श्रीपाद ध्यान-चन्द्र गोस्वामी
साधको ब्राह्म-मुहूर्ते चोत्थाय निजेष्ट-नामानि स्मरेत् कीर्तयेद् वा–
स जयति विशुद्ध-विक्रमः
कनकाभः कमलायतेक्षणः ।
वर-जानु-लम्बि-सद्-भुजो
बहुधा भक्ति-रसाभिनर्तकः ॥ ग्ग्स्_१ ॥
श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे-*
त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
श्रीमन् नाम-महामृताब्धि-लहरी-कल्लोल-मग्नं मुहुर्
मुह्यन्तं गलद्-अश्रु-नेत्रम् अवशं मां नाथ नित्यं कुरु ॥ ग्ग्स्_२ ॥
श्री-कान्त कृष्ण करुणामय कञ्जनाभ
कैवल्य-वल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमल-मौक्तिक-हार-लक्ष्मी-
लावण्य-वञ्चन-करीं करवाणि कण्ठे ॥ ग्ग्स्_३ ॥
कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो
मत्स्य कच्छप नरसिम्ह वराह राघव पाहि माम् ।
देव-दानव-नारदादि मुनीन्द्र-वन्द्य दयानिधे
देवकी-सुत देहि मे तव पाद-भक्तिम् अचञ्चलाम् ॥ ग्ग्स्_४ ॥
हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते
हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव ।
हे रामानुज हे जगत्त्रय-गुरो हे पुण्डरीकाक्ष मां
हे गोपी-जन-नाथ पालय परं जानामि न त्वां विना ॥ ग्ग्स्_५ ॥
श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते
गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृहरे देवेन्द्र-चूडामणे
संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥ ग्ग्स्_६ ॥
भाण्डीरेण शिखण्ड-मण्डन वर श्रीखण्ड-लिप्ताङ्ग हे
वृन्दारण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर श्यामल ।
कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण
श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥ ग्ग्स्_७ ॥
(पद्यावली ३३-३८)
समुद्र-मेखले देवि पर्वत-स्तन-मण्डले ।
विष्णु-पत्नि नमस् तुभ्यं पाद-स्पर्शं क्षमस्व मे ॥ ग्ग्स्_८ ॥
ततो बहिर् गत्वा मैत्र-कृत्यादि-विधिं कुर्यात्, दन्त-धावनादिम् आचरेत्, शुद्धआसने पूर्वाभिमुखी उपविश्य निश्चल-मनाः -
स्मरेत् श्रीमद् गौर-चन्द्रं स्वर्धुन्या दक्षिणे तटे ।
चिन्तामणि-चित्त-धाम्नि श्री-नवद्वीप-नामके ॥ ग्ग्स्_९ ॥
स्वर्धुन्यां चारु-तीरे स्फुरितम् अतिबृहत्-कुर्म-पृष्ठाभ-गात्रं
रम्यारामावृतं सन्मणि-कनक-महा-सद्म-षण्डैः परीतम् ।
नित्यं प्रत्यालयोद्यत्-प्रणय-भर-लसत्-कृष्ण-सङ्कीर्तनाट्यं
श्री-वृन्दाटव्य् अभिन्नं त्रि-जगद् अनुपमं श्री-नवद्वीपम् ईडे ॥ ग्ग्स्_१० ॥
फुल्लच्-छ्रीमद् द्रुम-वल्ली-तल्लज-लसत्-तीरा तरङ्गावली-
रम्या मन्द-मरुम्-मराल-जलज-श्रेणिषु भृङ्गास्पदम् ।
सद्-रत्नाचित-दिव्य-तीर्थ-निवहा श्री-गौर-पादाम्बुज-
धूलि-धूसरिताङ्ग-भाव-निचिता गङ्गास्ति सम्पावनी ॥ ग्ग्स्_११ ॥
तस्यास् तीर-सुरम्य-हेम-सुरसा-मध्ये लसच् छ्री-नव-
द्वीपो भाति सुमङ्गलो मधु-रिपोर् आनन्द-वन्यो महान् ।
नाना-पुष्प-फलाढ्य-वृक्ष-लतिकारम्यो महत् सेवितो
नाना-वर्ण-विहङ्गमालि-निनदैर् हृत्-कर्ण-हारी हि यः ॥ ग्ग्स्_१२ ॥
काण्डं मारकतं प्रभूत-विटपी-शाखा सुवर्णात्मिका
पत्रालिः कुरुविन्द-कोमल-मयी प्रावालिकाः कोरकाः ।
पुष्पाणां निकरः सुहीरक-मयो वैदूर्यकीया फल-
श्रेणी यस्य स को ऽपि शाखि-निकरो यत्रातिमात्रोज्ज्वलः ॥ ग्ग्स्_१३ ॥
तन् मध्ये द्विज-भव्य-लोक-निकरागारालि-रम्याङ्गनम्
आरामोपवनालि-विलसद् वेदी-विहारास्पदम् ।
सद्-भक्ति-प्रभया विराजित-महा-भक्तालि-नित्योत्सवं
प्रत्य् आगारम् अघारि-मूर्ति-सुमहद्-भातीह यत् पत्तनम् ॥ ग्ग्स्_१४ ॥
एवम्भूते श्री-नवद्वीप-मध्ये मनसि निवासं कृत्वा तत्र श्री-गुरुदेवस्य शय्योत्थान-मुख-प्रक्षालन-दन्त-धावनादि-क्रमेण यथा-योग्यं सेवां कुर्यात् सेवानन्तरं ध्यायेत् यथा यामले–
तत्र श्री-गुरु-ध्यानम्–
कृपा-मरन्दान्वित-पाद-पङ्कजं
श्वेताम्बरं गौर-रुचिं सनातनम् ।
शन्दं सुमाल्याभरणं गुणालयं
स्मरामि सद्-भक्तम् अहं गुरुं हरिम् ॥ ग्ग्स्_१५ ॥
श्री-गुरु-परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरूणाम् अनुगामित्वेन श्रीमन् महाप्रभोर् मन्दिरं गच्छेत् ।
तत्र तद्-आज्ञया श्री-नवद्वीप-चन्द्रस्य शय्योत्थानं सुवासित-जलेन श्री-मुख-प्रक्षालनादि-क्रमेण सेवां कुर्यात् ।
तत्र श्रीमन् महाप्रभोर् ध्यानं यथा ऊर्ध्वाम्नाये (३।१५)–
द्वि-भुजं स्वर्ण-रुचिरं वराभय-करं तथा ।
प्रेमालिङ्गन-सम्बद्धं गृणन्तं हरि-नामकम् ॥ ग्ग्स्_१६ ॥
अनन्तरं श्री-वृन्दावनं ध्यायेत्–
वृन्दावनं दिव्य-लता-परीतं
लताश् च पुष्प-स्फुरिताग्र-भाजः ।
पुष्पाण्य् अपि स्फीत-मधु-व्रतानि
मधु-व्रताश् श्रुति-हारि-गीताः ॥ ग्ग्स्_१७ ॥
मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते ।
कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥ ग्ग्स्_१८ ॥
तत्र सिद्ध-देहेन श्री-राधा-कृष्णयोर् निशान्त-लीलां स्मरेद् यथा–
निशावसाने श्री-राधा-कृष्णौ श्री-वृन्दा-नियुक्त-रसमय-परम-विदग्ध-शुक-शारि-वृन्द-पद्य-पठन-जनित-प्रबोधाव् अपि गाढोपगूहन-सुख-भङ्गाद् असहिष्णुतया क्षणम् अवकाश्यमान-जागरौ तत्-तत्-पद्य-प्रपठित-निशावसान-सातङ्कौ पुष्पमयानन्द-तल्पोत्थितौ स्व-स्व-कुञ्जात् तत्-कालागत-श्रीमल्-ललिता-विशाखादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन सान्तरानन्दौ कक्खट्य्-उदित-जटिला-श्रवणात् स-शङ्कौ सङ्ग-त्याग-भयम्
असहमानौ तौ भीत्योत्कण्ठाकुलौ स्व-स्व-गृहं गच्छतः ।
एवं क्रमेण श्री-गौरचन्द्रस्य श्री-राधा-कृष्णयोर् लीलां स्मरेत् ।
निशान्त-लीला-स्मरणानन्तरं गुर्व्-आदीन् दण्डवत् प्रणमेत् यथा–
अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया ।
चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः ॥ ग्ग्स्_१९ ॥
इति मन्त्रं पठित्वा श्री-गुरुं दण्डवत् प्रशम्य एवं परम-गुरु-परात्पर-गुरु-परमेष्ठि-गुरु-गोस्वामि-चरणान् क्रमेण दण्डवत् प्रणमेत् ।
ततः श्री-गौरचन्द्रं प्रणमेत्–
विश्वम्भराय गौराय चैतन्याय महात्मने ।
शची-पुत्राय मित्राय लक्ष्मीशाय नमो नमः ॥ ग्ग्स्_२० ॥
नित्यानन्दम् अहं वन्दे कर्णे लम्बित-मौक्तिकम् ।
चैतन्याग्रज-रूपेण पवित्री-कृत-भूतलम् ॥ ग्ग्स्_२१ ॥
निस्तारिताशेष-जनं दयालुं
प्रेमामृताब्धौ परिमग्न-चित्तम् ।
चैतन्य-चन्द्रादृतम् अर्चितं तम्
अद्वैत-चन्द्रं शिरसा नमामि ॥ ग्ग्स्_२२ ॥
गदाधर नमस् तुभ्यं यस्य गौराङ्गो जीवनम् ।
नमस् ते श्री-श्रीनिवास-पण्डित प्रेम-विग्रह ॥ ग्ग्स्_२३ ॥
एवं क्रमेण गौर-भक्त-गणान् दण्डवत् प्रणमेत् ।
श्री-नवद्वीप-धाम्ने नमः ।
श्री-गङ्गायै नमः ।
श्री-सङ्कीर्तनाय नमः ।
श्री-गौड-मण्डलाय नमः ।
कन्दर्प-कोटि-रम्याय स्फुरद्-इन्दीवर-त्विषे ।
जगन्-मोहन-लीलाय नमो गोपेन्द्र-सूनवे ॥ ग्ग्स्_२४ ॥
तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरि ।
वृषभानु-सुते देवि प्रणमामि हरि-प्रिये ॥ ग्ग्स्_२५ ॥
श्री-राधिका-प्राण-समां कनीयसीं
विशाखिका-शिक्षित-सौख्य-सौष्ठवाम् ।
लीलामृतेनोच्छलिताङ्ग-माधुरीम्
अनङ्ग-पुर्वां प्रणमामि मञ्जरीम् ॥ ग्ग्स्_२६ ॥
ललितादि-परम-प्रेष्ठ-सखी-वृन्देभ्यो नमः ।
कुसुमिकादि-सखी-वृन्देभ्यो नमः ।
कस्तूर्यादि-नित्य-सखी-वृन्देभ्यो नमः ।
शशिमुख्यादि-प्राण-सखी-वृन्देभ्यो नमः ।
कुरङ्गाक्ष्यादि-प्रिय-सखी-वृन्देभ्यो नमः ।
श्री-रूपादि-मञ्जरीभ्यो नमः ।
श्रीदामादि-सखि-वृन्देभ्यो नमः ।
सर्व-गोप-गोपीभ्यो नमः ।
व्रज-वासिभ्यो नमः ।
श्री-वृन्दा-विपिनेभ्यो नमः ।
श्री-रास-मण्डलाय नमः ।
श्री-यमुनायै नमः ।
श्री-राधा-कुण्ड-श्याम-कुण्डाभ्यां नमः ।
श्री-गोवर्धनाय नमः ।
श्री-द्वादश-विपिनेभ्यो नमः ।
श्री-व्रज-मण्डलाय नमः ।
श्री-मथुरा-मण्डलाय नमः ।
सर्वावतारेभ्यो नमः ।
अनन्त-कोटि-वैष्णवेभ्यो नमः ।
वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ॥ ग्ग्स्_२७ ॥
अथ स्नानम् आचरेत् यथा–नद्य् आदौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद् यथा–
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धो कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥ ग्ग्स्_२८ ॥
महा-पाप-भङ्गे दयालो नु गङ्गे
महेशोत्तमाङ्गे लसच् चित्त-रङ्गे ।
द्रव-ब्रह्म-धामाच्युताङ्घ्र्यब्जजे मा
पुनीहीन-कन्ये प्रवाहोर्मि-धन्ये ॥ ग्ग्स्_२९ ॥
विष्णोर् नाभ्य्-अम्बु-मध्याद् वर-कमलम् अभूत् तस्य नाली-सुमेरोर्
मध्ये निःस्यन्दमाना त्वम् असि भगवति ब्रह्म-लोकात् प्रसूता ।
खाद्-भ्रष्टा रुद्र-मूर्ध्नि प्रणिपतित-जला गां गतासीति गङ्गा
कस् त्वां यो नाभिवन्देन् मधु-मथन-हर-ब्रह्म-सम्पर्क-पूताम् ॥ ग्ग्स्_३० ॥
गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैर् अपि ।
मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति ॥ ग्ग्स्_३१ ॥
चिदानन्द-भानोः सदा नन्द-सूनोः
पर-प्रेम-पात्री द्रव-ब्रह्म-गात्री ।
अघानां लवित्री जगत्-क्षेम-धात्री
पवित्री-क्रियान् नो वपुर् मित्र-पुत्री ॥ ग्ग्स्_३२ ॥
राधिका-सम-सौभाग्य सर्व-तीर्थ-प्रवन्दित ।
प्रसीद राधिका-कुण्ड स्नामि ते सलिले शुभे ॥ ग्ग्स्_३३ ॥
ततः शुक्ल-वस्त्रे परिधाय श्री-हरि-मन्दिर-धारणं कृत्वा श्री-हरि-नामाक्षरम् अङ्कयेद् गात्रे–
ललाटे केशवं ध्यायेन् नारायणम् अथोदरे ।
वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके ॥ ग्ग्स्_३४ ॥
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम् ।
त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके ॥ ग्ग्स्_३५ ॥
श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे ।
पृष्ठे तु पद्म-नाभं च कट्यां दामोदरं न्यसेत् ।
तत् प्रक्षालन-तोयं तु वासुदेवेति मूर्धनि ॥ ग्ग्स्_३६ ॥
पूर्ववत् स्थिरासने स्थिर-चित्तः तत्रादौ श्री-नवद्वीप-मध्ये श्री-रत्न-मन्दिरे रत्न-सिंहासनोपरि भक्त-वृन्द-परिसेवितं श्री-श्री-कृष्ण-चैतन्य-देवं गुर्वादि-क्रमेण ध्यात्वा पूजयेत् ।
तत्रादौ श्री-जगन्नाथ-मिश्रस्य मन्दिरं ध्यायेत् ।
यथा चैतन्यार्चन-चन्द्रिकायाम्–
श्री-जगन्नाथ-मिश्रस्य मन्दिराङ्गनम् उत्तमैः ।
नाना-रत्न-मणि-युक्तैर् विचित्र-मन्दिर-पुरम् ॥ ग्ग्स्_३७ ॥
तन्-मध्ये रवि-कान्ति-निन्दि-कनक-प्राकार-सतोरशं
श्री-नारायण-गेहम् अग्र-विलसत् सङ्कीर्तन-प्राङ्गणम् ।
लक्ष्म्य्-अन्तःपुर-पाक-भोग-शयन-श्री-चन्द्रशालं पुरं
यद्-गौराङ्ग-हरेर् विभाति सुखदं स्वानन्द-संवृहितम् ॥ ग्ग्स्_३८ ॥
तन्-मध्ये नव-चूड-रत्न-कलसं व्रजेन्द्र-रत्नान्तरा*
मुक्ता-दाम-विचित्र-हेम-पटलं सद्-भक्ति-रत्नाचितम् ।
वेद-द्वार-सद्-अष्ट-मृष्ट-मणि-रुट्-शोभा-कवाटान्वितं
सच्-चन्द्रातप-पद्म-राग-विधु-रत्नालम्बियन्-मन्दिरम् ॥ ग्ग्स्_३९ ॥
तन्-मध्ये मणि-चित्र-हेम-रचिते मन्त्रार्ण-यन्त्रान्विते
षट्-कोणान्तर-कर्णिकार-शिखर-श्री-केशरैः सन्निभे ।
कूर्माकार-महिष्ठ-योग-महसि श्री-योग-पीठाम्बुजे
राकेशावलि-सूर्य-लक्ष-विमले यद्-भाति सिंहासनम् ॥ ग्ग्स्_४० ॥
पार्श्वाधः-पद्म-पटि-घटित-हरि-मणि-स्तम्भ-वैदूर्य-पृष्ठं
चित्र-छादावलम्बि-प्रवर-मणि-महा-मौक्तिकं कान्ति-जालम् ।
तूलान्तश् चीन-चेलासनम्-उडुप-मृदु-प्रान्त-पृष्ठोपधानं
स्वर्णान्तश् चित्र-मन्त्रं वसु-हरि-चरण-ध्यान-गम्याष्ट-कोशम् ॥ ग्ग्स्_४१ ॥
तन्-मध्ये श्री-गौर-चन्द्रं वामे श्रील-गदाधरम् ।
तद्-दक्षिणे ऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेत् ॥ ग्ग्स्_४२ ॥
तद्-दक्षिणे श्रीनिवासं स्मरेत् श्री-पण्डितोत्तमम् ।
स्मरेत् श्री-भक्त-वृन्दं च चतुर्-दिक्षु सुवेष्टितम् ॥ ग्ग्स्_४३ ॥
श्रीमद्-गौर-भक्त-वृन्दे स्वीय-स्वीय-गणान्विते ।
रूप-स्वरूप-प्रमुखे स्व-गण-स्थान् गुरून् स्मरेत् ॥ ग्ग्स्_४४ ॥
तत्रादौ श्री-गुरु-स्मरणं यथा सनत्-कुमार-संहितायाम्–
शशाङ्कायुत-सङ्काशं वराभय-लसत्-करं ।
शुक्लाम्बर-धरं दिव्य-शुक्ल-माल्यानुलेपनम् ॥ ग्ग्स्_४५ ॥
प्रसन्न-वदनं शान्तं भजनानन्द-निर्वृतम् ।
दिव्य-रूप-धरं ध्यायेद् वरदं कमलेक्षणम् ॥ ग्ग्स्_४६ ॥
रूप-पूर्व-गुरु-गणान्-उगतं सेवनोत्सुकम् ।
एवं रूपं गुरुं ध्यायेन् मनसा साधकः शुचिः ॥ ग्ग्स्_४७ ॥
तत्-समीपे सेवोत्सुकम् आत्मानं भावयेद् यथा–
दिव्य-श्री-हरि-मन्दिराढ्य-तिलकं कण्ठं सुमालान्वितं
वक्षः श्री-हरि-नाम-वर्ण-सुभगं श्रीखण्ड-लिप्तं पुनः ।
शुद्धं शुभ्र-नवाम्बरं विमलतां नित्यं वहन्तीं तनुं
ध्यायेच्-छ्री-गुरु-पाद-पद्म-निकटे सेवोत्सुकां चात्मनः ॥ ग्ग्स्_४८ ॥
श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं
श्रीखण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम् ।
नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं
चैतन्यं कनक-द्युतिं निज-जनैः संसेव्य्मानं भजे ॥ ग्ग्स्_४९ ॥
कञ्जारेन्द्र-विनिन्दि-सुन्दर-गतिं श्री-पादम् इन्दीवर*
श्रेणी-श्याम-सद्-अम्बरं तनु-रुचा सान्ध्येन्दु-सम्मर्दकम् ।
प्रेमोद्घूर्ण-सुकञ्ज-खञ्जन-मदा-जिन्-नेत्र-हास्याननं
नित्यानन्दम् अहं स्मरामि सततं भूषोज्ज्वलाङ्ग-श्रियम् ॥ ग्ग्स्_५० ॥
सद्-भक्तालि-निषेविताङ्घ्रि-कमलं कुन्देन्दु-शुक्लाम्बरं
शुद्ध-स्वर्ण-रुचिं सुबाहु-युगलं स्मेराननं सुन्दरम् ।
श्री-चैतन्य-दृशं वराभय-करं प्रेमाङ्ग-भूषाञ्चित*
मद्वैतं सततं स्मरामि परमानन्दैक-कन्दं प्रभुम् ॥ ग्ग्स्_५१ ॥
कारुण्यैक-मरन्द-पद्म-चरणं चैतन्य-चन्द्र-द्युतिं
ताम्बूलार्पण-भङ्गि-दक्षिण-करं श्वेताम्बरं सद्-वरम् ।
प्रेमानन्द-तनुं सुधा-स्मित-मुखं श्री-गौर-चन्द्रेक्षणं
ध्यायेच् छ्रील-गदाधरं द्विज-वरं माधुर्य-भूषोज्ज्वलम् ॥ ग्ग्स्_५२ ॥
श्रि-चैतन्य-पदारविन्द-मधु-पाः सत्-प्रेम-भूषोज्ज्वलाः
शुद्ध-स्वर्ण-रुचो दृग्-अम्बु-पुलक-स्वेदैः सद्-अङ्ग-श्रियः ।
सेवोपायन-पाणयः स्मित-मुखाः शुक्लाम्बराः सद्-वराः
श्रीवासादि-महाशयान् सुख-मयान् ध्यायेम तान् पार्षदान् ॥ ग्ग्स्_५३ ॥
इति स्मरणानन्तरं श्री-गुरोर् आज्ञया श्रीमन्-महाप्रभुं षोडशोपचारादिभिः तन्-मूल-मन्त्रेणैव पूजयेत् ।
श्रीमन्-महाप्रभु-मन्त्रोद्धारो यथा ऊर्ध्वाम्नाये श्री-व्यासं प्रति श्री-नारद-वाक्यम् (३।१४-१६)
अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।
मन्त्रं वक्ष्यामि ते ब्रह्मन् महा-पुण्य-प्रदं शुभम् ॥ ग्ग्स्_५४ ॥
क्लीं गौराय नम इति सर्व-लोकेषु पूजितः ।
माया-रमानङ्ग-बीजैः वाग्-बीजेन च पूजितः ।
षडक्षरः कीर्तितो ऽयं मन्त्र-राजः सुर-द्रुमः ॥ ग्ग्स्_५५ ॥
मन्त्रो यथा–क्लिं गौराय नमः; ह्रीम्, श्रीम्, क्लीम्, ऐं गौराय नमः ।
एतत् पाद्यम्, एतद् अर्घ्यम्, एतद् आचमनीयम्, एष गन्धः, एतत् पुष्पम्, एष धूपः, एष दीपः, एतन् नैवेद्यम्, एतत् पानीय-जलम्, इदम् आचमनीयम्, एतत् ताम्बूलम्, एतद् गन्ध-माल्यम्, एष पुष्पाञ्जलिर् इत्यादि ।
एवं श्री-नित्यानन्द-प्रभुं पूजयेत्, श्रीमन्-नित्यानन्द-प्रभोर् मन्त्रोद्धारो यथा (ब्रह्माण्ड-पुराणे धरणी-शेष-सम्वादे)–
इति नामाष्ट-शतकं मन्त्रं निवेदितं शृणु ।
मया त्वयि पुरा प्रोक्तं काम-बीजेति सञ्ज्ञकम् ॥ ग्ग्स्_५६ ॥
वह्नि-बीजेन पूतान्ते चादौ देव नमस् तथा ।
जाह्नवी-पदं तत्रैव वल्लभाय ततः परम् ।
इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ॥ ग्ग्स्_५७ ॥
मन्त्रो यथा–क्लिं देव-जाह्नवी-वल्लभाय स्वाहा ।
इति मन्त्रेणैव पूजयेत् ।
एवं श्री-अद्वैत-प्रभुं पूजयेत् ।
अथ श्री-अद्वैत-प्रभोर् मन्त्रोद्धारो यथा पाद्मे–
अहो गूढतमः प्रश्नो नारद मुनि-सत्तम ।
न प्रकाश्यस् त्वया ह्य् एतद् गुह्याद् गुह्यतरं महत् ॥ ग्ग्स्_५८ ॥
काम-बीज-समायुक्ता अद्वैत-वह्नि-नायिका ।
ङे ऽन्ता वै ऋषि-वर्णो ऽयं मन्त्रः सर्वातिदुर्लभः ॥ ग्ग्स्_५९ ॥
मन्त्रो यथा–क्लीं अद्वैताय स्वाहा ।
तद्-अनन्तरं श्रीमन्-महाप्रभोः शेष-निर्माल्येन श्री-गदाधर-पण्डितं पूजयेत् तन्-मन्त्रेणैव, श्री-गदाधर-पण्डित-मन्त्रो यथा–श्रीं गदाधराय स्वाहा ।
अथ तथैव श्री-श्रीवासादि-भक्तान् गुरु-वर्गादीन् महाप्रभु-निर्माल्य-प्रसादेन पूजयेत्, स्व-स्व-नाम-चतुर्थ्यन्तेन श्री-गुरु-देवं तु तन्-मूल-मन्त्रेणैव पूजयेत् ।
श्री-गुरु-मन्त्रोद्धरो यथा बृहद्-ब्रह्माण्ड-पुराणे सूत-शौनक-सम्वादे–
श्रीं गुम् इत्य् एव भगवद्-गुरवे वह्नि-वल्लभा ।
दशार्ण-मन्त्र-राजश् च सर्व-कार्येषु रक्षिता ॥ ग्ग्स्_६० ॥
मन्त्रो यथा–श्रीं गुं भगवद्-गुरवे स्वाहा ।
ततो ऽवशेष-निर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपाद-पद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्यात् ।
तद्-अन्तरं चामर-व्यजनादिकं कृत्वा श्री-गुरु-पार्श्वे तिष्ठन् ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिः-पूजयेत् ।
बहिः-पूजां कृत्वानन्तरं स्व-स्व-गायत्री-मन्त्रान् जपेत् क्रमात्–
तत्रादौ श्री-गुरु-गायत्री यथा पाद्मे–श्रीं गुरुदेवाय विद्महे गौर-प्रियाय धीमहि तन् नो गुरुः प्रचोदयात् ।
प्रथमं मन्त्र-गुरोः पूजा पश्चाच् चैव ममार्चनम् ।
कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥ ग्ग्स्_६१ ॥
ध्यानादौ श्री-गुरोर् मूर्तिं पूजादौ च गुरोः पूजाम् ।
जपादौ च गुरोर् मन्त्रं ह्य् अन्यथा निष्फलं भवेत् ॥ ग्ग्स्_६२ ॥
ततो जप-लक्षणं यथा (श्री-हरि-भक्ति-विलासः १७।१४३, १२९)–
न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् ।
मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम् ॥ ग्ग्स्_६३ ॥
मनो-मध्ये स्थितो मन्त्रो मन्त्र-मध्ये स्थितं मनः ।
मनो-मन्त्रं समायुक्तम् एतद् धि जप-लक्षणम् ॥ ग्ग्स्_६४ ॥
अथ जपाङ्गुल्यादि-नियमः (श्री-हरि-भक्ति-विलासः १७।११६-१२०)–
तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् ।
अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत् ॥ ग्ग्स्_६५ ॥
कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रो ऽङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका ॥ ग्ग्स्_६६ ॥
पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् ।
एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम् ॥ ग्ग्स्_६७ ॥
आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् ।
तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु ॥ ग्ग्स्_६८ ॥
अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥ ग्ग्स्_६९ ॥
मध्यमा चैक-पर्विका इत्य् उक्तेः केचित् मध्यमा-मध्य-पर्व गृह्णन्ति तन् न ।
अथ जप-क्रमो यथा–
प्रथमं गुरुदेवस्य मन्त्र-गायत्रीं संस्मरेत् ।
ततः श्री-गौरचन्द्रस्य गायत्र्य् उच्चारणं तथा ॥ ग्ग्स्_७० ॥
श्रीलावधूतेन्द्राद्वैत-मन्त्र-गायत्रीं संस्मरेत् ।
ततः श्री-गदाधरस्य श्रीवास-पण्डितस्य च ॥ ग्ग्स्_७१ ॥
श्री-गुरुदेवस्य मन्त्रो यथा–श्रीं गुं भगवद्-गुरवे स्वाहा ।
अथ गायत्री–श्रीं गुरुदेवाय विद्महे, गौर-प्रियाय धीमहि, तन् नो गुरुः प्रचोदयात् ।
इति श्री-गुरु-गायत्री-स्मरणानन्तरं गुरु-वर्गान् स्मरेत्; स्मरण-क्रमो यथा–
श्री-गुरु-परम-गुरुर् इत्यादि-क्रमेण स्व-स्व-प्रणाल्य्-अनुसारेण स्व-स्व-परिवारेश्वर-परम-परमेष्ठि-गुरु-पर्यन्तं ध्यानं कृत्वा स्वीय-स्वीय-नामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्री-श्री-चैतन्य-महाप्रभोर् मन्त्रं गायत्रीं च स्मरेत् ।
मन्त्रो यथा -क्लीं गौराय स्वाहा ।
गायत्री यथा -क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन् नो गौरः प्रचोदयात् ।
मन्त्रो यथा -क्लीं देव-जाह्नवी-वल्लभाय स्वाहा ।
गायत्री यथा -क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन् नो बलः प्रचोदयात् ।
मन्त्रो यथा -क्लीं अद्वैताय स्वाहा ।
गायत्री यथा -क्लीं अद्वैताय विद्महे महा-विष्णवे धीमहि तन् नो अद्वैतः प्रचोदयात् ।
मन्त्रो यथा -श्रीं गदाधराय स्वाहा ।
गायत्री यथा -गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन् नो गदाधरः प्रचोदयात् ।
मन्त्रो यथा -श्रीं श्रीवासाय स्वाहा ।
गायत्री यथा -श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन् नो भक्तः प्रचोदयात् ।
श्री श्री गौर-गदाधर मन्त्रो यथा -क्लीं श्रीं गौर-गदाधराय स्वाहा ।
अनन्तरं स्तव-प्रणामादि कृत्वा श्री-गौरचन्द्राष्ट-कालीय-सूत्रानुसरेण स्मरेत्–
गौरस्य शयनोत्थानात् पुनस् तच्-छयनावधि ।
नानोपकरणैः कुर्यात् सेवनं तत्र साधकः ॥ ग्ग्स्_७२ ॥
श्री-नवद्वीप-चन्द्रस्य चरितामृतम् अद्भुतम् ।
चिन्त्यतां चिन्त्यतां नित्यं मानस-सेवनोत्सुकः ॥ ग्ग्स्_७३ ॥
निशान्ते गौरचन्द्रस्य शयनं च निजालये ।
प्रातः-काले कृतोत्थानं स्नानं तद्-भोजनादिकम् ॥ ग्ग्स्_७४ ॥
पूर्वाह्न-समये भक्त-मन्दिरे परमोत्सुकम् ।
मध्याह्ने परमाश्चर्य-केलिं सुर-सरित्-तटे ॥ ग्ग्स्_७५ ॥
अपराह्ने नवद्वीप-भ्रमणं भूरि-कौतुकम् ।
सायाह्ने गमनं चारु-शोभनं निज-मन्दिरे ॥ ग्ग्स्_७६ ॥
प्रदोषे प्रिय-वर्गाढ्यं श्रीवास-भवने तथा ।
निशायां स्मरेद् आनन्दं श्रीमत्-सङ्कीर्तनोत्सवम् ॥ ग्ग्स्_७७ ॥
एवं श्री-चैतन्य-देवं निषेव्य सिद्ध-देहेन श्री-कृष्ण-सेवाङ्गं विदध्यात् ।
अत्र कारिका–
तच् चिन्तनादि-समये कुर्यात् तद् अनुसारतः ।
चिन्तनं तु तयोस् तत्र वसन् गुरु-गणान्वितः ॥ ग्ग्स्_७८ ॥
पुनश् चाक्षुष-लीले ऽस्मिन् सिद्ध-देहेन साधकः ।
मनसा मानसीं सेवाम् अष्ट-कालोचितां व्रजेत् ॥ ग्ग्स्_७९ ॥
साधकः सिद्ध-देहेन कुर्यात् कृष्ण-प्रिया-गृहे ।
गुरु-रूप-प्रिया-पार्श्वे ललितादि सखी-गणे ॥ ग्ग्स्_८० ॥
निवासं यावटे नित्यं गुरु-रूपा-सखी-युतः ।
श्री-यावट-पुरे श्रीमद्-वृषभानु-पुरे ऽपि च ॥ ग्ग्स्_८१ ॥
नन्दीश्वर-पुरे राधा-कृष्ण-कुण्ड-तट-द्वये ।
श्रीमद्-वृन्दावने रम्ये श्रीमद्-वृन्दावनेशयोः ॥ ग्ग्स्_८२ ॥
प्रातर् आद्यष्ट-समये सेवनं तु क्रमेण च ।
नानोपकरणैर् दिव्यैर् भक्ष्य-भोज्यादिभिः सदा ।
चामर-व्यजनाद्यैश् च पाद-संवाहनादिभिः ॥ ग्ग्स्_८३ ॥
किशोरी गोप-वनिता सर्वालङ्कार-भूषिता ।
पृथु-तुङ्ग-कुच-द्वन्द्वा चतुःषष्टि-गुणान्विता ॥ ग्ग्स्_८४ ॥
निगूढ-भावा गोविन्दे मदनानन्द-मोहिनी ।
नाना-रस-कलालाप-शालिनी दिव्य-रूपिनी ॥ ग्ग्स्_८५ ॥
सङ्गीत-रस-सञ्जात-भावोल्लास-भरान्विता ।
दिवा-निशं मनो-मध्ये द्वयोः प्रेमा-भराकुला ॥ ग्ग्स्_८६ ॥
सर्व-लक्षन-सम्पन्ना भाव-हावादि-भूषिता ।
गुरु-प्रसाद-जननी गुरु-रूपा-प्रियानुगा ।
गान्धर्विका-स्व-यूथ-स्था ललितादि-गणान्विता ॥ ग्ग्स्_८७ ॥
स्व-यूथेश्वर्य्-अनुगता यावट-ग्राम-वासिनी ।
चिन्तनीयाकृतिः सा च काम-रूपानुगामिनी ॥ ग्ग्स्_८८ ॥
चिद्-आनन्द-रसमयी द्रुत-हेम-सम-प्रभा ।
सुचीन-नील-वसना नानालङ्कार-भूषिता ॥ ग्ग्स्_८९ ॥
श्री-राधा-कृष्णयोः पार्श्व-वर्तिनी नव-यौवना ।
गुरु-दत्तस्य नाम्नो ऽस्या माता वर्गाद्य-मञ्जरी ।
पिता वर्ग-तृतीयाख्यो वर्गान्ताह्वयकः पतिः ॥ ग्ग्स्_९० ॥
निवासो यावटे तस्या दक्षिणा मृद्विका हि सा ।
श्री-राधा-वस्त्र-सेवाढ्या नानालङ्कार-भूषिता ॥ ग्ग्स्_९१ ॥
अस्यैव सिद्ध-देहस्य साधनानि यथा-क्रमम् ।
एकादश-प्रसिद्धानि लक्ष्यन्ते ऽतिमनोहरम् ॥ ग्ग्स्_९२ ॥
नाम रूपं वयो वेशः सम्बन्धो यूथ एव च ।
आज्ञा सेवा पराकाष्ठा पाल्य-दासी निवासकः ॥ ग्ग्स्_९३ ॥
एतेषां विशेष-लक्षणान्य् उच्यन्ते–
श्री-रूप-मञ्जरीत्यादि-नामाख्यानानुरूपतः ।
चिन्तनीयं यथा-योग्यं स्वनाम व्रज-सुभ्रुवाम् ॥ ग्ग्स्_९४ ॥
रूपं यूथेश्वरी-रूपं भावनीयं प्रयत्नतः ।
त्रैलोक्य-मोहनं कामोद्-दीपनं गोपिका-पतेः ॥ ग्ग्स्_९५ ॥
वयो नाना-विधं तत्र यत् तु त्रिदश-वत्सरम् ।
माधुर्याद्भुत-कैशोरं विख्यातं व्रज-सुभ्रुवाम् ॥ ग्ग्स्_९६ ॥
वेशो नील-पटाद्यैश् च विचित्रालङ्कृतैस् तथा ।
स्वस्य देहानुरूपेण स्वभाव-रस-सुन्दरः ॥ ग्ग्स्_९७ ॥
सेव्य-सेवक-सम्बन्धः स्वमनोवृत्ति-भेदतः ।
प्राणात्यये ऽपि सम्बन्धं न कदा परिवर्तयेत् ॥ ग्ग्स्_९८ ॥
यथा यूथेश्वरी-यूथः सदा तिष्ठति तद्-वशे ।
तथैव सर्वथा तिष्ठे-द्भूत्वा तद्-वश-वर्तिनी ॥ ग्ग्स्_९९ ॥
यूथेश्वर्याः शिरस्य् आज्ञा-मादाय हरि-राधयोः ।
यथोचितां च शुश्रूषां कुर्याद् आनन्द-संयुता ॥ ग्ग्स्_१०० ॥
चामर-व्यजनादीनां सर्वाज्ञा-प्रतिपालनम् ।
इति सेवा परिज्ञेया यथा-मति विभागशः ॥ ग्ग्स्_१०१ ॥
श्री-राधा-कृष्णयोर् यद्वद् रूप-मञ्जरिकादयः ।
प्राप्त नित्य-सखीत्वं च तथा स्याम् इति भावयेत् ॥ ग्ग्स्_१०२ ॥
पाल्य-दासी च सा प्रोक्ता परिपाल्या प्रियंवदा ।
स्व-मनो-वृत्ति-रूपेण या नित्य-परिचारिका ॥ ग्ग्स्_१०३ ॥
निवासो व्रज-मध्ये तु राधा-कृष्ण-स्थली मता ।
वंशी-वटश् च श्री-नन्दी-श्वरश् चाप्य् अतिकौतुकः ॥ ग्ग्स्_१०४ ॥
अनङ्ग-मञ्जरी प्रोक्ता विलास-मञ्जरी तथा ।
अशोक-मञ्जरी चेति रस-मञ्जरिका तथा ॥ ग्ग्स्_१०५ ॥
रसाल-मञ्जरी नाम्ना तथा कमल-मञ्जरी ।
करुणा-मञ्जरी ख्याता विख्याता गुण-मञ्जरी ॥ ग्ग्स्_१०६ ॥
एवं सर्वाश् च विख्याताः स्व-स्व-नामाक्षरैः पराः ।
मञ्जर्यो बहुशः रूप-गुण-शील-वयो ऽन्विताः ॥ ग्ग्स्_१०७ ॥
नाम-रूपादि तत् सर्वं गुरु-दत्तं च भावयेत् ।
तत्र तत्र स्थिता नित्यं भजेत् श्री-राधिका-हरी ॥ ग्ग्स्_१०८ ॥
भावयन् साधको नित्यं स्थित्वा कृष्ण-प्रिया-गृहे ।
तद् आज्ञा-पालको भूत्वा कालेष्व् अष्टसु सेवते ॥ ग्ग्स्_१०९ ॥
सखीनां सङ्गिनी-रूपाम् आत्मानं भावना-मयीम् ।
आज्ञा-सेवा-पराकाष्ठा-कृपालङ्कार-भूषिताम् ।
ततश् च मञ्जरी-रूपान् गुर्वादीन् अपि संस्मरेत् ॥ ग्ग्स्_११० ॥
अथ प्रातः-पूर्वाह्न-लीलां स्मृत्वा मध्याह्ने सङ्ग-मितौ राधा-कृष्णौ परस्पर-सङ्ग-जनित-नाना-सात्त्विक-विकार-भूषितौ ललितादि-प्रिय-सखी-वृन्द-सनर्म-वाग्-विलासेन जनित-परमानन्दौ नाना-रस-विलास-चिह्नौ सम्मग्न-मानसौ विहितारण्य-लीलौ वृन्दारण्ये सुमहीरुह-मूले योग-पीठोपरि उपविष्टौ एवम्भूतौ राधा-कृष्णौ संस्मरेत् ।
प्रथमं षड्-दलं पद्मं तद्-बहिर् वसु-पत्रकम् ।
तद्-बहिर् दश-पत्रं च दशोपदल-संयुतम् ॥ ग्ग्स्_१११ ॥
श्रीमद्-राधा-कृष्ण-लीला-रस-पूरित-विग्रहम् ।
तत्-तद्-इच्छा-वशेनैवोन्-मीलितं भाति मुद्रितम् ॥ ग्ग्स्_११२ ॥
प्राकारास् तद्-बहिस् तत्र दिक्षु द्वार-चतुष्टयम् ।
चतुष्-कोणाश् च षड्-दल्यां षट्-पद्य्-अष्टादशाक्षरी ॥ ग्ग्स्_११३ ॥
यथा ब्रह्म-संहितायाम् (२-४)
सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥ ग्ग्स्_११४ ॥
कर्णिकारं महद् यन्त्रं षट्-कोशं वज्र-कीलकम् ।
षड्-अङ्गं षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥ ग्ग्स्_११५ ॥
प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत् ।
ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥ ग्ग्स्_११६ ॥
तत्-किञ्जल्कं तद्-अंशानाम् तत्-पत्राणि श्रियाम् अपि ॥ ग्ग्स्_११७ ॥
एवम्भूत योग-पीठे श्री-श्री-राधा-कृष्णौ स्मरेत् ।
अथ श्री-कृष्ण-चन्द्रस्य वयो-वेशादयो ऽखिलाः ।
रस-शास्त्रानुसारेण निरूप्यन्ते यथामति ॥ ग्ग्स्_११८ ॥
(भक्ति-रसामृत-सिन्धु २।१।३०८, ९)–
वयः कौमार-पौगण्ड-कैशोरम् इति तत् त्रिधा ॥ ग्ग्स्_११९ ॥
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच् च कैशोरं यौवनं स्यात् ततः परम् ॥ ग्ग्स्_१२० ॥
आद्य-मध्यान्त-भेदेन कौमारादीनि च त्रिधा ।
अष्ट-मासाधिकं वर्षं भागत्वेन च कीर्तितम् ॥ ग्ग्स्_१२१ ॥
तद् यथा–आद्य-कौमारम् अष्ट-मासाधिकम् एक-वर्षम् एवं मध्य-कौमारम्, एवं च शेष-कौमारम्; एवं पञ्चम-वर्ष-पर्यन्तं कौमारं ज्ञेयम् ।
आद्य-पौगण्डम् अष्ट-मासाधिकम् एक-वर्षम्; एवं मध्य-पौगण्डम्; एवं च शेष-पौगण्डम्; एवं च क्रमेण षष्ठ-वर्षम् आरभ्य दश-वर्ष-पर्यन्तं पौगण्डं ज्ञेयम् ।
आद्य-कैशोरं सार्ध-दिन-द्वयोत्तरैकादश-मासाधिकम् एक-वर्षम्; एवं मध्य-कैशोरम्; एवं शेष-कैशोरम्; क्रमेणैकादश-वर्षम् आरभ्य पञ्च-दश-वर्ष-नव-मास-सार्ध-सप्त-दिन-पर्यन्तं कैशोरं ज्ञेयम् ।
अथ श्री-कृष्णस्य व्रज-लीला–तत्र श्री-कृष्णस्य व्रज-लीला पञ्च-दिनोत्तर-षड्-मासाधिक-दश-वर्षीया ज्ञेया (१०-६-५) अथ च (भ्प् ३।२।२६)–
एकादश-समास् तत्र गूढार्चिः सबलो ऽवसत् ॥ ग्ग्स्_१२२ ॥
महाराज-कुमारतया भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया सार्ध-सप्त-दिनोत्तर-नव-मासाधिक-पञ्च-दश-वर्ष-परिमितं श्री-कृष्णस्य वयो ज्ञेयम् (१५-९-७ १।२) ।
अत्रैव शेष-कैशोरे षोडश-हायने सदा ।
व्रजे विहारं कुरुते श्रीमन् नन्दस्य नन्दनः ॥ ग्ग्स्_१२३ ॥
वंशी-पाणिः पीत-वासा इन्द्रनील-मणि-द्युतिः ।
कण्ठे कौस्तुभ-शोभाढ्यो मयूर-दल-भूषणः ॥ ग्ग्स्_१२४ ॥
गुञ्जा-हार-लसद्-वक्षा रत्न-हार-विराजितः ।
वन-माला-धरो निष्क शोभोल्लसित-कण्ठकः ॥ ग्ग्स्_१२५ ॥
वाम-भाग-स्थित-स्वर्ण-रेखा-राजद्-उरः-स्थलः ।
वैजयन्ती-लसद्-वक्षा गज-मौक्तिक-नासिकः ॥ ग्ग्स्_१२६ ॥
कर्णयोर् मकराकार-कुण्डलाभ्यां विराजितः ।
रत्न-कङ्कन-युग् घस्तः कौङ्कुमं तिलकं दधत् ॥ ग्ग्स्_१२७ ॥
किङ्किणी-युक्त-कटिको रत्न-नूपुर-युक्-पदः ।
मालती-मल्लिके जाति-यूथी केतकी-चम्पके ॥ ग्ग्स्_१२८ ॥
नागकेशर इत्यादि पुष्प-माला-स्वलङ्कृतः ।
इति वेश-धरः श्रीमान् ध्येयः श्री-नन्दनन्दनः ॥ ग्ग्स्_१२९ ॥
शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं
दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः ।
वामेनासौ सरल-लगुणं पाणिना पीत-वर्णं
लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन ॥ ग्ग्स्_१३० ॥
अस्यैव कृष्ण-चन्द्रस्य मन्त्राः सन्ति त्रयो ऽमलाः ।
सिद्धाः कृष्णस्य सत्-प्रेम-भक्ति-सिद्धि-करा मताः ॥ ग्ग्स्_१३१ ॥
तत्रादौ मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्–
हरे-कृष्णौ द्विर् आवृत्तौ
कृष्ण तादृक् तथा हरे ।
हरे राम तथा राम
तथा तादृग् घरे मनुः ॥ ग्ग्स्_१३२ ॥
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ॥ ग्ग्स्_१३३ ॥
अस्य ध्यानं यथा तत्रैव–
ध्यायेद् वृन्दावने रम्ये
गोप-गोभिर् अलङ्कृते ।
कदम्ब-पादप-च्छाये
यमुना-जल-शीतले ॥ ग्ग्स्_१३४ ॥
राधया सहितं कृष्णं
वंशी-वादन-तत्-परम् ।
त्रिभङ्ग-ललितं देवं
भक्तानुग्रह-कारकम् ॥ ग्ग्स्_१३५ ॥
विशेषतो दशार्णो ऽयं
जप-मात्रेण सिद्धि-दः ।
पञ्चाङ्गान्य् अस्य मन्त्रस्य
विज्ञेयानि मनीषिभिः ॥ ग्ग्स्_१३६ ॥
इति गौतमीय-तन्त्र-वाक्यात् राग-मार्गे दशाक्षर-गोपाल-मन्त्रस्य प्रसिद्धिः; तद्-उद्धारो लिख्यते, स यथा गौतमीय-तन्त्रे–
खान्ताक्षरं समुद्धृत्य
त्रयोदश-स्वरान्वितम् ।
पार्णं तुर्य-स्वर-युतं
छान्तं धान्तं तथा द्वयम् ॥ ग्ग्स्_१३७ ॥
अमृतार्णं मांस-युग्मं
मुख-वृत्तेन संयुतम् ।
भार्शं तु मुख-वृत्ताढ्यं
पवनार्णं तथैव च ॥ ग्ग्स्_१३८ ॥
बीज-शक्ति-समायुक्तो
मन्त्रो ऽयं समुदाहृतः ।
गुप्त-बीज-स्वभावत्वाद्
दशार्णः खलु कथ्यते ॥ ग्ग्स्_१३९ ॥
ब्रह्मार्णं तुर्य-संयुक्तं
मांस-द्वय-समन्वितम् ।
नाद-बिन्दु-समायुक्तं
जगद्-बीजम् उदाहृतम् ॥ ग्ग्स्_१४० ॥
शुक्रार्णम् अमृतार्णेन
मुख-वृत्तेन संयुतम् ।
गगनं मुख-वृत्तेन
प्रोक्ता शक्तिः परात्परा ॥ ग्ग्स्_१४१ ॥
दशाक्षरो मन्त्रो, यथा –क्लीं गोपीजन-वल्लभाय स्वाहा ।
अष्टादशाक्षरो मन्त्रो, यथा –क्लीं कृष्णाय गोविन्दाय गोपीजन-वल्लभाय स्वाहा ।
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं
श्रीवत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं
गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥ ग्ग्स्_१४२ ॥
अथ काम-गायत्री-मन्त्रोद्धारो यथा स्वायम्भुवागमे–
क्लीं ततः काम-देवाय विद्महे च पदं ततः ।
ततश् च पुष्प-बाणाय धीमहीति पदं ततः ॥ ग्ग्स्_१४३ ॥
ततस् तन् नो ऽनङ्ग इति ततश् चैव प्रचोदयात् ।
एषा वै काम-गायत्री चतुर्विंशाक्षरी माता ॥ ग्ग्स्_१४४ ॥
काम-गायत्री, यथा -क्लीं कामदेवाय विद्महे पुष्प-बाणाय धीमहि तन् नो ऽनङ्गः प्रचोदयात् ।
क्रीडासक्तो मदन-वश-गो राधयालिङ्गिताङ्गः
स-भ्रू-भङ्गः स्मित-सुवदनो मुग्ध-नेपथ्य-शोभः ।
वृन्दारण्ये प्रति-नव-लता-सद्मसु प्रेम-पूर्णः
पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ॥ ग्ग्स्_१४५ ॥
यथा बृहद्-गौतमीय-तन्त्रे–
देवी कृष्ण-मयि प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ ग्ग्स्_१४६ ॥
ऋक्-परिशिष्टे च–
राधया माधवो देवो
माधवेनैव राधिका
विभ्राजन्ते जनेष्व् आ ॥ ग्ग्स्_१४७ ॥
मात्स्ये च–
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ग्ग्स्_१४८ ॥
पाद्मे च (उन् ४।५)–
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ ग्ग्स्_१४९ ॥
(उन् ४।३-४, ६-७)–
महा-भाव-स्वरूपेयं गुणैर् अतिवरीयसी ।
गोपालोत्तर-तापन्यां यद् गान्धर्वेति विश्रुता ॥ ग्ग्स्_१५० ॥
ह्लादिनी या महा-शक्तिः सर्व-शक्ति-वरीयसी ।
तत्-सार-भाव-रूपेयम् इति तन्त्रे प्रतिष्ठिता ॥ ग्ग्स्_१५१ ॥
सुष्ठु-कान्त-स्वरूपेयं सर्वदा वार्षभानवी ।
धृत-षोडश-शृङ्गारा द्वादशाभरणान्विता ॥ ग्ग्स्_१५२ ॥
तत्र सुष्ठु-कान्त-स्वरूपा, यथा श्री-कृष्ण-वाक्यम् (उन् ४।८)–
कचास् तव सुकुञ्चिता मुखम् अधीर-दीर्घेक्षणं
कठोर-कुच-भाग्-उरः क्रशिम-शालि मध्य-स्थलम् ।
नते शिरसि दोर्लते करज-रत्न-रम्यौ करौ
विधूनयति राधिके त्रि-जगद् एष रुपोत्सवः ॥ ग्ग्स्_१५३ ॥
धृत-षोडश-शृङ्गारा यथा (उन् ४।९)–
स्नाता नासाग्र-जाग्रन्-मणि-रसित-पटा सूत्रिणी बद्ध-वेणी
सोत्तंसा चर्चिताङ्गी कुसुमित-चिकुर स्रग्विणी पद्म-हस्ता ।
ताम्बूलास्योरु-बिन्दु-स्तवकित-चिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशा-कल्पिनीयम् ॥ ग्ग्स्_१५४ ॥
द्वादशाभरणाश्रिता यथा (उन् ४।१०)–
दिव्यश् चूडामणीन्द्रः पुरट-विरचिताः कुण्डल-द्वन्द्व-काञ्चि*
निष्काश् चक्री-शलाका-युग-वलय-घटाः कण्ठ-भूषोर्मिकाश् च ।
हारास् तारानुकार भुज-कटक-तुलाकोटयो रत्न-क् प्ता*
स्तुङ्गा पादाङ्गुरीय-च्छविर् इति रविभिर् भूषणैर् भाति राधा ॥ ग्ग्स्_१५५ ॥
मध्ये वयसि कैशोर एव तस्याः स्थितिः ।
पूर्ववद् दिवस-गणनया विंशति-दिनोत्तर-पञ्च-मासाधिक-नव-वर्ष-परिमितं मध्य-कैशोरं वयः (९-५-२०); राज-कुमारीत्वाद् भोगातिशयेन समृद्ध्या वर्ष-मास-दिनानां सार्धतया पञ्च-दश-दिनोत्तर-मास-द्वयाधिक-चतुर्दश-वर्ष परिमितं वयो ऽस्याः ज्ञेयम् (१४-२-१५) ।
अस्या मदीयता-भावो मधु-स्नेहस् तथैव च ।
मञ्जिष्ठाख्यो भवेद् रागः समर्था केवला रतिः ॥ ग्ग्स्_१५६ ॥
कन्दर्प-कौतुकं कुञ्जं गृहम् अस्यास् तु यावटे ।
मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ॥ ग्ग्स्_१५७ ॥
अभिमन्युः पतिस् तस्या दुर्मुखो देवरः स्मृतः ।
जटिलाख्या स्मृता श्वश्रूर् ननन्दा कुटिला मता ॥ ग्ग्स्_१५८ ॥
यथा स्युर् नायकावस्था निखिला एव माधवे ।
तथैव नायिकावस्था राधायां प्रायशो मताः ॥ ग्ग्स्_१५९ ॥
(उन् ४।५०-५४)–
तस्या वृन्दावनेश्वर्याः सख्यः पञ्च-विधा मताः ।
सख्यश् च नित्य-सख्यश् च प्राण-सख्यश् च काश्चन ।
प्रिय-सख्यश् च परम-प्रेष्ठ-सख्यश् च विश्रुताः ॥ ग्ग्स्_१६० ॥
सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः ।
नित्य-सख्यश् च कस्तूरी-मणि-मञ्जरिकादयः ॥ ग्ग्स्_१६१ ॥
प्राण-सख्यः शशिमुखी-वासन्ती-लासिकादयः ।
गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपताम् ॥ ग्ग्स्_१६२ ॥
प्रिय-सख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जु-केशी कन्दर्प-सुन्दरी ।
माधवी मालती काम-लता शशिकलादयः ॥ ग्ग्स्_१६३ ॥
परम-प्रेष्ठ-सख्यस् तु ललिता स-विशाखिका ।
स-चित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्व-गणाग्रिमाः ॥ ग्ग्स्_१६४ ॥
(उन् ३।६१)–
यूथाधिपात्वे ऽप्य् औचित्यं दधाना ललितादयः ।
स्वेष्ट-राधादि-भावस्य लोभात् सख्य-रुचिं दधुः ॥ ग्ग्स्_१६५ ॥
मदीयता-भाव-लक्षणं यथा–
शृङ्गार-रस-सर्वस्वः कृष्णः प्रियतमो मम ।
इति यः प्रौढ-निर्बन्धो भावः स स्यान् मदीयता ॥ ग्ग्स्_१६६ ॥
उदाहरणं यथा -
शिखि-पिञ्छ-लसन्-मुखाम्बुजो
मुरलीवान् मम जीवनेश्वरः ।
क्व गतो ऽत्र विहाय माम् इतो
वद नारायण सर्व-वित्तम ॥ ग्ग्स्_१६७ ॥
भुज-चतुष्टयं क्वापि नर्मणा दर्शयन्न् अपि ।
वृन्दावनेश्वरी-प्रेम्णा द्वि-भुजः क्रियते हरिः ॥ ग्ग्स्_१६८ ॥
यथा (उन् ५।७)–
रासारम्भ-विधौ निलीय वसता कुञ्जे मृगाक्षी-गणै-*
र्दृष्टं गोपयितुं समुद्धुर-धिया या सुष्ठु सन्दर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच् चतुर्-बाहुता ॥ ग्ग्स्_१६९ ॥
मधु-स्नेह-लक्षणं यथा (उन् १४।९३-९४)–
मदीयतातिशय-भाक्
प्रिये स्नेहो भवेन् मधु ।
स्वयं प्रकट-माधुर्यो
नाना-रस-समाहृतिः ॥ ग्ग्स्_१७० ॥
मत्ततोष्म-धरः स्नेहो
मधु-साम्यान् मधूच्यते ॥ ग्ग्स्_१७१ ॥
उदाहरणं यथा (उन् १४।९५)–
राधा स्नेहमयेन हन्त रचिता माधुर्य-सारेण सा
सौधीव प्रतिमा घनाप्य् उरु-गुणैर् भावोष्मणा विद्रुता ।
यन्-नामन्य् अपि धामनि श्रवणयोर् याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्य् अनुपमा सद्यो जगद्-विस्मृति ॥ ग्ग्स्_१७२ ॥
माञ्जिष्ठ-राग-लक्षणं यथा (उन् १४।१३९)–
अहार्यो ऽनन्य-सापेक्षो
यः कान्त्या वर्द्धते सदा ।
भवेन् माञ्जिष्ठ-रागो ऽसौ
राधा-माधवयोर् यथा ॥ ग्ग्स्_१७३ ॥
उदाहरणं यथा (उन् १४।१४१)–
धत्ते द्राग् अनुपाधि जन्म विधिना केनापि नाकम्पते
सूते ऽत्य् आहित-सञ्चयैर् अपि रसं ते चेन् मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृति-करोद्दाम-प्रमोदोत्तरां
राधा-माधवयोर् अयं निरुपमः प्रेमानुबन्धोत्सवः ॥ ग्ग्स्_१७४ ॥
समर्था-रतेर् लक्षणं यथा (उन् १४।५२-५३)–
कञ्चिद् विशेषम् आयान्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते ॥ ग्ग्स्_१७५ ॥
स्व-स्वरूपात् तदीयाद् वा जाता यत् किञ्चिद् अन्वयात् ।
समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥ ग्ग्स्_१७६ ॥
उदाहरणं यथा (उन् १४।५४, ५५, ५७)–
प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिर् अभितस् त्वत्-प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तद् अपि भवतः सा तुला-कोटि-नादं
हा कृष्णेत्य् अश्रुत-चरम् अपि व्याहरन्त्य् उन्मदासीत् ॥ ग्ग्स्_१७७ ॥
सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः ।
सम्भोगेच्छा-विशेषो ऽस्या रतेर् जातु न भिद्यते ।
इत्य् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥ ग्ग्स्_१७८ ॥
इयम् एव रतिः प्रौढा महाभाव-दशां व्रजेत् ।
या मृग्या स्याद् विमुक्तानां भक्तानां च वरीयसाम् ॥ ग्ग्स्_१७९ ॥
यथा श्री-दशमे (१०।४७।५८)–
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एव निखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथारसस्य ॥ ग्ग्स्_१८० ॥
श्री-राधा-मन्त्रोद्धारो यथा गौरी-तन्त्रे–
श्री-नाद-बिन्दु-संयुक्ता तथाग्निर् मुख-वृत्त-युक् ।
चतुर्थी वह्नि-जायान्ता राधिकाष्टाक्षरो मनुः ॥ ग्ग्स्_१८१ ॥
मन्त्रो यथा -श्रीं रां राधिकायै स्वाहा ।
गायत्री यथा -श्री-राधिकायै विद्महे, प्रेम-रूपायै धीमहि, तन् नो राधा प्रचोदयात् ।
अस्या ध्यानं यथा तत्रैव–
स्मेरां श्री-कुङ्कुमाभां स्फुरद्-अरुण-पट-प्रान्त-क् प्तावगुण्ठां
रम्यां वेशेन वेणी-कृत-चिकुर-शिखालम्बि-पद्मां किशोरीम् ।
तर्ज्जन्य्-अङ्गुष्ठ-युक्त्या हरि-मुख-कमले युञ्जतीं नागवल्ली-*
पर्णं कर्णायताक्षीं त्रि-जगति मधुरां राधिकाम् अर्चयामि ॥ ग्ग्स्_१८२ ॥
तप्त-हेम-प्रभां नील-कुन्तल-बद्ध-मल्लिकाम् ।
शरच्-चन्द्र-मुखीं नृत्य-चकोरी-चञ्चलेक्षणाम् ॥ ग्ग्स्_१८३ ॥
बिम्बाधर-स्मित-ज्योत्स्नां जगज्-जीवन-दायिकाम् ।
चारु-रत्न-स्तनालम्बि-मुक्तादाम-विभूषणाम् ॥ ग्ग्स्_१८४ ॥
नितम्ब-नील-वसनां किङ्किणी-जाल-मण्डिताम् ।
नाना-रत्नादि-निर्माण-रत्न-नूपुर-धारिणीम् ॥ ग्ग्स्_१८५ ॥
सर्व-लावण्य-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ।
कृष्ण-पार्श्व-स्थितां नित्यं कृष्ण-प्रेमैक-विग्रहाम् ।
आनन्द-रस-सम्मग्नां किशोरीम् आश्रये वने ॥ ग्ग्स्_१८६ ॥
सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननाम् ।
श्यामां श्यामाखिलाभीष्टां राधिकाम् आश्रये वने ॥ ग्ग्स्_१८७ ॥
विना राधा-प्रसादेन कृष्ण-प्राप्तिर् न जायते ।
ततः श्री-राधिका-कृष्णौ स्मरणीयौ सुसंयुतौ ॥ ग्ग्स्_१८८ ॥
यथा भविष्योत्तरे–
प्रेम-भक्तौ यदि श्रद्धा मत्-प्रसादं यदीच्छसि ।
तदा नारद भावेन राधायाराधको भव ॥ ग्ग्स्_१८९ ॥
तथा च नारदीये–
सत्यं सत्यं पुनः सत्यं सत्यम् एव पुनः पुनः ।
विना राधा-प्रसादेन मत्-प्रसादो न विद्यते ॥ ग्ग्स्_१९० ॥
श्री-राधिकायाः कारुण्यात् तत्-सखी-सङ्गतिम् इयात् ।
तत्-सखीनां च कृपया योषिद्-अङ्गम् अवाप्नुयात् ॥ ग्ग्स्_१९१ ॥
अनङ्ग-सुखदाख्यो ऽस्ति कुञ्जस् तस्योत्तरे दले ।
विज्ञेयो ऽयं तडिद्-वर्णो नाना-पुष्प-द्रुमावृतः ॥ ग्ग्स्_१९२ ॥
ललितानन्ददो नित्यम् उत्तरे कुञ्ज-राजकः ।
गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ॥ ग्ग्स्_१९३ ॥
मयूर-पिञ्छ-सदृश-वसना कृष्ण-वल्लभा ।
खण्डिता-भावम् आपन्ना रति-युक्ता हरौ सदा ॥ ग्ग्स्_१९४ ॥
चन्द्र-ताम्बूल-सेवाढ्या दिव्याभरण-मण्डिता ।
सप्त-विंशत्य्-अहो युक्ताष्ट-मास-मनु-हायना (१४-८-२७) ॥ ग्ग्स्_१९५ ॥
अस्या वयः-प्रमाणं यत् पिता माता विशोककः ।
शारदा च पतिर् यस्या भैरवाख्यो मतो बुधैः ॥ ग्ग्स्_१९६ ॥
स्वरूप-दामोदरतां प्राप्ता गौर-रसे त्व् इयम् ।
इयं तु वाम-प्रखरा गृहम् अस्यास् तु यावटे ॥ ग्ग्स्_१९७ ॥
खण्डिता-लक्षणम्, यथा (उन् ५।८५-८६)–
उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् ।
भोग-लक्ष्माङ्कितः प्रातर् आगच्छेत् सा हि खण्डिता ।
एषा तु रोष-निःश्वास-तूष्णीं-भावादि-भाग् भवेत् ॥ ग्ग्स्_१९८ ॥
यावैर् धूमलितं शिरो भुज-तटीं ताटङ्क-मुद्राङ्कितां
सङ्क्रान्त-स्तन-कुङ्कुमोज्ज्वल-मुरो मालां परिम्लापिताम् ।
घूर्णा-कुड्मलिते दृशौ व्रज-पतेर् दृष्ट्वा प्रगे श्यामला
चित्ते रुद्र-गुणं मुखे तु सुमुखी भेजे मुनीनां व्रतम् ॥ ग्ग्स्_१९९ ॥
वाम-प्रखरा-लक्षणं यथा (उन् ६।२-५)–
सौभाग्यादेर् इहाधिक्याद् अधिका साम्यतः समा ।
लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः ॥ ग्ग्स्_२०० ॥
प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा ॥ ग्ग्स्_२०१ ॥
प्रगल्भ-वाक्या प्रखरा ख्याता दुर्लङ्घ्य-भाषिता ।
तद् ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥ ग्ग्स्_२०२ ॥
तत्र लघु-प्रखरा (उन् ८।३१) –
सा लघु-प्रखरा द्वेधा भवेद् वामाथ दक्षिणा ॥ ग्ग्स्_२०३ ॥
तत्र वामा (उन् ८।३२)–
मान-ग्रहे सदोद्युक्ता तच् छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ॥ ग्ग्स्_२०४ ॥
(उन् ८।३७)–
यूथे ऽत्र वाम-प्रखरा ललिताद्याः प्रकीर्तिताः ॥ ग्ग्स्_२०५ ॥
वाम-प्रखरोदाहरणम्, यथा (उन् ८।३६)–
अमूर् व्रज-मृगेक्षणाश् चतुर्-अशीति-लक्षाधिकाः
प्रतिस्वम् इति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रिय-सखी महार्घ्येत्य् असौ
कथं तद् अपि साहसी शठ! जिघृक्षुर् एनाम् असि ॥ ग्ग्स्_२०६ ॥
अस्या यूथो, यथा (श्री-कृष्ण-गणोद्देश-दीपिका १।२४२)–
रत्नरेखा (-प्रभा) रति-कला सुभद्रा चन्द्र (भद्र-) रेखिका ।
सुमुखी च धनिष्ठा च कलहंसी कलापिनी ॥ ग्ग्स्_२०७ ॥
अस्या मन्त्रोद्धारो, यथा सम्मोहन-तन्त्रे–
लक्ष्मी लीला च ललिता ङे ततो वह्नि-नायिका ।
एषो ऽष्टार्णो महा-मन्त्रो ललितायास् तु राग-दः ॥ ग्ग्स्_२०८ ॥
मन्त्रो यथा–श्रीं लां ललितायै स्वाहा ।
अस्या ध्यानम्, यथा तत्रैव–
गोरोचना-द्युति-विडम्बि-तनूं सुवेशीं
मयूर-पिञ्छ-वसनां शुभ-भूषणाढ्याम् ।
ताम्बूल-सेवन-रतां व्रज-राज-सूनोः
श्री-राधिका-प्रिय-सखीं ललितां स्मरामि ॥ ग्ग्स्_२०९ ॥
ईशान-दल आनन्द-नामकं कुञ्जम् अस्ति हि ।
मेघ-वर्णं श्री-विशाखा यत्रास्ते कृष्ण-वल्लभा ॥ ग्ग्स्_२१० ॥
स्वाधीन-भर्तृका-भावम् आपन्ना हि हरौ सदा ।
वस्त्रालङ्कार-सेवाढ्या गौराङ्गी तारकाम्बरा ॥ ग्ग्स्_२११ ॥
पक्षाहर्-युग्-युग्म-मास-संयुक्त-मनु-हायना (१४-२-१५) ।
अस्या वयः पिता माता पावनो दक्षिणा क्रमात् ॥ ग्ग्स्_२१२ ॥
पतिर् यस्या बाहुकाख्यो ऽप्य् असौ गौर-रसे पुनः ।
राय-रामानन्दतया विख्याताभूत् कलौ युगे ॥ ग्ग्स्_२१३ ॥
इयं त्व् अधिक-मध्या हि गृहम् अस्यास् तु यावटे ॥ ग्ग्स्_२१४ ॥
स्वाधीन-भर्तृका-लक्षणम् (उन् ५।९१)–
स्वायत्तासन्न-दयिता भवेत् स्वाधीन-भर्तृका ।
सलिलारण्य-विक्रीडा-कुसुमावचयादि-कृत् ॥ ग्ग्स्_२१५ ॥
उदाहरणं यथा (उन् ५।९२)–
मुदा कुर्वन् पत्राङ्कुरम् अनुपमं पीन-कुचयोः
श्रुति-द्वन्द्वे गन्धाहृत-मधुपम् इन्दीवर-युग्मम् ।
सखेलं धम्मिल्लोपरि च कमलं कोमलम् असौ
निरावाधां राधां रमयति चिरं केशि-दमनः ॥ ग्ग्स्_२१६ ॥
(उन् ८।१९)–
अत्र यूथे विशाखाद्या भवन्त्य् अधिक-मध्यमाः ॥ ग्ग्स्_२१७ ॥
अधिक-मध्योदाहरणं यथा (उन् ८।१७)–
दामार्प्यतां प्रिय-सखी-प्रहितां त्वयैव
दामोदरे कुसुमम् अत्र मयावचेयम् ।
नाहं भ्रमाच् चतुरिके सखि सूचनीया
कृष्णः कदर्थयति माम् अधिकं यद् एषः ॥ ग्ग्स्_२१८ ॥
अस्या यूथो यथा (कृष्ण-गणोद्देश-दीपिका १।२४३)–
मालती माधवी चन्द्र-रेखा चापि शुभानना ।
कुञ्जरी हरिणी चैव सुरभिश् चपलापि च ॥ ग्ग्स्_२१९ ॥
अस्या मन्त्रोद्धारो, यथा बृहद्-गौतमीये–
वाग्-भवः सौं ततो ङे ऽन्ता विशाखा वह्नि-जायिका ।
अष्टाक्षरो विशाखाया मन्त्रो ऽयं प्रेम-वृद्धि-दः ॥ ग्ग्स्_२२० ॥
मन्त्रो यथा -ऐं सौं विशाखायै स्वाहा ।
अस्या ध्यानम्, यथा तत्रैव–
सच्-चम्पकावलि-विडम्बि-तनुं सुशीलां
ताराम्बरां विविध-भूषण-शोभमानाम् ।
श्री-नन्दनन्दन-पुरो वसनादि-भूषा-*
दाने रतां सुकुतुकां च भजे विशाखाम् ॥ ग्ग्स्_२२१ ॥
चित्रं पूर्व-दले कुञ्जं पद्म-किञ्जल्क-नामकम् ।
श्री-चित्रा स्वामिनी तत्र वर्तते कृष्ण-वल्लभा ॥ ग्ग्स्_२२२ ॥
अभिसारिकात्वम् आपन्ना हरौ रति-समन्विता ।
लवङ्ग-माला-सेवाढ्या काश्मीर-वर्ण-संयुता ॥ ग्ग्स्_२२३ ॥
काच-तुल्याम्बरा चासौ सदा चित्र-गुणान्विता ।
अस्याश् चैव वयोमानं मनु-सङ्ख्या-दिनान्वितम् ॥ ग्ग्स्_२२४ ॥
ऋषि-मासाधिकं शक्र-हायनं चेति विश्रुतम् (१४-७-१४) ॥ ग्ग्स्_२२५ ॥
चतुरो ऽस्याः पिता प्रोक्तो जनन्य् अस्याश् च चर्च्चिका ।
पतिः पीठरकश् चास्या असौ गौर-रसे पुनः ॥ ग्ग्स्_२२६ ॥
गोविन्दानन्दतां प्राप्ता चतुर्थ-युग-मध्यके ।
इयं त्व् अधिक-मृद्वी च गृहम् अस्यास् तु यावटे ॥ ग्ग्स्_२२७ ॥
अभिसारिका-लक्षणं यथा (उन् ५।७१-७२)–
याभिसारयते कान्तं स्वयं वाभिसरत्य् अपि ।
सा ज्योत्स्नी तामसी यान-योग्य-वेषाभिसारिका ॥ ग्ग्स्_२२८ ॥
लज्जया स्वाङ्ग-लीनेव निःशब्दाखिल-मण्डना ।
कृतावगुष्ठा स्निग्धैक-सखी-युक्ता प्रियं व्रजेत् ॥ ग्ग्स्_२२९ ॥
उदाहरणं यथा तत्र (१) ज्योत्स्न्य्-अभिसारिकायाः (उन् ५।७४)–
इन्दुस् तुन्दिल-मण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रज-पतेस् त्वद् वीथिम् उद्वीक्षते ।
त्वं चन्द्राञ्चित-चन्दनेन खचिता क्षौमेण चालङ्कृता
किं वर्त्मन्य् अरविन्द-चारु-चरण-द्वन्द्वं न सन्धित्ससि ॥ ग्ग्स्_२३० ॥
(२) तामस्य्-अभिसारिकायाः (विम् ४।२२, उन् ५।७५)–
तिमिर-मसिभिः संवीताङ्ग्यः कदम्ब-वनान्तरे
सखि बक-रिपुं पुण्यात्मानः सरन्त्य् अभिसारिकाः ।
तव तु परितो विद्युद्-वर्णास् तनु-द्युति-सूचयो
हरि हरि घन-ध्वान्तान्येताः स्ववैरिणि भिन्दते ॥ ग्ग्स्_२३१ ॥
(उन् ८।२१)–
अधिका मृदवश् चात्र चित्रा मधुरिकादयः ॥ ग्ग्स्_२३२ ॥
अधिक-मृद्व्य्-उदाहरणम्, यथा (उन् ८।२०)–
दरापि न दृग्-अर्पिता सखि शिखण्ड-चूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागिताम् ।
नटन्-मकर-कुण्डलं सपदि चण्डि लीला-गतिं
तनोत्य् अयम् अदूरतः किम् इह संविधेयं मया ॥ ग्ग्स्_२३३ ॥
अस्या यूथो यथा (श्री-कृष्ण-गणोद्देश-दीपिका १।२४५)–
रसालिका तिलकिनी शौरसेनी सुगन्धिका ।
वामनी वामनयना नागरी नागवल्लिका ॥ ग्ग्स्_२३४ ॥
अस्या मन्त्रोद्धारो, यथा स्कान्दे–
लक्ष्मीश् चित्रा चतुर्थ्यन्ता वह्नि-जाया षडक्षरः ।
मन्त्रो ऽयं चित्रिका-नाम्न्याः कृष्ण-सख्या उदीरितः ॥ ग्ग्स्_२३५ ॥
मन्त्रो यथा–श्रीं चित्रायै स्वाहा ।
अस्या ध्यानम्, यथा तत्रैव–
काश्मीर-वर्णां सहितां विचित्र-*
गुणैः स्मिता-शोभि-मुखीं च चित्राम् ।
काचाम्बरां कृष्ण-पुरो लवङ्ग*-
माला-प्रदाने नितरां स्मरामि ॥ ग्ग्स्_२३६ ॥
आग्नेय-पत्रे पूर्णेन्दु-कुञ्ज-स्वर्णाभ-वर्णके ।
श्री-इन्दुलेखा वसत्य् अत्र हरिताल-समाङ्गिका ॥ ग्ग्स्_२३७ ॥
दाडिम्ब-कुसुमोद्भासि-वसना कृष्ण-वल्लभा ।
प्रोषित-भर्तृका-भावम् आपन्ना रति-युग्-घरौ ॥ ग्ग्स्_२३८ ॥
अमृताशन-सेवाढ्या यासौ नन्दात्मजस्य वै ।
वयोमानं भवेत् तस्याः सर्व-शास्त्रेषु सम्मतम् ॥ ग्ग्स्_२३९ ॥
सार्ध-दिग्-वासरैर् युक्ता द्वि-मास-मनु-हायना (१४-२-१० १।२) ।
असौ तु वाम-प्रखरा हरेश् चामर-सेविनी ॥ ग्ग्स्_२४० ॥
गृहम् अस्यास् तु यावटे पिता सागर-सञ्ज्ञकः ॥ ग्ग्स्_२४१ ॥
अस्या माता भवेद् वेला पतिर् अस्यास् तु दुर्बलः ।
वसु-रामानन्दतया ख्याता गौर-रसे ह्य् असौ ॥ ग्ग्स्_२४२ ॥
प्रोषित-भर्तृका-लक्षणं यथा (उन् ५।८९)–
दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका ।
प्रिय-सङ्कीर्तनं दैन्यम् अस्यास् तानव-जागरौ ।
मालिन्यम् अनवस्थानं जाड्य-चिन्तादयो मताः ॥ ग्ग्स्_२४३ ॥
उदाहरणं यथा (उन् ५।९०)–
विलासी स्वच्छन्दं वसति मथुरायां मधु-रिपु*
र्वसन्तः सन्तापं प्रथयति समन्ताद् अनुपदम् ।
दुराशेयं वैरिण्य् अहह मद्-अभीष्टोद्यम-विधौ
विधत्ते प्रत्यूहं किम् इह भविता हन्त शरणम् ॥ ग्ग्स्_२४४ ॥
वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्री-कृष्ण-गणोद्देश-दीपिकायाम् (१।२४७)–
तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका ।
मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ॥ ग्ग्स्_२४५ ॥
अस्या मन्त्रोद्धारो यथा ईशान-संहितायाम्–
वाग्-भवश् चेन्दुलेखा च चतुर्थी वह्नि-जायिका ।
मन्त्रः स्याच् चेन्दुलेखाया अष्टार्णः समुदीरितः ॥ ग्ग्स्_२४६ ॥
मन्त्रो यथा–ऐम् इन्दुलेखायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव–
हरिताल-समान-देह-कान्तिं
विकसद्-दारिम-पुष्प-शोभि-वस्त्राम् ।
अमृतं ददतीं मुकुन्द-वक्त्रे
भज आलीम् अहम् इन्दुलेखिकाख्याम् ॥ ग्ग्स्_२४७ ॥
दक्षिणे ऽस्मिन् दले काम-लता-नामास्ति कुञ्जकम् ।
अत्यन्त-सुखदं तप्त-जाम्बूनद-सम-प्रभम् ॥ ग्ग्स्_२४८ ॥
श्री-चम्पकलता तिष्ठ-त्यमुष्मिन् कृष्ण-वल्लभा ।
असौ वासक-सज्जात्वम् आपन्ना रति-युग्-घरौ ॥ ग्ग्स्_२४९ ॥
वाम-मध्या चम्पकाभा चातकाभ-शुभाम्बरा ।
तत्-सेवा रत्न-मालाया दानं चामर-चालनम् ॥ ग्ग्स्_२५० ॥
सार्ध-त्रयोदश-दिन-मास-द्वय-समन्विताः ।
मनु-सङ्ख्या-हायनाश् च वयोमानं भवेत् पुनः (१४-२-१३ १।२) ॥ ग्ग्स्_२५१ ॥
मातास्या वाटिका ख्याता पिता चाराम-सञ्ज्ञकः ।
अस्याश् च भर्ता चण्डाख्यस् तथा गौर-रसे ह्य् असौ ।
शिवानन्दतया ख्यातिम् आगता हि कलौ युगे ॥ ग्ग्स्_२५२ ॥
वासक-सज्जा-लक्षणं यथा (उन् ५।७६-७७)–
स्ववासक-वशात् कान्ते समेष्यति निजं वपुः ।
सज्जी-करोति गेहं च या सा वासक-सज्जिका ॥ ग्ग्स्_२५३ ॥
चेष्टास्याः स्मर-सङ्क्रीडा-सङ्कल्प-वर्त्म-वीक्षणम् ।
सखी-विनोद-वार्त्ता च मुहुर् दूति-क्षणादयः ॥ ग्ग्स्_२५४ ॥
उदाहरणं यथा (उन् ५।७८)–
रति-क्रीडा-कुञ्जं कुसुम-शयनीयोज्ज्वल-रुचिं
वपुः सालङ्कारं निजम् अपि विलोक्य स्मित-मुखी ।
मुहुर् ध्यायं ध्यायं किम् अपि हरिणा सङ्गम-विधिं
समृद्ध्यन्ति राधा मदन-मद-माद्यन् मतिर् अभूत् ॥ ग्ग्स्_२५५ ॥
वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्ण-गणोद्देशे १।२४४)–
कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना ।
चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ॥ ग्ग्स्_२५६ ॥
अस्या मन्त्रोद्धारो यथा गारुडे–
आदौ च चम्पकलता ङे ऽन्ता वैश्वानर-प्रिया ।
मन्त्रो ऽयं चम्पकलता-प्रेमदो वसु-वर्णकः ॥ ग्ग्स्_२५७ ॥
मन्त्रो यथा–चम्पकलतायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव–
चम्पकावलि-समान-कान्तिकां
चातकाभ-वसनां सुभूषणाम् ।
रत्न-माल्य-युत-चामरोद्यतां
चारु-चम्पकलतां सदा भजे ॥ ग्ग्स्_२५८ ॥
रक्षोदले श्याम-वर्णे कुञ्जे श्री-रङ्गदेविका ।
सुखदाख्ये निवसति नित्यं श्री-हरि-वल्लभा ॥ ग्ग्स्_२५९ ॥
पद्म-किञ्जल्क-वर्णाभा जबा-पुष्प-निभाम्बरा ।
उत्कण्ठिता-भाव-युक्ता श्री-कृष्णे रति-भाक् सदा ॥ ग्ग्स्_२६० ॥
असौ चन्दन-सेवाढ्या वाम-मध्या भवेत् पुनः ।
गृहम् अस्या यावटे तु वयोमानं भवेत् पुनः ॥ ग्ग्स्_२६१ ॥
सार्ध-वेद-दिनैर् युक्तं द्वि-मासं मनु-हायनम् (१४-२-४ १।२) ।
माता श्री-करुणा प्रोक्ता पिता श्री-रङ्गसागरः ॥ ग्ग्स्_२६२ ॥
पतिर् वक्रेक्षणः प्रोक्तो ह्य् असौ गौर-रसे पुनः ।
गोविन्दानन्द-घोषाख्याम् आपन्ना हि कलौ युगे ॥ ग्ग्स्_२६३ ॥
उत्कण्ठिता-लक्षणं यथा (उन् ५।७९-८०)–
अनागसि प्रियतमे चिरयत्य् उत्सुका तु या ।
विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता ॥ ग्ग्स्_२६४ ॥
अस्यास् तु चेष्टा हृत्-तापो वेपथुर् हेतु-तर्कणम् ।
अरतिर् वाष्प-मोक्षण् च स्वावस्था-कथनादयः ॥ ग्ग्स्_२६५ ॥
उदाहरणं यथा (उन् ५।८१)–
सखि किम् अभवद् बद्धो राधा-कटाक्ष-गुणैर् अयं
समरम् अथवा किं प्रारब्धं सुरारिभिर् उद्धुरैः ।
अहह बहुलाष्टम्यां प्राची-मुखे ऽप्य् उदिते विधौ
विधु-मुखि! न यन् मां सस्मार व्रजेश्वर-नन्दनः ॥ ग्ग्स्_२६६ ॥
वाम-मध्या-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे १।२४८)
कलकण्ठी शशिकला कमला प्रेम-मञ्जरी ।
माधवी मधुरा काम-लता कन्दर्प-सुन्दरी ॥ ग्ग्स्_२६७ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
लक्ष्मीर् अग्नि-रङ्गदेवी ङे ऽन्ता वह्नि-प्रिया ततः ।
रङ्गदेव्यास् तु मन्त्रो ऽयम् अष्टार्णो राग-भक्ति-दः ॥ ग्ग्स्_२६८ ॥
मन्त्रो यथा–श्रीं रां रङ्गदेव्यै स्वाहा ।
अस्या ध्यानं च तत्रैव–
राजीव-किञ्जल्क-समान-वर्णां
जबा-प्रसूनोपम-वासस्-आढ्याम् ।
श्रीखण्ड-सेवा-सहितां व्रजेन्द्र-
सूनोर् भजे रास-ग-रङ्गदेवीम् ॥ ग्ग्स्_२६९ ॥
कुञ्जो ऽस्ति पश्चिमे दले ऽरुण-वर्णः सुशोभनः ।
तुङ्गविद्यानन्ददो नाम्नेति विख्यातिम् आगतः ॥ ग्ग्स्_२७० ॥
नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका ।
विप्रलब्धात्वम् आपन्ना श्री-कृष्णे रति-युक् सदा ॥ ग्ग्स्_२७१ ॥
चन्द्र-चन्दन-भूयिष्ठ-कुङ्कुम-द्युति-शालिनी ।
पाण्डु-मण्डन-वस्त्रेयं दक्षिण-प्रखरोदिता ॥ ग्ग्स्_२७२ ॥
मेधायां पौष्कराजाता पतिर् अस्यास् तु बालिशः ।
नृत्य-गीतादि-सेवाढ्या गृहम् अस्यास् तु यावटे ॥ ग्ग्स्_२७३ ॥
द्वाविंशति-दिनैर् युक्ता द्वि-मास-मनु-हायनाः (१४-२-२२) ॥ ग्ग्स्_२७४ ॥
अस्या वयः-प्रमाणं स्याद् असौ गौर-रसे पुनः ।
वक्रेश्वर इति ख्यातिम् आपन्ना हि कलौ युगे ॥ ग्ग्स्_२७५ ॥
विप्रलब्धा-लक्षणं यथा (उन् ५।८३-८४)–
कृत्वा सङ्केतम् अप्राप्ते दैवाज् जीवित-वल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्छा-निःश्वसितादि-भाक् ॥ ग्ग्स्_२७६ ॥
उदाहरणं यथा–
विन्दति स्म दिवम् इन्दुर् इन्दिरा-*
नायकेन सखि वञ्छिता वयम् ।
कुर्महे किम् इह शाधि सादरं
द्राग् इति क्लममगान् मृगेक्षणा ॥ ग्ग्स्_२७७ ॥
दक्षिणा-लक्षणं यथा (उन् ८।३८, ४२)–
असहा मान-निर्बन्धे नायके युक्त-वादिनी ।
सामभिस् तेन भेद्या च दक्षिणा परिकीर्तिता ॥ ग्ग्स्_२७८ ॥
तुङ्गविद्यादिका चात्र दक्षिण-प्रखरा भवेत् ॥ ग्ग्स्_२७९ ॥
उदाहरणं यथा (श्री-गीत-गोविन्दे ९।१०)–
स्निग्धे यत् परुषासि यत् प्रणमति स्तब्धासि यद् रागिणि
द्वेषं यासि यद् उन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।
तद् युक्तं विपरीत-कारिणि! तव श्रीखण्ड-चर्चा विषं
शीतांशुस् तपनो हिमं हुतवहः क्रीडा-मुदो यातनाः ॥ ग्ग्स्_२८० ॥
अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे १।२४६)–
मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा ।
तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा ॥ ग्ग्स्_२८१ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
लक्ष्मी-पूर्वा तुङ्गविद्या चतुर्थी हुत-भुक्-प्रिया ।
मन्त्रो ऽयं तुङ्गविद्याया वसु-वर्णः समीरितः ॥ ग्ग्स्_२८२ ॥
मन्त्रो यथा–श्रीं तुङ्गविद्यायै स्वाहा ।
अस्या ध्यानम्, यथा तत्रैव–
चन्द्राढ्यैर् अपि चन्दनैः सुललितां श्री-कुङ्कुमाभ-द्युतिं
सद्-रत्नान्वित-भूषणाञ्चित-तनुं शोणाम्बरोल्लासिताम् ।
सद्-गीतावलि-संयुतां बहु-गुणां डम्फस्य शब्देन वै
नृत्यन्तीं पुरतो हरे रसवतीं श्री-तुङ्गविद्यां भजे ॥ ग्ग्स्_२८३ ॥
वायव्य-दलके कुञ्जम् आस्ते हरित-वर्णकम् ।
वसन्त-सुखदम् अत्र सुदेवी वर्तते सदा ॥ ग्ग्स्_२८४ ॥
कलहान्तरिता-भावम् आपन्ना रति-युग्-घरौ ।
पद्म-किञ्जल्क-रुचिरा जबा-पुष्प-निभाम्बरा ॥ ग्ग्स्_२८५ ॥
असौ च जल-सेवाढ्या वामा प्रखरिका मता ।
वेद-वासर-संयुक्त-द्वि-मास-मनु-हायना (१४-२-४) ॥ ग्ग्स्_२८६ ॥
अस्या वयः-परिमाणं यावटे तु निकेतनम् ।
मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ॥ ग्ग्स्_२८७ ॥
भ्रात्रा वक्रेक्षणस्येयम् परिणीता कनीयसा ।
श्री-वासुदेव-घोषाख्याम् आप्ता गौर-रसे त्व् असौ ॥ ग्ग्स्_२८८ ॥
कलहान्तरिता-लक्षणं यथा (उन् ५।८७)–
या सखीनां पुरः पाद-पतितं वल्लभं रुषा ।
निरस्य पश्चात् तपति कलहान्तरिता हि सा ।
अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादयः ॥ ग्ग्स्_२८९ ॥
उदाहरणं यथा (उन् ५।८८)–
स्रजः क्षिप्ता दूरे स्वयम् उपहृताः केशि-रिपुणा
प्रिय-वाचस् तस्य श्रुति-परिसरान्ते ऽपि न कृताः ।
नमन्न् एष क्षौनी-विलुठित-शिखं प्रैक्षि न मया
मनस् तेनेदं मे स्फुटति पुटपाकार्पितम् इव ॥ ग्ग्स्_२९० ॥
वाम-प्रखरा-लक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्री-कृष्ण-गणोद्देशे १।२४९)-
कावेरी चारुकवरी सुकेशी मञ्जुकेशिका ।
हारहिरा हारकण्ठी हारवल्ली मनोहरा ॥ ग्ग्स्_२९१ ॥
अस्या मन्त्रोद्धारो यथा रुद्र-यामले–
द्वे वाग्-भवे रमा ङे ऽन्ता सुदेवी दहन-प्रिया ।
उक्तः सुदेव्या मन्त्रो ऽयम् अष्टार्णः प्रेम-भक्ति-दः ॥ ग्ग्स्_२९२ ॥
मन्त्रो यथा–ऐं सौं श्रीं सुदेव्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव–
अम्भोज-केशर-समान-रुचिं सुशीलां
रक्ताम्बरां रुचिर-हास-विराजि-वक्त्राम् ।
श्री-नन्दनन्दन-पुरो जल-सेवनाढ्यां
सद्-भूषणावलि-युतां च भजे सुदेवीम् ॥ ग्ग्स्_२९३ ॥
कुञ्जो ऽस्ति रूपोल्लासाख्यो ललिता-कुञ्जकोत्तरे ।
सदा तिष्ठति तत्रैव सुशोभा रूप-मञ्जरी ॥ ग्ग्स्_२९४ ॥
प्रिय-नर्म-सखी-मुख्या सुन्दरी रूप-मञ्जरी ।
गोरोचना-समाङ्ग-श्रीः केकि-पत्रांशुक-प्रिया ॥ ग्ग्स्_२९५ ॥
सार्ध-त्रिदश-वर्षासौ (१३-६) वाम-मध्यात्वम् आश्रिता ।
रङ्गण-मालिका चेति प्रवदन्ति मनीषिणः ॥ ग्ग्स्_२९६ ॥
इयं लवङ्ग-मञ्जर्या एकेनाह्ना कनीयसी ।
कलौ गौर-रसे रूप-गोस्वामित्वं समागता ॥ ग्ग्स्_२९७ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
श्री-बीजेन समायुक्ता ङे ऽन्ता वै रूप-मञ्जरी ।
अयम् अष्टाक्षरो रूप-मञ्जर्या मन्त्र ईरितः ॥ ग्ग्स्_२९८ ॥
मन्त्रो यथा–श्रीं रूप-मञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव–
गोरोचना-निन्दि-निजाङ्ग-कान्तिं
मायूर-पिञ्छाभ-सुचीन-वस्त्राम् ।
श्री-राधिका-पाद-सरोज-दासीं
रूपाख्यकां मञ्जरिकां भजे ऽहम् ॥ ग्ग्स्_२९९ ॥
रत्यम्बुजाख्यः कुञ्जो ऽस्ति इन्दुलेखा-कुञ्ज-दक्षिणे ।
तत्रैव तिष्ठति सदा सुरूपा रति-मञ्जरी ॥ ग्ग्स्_३०० ॥
तारावली-दुकूलेयं तडित्-तुल्य-तनु-च्छविः ।
दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति याम् ॥ ग्ग्स्_३०१ ॥
अस्या वयो द्वि-मासाढ्य-हायनास् तु त्रयोदश (१३-२) ।
इयं श्री-रघुनाथाख्यां प्राप्ता गौर-रसे कलौ ॥ ग्ग्स्_३०२ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
नाद-बिन्दु-युतो वह्निर् मुख-वृत्त-समन्वितः ।
स्वाहान्ता मञ्जरी ङे ऽन्ता रति-मञ्जरिका-मनुः ॥ ग्ग्स्_३०३ ॥
मन्त्रो यथा–रां रति-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव–
तारालिवासो-युगलं वसानां
तडित्-समान-स्वतनु-च्छविं च ।
श्री-राधिकाया निकटे वसन्तीं
भजे सुरूपां रति-मञ्जरीं ताम् ॥ ग्ग्स्_३०४ ॥
कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते ।
लवङ्ग-सुखदो नाम्ना सुदृशां सुमनोहरः ॥ ग्ग्स्_३०५ ॥
लवङ्ग-मञ्जरी तत्र मुदा तिष्ठति सर्वदा ।
सा तु रूपाख्य-मञ्जर्या एकेनाह्ना वरीयसी ॥ ग्ग्स्_३०६ ॥
उद्यद्-विद्युत्-समान-श्रीस् तारावली-पटावृता ।
श्री-कृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ॥ ग्ग्स्_३०७ ॥
वय एक-दिनं सार्ध-हायनास् तु त्रयोदश (१३-६-१) ।
श्री-सनातन-नामासौ ख्याता गौर-रसे कलौ ॥ ग्ग्स्_३०८ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
श्री-लीलाभ्यां समायुक्ता
ङे ऽन्ता लवङ्ग-मञ्जरी ।
स्वाहा लवङ्ग-मञ्जर्या
मन्त्रो ऽयं दश-वर्णकः ॥ ग्ग्स्_३०९ ॥
मन्त्रो यथा–श्रीं लां लवङ्ग-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव–
चपला-द्युति-निन्दि-कान्तिकां
शुभ-तारावलि-शोभिताम्बराम् ।
व्रज-राज-सुत-प्रमोदिनीं
प्रभजे तां च लवङ्ग-मञ्जरीम् ॥ ग्ग्स्_३१० ॥
रसानन्द-प्रदो नाम्ना चित्रा-कुञ्जस्य पश्चिमे ।
कुञ्जो ऽस्ति तत्र वसति सर्वदा रस-मञ्जरी ॥ ग्ग्स्_३११ ॥
श्री-रूप-मञ्जरी-सम्यग्-जिवातु सा प्रकीर्तिता ।
हंस-पक्ष-दुकूलेयं फुल्ल-चम्पक-कान्ति-भाक् ॥ ग्ग्स्_३१२ ॥
लवङ्ग-मञ्जरी-तुल्या प्रायेण गुण-सम्पदा ।
अतीव प्रियतां प्राप्ता श्री-रूप-मञ्जरी-श्रिता ॥ ग्ग्स्_३१३ ॥
सन्धान-चतुरा सेयं दौत्ये कौशलम् आगता ।
त्रयोदश-शरद्-युक्ता (१३) दक्षिणा मृद्विका मता ॥ ग्ग्स्_३१४ ॥
सा कलौ रघुनाथाख्या-युक्त-भट्टत्वम् आगता ॥ ग्ग्स्_३१५ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
मुख-वृत्त-युतो वह्नि-नाद-बिन्दु-समन्वितः ।
स्वाहान्त-सम्प्रदानान्तो मन्त्रो वै रस-मञ्जरी ॥ ग्ग्स्_३१६ ॥
मन्त्रो यथा–रां रस-मञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव–
हंस-पक्ष-रुचिरेण वाससा
संयुतां विकच-चम्पक-द्युतिम् ।
चारु-रूप-गुण-सम्पदान्वितां
सर्वदापि रस-मञ्जरीं भजे ॥ ग्ग्स्_३१७ ॥
ऐशान्ये चम्पकलता-कुञ्जात् कुञ्जो ऽस्ति शोभनः ।
गुणानन्द-प्रदो नाम्ना तत्रास्ते गुण-मञ्जरी ॥ ग्ग्स्_३१८ ॥
रूप-मञ्जरिका-सौख्याभिलाषा सा प्रकीर्तिता ।
जबा-राजि-दुकूलेयं तडित्-प्रकर-कान्ति-भाक् ॥ ग्ग्स्_३१९ ॥
कनिष्ठेयं भवेत् तस्यास् तुलस्यास् तु त्रिभिर् दिनैः ।
श्री-कृष्णामोद-दाक्षिण्यम् आश्रिता प्रखरोदिता ॥ ग्ग्स्_३२० ॥
वयो ऽस्या एक-मासाढ्या हायनास् तु त्रयोदश ।
सप्त-विंशतिभिर् युक्तं दिनैश् च समुदीरितम् (१३-१-२७) ॥ ग्ग्स्_३२१ ॥
गोपाल-भट्ट-नामासौ ख्याता गौर-रसे कलौ ॥ ग्ग्स्_३२२ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
गणेशो मुख-वृत्ताढ्यो नाद-बिन्दु-समन्वितः ।
ङे ऽन्ता वह्नि-प्रियान्ता च मन्त्रो वै गुण-मञ्जरी ॥ ग्ग्स्_३२३ ॥
मन्त्रो यथा–गां गुण-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव–
जबा-निभ-दुकूलाढ्यां तडिद्-आलि-तनु-च्छविम् ।
कृष्णामोद-कृतापेक्षां भजे ऽहं गुण-मञ्जरीम् ॥ ग्ग्स्_३२४ ॥
लीलानन्द-प्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे ।
तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ॥ ग्ग्स्_३२५ ॥
रूप-मञ्जरिका-सख्य-प्राया सा गुण-सम्पदा ।
जबा-राजि-दुकूलेयं तप्त-हेम-तनु-च्छविः ॥ ग्ग्स्_३२६ ॥
लीला-मञ्जरी नामास्या वाम-मध्यात्वम् आश्रिता ।
वयः-सप्ताह-युक्तासौ सार्ध-त्रिदश-हायना (१३-६-७) ॥ ग्ग्स्_३२७ ॥
कलौ गौर-रसे लोक-नाथ-गोस्वामितां गता ॥ ग्ग्स्_३२८ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
लक्ष्मी-युक्ता मञ्जुलाली मञ्जरी वह्नि-जायिका ।
चतुर्थ्यन्ता भवेन् मन्त्रो दशार्णः खलु कथ्यते ॥ ग्ग्स्_३२९ ॥
मन्त्रो यथा–श्रीं मञ्जुलाली-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव–
प्रतप्त-हेमाङ्ग-रुचिं मनोज्ञां
शोणाम्बरां चारु-सुभूषणाढ्याम् ।
श्री-राधिका-पाद-सरोज-दासीं
तां मञ्जुलालीं नियतं भजामि ॥ ग्ग्स्_३३० ॥
वैशाख-कुञ्जाद् आग्नेये कुञ्जो ऽस्ति सुमनोहरः
विलासानन्ददो नाम्ना-त्रास्ते विलास-मञ्जरी ॥ ग्ग्स्_३३१ ॥
विलास-मञ्जरी रूप-मञ्जरी-सख्यम् आश्रिता ।
स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्ण-केतकीम् ॥ ग्ग्स्_३३२ ॥
चञ्चरीक-दुकूलेयं वामा मृद्वीत्वम् आश्रिता
कनिष्ठा रस-मञ्जर्याश् चतुर्भिर् दिवसैर् इयम् (१२-११-२६) ॥ ग्ग्स्_३३३ ॥
जीव-गोस्वामितां प्राप्ता कलौ गौर-रसे त्व् असौ ॥ ग्ग्स्_३३४ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
श्रिया प्रचेतसा चैव नाद-बिन्द्व् आस्य-वृत्त-गा ।
विलास-मञ्जरी ङे ऽन्ता स्वाहान्तो मनुर् ईरितः ॥ ग्ग्स्_३३५ ॥
मन्त्रो यथा–श्रीं वां विलास-मञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव–
स्वर्ण-केतक-विनिन्दि-कायकां
निन्दित-भ्रमर-कान्तिकाम्बराम् ।
कृष्ण-पाद-कमलोपसेवनीम्
अर्चयामि सुविलास-मञ्जरीम् ॥ ग्ग्स्_३३६ ॥
नैरृते श्री-रङ्गदेवी-कुञ्जात् कुञ्जो ऽस्ति पश्चिमः ।
कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरी-मञ्जरी ॥ ग्ग्स्_३३७ ॥
काच-तुल्याम्बरा चासौ शुद्ध-हेमाङ्ग-कान्ति-भाक् ।
वयस् त्रिदश-वर्षासौ वामा मृद्वीत्वम् आश्रिता ॥ ग्ग्स्_३३८ ॥
श्री-कृष्ण-कविराजाख्यां प्राप्ता गौर-रसे कलौ ॥ ग्ग्स्_३३९ ॥
अस्या मन्त्रोद्धारो यथा किशोरी-तन्त्रे–
श्री-बीजेन समायुक्ता ङे ऽन्ता कौस्तूरी-मञ्जरी ।
स्वाहान्त इति वै प्रोक्तो नवार्ण-मन्त्र उच्यते ॥ ग्ग्स्_३४० ॥
मन्त्रो यथा –श्रीं कस्तूरी-मञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव–
विशुद्ध-हेमाब्ज-कलेवराभां
काच-द्युति-चारु-मनोज्ञ-चेलाम् ।
श्री-राधिकाया निकटे वसन्तीं
भजाम्य् अहं कौस्तूरी-मञ्जरिकाम् ॥ ग्ग्स्_३४१ ॥
अथ वृन्दावनाधीशौ पद्म-केशर-मध्य-गौ ।
कोटि-कन्दर्प-लावण्यौ ध्यायेत् प्रिय-सखी-वृतौ ॥ ग्ग्स्_३४२ ॥
उक्त-वेश-वयो-रूप-संयुतौ सुमनोहरौ ।
संस्मरेत् सिद्ध-देहेन साधकः साधनैर् युतः ॥ ग्ग्स्_३४३ ॥
तत्रादौ मञ्जरी-रूपान् गुर्वादीन् तु स्वीयान् स्वीयान् प्रणाल्य्-अनुसारेण संस्मरेत् श्री-गुरु-परम-गुरु-क्रमेणेति ततः श्री-राधिकां ध्यायेत् ।
ततः श्री-नन्दनन्दनम् ।
अथ युगल-मन्त्रोद्धारो यथा सनत्-कुमार-संहितायाम्–
गोपीजन-वल्लभेति चरणान् इति च क्रमात् ।
शरणं च प्रपद्ये च तत एतत् पद-द्वयम् ॥ ग्ग्स्_३४४ ॥
पद-त्रयात्मको मन्त्रः षोडशार्ण उदाहृतः ।
नमो गोपीजनेत्य् उक्त्वा वल्लभाभ्यां वदेत् ततः ।
पद-द्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ॥ ग्ग्स्_३४५ ॥
मन्त्रो यथा–गां गोपीजन-वल्लभ-चरणान् शरणं प्रपद्ये,
नमो गोपीजन-वल्लभाभ्याम् ।
अस्य ध्यानं यथा तत्रैव–
अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम ।
पीताम्बरं घन-श्यामं द्वि-भुजं वन-मालिनम् ॥ ग्ग्स्_३४६ ॥
बर्हि-बर्ह-कृतापीशं शशि-कोटि-निभाननम् ।
घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥ ग्ग्स्_३४७ ॥
अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना ।
विचित्र-तिलकं भाले विभृतं मण्डलाकृतिम् ॥ ग्ग्स्_३४८ ॥
तरुणादित्य-सङ्काश-कुण्डलाभ्यां विराजितम् ।
घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥ ग्ग्स्_३४९ ॥
प्रिया-मुखे कृतापाङ्ग-लीलया चोन्नत-भ्रुवम् ।
अग्र-भाग-लसन्-मुक्ता-स्फुरद्-उच्च-सुनासिकम् ॥ ग्ग्स्_३५० ॥
दशन-ज्योत्स्नया राजत्-पक्व-बिम्ब-फलाधरम् ।
केयूराङ्गद-सद्-रत्न-मुद्रिकादि-लसत्-करम् ॥ ग्ग्स्_३५१ ॥
विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे ।
काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥ ग्ग्स्_३५२ ॥
रति-केलि-रसावेश-चपलं चपलेक्षणम् ।
हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥ ग्ग्स्_३५३ ॥
इत्थं कल्प-तरोर्-मूले रत्न-सिंहासनोपरि ।
वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥ ग्ग्स्_३५४ ॥
वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः ।
सुचीन-नील-वसनां द्रुत-हेम-सम-प्रभाम् ॥ ग्ग्स्_३५५ ॥
पटाञ्चलेनावृताङ्गां स-स्मितानन-पङ्कजाम् ।
कान्त-वक्त्रे न्यस्त-नृत्यच्-चकोरीं चञ्चलेक्षणाम् ॥ ग्ग्स्_३५६ ॥
अङ्गुष्ठ-तर्ज्जनीभ्यां च निज-प्रिय-मुखाम्बुजे ।
अर्पयन्तीं नाग-वल्लीं पूग-चूर्ण-समन्विताम् ॥ ग्ग्स्_३५७ ॥
मुक्ताहार-स्फुरच्-चारु-पीनोन्नत-पयोधराम् ।
क्षीण-मध्यां पृथु-श्रोणिं किङ्किणी-जाल-मण्डिताम् ॥ ग्ग्स्_३५८ ॥
रत्न-ताडङ्क-मञ्जीर-रत्न-पादाङ्गुलीयकाम् ।
लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् ॥ ग्ग्स्_३५९ ॥
आनन्द-रस-सम्मग्नां प्रसन्नां नव-यौवनम् ।
सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः ।
तत्-सेवन-परा भाव्याश् चामर-व्यजनादिभिः ॥ ग्ग्स्_३६० ॥
अथ च–
दीव्यद्-वृन्दारण्य-कल्प-द्रुमाधः-
श्रीमद्-रत्नागार-सिंहासन-स्थौ ।
श्रीमद्-राधा-श्रील-गोविन्द-देवौ
प्रेष्ठालीभिः सेव्यमानौ स्मरामि ॥ ग्ग्स्_३६१ ॥
स्मरेद् एवं क्रमेणैव सिद्ध-देहेन साधकः ।
स-साधनेन पद्मस्य व्रजेशौ केशर-स्थितौ ॥ ग्ग्स्_३६२ ॥