहिधर्मवचनान्य् एव लिखितानीति दिक् ॥१५६॥
अथ मैत्रादिकृत्यविधिः
श्रीविष्णुपुराणे570 और्वसगरसंवादे गृहिधर्मकथने—
ततः571 कल्ये समुत्थाय कुर्यान् मूत्रं572 नरेश्वर573 ।
नैरृत्याम् इषुविक्षेपम्574 अतीत्यात्यधिकं गृहात् ॥१५७॥
दूरादावसथान् मूत्रं पुरीषं च समुत्सृजेत् ।
पादावसेचनोच्छिष्टे प्रक्षिपेन् न575 गृहाङ्गणे ॥१५८॥
कल्ये ऊषसि । ग्रामस्य576 नैरृत्यां दिशि । तदसम्भवे स्वगृहाद् दूरे मूत्राद्युत्सर्गं कुर्यात् ॥१५७–१५८॥
आत्मच्छायां तरोश्577 छायां गोसूर्याग्न्यनिलांस् तथा578 ।
गुरुं द्विजादींश् च बुधो न मेहेत कदाचन ॥१५९॥
Broo
This is explained in the Śukra Smṛti:[^FNB000339]
¹⁵⁴Having risen at the watch of Brahman, one should purify and compose oneself, sit down in Svastika or another Āsana and meditate on Kṛṣṇa’s lotus feet. ¹⁵⁵One should then exit one’s house and chant the following names: “Śrī Vāsudeva! Aniruddha! Pradyumna! Adhokṣaja! Acyuta! Śrī Kṛṣṇa! Ānanda! Govinda! Saṁkarṣaṇa! Obeisance to you.” When one has reached the Tīrtha one should set down the articles for bathing there.
¹⁵⁶One should properly attend to the call of nature and clean oneself. After sipping water, one should cleanse one’s openings and bathe in the correct way.
The word properly applies everywhere. The call of nature means passing stool and so on. Openings: the sense openings. The correct way is that which follows one’s Varṇa, Āśrama, etc. Here also it is mainly the rites of the householders that are given, since the rules for the worship of the Lord that are written in this book pertain to them. Therefore, statements from scriptures such as the Viṣṇu Purāṇa mostly pertaining to the Dharma of householders will be given. This is the drift.
Rules for Attending to the Call of Nature
In a conversation between Aurva and Sagara relating to the Dharma of householders in the Viṣṇu Purāṇa (3.11.8cd–15):
¹⁵⁷O best of men! Then, after getting up at daybreak, one should void urine at least one bowshot away from the house to the southwest. ¹⁵⁸Far from the house one should pass stool and urine. One must not throw tout he water from washing the feet in one’s home yard!
[…] In the southwest direction from the house. If that is not possible, one should pass urine and so forth far from one’s house.
¹⁵⁹A thoughtful person must never pass urine on his shadow or on the shadow of a tree, or on a cow, the sun, a fire, the wind, his guru, Brāhmaṇas and so on.
मूलम्
तथा च शुक्र560स्मृतौ—
ब्राह्मे मुहूर्ते चोत्थाय561 शुचिर् भूत्वा समाहितः ।
स्वस्तिकाद्यासनं बद्ध्वा ध्यात्वा कृष्ण562पदाम्बुजम् ॥१५४॥
ततो निर्गत्य निलयान् नामानीमानि कीर्तयेत् ।
श्रीवासुदेवानिरुद्धप्रद्युम्नाधोक्षजा563च्युत ।
श्रीकृष्णानन्द564 गोविन्द संकर्षण नमो ऽस्तु ते ।
गत्वा तीर्थादिकं तत्र निक्षिप्य स्नानसाधनम् ॥ इति565566 ॥१५५॥
विधिनाचर्य मैत्रादिकृत्यं शौचं विधाय च567 ।
आचम्य खानि सम्मार्ज्य स्नानं कुर्यात् यथोचितम्568 ॥१५६॥
विधिनेति सर्वत्रान्वेति । मैत्रं पुरीषोत्सर्गस् तदादिकम् । खानि इन्द्रियच्छिद्राणि । यथोचितं वर्णाश्रमाद्यनुरूपम् । अत्र च प्रायो गृहस्थस्यैव लेख्यश्रीभगवत्पूजाविधियोग्यत्वात् तस्यैवायम् आचारो ज्ञेयः । अत एव श्री569विष्णुपुराणाद्युक्तानि प्रायो गृहिधर्मवचनान्य् एव लिखितानीति दिक् ॥१५६॥
अथ मैत्रादिकृत्यविधिः
श्रीविष्णुपुराणे570 और्वसगरसंवादे गृहिधर्मकथने—
ततः571 कल्ये समुत्थाय कुर्यान् मूत्रं572 नरेश्वर573 ।
नैरृत्याम् इषुविक्षेपम्574 अतीत्यात्यधिकं गृहात् ॥१५७॥
दूरादावसथान् मूत्रं पुरीषं च समुत्सृजेत् ।
पादावसेचनोच्छिष्टे प्रक्षिपेन् न575 गृहाङ्गणे ॥१५८॥
कल्ये ऊषसि । ग्रामस्य576 नैरृत्यां दिशि । तदसम्भवे स्वगृहाद् दूरे मूत्राद्युत्सर्गं कुर्यात् ॥१५७–१५८॥
आत्मच्छायां तरोश्577 छायां गोसूर्याग्न्यनिलांस् तथा578 ।
गुरुं द्विजादींश् च बुधो न मेहेत कदाचन ॥१५९॥
विश्वास-प्रस्तुतिः
गवादीन् गुरुं579 द्विजादींश् च प्रति तदभिमुखो न मेहेद् इत्य् अर्थः ॥१५९॥
न कृष्टे शस्यमध्ये वा गोव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु580 पुरुषर्षभ581 ॥१६०॥
नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् ।
उत्सर्गं वै582 पुरीषस्य मूत्रस्य च विसर्जनम्583 ॥१६१॥
उदङ्मुखो दिवोत्सर्गं विपरीतमुखो584 निशि ।
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव585 ॥१६२॥
तृणैर् आच्छाद्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥१६३॥
तथा586 कौर्मे व्यास587गीतायाम्—
निधाय588 दक्षिणे कर्णे ब्रह्मसूत्रम् उदङ्मुखः ।
अन्तर्धाप्य महीं काष्ठैः पत्रैर् लोष्ट्रैस् तृणेन वा589 ॥१६४॥
श्रीविष्णु590पूर्वत्वतः591 किञ्चिद् विशेषम् अपेक्ष्य श्री592कूर्मपुराण593काशीखण्डवचनानि लिखति निधायेत्यादि । तथेति गृहिधर्मकथन एवेत्य् अर्थः594 । एवम् अग्रे ऽपि सर्वम् ऊह्यम्595 ॥१६४॥
प्रावृत्य तु शिरः कुर्याद् विङ्मूत्रस्य विसर्जनम् ।
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर् गवाम् ।
न देवदेवालययोर्596 नावाम्597 अपि कदाचन ॥१६५॥
नदीं ज्योतींषि वीक्षित्वा न वाय्वभि598मुखो ऽपि वा ।
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं599 तथैव च ॥१६६॥
वीक्षित्वेत्य् आर्षं पश्यन्न् इत्य् अर्थः । प्रत्यादित्यम् इति तत्तदभिमुखः सन् न कुर्याद् इति पूर्ववद् अर्थः ॥१६६॥
काशीखाण्डे श्रीस्कन्दागस्त्यसंवादे—
Broo
On a cow etc. means that he should not pass urine facing them.[^FNB000340]
^(160–161)O bull of men! One must not void stool or urine in cultivated land, among grains, in a pasture or among people, on a path, at a passage across a river and so on, in water, at the waterside or in a crematorium. ¹⁶²O king, during the day one should evacuate facing the north; during night, the other way, unless there is an emergency. ¹⁶³A wise person first covers the ground with grass, then veils his head with his cloth and remains there not very long, saying nothing.
Likewise, in the Vyāsa Gītā of the Kūrma Purāṇa (2.13.34cd, 35cd–36ab, 41cd–42):[^FNB000341]
¹⁶⁴Having placed the sacred thread on the right ear, one should face north and cover the earth with sticks, leaves, clay or grass.
Following the Viṣṇu Purāṇa, the primary source, author now gives some specific details from the Kūrma Purāṇa and the Kāśīkhaṇḍa. Likewise means “within the description of the Dharma of the householder.” Thus everything should be considered further on as well.[^FNB000342]
¹⁶⁵Having covered one’s head, one should pass stool and urine. One should also[^FNB000343] never face women, the gurus or a Brāhmaṇa, cows, gods, temples or a ship, ¹⁶⁶look at a river or the stars, face the wind or a fire, face the sun, face fire[^FNB000344] or face the moon.
[…]
In a discussion between Skanda and Agastya in the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.54cd–55ab, 56, 58):
मूलम्
गवादीन् गुरुं579 द्विजादींश् च प्रति तदभिमुखो न मेहेद् इत्य् अर्थः ॥१५९॥
न कृष्टे शस्यमध्ये वा गोव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु580 पुरुषर्षभ581 ॥१६०॥
नाप्सु नैवाम्भसस् तीरे न श्मशाने समाचरेत् ।
उत्सर्गं वै582 पुरीषस्य मूत्रस्य च विसर्जनम्583 ॥१६१॥
उदङ्मुखो दिवोत्सर्गं विपरीतमुखो584 निशि ।
कुर्वीतानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव585 ॥१६२॥
तृणैर् आच्छाद्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन् नातिचिरं तत्र नैव किञ्चिद् उदीरयेत् ॥१६३॥
तथा586 कौर्मे व्यास587गीतायाम्—
निधाय588 दक्षिणे कर्णे ब्रह्मसूत्रम् उदङ्मुखः ।
अन्तर्धाप्य महीं काष्ठैः पत्रैर् लोष्ट्रैस् तृणेन वा589 ॥१६४॥
श्रीविष्णु590पूर्वत्वतः591 किञ्चिद् विशेषम् अपेक्ष्य श्री592कूर्मपुराण593काशीखण्डवचनानि लिखति निधायेत्यादि । तथेति गृहिधर्मकथन एवेत्य् अर्थः594 । एवम् अग्रे ऽपि सर्वम् ऊह्यम्595 ॥१६४॥
प्रावृत्य तु शिरः कुर्याद् विङ्मूत्रस्य विसर्जनम् ।
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर् गवाम् ।
न देवदेवालययोर्596 नावाम्597 अपि कदाचन ॥१६५॥
नदीं ज्योतींषि वीक्षित्वा न वाय्वभि598मुखो ऽपि वा ।
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं599 तथैव च ॥१६६॥
वीक्षित्वेत्य् आर्षं पश्यन्न् इत्य् अर्थः । प्रत्यादित्यम् इति तत्तदभिमुखः सन् न कुर्याद् इति पूर्ववद् अर्थः ॥१६६॥
काशीखाण्डे श्रीस्कन्दागस्त्यसंवादे—
विश्वास-प्रस्तुतिः
ततश् चावश्यकं कर्तुं नैरृतीं600 दिशम् आश्रयेत्601 ।
ग्रामाद् धनुःशतं गच्छेन् नगराच् च चतुर्गुणम् ॥१६७॥
कर्णोपवीत्युदग्वक्त्रो602 दिवसे सन्ध्ययोर् अपि ।
विन्मूत्रे विसृजेन् मौनी निशायां दक्षिणामुखः ॥१६८॥
नालोकयेद् दिशो भागान् ज्योतिश्चक्रं नभो ऽमलम्603 ।
वामेन पाणिना शिश्नं604 धृत्वो605त्तिष्ठेत् प्रयत्नवान् ॥१६९॥
तत्रैवाग्रे—
न मूत्रं गोव्रजे कुर्यान्606 न607 वल्मीके न भस्मनि ।
न गर्तेषु ससत्त्वेषु608 न तिष्ठन् न व्रजन्न् अपि609 ॥१७०॥
यथासुखमुखो रात्रौ दिवा छायान्धकारयोः ।
भीतिषु प्राणबाधायां कुर्यान् मलविसर्जनम् ॥१७१॥
अथ शौचविधिः
श्री610विष्णुपुराणे तत्रैव—
वल्मीकमूषिकोत्खातां611 मृदं नान्तर्जलात्612 तथा ।
शौचावशिष्टां गेहाच् च न दद्याल्613 लेपसम्भवाम् ॥१७२॥
अन्तःप्राण्यवपन्नां च हलोत्खातां614 च पार्थिव ।
परित्यजेन् मृदश्615 चैताः सकलाः शौचसाधने616 ॥१७३॥
लेपसम्भवां भित्तिगताम्617 । अन्तर् मध्ये प्राणिभिः कीटैर् अवपन्नाम् उपहताम् । पाठान्तरे अणुभिः सूक्ष्मैः प्राणिभिर् अवपन्नाम् ॥१७२–१७३॥
एका लिङ्गे गुदे तिस्रो दश वामकरे नृप ।
हस्तद्वये च सप्तान्या618 मृदः शौचोपपादिकाः ॥१७४॥
यमस्मृतौ—
तिस्रस् तु पादयोर् देयाः शुद्धिकामेन नित्यशः ॥१७५॥
Broo
¹⁶⁷Then, to perform one’s necessities, one should turn to the southwest. One should go one hundred Dhanus[^FNB000345] from a village and four times more from a city. ¹⁶⁸One should pass stool and urine silently and with the sacred thread on the ear, facing north in the daytime or at sunrise and sunset, and facing south at night. ¹⁶⁹One should not look around in the directions, a luminary or at the clear sky. Holding the penis with the left hand, one should then carefully stand up.
And further on in the same book (Skanda Purāṇa 4.35.50cd–51ab, 53cd–54ab):
¹⁷⁰One must not urinate in a pasture, on an anthill or on ashes, into the burrow of an animal or while standing or walking. ¹⁷¹But when one’s life is threatened in a dangerous situation, one may evacuate facing whatever direction one wants, during the night or the day, in the shadow or in darkness.
Rules for Cleansing
In the same place in the Viṣṇu Purāṇa (3.11.16–18):
¹⁷²One should not take clay from an anthill or a mouse hole, from under water, from the wall of a house or from the remains of cleansing. ¹⁷³O king, when it comes to cleansing, one must always reject clay that is infested by living beings or that comes from the furrow of a plough.
[…] Infested by living beings: in another reading, it says “covered by small beings”.
¹⁷⁴O king! For cleansing one should use one lump of clay for the penis, three for the anus, ten for the left hand and seven for both hands.
In the Yama Smṛti (–):[^FNB000346]
¹⁷⁵Desiring to become clean, one should always take three for the feet.
मूलम्
ततश् चावश्यकं कर्तुं नैरृतीं600 दिशम् आश्रयेत्601 ।
ग्रामाद् धनुःशतं गच्छेन् नगराच् च चतुर्गुणम् ॥१६७॥
कर्णोपवीत्युदग्वक्त्रो602 दिवसे सन्ध्ययोर् अपि ।
विन्मूत्रे विसृजेन् मौनी निशायां दक्षिणामुखः ॥१६८॥
नालोकयेद् दिशो भागान् ज्योतिश्चक्रं नभो ऽमलम्603 ।
वामेन पाणिना शिश्नं604 धृत्वो605त्तिष्ठेत् प्रयत्नवान् ॥१६९॥
तत्रैवाग्रे—
न मूत्रं गोव्रजे कुर्यान्606 न607 वल्मीके न भस्मनि ।
न गर्तेषु ससत्त्वेषु608 न तिष्ठन् न व्रजन्न् अपि609 ॥१७०॥
यथासुखमुखो रात्रौ दिवा छायान्धकारयोः ।
भीतिषु प्राणबाधायां कुर्यान् मलविसर्जनम् ॥१७१॥
अथ शौचविधिः
श्री610विष्णुपुराणे तत्रैव—
वल्मीकमूषिकोत्खातां611 मृदं नान्तर्जलात्612 तथा ।
शौचावशिष्टां गेहाच् च न दद्याल्613 लेपसम्भवाम् ॥१७२॥
अन्तःप्राण्यवपन्नां च हलोत्खातां614 च पार्थिव ।
परित्यजेन् मृदश्615 चैताः सकलाः शौचसाधने616 ॥१७३॥
लेपसम्भवां भित्तिगताम्617 । अन्तर् मध्ये प्राणिभिः कीटैर् अवपन्नाम् उपहताम् । पाठान्तरे अणुभिः सूक्ष्मैः प्राणिभिर् अवपन्नाम् ॥१७२–१७३॥
एका लिङ्गे गुदे तिस्रो दश वामकरे नृप ।
हस्तद्वये च सप्तान्या618 मृदः शौचोपपादिकाः ॥१७४॥
यमस्मृतौ—
तिस्रस् तु पादयोर् देयाः शुद्धिकामेन नित्यशः ॥१७५॥
विश्वास-प्रस्तुतिः
एवं मतभेदः सपादुकनिष्पादुकादिभेदेन कल्प्यः । पादयोर् इति प्रत्येकं तिस्र इति ज्ञेयम् ॥१७५॥
किं च—
तिस्रस् तु मृत्तिका देयाः कृत्वा तु619 नखशोधनम् ॥१७६॥
देया हस्तयोर् इति शेषः ॥१७६॥
गुह्ये दद्यान् मृदं चैकां622 पायौ623 पञ्चाम्बुसान्तराः624625 ।
दश वामकरे चापि सप्त पाणिद्वये मृदः ॥१७७॥
अम्बुसान्तराः मध्ये मध्ये जलसहिताः626 ॥१७७॥
एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः627 स्मृताः ।
इत्थं शौचं गृही कुर्याद् गन्धलेपक्षयावधि ॥१७८॥
क्रमाद् द्विगुणम् एतत् तु628 ब्रह्मचर्यादिषु त्रिषु ।
दिवाविहितशौचाच् च रात्राव् अर्धं समाचरेत् ॥१७९॥
रुजार्धं च तदर्धं च पथि चौरादि629630बाधिते631 ।
तदर्धं योषितां चापि632 स्वास्थ्ये न्यूनं न कारयेत् ।
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ॥१८०॥
शङ्खस्मृतौ—
मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते633 यया ॥१८१॥
त्रिपर्वी मध्यवर्त्यङ्गुलित्रयस्यादिपर्वत्रयम् । एषा च गुद634व्यतिरिक्ते ज्ञेया ॥१८१॥
Broo
This difference of opinion [with 3.178 below] should be understood to pertain to the difference between feet in sandals and feet without sandals. For the feet: one should understand that it means three for each foot.
And also:
¹⁷⁶After one has cleaned one’s nails, one should take three lumps of clay.
“For the hands” should be supplied to one should take.
In the same place of the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.60–63, 65ab):
¹⁷⁷One should, with water in between, take one lump of clay for the penis, five for the anus, ten for the left hand and seven for both hands.
With water in between means that one should use water between each lump of clay.
¹⁷⁸One should take one for each foot; three are prescribed for the hands. Thus does the householder clean himself until he has removed all foul smell and dirt. ¹⁷⁹This is sucessively doubled for the Brahmacārins and so on.[^FNB000347] If one has not cleansed oneself during the day, one should do one half at night. ¹⁸⁰If one is ill; also one half. If one is on a road harrassed threatened by robbers, one half of that. One half of that also for women. If one is healthy, one should not do less. When it comes to cleansing, one lump of clay is declared to be the size of a fresh gooseberry (Amla, Emblica Officinalis).
In the Śaṅkha Smṛti (16.24cd):[^FNB000348]
¹⁸¹A lump of clay is known to cover three parts.
Three parts: the three first parts of the three midmost fingers. The lump for the anus should be understood to be an exception to this.
मूलम्
एवं मतभेदः सपादुकनिष्पादुकादिभेदेन कल्प्यः । पादयोर् इति प्रत्येकं तिस्र इति ज्ञेयम् ॥१७५॥
किं च—
तिस्रस् तु मृत्तिका देयाः कृत्वा तु619 नखशोधनम् ॥१७६॥
देया हस्तयोर् इति शेषः ॥१७६॥
गुह्ये दद्यान् मृदं चैकां622 पायौ623 पञ्चाम्बुसान्तराः624625 ।
दश वामकरे चापि सप्त पाणिद्वये मृदः ॥१७७॥
अम्बुसान्तराः मध्ये मध्ये जलसहिताः626 ॥१७७॥
एकैकां पादयोर् दद्यात् तिस्रः पाण्योर् मृदः627 स्मृताः ।
इत्थं शौचं गृही कुर्याद् गन्धलेपक्षयावधि ॥१७८॥
क्रमाद् द्विगुणम् एतत् तु628 ब्रह्मचर्यादिषु त्रिषु ।
दिवाविहितशौचाच् च रात्राव् अर्धं समाचरेत् ॥१७९॥
रुजार्धं च तदर्धं च पथि चौरादि629630बाधिते631 ।
तदर्धं योषितां चापि632 स्वास्थ्ये न्यूनं न कारयेत् ।
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ॥१८०॥
शङ्खस्मृतौ—
मृत्तिका तु समुद्दिष्टा त्रिपर्वी पूर्यते633 यया ॥१८१॥
त्रिपर्वी मध्यवर्त्यङ्गुलित्रयस्यादिपर्वत्रयम् । एषा च गुद634व्यतिरिक्ते ज्ञेया ॥१८१॥
विश्वास-प्रस्तुतिः
दक्षस्मृतौ—635
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च636 तृतीया च637 तदर्धं परिकीर्तिता ॥१८२॥
अत एव लिखति अर्धेति । प्रथमा गुदे देयानाम् आद्या ॥१८२॥
अथ केवलमूत्रोत्सर्गे
दक्षः—
एका लिङ्गे तु सव्ये त्रिर्638 उभयोर् मृद्द्वयं स्मृतम् ॥१८३॥
सव्ये हस्ते । उभयोर् हस्तयोः639 ॥१८३॥
ब्राह्मे—
पादयोर् द्वे गृहीत्वा च सुप्रक्षालितपाणिना ।
आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥१८४॥
अथाचमणविधिः
श्री640विष्णुपुराणे तत्रैव—
अच्छेनागन्धफेनेन641 जलेनाबुद्बुदेन च ।
आचामेत मृदं भूयस् तथादद्यात् समाहितः ॥१८५॥
निष्पादिताङ्घ्रिशौचस् तु पादाव् अभ्युक्ष्य वै पुनः ।
त्रिः पिबेत् सलिलं तेन तथा642 द्विः परिमार्जयेत् ॥१८६॥
शीर्षण्यानि ततः खानि643644 मूर्धानं च नृपा645लभेत् ।
बाहू646 नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥१८७॥
आचामेत्य् आचमनं प्रस्तुत्य647 तस्य पूर्वाङ्गम् आह मृदम् इति । अन्यां मृदम् आदद्यात् । तथा648 च निष्पादितम् अङ्घ्रिशौचं येन सः । यद् वा,649 भूयो ऽन्यां मृदं दद्यात्
Broo
In the Dakṣa Smṛti (5.7):
¹⁸²The first lump of clay should be half the size, the second and third one half of that.
Now the author describes this [exception mentioned above]. The first: the first for washing the anus.
When Only Passing Urine
In the Dakṣa Smṛti (–):[^FNB000349]
¹⁸³One lump of clay is prescribed for the penis, three for the left and two for both.
The left: the left hand. Both: both hands.
In the Brahma Purāṇa (–):
¹⁸⁴Having taken two for the feet, one should with a well-washed hand perform Ācamana. Remembering the eternal Viṣṇu, one is then clean.
Rules for Ācamana
In the same place of the Viṣṇu Purāṇa (3.11.19–21):
¹⁸⁵One should perform Ācamana with clear, odour- and frothless water without bubbles. Carefully one should then take accept some clay. ¹⁸⁶After one has cleansed one’s feet, one should again wash the feet. One should drink water thrice and then wash twice. ¹⁸⁷One should then touch the apertures of the head and the head itself with clay, O king. One should also touch the arms, the navel and the heart with water.
One should perform Ācamana: introducing Ācamana, the author here describes its first part, that one should take another piece of clay. […] Or else, one should supply “one should again apply another piece of clay to the feet”
मूलम्
दक्षस्मृतौ—635
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च636 तृतीया च637 तदर्धं परिकीर्तिता ॥१८२॥
अत एव लिखति अर्धेति । प्रथमा गुदे देयानाम् आद्या ॥१८२॥
अथ केवलमूत्रोत्सर्गे
दक्षः—
एका लिङ्गे तु सव्ये त्रिर्638 उभयोर् मृद्द्वयं स्मृतम् ॥१८३॥
सव्ये हस्ते । उभयोर् हस्तयोः639 ॥१८३॥
ब्राह्मे—
पादयोर् द्वे गृहीत्वा च सुप्रक्षालितपाणिना ।
आचम्य तु ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥१८४॥
अथाचमणविधिः
श्री640विष्णुपुराणे तत्रैव—
अच्छेनागन्धफेनेन641 जलेनाबुद्बुदेन च ।
आचामेत मृदं भूयस् तथादद्यात् समाहितः ॥१८५॥
निष्पादिताङ्घ्रिशौचस् तु पादाव् अभ्युक्ष्य वै पुनः ।
त्रिः पिबेत् सलिलं तेन तथा642 द्विः परिमार्जयेत् ॥१८६॥
शीर्षण्यानि ततः खानि643644 मूर्धानं च नृपा645लभेत् ।
बाहू646 नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥१८७॥
आचामेत्य् आचमनं प्रस्तुत्य647 तस्य पूर्वाङ्गम् आह मृदम् इति । अन्यां मृदम् आदद्यात् । तथा648 च निष्पादितम् अङ्घ्रिशौचं येन सः । यद् वा,649 भूयो ऽन्यां मृदं दद्यात्
विश्वास-प्रस्तुतिः
पादयोर् इति शेषः । ततश् चाचामेद् इत्य् अर्थः । तेन पादाभ्युक्षणत्रिःपानशेषसलिलेन द्विः परिमार्जयेन् मुखम् इति शेषः । आलभेत् स्पृशेत् । असञ्जपन्न् इति पाठे मौनी भूत्वेत्य् अर्थः650 ॥१८५–१८७॥
अत्र651 च652 विशेषो दक्षेणोक्तः—
प्रक्षाल्य हस्तौ653 पादौ654655 च त्रिः पिबेद् अम्बु वीक्षितम् ।
संवृत्ताङ्गुष्ठ656मूलेन द्विः प्रमृज्यात् ततो मुखम् ॥१८८॥
संहत्य तिसृभिः657 पूर्वम् आस्यं तु समुपस्पृशेत्658 ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥१८९॥
अङ्गुष्ठानामिकाभ्यां तु659 चक्षुःश्रोत्रे660 पुनः पुनः ।
कनिष्ठाङ्गुष्ठयोर्661 नाभिं662 हृदयं तु तलेन वै ।
सर्वाभिस् तु663 शिरः पश्चाद् बाहू चाग्रेण664 संस्पृशेत् ॥१९०॥
तथा665 काशीखण्डे तत्रैव—
प्रागास्य उदगास्यो वा सूपविष्टः666 शुचौ भुवि ।
उपस्पृशेद्667 विहीनायां तुषाङ्गारास्थिभस्मभिः ॥१९१॥
अनुष्णाभिर्668 अफेनाभिर् अद्भिर् हृद्गाभिर्669 अत्वरः670 ।
ब्राह्मणो ब्रह्मतीर्थेन671 दृष्टिपूताभिर् आचमेत्672 ॥१९२॥
कण्ठगाभिर् नृपः शुध्येत् तालुगाभिस्673 तथोरुजः ।
स्त्रीशूद्राव् आस्यसंस्पर्शमात्रेणापि विसुध्यतः674 ॥१९३॥
याज्ञवल्क्यस्मृतौ—675
Broo
after hands.[^FNB000350] The meaning is that one should perform Ācamana also after that. With the water that remains after sprinkling the feet and drinking thrice, one should wash twice—here one should supply “the mouth”. […]. In another reading, it is said that one should be “uncommunicative”, meaning that one should remain silent.
Here, specifics are given in a statement by Dakṣa (2.14–15ab, 16–17):[^FNB000351]
¹⁸⁸Having washed hands and feet, one should look at water and drink thrice. With the base of the outstretched thumb, one should then wipe the mouth twice. ¹⁸⁹With three joined fingers, one should first touch the mouth; then immediately after that, with the thumb and forefinger, the nose; ¹⁹⁰with thumb and ring finger, eyes and ears, one after the other; with the thumb and little finger, the navel, and with the palm, the heart. With all [of the fingers] one should then touch the head and with their tips, the arms.
Also, in the same place of the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.66–68):
¹⁹¹Facing the east or the north, sitting properly on clean ground, free from chaff, charcoal, bones or ashes, one should calmly perform Ācamana with ¹⁹²cool water, free from foam, touched to the heart. A Brāhmaṇa should perform Ācamana with water purified by the sight at the Brahmatīrtha.[^FNB000352] ¹⁹³A Kṣatriya is purified by water touched to the throat, a Vaiśya by water touched to the palate, and women and Śūdras are purified by touching water to the mouth.
In the Yājñavalkya Smṛti (–):
¹⁹⁴A Brāhmaṇa should not perform Ācamana with the water left over from washing the feet. If one must do Ācamana [with this water], Baudhāyana says that one should spill it on the ground.
मूलम्
पादयोर् इति शेषः । ततश् चाचामेद् इत्य् अर्थः । तेन पादाभ्युक्षणत्रिःपानशेषसलिलेन द्विः परिमार्जयेन् मुखम् इति शेषः । आलभेत् स्पृशेत् । असञ्जपन्न् इति पाठे मौनी भूत्वेत्य् अर्थः650 ॥१८५–१८७॥
अत्र651 च652 विशेषो दक्षेणोक्तः—
प्रक्षाल्य हस्तौ653 पादौ654655 च त्रिः पिबेद् अम्बु वीक्षितम् ।
संवृत्ताङ्गुष्ठ656मूलेन द्विः प्रमृज्यात् ततो मुखम् ॥१८८॥
संहत्य तिसृभिः657 पूर्वम् आस्यं तु समुपस्पृशेत्658 ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चाद् अनन्तरम् ॥१८९॥
अङ्गुष्ठानामिकाभ्यां तु659 चक्षुःश्रोत्रे660 पुनः पुनः ।
कनिष्ठाङ्गुष्ठयोर्661 नाभिं662 हृदयं तु तलेन वै ।
सर्वाभिस् तु663 शिरः पश्चाद् बाहू चाग्रेण664 संस्पृशेत् ॥१९०॥
तथा665 काशीखण्डे तत्रैव—
प्रागास्य उदगास्यो वा सूपविष्टः666 शुचौ भुवि ।
उपस्पृशेद्667 विहीनायां तुषाङ्गारास्थिभस्मभिः ॥१९१॥
अनुष्णाभिर्668 अफेनाभिर् अद्भिर् हृद्गाभिर्669 अत्वरः670 ।
ब्राह्मणो ब्रह्मतीर्थेन671 दृष्टिपूताभिर् आचमेत्672 ॥१९२॥
कण्ठगाभिर् नृपः शुध्येत् तालुगाभिस्673 तथोरुजः ।
स्त्रीशूद्राव् आस्यसंस्पर्शमात्रेणापि विसुध्यतः674 ॥१९३॥
याज्ञवल्क्यस्मृतौ—675
विश्वास-प्रस्तुतिः
भूमौ स्रावयित्वा किञ्चिद् वारि प्रक्षिप्य ॥१९४॥
भरद्वाज680स्मृतौ—
पाणिना दक्षिणेनैव संहता681ङ्गुलिनाचमेत् ।
मुक्ताङ्गुष्ठकनिष्ठेन नखस्पृष्टा अपस् त्यजेत्682 ॥१९५॥
कौर्मे च व्यास683गीतायाम्—
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे684 ।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय685 च ॥१९६॥
रेतोमूत्रपुरीषाणाम् उत्सर्गे ऽनृत686भाषणे ।
ष्ठीवित्वाध्ययनारम्भे काशश्वासागमे तथा ॥१९७॥
चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः687 ।
सन्ध्ययोर् उभयोस् तद्वद् आचान्तो ऽप्य् आचमेत् पुनः ॥१९८॥
समभ्यस्य688 परिभ्रमणेन सम्यक् स्पृष्ट्वा इत्य् अर्थः ॥१९८॥
किं च—
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा ।
अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥१९९॥
पादयोः शौचम् अकृत्वेति भोजनपानशयनादौ पादयोर् अशुद्ध्यभावे ऽप्य् आचमनसाङ्गतार्थं शौचम् उक्तम् ॥१९९॥
सोपानत्कौ जलस्थो वा नोष्णीषी689 चाचमेद् बुधः ।
न चैव वर्षधाराभिर् हस्तोच्छिष्टे तथा बुधः690 ॥२००॥
हस्ते उच्छिष्टे सति सन्धिर् आर्षः ॥२००॥
नैकहस्तार्पितजलैर् विना सूत्रेण691 वा पुनः ।
न पादुकासनस्थो वा बहिर्जानुर् अथापि वा ॥२०१॥
Broo
Spill it on the ground means that one should sprinkle some water there.
In the Bharadvāja Smṛti (–):
¹⁹⁵One should perform Ācamana with the right hand, with the fingers joined, without using thumb or little finger. Water that has touched the nails should be rejected.
In the Vyāsa Gītā of the Kūrma Purāṇa (2.13.1–3):
^(196–198)Before commencing reading, after eating, drinking, sleeping, bathing, travelling in a chariot, touching hairless lips, changing clothes, passing semen, urine or stool, speaking an untruth, spitting, a fit of coughs, practising at a crossroads or a crematorium, at sunrise and sunset—at these times the best of Brāhmaṇas should perform Ācamana, even had he done so before.[^FNB000353]
Practising means having touched it completely by wandering over it.[^FNB000354]
And furthermore (Kūrma Purāṇa 2.13.9cd–12ab):
¹⁹⁹If one covers the head or the neck, keeps the tuft of hair or his cloth untied or has not purified the feet, one remains unclean even if one has performed Ācamana.
Has not purified the feet: even though the feet are not impure at eating, drinking, lying down and so on, purification is mentioned to subordinate it to Ācamana.
²⁰⁰A wise person will not perform Ācamana wearing shoes, in water, or when wearing a turban, nor will a wise person do so with rainwater, with a contaminated hand, ²⁰¹with water given with one hand, without the sacred thread, standing in a place for shoes or with his knees exposed.
[…]
मूलम्
भूमौ स्रावयित्वा किञ्चिद् वारि प्रक्षिप्य ॥१९४॥
भरद्वाज680स्मृतौ—
पाणिना दक्षिणेनैव संहता681ङ्गुलिनाचमेत् ।
मुक्ताङ्गुष्ठकनिष्ठेन नखस्पृष्टा अपस् त्यजेत्682 ॥१९५॥
कौर्मे च व्यास683गीतायाम्—
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे684 ।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय685 च ॥१९६॥
रेतोमूत्रपुरीषाणाम् उत्सर्गे ऽनृत686भाषणे ।
ष्ठीवित्वाध्ययनारम्भे काशश्वासागमे तथा ॥१९७॥
चत्वरं वा श्मशानं वा समभ्यस्य द्विजोत्तमः687 ।
सन्ध्ययोर् उभयोस् तद्वद् आचान्तो ऽप्य् आचमेत् पुनः ॥१९८॥
समभ्यस्य688 परिभ्रमणेन सम्यक् स्पृष्ट्वा इत्य् अर्थः ॥१९८॥
किं च—
शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखो ऽपि वा ।
अकृत्वा पादयोः शौचम् आचान्तो ऽप्य् अशुचिर् भवेत् ॥१९९॥
पादयोः शौचम् अकृत्वेति भोजनपानशयनादौ पादयोर् अशुद्ध्यभावे ऽप्य् आचमनसाङ्गतार्थं शौचम् उक्तम् ॥१९९॥
सोपानत्कौ जलस्थो वा नोष्णीषी689 चाचमेद् बुधः ।
न चैव वर्षधाराभिर् हस्तोच्छिष्टे तथा बुधः690 ॥२००॥
हस्ते उच्छिष्टे सति सन्धिर् आर्षः ॥२००॥
नैकहस्तार्पितजलैर् विना सूत्रेण691 वा पुनः ।
न पादुकासनस्थो वा बहिर्जानुर् अथापि वा ॥२०१॥
विश्वास-प्रस्तुतिः
अथ वैष्णवाचमनम्
त्रिःपाने692 केशवं नारायणं माधवम् अप्य् अथ ।
प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ ॥२०२॥
मधुसूदनम् एकं च मार्जने ऽन्यं त्रिविक्रमम् ॥२०३॥
उन्मार्जने ऽप्य् अधरयोर् वामनश्रीधराव् उभौ ॥२०४॥
प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः ।
पद्मनाभं प्रोक्षणे तु मूर्ध्नो693 दामोदरं ततः ॥२०५॥
वासुदेवं मुखे संकर्षणं प्रद्युम्नम् इत्य् उभौ ।
नासयोर् नेत्रयुगले ऽनिरुद्धं पुरुषोत्तमम् ।
अधोक्षजं नृसिंहं च कर्णयोर्694 नाभितो ऽच्युतम् ॥२०६॥
जनार्दनं च हृदये उपेन्द्रं मस्तके ततः ।
दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि ।
नमोऽनन्तं च चतुर्थ्यन्तम् आचामेत् क्रमतो जपन् ॥२०७॥
अशक्तः केवलं दक्षं स्पृशेत् कर्णं तथा च वाक्695696 ।
कुर्वीतालभनं वापि दक्षिणश्रवणस्य वै ॥२०८॥
तत्र लिखिताचमनविधौ श्रीभगवन्नामजपेन किञ्चिद्697 विशेषं तान्त्रिकसम्मतं लिखति त्रिःपाणे इत्यादि षड्भिः । त्रिःपानादौ केशवादिकं कृष्णान्तं चतुर्विंशतिसंख्यकं698 श्रीभगवन्नाम नमोऽन्तं चतुर्थ्यन्तं च केशवाय नम इत्यादि प्रयोगेन क्रमाज् जपन् सन्699 यथाविधि आचमनं कुर्याद् इति सर्वैर् अन्वयः । त्रिःपाने वारत्रयजलाचमने केशवादित्रयम्700 । परतो701 ऽपिशब्दाद् अधरयोर् मार्जन इति ज्ञेयम् । उभाव् इति पुंस्त्वं संज्ञासंज्ञिनोर् अत्राभेद702विवक्षया । नारायणो नाम नरो नराणाम्703 इत्यादिवत् । मधुसूदनम् एकम् अन्यम् च त्रिविक्रमम् इत्य् उभाव् इत्य् अर्थः704705 । पाण्योर् द्वयोः प्रक्षालने, हृषीकेशम् एकम् एव । पादयोश् च706 प्रक्षालने पद्मनाभम् एकम्, अतस्707 तदनन्तरं मूर्ध्नः प्रोक्षणे दामोदरम् एकम् । नासयोस् तु द्वयोः संकर्षणं प्रद्युम्नं चेति द्वौ । नाभितः नाभौ । यथाविधीति । पूर्वलिखिताचमनविध्यनुसारेण, त्रिःपानप्रकारः मार्जनादाव् अङ्गुलिनियमश् च, तथा ओष्ठमार्जनम् ऊर्ध्वोष्ठक्रमेण नासादिस्पर्शश् च, दक्षिणक्रमेणेत्यादिप्रकारश् च सदाचारतो ज्ञेय इत्य् अर्थः । तथा चागमतः श्रीरामार्चनचन्द्रिकायाम् । केशवाद्यैस् त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ । द्वाभ्याम् ओष्ठौ च सम्मार्ज्य द्वाभ्याम् उन्मार्जनं तथा ॥ एकेन हस्तौ प्रक्षाल्य पादाव् अपि तथैकतः । सम्-
Broo
Vaiṣṇava Ācamana
²⁰²At three sippings, Keśava, Nārāyaṇa and Mādhava; at the washing of the hands, Govinda and Viṣṇu; ²⁰³At the first wiping, Madhusūdana; at the other, Trivikrama; ²⁰⁴When wiping the lips, both Vāmana and Śrīdhara;…
Now, in describing the rules for Ācamana with the recitation of the Lord’s names, the author in verses202–207 gives some details following the Tāntrikas. One should properly perform Ācamana by reciting at the time of the three sippings, etc., the twenty-four names of the Lord that begin with Keśava and end with Kṛṣṇa, one after the other, in the dative case and ending with
NAMAḤ, such as
KEŚAVĀYA NAMAḤ. This is the syntax in all these verses. One should recite the three names beginning with Keśava at three sippings, while doing Ācamana with water three times. […]
²⁰⁵When again washing the hands, Hṛṣīkeśa; when the feet, Padmanābha; then, when sprinkling the head, Dāmodara;…
When washing both hands, one should recite only Hṛṣīkeśa, and when washing the feet, only Padmanābha, and, after that, when sprinkling the head, only Dāmodara.
²⁰⁶Vāsudeva at the mouth; both Saṃkarṣaṇa and Pradyumna at the nostrils; Aniruddha and Puruṣottama at the eyes; Adhokṣaja and Nṛsiṃha at the ears; Acyuta at the navel; ²⁰⁷Janārdana at the heart; Upendra then at the head; Hari at the right arm; Kṛṣṇa at the left. Reciting these names in the dative case and adding
NAMAḤ, one should thus properly perform Ācamana.
[…] Properly means following the rules for Ācamana given before. The meaning is that one should learn from those who follow Sadācāra the way of sipping water three times, the specific fingers to be used when wiping, how one should wipe the lips beginning with the upper lip, and how one should begin with the right when touching the nostrils and so on. And also from the scriptures. In the Rāmārcanacandrikā (p.43): “One should sip with the three names of Keśava and so on, wash the hands with two, wipe the lips with two, wipe off with two, wash the hands with one, then also the feet with one, sprinkle the head with one, and then touch the mouth, nostrils,
मूलम्
अथ वैष्णवाचमनम्
त्रिःपाने692 केशवं नारायणं माधवम् अप्य् अथ ।
प्रक्षालने द्वयोः पाण्योर् गोविन्दं विष्णुम् अप्य् उभौ ॥२०२॥
मधुसूदनम् एकं च मार्जने ऽन्यं त्रिविक्रमम् ॥२०३॥
उन्मार्जने ऽप्य् अधरयोर् वामनश्रीधराव् उभौ ॥२०४॥
प्रक्षालने पुनः पाण्योर् हृषीकेशं च पादयोः ।
पद्मनाभं प्रोक्षणे तु मूर्ध्नो693 दामोदरं ततः ॥२०५॥
वासुदेवं मुखे संकर्षणं प्रद्युम्नम् इत्य् उभौ ।
नासयोर् नेत्रयुगले ऽनिरुद्धं पुरुषोत्तमम् ।
अधोक्षजं नृसिंहं च कर्णयोर्694 नाभितो ऽच्युतम् ॥२०६॥
जनार्दनं च हृदये उपेन्द्रं मस्तके ततः ।
दक्षिणे तु हरिं बाहौ वामे कृष्णं यथाविधि ।
नमोऽनन्तं च चतुर्थ्यन्तम् आचामेत् क्रमतो जपन् ॥२०७॥
अशक्तः केवलं दक्षं स्पृशेत् कर्णं तथा च वाक्695696 ।
कुर्वीतालभनं वापि दक्षिणश्रवणस्य वै ॥२०८॥
तत्र लिखिताचमनविधौ श्रीभगवन्नामजपेन किञ्चिद्697 विशेषं तान्त्रिकसम्मतं लिखति त्रिःपाणे इत्यादि षड्भिः । त्रिःपानादौ केशवादिकं कृष्णान्तं चतुर्विंशतिसंख्यकं698 श्रीभगवन्नाम नमोऽन्तं चतुर्थ्यन्तं च केशवाय नम इत्यादि प्रयोगेन क्रमाज् जपन् सन्699 यथाविधि आचमनं कुर्याद् इति सर्वैर् अन्वयः । त्रिःपाने वारत्रयजलाचमने केशवादित्रयम्700 । परतो701 ऽपिशब्दाद् अधरयोर् मार्जन इति ज्ञेयम् । उभाव् इति पुंस्त्वं संज्ञासंज्ञिनोर् अत्राभेद702विवक्षया । नारायणो नाम नरो नराणाम्703 इत्यादिवत् । मधुसूदनम् एकम् अन्यम् च त्रिविक्रमम् इत्य् उभाव् इत्य् अर्थः704705 । पाण्योर् द्वयोः प्रक्षालने, हृषीकेशम् एकम् एव । पादयोश् च706 प्रक्षालने पद्मनाभम् एकम्, अतस्707 तदनन्तरं मूर्ध्नः प्रोक्षणे दामोदरम् एकम् । नासयोस् तु द्वयोः संकर्षणं प्रद्युम्नं चेति द्वौ । नाभितः नाभौ । यथाविधीति । पूर्वलिखिताचमनविध्यनुसारेण, त्रिःपानप्रकारः मार्जनादाव् अङ्गुलिनियमश् च, तथा ओष्ठमार्जनम् ऊर्ध्वोष्ठक्रमेण नासादिस्पर्शश् च, दक्षिणक्रमेणेत्यादिप्रकारश् च सदाचारतो ज्ञेय इत्य् अर्थः । तथा चागमतः श्रीरामार्चनचन्द्रिकायाम् । केशवाद्यैस् त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ । द्वाभ्याम् ओष्ठौ च सम्मार्ज्य द्वाभ्याम् उन्मार्जनं तथा ॥ एकेन हस्तौ प्रक्षाल्य पादाव् अपि तथैकतः । सम्-
विश्वास-प्रस्तुतिः
प्रोक्ष्यैकेन मूर्धानं ततः संकर्षणादिभिः ॥ आस्यं नासाक्षिकर्णांश् च नाभ्युरःकम्बुजे708 स्पृशेत् । एवम् आचमनं कृत्वा साक्षान् नारायणो भवेत् ॥ केशवनारायणमाधवगोविन्दविष्णु709मधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदरवासुदेवसंकर्षण710प्रद्युम्नानिरुद्धपुरुषोत्तमाधोक्षजनृसिं-हाच्युतजनार्दनोपेन्द्रहरिकृष्ण711भगवन्नामभिर्712 एभिश् चतुर्थ्यन्तैर् नमोऽन्तकैर् इत्यादि । इन्द्रियच्छिद्रादिमार्जने च स्मृत्युक्तम् अशक्त्याद्यपेक्षया713 पक्षान्तरं लिखति अशक्त इति । रोगादिना असमर्थश् चेत् तर्हि केवलं दक्षं714 दक्षिण715कर्णं716 स्पृशेत् । ननु तत्र किं प्रमाणम्? तत्र लिखति तथा च717 वाग् इति । यतस् तथैव वचनम् अस्तीत्य् अर्थः । ताम् एव मार्कण्डेयपुराणे श्री718मदालसोक्तां लिखति कुर्वीतेति । आलभनं स्पर्शनम् । वै प्रसिद्धौ । तच् च स्मृतिपुराणादिवत् सुप्रसिद्धम् एवेत्य् अर्थः । केचिच् च त्रिर् जलाचमनाशक्ताव् अपि पक्षम् एतं मन्यन्ते । तत्र च जलाद्यसम्भवे ऽपि, एतच् च केवलम् इत्य् अनेनापि सूचितम् । तच् च तत्रैवोक्तम्719 । यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् इति । अस्यार्थः विभवः सामर्थ्यादिः । पूर्वोक्त720त्रिराचमनासम्भवे ततो ऽनन्तरम् उक्तं दक्षिणकर्णालभनादिकं कार्यं, नान्यद् इत्य् अर्थः ॥२०२–२०८॥
अथ दन्तधावनविधिः
तत्र कात्यायनः—721
उत्थाय नेत्रे722 प्रक्षाल्य723 शुचिर् भूत्वा समाहितः ।
परिजप्य च मन्त्रेण भक्षयेद् दन्तधावनम् ॥२०९॥
श्रीभगवत्पूजानिरताः शयनाद् उत्थायैव दन्तधावनम् आचरेयुर् इति पूर्वं लिखितम् । अधुना शौचवर्ग724विधिप्रसङ्गे तद्विधिर् लिख्यते । उत्थायेत्यादिना प्रक्षाल्य725 मार्जनादिना726 नेत्रे727 उन्मील्य । एवं च728 प्रातःकृत्यम् एवेदं व्यक्तम् । तथा च व्यासः । शुद्ध्यर्थं प्रातर् उत्थाय भक्षयेद् दन्तधावनम् । इति । अशक्तौ च स्नानकाले
Broo
eyes, ears, navel, chest and shoulders with Saṃkarṣaṇa and so on. One would does Ācamana in this way becomes Nārāyana himself!”
With these twenty-four names of the Lord, in the dative case and adding
NAMAḤ: Keśava, Nārāyaṇa, Mādhava, Govinda, Viṣṇu, Madhusūdana, Trivikrama, Vāmana, Śrīdhara, Hṛṣīkeśa, Padmanābha, Dāmodara, Vāsudeva, Saṃkarṣaṇa, Pradyumna, Aniruddha, Puruṣottama, Adhokṣaja, Nṛsiṃha, Acyuta, Janārdana, Upendra, Hari and Kṛṣṇa. And so on.
²⁰⁸If unable, one should just touch the right ear, because of the statement “one should certainly touch the right ear.”
In this verse, the author now gives an alternative from the Smṛti for those unable to perform the purification of the sensory apertures and so on. If one because of illness or the like is unable, one should just touch the right, one’s own right, ear. Now, what is the evidence for this? That the author gives with the phrase because of the statement […]. The statement one should certainly touch the right ear is given by Ālasa in the Mārkaṇḍeya Purāṇa (31.72ab). […] Certainly is used for emphasis, the meaning being that this is well-known, like the Smṛtis and Purāṇas.
And some consider this to be intended as an alternative when one is unable to do three Ācamanas with water. That includes also being without water, something that is hinted at by the word just. This is also said in the rest of the quoted verse (Mārkaṇḍeya Purāṇa 31.72cd): “For as this is according to resources, it is better than the absence of the previous”. […] The meaning of this statement is that when is unable to perform the previously mentioned three Ācamanas, one should touch the right ear and so on as described directly afterwards, not otherwise. This is the meaning.
Rules for Brushing the Teeth
In the Kātyāyana Smṛti (10.3):
²⁰⁹After arising, one should wash the eyes to become clean. Composedly, one should recite the mantra and bite the tooth-twig.
It was previously written that those who are devoted to the worship of the Lord should brush their teeth after getting up from bed (3.20). Now, in connection with the rules for the divisions of cleansing, the author gives the rules for brushing the teeth. After arising and so on, one should wash, cleanse oneself and wipe the eyes. This will similarly be explained with regard to the
मूलम्
प्रोक्ष्यैकेन मूर्धानं ततः संकर्षणादिभिः ॥ आस्यं नासाक्षिकर्णांश् च नाभ्युरःकम्बुजे708 स्पृशेत् । एवम् आचमनं कृत्वा साक्षान् नारायणो भवेत् ॥ केशवनारायणमाधवगोविन्दविष्णु709मधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेशपद्मनाभदामोदरवासुदेवसंकर्षण710प्रद्युम्नानिरुद्धपुरुषोत्तमाधोक्षजनृसिं-हाच्युतजनार्दनोपेन्द्रहरिकृष्ण711भगवन्नामभिर्712 एभिश् चतुर्थ्यन्तैर् नमोऽन्तकैर् इत्यादि । इन्द्रियच्छिद्रादिमार्जने च स्मृत्युक्तम् अशक्त्याद्यपेक्षया713 पक्षान्तरं लिखति अशक्त इति । रोगादिना असमर्थश् चेत् तर्हि केवलं दक्षं714 दक्षिण715कर्णं716 स्पृशेत् । ननु तत्र किं प्रमाणम्? तत्र लिखति तथा च717 वाग् इति । यतस् तथैव वचनम् अस्तीत्य् अर्थः । ताम् एव मार्कण्डेयपुराणे श्री718मदालसोक्तां लिखति कुर्वीतेति । आलभनं स्पर्शनम् । वै प्रसिद्धौ । तच् च स्मृतिपुराणादिवत् सुप्रसिद्धम् एवेत्य् अर्थः । केचिच् च त्रिर् जलाचमनाशक्ताव् अपि पक्षम् एतं मन्यन्ते । तत्र च जलाद्यसम्भवे ऽपि, एतच् च केवलम् इत्य् अनेनापि सूचितम् । तच् च तत्रैवोक्तम्719 । यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम् इति । अस्यार्थः विभवः सामर्थ्यादिः । पूर्वोक्त720त्रिराचमनासम्भवे ततो ऽनन्तरम् उक्तं दक्षिणकर्णालभनादिकं कार्यं, नान्यद् इत्य् अर्थः ॥२०२–२०८॥
अथ दन्तधावनविधिः
तत्र कात्यायनः—721
उत्थाय नेत्रे722 प्रक्षाल्य723 शुचिर् भूत्वा समाहितः ।
परिजप्य च मन्त्रेण भक्षयेद् दन्तधावनम् ॥२०९॥
श्रीभगवत्पूजानिरताः शयनाद् उत्थायैव दन्तधावनम् आचरेयुर् इति पूर्वं लिखितम् । अधुना शौचवर्ग724विधिप्रसङ्गे तद्विधिर् लिख्यते । उत्थायेत्यादिना प्रक्षाल्य725 मार्जनादिना726 नेत्रे727 उन्मील्य । एवं च728 प्रातःकृत्यम् एवेदं व्यक्तम् । तथा च व्यासः । शुद्ध्यर्थं प्रातर् उत्थाय भक्षयेद् दन्तधावनम् । इति । अशक्तौ च स्नानकाले
विश्वास-प्रस्तुतिः
ऽपि दन्तधावनं729 न दोषावहम् । विरक्तानां सतां केषाञ्चित् तादृशाचारदर्शनात् । अत एव कौर्मे श्री730व्यासगीतायाम् । प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः । आचम्य प्रयतो नित्यं स्नानं प्रातः731 समाचरेत् ॥ इति । प्रातःस्नानकाल एवोक्तम् । मार्कण्डेयपुराणे च । केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि । इति । पूर्वाह्न732मात्रकृत्यम् इत्य्733 उक्तम् । यच् चोक्तम् । यो मोहात् स्नानवेलायां भक्षयेद् दन्तधावनम् । निराशास् तस्य गच्छन्ति देवताः पितरस् तथा ॥ इति । तच् च मध्याह्नस्नानविषयं734 ज्ञेयम् ॥२०९॥
मन्त्रश् चायम्—
आयुर् बलं यशो वर्चः735 प्रजा पशुवसूनि च ।
ब्रह्मप्रज्ञां736 च737 मेधां738 च त्वं नो धेहि वनस्पते ॥२१०॥
अथ दन्तधावन739नित्यता
काशीखण्डे तत्रैव—740
अथो मुखविशुद्ध्यर्थं गृह्णीयाद् दन्तधावनम् ।
आचान्तो ऽप्य् अशुचिर् यस्माद् अकृत्वा दन्तधावनम् ॥२११॥
वाराहे च—
दन्तकाष्ठम् अखादित्वा यस् तु माम् उपसर्पति ।
सर्वकालकृतं कर्म तेन चैकेन741 नश्यति742 ॥२१२॥
अथ743 दन्त744745काष्ठनिषिद्धदिनानि
तत्र746 मनुः—
चतुर्दश्यष्टमीदर्शपौर्णमास्यर्कसंक्रमः747 ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥२१३॥
Broo
morning duties. As Vyāsa says (–): “When one has arisen in the morning, one should bite the tooth-twig for the sake of purity.”
If one is unable [to brush the teeth immediately upon arising], there is no fault in brushing the teeth at the time of bathing, as one can see this conduct in some renounced saints. This is also said in the Vyāsa Gītā of the Kūrma Purāṇa (18.17cd–18ab): “After sprinkling the tooth-twig, one should properly bite it, solemnly perform Ācamana and then do the regular bathing.” Here the brushing of the teeth is done at the time of the morning bath. Also, in the Mārkaṇḍeya Purāṇa (31.22abc): “The duties of the forenoon are tying up the hair, looking in the mirror and brushing the teeth.” Here it is merely mentioned in connection with the duties of the forenoon.
It is also said: “The gods and forefathers become indifferent to one who foolishly bites the tooth-twig at the time of bathing”, but this should be understood to pertain to the midday bath.
And this is the mantra (Kātyāyana Smṛti 10.4):
²¹⁰Long life, strength, renown, vigour, offspring, cattle, riches, realisation of Brahman and intelligence—give them to us, you king of the forest!
The Mandatoriness of Brushing the Teeth
In the same place in the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.76):
²¹¹Now, to cleanse the mouth, one should take hold of the tooth-twig. Even one who has performed Ācamana is unclean as long as he has not brushed the teeth.
And in the Varāha Purāṇa (130.1):
²¹²Just by approaching me without having used the tooth-twig, all the rites one has ever performed are nullified.
The Days When the Tooth-Twig Is Forbidden
In the Manu Smṛti (–):
²¹³One the eight or fourteenth days, on the New- or Full Moon days or when the sun enters a new sign of the zodiac, the company of women, oil, meat and brushing the teeth are forbidden.
मूलम्
ऽपि दन्तधावनं729 न दोषावहम् । विरक्तानां सतां केषाञ्चित् तादृशाचारदर्शनात् । अत एव कौर्मे श्री730व्यासगीतायाम् । प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः । आचम्य प्रयतो नित्यं स्नानं प्रातः731 समाचरेत् ॥ इति । प्रातःस्नानकाल एवोक्तम् । मार्कण्डेयपुराणे च । केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि । इति । पूर्वाह्न732मात्रकृत्यम् इत्य्733 उक्तम् । यच् चोक्तम् । यो मोहात् स्नानवेलायां भक्षयेद् दन्तधावनम् । निराशास् तस्य गच्छन्ति देवताः पितरस् तथा ॥ इति । तच् च मध्याह्नस्नानविषयं734 ज्ञेयम् ॥२०९॥
मन्त्रश् चायम्—
आयुर् बलं यशो वर्चः735 प्रजा पशुवसूनि च ।
ब्रह्मप्रज्ञां736 च737 मेधां738 च त्वं नो धेहि वनस्पते ॥२१०॥
अथ दन्तधावन739नित्यता
काशीखण्डे तत्रैव—740
अथो मुखविशुद्ध्यर्थं गृह्णीयाद् दन्तधावनम् ।
आचान्तो ऽप्य् अशुचिर् यस्माद् अकृत्वा दन्तधावनम् ॥२११॥
वाराहे च—
दन्तकाष्ठम् अखादित्वा यस् तु माम् उपसर्पति ।
सर्वकालकृतं कर्म तेन चैकेन741 नश्यति742 ॥२१२॥
अथ743 दन्त744745काष्ठनिषिद्धदिनानि
तत्र746 मनुः—
चतुर्दश्यष्टमीदर्शपौर्णमास्यर्कसंक्रमः747 ।
एषु स्त्रीतैलमांसानि दन्तकाष्ठानि वर्जयेत् ॥२१३॥
विश्वास-प्रस्तुतिः
संवर्तकः—
आद्ये तिथौ748 नवम्यां च क्षये चन्द्रमसस्749 तथा ।
आदित्यवारे सौरे750 च वर्जयेद् दन्तधावनम् ॥२१४॥
कात्यायनः—
प्रतिपद्दर्शषष्ठीषु नवम्यां च विशेषतः ।
दन्तानां काष्ठसंयोगो751 हन्याद्752 आसप्तमं कुलम्753 ॥२१५॥
विशेषतः इत्य् अनेन क्वचित् चतुर्दश्यादौ, क्वचिच् च व्यतीपातजन्मदिनादौ कृतदन्तकाष्ठनिषेधापेक्षया प्रतिपदादिषु तन्निषेधाधिक्यं बोध्यते । अत एव हन्याद् इत्यादिना754 तत्र दोषो ऽपि महान् दर्शित इति दिक् ॥२१५॥
वृद्धवशिष्ठः—
उपवासे तथा श्राद्धे न खादेद्755 दन्तधावनम्756 ।
दन्तानां काष्ठसंयोगो757 हन्ति सप्तकुलानि वै758 ॥२१६॥
अन्यत्र759 च—
प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ ।
दन्तानां काष्ठसंयोगो हन्ति पुण्यं पुराकृतम्760 ॥२१७॥
नवम्याम् एकादश्यां रविवारे चेत्य् अर्थः ॥२१७॥
अथ तत्र प्रतिनिधिः761
दिनेष्व् एतेषु काष्ठैर् हि दन्तानां धावनस्य तु ।
निषिद्धत्वात् तृणैः पर्णैः कुर्यात्762 काष्ठेतरैश् च तत्763 ॥२१८॥
Broo
In the Saṃvartaka Smṛti:
²¹⁴One should avoid brushing the teeth on the first or ninth days, on New Moon, Saturday and Sunday.
In the Kātyāyana Smṛti (–):
²¹⁵Touching the twig to the teeth on new moon day, the first, sixth or especially the ninth day kills seven generations of the family.
The word especially refers to the fact that while brushing the teeth is sometimes prohibited on the fourteenth and other days and sometimes on days such as the Vyatīpāta day[^FNB000355] or one’s birthday, it should be understood that it is particularly prohibited on the new moon day and so on. Therefore, with the words kills seven … also the great fault on these days is indicated. This is the drift.
In the Vṛddhavasiṣṭha Smṛti (–):
²¹⁶One should not bite the tooth-twig on a day of fasting or of the Śrāddha sacrifice, for by [then] touching the twig to the teeth, seven generations are killed.
And elsewhere:
²¹⁷By touching the twig to the teeth on the new moon, first, sixth, ninth or eleventh day or on Sunday, all the merits one has gained previously are destroyed.
[…]
The Substitute for These Days
²¹⁸Since it is forbidden to brush the teeth with a tooth-twig on these days, one should do so with grass, leaves, or something other than a twig.
मूलम्
संवर्तकः—
आद्ये तिथौ748 नवम्यां च क्षये चन्द्रमसस्749 तथा ।
आदित्यवारे सौरे750 च वर्जयेद् दन्तधावनम् ॥२१४॥
कात्यायनः—
प्रतिपद्दर्शषष्ठीषु नवम्यां च विशेषतः ।
दन्तानां काष्ठसंयोगो751 हन्याद्752 आसप्तमं कुलम्753 ॥२१५॥
विशेषतः इत्य् अनेन क्वचित् चतुर्दश्यादौ, क्वचिच् च व्यतीपातजन्मदिनादौ कृतदन्तकाष्ठनिषेधापेक्षया प्रतिपदादिषु तन्निषेधाधिक्यं बोध्यते । अत एव हन्याद् इत्यादिना754 तत्र दोषो ऽपि महान् दर्शित इति दिक् ॥२१५॥
वृद्धवशिष्ठः—
उपवासे तथा श्राद्धे न खादेद्755 दन्तधावनम्756 ।
दन्तानां काष्ठसंयोगो757 हन्ति सप्तकुलानि वै758 ॥२१६॥
अन्यत्र759 च—
प्रतिपद्दर्शषष्ठीषु नवम्येकादशीरवौ ।
दन्तानां काष्ठसंयोगो हन्ति पुण्यं पुराकृतम्760 ॥२१७॥
नवम्याम् एकादश्यां रविवारे चेत्य् अर्थः ॥२१७॥
अथ तत्र प्रतिनिधिः761
दिनेष्व् एतेषु काष्ठैर् हि दन्तानां धावनस्य तु ।
निषिद्धत्वात् तृणैः पर्णैः कुर्यात्762 काष्ठेतरैश् च तत्763 ॥२१८॥
विश्वास-प्रस्तुतिः
एतेषु प्रतिपदादिषु निषिद्ध764दिनेषु काष्ठैः कृत्वा दन्तानां धावनस्य निषिद्धत्वान् निषेधनात् तत्765तद्766दन्तधावनं तृणैः पर्णैः काष्ठाद् इतरैर् अन्यश् च त्वगादिभिः कुर्यात् । यद् वा, काष्ठेतरैर् इति हेतौ विशेषणम् । ततश् च काष्ठैर् एव निषेधनात् तृणादीनां च काष्ठेतरत्वात् तैर् दन्तधावनम् अदुष्टम् इत्य् अर्थः ॥२१८॥
तथा767 च व्यासः—
प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।
पर्णैर् अन्यत्र काष्ठैश् च जीवोल्लेखः सदैव हि ॥२१९॥
पैठीनसिः—768
अलाभे वा769 निषेधे वा काष्ठानां दन्तधावनम् ।
पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥२२०॥
अन्यत्र770 प्रतिपदादिव्यतिरिक्तदिनेषु, अत्र च रविवारादाव् अपि पर्णैर् एव तथा तृणैश् चापीति पूर्वापरवचनानुसारेण बोद्धव्यम् ॥२२०॥
अथ तत्रैवापवादः
काष्ठैः प्रतिपदादौ यन् निषिद्धं दन्तधावनम् ।
तृणपर्णैस् तु तत्771 कुर्याद् अमाम् एकादशीं विना ॥२२१॥
अमाम् अमावस्याम् । एकादशीम् इत्य् उपवासदिनं लक्षयति । कदाचिद् द्वादशीषु जन्माष्टम्यादिषु चोपवासात् । अमावस्यां772 दन्तकाष्ठाग्रहणं773 न कार्यम् । तथा च मत्स्यविष्णुपुराणयोः । छिनत्ति वीरुधौ यस् तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्य्774 एकं ब्रह्महत्यां स विन्दति ॥ इति775 ॥२२१॥
Broo
Since it is forbidden to brush the teeth on these days, on the forbidden first day of the fortnight and so on, one should do so, brush the teeth on those particular days, with grass, with leaves, or with something other than a twig, that is, bark and so on. Alternatively, other than a twig is used to qualify grass. The meaning is that because of the prohibition specifically against twigs, brushing the teeth with grass and so on is not wrong, since these things are something other than a twig.
This is also said by Vyāsa (–):
²¹⁹On the new moon, first, sixth, ninth and other days one should brush the teeth with bark; at other times with a twig, and one should always use the tongue-scraper.
At other times, on days other than the first and so on. It should be understood, by considering the statements above and below, that on Sunday and so on one should use bark or grass.[^FNB000356]
Paiṭhīnasi says:
²²⁰When twigs are unavailable or forbidden, one should brush the teeth with clean bark. One should always use the tongue-scraper.
The Exception to This
²²¹On the first and other days when it is forbidden to brush the teeth with twigs, one should do so with grass or bark—except for on the new moon and eleventh day.
[…] The eleventh day indicates days of fasting. Because of fasting, one should also not use tooth-twigs on some twelfth days, Kṛṣṇa’s birthday and so on. That one should not use a tooth-twig on a New Moon day is also stated in the Matsya (–) and Viṣṇu Purāṇas (2.12.10): “But one who cuts a plant when the moon is present in plants [on the new moon day], or causes a single leaf to fall, will partake of the killing of a Brāhmaṇa.”
मूलम्
एतेषु प्रतिपदादिषु निषिद्ध764दिनेषु काष्ठैः कृत्वा दन्तानां धावनस्य निषिद्धत्वान् निषेधनात् तत्765तद्766दन्तधावनं तृणैः पर्णैः काष्ठाद् इतरैर् अन्यश् च त्वगादिभिः कुर्यात् । यद् वा, काष्ठेतरैर् इति हेतौ विशेषणम् । ततश् च काष्ठैर् एव निषेधनात् तृणादीनां च काष्ठेतरत्वात् तैर् दन्तधावनम् अदुष्टम् इत्य् अर्थः ॥२१८॥
तथा767 च व्यासः—
प्रतिपद्दर्शषष्ठीषु नवम्यां दन्तधावनम् ।
पर्णैर् अन्यत्र काष्ठैश् च जीवोल्लेखः सदैव हि ॥२१९॥
पैठीनसिः—768
अलाभे वा769 निषेधे वा काष्ठानां दन्तधावनम् ।
पर्णादिना विशुद्धेन जिह्वोल्लेखः सदैव हि ॥२२०॥
अन्यत्र770 प्रतिपदादिव्यतिरिक्तदिनेषु, अत्र च रविवारादाव् अपि पर्णैर् एव तथा तृणैश् चापीति पूर्वापरवचनानुसारेण बोद्धव्यम् ॥२२०॥
अथ तत्रैवापवादः
काष्ठैः प्रतिपदादौ यन् निषिद्धं दन्तधावनम् ।
तृणपर्णैस् तु तत्771 कुर्याद् अमाम् एकादशीं विना ॥२२१॥
अमाम् अमावस्याम् । एकादशीम् इत्य् उपवासदिनं लक्षयति । कदाचिद् द्वादशीषु जन्माष्टम्यादिषु चोपवासात् । अमावस्यां772 दन्तकाष्ठाग्रहणं773 न कार्यम् । तथा च मत्स्यविष्णुपुराणयोः । छिनत्ति वीरुधौ यस् तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्य्774 एकं ब्रह्महत्यां स विन्दति ॥ इति775 ॥२२१॥
विश्वास-प्रस्तुतिः
अत776 एव व्यासस्य वचनान्तरम्—777
अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ778 ।
अपां द्वादशगण्डूषैर् विदध्याद् दन्तधावनम्779 ॥२२२॥
निषिद्धायाम् इति पूर्वं प्रतिपदादिषु निषिद्धदिनेषु पर्णैर् दन्तधावनस्यानुज्ञातत्वात् पुनश् च अपां द्वादश780गण्डूषैर् इत्य् अनुज्ञातत्वाद् एकादश्याद्युपवासदिनेषु अपां गण्डूषैर् इति व्यवस्थापयितव्यम् । एवं च अमाम् एकादशीं विनेति वाक्यं सुसङ्गतम् इति दिक् ॥२२२॥
काशीखण्डे781 तत्रैव—
अलाभे दन्तकाष्ठानां निषिद्धे वाथ782 वासरे783 ।
गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥ इति784 ॥२२३॥
तृणपर्णादिना केचित् उपवासदिनेष्व् अपि ।
दन्तधावनम् इच्छन्ति मुखशोधनतत्पराः ॥२२४॥
उपवासे ऽपि नो785 दुष्येद् इति वचनं च स्वमते786 ऽप्य् अन्यस्त्रीविषयकं787 ज्ञेयम् । तत्राञ्जनादिनिषेधनात् । अत एव केचिद् इच्छन्तीति लिखितम् । व्रतदिने पर्णादिनापि दन्तानां788 धावने दाक्षिणात्यश्रीवैष्णवानां व्यवहारो ऽपि प्रमाणम् इति दिक् ॥२२४॥
तथा च789 काशीखण्डे तत्रैव—
मुखे पर्युषिते यस्माद् भवेद् अशुचिभाङ् नरः ।
ततः कुर्यात् प्रयत्नेन शुद्ध्यर्थं दन्तधावनम् ॥२२५॥
उपवासे ऽपि नो790 दुष्येद् दन्तधावनम् अञ्जनम् ।
गन्धालङ्कारसद्वस्त्रपुष्पमालानुलेपनम् ॥२२६॥
अथ दन्त791काष्ठानि
स्मृतौ—
सर्वे कण्टकिनः पुण्या आयुर्दाः क्षीरिणः स्मृताः ।
कटुतिक्तकषायाश् च बलारोग्यसुखप्रदाः ॥२२७॥
Broo
Therefore, Vyāsa next says:
²²²When tooth-twigs are unavailable or on forbidden days, one should clean the teeth by rinsing twelve times.
Forbidden: since one was previously allowed to brush the teeth with bark on forbidden days such as the first, and since one now is allowed to do so by rinsing twelve times, it is settled that on days of fasting such as the eleventh, one should rinse with water. This agrees well with the statement “except for on the new moon and eleventh day” above (3.221). This is the drift.
In the same place of the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.78):
²²³When tooth-twigs are unavailable or on forbidden days, one should rinse twelve times to clean the mouth.
²²⁴Some, intent upon cleansing their mouth, wish to brush their teeth with grass, bark and so on even on days of fasting.
The statement “Even on a day of fasting …” below (3.226) should in the author’s opinion be understood to refer to women of other communities, because of the mention of collyrium and so on. Therefore the author has written the present verse. Also, the custom of the Śrī Vaiṣṇavas of the south is evidence for cleaning the teeth even with bark, etc., on days of fasting. This is the drift.
In the same place of the Kāśīkhaṇda (Skanda Purāṇa 4.35.86–87):
²²⁵As long as the mouth is not fresh a human being remains impure, so one should diligently brush the teeth to become clean. ²²⁶Even on a day of fasting brushing the teeth, collyrium, perfume, ornaments, beautiful clothes, flower garlands and unguents are not polluting.
Tooth-Twigs
In the Smṛti:
²²⁷All thorny twigs are meritorious, those containing milky sap are known as bestowing long life, and sharp, bitter and astringent twigs give strength, health and happiness.
मूलम्
अत776 एव व्यासस्य वचनान्तरम्—777
अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ778 ।
अपां द्वादशगण्डूषैर् विदध्याद् दन्तधावनम्779 ॥२२२॥
निषिद्धायाम् इति पूर्वं प्रतिपदादिषु निषिद्धदिनेषु पर्णैर् दन्तधावनस्यानुज्ञातत्वात् पुनश् च अपां द्वादश780गण्डूषैर् इत्य् अनुज्ञातत्वाद् एकादश्याद्युपवासदिनेषु अपां गण्डूषैर् इति व्यवस्थापयितव्यम् । एवं च अमाम् एकादशीं विनेति वाक्यं सुसङ्गतम् इति दिक् ॥२२२॥
काशीखण्डे781 तत्रैव—
अलाभे दन्तकाष्ठानां निषिद्धे वाथ782 वासरे783 ।
गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥ इति784 ॥२२३॥
तृणपर्णादिना केचित् उपवासदिनेष्व् अपि ।
दन्तधावनम् इच्छन्ति मुखशोधनतत्पराः ॥२२४॥
उपवासे ऽपि नो785 दुष्येद् इति वचनं च स्वमते786 ऽप्य् अन्यस्त्रीविषयकं787 ज्ञेयम् । तत्राञ्जनादिनिषेधनात् । अत एव केचिद् इच्छन्तीति लिखितम् । व्रतदिने पर्णादिनापि दन्तानां788 धावने दाक्षिणात्यश्रीवैष्णवानां व्यवहारो ऽपि प्रमाणम् इति दिक् ॥२२४॥
तथा च789 काशीखण्डे तत्रैव—
मुखे पर्युषिते यस्माद् भवेद् अशुचिभाङ् नरः ।
ततः कुर्यात् प्रयत्नेन शुद्ध्यर्थं दन्तधावनम् ॥२२५॥
उपवासे ऽपि नो790 दुष्येद् दन्तधावनम् अञ्जनम् ।
गन्धालङ्कारसद्वस्त्रपुष्पमालानुलेपनम् ॥२२६॥
अथ दन्त791काष्ठानि
स्मृतौ—
सर्वे कण्टकिनः पुण्या आयुर्दाः क्षीरिणः स्मृताः ।
कटुतिक्तकषायाश् च बलारोग्यसुखप्रदाः ॥२२७॥
विश्वास-प्रस्तुतिः
किं च—
पलाशानां दन्तकाष्ठं पादुके चैव वर्जयेत् ।
वर्जयेच् च प्रयत्नेन वटं वाश्वत्थम्792 एव च ॥२२८॥
कौर्मे श्रीव्यासगीतायाम्—
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ।
सत्वचं दन्तकाष्ठं यत्793 तदग्रे न794 तु795 धारयेत्796 ॥२२९॥
क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।
अपामार्गं च बिल्वं वा करवीरं विशेषतः ॥२३०॥
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम्797 ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥२३१॥
न पाटयेत्798 दन्तकाष्ठं नाङ्गुल्यग्रेण धारयेत्799 ।
प्रक्षाल्य भुक्त्वा तज् जह्याच्800801 छुचौ देशे समाहितः ॥२३२॥
सत्वचम् इति । अदन्तत्वचशब्दो ऽप्य् अस्ति आवन्तो802 वा । त्वचा सहितम् इत्य् अर्थः । निन्दितानि अर्ककर्बूरादीनि803 । पापं वर्ज्यं804805 दिनं प्रतिपदादि806 ॥२२९–२३२॥
काशीखण्डे च807 तत्रैव—
कनिष्ठाग्रपरीणाहं808 सत्वचं निर्व्रणम् ऋजुम् ।
द्वादशाङ्गुलमानं च809 सार्द्रं स्याद् दन्तधावनम् ।
जिह्वोल्लेखनिकां वापि810 कुर्याच् चापाकृतिं शुभाम् ॥२३३॥
परीणाहः स्थौल्यं सार्द्रम्811 आर्द्रतायुक्तम्812 ॥२३३॥
रामार्चनचन्द्रिकायां च—813
दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम्814815 इत्यादिमन्त्रात्816
प्रातः क्षीर्यादिकाष्ठाद् वटखदिरपलाशैर् विनार्काम्र817बिल्वैः ।
Broo
And also:
²²⁸One should avoid tooth-twigs and sandals made of Palāśa-wood (Butea Frondosa), and one should also carefully avoid banyan-wood (Ficus Indica) or Aśvattha-wood (Ficus Religiosa).
In the Vyāsa Gītā of the Kūrma Purāṇa (2.18.18cd–21):
²²⁹A tooth-twig is thick as the middle finger, twelve digits long and covered with bark. One should not hold it at the tip.[^FNB000357] ^(230–231)Twigs from trees with milky sap and Mālatī (Jasminum Grandiflorum) are good, but Apāmārga (Achyranthes Aspera) and wood-apple (Aegle Marmelos) are prohibited, and especially oleander (Nerium Odorum) should be avoided.[^FNB000358] One should take one as has been explained and use it properly, except on forbidden days. ²³²One should not split the tooth-twig, and one should not hold it with the fingertips. After washing and using it, one should composedly depose of it in a clean place.
[…] Prohibited wood refers to Arka (Calotropis Gigantea), Karvūra (Curcuma Amhaldi) and so on. […]
In the same place of the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.79, 82ab):
²³³A tooth-twig should be the width of the tip of the little finger, have bark, be undamaged, straight, twelve digits long and fresh. One should also make a suitable tongue-scraper in the shape of a bow.
[…]
And in the Rāmārcanacandrikā (p.40):
²³⁴In the morning one should cleanse the teeth
with the mantra “Food …” and a twig one Vitasti long,
from a tree with milky sap, but not banyan, Khadira (Acacia Catechu),
Palāśa (Butea Frondosa), Arka (Calotropis Gigantea), mango or wood-apple,
मूलम्
किं च—
पलाशानां दन्तकाष्ठं पादुके चैव वर्जयेत् ।
वर्जयेच् च प्रयत्नेन वटं वाश्वत्थम्792 एव च ॥२२८॥
कौर्मे श्रीव्यासगीतायाम्—
मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ।
सत्वचं दन्तकाष्ठं यत्793 तदग्रे न794 तु795 धारयेत्796 ॥२२९॥
क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् ।
अपामार्गं च बिल्वं वा करवीरं विशेषतह् ॥२३०॥
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम्797 ।
परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥२३१॥
न पाटयेत्798 दन्तकाष्ठं नाङ्गुल्यग्रेण धारयेत्799 ।
प्रक्षाल्य भुक्त्वा तज् जह्याच्800801 छुचौ देशे समाहितः ॥२३२॥
सत्वचम् इति । अदन्तत्वचशब्दो ऽप्य् अस्ति आवन्तो802 वा । त्वचा सहितम् इत्य् अर्थः । निन्दितानि अर्ककर्बूरादीनि803 । पापं वर्ज्यं804805 दिनं प्रतिपदादि806 ॥२२९–२३२॥
काशीखण्डे च807 तत्रैव—
कनिष्ठाग्रपरीणाहं808 सत्वचं निर्व्रणम् ऋजुम् ।
द्वादशाङ्गुलमानं च809 सार्द्रं स्याद् दन्तधावनम् ।
जिह्वोल्लेखनिकां वापि810 कुर्याच् चापाकृतिं शुभाम् ॥२३३॥
परीणाहः स्थौल्यं सार्द्रम्811 आर्द्रतायुक्तम्812 ॥२३३॥
रामार्चनचन्द्रिकायां च—813
दन्तोल्लेखो वितस्त्या भवति परिमिताद् अन्नम्814815 इत्यादिमन्त्रात्816
प्रातः क्षीर्यादिकाष्ठाद् वटखदिरपलाशैर् विनार्काम्र817बिल्वैः ।
विश्वास-प्रस्तुतिः
भुक्त्वा गण्डूषषट्कं818 द्विर् अपि819 कुशम् ऋते देशिनीम् अङ्गुलीभिर्820
नन्दाभूताष्टपर्वण्य् अपि न821 खलु नवम्यर्कसंक्रान्तिपाते822 ॥२३४॥
वटादिकाष्ठैर् विना क्षीर्यादिकाष्ठात् प्रातर् दन्तानाम् उल्लेखो धावनं भवति । कीदृशात्?823 वितस्त्या द्वादशाङ्गुलैः परिमितात्824 । कुशं देशिनीं च विना अङ्गुलीभिर् गण्डूषषट्कं द्विर् भुक्त्वा, द्वादशजलगण्डूषाणि गृहीत्वेत्य् अर्थः । नन्दादिषु च दन्तोल्लेखो न भवति । तत्र नन्दा प्रतिपत् षष्ठी एकादशी च825 । भूता826 चतुर्दशी । अष्ट अष्टमी । पर्व अमावस्या पौर्णमास्यादि । पातो व्यतीपातो द्वन्द्वैक्यम् । एवं निषेधवैविध्यं विविधवेदशाखासेविनां कर्मपराणां नानादेवताभक्तानां मतभेदेन मन्त्रश् च827 श्रौतो ऽयम् । अन्नाद्यायाद्याप्य् उहजं828 सोमो राजायम् आगमन् स मे मुखं सम्मार्ज्यते,829 यशसा च भगेन चेति830 ॥२३४॥
अथ केशप्रसाधनादि831
ततश् चाचम्य832 विधिवत् कृत्वा केशप्रसाधनम् ।
स्मृत्वा प्रणवगायत्र्यौ निबध्नीयाच् छिखां833 द्विजः ॥२३५॥
द्विज इति स्नाने शूद्रस्य मुक्तशिखत्वात् ॥२३५॥
तथा चोक्तम्—
न834 दक्षिण835मुखो नोर्ध्वं कुर्यात् केशप्रसाधनम् ।
स्मृत्वोंकारं च836 गायत्रीं837 निबध्नीयाच् छिखां ततः ॥२३६॥
विधिवद् इति लिखितम् । तं838 विधिम् एव लिखति न दक्षिणेति ॥२३६॥
अथ839 स्नानम्
विष्णुपुराणे तत्रैव—840
नदीनदतडागेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥२३७॥
Broo
after one has drunk two times six mouthfuls of water from the hand,
without using Kuśa or the index finger—
but not on auspicious days, the eighth, ninth or fourteenth day,
on lunar festivals, when the sun enters a new sign of the zodiac or on the Pāta-day.
[…] Cleanse means brush the teeth. […] On auspicious days and so on one should not clean the teeth. The auspicious days are the first, sixth and eleventh days. […] Lunar festivals are new moon, full moon and so on. Pāta means Vyatīpāta.
These diverse prohibitions reflect the different opinions of members of different Vedic Śākhās, intent on ritual activities and devoted to different divinities. And this is the Vedic mantra (Paraskara Gṛhyasūtra 2.6.17): “Array yourselves for the enjoyment of food. Here has come king Soma: he will purify my mouth with glory and fortune.”
Arranging the Hair and so Forth
²³⁵Then, after performing Ācamana, the twiceborn should arrange his hair according to the rules. Remembering
OṂ and the Gāyatrī, he should tie his tuft of hair.
Twiceborn: because when bathing, Śūdras keep the tuft of hair loose.
As it is said:[^FNB000359]
²³⁶One should not arrange the hair facing the south or upwards. One should then tie the tuft of hair, remembering
OṂ and the Gāyatrī.
In the previous verse (3.235), the author mentioned “according to the rules,” and in this verse he gives them.
Bathing
In the same place of the Viṣṇu Purāṇa (3.11.25–26):
²³⁷For the daily rituals, one should bathe in a stream, a river, a tank, the water of a natural pond or in mountain springs. ²³⁸Otherwise, one should
मूलम्
भुक्त्वा गण्डूषषट्कं818 द्विर् अपि819 कुशम् ऋते देशिनीम् अङ्गुलीभिर्820
नन्दाभूताष्टपर्वण्य् अपि न821 खलु नवम्यर्कसंक्रान्तिपाते822 ॥२३४॥
वटादिकाष्ठैर् विना क्षीर्यादिकाष्ठात् प्रातर् दन्तानाम् उल्लेखो धावनं भवति । कीदृशात्?823 वितस्त्या द्वादशाङ्गुलैः परिमितात्824 । कुशं देशिनीं च विना अङ्गुलीभिर् गण्डूषषट्कं द्विर् भुक्त्वा, द्वादशजलगण्डूषाणि गृहीत्वेत्य् अर्थः । नन्दादिषु च दन्तोल्लेखो न भवति । तत्र नन्दा प्रतिपत् षष्ठी एकादशी च825 । भूता826 चतुर्दशी । अष्ट अष्टमी । पर्व अमावस्या पौर्णमास्यादि । पातो व्यतीपातो द्वन्द्वैक्यम् । एवं निषेधवैविध्यं विविधवेदशाखासेविनां कर्मपराणां नानादेवताभक्तानां मतभेदेन मन्त्रश् च827 श्रौतो ऽयम् । अन्नाद्यायाद्याप्य् उहजं828 सोमो राजायम् आगमन् स मे मुखं सम्मार्ज्यते,829 यशसा च भगेन चेति830 ॥२३४॥
अथ केशप्रसाधनादि831
ततश् चाचम्य832 विधिवत् कृत्वा केशप्रसाधनम् ।
स्मृत्वा प्रणवगायत्र्यौ निबध्नीयाच् छिखां833 द्विजः ॥२३५॥
द्विज इति स्नाने शूद्रस्य मुक्तशिखत्वात् ॥२३५॥
तथा चोक्तम्—
न834 दक्षिण835मुखो नोर्ध्वं कुर्यात् केशप्रसाधनम् ।
स्मृत्वोंकारं च836 गायत्रीं837 निबध्नीयाच् छिखां ततः ॥२३६॥
विधिवद् इति लिखितम् । तं838 विधिम् एव लिखति न दक्षिणेति ॥२३६॥
अथ839 स्नानम्
विष्णुपुराणे तत्रैव—840
नदीनदतडागेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गिरिप्रस्रवणेषु च ॥२३७॥
विश्वास-प्रस्तुतिः
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
स्नायीतोद्धृततोयेन अथवा भुव्य् असम्भवे ॥२३८॥
कूपेषु कलसादिभिर्841 उद्धृततोयेन भुवि तत्तटभूमौ स्नायात् । गमनाद्यशक्ततया । तत्तटभुवि स्नानासम्भवे कूपाद् उद्धृतेन शीतोदकेन स्नायात्842 । तत्राप्य् अशक्तौ उष्णोदकेन843 इति ज्ञेयम् । तथा चोक्तम् । आपः स्वभावतो मेध्याः किं पुनर् वह्निसंयुताः844 । तस्मात् सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥ इति ॥२३८॥
अथ स्नाननित्यता
तत्र कात्यायनः—
यथाहनि तथा प्रातर् नित्यं स्नायाद्845 अतन्द्रितः846 ।
अत्यन्तमलिनः कायो847 नवच्छिद्र848समन्वितः ।
स्रवत्य्849 एव दिवारात्रौ प्रातःस्नानं विशोधनम् ॥२३९॥
दक्षः—
प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।
यतेस् त्रिसवनं850 स्नानं851852 सकृत् तु ब्रह्मचारिणः ॥२४०॥
सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना ॥२४१॥
अशक्तौ सत्याम् । अपि निश्चितं सकृद् अपीति वा कुर्युर् एव । तत्राप्य्853 अशक्तौ उदकं विनेति मन्त्रस्नानादिकं कुर्युर् इत्य् अर्थः । यद् वा, शक्तौ854 सत्याम् उदकं विना जलाभावे च सति सकृत् कुर्युः । एवं स्नानस्य नित्यता सिद्धैव ॥२४१॥
Broo
bathe on the ground with water extracted from wells, or if one cannot stand on the ground, one should simply bathe with extracted water.
From wells: it should be understood that one should bathe with water extracted from them with pitchers, etc., on the ground, in their proximity, since one cannot enter them. If one cannot bathe near them, one should bathe with cold water extracted from a well. If one is unable to do even that, one should bathe with warm water. As it is said: “Water is by nature pure, and how much more so when heated by fire? Therefore, the wise extol bathing with warm water.”[^FNB000360]
The Mandatoriness of Bathing
On this topic, Kātyāyana says (10.1):
²³⁹As during the day, one should always and tirelessly bathe in the morning. The extremely dirty body, furnished with nine openings, surely leaks both day and night. Bathing in the morning is purifying.[^FNB000361]
Dakṣa says (–):[^FNB000362]
²⁴⁰Vānaprasthas and Gṛhasthas should bathe in the morning and at midday, the Yati thrice a day, but the Brahmacārin only once. ²⁴¹But if unable or without water, all of them should bathe once.
[…] If there is no water, one should bathe with mantras or in another way.[^FNB000363] Alternatively, if one is unable to bathe [the above-mentioned times] or because there is a lack of water, one should bathe at least once. In this way it is evident that bathing is mandatory.
मूलम्
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
स्नायीतोद्धृततोयेन अथवा भुव्य् असम्भवे ॥२३८॥
कूपेषु कलसादिभिर्841 उद्धृततोयेन भुवि तत्तटभूमौ स्नायात् । गमनाद्यशक्ततया । तत्तटभुवि स्नानासम्भवे कूपाद् उद्धृतेन शीतोदकेन स्नायात्842 । तत्राप्य् अशक्तौ उष्णोदकेन843 इति ज्ञेयम् । तथा चोक्तम् । आपः स्वभावतो मेध्याः किं पुनर् वह्निसंयुताः844 । तस्मात् सन्तः प्रशंसन्ति स्नानम् उष्णेन वारिणा ॥ इति ॥२३८॥
अथ स्नाननित्यता
तत्र कात्यायनः—
यथाहनि तथा प्रातर् नित्यं स्नायाद्845 अतन्द्रितः846 ।
अत्यन्तमलिनः कायो847 नवच्छिद्र848समन्वितः ।
स्रवत्य्849 एव दिवारात्रौ प्रातःस्नानं विशोधनम् ॥२३९॥
दक्षः—
प्रातर्मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।
यतेस् त्रिसवनं850 स्नानं851852 सकृत् तु ब्रह्मचारिणः ॥२४०॥
सर्वे चापि सकृत् कुर्युर् अशक्तौ चोदकं विना ॥२४१॥
अशक्तौ सत्याम् । अपि निश्चितं सकृद् अपीति वा कुर्युर् एव । तत्राप्य्853 अशक्तौ उदकं विनेति मन्त्रस्नानादिकं कुर्युर् इत्य् अर्थः । यद् वा, शक्तौ854 सत्याम् उदकं विना जलाभावे च सति सकृत् कुर्युः । एवं स्नानस्य नित्यता सिद्धैव ॥२४१॥
विश्वास-प्रस्तुतिः
किं च—
अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां855 सदा ।
आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥२४२॥
अशिरस्कम् इत्यादिनापि नित्यतैवाभिप्रेता ॥२४२॥
शङ्खश् च—856
अस्नातस्857 तु पुमान् नार्हो जपादिहवनादिषु858 ॥२४३॥
कौर्मे श्री859व्यासगीतायाम्—
प्रातःस्नानं विना पुंसां पापित्वं कर्मसु860 स्मृतम्861862 ।
होमे जपे विशेषेण तस्मात् स्नानं समाचरेत् ॥२४४॥
काशीखण्डे—
प्रस्वेद863लालाद्याक्लिन्नो निद्राधीनो यतो नरः ।
प्रातःस्नानात् ततो ऽर्हः स्यान् मन्त्रस्तोत्रजपादिषु ॥२४५॥
पाद्मे च864 देवदूत865विकुण्डलसंवादे—866
स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः ।
अस्नायिनो ऽशुचेस् तस्य विमुखाः पितृदेवताः ॥२४६॥
स्नानहीनो नरः पापी स्नानहीनो ऽशुचिः सदा ।
अस्नायी नरकं भुक्त्वा पुक्कशादिषु867 जायते ॥२४७॥
Broo
And also:[^FNB000364]
²⁴²When unable to bathe properly, those performing rituals may always leave the head unwashed. Otherwise, one may cleanse oneself with a moist cloth or with the hand.
Leave the head unwashed and so on all indicate the mandatoriness [of some kind of bathing].
And Śaṅkha (8.2):[^FNB000365]
²⁴³A person who has not bathed is not eligible for recitations, fire sacrifices and so on.
In the Vyāsa Gītā of the Kūrma Purāṇa (2.18.9):
²⁴⁴The rituals—especially fire sacrifices and recitations—of a person who has not bathed in the morning are known to be sinful. Therefore, one must bathe!
In the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.91):
²⁴⁵Since a sleeping person is contaminated by much sweat, saliva, and so on, he becomes eligible for mantras, hymns and recitations only by bathing in the morning.
And in a discussion between the messengers of the gods and Vikuṇḍala in the Padma Purāṇa (3.31.55–57):[^FNB000366]
²⁴⁶One who eats without bathing consumes nothing but sin. Since the non-bather is unclean, the forefathers and gods turn away from him. ²⁴⁷One who does not bathe is sinful; one who does not bathe is unclean. One who does not bathe will suffer in hell, and then be born as a Pukkaśa[^FNB000367] or the like.
मूलम्
किं च—
अशिरस्कं भवेत् स्नानम् अशक्तौ कर्मिणां855 सदा ।
आर्द्रेण वाससा वापि पाणिना वापि मार्जनम् ॥२४२॥
अशिरस्कम् इत्यादिनापि नित्यतैवाभिप्रेता ॥२४२॥
शङ्खश् च—856
अस्नातस्857 तु पुमान् नार्हो जपादिहवनादिषु858 ॥२४३॥
कौर्मे श्री859व्यासगीतायाम्—
प्रातःस्नानं विना पुंसां पापित्वं कर्मसु860 स्मृतम्861862 ।
होमे जपे विशेषेण तस्मात् स्नानं समाचरेत् ॥२४४॥
काशीखण्डे—
प्रस्वेद863लालाद्याक्लिन्नो निद्राधीनो यतो नरः ।
प्रातःस्नानात् ततो ऽर्हः स्यान् मन्त्रस्तोत्रजपादिषु ॥२४५॥
पाद्मे च864 देवदूत865विकुण्डलसंवादे—866
स्नानं विना तु यो भुङ्क्ते मलाशी स सदा नरः ।
अस्नायिनो ऽशुचेस् तस्य विमुखाः पितृदेवताः ॥२४६॥
स्नानहीनो नरः पापी स्नानहीनो ऽशुचिः सदा ।
अस्नायी नरकं भुक्त्वा पुक्कशादिषु867 जायते ॥२४७॥
विश्वास-प्रस्तुतिः
अथ स्नानमाहात्म्यम्
महाभारते उद्योगपर्वणि श्रीविदुरोक्तौ—
गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः868 ।
स्पर्शश् च गन्धश् च विशुद्धता869 च
श्रीः सौकुमार्यं प्रवराश् च नार्यः ॥२४८॥
स्वरवर्णयोः प्रकर्षेण सिद्धिर् इति । महापातकादिकं हरति870 ॥२४८॥
पाद्मे च871 तत्रैव—
याम्यं872 हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते अपि पापकृतो नराः ॥२४९॥
प्रातःस्नानं हरेद् वैश्य सबाह्याभ्यन्तरं मलम् ।
प्रातःस्नानेन निष्पापो873 नरो न निरयं व्रजेत्874 ॥२५०॥
ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि ।
ते नैव दुर्गतिं यान्ति न जायन्ते कुयोनिषु ॥२५१॥
दुःस्वप्नं875 दुष्टचिन्ता876 च वन्ध्या877878 भवति सर्वदा ।
प्रातःस्नानाविशुद्धानां पुरुषाणां विशां वर ॥२५२॥
अत्रिस्मृतौ—
स्नाने मनःप्रसादः879 स्याद् देवा अभिमुखाः सदा880 ।
सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥२५३॥
महापापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम्881 ।
शोकदुःखादि हरते प्रातःस्नानं विशेषतः ॥२५४॥
कौर्मे882 तत्रैव—
Broo
The Greatness of Bathing
In the Udyogaparvan of the Mahābhārata (5.37.29), Vidura says:
²⁴⁸Ten virtues attend one accustomed to bathing:
strength, beauty, perfection of voice and complexion,
smoothness of skin, pleasant odour and purity,
fortune, tenderness and the company of beautiful women!
[…] It removes great sins, etc.
And in the same place of the Padma Purāṇa (3.31.54–55, 57–58):
²⁴⁹For one who always bathes will not see the suffering of punishment in hell. Even sinners are honoured if they always bathe. ²⁵⁰O Vaiśya, bathing in the morning removes both internal and external impurity. By bathing in the morning, a man becomes sinless, he will not go to hell. ²⁵¹Men who bathe in a stream on this day will not attain a bad destination; they will not be born in evil wombs. ²⁵²Best of Vaiśyas! Men who do not bathe will have nightmares, evil thoughts and barren wives.
In the Atri Smṛti (–):[^FNB000368]
²⁵³By bathing, the mind becomes calm and the gods always favourably disposed, and one attains welfare, fortune, pleasure, contentment, merit, knowledge, splendour and resolution. ²⁵⁴Bathing in the morning especially removes great sins, misfortune, attaining a bad destination, bad thoughts, unhappiness and suffering.
In the same place of the Kūrma Purāṇa (2.18.6, 8):
मूलम्
अथ स्नानमाहात्म्यम्
महाभारते उद्योगपर्वणि श्रीविदुरोक्तौ—
गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः868 ।
स्पर्शश् च गन्धश् च विशुद्धता869 च
श्रीः सौकुमार्यं प्रवराश् च नार्यः ॥२४८॥
स्वरवर्णयोः प्रकर्षेण सिद्धिर् इति । महापातकादिकं हरति870 ॥२४८॥
पाद्मे च871 तत्रैव—
याम्यं872 हि यातनादुःखं नित्यस्नायी न पश्यति ।
नित्यस्नानेन पूयन्ते अपि पापकृतो नराः ॥२४९॥
प्रातःस्नानं हरेद् वैश्य सबाह्याभ्यन्तरं मलम् ।
प्रातःस्नानेन निष्पापो873 नरो न निरयं व्रजेत्874 ॥२५०॥
ये पुनः स्रोतसि स्नानम् आचरन्तीह पर्वणि ।
ते नैव दुर्गतिं यान्ति न जायन्ते कुयोनिषु ॥२५१॥
दुःस्वप्नं875 दुष्टचिन्ता876 च वन्ध्या877878 भवति सर्वदा ।
प्रातःस्नानाविशुद्धानां पुरुषाणां विशां वर ॥२५२॥
अत्रिस्मृतौ—
स्नाने मनःप्रसादः879 स्याद् देवा अभिमुखाः सदा880 ।
सौभाग्यं श्रीः सुखं पुष्टिः पुण्यं विद्या यशो धृतिः ॥२५३॥
महापापान्य् अलक्ष्मीं च दुरितं दुर्विचिन्तितम्881 ।
शोकदुःखादि हरते प्रातःस्नानं विशेषतः ॥२५४॥
कौर्मे882 तत्रैव—
विश्वास-प्रस्तुतिः
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं883 हि तत् ।
प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः884 ॥२५५॥
दृष्टादृष्टकरं ऐहिकामुष्मिकशुभकारि । पूयन्ते नश्यन्ति ॥२५५॥
काशीखण्डे च—885
प्रातःस्नानाद् यतः शुध्येत् कायो ऽयं मलिनः सदा ।
छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवानिशम् ॥२५६॥
उत्साह886मेधासौभाग्यरूपसम्पत्प्रवर्तकम् ।
मनःप्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते887 ॥२५७॥
प्रातः प्रातस्888 तु यत् स्नानं संजाते चारुणोदये ।
प्राजापत्यसमं प्राहुस् तन् महाघविघातकृत् ॥२५८॥
प्रातःस्नानं हरेत्889 पापम् अलक्ष्मीं ग्लानिम् एव च ।
अशुचित्वं890 च891 दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥२५९॥
नोपसर्पन्ति वै दुष्टाः प्रातःस्नायिजनं क्वचित् ।
दृष्टादृष्टफलं तस्मात् प्रातःस्नानं समाचरेत् ॥ इति892 ॥२६०॥
स्नानमात्रं तथा प्रातःस्नानं चात्र नियोजितम् ।
यद्य् अप्य्893 अन्योन्यमिलिते पृथग् ज्ञेये तथाप्य् अमू894895 ॥२६१॥
अथ स्नानविधिः
अथ तीर्थगतस् तत्र धौतवस्त्रं कुशांस् तथा ।
मृत्तिकां896 च तटे न्यस्य स्नायात् स्वस्वविधानतः ॥२६२॥
इदानीं स्नानविधिं लिखन् आदौ897 वैदिकव्यवहार898प्रवरश्रीकृष्णदेवाचार्यादिसम्मतं वैदिकतान्त्रिकविधिविमिश्रितं स्नानविधिं लिखति अथेत्यादिना । स्वस्वविधानतः निजनिजवर्णाश्रमशाखाद्याचारानुसारेण ॥२६२॥
अधौतेन तु वस्त्रेण नित्यनैमित्तिकीं899 क्रियाम् ।
कुर्वन् न फलम् आप्नोति कृता900 चेन् निष्फला भवेत् ॥२६३॥
Broo
²⁵⁵For they declare bathing in the morning to produce the seen and the unseen. By bathing in the morning sins are destroyed—there is no doubt about this!
The seen and the unseen: worldly and otherworldly fortune. […]
And in the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.89–90, 92–94):
²⁵⁶Wherefore one should always purify this impure body by the morning bath: perforated by nine holes, indeed it leaks both day and night. ²⁵⁷It is said that bathing in the morning produces enthusiasm, intelligence, good fortune, beauty and success, that it causes calmness of the mind. ²⁵⁸They say that a person who bathes at the time of dawn, morning after morning, is equal to Prajāpati, a destroyer of his great sins. ²⁵⁹Bathing in the morning removes sin, misfortune, exhaustion, impurity and bad dreams, and it bestows contentment and prosperity. ²⁶⁰The wicked will never approach a person who bathes in the morning. Therefore, one should bathe in the morning, to attain both unseen and seen fruits.
²⁶¹Both bathing in general and the morning bath are enjoined here. Even though the two are joined with each other, they should nevertheless be understood as different.
Rules for Bathing
²⁶²One should then go to a Tīrtha, lay down clean cloth, Kuśa and clay on the bank and bathe according to one’s particular custom.
Now, writing about the rules for bathing, the author begins by describing the rules of bathing that are a mix of Vedic and Tantric regulations, following the teachings of masters such as Śrī Kṛṣṇadeva, the foremost authority on Vedic conduct. One’s particular custom means following the rules of one’s particular Varṇa, Āśrama, Śākhā, and so forth.
²⁶³One who performs mandatory or occasional duties wearing unwashed clothes will not attain the fruit. Whatever one does becomes fruitless. ²⁶⁴After
मूलम्
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं883 हि तत् ।
प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः884 ॥२५५॥
दृष्टादृष्टकरं ऐहिकामुष्मिकशुभकारि । पूयन्ते नश्यन्ति ॥२५५॥
काशीखण्डे च—885
प्रातःस्नानाद् यतः शुध्येत् कायो ऽयं मलिनः सदा ।
छिद्रितो नवभिश् छिद्रैः स्रवत्य् एव दिवानिशम् ॥२५६॥
उत्साह886मेधासौभाग्यरूपसम्पत्प्रवर्तकम् ।
मनःप्रसन्नताहेतुः प्रातःस्नानं प्रशस्यते887 ॥२५७॥
प्रातः प्रातस्888 तु यत् स्नानं संजाते चारुणोदये ।
प्राजापत्यसमं प्राहुस् तन् महाघविघातकृत् ॥२५८॥
प्रातःस्नानं हरेत्889 पापम् अलक्ष्मीं ग्लानिम् एव च ।
अशुचित्वं890 च891 दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥२५९॥
नोपसर्पन्ति वै दुष्टाः प्रातःस्नायिजनं क्वचित् ।
दृष्टादृष्टफलं तस्मात् प्रातःस्नानं समाचरेत् ॥ इति892 ॥२६०॥
स्नानमात्रं तथा प्रातःस्नानं चात्र नियोजितम् ।
यद्य् अप्य्893 अन्योन्यमिलिते पृथग् ज्ञेये तथाप्य् अमू894895 ॥२६१॥
अथ स्नानविधिः
अथ तीर्थगतस् तत्र धौतवस्त्रं कुशांस् तथा ।
मृत्तिकां896 च तटे न्यस्य स्नायात् स्वस्वविधानतः ॥२६२॥
इदानीं स्नानविधिं लिखन् आदौ897 वैदिकव्यवहार898प्रवरश्रीकृष्णदेवाचार्यादिसम्मतं वैदिकतान्त्रिकविधिविमिश्रितं स्नानविधिं लिखति अथेत्यादिना । स्वस्वविधानतः निजनिजवर्णाश्रमशाखाद्याचारानुसारेण ॥२६२॥
अधौतेन तु वस्त्रेण नित्यनैमित्तिकीं899 क्रियाम् ।
कुर्वन् न फलम् आप्नोति कृता900 चेन् निष्फला भवेत् ॥२६३॥
विश्वास-प्रस्तुतिः
धौतान्घ्रिपाणिर् आचान्तः कृत्वा संकल्पम् आदरात् ।
गङ्गादिस्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥२६४॥
सागरस्वननिर्घोष दण्डहस्तासुरान्तक ।
जगत्स्रष्टर् जगन्मर्दिन्901 नमामि त्वां सुरेश्वर ॥२६५॥
इमं मन्त्रं समुच्चार्य तीर्थस्नानं समाचरेत् ।
अन्यथा तत्फलस्यार्धं तीर्थेशो हरति ध्रुवम्902 ॥२६६॥
नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् ।
देवदेव जगन्नाथ शङ्खचक्रगदाधर ।
देहि विष्णो ममानुज्ञां तव तीर्थनिषेवणे ॥ इति903 ॥२६७॥
विधिवन् मृदम् आदाय तीर्थतोये प्रविश्य च ।
प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्कसम्मुखः904 ॥२६८॥
अन्यत्र नदीप्रवाहव्यतिरिक्ते905 ॥२६८॥
दिग्बन्धं विधिनाचर्य906907 तीर्थानि परिकल्प्य च ।
आवाहयेद् भगवतीं गङ्गाम् आदित्यमण्डलात् ॥२६९॥
दर्भपाणिः कृतप्राणायामः कृष्णपदाम्बुजम् ।
ध्यात्वा तन्नाम संकीर्त्य निमज्जेत् पुण्यवारिणि ॥२७०॥
आचम्य मूलमन्त्रं च सप्राणायामकं जपन्908 ।
कृष्णं ध्यायन्909 जले भूयो निमज्ज्य स्नानम् आचरेत् ॥२७१॥
Broo
one has washed hands and feet and performed Ācamana,[^FNB000369] one should respectfully state the declaration, meditate on the Ganges, etc., and offer Arghya[^FNB000370] to the Tīrtha.
²⁶⁵You whose voice is thundering like the ocean! Carrier of the rod of punishment! Killer of demons! Creator of the world, destroyer of the world! I bow to you, Lord of gods.
²⁶⁶Having recited this mantra, one should bathe at the Tīrtha. Otherwise, the lord of the Tīrtha will certainly remove half of the fruit of the bath.[^FNB000371]
²⁶⁷After one has bowed to the Tīrtha in order to bathe, one should ask for permission in this way: “God of gods! Lord of the world! Carrier of the conch, disc and club! O Viṣṇu! Give me permission to honour your Tīrtha.”[^FNB000372] ²⁶⁸According to the rules, one should take some clay and enter the waters of the Tīrtha. One should face the current of the stream or otherwise the sun.
Otherwise: if there is no current in the water.
²⁶⁹After properly doing Digbandhana,[^FNB000373] one should invoke the Tīrthas and summon the goddess Gaṅgā from the orb of the sun. ²⁷⁰Holding Kuśa grass in one’s hand, one should perform Prāṇāyāma,[^FNB000374] meditate on the lotus feet of Kṛṣna, chant his name, and bathe in the holy waters. ²⁷¹Having performed Ācamana, reciting the root mantra together with some Prāṇāyāma and meditating on Kṛṣṇa, one should again immerse oneself in the water and bathe. ²⁷²Then, after
मूलम्
धौतान्घ्रिपाणिर् आचान्तः कृत्वा संकल्पम् आदरात् ।
गङ्गादिस्मरणं कृत्वा तीर्थायार्घ्यं समर्पयेत् ॥२६४॥
सागरस्वननिर्घोष दण्डहस्तासुरान्तक ।
जगत्स्रष्टर् जगन्मर्दिन्901 नमामि त्वां सुरेश्वर ॥२६५॥
इमं मन्त्रं समुच्चार्य तीर्थस्नानं समाचरेत् ।
अन्यथा तत्फलस्यार्धं तीर्थेशो हरति ध्रुवम्902 ॥२६६॥
नत्वाथ तीर्थं स्नानार्थम् अनुज्ञां प्रार्थयेद् इमाम् ।
देवदेव जगन्नाथ शङ्खचक्रगदाधर ।
देहि विष्णो ममानुज्ञां तव तीर्थनिषेवणे ॥ इति903 ॥२६७॥
विधिवन् मृदम् आदाय तीर्थतोये प्रविश्य च ।
प्रवाहाभिमुखो नद्यां स्याद् अन्यत्रार्कसम्मुखः904 ॥२६८॥
अन्यत्र नदीप्रवाहव्यतिरिक्ते905 ॥२६८॥
दिग्बन्धं विधिनाचर्य906907 तीर्थानि परिकल्प्य च ।
आवाहयेद् भगवतीं गङ्गाम् आदित्यमण्डलात् ॥२६९॥
दर्भपाणिः कृतप्राणायामः कृष्णपदाम्बुजम् ।
ध्यात्वा तन्नाम संकीर्त्य निमज्जेत् पुण्यवारिणि ॥२७०॥
आचम्य मूलमन्त्रं च सप्राणायामकं जपन्908 ।
कृष्णं ध्यायन्909 जले भूयो निमज्ज्य स्नानम् आचरेत् ॥२७१॥
विश्वास-प्रस्तुतिः
कृत्वाघमर्षणान्तं910 च नामभिः केशवादिभिः ।
तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत्911 ॥२७२॥
तत्र912 विशेषः
श्रीनारदपञ्चरात्रे—
प्रसिद्धेषु च तीर्थेषु913 यद्य् अन्यस्या914भिधां स्मरेत्915 ।
स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत् ॥ इति ॥
इति वैदिकतान्त्रिकमिश्रितो विधिः ॥२७३॥
अन्यस्य916 तीर्थस्याभिधां नाम, क्षणात् सद्य एवेत्य् अर्थः । अतो ऽप्रसिद्ध917तीर्थेषु विष्णु918तीर्थम् इति प्रसिद्धेषु च तत्तन्नामैव स्मरेद् इत्य् अर्थः । अत्र च919 निमज्जनात् प्राक् मृद्ग्रहणं तथाघमर्षणादिकं च वैदिकं तान्त्रिकं च कृष्णध्यानादिकं मूलमन्त्रजपनं केशवादिनामभिर् द्वादशवारनिमज्जनादिकं चेत्य् एवं मिश्रितत्वं920 विवेचनीयम् ॥२७३॥
अथ तत्रैव विशेषः921
पाद्मे वैशाख्यमाहात्म्ये श्रीनारदाम्बरीषसंवादे—
Broo
doing Aghamarṣaṇa,[^FNB000375] one should bathe there, immersing oneself twelve times and reciting the names of Keśava and so forth.
A Detail
In the Nārada Pañcarātra (9.30cd–31ab):
²⁷³If one meditates on a known Tīrtha by another name, that Tīrtha will curse the bather and immediately leave.
Thus end the mixed Vedic and Tantric rules.
[…] One should therefore meditate on the name of the Tīrtha, whether it is a famous Tīrtha or an unknown one, which one should simply call “Viṣṇu Tīrtha”. To use clay, to do Aghamarṣaṇa and so on before bathing are Vedic elements, while meditating on Kṛṣṇa, reciting the root mantra and bathing twelve times chanting the names of Keśava, etc., are Tantric elements. This method of bathing should thus be understood as mixed.
Further Details
In a discussion between Nārada and Ambarīṣa in the Greatness of Vaiśākha in the Padma Purāṇa (5.95.12–16, 20–23):
मूलम्
कृत्वाघमर्षणान्तं910 च नामभिः केशवादिभिः ।
तत्र द्वादशधा तोये निमज्ज्य स्नानम् आचरेत्911 ॥२७२॥
तत्र912 विशेषः
श्रीनारदपञ्चरात्रे—
प्रसिद्धेषु च तीर्थेषु913 यद्य् अन्यस्या914भिधां स्मरेत्915 ।
स्नातकं तं तु तत् तीर्थम् अभिशप्य क्षणाद् व्रजेत् ॥ इति ॥
इति वैदिकतान्त्रिकमिश्रितो विधिः ॥२७३॥
अन्यस्य916 तीर्थस्याभिधां नाम, क्षणात् सद्य एवेत्य् अर्थः । अतो ऽप्रसिद्ध917तीर्थेषु विष्णु918तीर्थम् इति प्रसिद्धेषु च तत्तन्नामैव स्मरेद् इत्य् अर्थः । अत्र च919 निमज्जनात् प्राक् मृद्ग्रहणं तथाघमर्षणादिकं च वैदिकं तान्त्रिकं च कृष्णध्यानादिकं मूलमन्त्रजपनं केशवादिनामभिर् द्वादशवारनिमज्जनादिकं चेत्य् एवं मिश्रितत्वं920 विवेचनीयम् ॥२७३॥
अथ तत्रैव विशेषः921
पाद्मे वैशाख्यमाहात्म्ये श्रीनारदाम्बरीषसंवादे—
विश्वास-प्रस्तुतिः
एवम् उच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः ।
स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः ॥२७४॥
तीर्थं प्रकल्पयेद् धीमान् मूलमन्त्रम् इमं पठन्922 ।
ॐ923 नमो नारायणायेति924 मूलमन्त्र उदाहृतः925 ॥२७५॥
एवं वि926मिश्रितस्नानविधिं लिखित्वा इदानीं तत्रैव तीर्थकल्पनादौ पुराणोक्तं किञ्चिद् विशेषं लिखति एवम् इत्यादिना । देवदेव जगन्नाथेत्यादिकम् एतद् उच्चार्य, उक्तेन मूलमन्त्रेणैव सप्तवारान् यद् अभिजप्तम् अभिमन्त्रितं जलं तत् । तृतीयान्तपाठे भावे क्तप्रत्ययः । मृद्ग्रहणानन्तरं पुनः स्नानादिकं तु समानम् एवेति विशेषेण तत्र927928 लिखितम् ॥२७४–२७५॥
दर्भपाणिस् तु विधिवद् आचान्तः प्रणतो भुवि ।
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥२७६॥
प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः ।
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता929 ।
त्राहि नस् त्व् एनसस् तस्माद् आजन्ममरणान्तिकात् ॥ इत्यादि ॥२७७॥
सप्तवाराभिजप्तं तु930 करसम्पुटयोजितम्931 ।
मूर्ध्नि कृत्वा जलं भूयश्932 चतुर्933 वा पञ्च सप्त वा934 ।
स्नानं कूर्यान् मृदा तद्वद् आमन्त्र्य935 तु936 विधानतः ॥२७८॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे937 ।
मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥२७९॥
उद्धृतासि वराहेण विष्णुना938 शतबाहुना ।
नमस् ते सर्वलोकानां939 प्रभवारिणि सुव्रते ॥ इति ॥२८०॥
गुरोः940 सन्निहितस्याथ941 पित्रोश् च चरणोदकैः ।
विप्राणां च पदाम्भोभिः कुर्यान् मूर्ध्न्य् अभिषेचनम् ॥२८१॥
सन्निहितस्येति । यदि तदानीं तत्र सन्निधौ गुर्वादयो वर्तेरन् तर्हीत्य् अर्थः ॥२८१॥
तथा च पाद्मे—
गुरोः पादोदकं पुत्र तीर्थकोटिफलप्रदम् ॥२८२॥
Broo
²⁷⁴Having recited this at that Tīrtha, one should wash the feet, silently meditate on Lord Nārāyaṇa and bathe according to the rules. ²⁷⁵After meditating on the Tīrtha, the wise man should recite this root mantra:
OṂ NAMO NĀRĀYAṆĀYA; it is called the root mantra.
Having described the mixed method of bathing, the author now gives some details as explained in the Purāṇas with regard to invoking the Tīrtha and so on. Having recited this means the “God of gods” mantra above (3.267). One should consecrate the water by reciting the above-mentioned root mantra seven times over it. […] That one should bathe again after taking the clay is indeed common [for both methods], and he gives some details for it here.
²⁷⁶Having properly performed Ācamana and holding Kuśa grass, bowing to the ground, one should draw a square of four hands length on all sides, and summon Gaṅgā with the following mantra: ²⁷⁷“You are born from the foot of Viṣṇu, you are Vaiṣṇavī, for whom Viṣṇu is God. Protect us from evil, from birth to death”, and so on.[^FNB000376]
²⁷⁸Reciting this seven times, the king should with a cupped hand pour water on his head four, five or seven times. Similarly one should bathe with mud, having properly invoked it: ²⁷⁹“O you who are traversed by horses, by chariots and by Viṣṇu, holder of treasure, O Earth! Take away my sin, the evil things that I have done. ²⁸⁰You were lifted up by Varāha, by Viṣṇu with a hundred arms! Obeisance to you, remover of birth for all the people, well situated in your vows.”
²⁸¹In their presence, one should then sprinkle one’s head with the foot-water of the guru and the parents, as with the foot-water of the Brāhmaṇas.
In their presence means that if the guru and so on are now present, one should do so at this time.
As it is said in the Padma Purāṇa (–):[^FNB000377]
²⁸²O son, the foot-water of the guru awards the fruit of ten million Tīrthas!
मूलम्
एवम् उच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः ।
स्मरन् नारायणं देवं स्नानं कुर्याद् विधानतः ॥२७४॥
तीर्थं प्रकल्पयेद् धीमान् मूलमन्त्रम् इमं पठन्922 ।
ॐ923 नमो नारायणायेति924 मूलमन्त्र उदाहृतः925 ॥२७५॥
एवं वि926मिश्रितस्नानविधिं लिखित्वा इदानीं तत्रैव तीर्थकल्पनादौ पुराणोक्तं किञ्चिद् विशेषं लिखति एवम् इत्यादिना । देवदेव जगन्नाथेत्यादिकम् एतद् उच्चार्य, उक्तेन मूलमन्त्रेणैव सप्तवारान् यद् अभिजप्तम् अभिमन्त्रितं जलं तत् । तृतीयान्तपाठे भावे क्तप्रत्ययः । मृद्ग्रहणानन्तरं पुनः स्नानादिकं तु समानम् एवेति विशेषेण तत्र927928 लिखितम् ॥२७४–२७५॥
दर्भपाणिस् तु विधिवद् आचान्तः प्रणतो भुवि ।
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ॥२७६॥
प्रकल्प्यावाहयेद् गङ्गां मन्त्रेणानेन मानवः ।
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता929 ।
त्राहि नस् त्व् एनसस् तस्माद् आजन्ममरणान्तिकात् ॥ इत्यादि ॥२७७॥
सप्तवाराभिजप्तं तु930 करसम्पुटयोजितम्931 ।
मूर्ध्नि कृत्वा जलं भूयश्932 चतुर्933 वा पञ्च सप्त वा934 ।
स्नानं कूर्यान् मृदा तद्वद् आमन्त्र्य935 तु936 विधानतः ॥२७८॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे937 ।
मृत्तिके हर मे पापं यन् मया दुष्कृतं कृतम् ॥२७९॥
उद्धृतासि वराहेण विष्णुना938 शतबाहुना ।
नमस् ते सर्वलोकानां939 प्रभवारिणि सुव्रते ॥ इति ॥२८०॥
गुरोः940 सन्निहितस्याथ941 पित्रोश् च चरणोदकैः ।
विप्राणां च पदाम्भोभिः कुर्यान् मूर्ध्न्य् अभिषेचनम् ॥२८१॥
सन्निहितस्येति । यदि तदानीं तत्र सन्निधौ गुर्वादयो वर्तेरन् तर्हीत्य् अर्थः ॥२८१॥
तथा च पाद्मे—
गुरोः पादोदकं पुत्र तीर्थकोटिफलप्रदम् ॥२८२॥
विश्वास-प्रस्तुतिः
किं च—
पित्रोः942 पादोदक943क्लिन्नं यस्य तिष्ठति वै शिरः ।
तस्य भागीरथीस्नानम् अहन्य् अहनि जायते ॥२८३॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
ससागराणि तीर्थानि947 पादे विप्रस्य दक्षिणे ॥ इति ॥२८४॥
शङ्खे वसन्ति948 सर्वाणि तीर्थानीति949950 विशेषतः ।
शङ्खेन मूलमन्त्रेणाभिषेकं951 पुनर् आचरेत् ॥२८५॥
सर्वाणि तीर्थानि शङ्खे वसन्तीति हेतोः । पुनर् अभिषेकं शङ्खेन विशेषतः कुर्यात् । तच् च निजमूलमन्त्रेणैव952 ॥२८५॥
तथैव तुलसीमिश्रशालग्रामशिलाम्भसा ।
अभिषेकं विदध्याच् च पीत्वा तत् किञ्चिद् अग्रतः ॥२८६॥
तत् श्रीशालग्रामशिलाम्भः किञ्चिद् आदौ पीत्वा प्राश्य953 ॥२८६॥
तद् उक्तं गौतमीय954तन्त्रे—955
शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् ।
कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निजमूर्धनि ॥२८७॥
शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥२८८॥
विष्णुपादोदकात् पूर्वं विप्रपादोदकं पिबेत् ।
विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते956 ॥२८९॥
Broo
And also:[^FNB000378]
²⁸³One whose head remains moistened with the footwater of his parents bathes in the Ganges every day.
And in the Gautamīya Tantra (7.64):[^FNB000379]
²⁸⁴All the Tīrthas on earth are found in the ocean, and all the Tīrthas and all the oceans are found in the right foot of the Brāhmaṇa.
²⁸⁵All the Tīrthas dwell in a conch shell. One should therefore especially sprinkle oneself again with a conch shell and the root mantra.
Since all the Tīrthas dwell in a conch shell, one should sprinkle oneself again especially using a conch shell. And this should also be done with one’s root mantra.
²⁸⁶One should also sprinkle oneself with the water from the Śālagrāma stone, mixed with Tulasī, after first drinking some of it.
[…]
This is explained in the Gautamīya Tantra (7.61–63):[^FNB000380]
²⁸⁷One should place water from the Śālagrāma stone mixed with Tulasī and sandalwood paste in a conch shell and rotating it three times over the head, sprinkle it on oneself. ²⁸⁸But one who sprinkles water from the Śālagrāma stone on his head without drinking it is known as the killer of a Brāhmaṇa! ²⁸⁹One who mistakenly drinks the footwater of Brāhmaṇa before the footwater of Viṣṇu does things the wrong way around; he is known as the killer of a Brāhmaṇa.
मूलम्
किं च—
पित्रोः942 पादोदक943क्लिन्नं यस्य तिष्ठति वै शिरः ।
तस्य भागीरथीस्नानम् अहन्य् अहनि जायते ॥२८३॥
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे ।
ससागराणि तीर्थानि947 पादे विप्रस्य दक्षिणे ॥ इति ॥२८४॥
शङ्खे वसन्ति948 सर्वाणि तीर्थानीति949950 विशेषतः ।
शङ्खेन मूलमन्त्रेणाभिषेकं951 पुनर् आचरेत् ॥२८५॥
सर्वाणि तीर्थानि शङ्खे वसन्तीति हेतोः । पुनर् अभिषेकं शङ्खेन विशेषतः कुर्यात् । तच् च निजमूलमन्त्रेणैव952 ॥२८५॥
तथैव तुलसीमिश्रशालग्रामशिलाम्भसा ।
अभिषेकं विदध्याच् च पीत्वा तत् किञ्चिद् अग्रतः ॥२८६॥
तत् श्रीशालग्रामशिलाम्भः किञ्चिद् आदौ पीत्वा प्राश्य953 ॥२८६॥
तद् उक्तं गौतमीय954तन्त्रे—955
शालग्रामशिलातोयं तुलसीगन्धमिश्रितम् ।
कृत्वा शङ्खे भ्रामयंस् त्रिः प्रक्षिपेन् निजमूर्धनि ॥२८७॥
शालग्रामशिलातोयम् अपीत्वा यस् तु मस्तके ।
प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते ॥२८८॥
विष्णुपादोदकात् पूर्वं विप्रपादोदकं पिबेत् ।
विरुद्धम् आचरन् मोहाद् ब्रह्महा स निगद्यते956 ॥२८९॥
विश्वास-प्रस्तुतिः
श्रीचरणामृतधारणमन्त्रः
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥ इति957 ॥२९०॥
लेख्यो ऽग्रे कृष्णपादाब्जतीर्थधारणपानयोः ।
महिमात्र तु958 तत्तीर्थेनाभिषेकस्य लिख्यते ॥२९१॥
कृष्णपादाब्जयोस् तीर्थं स्नानोदकं, तस्य धारणं मूर्ध्नि ग्रहणं959 पानं च, तयोः । तेन960 कृष्ण961पादाब्जस्नानोदकरूपेण तीर्थेन यो ऽभिषेकस् तस्य महिमा माहात्म्यम् अत्र अस्मिन् प्रसङ्गे लिख्यते962 ॥२९१॥
अथ963 श्रीचरणोदकाभिषेकमाहात्म्यम्
पद्मपुराणे—
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु964 दीक्षितः ।
शालग्रामशिलातोयैर् यो ऽभिषेकं समाचरेत् ॥२९२॥
गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास् तु याः965 ।
निवसन्ति सतीर्थास्966 ताः शालग्रामशिलाजले ॥२९३॥
कोटितीर्थसहस्रैस् तु967 सेवितैः किं प्रयोजनम्968 ।
तीर्थं यदि भवेत् पुण्यं शालग्रामशिलोद्भवम् ॥२९४॥
गङ्गागोदावरीत्यादिषु येषु969 श्लोकेष्व् अभिषेकशब्दो नास्ति, ते ऽप्य् अत्र पादोदकाभिषेकमाहात्म्ये970 केचिल् लिखिताः, स्नाने तिर्थापेक्षया तेषु च श्लोकेषु पादोदकस्य तीर्थत्वाद्युक्तेर् इति दिक् ॥२९२–२९४॥
तत्रैव श्री971गौतमाम्बरीषसंवादे—
येषां धौतानि गात्राणि हरेः पादोदकेन वै ।
अम्बरीष कुले तेषां दासो ऽस्मि वशगः सदा ॥२९५॥
Broo
The Mantra for Taking the Lord’s Foot-Water on One’s Head
²⁹⁰Having drunk the foot-water of Viṣṇu, that destroys all diseases and removes untimely death, I take it on my head.[^FNB000381]
²⁹¹Later on, the greatness of taking and drinking the sacred water of Kṛṣṇa’s feet will be given, but here I will describe that of sprinkling oneself with this sacred water.
[…] Here means in this context.
The Greatness of Sprinkling Oneself with the Lord’s Foot-Water
In the Padma Purāṇa (3.31.38, 139–140):[^FNB000382]
²⁹²One who sprinkles oneself with the water from the Śālagrāma stone has bathed in all Tīrthas and is initiated into all sacrifices. ²⁹³In the water from the Śālagrāma stone the Ganges, Godāvarī and Revā, rivers that award liberation, reside together with their Tīrthas. ²⁹⁴What is the use of visiting thousands of millions of Tīrthas, if the meritorious Tīrtha springs from the Śālagrāma stone.[^FNB000383]
Some verses about Ganges, Godāvarī and so on (3.293–294) that do not mention the word “sprinkling” have still been given them here in the section concerning the greatness of sprinkling with foot-water, since there is the consideration of Tīrthas at the time of bathing and because of the statement equating the foot-water with Tīrthas in these verses. This is the drift.[^FNB000384]
In a discussion between Gautama and Ambarīṣa in the same book (–):[^FNB000385]
²⁹⁵Ambarīṣa, I will always be an obedient servant of the family of those who have purified their bodies with Hari’s foot-water. ²⁹⁶Those Tīrthas
मूलम्
श्रीचरणामृतधारणमन्त्रः
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्य् अहम् ॥ इति957 ॥२९०॥
लेख्यो ऽग्रे कृष्णपादाब्जतीर्थधारणपानयोः ।
महिमात्र तु958 तत्तीर्थेनाभिषेकस्य लिख्यते ॥२९१॥
कृष्णपादाब्जयोस् तीर्थं स्नानोदकं, तस्य धारणं मूर्ध्नि ग्रहणं959 पानं च, तयोः । तेन960 कृष्ण961पादाब्जस्नानोदकरूपेण तीर्थेन यो ऽभिषेकस् तस्य महिमा माहात्म्यम् अत्र अस्मिन् प्रसङ्गे लिख्यते962 ॥२९१॥
अथ963 श्रीचरणोदकाभिषेकमाहात्म्यम्
पद्मपुराणे—
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु964 दीक्षितः ।
शालग्रामशिलातोयैर् यो ऽभिषेकं समाचरेत् ॥२९२॥
गङ्गा गोदावरी रेवा नद्यो मुक्तिप्रदास् तु याः965 ।
निवसन्ति सतीर्थास्966 ताः शालग्रामशिलाजले ॥२९३॥
कोटितीर्थसहस्रैस् तु967 सेवितैः किं प्रयोजनम्968 ।
तीर्थं यदि भवेत् पुण्यं शालग्रामशिलोद्भवम् ॥२९४॥
गङ्गागोदावरीत्यादिषु येषु969 श्लोकेष्व् अभिषेकशब्दो नास्ति, ते ऽप्य् अत्र पादोदकाभिषेकमाहात्म्ये970 केचिल् लिखिताः, स्नाने तिर्थापेक्षया तेषु च श्लोकेषु पादोदकस्य तीर्थत्वाद्युक्तेर् इति दिक् ॥२९२–२९४॥
तत्रैव श्री971गौतमाम्बरीषसंवादे—
येषां धौतानि गात्राणि हरेः पादोदकेन वै ।
अम्बरीष कुले तेषां दासो ऽस्मि वशगः सदा ॥२९५॥
विश्वास-प्रस्तुतिः
राजन्ते तानि972 तावच् च तीर्थानि भुवनत्रये ।
यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥२९६॥
स्कान्दे कार्त्तिकमाहात्म्ये—973
गृहे ऽपि वसतस् तस्य गङ्गास्नानं दिने दिने ।
शालग्रामशिलातोयैर् यो974 ऽभिषिञ्चति975 मानवः ॥२९७॥
तत्रैवान्यत्र च—976
यानि कानि977 च तीर्थानि ब्रह्माद्या देवतास् तथा ।
विष्णुपादोदकस्यैते978 कलां नार्हन्ति षोडशीम् ॥२९८॥
शालग्रामोद्भवो979 देवो देवो द्वारवतीभवः980 ।
उभयोः स्नानतोयेन ब्रह्महत्या निवर्तते ॥२९९॥
किं च—
स वै चावभृत981स्नातः982 स च गङ्गाजलाप्लुतः ।
विष्णुपादोदकं कृत्वा शङ्खे यः स्नाति मानवः ॥३००॥
श्री983नृसिंहपुराणे—
गङ्गाप्रयागगयनैमिषपुष्कराणि
पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलानि पुनन्ति पापं984
पादोदकं भगवतः प्रपुनाति सद्यः ॥३०१॥
स्मृतौ च—
त्रिरात्रिफलदा नद्यो985 याः काश्चिद् असमुद्रगाः ।
समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः ॥३०२॥
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।
पादोदकं भगवतो द्वादशाब्दफलप्रदम् ॥३०३॥
Broo
will shine in the three worlds only as long as one has not attained the water from bathing the Śālagrāma.
In the Greatness of Kārttika in the Skanda Purāṇa (–):
²⁹⁷That person who sprinkles himself with the water from the Śālagrāma stone will bathe in the Ganges day after day, even if he stays at home.
In elsewhere in the same book (–):
²⁹⁸All the Tīrthas and the gods led by Brahmā cannot compare to even a sixteenth part of Viṣṇu’s foot-water! ²⁹⁹God is in the Śālagrāma and God is in the Dvāraka-stone, and by the bathwater of both, the killing of a Brāhmaṇa is nullified.
And also (–):
³⁰⁰That man who bathes with Viṣṇu’s foot-water placed in a conch shell has taken the Avabhṛta bath and immersed himself in the waters of the Ganges.
In the Nṛsiṃha Purāṇa (66.44):[^FNB000386]
³⁰¹The Ganges, Prayāga, Gaya, Naimiṣa, Puṣkara,
all the holy places of the Kurujāṅgala and Yāmuna countries—
their holy waters cleanses from sin in time,
but the Lord’s foot-water purifies immediately!
And in the Smṛti:[^FNB000387]
³⁰²Those rivers who do not lead into the ocean give the fruit of three nights, those that lead into the ocean that of a forthnight, the lord of the rivers [the ocean] that of a month, ³⁰³the Godāvarī that of six months, the Ganges that of a year, but the Lord’s footwater gives the fruit of twelve years.
मूलम्
राजन्ते तानि972 तावच् च तीर्थानि भुवनत्रये ।
यावन् न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥२९६॥
स्कान्दे कार्त्तिकमाहात्म्ये—973
गृहे ऽपि वसतस् तस्य गङ्गास्नानं दिने दिने ।
शालग्रामशिलातोयैर् यो974 ऽभिषिञ्चति975 मानवः ॥२९७॥
तत्रैवान्यत्र च—976
यानि कानि977 च तीर्थानि ब्रह्माद्या देवतास् तथा ।
विष्णुपादोदकस्यैते978 कलां नार्हन्ति षोडशीम् ॥२९८॥
शालग्रामोद्भवो979 देवो देवो द्वारवतीभवः980 ।
उभयोः स्नानतोयेन ब्रह्महत्या निवर्तते ॥२९९॥
किं च—
स वै चावभृत981स्नातः982 स च गङ्गाजलाप्लुतः ।
विष्णुपादोदकं कृत्वा शङ्खे यः स्नाति मानवः ॥३००॥
श्री983नृसिंहपुराणे—
गङ्गाप्रयागगयनैमिषपुष्कराणि
पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलानि पुनन्ति पापं984
पादोदकं भगवतः प्रपुनाति सद्यः ॥३०१॥
स्मृतौ च—
त्रिरात्रिफलदा नद्यो985 याः काश्चिद् असमुद्रगाः ।
समुद्रगाश् च पक्षस्य मासस्य सरितां पतिः ॥३०२॥
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।
पादोदकं भगवतो द्वादशाब्दफलप्रदम् ॥३०३॥
विश्वास-प्रस्तुतिः
तन्नित्यता च986
गरुडपुराणे—
जलं च येषां तुलसीविमिश्रितं
पादोदकं चक्रशिलासमुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते987 न गात्रं
खगेन्द्र ते धर्मबहिष्कृता नराः ॥ इति ॥३०४॥
चक्रशिला श्रीशालग्रामशिला श्री988द्वारकाचक्राङ्कशिला च तत्स्थानाद् उद्भूतं पादोदकं च, न989 प्लवते न स्नपयतीत्य् अर्थः ॥३०४॥
ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भमुद्रया ।
मूलेनाथाविशेषेण कुर्याद् देवादितर्पणम् ॥३०५॥
मूलमन्त्रेण कुम्भमुद्रया त्रीन् जलाञ्जलीन् निजमूर्ध्नि प्रक्षिप्य, अथानन्तरम् अविशेषेण सामान्यतो देवादितर्पणं कुर्यात् । आदिशब्देन ऋषयः पितरश् च । तत्तन्नामभिर्990 विशेषतो देवादितर्पणम् अग्रे लेख्यम् एव ॥३०५॥
अथ सामान्यतो991 देवादि992तर्पणम्
तच् च वैदिकेषु प्रसिद्धम् एव—
ब्रह्मादयो993 ये994 देवास्995996 तान् देवांस्997 तर्पयामि998 । भूर्देवांस् तर्पयामि । भुवर्999देवांस् तर्पयामि । स्वर्देवांस् तर्पयामि1000 । भूर्भुवःस्वर्देवांस् तर्पयामि । इत्यादि1001 ॥३०६॥
इत्यादीत्यादिशब्देन कृष्णद्वैपायनादयो ये ऋषयस् तान् ऋषींस्1002 तर्पयामि । भूऋषींस् तर्पयामि । भुवः ऋषींस् तर्पयामि ।1003 स्वः ऋषींस् तर्पयामि ।1004 भूर्भुवःस्वः ऋषींस् तर्प-
Broo
And Its Mandatoriness
In the Garuḍa Purāṇa (–):[^FNB000388]
³⁰⁴O best of birds! Those men who do not daily
at the three Sandhyās bathe their bodies
with the foot-water of the disc stone, mixed with Tulasī,
have turned away from virtue.
Disc stone means the Śālagrāma stone and the Dvārakā stone, marked with discs. […]
³⁰⁵Then, after one has sprinkled three handfuls of water on the head, showing the Kumbha Mudrā[^FNB000389] and reciting the root mantra, one should perform the general libation to the gods and others.
[…] And others refers to the names of the sages and forefathers. The specific libation to the gods and so on will be described further on (3.338–350).
The General Libation to the Gods and Others
This is well-known among the followers of the Vedas:
³⁰⁶The gods that are led by Brahmā, I offer libations to those gods. I offer libations to the gods of earth. I offer libations to the gods of the atmosphere. I offer libations to the gods of heaven. I offer libations to the gods of earth, the atmosphere and heaven.
And so on.
And so on: “The sages that are led by Kṛṣṇa-dvaipāyana, I offer libations to those sages. I offer libations to the sages of earth. I offer libations to the sages of the atmosphere. I offer libations to the sages of heaven. I offer libations
मूलम्
तन्नित्यता च986
गरुडपुराणे—
जलं च येषां तुलसीविमिश्रितं
पादोदकं चक्रशिलासमुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते987 न गात्रं
खगेन्द्र ते धर्मबहिष्कृता नराः ॥ इति ॥३०४॥
चक्रशिला श्रीशालग्रामशिला श्री988द्वारकाचक्राङ्कशिला च तत्स्थानाद् उद्भूतं पादोदकं च, न989 प्लवते न स्नपयतीत्य् अर्थः ॥३०४॥
ततो जलाञ्जलीन् क्षिप्त्वा मूर्ध्नि त्रीन् कुम्भमुद्रया ।
मूलेनाथाविशेषेण कुर्याद् देवादितर्पणम् ॥३०५॥
मूलमन्त्रेण कुम्भमुद्रया त्रीन् जलाञ्जलीन् निजमूर्ध्नि प्रक्षिप्य, अथानन्तरम् अविशेषेण सामान्यतो देवादितर्पणं कुर्यात् । आदिशब्देन ऋषयः पितरश् च । तत्तन्नामभिर्990 विशेषतो देवादितर्पणम् अग्रे लेख्यम् एव ॥३०५॥
अथ सामान्यतो991 देवादि992तर्पणम्
तच् च वैदिकेषु प्रसिद्धम् एव—
ब्रह्मादयो993 ये994 देवास्995996 तान् देवांस्997 तर्पयामि998 । भूर्देवांस् तर्पयामि । भुवर्999देवांस् तर्पयामि । स्वर्देवांस् तर्पयामि1000 । भूर्भुवःस्वर्देवांस् तर्पयामि । इत्यादि1001 ॥३०६॥
इत्यादीत्यादिशब्देन कृष्णद्वैपायनादयो ये ऋषयस् तान् ऋषींस्1002 तर्पयामि । भूऋषींस् तर्पयामि । भुवः ऋषींस् तर्पयामि ।1003 स्वः ऋषींस् तर्पयामि ।1004 भूर्भुवःस्वः ऋषींस् तर्प-
विश्वास-प्रस्तुतिः
यामि । सोमः पितृमान् यमो ऽङ्गिरो ऽग्निष्वात्ताः1005 कव्यवाहनादयो ये पितरस् तान् पितॄंस् तर्पयामि इत्य् एवं पूर्ववत् ॥३०६॥
आचम्याङ्गानि सम्मार्ज्य1006 स्नानवस्त्रान्यवाससा ।
परिधायांशुके शुक्ले निविश्या1007चमनं चरेत् ॥३०७॥
स्नानस्य यद् वस्त्रं यद् परिधाय स्नानं कृतं, तस्माद् अन्येन वाससा । एतेन स्नानशाट्यञ्चलेन पाणिना वा1008 गात्रं न सम्मर्जयेद् इत्य् अर्थः । तथा च विष्णुपुराणे सदाचारकथने । स्नातो नाङ्गानि मार्जेत स्नानशाट्या न पाणिना इति ॥३०७॥
विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः ।
विधाय वैदिकीं1009 सन्ध्याम् अथोपासीत तान्त्रिकीम् ॥३०८॥
विधिवत् तत्तद्विधियुक्तं यथा स्याद् इति सर्वत्रैवानुवर्तयितव्यम् ॥३०८॥
अथ वैदिकी सन्ध्या
कौर्मे तत्रैव—1010
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः1011 ॥३०९॥
प्राक्कूलेषु प्रागग्रेष्व् इत्य् अर्थः ॥३०९॥
Broo
to the sages of earth, the atmosphere and heaven. The forefathers that are led by Soma, Pitṛmat, Yama, Aṅgiras, the Agniṣvāttas and the carriers of the offerings, I offer libations to those forefathers.” And so on in the same way.[^FNB000390]
³⁰⁷After one has performed Ācamana, one should dry one’s limbs with a different cloth than the one used while bathing, put on two white clothes, sit down and do Ācamana.
Another cloth than the cloth worn while bathing: The meaning is that one must not dry the body with the edge of the bathing cloth or with the hand. This is also explained in the Viṣṇu Purāṇa, in the context of describing Sadācāra (3.12.24): “After bathing, one may not dry the limbs with the bathing cloth or with the hand.”
³⁰⁸The Vaiṣṇava should then properly put on Tilaka, again perform Ācamana, perform Vedic Sandhyā and then the Tantric one.
Properly: as follows all its specific rules. This should be understood in every single instance.
Vedic Sandhyā
In the same place of the Kūrma Purāṇa (2.18.25–27):
³⁰⁹One should then sit down on Kuśa, the tips of which face the east, intently perform three Prāṇāyāmas and meditate on the Sandhyā. So says the Śruti.[^FNB000391]
[…]
मूलम्
यामि । सोमः पितृमान् यमो ऽङ्गिरो ऽग्निष्वात्ताः1005 कव्यवाहनादयो ये पितरस् तान् पितॄंस् तर्पयामि इत्य् एवं पूर्ववत् ॥३०६॥
आचम्याङ्गानि सम्मार्ज्य1006 स्नानवस्त्रान्यवाससा ।
परिधायांशुके शुक्ले निविश्या1007चमनं चरेत् ॥३०७॥
स्नानस्य यद् वस्त्रं यद् परिधाय स्नानं कृतं, तस्माद् अन्येन वाससा । एतेन स्नानशाट्यञ्चलेन पाणिना वा1008 गात्रं न सम्मर्जयेद् इत्य् अर्थः । तथा च विष्णुपुराणे सदाचारकथने । स्नातो नाङ्गानि मार्जेत स्नानशाट्या न पाणिना इति ॥३०७॥
विधिवत् तिलकं कृत्वा पुनश् चाचम्य वैष्णवः ।
विधाय वैदिकीं1009 सन्ध्याम् अथोपासीत तान्त्रिकीम् ॥३०८॥
विधिवत् तत्तद्विधियुक्तं यथा स्याद् इति सर्वत्रैवानुवर्तयितव्यम् ॥३०८॥
अथ वैदिकी सन्ध्या
कौर्मे तत्रैव—1010
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्याम् इति श्रुतिः1011 ॥३०९॥
प्राक्कूलेषु प्रागग्रेष्व् इत्य् अर्थः ॥३०९॥
विश्वास-प्रस्तुतिः
या च सन्ध्या जगत्सूतिर्1012 मायातीता1013 हि निष्कला1014 ।
ऐश्वरी केवला शक्तिस् तत्त्वत्रय1015समुद्भवा ॥३१०॥
ध्यात्वार्कमण्डलगतां सावित्रीं तां जपेद् बुधः ।
प्राङ्मुखः सततं विप्रः सन्ध्योपासनम् आचरेत् ॥३११॥
किं च—1016
सहस्र1017परमां1018 नित्यं शतमध्यां1019 दशावराम्1020 ।
सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः1021 स्थितः ॥३१२॥
सहस्रं सहस्रवारजपः परमः । जपे1022 श्रेष्ठपक्षो यस्या इति तथाभूताम्1023 इत्य् अर्थः । एवम् अन्यद् अप्य् ऊह्यम्1024 ॥३१२॥
किं च—1025
सन्ध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यद् अन्यत्1026 कुरुते किञ्चिन् न तस्य फलम् अप्नुयात् ॥३१३॥
यो ऽन्यत्र कुरुते यत्नं धर्म1027कार्ये1028 द्विजोत्तमः ।
विहाय सन्ध्या1029प्रणतिं स याति नरकायुतम्1030 ॥३१४॥
एवं सन्ध्योपासनस्य विधिं लिखित्वा1031 नित्यतां च लिखति सन्ध्याहीन इति द्वाभ्याम् ॥३१३–३१४॥
अनन्यचेतसः शान्ता1032 ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे1033 परां गतिम् ॥३१५॥
माहात्म्यं लिखति अनन्येति ॥३१५॥
अथ तान्त्रिकी सन्ध्या
ततः सम्पूज्य सलिले1034 निजां श्रीमन्त्रदेवताम् ।
तर्पयेद् विधिना तस्य तथैवावरणानि च ॥३१६॥
Broo
³¹⁰That Sandhyā which is the mother of the world, beyond Māyā, undivided, majestic, the only power, born from the three categories; ³¹¹the wise Brāhmaṇa should meditate on that Sāvitrī within the orb of the sun, recite her mantra and thus perform Sandhyā worship, always facing east.
And also (Kūrma Purāṇa 2.18.32):
³¹²A thousand is always best, a hundred middling and ten inferior. The knower should intently sit facing the east and recite the Sāvitrī.
A thousand: a thousand recitations is best. […]
And also (Kūrma Purāṇa 2.18.28, 30, 29):
³¹³Without Sandhyā one is perpetually impure and never eligible for any rituals; one does not achieve the fruit of whatever else one does. ³¹⁴That best of Brāhmaṇas who undertakes other exertions for the sake of virtue but neglects Sandhyā worship will go to ten thousand hells.
Having thus explained the rules for Sandhyā worship, in these two verses the author now shows its mandatoriness.
³¹⁵In ancient times, Brāhmaṇas devoted to the Veda, peaceful, with undistracted minds, attained the highest destination by properly performing Sandhyā.
In this verse the author gives its greatness.
Tantric Sandhyā
³¹⁶One should then worship the deity of one’s mantra in water, and then properly offer libations to its coverings.
मूलम्
या च सन्ध्या जगत्सूतिर्1012 मायातीता1013 हि निष्कला1014 ।
ऐश्वरी केवला शक्तिस् तत्त्वत्रय1015समुद्भवा ॥३१०॥
ध्यात्वार्कमण्डलगतां सावित्रीं तां जपेद् बुधः ।
प्राङ्मुखः सततं विप्रः सन्ध्योपासनम् आचरेत् ॥३११॥
किं च—1016
सहस्र1017परमां1018 नित्यं शतमध्यां1019 दशावराम्1020 ।
सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः1021 स्थितः ॥३१२॥
सहस्रं सहस्रवारजपः परमः । जपे1022 श्रेष्ठपक्षो यस्या इति तथाभूताम्1023 इत्य् अर्थः । एवम् अन्यद् अप्य् ऊह्यम्1024 ॥३१२॥
किं च—1025
सन्ध्याहीनो ऽशुचिर् नित्यम् अनर्हः सर्वकर्मसु ।
यद् अन्यत्1026 कुरुते किञ्चिन् न तस्य फलम् अप्नुयात् ॥३१३॥
यो ऽन्यत्र कुरुते यत्नं धर्म1027कार्ये1028 द्विजोत्तमः ।
विहाय सन्ध्या1029प्रणतिं स याति नरकायुतम्1030 ॥३१४॥
एवं सन्ध्योपासनस्य विधिं लिखित्वा1031 नित्यतां च लिखति सन्ध्याहीन इति द्वाभ्याम् ॥३१३–३१४॥
अनन्यचेतसः शान्ता1032 ब्राह्मणा वेदपारगाः ।
उपास्य विधिवत् सन्ध्यां प्राप्ताः पूर्वे1033 परां गतिम् ॥३१५॥
माहात्म्यं लिखति अनन्येति ॥३१५॥
अथ तान्त्रिकी सन्ध्या
ततः सम्पूज्य सलिले1034 निजां श्रीमन्त्रदेवताम् ।
तर्पयेद् विधिना तस्य तथैवावरणानि च ॥३१६॥
विश्वास-प्रस्तुतिः
तथा च बौधायनस्मृतौ—
हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् ।
अर्चन्ति सूरयो1035 नित्यं जपेन रविमण्डले ॥३१७॥
अर्चन्ति अर्चयन्ति ॥३१७॥
पाद्मे च1036 तत्रैव—
सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥३१८॥
अथ तद्विधिः
मूलमन्त्रम् अथोच्चार्य1037 ध्यायन् कृष्णाङ्घ्रिपङ्कजे1038 ।
श्रीकृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती ॥३१९॥
ध्यानोद्दिष्टस्वरूपाय सूर्यमण्डलवर्तिने ।
कृष्णाय कामगायत्र्या दद्याद् अर्घ्यम् अनन्तरम् ॥३२०॥
श्री1041सनत्कुमारकल्पे—10421043
आदौ मन्मथम् उद्धृत्य कामदेवपदं वदेत् ।
आयान्ते विद्महे पुष्पबाणायेति पदं वदेत् ।
धीमहीति तथोक्त्वाथ1044 तन् नो ऽनङ्गः प्रचोदयात् ॥ इति1045 ॥३२१॥
मन्मथं कामबीजम् आदौ जपेत्1046 । ततः कामदेवेति । तत आयेति । तदन्ते विद्महे इति । ततः पुष्पबाणायेति । ततश् च धीमहीति । ततश् च तन् नो ऽनङ्गः प्रचोदयाद् इति वदेद् इत्य् अर्थः । क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् इति भवति1047 ॥३२१॥
अथार्कमण्डले कृष्णं1048 ध्यात्वैतां1049 दशधा जपेत् ।
क्षमस्वेति1050 तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते ॥३२२॥
Broo
And this is explained in the Baudhāyana Smṛti (–):[^FNB000392]
³¹⁷The gods always worship Hari in fire with oblations, in water with flowers, in the heart with meditation and in the orb of the sun with recitations.
[…]
And in the same place of the Padma Purāṇa (5.95.81):
³¹⁸For the sun, obeisances is best; for water, offerings of water and so on.
Its Rules[^FNB000393]
^(319–320)The practitioner should now recite the Kṛṣṇa mantra, meditating on Kṛṣṇa’s lotus feet, and offer three libations, saying “I offer libations to Śrī Kṛṣṇa”. ³²¹With the Kāma Gāyatrī, he should ceaselessly offer Arghya to Kṛṣṇa, in a form as described in the visualisations, situated within the orb of the sun.
The Kāma Gāyatrī
In the Sanatkumāra Kalpa:
³²¹Having first uttered Manmatha, one should say the word
KĀMADEVA with the ending
ĀYA, followed by
VIDMAHE. Then one should say the word
PUṢPABĀṆĀYA, then
DHĪMAHI and then
TAN NO ’
NAṄGAḤ PRACODAYĀT.
Manmatha is the Desire-seed.[^FNB000394] […] This makes
KLĪṂ KĀMADEVĀYA VIDMAHE PUṢPABĀṆĀYA DHĪMAHI TAN NO ’
NAṄGAḤ PRACODAYĀT.
³²²Then, meditating on Kṛṣṇa within the orb of the sun, one should recite this tenfold. Praying to him with the words “forgive me”, one should offer Arghya to the sun.
मूलम्
तथा च बौधायनस्मृतौ—
हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् ।
अर्चन्ति सूरयो1035 नित्यं जपेन रविमण्डले ॥३१७॥
अर्चन्ति अर्चयन्ति ॥३१७॥
पाद्मे च1036 तत्रैव—
सूर्ये चाभ्यर्हणं श्रेष्ठं सलिले सलिलादिभिः ॥३१८॥
अथ तद्विधिः
मूलमन्त्रम् अथोच्चार्य1037 ध्यायन् कृष्णाङ्घ्रिपङ्कजे1038 ।
श्रीकृष्णं तर्पयामीति त्रिः सम्यक् तर्पयेत् कृती ॥३१९॥
ध्यानोद्दिष्टस्वरूपाय सूर्यमण्डलवर्तिने ।
कृष्णाय कामगायत्र्या दद्याद् अर्घ्यम् अनन्तरम् ॥३२०॥
श्री1041सनत्कुमारकल्पे—10421043
आदौ मन्मथम् उद्धृत्य कामदेवपदं वदेत् ।
आयान्ते विद्महे पुष्पबाणायेति पदं वदेत् ।
धीमहीति तथोक्त्वाथ1044 तन् नो ऽनङ्गः प्रचोदयात् ॥ इति1045 ॥३२१॥
मन्मथं कामबीजम् आदौ जपेत्1046 । ततः कामदेवेति । तत आयेति । तदन्ते विद्महे इति । ततः पुष्पबाणायेति । ततश् च धीमहीति । ततश् च तन् नो ऽनङ्गः प्रचोदयाद् इति वदेद् इत्य् अर्थः । क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् इति भवति1047 ॥३२१॥
अथार्कमण्डले कृष्णं1048 ध्यात्वैतां1049 दशधा जपेत् ।
क्षमस्वेति1050 तम् उद्वास्य दद्याद् अर्घ्यं विवस्वते ॥३२२॥
विश्वास-प्रस्तुतिः
एतां कामगायत्रीं दशधा दशवारान् जपन् सन्, तं कृष्णम् ॥३२२॥
विधिस् तान्त्रिकसन्ध्याया जले ऽर्चायाश् च कैश्चन1051 ।
यो ऽन्यो मन्येत सो ऽप्य् अत्र तद्विशेषाय लिख्यते1052 ॥३२३॥
तयोस् तान्त्रिकसन्ध्याजलार्चयोर् विधिविशेषज्ञापनायेत्य् अर्थः ॥३२३॥
अथ मतान्तर1053तान्त्रिकसन्ध्याविधिः
आदौ दक्षिणहस्तेन गृह्णीयाद् वारि वैष्णवः ।
ततो हृदयमन्त्रेण वामपाणितले ऽर्पयेत्10541055 ॥३२४॥
अर्पयेत् न्यस्येत् तद् वार्य् एव1056 ॥३२५॥
तदङ्गुलीविनिर्याता1057म्भःकणैर् दक्षपाणिना ।
मस्तके नेत्रमन्त्रेण कुर्यात् सम्प्रोक्षणं ततः ॥३२५॥
शिष्टं1058 तच् चास्त्रमन्त्रेणादायाम्भो दक्ष10591060पाणिना ।
अधः1061 क्षिपेत् पुनश् चैवम् इति वारचतुष्टयम्1062 ॥३२६॥
तस्य वामपाणेर् अङ्गुलिभ्यो विनिर्यातैः वि1063निःसृतैः अम्भःकणैः जलबिन्दुभिर् दक्षेण दक्षिणेन पाणिना । शिष्टम् अवसिष्ठं1064 यद् वामपाणितलस्थं तत् । इति वारचतुष्टयं कुर्याद् इत्य् अर्थः ॥३२५–३२६॥
पुनर् हृदयमन्त्रेणादायाम्भो दक्षपाणिना ।
नासापुटेन वामेनाघ्रायान्येन1065 विसर्जयेत्1066 ॥३२७॥
पुनर् अम्भो जलं दक्ष1067पाणिना आदाय गृहीत्वा, वामेन नासापुटेना1068घ्रायेति आघ्राणेनान्तर्गतदोषं प्रक्षाल्य । अन्येन दक्षिणेन नासापुटेन निःसार्य विसृजेद् इत्य् अर्थः ॥३२७॥
अथाम्भो1069 ऽञ्जलिम् आदाय सूर्यमण्डलवर्तिने ।
अर्घ्यं1070 गोपालगायत्र्या कृष्णाय त्रिर् निवेदयेत्1071 ॥३२८॥
Broo
One should recite this, the Kāma Gāyatrī, tenfold, ten times. Him refers to Kṛṣṇa.
³²³Some have a different opinion on the rules for Tantric Sandhyā and worship in water, and that also is given here, for the sake of giving their particular details.
The meaning is that to convey their particular details, that is, the specific rules for Tantric Sandhyā and worship in water.
Another Opinion on the Rules for Tantric Sandhyā
³²⁴First the Vaiṣṇava should take water in the right hand, and then with the Hṛdaya mantra[^FNB000395] pour it into the palm of the left hand.
[…]
³²⁵With the right hand, he should then sprinkle the head with drops of water from between its fingers with the Netra mantra.[^FNB000396] ³²⁶Whatever water remains he should then take with the right hand and throw down with the Astra mantra.[^FNB000397] This should be repeated four times.
Its fingers: the fingers of the left hand. […]
³²⁷Again, he should take water in the right hand with the Hṛdaya mantra, draw it into the left nostril and expel it through the other one.
[…] By drawing water into the nostril, internal faults are purified. […]
³²⁸Then, taking a handful of water, one should thrice offer Arghya to Kṛṣṇa, situated in the orb of the sun, with the Gopāla Gāyatrī.
मूलम्
एतां कामगायत्रीं दशधा दशवारान् जपन् सन्, तं कृष्णम् ॥३२२॥
विधिस् तान्त्रिकसन्ध्याया जले ऽर्चायाश् च कैश्चन1051 ।
यो ऽन्यो मन्येत सो ऽप्य् अत्र तद्विशेषाय लिख्यते1052 ॥३२३॥
तयोस् तान्त्रिकसन्ध्याजलार्चयोर् विधिविशेषज्ञापनायेत्य् अर्थः ॥३२३॥
अथ मतान्तर1053तान्त्रिकसन्ध्याविधिः
आदौ दक्षिणहस्तेन गृह्णीयाद् वारि वैष्णवः ।
ततो हृदयमन्त्रेण वामपाणितले ऽर्पयेत्10541055 ॥३२४॥
अर्पयेत् न्यस्येत् तद् वार्य् एव1056 ॥३२५॥
तदङ्गुलीविनिर्याता1057म्भःकणैर् दक्षपाणिना ।
मस्तके नेत्रमन्त्रेण कुर्यात् सम्प्रोक्षणं ततः ॥३२५॥
शिष्टं1058 तच् चास्त्रमन्त्रेणादायाम्भो दक्ष10591060पाणिना ।
अधः1061 क्षिपेत् पुनश् चैवम् इति वारचतुष्टयम्1062 ॥३२६॥
तस्य वामपाणेर् अङ्गुलिभ्यो विनिर्यातैः वि1063निःसृतैः अम्भःकणैः जलबिन्दुभिर् दक्षेण दक्षिणेन पाणिना । शिष्टम् अवसिष्ठं1064 यद् वामपाणितलस्थं तत् । इति वारचतुष्टयं कुर्याद् इत्य् अर्थः ॥३२५–३२६॥
पुनर् हृदयमन्त्रेणादायाम्भो दक्षपाणिना ।
नासापुटेन वामेनाघ्रायान्येन1065 विसर्जयेत्1066 ॥३२७॥
पुनर् अम्भो जलं दक्ष1067पाणिना आदाय गृहीत्वा, वामेन नासापुटेना1068घ्रायेति आघ्राणेनान्तर्गतदोषं प्रक्षाल्य । अन्येन दक्षिणेन नासापुटेन निःसार्य विसृजेद् इत्य् अर्थः ॥३२७॥
अथाम्भो1069 ऽञ्जलिम् आदाय सूर्यमण्डलवर्तिने ।
अर्घ्यं1070 गोपालगायत्र्या कृष्णाय त्रिर् निवेदयेत्1071 ॥३२८॥
विश्वास-प्रस्तुतिः
सा चोक्ता—
ब्रूयाद् गोपीजनं ङेऽन्तं विद्महे इत्य् अतः परम् ।
पुनर् गोपीजनं तद्वद्1072 धीमहीति ततः परम्1073 ।
तन् नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयाद् इति ॥३२९॥
ङे इति चतुर्थ्येकवचनम् । अन्ते यस्य तं गोपीजनम्1074 । तद्वच् चतुर्थ्यन्तम् इत्य् अर्थः । प्रान्ते सर्वशेषे प्रशब्दपूर्वकं चोदयाद् इति ब्रूयात् । ततश् चैवं स्यात् । गोपीजनाय विद्महे गोपीजनाय1075 धीमहि तन् नः कृष्णः प्रचोदयाद् इति ॥३२९॥
मूर्ध्नि न्यस्येत्1076 तदङ्गानि ललाटे नेत्रयोर् द्वयोः ।
भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा1077 क्रमात् ॥३३०॥
तस्या गोपालगायत्र्याः । अङ्गानि षण्मूर्धादिषट्10781079स्थानेषु क्रमान् न्यस्येद् इत्य् अर्थः ॥३३०॥
तानि चोक्तानि—1080
पञ्चभिश् च त्रिभिश् चैव पञ्चभिश् च त्रिभिः पुनः ।
चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकैः ॥ इति ॥३३१॥
अङ्गान्य् एव विभज्य दर्शयति पञ्चभिर् इति1081 । वर्णकैर् वर्णैः । स्वार्थे कः ॥३३१॥
रासक्रीडारतं कृष्णं ध्यात्वा चादित्यमण्डले ।
तत्सम्मुखोत्क्षिप्तभुजो गायत्रीं तां जपेत् क्षणम् ॥३३२॥
तस्य आदित्यमण्डलस्य सम्मुखे अभिमुखे1082 उत्क्षिप्तौ भुजौ येन तथाभूतः सन् ॥३३२॥
अथ तत्र1083 जले श्री1084भगवत्पूजाविधिः
अङ्गन्यासं स्वमन्त्रेण कृत्वाथाब्जं1085 जलान्तरे ।
सञ्चिन्त्य पीठमन्त्रेण तर्पयेच् च सकृत् सकृत् ॥३३३॥
Broo
And this Gāyatrī is:
³²⁹One should say
GOPĪJANA with the ṅe-ending, then
VIDMAHE, again
GOPĪJANA in the same way, then
DHĪMAHI,
TAN NAḤ KṚṢṆA, and finally
CODAYĀT prefixed with
PRA.
The ṅe-ending is that of the dative singular. […] This is the resulting mantra:
GOPĪJANĀYA VIDMAHE GOPĪJANĀYA DHĪMAHI TAN NAḤ KṚṢṆAḤ PRACODAYĀT.
³³⁰One should place its parts on the head, the forehead, the two eyes, the arms, the feet and all the limbs, one after the other.
One should place its, the Gopāla Gāyatrī’s, parts, six divisions, onto the six parts of the body beginning with the head. This is the meaning.
And the parts are:
³³¹One should divide it into parts by five, three, again five and again three, four and four syllables.[^FNB000398]
In this verse, the author shows how one should divide the mantra into parts. […]
³³²Having meditated upon Kṛṣṇa, delighting in the Rāsa-dance, within the orb of the sun, one should face it with upraised arms and recite this Gāyatrī for a moment.
Facing it means facing the sun. […]
Rules for Worship of the Lord in Water
³³³With one’s mantra, one should do Aṅga Nyāsa[^FNB000399] and imagine a lotus within some water. With the Pīṭha mantra,[^FNB000400] one should then offer libations once for
मूलम्
सा चोक्ता—
ब्रूयाद् गोपीजनं ङेऽन्तं विद्महे इत्य् अतः परम् ।
पुनर् गोपीजनं तद्वद्1072 धीमहीति ततः परम्1073 ।
तन् नः कृष्ण इति प्रान्ते प्रपूर्वं चोदयाद् इति ॥३२९॥
ङे इति चतुर्थ्येकवचनम् । अन्ते यस्य तं गोपीजनम्1074 । तद्वच् चतुर्थ्यन्तम् इत्य् अर्थः । प्रान्ते सर्वशेषे प्रशब्दपूर्वकं चोदयाद् इति ब्रूयात् । ततश् चैवं स्यात् । गोपीजनाय विद्महे गोपीजनाय1075 धीमहि तन् नः कृष्णः प्रचोदयाद् इति ॥३२९॥
मूर्ध्नि न्यस्येत्1076 तदङ्गानि ललाटे नेत्रयोर् द्वयोः ।
भुजयोः पादयोश् चैव सर्वाङ्गेषु तथा1077 क्रमात् ॥३३०॥
तस्या गोपालगायत्र्याः । अङ्गानि षण्मूर्धादिषट्10781079स्थानेषु क्रमान् न्यस्येद् इत्य् अर्थः ॥३३०॥
तानि चोक्तानि—1080
पञ्चभिश् च त्रिभिश् चैव पञ्चभिश् च त्रिभिः पुनः ।
चतुर्भिश् च चतुर्भिश् च कुर्याद् अङ्गानि वर्णकैः ॥ इति ॥३३१॥
अङ्गान्य् एव विभज्य दर्शयति पञ्चभिर् इति1081 । वर्णकैर् वर्णैः । स्वार्थे कः ॥३३१॥
रासक्रीडारतं कृष्णं ध्यात्वा चादित्यमण्डले ।
तत्सम्मुखोत्क्षिप्तभुजो गायत्रीं तां जपेत् क्षणम् ॥३३२॥
तस्य आदित्यमण्डलस्य सम्मुखे अभिमुखे1082 उत्क्षिप्तौ भुजौ येन तथाभूतः सन् ॥३३२॥
अथ तत्र1083 जले श्री1084भगवत्पूजाविधिः
अङ्गन्यासं स्वमन्त्रेण कृत्वाथाब्जं1085 जलान्तरे ।
सञ्चिन्त्य पीठमन्त्रेण तर्पयेच् च सकृत् सकृत् ॥३३३॥
विश्वास-प्रस्तुतिः
तस्मिंश् च कृष्णम् आवाह्य सकली1086कृत्य1087 मानसान्1088 ।
पञ्चोपचारान् दत्त्वाप्सु1089 धेनुमुद्रां प्रदर्शयेत् ॥३३४॥
तस्मिन्1090 अब्जे । मानसान् मनःकल्पितान् गन्धादीन् पञ्चोपचारान् ॥३३४॥
तज्जलं चामृतं ध्यात्वा स्वमन्त्रेणाभिमन्त्र्य च1091 ।
अष्टोत्तरशतं कृष्णोत्तमाङ्गे तर्पयेत् कृती ॥३३५॥
अमृतरूपं चिन्तयित्वा1092 । कृतीत्य् अनेन आवरणतर्पणादिकम् उद्वासनं च पूर्वानुसारेण कुर्याद्1093 एवेति बोध्यते ॥३३५॥
ततश् च मूलमन्त्रेण वारान् वै पञ्चविंशतिम् ।
अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥३३६॥
अथ विशेषतो देवादितर्पणम्
पाद्मे तत्रैव—
ब्रह्माणं तर्पयेत् पूर्वं1094 विष्णुं रुद्रं प्रजापतीन्1095 ।
देवा यक्षास् तथा नागा गन्धर्वाप्सरसो ऽसुराः ॥३३७॥
क्रूराः सर्पाः सुपर्णाश् च तरवो जिह्मगा1096 खगाः ।
विद्याधरा जल1097धरास् तथैवाकाशगामिनः ॥३३८॥
निराहाराश् च ये जीवा पापकर्मरताश्1098 च ये ।
तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥३३९॥
कृतोपवीतो1099 दैवे1100 तु1101 निवीती1102 च भवेन् नरः ।
मनुष्यांस् तर्पयेद् भक्त्या ऋषिपुत्रान् ऋषींस् तथा ॥३४०॥
सनकश्1103 च सनन्दश् च तृतीयश् च सनातनः ।
कपिलश् चासुरिश् चैव वोढुः पञ्चशिखस् तथा ॥३४१॥
सर्वे ते तृप्तिम् आयान्तु मद्दत्तेनाम्बुना सदा ।
मरीचिम्1104 अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्1105 ॥३४२॥
प्रचेतसं वसिष्ठं च1106 भृगुं नारदम् एव च ।
देवब्रह्मऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः1107 ॥३४३॥
Broo
each. ³³⁴Onto it, one should invoke and embody Kṛṣṇa.[^FNB000401] One should then offer five mental articles of worship into the water and show the Dhenu Mudrā.[^FNB000402]
Onto it, onto the lotus. Five mental articles of worship: the articles of worship of incense and so on fashioned in the mind.
³³⁵The practitioner should consider that water as nectar, invoke his mantra into it and offer a hundred and eight libations to Kṛṣṇa’s foremost limbs.
[…] The practitioner: by this it is advised that the offering of libations to the coverings as well as the Returning[^FNB000403] should be done following the customs of the ancient ones.
³³⁶And then, having recited the root mantra twenty-five times over the water, one should perform Ācamana with it according to the rules.
Specific Libations to the Gods and Others
In the same place of the Padma Purāṇa (1.20.156–163):
³³⁷One should offer libations first to Brahmā, to Viṣṇu, Rudra and the Prajāpatis. “For the gods; Yakṣas; Nāgas; Gandharvas; Apsarasās; demons; ³³⁸cruel serpents; eagles; trees; crooked birds; Vidyādharas; the clouds moving across the sky; ³³⁹fasting living beings and those engaging in sinful acts: I offer this water for their welfare.”
³⁴⁰Devotedly one should offer libations to the gods with the sacred thread over the left shoulder, and then with the sacred thread around the neck to the humans, the sages and the sons of the sages. ³⁴¹“Sanaka, Sananda, Sanat and Sanātana; Kapila Āsuri and Voḍhu Pañcaśikha—³⁴²may they all be always nourished by the water that I offer.”
With water and Akṣata one should offer libations to Marīci, Atri, Aṅgiras, Pulastya, Pulaha, Kratu, ³⁴³the Pracetas, Vasiṣṭha, Bhṛgu, Nārada—all the Deva- and Brahma-sages.
मूलम्
तस्मिंश् च कृष्णम् आवाह्य सकली1086कृत्य1087 मानसान्1088 ।
पञ्चोपचारान् दत्त्वाप्सु1089 धेनुमुद्रां प्रदर्शयेत् ॥३३४॥
तस्मिन्1090 अब्जे । मानसान् मनःकल्पितान् गन्धादीन् पञ्चोपचारान् ॥३३४॥
तज्जलं चामृतं ध्यात्वा स्वमन्त्रेणाभिमन्त्र्य च1091 ।
अष्टोत्तरशतं कृष्णोत्तमाङ्गे तर्पयेत् कृती ॥३३५॥
अमृतरूपं चिन्तयित्वा1092 । कृतीत्य् अनेन आवरणतर्पणादिकम् उद्वासनं च पूर्वानुसारेण कुर्याद्1093 एवेति बोध्यते ॥३३५॥
ततश् च मूलमन्त्रेण वारान् वै पञ्चविंशतिम् ।
अभिजप्तेनोदकेनाचमनं विधिना चरेत् ॥३३६॥
अथ विशेषतो देवादितर्पणम्
पाद्मे तत्रैव—
ब्रह्माणं तर्पयेत् पूर्वं1094 विष्णुं रुद्रं प्रजापतीन्1095 ।
देवा यक्षास् तथा नागा गन्धर्वाप्सरसो ऽसुराः ॥३३७॥
क्रूराः सर्पाः सुपर्णाश् च तरवो जिह्मगा1096 खगाः ।
विद्याधरा जल1097धरास् तथैवाकाशगामिनः ॥३३८॥
निराहाराश् च ये जीवा पापकर्मरताश्1098 च ये ।
तेषाम् आप्यायनायैतद् दीयते सलिलं मया ॥३३९॥
कृतोपवीतो1099 दैवे1100 तु1101 निवीती1102 च भवेन् नरः ।
मनुष्यांस् तर्पयेद् भक्त्या ऋषिपुत्रान् ऋषींस् तथा ॥३४०॥
सनकश्1103 च सनन्दश् च तृतीयश् च सनातनः ।
कपिलश् चासुरिश् चैव वोढुः पञ्चशिखस् तथा ॥३४१॥
सर्वे ते तृप्तिम् आयान्तु मद्दत्तेनाम्बुना सदा ।
मरीचिम्1104 अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्1105 ॥३४२॥
प्रचेतसं वसिष्ठं च1106 भृगुं नारदम् एव च ।
देवब्रह्मऋषीन् सर्वांस् तर्पयेत् साक्षतोदकैः1107 ॥३४३॥
विश्वास-प्रस्तुतिः
अपसव्यं1108 ततः कुर्यात् सव्यं जानु च भूतले ।
अग्निष्वात्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः ॥३४४॥
कव्यानलौ1109 बर्हिषदस् तथा चैवाज्यपाः1110 पुनः ।
तर्पयेत् पितृभक्त्या च सतिलोदकचन्दनैः ॥३४४॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥३४६॥
औडुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥३४७॥
दर्भपाणिः सुप्रयतः पितॄन् स्वान्1111 तर्पयेत् ततः ॥३४८॥
पित्रादीन् नामगोत्रेण तथा मातामहान् अपि ।
सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत् ॥३४९॥
ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः ।
ते तृप्तिम् अखिलां यान्तु ये चास्मत्तोयकाङ्क्षिणः1112 ॥ इति ॥३५०॥
सन्ध्योपासनतः पूर्वं केचिद् देवादितर्पणम् ।
मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः ॥३५१॥
इदं तत्तन्नामभिर् विशेषतो1113 देवादितर्पणम्, तच्1114 च सकृद् एव मन्यन्ते, न तु सामान्यविशेषाभ्यां वारद्वयम् इत्य् अर्थः । कुतः? पुराणानि पाद्मकौर्मादीनि तदुक्तानुसारात्1115 ॥३५१॥
तथा च पाद्मे1116 स्नाने1117 मृद्ग्रहणानन्तरम्—
एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः1118 ।
उत्थाय वाससी1119 शुक्ले शुद्धे1120 तु परिधाय वै ।
ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥३५२॥
ततस् तु तर्पणं कुर्याद् इति सामान्यतस् तर्पणं न स्यात्, तन्निरस्तम्1121 एव ब्रह्माणम् इत्यादि1122विशेषोक्तिः1123 । तथा कौर्मे ऽपि । स्नात्वा सन्तर्पयेद् देवान् ऋषीन् पितॄन्1124 गणांस् तथा । आचम्य मन्त्रवन् नित्यं पुनर् आचम्य वाग्यतः ॥ सम्मार्ज्य मन्त्रैर् आत्मानं कुशैः सोदकबिन्दुभिः1125 । आपोहिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥
Broo
^(344–345)Placing the left and then the right knee on the ground, one should with devotion to the ancestors offer libations of water, sesame seeds and sandalwood to the Agniṣvāttas, Saumyas, Bahiṣmats, Uṣmapas, Kavyas, Ānalas, Barhiṣats and Ājyapas. ^(346–347)“Obeisance to Yama, king of Dharma, Death, Finisher, Son of the sun, Time, Destroyer of all living beings, Copperhair, Bold one, Dark one, Highest lord, Wolfbelly, Manifold, Scribe!”
³⁴⁸Holding Kuśa grass in the hand one should then solemnly offer libation to one’s own ancestors. ³⁴⁹After one has offered libations according to the rules to all the paternal and maternal ancestors using their personal and family names, one should recite this mantra: ³⁵⁰“Whether related, unrelated or related in another birth, may all those who thirst for our water become fully slaked.”
³⁵¹Following the statements of the Purāṇas, some opine that this libation to the gods and so is to be done only once, before Sandhyā worship.
This: the specific libation to the gods and so on, using their specific names. Some people opine that it is to be done only once, and not divided into two times, one general and one specific. Why? Following statements in the Padma, Kūrma and other Purāṇas.
And this is said in the Padma Purāṇa, just after the taking of clay for bathing (5.95.24–25ab):[^FNB000404]
³⁵²After one has thus bathed, one should do Ācamana in the proper way, stand up, don two white and clean clothes and offer libations for the welfare of the three worlds.
And offer libations: this is not the general libation, because the words specifying “to Brahmā” and so forth [in the following verse] rule that out. This is also stated in the Kūrma Purāṇa (2.18.22–24): “After bathing, one should offer libations to the gods, sages, ancestors and the beings. One should always do Ācamana accompanied by mantra and then silently. One who has cleansed oneself with mantras, Kuśa grass, drops of water, the
ĀPO HI ṢṬHĀ-mantra,[^FNB000405]
मूलम्
अपसव्यं1108 ततः कुर्यात् सव्यं जानु च भूतले ।
अग्निष्वात्तास् तथा सौम्या बहिष्मन्तस् तथोष्मपाः ॥३४४॥
कव्यानलौ1109 बर्हिषदस् तथा चैवाज्यपाः1110 पुनः ।
तर्पयेत् पितृभक्त्या च सतिलोदकचन्दनैः ॥३४४॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च ॥३४६॥
औडुम्बराय दध्नाय नीलाय परमेष्ठिने ।
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥३४७॥
दर्भपाणिः सुप्रयतः पितॄन् स्वान्1111 तर्पयेत् ततः ॥३४८॥
पित्रादीन् नामगोत्रेण तथा मातामहान् अपि ।
सन्तर्प्य विधिना सर्वान् इमं मन्त्रम् उदीरयेत् ॥३४९॥
ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः ।
ते तृप्तिम् अखिलां यान्तु ये चास्मत्तोयकाङ्क्षिणः1112 ॥ इति ॥३५०॥
सन्ध्योपासनतः पूर्वं केचिद् देवादितर्पणम् ।
मन्यन्ते सकृद् एवेदं पुराणोक्तानुसारतः ॥३५१॥
इदं तत्तन्नामभिर् विशेषतो1113 देवादितर्पणम्, तच्1114 च सकृद् एव मन्यन्ते, न तु सामान्यविशेषाभ्यां वारद्वयम् इत्य् अर्थः । कुतः? पुराणानि पाद्मकौर्मादीनि तदुक्तानुसारात्1115 ॥३५१॥
तथा च पाद्मे1116 स्नाने1117 मृद्ग्रहणानन्तरम्—
एवं स्नात्वा ततः पश्चाद् आचम्य सुविधानतः1118 ।
उत्थाय वाससी1119 शुक्ले शुद्धे1120 तु परिधाय वै ।
ततस् तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥३५२॥
ततस् तु तर्पणं कुर्याद् इति सामान्यतस् तर्पणं न स्यात्, तन्निरस्तम्1121 एव ब्रह्माणम् इत्यादि1122विशेषोक्तिः1123 । तथा कौर्मे ऽपि । स्नात्वा सन्तर्पयेद् देवान् ऋषीन् पितॄन्1124 गणांस् तथा । आचम्य मन्त्रवन् नित्यं पुनर् आचम्य वाग्यतः ॥ सम्मार्ज्य मन्त्रैर् आत्मानं कुशैः सोदकबिन्दुभिः1125 । आपोहिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥
विश्वास-प्रस्तुतिः
ओंकारव्याहृतियुतां गायत्रीं वेदमातरम् । जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ इति । भास्करोपस्थानं च सन्ध्योपासनानन्तरम् । अथोपतिष्ठेद् आदित्यम् उदयन्तं समाहितः इत्यादिना तत्रैवोक्तम् अस्ति । एवं मतभेदः शाखादिभेदेनोक्तः ॥३५२॥
अत एव श्री1126रामार्चनचन्द्रिकायाम्—
निष्पीडयित्वा वस्त्रं तु पश्चात् सन्ध्यां समाचरेत्1127 ।
अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत्1128 ॥३५३॥
निष्पीडयित्वेत्य् आर्षं निष्पीड्य ॥३५३॥
किं च—
वस्त्रं त्रिगुणितं यस् तु निष्पीडयति मूढधीः ।
वृथा स्नानं भवेत् तस्य निष्पीडयति चाम्बुनि1129 ॥३५४॥
प्रसङ्गाद् वस्त्रनिष्पीडने विधिविशेषं श्रीरामार्चनचन्द्रिकोक्तम् एव लिखति वस्त्रम् इति ॥३५४॥
अथ स्नानादौ सद्भावापेक्षा1130
काशीखण्डे—
अपि सर्वनदीतोयैर् मृत्कूटैश् चाथ1131 गोमयैः1132 ।
आपातम् आचरेच्1133 छौचं भावदुष्टो न शुद्धिभाक् ॥३५५॥
नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः1134 ।
शतशो ऽपि तथा स्नाता न शुद्धा भावदूषिताः ॥३५६॥
आपातम् मरणपर्यन्तम् आचरन्न् अपि, भावदुष्टो नास्तिक इत्य् अर्थः ॥३५५॥
पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसंवादे—
Broo
the Vyāhṛtis, the pure Vāruṇa hymns or the Sāvitrī should recite the Gāyatrī, mother of the Vedas, together with
OṂ and the Vyāhṛtis, and offer handfuls of water towards the sun, fixing his mind upon it.” Worshipping the sun comes after Sandhyā worship. This is declared by statements such as “Now, one should composedly turn towards the rising sun …” (Kūrma Purāṇa 2.18.73).
This difference of opinion is said to be because of the differences between Vedic Śākhas and so on.
Furthermore, in the Rāmārcanacandrikā (p.44):
³⁵³After one has wrung out one’s cloth, one should perform Sandhyā. The bath of one who does otherwise will be fruitless.
[…]
And also (p.44):
³⁵⁴The bath of that fool who wrings out his cloth thrice or who wrings it out into water becomes useless.
In the context of wringing out the clothes, the author here presents a specific rule from the Rāmārcanacandrikā.
Considering the Proper Attitude at Bathing and so on
In the Kāśīkhaṇḍa (Skanda Purāṇa 4.35.64, 140):
³⁵⁵A man of wicked attitude may his whole life cleanse himself with the water from all rivers, with mountains of clay or even with gowdung, but he will never become clean. ³⁵⁶Fishermen bathe in water both day and night, but how pure are they? Even if those of wicked attitudes bathe hundreds of times, they are never cleansed.
His whole life: all the time up to death. A man of wicked mind: a denier.
In a discussion between Nārada and Ambarīṣa in the Greatness of Vaiśākha in the Padma Purāṇa (5.87.30, 33):
मूलम्
ओंकारव्याहृतियुतां गायत्रीं वेदमातरम् । जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ इति । भास्करोपस्थानं च सन्ध्योपासनानन्तरम् । अथोपतिष्ठेद् आदित्यम् उदयन्तं समाहितः इत्यादिना तत्रैवोक्तम् अस्ति । एवं मतभेदः शाखादिभेदेनोक्तः ॥३५२॥
अत एव श्री1126रामार्चनचन्द्रिकायाम्—
निष्पीडयित्वा वस्त्रं तु पश्चात् सन्ध्यां समाचरेत्1127 ।
अन्यथा कुरुते यस् तु स्नानं तस्याफलं भवेत्1128 ॥३५३॥
निष्पीडयित्वेत्य् आर्षं निष्पीड्य ॥३५३॥
किं च—
वस्त्रं त्रिगुणितं यस् तु निष्पीडयति मूढधीः ।
वृथा स्नानं भवेत् तस्य निष्पीडयति चाम्बुनि1129 ॥३५४॥
प्रसङ्गाद् वस्त्रनिष्पीडने विधिविशेषं श्रीरामार्चनचन्द्रिकोक्तम् एव लिखति वस्त्रम् इति ॥३५४॥
अथ स्नानादौ सद्भावापेक्षा1130
काशीखण्डे—
अपि सर्वनदीतोयैर् मृत्कूटैश् चाथ1131 गोमयैः1132 ।
आपातम् आचरेच्1133 छौचं भावदुष्टो न शुद्धिभाक् ॥३५५॥
नक्तं दिनं निमज्ज्याप्सु कैवर्ताः किम् उ पावनाः1134 ।
शतशो ऽपि तथा स्नाता न शुद्धा भावदूषिताः ॥३५६॥
आपातम् मरणपर्यन्तम् आचरन्न् अपि, भावदुष्टो नास्तिक इत्य् अर्थः ॥३५५॥
पाद्मे वैशाखमाहात्म्ये श्रीनारदाम्बरीषसंवादे—
विश्वास-प्रस्तुतिः
पुण्येन गाङ्गेन जलेन काले
देशे ऽपि यः स्नानपरः कथञ्चित् ।
आजन्मतो1135 भावहतो ऽपि दाता
न शुद्ध्यतीत्य् एव मतं ममैतत् ॥३५७॥
प्रज्वाल्य वह्निं घृततैलसिक्तं1136
प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो
न स्वर्गम् आप्नोति फलं न चान्यत् ॥३५८॥
अत एव भविष्योत्तरे—
यस्य हस्तौ च पादौ च वाङ्1137 मनश् च सुसंयतम्1138 ।
विद्या तपश् च कीर्तिश् च स तीर्थफलम् आप्नुयात् ॥३५९॥
यस्येति । हस्तादिसंयमेन तीर्थे पापानुत्पत्तेः विद्यादिना च श्रद्धाविशेषाद्युत्पत्तेर् यथोक्तफललाभः स्याद् इत्य् अर्थः1139 ॥३५९॥
अश्रद्द1140धानः पापात्मा नास्तिको ऽच्छिन्नसंशयः ।
हेतुनिष्ठश् च पञ्चैते न तीर्थफलभागिनः ॥३६०॥
इति श्री1141गोपालभट्टविलिखिते भगवद्1142भक्तिविलासे शौचीयो नाम तृतीयो विलासः ॥३॥
Broo
³⁵⁷A person of wicked mind since birth,
even though generous and devoted to bathing
in the meritorious waters of the Ganges,
at the right place and at the right time,
will never be cleansed—this is my opinion.
³⁵⁸Even if a wicked-hearted person
lights a fire, sprinkled with ghee and oil,
with flames turning auspiciously, enters it and burns,
he will not attain heaven nor any other goal.
And in the Uttarakhaṇḍa of the Bhaviṣya Purāṇa (–):
³⁵⁹One who has restrained his hands, feet, words and mind and is endowed with knowledge, penance and fame, will attain the fruit of the Tīrtha.
Since he does not commit any sin at the Tīrtha by restraining his hands and so on, and since a special faith arises through his knowledge and so on, this person will attain the promised fruit. This is the meaning.
³⁶⁰The faithless, the sinful, the deniers, the doubters and the materialists—these five will never attain the fruit of a Tīrtha.
Thus ends the third chapter of the Bhagavadbhaktivilāsa of Śrī Gopāla Bhaṭṭa, called “On Purification”.
मूलम्
पुण्येन गाङ्गेन जलेन काले
देशे ऽपि यः स्नानपरः कथञ्चित् ।
आजन्मतो1135 भावहतो ऽपि दाता
न शुद्ध्यतीत्य् एव मतं ममैतत् ॥३५७॥
प्रज्वाल्य वह्निं घृततैलसिक्तं1136
प्रदक्षिणावर्तशिखं स्वकाले ।
प्रविश्य दग्धः किल भावदुष्टो
न स्वर्गम् आप्नोति फलं न चान्यत् ॥३५८॥
अत एव भविष्योत्तरे—
यस्य हस्तौ च पादौ च वाङ्1137 मनश् च सुसंयतम्1138 ।
विद्या तपश् च कीर्तिश् च स तीर्थफलम् आप्नुयात् ॥३५९॥
यस्येति । हस्तादिसंयमेन तीर्थे पापानुत्पत्तेः विद्यादिना च श्रद्धाविशेषाद्युत्पत्तेर् यथोक्तफललाभः स्याद् इत्य् अर्थः1139 ॥३५९॥
अश्रद्द1140धानः पापात्मा नास्तिको ऽच्छिन्नसंशयः ।
हेतुनिष्ठश् च पञ्चैते न तीर्थफलभागिनः ॥३६०॥
इति श्री1141गोपालभट्टविलिखिते भगवद्1142भक्तिविलासे शौचीयो नाम तृतीयो विलासः ॥३॥
-
apekṣyate] Edd add. viṣṇupurāṇe | varṇāśramācāravatā puruṣeṇa paraḥ pumān | viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam || ↩︎ ↩︎
-
iti] V2 deest : B2 i.m. B3 add. nāradapañcarātre prāyaścittakathanārambhe | B1 B2 B3 add. mārgastho muniśārdūla luptācāro vrajaty adhaḥ | pālanīyaḥ sadā tasmād ācāraḥ sādhusevitaḥ || tatraiva śrāddhakathanārambhe | nācared yadi siddho ’pi laukikaṃ dharmam agrataḥ | upaplavāc ca dharmasya glānir bhavati nārada || vivekajñāir ataḥ sarve (B3 sarvair) laukācāro yathā sthitaḥ | ādehapātayatnena (B1 ādehapātād yatnena : B3 tathādeharpātādaratnena) rakṣaṇīyaḥ prayatnataḥ || : B1 B3 add. iti : B2 add. iti caturthapanktayaḥ ↩︎ ↩︎
-
ūhyā] B2 add. śrīśrīrādhākṛṣṇa jayati | śrīgopāla jayati | ↩︎ ↩︎
-
kṛṣṇeti] B1 kṛṣṇakṛṣṇeti : V1² i.m. V2 Edd sadācāram eva nityapakṣamāsādikṛtyena granthasamāptiparyantaṃ likhiṣyan (Edd likhan) ādau atra nityakṛtyāni likhati brāhma ity ādinā | kṛṣṇa ↩︎ ↩︎
-
rātreḥ] B1 B2 B3 ante sadācāram eva nityapakṣamāsādikṛtyena granthasamāptiparyantaṃ likhan ādau atra (B1 deest) nityakṛtyāni likhati brāhma ity ādinā | ↩︎ ↩︎
-
dhāvanādikam … kathyatāṃ] V1 V2 B1 B2 -dhāvanādikathā kīrtyatāṃ ↩︎ ↩︎
-
yaduvarapariṣat] Od gl. (yaduvarāḥ pariśat | sabhāstha) ↩︎ ↩︎
-
svair] Od gl. (svair ātmanaḥ dorbhir bāhubhiḥ adharmaṃ syad hatavān) ↩︎ ↩︎
-
dik] B3 add. śrīrāmaḥ śaraṇam || śrīrādhākṛṣṇābhyāṃ namaḥ ↩︎ ↩︎
-
vidagdha … gātram] Od gl. (vidagdhānāṃ goparamaṇīnāṃ sambhogacihnair nakhakṣatsādi kṣatāni sarvagātrāni yasya) ↩︎ ↩︎
-
amaṅgalam] Od gl. (akāro viṣṇus tadrūpam amaṅgalam kiṃ vā na vidyate maṅgalaṃ yasmāt tad amaṅgalam anuttamādivat paramamaṅgalam ity arthaḥ) ↩︎ ↩︎
-
pārāyaṇa] Od gl. (pārāyaṇaṃ vedādhyāyanasākalyaṃ tasmin pravaṇas tatpara ity arthaḥ | yad vā pārāyaṇena pravaṇaḥ praṇato yo vipras tasya param ayanamaśrayas tasya) ↩︎ ↩︎
-
snānādhikatvam] V1 Pa -snānato ’dhikatvam : B2 -snāto ’dhikatvam ↩︎ ↩︎
-
yatra] B1 ante adhunā duṣpariharakalimahāpātakasyāpi nāśakam ity āha kalīti : B3 yat : Edd sadyaḥ tatkālīnam eva kalisudustaram | yad vā ↩︎ ↩︎
-
arthaḥ] B1 add. śrījānakīvallabho jayati : B2 add. śrīśrīrādhākṛṣṇasmaraṇam ↩︎ ↩︎
-
vaiṣṇave] V2 R3 Va B3 Od Edd tatraivānyatra : V1 ante tatraivānyatra ↩︎ ↩︎
-
devendratvādi satphalam] R1 R3 Pa devendratvādikaṃ phalam ↩︎ ↩︎
-
asyāgra … evānvayaḥ] V2 a.c. asyāgre ’nvayaḥ : V2 p.c. asyāgre vānvayaḥ ↩︎ ↩︎
-
bhūman] Pa add. sarvasya nārāyaṇa eva hetur viśeṣasāmānyaniṣiddhakarmaṇaḥ | kartā svatantraḥ param aparokṣam ahaṃ ca dāso ’smi tavāṅghripadmayoḥ || ↩︎ ↩︎
-
tvayā hṛṣīkeśa] R2
-
bhāvi] B3 add. ataḥ svayam eva lekhyaṃ pādodakapānādīnām iti | ↩︎ ↩︎
-
arthaḥ] B2 add. śrīśrīgopāla jayati | śrīśrīrādhākṛṣṇaśaraṇam | śrīśrīgovindaśaraṇam | śrīśrīhariḥ ↩︎ ↩︎
-
pīnakumbha] R2 Pa B3 -pīnatuṅga- : B1 B2 Edd -pīnottuṅga- ↩︎ ↩︎
-
iti] Od deest : Va add. saurabhālolair ālambaiḥ śubhair mandāradāmabhiḥ || tadaṃśumauktikair hārair vaijayantyā ca mālayā | śrīvatsakaustubhābhyāṃ ca pariṣkṛtabhujāntaram || ratnakaṅkaṇakeyūrair bhūṣitair daśabhir bhujaiḥ | cakraṃ puṣpaśaraṃ padmaṃ śūlaṃ śāṅkhendukārmukam || gadāṃ pāśaṃ ca muralīṃ bibhrāṇaṃ mohanākṛtim | nimnanābhiṃ romarājibalimatpallavodaram || viśaṅkaṭakaṭīdeśaṃ vācālamaṇimekhalam | sphuratsaudāminīcchāyādāyādakanakāmbaram || maṇimañjīrakiraṇaiḥ kiñjalkitapadāmbujam | śānollīḍhamaṇiśreṇīramyāṅghrinakhamaṇḍalam || āpādakaṇṭham āmuktabhūṣāśatamanoharam | kalpavṛkṣamahārāme mahite ratnamaṇḍape || cintāmaṇimahāpīṭhe madhye haimasaroruhe | karṇikopari sandīpte śrīmaccakrāsane śubhe || tiṣṭhantaṃ devadeveśaṃ tribhaṅgīlalitākṛtim | vāmāṃsaśikharopāntavyālolamaṇikuṇḍalam || udañcitabhruvaṃ kiñcit kuñjitādharapallavam| gānavyājāmṛtarasair vyañjitaśrutivaibhavaiḥ || tattatsvarānuguṇyena veṇurandhrāṇy anukramāt | āvṛṇvantaṃ vivṛṇvantaṃ muhur aṅgulipallavaiḥ || upāsyamānam ānandāt sadārair diviṣadgaṇaiḥ | kṛtadundubhinirghoṣair muktiprasavavṛṣṭibhiḥ || dhyāyen madanagopālaṃ mantrī śucir alaṅkṛtaḥ | sarvān kāmān avāpnoti durlabhān apy ayatnataḥ || iti | tatraivānyatra | dhyāyed vṛndāvane samyak siddhacāraṇaveṣṭite | gogopagopikākrānte kalpapādapaśobhite || tanmadhye dvibhujaṃ dhyāyet pañcavarṣam athācyutam | snigdhendranīlaruciraṃ pūrṇacandranibhānanam || prasannavadanaṃ śāntaṃ snigdhalīlālakāvṛtam | kākapakṣādharaṃ mantrī dāmabhūṣitamūrdhajam || kiṅkiṇījālasadratnakaṭisūtravibhūṣitam | muktādāmalasadgātraṃ haricandanacarcitam || keyūrakaṭakānaddhaṃ ratnollāsitakuṇḍalam | dadhānaṃ dakṣiṇe pāṇau navanītaṃ suśobhanam || vāme hāṭakasannaddhāṃ yaṣṭim iṣṭāṃ suśobhanām | hemapadmopari svairaṃ nṛtyantaṃ vanamālinam || iti | asmiṃś ca dhyāne pañcavarṣatvādinā pūrvasmiṃś cāruṇakāntidaśabhujatvādinā ↩︎ ↩︎
-
saurabhālolair … ālambaiḥ] V1 B3 saurabhālolarolambaiḥ ↩︎ ↩︎
-
likhitair uktārthatvān] Edd pūrvācāryair likhitatvād atra ↩︎ ↩︎
-
prāyaścittaṃ] Od prāyaścittī : Od gl. kṛtaprāyaścittaḥ ↩︎ ↩︎
-
kṛṣṇa]
-
ādhokṣajā] Od gl. (adhaḥ kṣatāni akṣajāni pāpāni yatra) ↩︎ ↩︎
-
śrīviṣṇu] Edd ante tatheti | gṛhidharmakathana evety arthaḥ | ↩︎ ↩︎
-
ūhyam] B2 add. śrīśrīrādhākṛṣṇacaraṇapaṅkaje manaḥniveśam | ↩︎ ↩︎
-
āśrayet] Od gl. (kiṣkur hastaṃ vitastau ca nalvaḥ kiṣkucatuḥśatam | caturhastaṃ dhanus tasya sahasrī kroṣam ucyate) ↩︎ ↩︎
-
sasattveṣu … api] Od na tiṣṭhen na vrajan nāpi kadācana ↩︎ ↩︎
-
bhittigatām] B1 add. govinda mādhava mukunda hare murāre ↩︎ ↩︎
-
rujārdhaṃ … caurādi] B2 a.c. rujatvaṃ ca mahābhītaiḥ prārthaśaucādi- ↩︎ ↩︎
-
acchenāgandhaphenena] Od gl. (nirmalena) (nāsti gandhaphenena yasmin) ↩︎ ↩︎
-
khāni] Od gl. (saptake bhavāni khāni indriyāni mukhanāsikācakṣuśrotrāni) ↩︎ ↩︎
-
tu samupaspṛśet] V2 Va B1 B2 B3 Edd evaṃ (B2 etāny) upaspṛśet ↩︎ ↩︎
-
tīrthena] V1 gl. aṅgulagre tīrthaṃ daivaṃ svalpāṅgulyo mūle kāyaṃ | madhyeṅ ’guṣṭhāṅgulyo paitraṃ mūle hy aṅguṣṭhasya brāhmam ↩︎ ↩︎
-
pādakṣālanaśeṣeṇa] R1 pādaṃ kṣālanāśeṣeṇa : B2 prakṣālanam aśeṣeṇa ↩︎ ↩︎
-
srāvayitvā] Od gl. (śrāvayitvā kiñcit vāri prakṣipya dvijaḥ ācamet) ↩︎ ↩︎
-
vinā sūtreṇa] B1 vinmūtreṇa ca : Od gl. (yajñasūtreṇa vinā) ↩︎ ↩︎
-
triḥpāne] Od gl. (pāneḥ prakṣālane triḥ keśavādi japan ācamet) ↩︎ ↩︎
-
trayam] Edd add. madhusūdanam ekam anyaṃ ca trivikramam ity ubhāv ity arthaḥ ↩︎ ↩︎
-
narāṇām] B3 ins. prasiddhaḥ cauraḥ kathitaḥ purāṇe | anekajanmārjito ’śeṣapāpasañcayaḥ haraty aśeṣaṃ smṛtimātrake vanam ↩︎ ↩︎
-
kambuje] Edd -skandhakān :
-
vāsudeva … saṃkarṣaṇa]
-
tatraivoktam] V1 B2 tatraiva tayoktam : V2 tayoktaṃ tatraiva ↩︎ ↩︎
-
paiṭhīnasiḥ] V1 R1 R2 Pa add. ca : V2 ante atha : B3 paiṭhīnaḥ ↩︎ ↩︎
-
parimitād annam] Va parimito dantam : Od parimito hy āyur (Od gl. āyur ity ādimantrāt) ↩︎ ↩︎
-
annam]
-
vinārkāmra]
-
kuśam … aṅgulībhir] Od gl. (madhyame deśinīm ṛte vinā kuśaṃ ṛte vinā) ↩︎ ↩︎
-
arkasaṃkrāntipāte]
-
sravaty] Od gl. (divārātrau navachidrasamanvitaḥ kāyaḥ atyantamalinaḥ sravaty eva ata eva viśuddhanimittaṃ prātaḥ snānaṃ bhavati) ↩︎ ↩︎
-
japādihavanādiṣu]
-
pukkaśādiṣu] V1 V2 R1 puṣkasādiṣu : Od gl. (jātibhedeṣu) ↩︎ ↩︎
-
praśuddhiḥ] R1 R2 Pa Va B1 Od -prasiddhiḥ : B2 B3 -prasiddhaḥ ↩︎ ↩︎
-
yady apy] Od gl. (yady api anyonyamadhyāhnasāyahnamilite tathāpi amū snānaṃ pṛthag jānāti) ↩︎ ↩︎
-
vyatirikte] B2 add. śrīśrīgopāla jayati | śrīśrīgovinda jayati | śrīśrīrādhākṛṣṇaśaraṇam | śrīśrīrādhāmādhavaśaraṇam | śrīśrīhariḥ | ↩︎ ↩︎
-
marṣaṇāntaṃ] Od -marṣaṇārthaṃ : Od gl. (aghamarṣanārthaṃ kṛtvā) ↩︎ ↩︎
-
anyasya] V1 V2 B3 anyānyasya (B3 anyo ’nyasya) : B1 anyāmi asya ↩︎ ↩︎
-
mantreṇaiva] B2 add. śrīśrīharaye namaḥ | śrīśrīgopālagovindaśaraṇam | śrīśrīhariḥ | : B3 add. śrīśrīśrīśrīśrīśrīśrī || ↩︎ ↩︎
-
śālagrāmodbhavo] V1² gl. śālagrāmanāmaparvatas tasmād ubhava utpattir yasya saḥ | devaḥ śālagrāmaśilarūpaḥ | ↩︎ ↩︎
-
cāvabhṛta] V1² gl. yajñasamāptānantaraṃ snānakarma : Od gl. (avabhṛtena snātaḥ yāgāntaḥsnātaḥ) ↩︎ ↩︎
-
ityādi] Va add. bhūriṣīṃs tarpayāmi bhuvarṛṣīms tarpayāmi svariṣīṃs tarpayāmi bhurbhuvaḥsvarrṣīṃs tarpayāmīty ādi ↩︎ ↩︎
-
śrutiḥ] Va B3 Od Edd add. manusmṛtau (B3 Va -smṛtiḥ : Od² tathā ca manusmṛtau) | brāhmaṇāḥ śāktikāḥ sarve na śaivā (B3 Od² śaurā) na ca vaiṣṇavā | yata (B3 Od² yasmād) upāsate devīṃ gāyatrīṃ vedamātaram || ↩︎ ↩︎
-
jagatsūtir] Od gl. (jagatsūtir na bhavati sandhyāto ’nyat) ↩︎ ↩︎
-
vāma … rpayet] B1 vāri vāmatale ’nyaset (B1² i.m. ’rpayet) ↩︎ ↩︎
-
mantreṇādāyāmbho dakṣa] V1 R2 Pa B1 -mantreṇa ādāya dakṣiṇa- ↩︎ ↩︎
-
kṛtopavīto] V1² gl. upavītaṃ yajñasūtraṃ proddhate dakṣiṇe kare | prācīnāvītam anyasmin nivītaṃ kaṇṭhalambitam || ↩︎ ↩︎
-
arthaḥ] V1 add. iti śrītṛtīyo vilāsaḥ : V2 add. iti tṛtīyaḥ : B1 śrībhagavadbhaktivilāse tṛtīyo vilāsaḥ : B2 add. iti tṛtīyavilāsaḥ : B3 iti tritīyo vilāsaḥ || śrīrādhākṛṣṇābhyāṃ namaḥ ↩︎ ↩︎