श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः
एवं पद्मोपरि ध्यात्वा राधा-कृष्णौ ततस् तयोः ।
अष्ट-कालोचितां सेवां विदध्यात् सिद्ध-देहतः ।
गुरु-वर्गाज्ञया तत्र पूजयेद् राधिका-हरी ॥ र्क्क्_१ ॥
बाह्य-पूजां ततः कृत्वा पाद्यम् अर्घ्यं क्रमेण च ।
विधि-पूर्वक-शुश्रूषा-नन्तरं साधकः क्रमात् ।
द्वात्रिंशद्-अक्षर-मुखान्ज् अपेन् मन्त्रान् अतन्द्रितः ॥ र्क्क्_२ ॥
महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अन्तरम् ।
ततः श्री-राधिका-मन्त्रं गायत्रीं कामिकीं ततः ॥ र्क्क्_३ ॥
ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् ।
ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् ।
ततो ऽष्ट-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥ र्क्क्_४ ॥
अष्ट-कालीय-सूत्रम् आह, यथा–
निशान्तः प्रातः पूर्वाह्नो मध्याह्नश् चापराह्नकः ।
सायं प्रदोषो रात्रिश् च काला अष्टौ यथा-क्रमम् ॥ र्क्क्_५ ॥
मध्याह्नो यामिनी चोभौ षण्-मुहूर्त-मितौ स्मृतौ ।
त्रि-मुहूर्त-मिता ज्ञेया निशान्त-प्रमुखाः परे ॥ र्क्क्_६ ॥
तेषु सिद्ध-देहेन सेवनं यथा सनत्-कुमार-संहितायाम्,
श्री-नारद उवाच-
भगवन् सर्वम् आख्यातं यद् यत् पृष्ठं त्वया गुरो ।
अधुना श्रोतुम् इच्छामि राग-मार्गम् अनुत्तमम् ॥ र्क्क्_७ ॥
श्री-सदाशिव उवाच–
साधु पृष्ठं त्वया विप्र सर्व-लोक-हितैषिणा ।
रहस्यम् अपि वक्ष्यामि तन् मे निगदितं शृणु ॥ र्क्क्_८ ॥
परकीयाभिमानिन्यस् तथास्य च प्रिया जनाः ।
प्रचुरेणैव भावेन रमयन्ति निज-प्रियम् ॥ र्क्क्_९ ॥
आत्मानं चिन्तयेत् तत्र तासां मध्ये मनोरमाम् ।
रूप-यौवन-सम्पन्नां किशोरीं प्रमदाकृतिम् ॥ र्क्क्_१० ॥
नाना-शिल्प-कलाभिज्ञां कृष्ण-भोगानुरूपिणीम् ।
प्रार्थिताम् अपि कृष्णेन ततो भोग-पराङ्-मुखीम् ॥ र्क्क्_११ ॥
राधिकानुचरीं नित्यं तत्-सेवन-परायणाम् ।
कृष्णाद् अप्य् अधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥ र्क्क्_१२ ॥
प्रीत्यानुदिवसं यत्नात् तयोः सङ्गम-कारिणीम् ।
तत्-सेवन-सुखास्वाद-भरेणातिसुनिर्वृताम् ॥ र्क्क्_१३ ॥
इत्य् आत्मानं विचिन्त्यैव तत्र सेवां समाचरेत् ।
ब्राह्म-मुहूर्तम् आरभ्य यावत् सान्ता महा-निशा ॥ र्क्क्_१४ ॥
श्री-नारद उवाच–
हरेर् अत्र गतां लीलां श्रोतुम् इच्छामि तत्त्वतः ।
लीलाम् अजानतां सेव्यो मनसा तु कथं हरिः ॥ र्क्क्_१५ ॥
श्री-सदाशिव उवाच–
नाहं जानामि तां लीलां हरेर् नारद तत्त्वतः ।
वृन्दा-देवीं समागच्छ सा ते लीलां प्रवक्ष्यति ॥ र्क्क्_१६ ॥
अविदूरे इतः स्थानात् केशी-तीर्थ-समीपतः ।
सखीभिः संवृता सास्ते गोविन्द-परिचारिका ॥ र्क्क्_१७ ॥
श्री-सनत्-कुमार उवाच–
इत्य् उक्तस् तं परिक्रम्य गुरुं नत्वा पुनः पुनः ।
वृन्दा-स्थानं जगामासौ नारदो मुनि-सत्तमः ॥ र्क्क्_१८ ॥
वृन्दापि नारदं दृष्ट्वा प्रणम्यापि पुनः पुनः ।
उवाच तं मुनि-श्रेष्ठं कथम् अत्रागतिस् तव ॥ र्क्क्_१९ ॥
श्री-नारद उवाच–
त्वत्तो वेदितुम् इच्छामि नैत्यिकं चरितं हरेः ।
तद् आदितो मम ब्रुहि यदि योग्यो ऽस्मि शोभने ॥ र्क्क्_२० ॥
श्री-वृन्दा-देव्य् उवाच–
रहस्यं त्वां प्रवक्ष्यामि कृष्ण-भक्तो ऽसि नारद ।
न प्रकाश्यं त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥ र्क्क्_२१ ॥
अथ निशान्त-सेवा–
मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते ।
कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥ र्क्क्_२२ ॥
निद्रितौ तिष्ठतस् तल्पे निविडालिङ्गितौ मिथः ।
मद्-आज्ञा-कारिभिः पश्चात् पक्षिभिर् बोधिताव् अपि ॥ र्क्क्_२३ ॥
गाढालिङ्गन-निर्भेदम् आप्तौ तद्-भङ्ग-कातरौ ।
न मनस् कुरुतस् तल्पात् समुत्थातुं मनाग् अपि ॥ र्क्क्_२४ ॥
ततश् च शारिका-सङ्घैः शुकाद्यैर् अपि तौ मुहुः ।
बोधितौ विविधैः पद्यैः स्व-तल्पाद् उदतिष्ठताम् ॥ र्क्क्_२५ ॥
उपविष्टौ ततो दृष्ट्वा सख्यस् तल्पे मुदान्वितौ ।
प्रविश्य चक्रिरे सेवां तत्-कालस्योचितां तयोः ॥ र्क्क्_२६ ॥
पुनश् च शारिका-वाक्यैर् उत्थाय तौ स्व-तल्पतः ।
गच्छतः स्व-स्व-भवनं भीत्य्-उत्कण्ठाकुलौ मिथः ॥ र्क्क्_२७ ॥
इति निशान्त-सेवा
अथ प्रातः-सेवा–
प्रातश् च बोधितो मात्रा तल्पाद् उत्थाय सत्वरम् ।
कृत्वा कृष्णो दन्त-काष्ठं बलदेव-समन्वितः ॥ र्क्क्_२८ ॥
मात्रानुमोदितो याति गोशालां दोहनोत्सुकः ।
राधापि बोधिता वृद्ध-वयस्याभिः स्व-तल्पतः ॥ र्क्क्_२९ ॥
उत्थाय दन्त-काष्ठादि कृत्वाभ्यङ्ग समाचरेत् ।
स्नान-वेदीं ततो गत्वा स्नापिता ललितादिभिः ॥ र्क्क्_३० ॥
भूषा-गृहं व्रजेत् तत्र वयस्या भूषयन्त्य् अपि ।
भूषणैर् विविधैर् दिव्यैर् गन्ध-माल्यानुलेपनैः ॥ र्क्क्_३१ ॥
ततश् च स्व-जनैस् तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः ।
पक्तुम् आहूयते तूर्णं स-सखी सा यशोदया ॥ र्क्क्_३२ ॥
श्री-नारद उवाच–
कथम् आहूयते देवि पाकार्थं सा यशोदया ।
सतीषु पाक-कर्त्रीषु रोहिणी-प्रमुखाष्व् अपि ॥ र्क्क्_३३ ॥
श्री-वृन्दोवाच–
दुर्वाससा स्वयं दत्तो वरस् तस्यै महर्षिणा ।
इति कात्यायनी-वक्त्राच् छ्रुतम् आसीन् मया पुरा ॥ र्क्क्_३४ ॥
त्वया यत् पच्यते देवि तद्-अन्नं मद्-अनुग्रहात् ।
मिष्टं स्वाद्व्-अमृत-स्पर्द्धि भोक्तुर् आयुष्करं तथा ॥ र्क्क्_३५ ॥
इत्य् आह्वयति तां नित्यं यशोदा पुत्र-वत्सला ।
आयुष्मान् मे भवेत् पुत्रः स्वादु-लोभात् तथा सती ॥ र्क्क्_३६ ॥
श्वश्र्वानुमोदिता सापि हृष्टा नन्दालयं व्रजेत् ।
स-सखी-प्रकरा तत्र गत्वा पाकं करोति च ॥ र्क्क्_३७ ॥
कृष्णो ऽपि दुग्ध्वा गाः काश्चिद् दोहयित्वा जनैः पराः ।
आगच्छति पितुर् वाक्यात् स्व-गृहं सखिभिर् वृतः ॥ र्क्क्_३८ ॥
अभ्यङ्ग-मर्दनं कृत्वा दासैः संस्नापितो मुदा ।
धौत-वस्त्र-धरः स्रग्वी चन्दनाक्त-कलेवरः ॥ र्क्क्_३९ ॥
द्वि-फाल-बद्ध-केशैश् च ग्रीवा-भालोपरि स्फुरन् ।
चन्द्राकार-स्फुरद्-भाल-तिलकालक-रञ्जितः ॥ र्क्क्_४० ॥
कङ्कणाङ्गद-केयूर-रत्न-मुद्रालसत्-करः ।
मुक्ताहार-स्फुरद्-वक्षा मकराकृति-कुण्डलः ॥ र्क्क्_४१ ॥
मुहुर् आकारितो मात्रा प्रविशेद् भोजनालये ।
अवलम्ब्य करं मातुर् बलदेवम् अनुव्रतः ॥ र्क्क्_४२ ॥
भुक्त्वा च विविधान्नानि मात्रा च सखिभिर् वृतः ।
हासयन् विविधैर् वाक्यैः सखींस् तैर् हासितः स्वयम् ॥ र्क्क्_४३ ॥
इत्थं भुक्त्वा तथाचम्य दिव्य-खट्टोपरि क्षणात् ।
विश्रमेत् सेवकैर् दत्तं ताम्बूलं विभजन्न् अदन् ॥ र्क्क्_४४ ॥
राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत ।
ललितादि-सखी-वृता भुङ्क्ते ऽन्नं लज्जयान्विता ॥ र्क्क्_४५ ॥
इति प्रातः-सेवा
अथ पूर्वाह्न-सेवा–
गोप-वेश-धरः कृष्णो धेनु-वृन्द-पुरः-सरः ।
व्रज-वासि-जनैः प्रीत्या सर्वैर् अनुगतः पथि ॥ र्क्क्_४६ ॥
पितरं मातरं नत्वा नेत्रान्तेन प्रिया-गणान् ।
यथायोग्यं तथा चान्यान् सन्निवर्त्य वनं व्रजेत् ॥ र्क्क्_४७ ॥
वनं प्रविश्य सखिभिः क्रीडित्वा च क्षणं ततः ।
वञ्चयित्वा च तान् सर्वान् द्वि-त्रैः प्रिय-सखैर् युतः ॥ र्क्क्_४८ ॥
सङ्केतकं व्रजेद् धर्षात् प्रिया-सन्दर्शनोत्सुकः ।
सापि कृष्णे वनं याते दृष्ट्वा तं गृहम् आगता ॥ र्क्क्_४९ ॥
सूर्यादि-पूजा-व्याजेन कुसुमाद्य्-आहृति-च्छलात् ।
वञ्चयित्वा गुरून् याति प्रिय-सङ्गेच्छया वनं ॥ र्क्क्_५० ॥
इति पूर्वाह्न-सेवा
अथ मध्याह्न-सेवा–
इत्थं तौ बहु-यत्नेन मिलित्वा स्व-गणैर् वृतौ ।
विहारैर् विविधैस् तत्र वने विक्रीडतो मुदा ॥ र्क्क्_५१ ॥
स्यन्दोलिका-समारूढौ सखीभिर् दोलितौ क्वचित् ।
क्वचिद् वेणुं कर-स्रस्तं प्रियया चोरितं हरिः ॥ र्क्क्_५२ ॥
अन्वेषयन्न् उपालब्धो विप्रलब्धः प्रिया-गणैः ।
हासितो बहुधा ताभिर् हृत-स्व इव तिष्ठति ॥ र्क्क्_५३ ॥
वसन्त-ऋतुना जुष्टं वन-खण्डं क्वचिन् मुदा ।
प्रविश्य चन्दनाम्भोभिः कुङ्कुमादि-जलैर् अपि ॥ र्क्क्_५४ ॥
विषिञ्चतो यन्त्र-मुक्तैस् तत्-पङ्केनापि तौ मिथः ।
सख्यो ऽप्य् एवं विषिञ्चन्ति ताश् च तौ सिञ्चतः पुनः ॥ र्क्क्_५५ ॥
तथान्यर्तुसु जुष्टासु क्रीडतो वन-राजिषु ।
तत्-तत्-कालोचितैर् नाना-विहारैः स-गणौ द्विज ॥ र्क्क्_५६ ॥
श्रान्तौ क्वचिद् वृक्ष-मूलम् आसाद्य मुनि-सत्तम ।
उपविश्यासने दिव्ये मधु-पानं प्रचक्रतुः ॥ र्क्क्_५७ ॥
ततो मधु-मदोन्मत्तौ निद्रया मीलितेक्षणौ ।
मिथः पाणिं समालम्ब्य काम-बाण-वशङ्गतौ ॥ र्क्क्_५८ ॥
रिरंसु विशतः कुञ्जं स्खलत्-पादाब्जकौ पथि ।
ततो विक्रीडतस् तत्र करिणी-यूथपौ यथा ॥ र्क्क्_५९ ॥
सख्यो ऽपि मधुभिर् मत्ता निद्रया पिहितेक्षणाः ।
अभितः कुञ्ज-पुञ्जेषु सार्वा एव विलिल्यिरे ॥ र्क्क्_६० ॥
पृथग् एकेन वपुषा कृष्णो ऽपि युगपद् विभुः ।
सर्वासां सन्निधिं गच्छेत् प्रियाणां परितो मुहुः ॥ र्क्क्_६१ ॥
रमयित्वा च ताः सर्वाः करिणी-गजराड् इव ।
प्रियया च तथा ताभिः सरोवरम् अथाव्रजेत् ॥ र्क्क्_६२ ॥
श्री-नारद उवाच–
वृन्दे श्री-नन्द-पुत्रस्य माधुर्य-क्रीडने कथम् ।
ऐश्वर्यस्य प्रकाशो ऽभूद् इति मे छिन्धि संशयम् ॥ र्क्क्_६३ ॥
श्री-वृन्दोवाच–
मुने माधुर्य-मय्य् अस्ति लीला-शक्तिर् हरेर् दृशा ।
तया पृथक्-कृतः क्रीडेद् गोपिकाभिः समं हरिः ॥ र्क्क्_६४ ॥
राधया सह रूपेण निजेन रमते स्वयम् ।
इति माधुर्य-लीलायाः शक्तिर् नेशताया हरेः ॥ र्क्क्_६५ ॥
जल-सेकैर् मिथस् तत्र क्रीडित्वा स-गणौ ततः ।
वासः-स्रक्-चन्दनैर् दिव्य-भूषणैर् अपि भूषितौ ॥ र्क्क्_६६ ॥
तत्रैव सरसस् तीरे दिव्य-रत्न-मये गृहे ।
अश्नीतः फल-मूलानि कल्पितानि मयैव हि ॥ र्क्क्_६७ ॥
हरिस् तु प्रथमं भुक्त्वा कान्तया परिवेशितम् ।
द्वि-त्राभिः सेवितो गच्छेच् छय्यां पुष्प-विनिर्मिताम् ॥ र्क्क्_६८ ॥
ताम्बूलैर् व्यजनैस् तत्र पाद-संवाहनादिभिः ।
सेव्यमानो भृशन्ताभिर् मोदितः प्रेयसीं स्मरन् ॥ र्क्क्_६९ ॥
श्री-राधापि हरौ सुप्ते स-गणा मुदितान्तरा ।
कान्त-दत्तं प्रीत-मना उच्छिष्टं बुभुजे ततः ॥ र्क्क्_७० ॥
किञ्चिद् एवो ततो भुक्त्वा व्रजेच् छय्या-निकेतनम् ।
द्रष्टुं कान्त-मुखाम्भोजं चकोरीवन् निशा-करम् ॥ र्क्क्_७१ ॥
ताम्बूल-चर्वितं तस्य तत्रत्याभिर् निवेदितम् ।
ताम्बूलान्य् अपि चाश्नाति विभजन्ति प्रियालिषु ॥ र्क्क्_७२ ॥
कृष्णो ऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः ।
प्राप्त-निद्र इवाभाति विनिद्रो ऽपि पटावृतः ॥ र्क्क्_७३ ॥
ताश् च क्ष्वेलीं क्षणं कृत्वा मिथः कान्त-कथाश्रयाः ।
व्याज-निद्रां हरेर् ज्ञात्वा कुतश्चिद् अनुमानतः ॥ र्क्क्_७४ ॥
विमृश्य वदनं दृग्भिः पश्यन्त्यो ऽन्योन्य-माननम् ।
लीना इव लज्जया स्युः क्षणम् उचुर् न किञ्चनम् ॥ र्क्क्_७५ ॥
क्षणाद् एव ततो वस्त्रं दूरी-कृत्य तद् अङ्गतः ।
साधु निद्रां गतो ऽसीति हासयन्त्यो हसन्ति तम् ॥ र्क्क्_७६ ॥
एवं तौ विविधैर् हासै रममाणौ गणैः सह ।
अनुभूय क्षणं निद्रा-सुखं च मुनि-सत्तम ॥ र्क्क्_७७ ॥
उपविश्यासने दिव्ये स-गणौ विस्तृते मुदा ।
पणी-कृत्य मिथो हार-चुम्बाश्लेष-परिच्छदान् ॥ र्क्क्_७८ ॥
अक्षैर् विक्रीडितः प्रेम्णा नर्मालाप-पुरःसरम् ।
पराजितो ऽपि प्रियया जितम् इत्य् अवदन् मृषा ॥ र्क्क्_७९ ॥
हारादि-ग्रहणे तस्याः प्रवृत्तस् ताड्यते तया ।
तयैवं ताडितः कृष्णः कर्णोत्पल-सरोरुहैः ॥ र्क्क्_८० ॥
विषण्ड-वदनो भूत्वा गत-स्व इव नारद ।
जितो ऽस्मि च त्वया देवि गृह्यतां यत् पणी-कृतम् ॥ र्क्क्_८१ ॥
चुम्बनादि मया दत्तम् इत्य् उक्त्वा च तथाचरत् ।
कौटिल्यं तद्-भ्रुवोर् द्रष्टुं श्रोतुं तद्-भर्त्सनं वचः ॥ र्क्क्_८२ ॥
ततः शारी-शुकानां च श्रुत्वा वागाहवं मिथः ।
निर्गच्छतस् ततः स्थानाद् गन्तुकामो गृहं प्रति ॥ र्क्क्_८३ ॥
कृष्णः कान्ताम् अनुज्ञाप्य गवाम् अभिमुखं व्रजेत् ।
सा तु सूर्य-गृहं गच्छेत् सखी-मण्डल-संयुता ॥ र्क्क्_८४ ॥
कियद्-दूरं ततो गत्वा परावृत्य हरिः पुनः ।
विप्र-वेशं समास्थाय याति सूर्य-गृहं प्रति ॥ र्क्क्_८५ ॥
सूर्यं च पूजयेत् तत्र प्रार्थितस् तत्-सखी-जनैः ।
तद् एव कल्पितैर् वेदैः परिहास्यावगर्भितैः ॥ र्क्क्_८६ ॥
ततस् ता अपि तं कान्तं परिज्ञाय विचक्षणाः ।
आनन्द-सागरे लीना न विदुः स्वं न चापरम् ॥ र्क्क्_८७ ॥
विहारैर् विविधैर् एवं सार्ध-याम-द्वयं मुने ।
नीत्वा गृहं वजेषुस् ताः स च कृष्णो गवां व्रजेत् ॥ र्क्क्_८८ ॥
इति मध्याह्न-सेवा
अथापराह्न-सेवा–
सङ्गम्य तु सखीन् कृष्णो गृहीत्वा गाः समन्ततः ।
आगच्छति व्रजं कर्षन्न् उत्तान-मुरली-रवैः ॥ र्क्क्_८९ ॥
ततो नन्दादयः सर्वे श्रुत्वा वेणु-रवं हरेः ।
गो-धूलि-पटलैर् व्याप्तं दृष्ट्वा चापि नभः-स्थलम् ॥ र्क्क्_९० ॥
विसृज्य सर्व-कर्माणि स्त्रियो बालादयो ऽपि च ।
कृष्णस्याभिमुखं यान्ति तद्-दर्शन-समुत्सुकाः ॥ र्क्क्_९१ ॥
राधिकापि समागत्य गृहं स्नात्वा विभूषिता ।
सम्पाच्य कान्त-भोगार्थं द्रव्याणि विविधानि च ।
सखी-सङ्घ-युता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥ र्क्क्_९२ ॥
राज-मार्गे व्रज-द्वारि यत्र सर्वे व्रजौकसः ।
कृष्णो ऽप्य् एतान् समागम्य यथावद् अनुपूर्वशः ॥ र्क्क्_९३ ॥
दर्शनैः स्पर्शनैर् वापि स्मित-पुर्वावलोकनैः ।
गोप-वृद्धान् नमस्कारैः कायिकैर् वाचिकैर् अपि ॥ र्क्क्_९४ ॥
साष्टाङ्ग-पातैः पितरौ रोहिणीम् अपि नारद ।
नेत्रान्त-सूचितेनैव विनयेन प्रियास् तथा ॥ र्क्क्_९५ ॥
एवं तैश् च यथा-योग्यं व्रजौकोभिः प्रपूजितः ।
गवालयं तथा गाश् च सम्प्रवेश्य समन्ततः ॥ र्क्क्_९६ ॥
पितृभ्याम् अर्थितो याति भ्रात्रा सह निजालयम् ।
स्नात्वा पित्वा तथा किञ्चिद् भुक्त्वा मात्रानुमोदितः ।
गवालयं पुनर् याति दोग्धु-कामो गवां पयः ॥ र्क्क्_९७ ॥
इत्य् अपराह्न-सेवा
अथ सायं-सेवा–
ताश् च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन ।
पित्रा सार्धं गृहं याति पयो-भारि-शतानुगः ॥ र्क्क्_९८ ॥
तत्रापि मातृ-वृन्दैश् च तत्-पुत्रैश् च बलेन च ।
सम्भुङ्क्ते विविधान्नानि चर्व्य-चूष्यादिकानि च ॥ र्क्क्_९९ ॥
इति सायं-सेवा
अथ प्रदोष-सेवा–
तन्-मातुः प्रार्थनात् पूर्वं राधयापि तदैव हि ।
प्रस्थाप्यन्ते सखी-द्वारा पक्वान्नानि तद्-आलयम् ॥ र्क्क्_१०० ॥
श्लाघयंश् च हरिस् तानि भुक्त्वा पित्रादिभिः सह
सभा-गृहं व्रजेत् तैश् च जुष्टं वन्दि-जनादिभिः ॥ र्क्क्_१०१ ॥
पक्वान्नानि गृहीत्वा याः सख्यस् तत्र समागताः ।
बहूनि च पुनस् तानि प्रदत्तानि यशोदया ॥ र्क्क्_१०२ ॥
सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः
सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥ र्क्क्_१०३ ॥
सापि भुक्त्वा सखी-वर्ग-युता तद्-अनुपूर्वशः
सखीभिर् मण्डित तिष्ठेद् अभिसर्तुं मुदान्विता ॥ र्क्क्_१०४ ॥
प्रस्थाप्यते ऽनया काचिद् इत एव ततः सखी ।
तयाभिसारिता सा ऽथ यमुनायाः समीपतः ॥ र्क्क्_१०५ ॥
कल्प-वृक्स-निकुञ्जे ऽस्मिन् दिव्य-रत्न-मये गृहे ।
सित-कृष्ण-निशायोग्य-वेश याति सखी-युता ॥ र्क्क्_१०६ ॥
कृष्णो ऽपि विविधं तत्र दृष्ट्वा कौतुहलं ततः ।
कवित्वानि मनोज्ञानि श्रुत्वा च गीतकान्य् अपि ॥ र्क्क्_१०७ ॥
धन-धान्यादिभिस् तांश् च प्रीणयित्वा विधानतः ।
जनैर् आकारितो मात्रा याति शय्या-निकेतनम् ॥ र्क्क्_१०८ ॥
मातरि प्रस्थितायान्तु भोजयित्वा ततो गृहात् ।
सङ्केतकं कान्तयात्र समागच्छेद् अलक्षितः ॥ र्क्क्_१०९ ॥
इति प्रदोष-सेवा
अथ रात्रि-सेवा-
मिलित्वा ताव् उभाव् अत्र क्रीडतो वन-राजिषु ।
विहारैर् विविधैर् हास्य-लास्य-गीत-पुरःसरैः ॥ र्क्क्_११० ॥
सार्ध-याम-द्वयं नीत्वा रात्रेर् एवं विहारतः ।
सुषुप्सू विशतः कुञ्जं पञ्च-षाभिर् अलक्षितौ ॥ र्क्क्_१११ ॥
निर्वृन्त-कुसुमैः क् प्ते केलि-तल्पे मनोरमे ।
सुप्तावतिष्ठतां तत्र सेव्यमानौ प्रियालिभिः ॥ र्क्क्_११२ ॥
इति रात्रि-सेवा
श्री-नारद उवाच–
श्रोतुम् इच्छामि भो देव व्रज-राज-सुतस्य च ।
वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥ र्क्क्_११३ ॥
श्री-सदाशिव उवाच–
शृणु नारद वक्ष्यामि राधा-कृष्ण-रसं शुचिं ।
सु-गोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥ र्क्क्_११४ ॥
ऐकान्तिक-रसास्वादं कर्तुं वृन्दावने मुने ।
व्रज-राज-कुमारं च बहु-कालम् अभावयम् ॥ र्क्क्_११५ ॥
मयि प्रसन्नः श्री-कृष्णो मन्त्र-युग्मम् अनुत्तमम् ।
युगलाख्यं ददौ मह्यं स्वीयोज्ज्वल-रसाप्लुतम् ॥ र्क्क्_११६ ॥
समब्रवीत् तदा कृष्णः स्व-शिष्यं मां स्वकं रसम् ।
ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनाम् अगोचरम् ॥ र्क्क्_११७ ॥
व्रज-राज-सुतो वृन्दा-वने पूर्णतमो वसन् ।
सम्पूर्ण-षोडश-कला विहारं कुरुते सदा ॥ र्क्क्_११८ ॥
वासुदेवः पूर्णतरो मथुरायां वसन् पुरि ।
कलाभिः पञ्च-दशभिर् युतः क्रीडति सर्वदा ॥ र्क्क्_११९ ॥
द्वारकाधिपतिर् द्वार-वत्यां पूर्णस् त्व् असौ वसन् ।
चतुर्-दश-कलायुक्तो विहरत्य् एव सर्वदा ॥ र्क्क्_१२० ॥
एकया कलया द्वाभ्यां मथुरा-द्वारकाधिपौ ।
वृन्दावन-पते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥ र्क्क्_१२१ ॥
मथुरा-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः ।
मथुरा-लीलायां मथुरायां च सम्पूर्ण-षोडश-कलः ।
तथा द्वारका-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च ।
द्वाभ्यां कलाभ्याम् ऊनः ।
द्वारकायां द्वारका-लीलायां च पूर्ण-षोडश-कलः ।
श्रीर् भू-लीला योगमाया चिन्त्याचिन्त्या तथैव च ।
मोहिनी कौशलीत्य् अष्टौ बहिरङ्गाश् च शक्तयः ॥ र्क्क्_१२२ ॥
लीला प्रेम-स्वरूपा चस्थापन्य् आकर्षणी तथा ।
संयोगिनी वियोगिन्या-ह्लादिनीत्य् अन्तरङ्गिका ॥ र्क्क्_१२३ ॥
व्रजे श्री-कृष्ण-चन्द्रस्य सन्ति षोडश-शक्तयः ।
पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥ र्क्क्_१२४ ॥
ह्लादिनी य महा-शक्तिः सर्व-शक्ति-वरीयसी ।
तत्-सार-भाव-रूपा श्री-राधिका परिकीर्तिता ॥ र्क्क्_१२५ ॥
तया श्री-कृष्ण-चन्द्रस्य क्रिडायाः समये मुने ।
तद्-आविष्टं वासुदेवं सह क्षीराब्धि-नायकम् ॥ र्क्क्_१२६ ॥
अन्तरीक्ष्य-गतं कुर्याच् छक्तिर् आकर्षणी हरेः ।
क्रीडान्ते स्थापयेत् तन्तु स्थापनी कृष्ण-देहतः ॥ र्क्क्_१२७ ॥
सम्पूर्ण-षोडश-कलः केवलो नन्द-नन्दनः ।
विक्रीडन् राधया सार्धं लभते परमं सुखम् ॥ र्क्क्_१२८ ॥
श्री-नारद उवाच–
गते मधु-पुरीं कृष्णे विप्रलम्भ-रसः कथम् ।
वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥ र्क्क्_१२९ ॥
श्री-सदाशिव उवाच–
शक्तिः संयोगिनी कामा वामा शक्तिर् वियोगिनी ।
ह्लादिनी कीर्तिदा-पुत्री चैवं राधा-त्रयं व्रजे ॥ र्क्क्_१३० ॥
मम प्राणेश्वरः कृष्णस् त्यक्त्वा वृन्दावनं क्वचित् ।
कदाचिन् नैव यातीति जानीते कीर्तिदा-सुता ॥ र्क्क्_१३१ ॥
कामा-वामे न जानीत इति च ब्रह्म-नन्दन ।
रासारम्भ इवान्तर्धिं गतवान् नन्द-नन्दनः ॥ र्क्क्_१३२ ॥
मथुरां मथुरा-नाथो वासुदेवो जगाम ह ।
अन्तर्-हिते नन्द-सुते श्रीमद्-वृन्दावने मुने ॥ र्क्क्_१३३ ॥
प्रवासाख्यं रसं लेभे राधा वै कीर्तिदा-सुता ।
ततो वदन्ति मुनयः प्रवासं सङ्ग-विच्युतिम् ॥ र्क्क्_१३४ ॥
मम जीवन-नेता च त्यक्त्वा मां मथुरां गतः ।
इति विह्वलिता वामा राधा या विरहाद् अभूत् ॥ र्क्क्_१३५ ॥
यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च ।
गोलकं प्राप्य तत्राभूत् संयोग-रस-पेशला ॥ र्क्क्_१३६ ॥
कामा राधा च मथुरा-विरहेण निपीडिता ।
कुरुक्षेत्रं गता तीर्थ-यात्रा-परम-लालसा ॥ र्क्क्_१३७ ॥
नन्द-नन्दन-भाव-ज्ञ उद्धवो व्रजम् आगतः ।
सान्त्वयिष्यन् कीर्तिदायाः सुतां मास-द्वये गते ॥ र्क्क्_१३८ ॥
राधाम् आस्वादयामास श्रीमद्-भागवतार्थकं ।
कथायां भागवत्यान्तु जातायां मुनि-पुङ्गव ॥ र्क्क्_१३९ ॥
व्रजेन्द्र-नन्दनः श्रीमांस् तदा प्रत्यक्षतां गतः ॥ र्क्क्_१४० ॥
अतएव पाद्मोत्तर-खण्डोक्तं द्वारकाधिपतेर् वृन्दावनं प्रति-गमनं क्षीराब्धिशाय्य् आविष्टत्वात् क्षीराब्धिशायिनो द्रोणादीनां लब्ध-वर-त्वात्, तेषां पुनः स्व-स्थान-प्रापणार्थम् एवेत्य् अवगन्तव्यम् ।
श्रीमद्-भागवत-वाक्यानाम् एवं विचारो ऽवगन्तव्यः पद्मोत्तर-खण्डे तु ôकालिन्दि-पुलिने रम्येö इत्य् अत्र श्री-द्वारका-नाथस्य श्री-नन्द-नन्दन-मधुर-लीला-सन्दर्शने सोत्कण्ठत्वाद् व्योम-यानैर् एत्य श्री-वृन्दावने मास-द्वयम् उवासेत्य् अभिप्रायो ज्ञेयः ।
तद् यथा श्री-ललित-माधवे (८।३४)–ôअपरिकलित-पूर्वःö इत्यादि ।
इति ते सर्वम् आख्यातं नैत्यिकं चरितं हरेः ।
पापिनो ऽपि विमुच्यन्ते स्मरणाद् यस्य नारद ॥ र्क्क्_१४१ ॥
अष्ट-कालोक्त-शुश्रूषा-नन्तरं साधकः क्रमात् ।
द्वात्रिंशद्-अक्षर-मुख्यान् जपेन् मन्त्रान् अतन्द्रितः ॥ र्क्क्_१४२ ॥
महा-मन्त्रं जपेद् आदौ दशार्णं तद्-अनन्तरम् ।
ततः श्री-राधिका-मन्त्रं गायत्रीं कामकीं तथा ॥ र्क्क्_१४३ ॥
ततो युगल-मन्त्रं च जपेद् रास-स्थली-प्रदम् ।
ततो ऽष्टानां सखीनां च जपेन् मन्त्रान् यथा-क्रमम् ।
ततः षण्-मञ्जरीणां च स्व-स्व-मन्त्रान् क्रमाज् जपेत् ॥ र्क्क्_१४४ ॥
यथा आदि-पुराणे–
गोपी-भावेन ये भक्ता माम् एव पर्युपासते ।
तेषु तास्व् इव तुष्टो ऽस्मि सत्यं सत्यं धनञ्जय ॥ र्क्क्_१४५ ॥
वेश-भूषा-वयो-रूपैर् गोपिका-भावम् आश्रिताः ।
भावुकीयाश् च तद्-भावं यान्ति पाद-रजो ऽर्चनात् ॥ र्क्क्_१४६ ॥
यथा एकाम्र-पुराणे–
अहो भजन-माहात्म्यं वृन्दावन-पतेर् हरेः ।
पुमान् योषिद् भवेद् यत्र योषिद्-आत्म-समानिका ॥ र्क्क्_१४७ ॥
पाद्मे च (उत्तर-खण्डे)–
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
रामं दृष्ट्वा हरिं तत्र भोक्तुम् ऐच्छन् सु-विग्रहम् ॥ र्क्क्_१४८ ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ र्क्क्_१४९ ॥
बृहद्-वामन-सिद्धाश् च श्रुतयो ऽपि यथा पुरा ।
गोपी-भावेन संसेव्य समुद्भूता हि गोकुले ॥ र्क्क्_१५० ॥
यद्-उक्तं श्री-रूप-गोस्वामि-चरणैः–
हरिं सु-राग-मार्गेण सेवते यो नरोत्तमः ।
केवलेनैव स तदा गोपिकात्वम् इयाद् व्रजे ॥ र्क्क्_१५१ ॥
भक्ति-तत्त्व-कौमुद्याम्–
एकस्मिन् वासना-देहे यदि चान्यस्य भावना ।
तर्हि तत् साम्यम् एव स्यात् यथा वै भरते नृपे ॥ र्क्क्_१५२ ॥
यथा सनत्-कुमार-संहितायाम्–
श्री-नारद उवाच–
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वया देवि न संशयः ।
हरेर् मे नैत्यिकी लीला यतो मे ऽद्य प्रकाशिता ॥ र्क्क्_१५३ ॥
श्री-सनत्-कुमार उवाच–
इत्य् उक्त्वा तां परिक्रम्य तया चापि प्रपूजितः ।
अन्तर्धानं गतो राजन् नारदो मुनि-सत्तमः ॥ र्क्क्_१५४ ॥
मयाप्य् एतद् आनुपूर्व्यं सर्वं तत् परिकीर्तितम् ।
जपन् नित्यं प्रयत्नेन मन्त्र-युग्मम् अनुत्तमम् ॥ र्क्क्_१५५ ॥
कृष्ण-वक्त्राद् इदं लब्धं पुरा रुद्रेण यत्नतः ।
तेनोक्तं नारदायाथ नारदेन मयोदितम् ॥ र्क्क्_१५६ ॥
संसाराग्नि-विनाशाय मयाप्य् एतत् तवोदितम् ।
त्वया चैतद् गोपनीयं रहस्यं परमाद्भुतम् ॥ र्क्क्_१५७ ॥
श्री-अम्बरीष उवाच–
कृत-कृत्यो ऽभवं साक्षात् त्वत् प्रसादाद् अहं गुरो ।
रहस्यातिरहस्यं यत् त्वया मह्यं प्रकाशितम् ॥ र्क्क्_१५८ ॥
श्री-सनत्-कुमार उवाच–
धर्मान् एतान् उपादिष्टो जपन् मन्त्रम् अहर् निशम् ।
अचिराद् एव तद्-दास्यम् अवाप्स्यसि न संशयः ॥ र्क्क्_१५९ ॥
ôएतान् धर्मान्–अष्ट-काल-सेवा-रूपान्; मन्त्रम्–युगल-मन्त्रम्; तद्-दास्यम्–तयोः श्री-राधा-कृष्णयोर् दास्यं दासी-भावम्ö इति ।
मयापि गम्यते राजन् गुरोर् आयतनं मम ।
वृन्दावने यत्र नित्यं गुरुर् मे ऽस्ति सदाशिवः ॥ र्क्क्_१६० ॥
द्वात्रिंशद्-अक्षरादीनां मन्त्राणां क्रमेण फलं यथा पाद्मे–
द्वात्रिंशद्-अक्षरं मन्त्रं नाम-षोडशकान्वितम् ।
प्रजपन् वैष्णवो नित्यं राधा-कृष्ण-स्थलं लभेत् ॥ र्क्क्_१६१ ॥
गौतमीय-तन्त्रे च–
अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-रूपिणम् ईश्वरम् ॥ र्क्क्_१६२ ॥
गौरी-तन्त्रे च–
श्रीमद्-अष्टाक्षरं मन्त्रं राधायाः प्रेम-सिद्धि-दम् ।
प्रजपेत् साधको यस् तु स राधान्तिकम् आप्नुयात् ॥ र्क्क्_१६३ ॥
सनत्-कुमार-संहितायाम्–
जपेद् यः काम-गायत्रीं काम-बीज-समन्विताम् ।
तस्य सिद्धिर् भवेत् प्रेम राधा-कृष्ण-स्थलं व्रजेत् ॥ र्क्क्_१६४ ॥
एतां पञ्च-पदीं जप्त्वा श्रद्धया ऽश्रद्धयासकृत् ।
वृन्दावने तयोर् दास्यं गच्छत्य् एव न संशयः ॥ र्क्क्_१६५ ॥
किशोरी-तन्त्रे च–
एतान् सखीनाम् अष्टानां मन्त्रान् यः साधको जपेत् ।
श्री-राधा-कृष्णयोः क्षिप्रं विहार-स्थलम् आप्नुयात् ॥ र्क्क्_१६६ ॥
तत्रैव–
मन्त्रान् एतान् मञ्जरीणाम् अष्टानां यो जपेत् सदा ।
प्रेम-सिद्धिर् भवेत् तस्य श्री-वृन्दावनम् आप्नुयात् ॥ र्क्क्_१६७ ॥
स्मरणानन्तरं सिद्ध-देहस्यैव च साधकः ।
अष्ट-कालोदितां लीलां संस्मरेत् साधकाङ्गकः ॥ र्क्क्_१६८ ॥
कालौ निशान्त-पूर्वाह्नाव् अपराह्न-प्रदोषकौ ।
विज्ञेयौ त्रि-त्रि-घटिकौ प्रातः सायं द्वयं द्वयम् ॥ र्क्क्_१६९ ॥
द्वि-द्वि-प्रघटिकौ ज्ञेयौ मध्याह्न-रात्रिकाव् इति ॥ र्क्क्_१७० ॥
एतेषु समयेष्व् एवं या या लीला पुरोदिता ।
तां ताम् एव यथा-कालं संस्मरेत् साधको जनः ॥ र्क्क्_१७१ ॥
इति श्री-ध्यान-चन्द्र-गोस्वामि-विरचिता
श्री श्री राधा-कृष्णाष्ट-कालीय-लीला-स्मरण-क्रम-पद्धतिः ।