श्री-श्री-कवि-कर्णपूर-गोस्वामिना विरचितं
विस्तारः (द्रष्टुं नोद्यम्)
Texts used :
A. (ed.) Manindranath Guha. With anonymous notes. 2nd edition. 1378 (bangabda) 1971.
B. (ed.) Ramachandra Mishra. Varanasi: Chowkhamba Sanskrit Series (Haridas Sanskrit Granthamala 267), 1966.
N.B. The numbering in red comes from edition A above. This edition contains anonymous Sanskrit notes, probably taken from the margins of a manuscript. They are not of much use, so only portions of this material has been added here. The numbering system seems to have no logical consistency, so it is only added for those who wish to refer to Guha’s edition.
श्री-चैतन्य-चन्द्रोदयम्
१. स्वानन्दावेशः २. सर्वावतार-दर्शनम् ३. दान-विनोदः ४. सन्न्यास-परिग्रहः ५. अद्वैत-पुर-विलासः ६. सार्वभौमानुग्रहः ७. तीर्थाटनम् ८. प्रतापरुद्रानुग्रहः ९. मथुरा-गमनं १०. महा-महोत्सवः
–ओ)०(ओ–
श्री-चैतन्य-चन्द्रोदयम्
(१)
प्रथमो’ङ्कः
स्वानन्दावेशः
निधिषु कुमुद-पद्म-शङ्ख-मुख्येष्व्
अरुचि-करो नव-भक्ति-चन्द्र-कान्तैः ।
विरचित-कलिकोक-शोक-शङ्कुर्
विषय-तमांसि हिनस्तु गौरचन्द्रः ॥१॥ १[^१]
नान्द्य्-अन्ते **सूत्रधारः **: अलम् अतिप्रसङ्गेन । भो भोः ! समाकर्ण्यताम्8 । अद्याहं रत्नाकर-वेला-कन्दलित-दलित-कज्जलोज्ज्वलन्-महा-नीलमणि-कन्दलस्य नील-गिरि-दरीदृश्यमान-घन-दलमाल-तरु-कडम्बस्य गभीरतर-कोटर-महावट-बट-निकट-प्रकट-प्रमद-मातङ्गस्य भगवतः श्री-पुरुषोत्तम-देवस्य9 गुण्डिचा-यात्रायां सकल-दिग्-विदिग्-विहारि-हारि-नर-निकर-मुखर-मुख-रममाण-जय-जय10-ध्वनि-ध्वनित-जगद्-अण्ड-भाण्ड-कुहरे प्रमोद-मोदमान-मानस-रसाविभक्त-भक्त-जन-जनित-भगवत्-कीर्तन-कुतूहल-हलहला-स्वान-स्वानन्दित-दिग्-वधू-निकरे स-विमर्द-मर्दल-साहचर्य-लम्पट-पटह-महापण-पणव-स्वन-स्वनल्प-ढक्कार-गभीरतर-भेरी-भाङ्कृति-दुन्दुभि-दुङ्कार-कारणान्य् अशब्दाग्रह-ग्रहिल11-निरवधि-वधिरायमाण-जन-निकरे क्वचन समये सेवाधिकारितया रतया समुपसीदता सीदता च भगवच्-छ्री-कृष्ण-चैतन्य-तन्यमान-तिरोभाव-भाव-भावित-मानसारुषा परुषापद्-दशा-वशाद् अशात-शात12-वैमुख्येन वै मुख्येन हेतुना तथाविधे’पि परमानन्दे मानं देयम् अपि न कुर्वतावतावनि-भृता-निभृताभिलाषेण गजपतिना प्रतापरुद्रेणादिष्टो’स्मि । यथा—हंहो चारणाचार्य ! २13
तद् इदानीं प्रेम-सौभगवतो भगवतो यतीन्द्रस्य तस्यैव गुण-परिमलोद्गार-सारेण रसारेण केनापि प्रयोगेण शुभवता भवताहम् आनन्दनीयः । ४14 यतः—
तद् अवश्यम् अत्र प्रयतनीयम्15 । चित्रं चैतत्—
सो’यं मूर्तिमान् इव निवहीभूतः पराक्रमः क्रम-समुपचीयमान-भगवद्-भाव-स्वभाव-स्वयम्-आविर्भूत-शान्ति-रसावगाह-निर्धूत-रजस्-तमस्तयास्तयाविद्यया शम इव शरीरी परेषाम् अपि मनसि न सिध्यन्तीं विषय-वासनां करोति । तद् अधुना धुनानः सन्देहं देहं च कृतार्थयन्न् अयम् अहं श्री-नाथेनानुगृहीतेन तस्यैव भगवतो ’वतो निज-करुणां श्री-कृष्ण-चैतन्यस्य प्रिय-पार्षदस्य शिवानन्द-सेनस्य तनुजेन निर्मितं परमानन्द-दास-कविना विनाशित-हृत्-कषाय-तिमिरं श्री-चैतन्य-चन्द्रोदयं नाम नाटकम् अभिनीय समीहित-हितम् अस्य नृपतेः करिष्यामि । (अग्रे’वलोक्य) भो भोः! इत इतः । ७16
(प्रविश्य) पारिपार्श्विकः- भाव ! आश्चर्यम् आश्चर्यम् ।
**सूत्रधारः- **मारिष ! किं तत् ?
पारिपार्श्विकः- एतावत्य् अपि भगवतः श्री-नीलाचल-चलद्-आनन्द-कन्दस्य स्यन्दन-यात्रा-परमानन्दे कतिपये सुखोपरम-परम-विमनस्कान्तम् अस्काण्ड-भाण्डम् इव ब्रह्माण्डं मन्यमाना विलपन्तः सन्ति । ८17 तथा हि—
तत् कथय, किम् अत्र रहस्यम् ?
**सूत्रधारः- **मारिष ! धन्यो’सि । यस्य ते ते किलानयोर् नयनयोर् नयन-साफल्य-कारिणः परम-भागवता बताद्य गोचरीभूता भूतारण-कृतः ।
**पारिपार्श्विकः- **भाव ! के’मी ?
**सूत्रधारः- **श्री-कृष्ण-चैतन्य-प्रिय-पार्षदाः ।
**पारिपार्श्विकः- **भाव ! को’सौ चैतन्य-गोस्वामी ?
**सूत्रधारः- **मारिष ! अद्यापि जननी-जठर-पिठर-पिहित एवासि, यद् इदं श्री-महाप्रभोस् तस्य नाम नाम च न श्रुतम् ? श्रूयताम्—
आश्चर्यं यस्य कन्दो यति-मुकुट-मणिर् माधवाख्यो मुनीन्द्रं
श्रीलाद्वैत-प्ररोहस् त्रिभुवन-विदितः स्कन्ध एवावधूतः ।
श्रीमद्-वक्रेश्वराद्या रस-मय-वपुषः स्कन्ध-शाखा-स्वरूपा
विस्तारो भक्ति-योगः कुसुमम् अथ फलं प्रेम निष्कैतवं यत् ॥६॥ १०[^१६]
अपि च—
ब्रह्मानन्दं च भित्त्वा विलसति शिखरं यस्य यत्रात्त-नीडं
राधा-कृष्णाख्य-लीला-मय-खग-मिथुनं भिन्न-भावेन हीनम् ।
यस्य च्छाया भवाध्व-श्रम-शमन-कारी भक्त-सङ्कल्प-सिद्धेर्
हेतुश् चैतन्य-कल्प-द्रुम इह भुवने कश्चन प्रादुरासीत् ॥७॥ ११+
**पारिपार्श्विकः- **भाव ! किं प्रयोजनो जनो’दूरो’यम् अवतारः ?
**सूत्रधारः- **मारिष ! अवधेहि वधे हि मनसो निर्विशेषे’शेषे परे ब्रह्मणि लय एव परः पुरुषार्थस् तत्-साधनं धनं हि केवलम् अद्वैत-भावनेति सर्व-शास्त्र-प्रतिपाद्यत्वेनाद्यत्वेनापि मन्वानानां विदुषां स्व-मताग्रह-ग्रह-गृहीतानाम् अनाकलितं तत्र तत्रैव शास्त्रेषु गूढतयोढतयोत्तमत्वेन स्थितम् अपि सच्चिदानन्द-घन-विग्रहो नित्य-लीलो’खिल-सौभगवान् भगवान् श्री-कृष्ण एव स-विशेषं ब्रह्मेति तत्त्वं तस्योपासनं समन्दनाद्य्-उपगीतम् अविगीतम् अविकलः पुरुषार्थस् तस्य साधनं धनं नाम नाम-सङ्कीर्तन-प्रधानं विविध-भक्ति-भक्ति-योगम् आविर्भावयितुं भगवान् श्री-कृष्ण-चैतन्य-रूपी भवन्न् आविरासीत् ॥ १२
**पारिपार्श्विकः- **भाव ! किं तेनेह तेने हरिणा स्वाभिमत-मत-व्याञ्जको ग्रन्थः ? १३
**सूत्रधारः- **यद्यपि को न वेद वेद-कर्तृत्वं भगवतस् तथापि खल्व् अन्तर्यामी याम् ईहते प्रेरणाम् । न खलु सा बाह्योपदेशतो देशतो वा कालतश् च परिच्छिन्ना भवितुम् अर्हति ॥ १४
**पारिपार्श्विकः- **भाव ! तर्हि कथं तत्रैवोदार-मते रमते न सर्वः ?
**सूत्रधारः- **मारिष ! विविध-वासना स-नाथो हि लोके लोकोत्तरे वर्त्मनि कथं सर्व एव प्रवर्तातम ? वासना-बद्ध श्रद्धा श्रयति हि भेदकतां मतेर् इति । १५
**पारिपार्श्विकः- **भाव ! भक्ति-योगो यो’गोचरः शास्त्र-कृताम्, स च स-चमत्कारं ज्ञानम् एव जनयति, तस्य ब्रह्म-कैवल्यं बल्यं फलम् इति को भेदः ?
**सूत्रधारः- **मारिष !
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्माद-वन् नृत्यति लोक-बाह्यः ॥८॥ [भा.पु. ११.२.४०]
इत्य् आदिना भगवन्-नाम-सङ्कीर्तनादि-रूपस्य भक्ति-योगस्य यो’गस्य रति-जनक-भावः, स खलु पार्षद-भावं भावं भावम् अधितिष्ठते । तथा च—तैर् दर्शनीयावयवैः [भा.पु. ३.२५.३६] इत्य् आदौ ॥ १६
पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः
प्रसन्न-वक्त्रारुण-लोचनानि ।
रूपाणि दिव्यानि वर-प्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥९॥ [भा.पु. ३.२५.३५]
इति तद्-रूपतैव तेषां मोक्षो, न तु कैवल्यम् अत त एवम् ऊचिरे कपिलादाः—भक्तिर् सिद्धेर् गरीयसी [भा.पु. ३.२५.३२] इति । अतः खलु कलौ नाम नाम-सङ्कीर्तनम् एव पुरुषार्थ-सार्थनार्थ-सार्थकता-तिरस्कारि पुरुस्कारि रत्याख्या भावस्य ॥ १७
**पारिपार्श्विकः- **भाव ! भावात्मकं वचनम् इदम् अतीव विस्मापकम् । यतो भगवन्-नाम मुक्तिम् एव जनयतीति शास्त्रम् । तद् अन्यथा चेद् उच्यते । वस्तुतस् तु नारायणेति म्रियमाण इयाय मुक्तिम् [भा.पु. ६.३.२४] इति श्रूयते । १८
**सूत्रधारः- **(विहस्य) मुक्ति-शब्दो’त्र पार्षद-स्वरूप-परः । यतस् तत्रैव सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् [भा.पु. ६.३.४३] इति । इदम् एव श्री-कृष्ण-चैतन्य-मतम् अन्य-मतम् अपास्तं करोति । अनुतिष्ठन्ति चैतत् सुकृतिनः कृतिनः । अतस् तद् अवतारेण कलिर् अप्य् अयं कृतार्थः ।
**पारिपार्श्विकः- **कथम् एतत् ?
कलौ न राजन् जगतां परं गुरुं
त्रि-लोक-नाथानत-पाद-पङ्कजम् ।
प्रायेण मर्त्या भगवन्तम् अच्युतं
यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः ॥ [भा.पु. १२.३.४३]
इति निन्दा-श्रवणात् । २०
सूत्रधारः : तत् तु श्री-कृष्णावतारतः पूर्व-पूर्व-कलि-परम् । अन्यथा—
कलौ जनिष्यमाणानां दुःख-शोक-तमो-नुदम् ।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यशः ॥ [भा.पु. ९.२४.६१]
कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ [भा.पु. ११.५.३८]
इत्य् आदीनि भावि-चैतन्यावतार-पराणि वचनानि विरुध्येरन् ? २१
पारिपार्श्विकः : कथम् एतान् न बाधते कलिः ?
कृष्ण-पक्षे’नुदिवसं क्षयम् आप्नोति यः सदा ।
दोषाकरो बाधतां किं स वै विष्णु-पदाश्रितान् ॥१३॥
नेपथ्ये- कस् त्वं भो दोषाकरत्वेन मां जुगुप्सयन् सुधाकरम् उपस्थापयसि ?
**सूत्रधारः **: (निपुणं निभाल्य) मारिष ! यथा-प्रस्ताव-मयम् अमर्षोत्कर्ष्योत्क-हृदयो’दयोदयो ह्य् अधर्मेण प्रिय-सखेन समम् इत एवाभिवर्तते । तद् इतो’पसरावः ॥ २३
इति निष्क्रान्तौ ।
प्रस्तावना ।
–ओ)०(ओ–
(ततः प्रविशत्य् अधर्मेणोपास्यमानः कलिः ।)
**कलिः : **सखे अधर्म ! सत्यम् एवाह चारणाचार्यः ।
अधर्मः : किं तत् ? (कलिः *कृष्ण-पक्षे *इत्य् आदि पुनः पठति ।)
कलिः : सखे युगराज ! दोषाकरः इति भवन्तम् एवाक्षिप्तव्न् अयम् अधमः । आः पाप कुशील-कुशीलव ! शृणु रे !
शौचाचार-तपः-क्षमा-शम-दमैः सार्धं विवेकादिभिः ।
सामन्तैर् अपि येन धर्म-नृपतिर् निर्मूलम् उन्मूलितः ।
ये दृष्ट्यैव पुनन्ति ते’पि सहसैवान्धीकृतास् तत्-प्रिया
येनैकेन मया स यस्य वशगः सो’यं कलिर् निन्द्यते ॥१४॥
तिष्ठ रे पाप ! तिष्ठ तिष्ठ ।
यतो धर्मस् ततः कृष्णो
यतः कृष्णस् ततो जयः ।
धर्माभावे कुतः कृष्णः
पक्षे यस्य कलेः स्वयम् ॥१५॥ २४
कलिः : सखे ! नायम् आक्षिप्यताम् । अवधारय । यतः—
गतः स कालो मम साम्प्रतं सखे
हत-प्रभावो’स्मि कुमारकाद् अतः ।
महौषधेर् अङ्कुर-निर्गमाद् इव
क्षत-प्रभस् तक्षक-नाग-पुङ्गवः ॥१६॥ २५
अधर्मः : युगराज ! को’सौ कुमारकः । किं कुत्सितो मारकः । किं कोः पृथिव्या वा मारकः ?
कलिः : नोभयं नो भयं कर्तुम् ईष्टे । किन्तु,
नवद्वीपे जगन्नाथ-नाम्नो मिश्र-पुरन्दरात् ।
जातः शच्यां कुमारो’यं मम मर्माणि कृन्तति ॥१७॥ २६
**अधर्मः **(विहस्य) **: **हंहो युगराज !
यस्योच्चैर् भुज-दण्ड-चण्डिम-महा-मार्तण्ड-तेजो-भयान्
मूको घूक इवाद्रि-कन्दर-गतः पादैक-शेषो वृषः ।
स त्वं मद्-विध-भृत्य-सेवित-पदो भूद् एव बालाद् अतो
भीतिं विन्दसि हन्त को’यम् अतुलश् चित्तस्य ते विभ्रमः ॥१८॥ २७
कलिः : सखे ! नायं केवलो भू-देव-बालः । अपि तु बाल-देव-देवः । तथा हि—
हरि हरि हरि-भक्ति-योग-शिक्षा
सरस-मना जगद् एव निष्पुणानः ।
हरिर् इह कनकाब्ज-कान्त-कान्तिं
दिव्ज-भवने’वततार बल-लीलः ॥१९॥
तथा च—
जायमानः पूर्णिमायाम् उपराग-च्छलेन यः ।
ग्राहयामास युगपद् धरेर् नाम जगज्-जनान् ॥२०॥ २८
अधर्मः : अयम् अपि ते भ्रमः । यद् इदं काक-तालीय-न्यायेनोपपन्नम् अन्यथा कल्पयसि । शृणु भोः शृणु –
महाप्रभावाः सुमहा-सहायाः
क्व यूयम् उच्चैश् चिर-बद्ध-मूलाः ।
क्वायं कडम्बो द्विज-वंश-जातस्
ततो’पि भीः को’यम् अहो भ्रमस् ते ॥२१॥ २९
कलिः : सखे ! यथार्थम् आकलय—
स्वयं प्रकाशाः किल काल-देश-
वयो’न्वयादौ न हि सव्यपेक्षाः ।
उद्यात-मात्रः खलु बाल-सूर्यो
गाढं तमस्-काण्डम् अपाकरोति ॥२२॥
नाप्य् अयम् असहायः । यतः खलु स्वावतारात् पूर्वम् एवायम् अवनि-तले प्रिय-पार्षद-निवाहान् आविर्भावयामास ॥ ३० तथा हि—
अद्वैताचार्य-वर्यो भगवद्-अनवमं शाम्भवं धाम साक्षान्
नित्यानन्दावधूतो मह इह महितं हन्त शाङ्कर्षणं यः ।
श्रीकान्त-श्रीपतिभ्याम् अपि सह विजयी श्रील-रामेण सार्धं
को’पि श्रीवास-नामा द्विज-कुल-तिलको नारदीयं हि तेजः ॥२३॥ ३१
अपि च—
आचार्य-रत्न-हरिदास-मुरारि-गङ्गा-
दासादयः सह-गदाधर-पण्डिताद्याः ।
विद्यानिधि-प्रभृतयो’पि च वासुदेवा-
चार्यादयः सह मुकुन्द-मुखास् तथान्ये ॥२४॥
अपि च—
श्री-वक्रेश्वरवान् नृसिंह-सहितः शुक्लाम्बरेणायुतः
श्री-दामोदर-शङ्करौ च जगदानन्दं च मुख्यं दधत् ।
नाना-भाव-विलास-लास्य-रसिकः प्रेमास्पदानां गणो
यद् बाल्यावधि बान्धवः स जगति त्राणाय भूमिं गतः ॥२५॥ ३२
अधर्मः : युगराज ! कथय कथम् अयम् ईश्वर इति निरणायि ।
कलिः : सखे ! सकल-जनान्तः-करणाकर्षित्वं हि भगवतो’साधारणं लिङ्गम् आनन्दमयत्वात् । आनन्द-मयो हि जीवान् आनदयितुम् अर्हति, यथा प्रचुर-धनः परम् अपि धनिनं करोति । एतावन्तं हि पारमेश्वरं लिङ्गम् अस्य, यद् बाल एव सकल-जन-चित्त-चमत्कार-कारकः ॥ ३३
तथा हि—
शिव शिव शिशुतायाम् एव गाम्भीर्य-धैर्य-
स्मृति-मतिर् अतिविद्या-माधुरी-स्निग्धताद्याः ।
निखिल-जन-विशेषाकर्षिणो ये गुणास् तैर्
इह न विदधतां के विष्णुर् इत्य् एव बुद्धिम् ॥२६॥ ३४
**अधर्मः : **अनैकान्तिकम् इदम् । प्रकृष्ट एव कश्चिज् जीवो भवतु ।
कलिः : मैवम् ।
यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजो’ंश-संभवम् ॥ [ङीता १०.४२]
इति भगवतः सामान्येनोक्तेस् तथा-विधायुतायुत-गुण-गणवत्तया भगवत्तैवास्य सिद्धेति वयम् एव प्रमाणं यद् वयं जीवतो न बिभीमः । ३५
अधर्मः : युगराज ! स किल कृतोद्वाह इति श्रूयते ?
कलिः : अथ किम् ।
अवतरति जगत्याम् ईश्वरे हन्त तस्याप्य्
अवतरति हि शक्तिः काप्य् असौ रूपिणी श्रीः ।
अनुकृत-नर-लीलां ताम् उरीकृत्य नीत्वा
कतिपय-दिनम् अन्तर्धापयामास देवः ॥२८॥ ३६
तथा च तस्या मानुषी-भावः देवत्वे देव-रूपा सा मानुषत्वे च मानुषी [विप् १.९.१४३] इति । किं च—
भुवो’ंश-रूपाम् अपरां च विष्णु-
प्रियेति वित्तां परिणीय कान्ताम् ।
वैराग्य-शिक्षां प्रकटीकरिष्यन्
हास्यत्य् अथैनां स नवां नवीनः ॥२९॥ ३७
अपि च—
अस्याग्रजस् त्व् अकृत-दार-परिग्रहः सन्
सङ्कर्षणः स भगवान् भुवि विश्वरूपः ।
स्वीयं महः किल पुरीश्वरम् आपयित्वा
पूर्वं परिव्रजित एव तिरोबभूव ॥३०॥ ३८
अधर्मः : (क्षणं विचिन्त्य स्वगतम्) अहो कष्टम् इव प्रतिभाति । प्रतिभातिरेकेणैवाहम् अन्यथा-कुर्वन्न् अस्मि । किन्तु,
ग्लपयति हृदयं मे स्रंसयत्य् अङ्गम् अङ्गं
विधुवयति विधेयं सर्वम् एवेन्द्रियाणाम् ।
स्मृतिम् अहह लुनीते हन्त धैर्यं धुनीते
न हि महद् अभिधानाद् अस्ति मे कष्टम् अन्यत् ॥३१॥ ३९
कलिः : सखे ! अनुभूतम् इदानीम् अनुभूयताम् अनुभूयताम् ।
**अधर्मः : **सखे ! अस्त्य् उपायो’पायोज्झितः कश्चिद् अस्य पराभवाय, भवाय चास्माकम् ।
**कलिः : **सखे ! को’सौ ?
**अधर्मः : **सखे !
कामादयो ये षड् अमी अमात्यास्
तेषम् अशक्यं न हि किञ्चिद् आस्ते ।
येषाम् अखण्डाद् भुज-दण्ड-दर्पाद्
एकातपत्रं तव विश्वम् एव ॥३२॥ ४०
सम्प्रति च ते दिग्-विजयतः षड् एव निवृत्ताः सन्ति । एकैके खलु एकैकां दिशं विजित्य निष्कण्टकम् एव जगत् कृत्वा स्वामिनस् तव पाद-मूलम् अधुना धुनानाः सन्देहं समागमिष्यन्ति । तान् एवास्य पराभवाय सर्वान् एव युगपन् नियोजयिष्यामः । तथा हि तेषां पराक्रमं वर्णयामः—
यद् दोर्-दर्पात् स्वयम् उपगतः पद्म-योनिः स्व-पुत्रीम्
आत्मारामो’पि च पशुपतिर् मोहिनीं धावति स्म ।
सो’यं कामस् त्रिभुवन-जये यस्य विख्यातिर् उच्चैः
स्त्रीणां क्रीडोतव इव परे तत्र के’मी वराकाः ॥३३॥ ४१
कलिः : सखे ! अज्ञो’सि भगवत्तायाः—
नारायणस्यैष पुरा पराभवे
गतः स्वयं तेन पराजितो’भवत् ।
न वै जगन्-मोहन-मोहनं हरिं
देहं-भृतो मोहयितुं तम् ईशते ॥३४॥ ४२
तथापि ते मयैव नियुक्ताः सन्ति । प्रतिज्ञातं च तैः सति शिशुतापगमे’स्माभिर् अयं पराभवनीय इति तद् अप्य् असम्भाव्यम् एव । यतः—
आरम्भ एव वयसो’भिनवस्य नव्यां
लक्ष्मीम् इव द्युतिमयीं स विहाय भार्याम् ।
सम्पालयन् निज-निदेशम् अथो गयायां
जातश् चकार जनकस्य परेत-कार्यम् ॥३५॥ ४३
अपि च—
तत्रैव दैव-वशतः समुपेयिवांसं
न्यासीन्द्रम् ईश्वर-पुरीम् उररीचकार ।
शिक्षा-गुरुर् गुरुतया दश-वर्ण-विद्याम्
आसाद्य माधव-पुरीन्द्र-वशां वशीशः ॥३६॥ ४४
अपि च—
आगत्य स स्व-भवनं प्रिय-सम्प्रदायैः
श्रीवास-राम-हरिदास-मुखैः परीतः ।
गायन् नटन् अभिनयन् विरुदन्न् अमन्दम्
आनन्द-सिन्धुषु निमज्जयति त्रिलोकीम् ॥३७॥
कथम् अत्र काम-वराको’वसरम् उपैतु ? ४५
**अधर्मः : **सखे ! मैवं वादीः ।
उग्रैर् उग्रैस् तपोभिः शम-दम-नियमैर् धारणा-ध्यान-योगैर्
युक्ताश् चापारमेष्ठ्यं त्रिभुवन-विभवे छर्दितान् नावबोधाः ।
कन्दर्पादीनमित्रान् अपि सहजतया दुर्जयान् एव जित्वा
येन स्पृष्टा निपेतुः कथय कथम् असौ केन कोपो विजेयः ॥३८॥ ४६
कलिः : सखे ! कोपो वराकस् तस्य किं करोतु ? तथा हि, ये खलु विविध-विधर्म-नर्म-सचिवयोः स-प्रपञ्च-पञ्च-महा-पाप-पापच्यमानमानसयोः सकल-लोको पप्लवमात्र-मात्रयोः परम-लुण्टाकयोः कयोश्चिद् ब्राह्मण-चेलयोः कुचेलयोः कुकर्म-कर्मठयोः कदर्ययोः सौदर्ययोः कपट-पटहाकारयोर् जगन्नाथ-माधवाभिधानयोर् अनयोर् अहरहर् अतीव-वर्धमान-मानस-मलयोः सानुग्रह-ग्रहम् आत्मनैवाहूय पूरतः समानीतयोः किल्बिष-विष-लोभवद्भ्यां भवद्भ्यां यद् यदेनो व्यरचि, तद् अखिलम् एव मे’वधान-पूर्वकं ददतम् इति गदितयोः कथं कथम् अपि विस्मय-चमत्कार-कारणेन क्षणं स्थगितयोर् अनन्तरं ददावेति निगदतोः करतो जलं गृहीत्वा सद्य एव देदीप्यमानीक्रियमाणयोर् उदित्वर-त्वरमाण-विपुल-पुलक-कञ्चुकयोर् आनन्द-नन्द-दीक्षण-सलिलयोः कृष्ण कृष्णेति गद्गद-गदन-रुद्ध-कण्ठयोश् चिर-समय-समयमान-मनोर् निर्मलतया चिर-समुपसन्न-भक्ति-योग-योगतो गतोद्दाम-कामादि-दोषयोः परम-भागवतानां पदवीम् अधिरूढयोस् तादृशेनानन्द-विकारेण पश्यतः स्यतः सन्देहं सकलान् एव जनान् चित्रार्पितान् इवाहनिवारितम् एवाकार्षीत् । तस्य खलु सकलाघ-लाघव-कारिणः कटाक्ष-पात-मात्रेणैव पर-हृदयाद् अपि कामादि-षड्-विपक्ष-पक्ष-च्छिदो भगवतः क्रोध-वशीकारः किं चित्रम् ? ४७
(नेपथ्ये आनन्द-कोलाहलः)
**अधर्मः (श्रुतम् अभिनीय): **सखे! श्रुतम् इदम् ? अद्य खलु श्री-वासावासानन्तरे यद् अयम् आनन्द-कुतूहल-हलहलारावः श्रूयते । तेनानुमितम् अमित-महा-महनीयं तस्यैव किम् अपि चेतश् चमत्कार-कारी-चरितम् उन्मीलति । ४८
(पुनर् नेपथ्ये उलूलु-ध्वनि-सहचरो विविध-वादित्र-ध्वनिः)
कलिः (निपुणं निभाल्य): अये ! सत्यम् एवाणुमितम् अस्मादृशा दृश्यमानम् इवैतत् । पश्य भूसुर-सुरस-तरुणी-गण-मुखम्-मुखरित-मङ्गलोलूलु-ध्वनिः-सहचर-परम-परितोष-समुच्चरज्-जय-जय-निस्वनानुवादि-वादित्र-समूह-निर्घोष-परिपोष-विशृङ्खल-शङ्ख-घण्टा-रवैर् अवैयग्र्यतः ? श्रवणावट-घतमान-सुधा-रसासार इव कश्चन महोत्सव-समयो’यम् उन्मीलति, तद् इदम् अवश्यम् एव निपुणं निभालनीयम् । (इति तथा करोति) ४९
(पुनस् तत्रैव)—
रामार्घादीन्य् अरम् उपहर श्रीपते भव्य नव्यान्
कुम्भान् अष्टोत्तर-शतम् उपासादय त्वं जवेन ।
श्रीकान्त त्वं प्रतिदिश-वधू-वर्गम् अन्याश् च धन्या
भूदेव-स्त्रीर् अमर-सरितो नीरम् अभ्यानयन्तु ॥३९॥
**कलिः- **सखे ! सम्यग् अलक्षि मया यद् अयं श्रीवासः सहोदरान् आदिशति । तथा मन्ये तस्यैव विश्वम्भर-देवस्य प्रकट-घटमान-निजावेश-विकस्वर-परम-प्रभावस्य महाभिषेक-महोत्सव-समारम्भः समुज्जृम्भते ॥ ५०
अधर्मः : यद्य् अयं स्वयं स्व-यन्त्रित ईश्वर एव, तदा कथम् आधुनिक आवेशः ?
कलिः : सखे ! श्रूयताम्—
नित्यो यद्यप्य् अहह बलवान् ईश्वरस्येश-भावः
स्वाधीनत्वात् तद् अपि न स तं सर्वदैव व्यनक्ति ।
हन्तादत्ते कुतुक-वशतो लौकिकीम् एव चेष्टां
लीलाम् आहुः परम-सुरसां तस्य ताम् एव तज्ज्ञाः ॥४०॥ ५१
(पुनर् नेपथाभिमुखम् अवलोक्य) सखे! पश्य पश्य, तत्-कालोदित-दिनकर-किरण-निर्भर-परिरब्ध-जाम्बुनद-शिखरि-शिखर-मरीचि-वीचि-निचय-रुचि-मञ्जरीभिर् इलआवृत-वर्षस्यैक-खण्डम् इव भूसुर-वर—श्रीवास-वासम् अखिल-जन-लोचन-गोचरीकुर्वन्न् इव निवही-भूतानन्द-महोन्मदिष्णुर् इव युगपद् उदित्वर-समुद्दाम-विद्युद्-दाम-विद्युद्दाम-पुञ्ज इव भगवद्-गेहम् अनुप्रविश्य विशाल-शालग्रामादि-पर्यङ्कम् अधिरुह्य शालग्रामादिकम् एकतो’वक्षिप्य समुपविष्टः सकलैर् एव स-सम्भ्रम-भ्रमणम् इतस् ततो धावद्भिः सविपुल-पुलकाश्रुभिर् आनयद्भिः पूर्वोद्दिष्टानि पूजोपकरणानि करणानियत-पाटवैर् इव वैविध-रूप-विषय-वासनाश-विशदान्तरैर् अभितो’भितः परिवव्रे । ५२
(पुनर् नेपथ्ये)
कुरुष सुरभीर् अपस् त्वम् इह राम शंशोधित
मुकुन्द रचय स्वयं त्वम् अभिषेक सामग्रिकाम् ।
गदाधर विधत्स्व भो वसन-माल्य-भूषादिकं
मयायम् अभिषेक्ष्यते हरिर् इहैव खट्वोपरि ॥४१॥ ५३
कलिः (नेपथ्याभिमुखं परितो’वलोक्य) सखे ! पश्य पश्य—
यान्त्य् आयान्ति च हन्त मङ्गल-घट-व्यग्राग्र-हस्ताः स्त्रियो
या एताः परितः पुरात् सुरधुनीं तत् कूल-मूलात् पुरम् ।
तासां वाचि तद् ईहितं नयनयोर् अस्रं तनौ वेपथुर्
धम्मिल्ले श्लथता कपोल-फलके रोमाञ्च इत्य् अद्भुतम् ॥४२॥ ५४
अधर्मः : सखे ! धम्मिल्ले श्लथता तद् एतद् अखिलं कामस्य विस्फूर्जितम् इत्य् एव भण्यताम् । यतः—
यत्र यत्र हरिणी-दृशां क्रमस्
तत्र तत्र मदनस्य विक्रमः ।
स्व-प्रकर्ष-जननीं विना चमूं
केवलो जयति किं चमूपतिः ॥४३॥ ५५
(पुनर् नेपथ्ये तुमुल-निर्घोष-पोषकः पुरुष-सूक्त-पारायण-सुरसः कलकलः)
**कलिः (निर्वर्ण्य): **अहो अत्यद्भुतम् ।
एते ब्रह्म-कमण्डलोर् इव घटान् निःस्यन्दमानैर् मुहुः
स्वर्गङ्गा-जल-निर्झरैर् अविरल-क्लिन्नात् सुमेरोर् इव ।
गौराङ्गस्य शरीरतो निपततां भूमण्डलोच्छ्वासिनां
निःस्यन्दाः सुमहाभिषेक-पयसां सस्रुश् चतस्रो दिशः ॥४५॥ ५७
अपि च अभिषिक्तस्य निःसारित-सारितराभिषेक-कीलालस्य लालस्यमान-वसन-परिधापन-पणन-शोभमानस्य मानस्य परितोष-विशेषेणाविशेषेणानुलिप्तस्य भक्त-जनैः कैश्चन कृतालङ्करणस्य करणस्पदेन कैर् अपि परिधावित-चरण-कमलस्य ज्वलन-धौत-कलधौत-कलया नीराजित-राजित-गौर-महसा महसो’सूयमान-महिम्नः श्री-विश्वम्भरस्य भरस्यदेन प्रेम्णां सर्वैर् एव पाद-पद्मोपकण्ठे यथावैभवं वैभवं पुरस्कृत्याद्वैतं द्वैतं पूरयद्भिः कनक-मणि-वसनादीन्य् उपढौक्यन्ते । ५८18
**अधर्मः :**सखे! अयम् अवसरो लोभस्य । यतः
धरिय-ध्वंसी परिणति-सुख-द्वेषिणो ह्री-विरोधी
जेतुं शक्यो भवति नितरां हन्त केनापि लोभः ।
क्षीराम्भोधेर् मथन-जनितं रत्न-भूतस्य रत्नं
देवो विष्णुः किम् अपि चकमे कौस्तुभं च श्रियं च ॥४६॥ ५९[^१८]
कलिः : नायं तथा । (इति निभाल्य) पश्य पश्य । एष खलु –
न भाषते नेक्षते च न शृणोति च किंचन ।
स्वानन्द-स्तिमितः किन्तु तेजसा परम् एधते ॥४७॥ ६०[^१९]
अधर्मः : सखे ! इयम् अपि मदस्यैव रीतिः ।
मुकीकरोत्य् अलम् अमूकम् अहो अनन्धम्
अन्धीकरोत्य् अवधिरं वधिरीकरोति ।
यो’यं बली सुमनसं विमनीकरोति
स श्री-मदो वद न कस्य महोपहत्यै ॥४८॥ ६१[^२०]
तद् अलम् अत्र चिन्तया । एकस्यावसरे सर्वेषाम् एवावसरो’नुमेयः । एक-योग-निर्दिष्टानां सह वा प्रवृत्तिः, सह वा निवृत्तिः इत्य् आदि । तेन—
अन्योन्त्कर्षासहत्वान् मनसि मलिनता क्रौर्य-कापट्य-कारी
यत्रोत्पद्यते तं हि प्रदहति सहसा कोटराग्निर् यथागम् ।
येनाक्रान्तान्तराणां खलु इति वलते विश्व-विक्षोभिर्काख्या
सो’यं मात्सर्य-नामा तव सचिव-वरो वर्तते गूढम् अत्र ॥५०॥ ६२[^२१]
पुनर् नेपथ्ये- हन्त भो अद्वैत !
अष्टादशैव यामाः क्षण इव नामाभवन् यस्य ।
तस्मिन्न् आनन्द-मये कुम् उपचरामो वयं क्षुद्राः ॥५१॥
तद् अधुना सर्व एव तथा स्तुध्वम् । यथायं सहजम् अपि सान्द्रम् आनन्दं प्रतनूकृत्य भक्त-वात्सल्याद् बहिर् वृत्तिम् आलम्बते । ६३19
**कलिः : **श्रुतं सखे श्रुतम् ? भक्ता हि केवलम् ऐश्वर्यं न सहन्ते यद् एवं श्रीवासो निगदति ।
अधर्मः : श्रुतम् । किन्तु एभिर् एवास्यान्तर्वर्ती मदः प्रख्याप्यते, समन्तरं मोहश् च । तथा हि—
आनन्दः सहजो भवेद् यदि तदा नासौ विहातुं क्षमस्
तेनान्तर्मद-मेदुरो’तिकपटाद् विश्वं तृणं मन्यते ।
मोहश् चेत् स्वजनेषु नास्य किम् अहो तेषां वचो गृह्यते
कलिः : वात्सल्यात् ।
अधर्मः : क्षुद्रे मोह इतीतरत्र स जनैर् वात्सल्यम् इत्य् उच्यते ॥५१॥ ६४20
कलिः : अज्ञ ! जीवाश्रयो’यं विचारः । क्षुद्राक्षुद्रत्वस्य जीव-गतत्वाद् इति । (पुनर् नेपथ्याभिमुखम् अवलोक्य) अहो कथम् अकस्माद् एव—
अद्वैत-प्रमुखाः पतन्ति युगपत् सर्वे क्षितौ दण्डवच्
छ्रीवासादि-चतुः-सहोदर-वधू-मुख्याः स्त्रियश् चाखिलाः ।
आं ज्ञातम् ।
व्याकोषाम्बुज-मालिके इव कृपा-माध्वीक-निःस्यन्दिके
स्वानन्दोर्मि-विनिद्रिते विकचयामासायम् ईशो दृशौ ॥५२॥ ६५[^२४]
(पुनश् चिरं निरूप्य) अहो अत्यद्भुतम् ।
मच्-चित्ता भवतेति वारिद-घटा-गम्भीर-धीर-स्वरं
भाषित्वाङ्घ्रि-सरोरुहे भगवतामीषां शिरःस्व् अर्पिते ।
सास्रं सोत्कलिकं स-वेपथु स-शीत्कारं सरोमोद्गमं
सोल्लासं च स-कौतुकं च यद् अमी आनन्द-तन्द्रां ययुः ॥५३॥
तद् अतः परमत्रैवागमिष्यन्ति सर्वे । तद् एहि स्थानान्तरं चिन्तयामः ॥६६21
अधर्मः- सखे ! ममावस्थानं क्व चिन्तनीयम् ?
कलिः : चिन्तितम् अस्ति । श्रूयताम्—
विद्या-शील-तपः-कुलाश्रम-युजो’प्य् एकान्त-दान्ताश् च ये
निन्दन्त्य् अस्य विभोश् चरित्रम् अनघं तेषु त्वया स्थीयताम् ।
त्वत्-पत्नी तु मृषा बहिर्मुख-मुखेष्व् आस्तां तनुजश् च ते
दम्भः केवल-शुष्क-कर्म-निरतेष्व् एतेन मा खिद्यताम् ॥५४॥ ६७[^२६]
अधर्मः : यथा रुचितं ते ।
(इति निष्क्रान्तौ)
विष्कम्भकः ।
(ततः प्रविशति पर्यङ्कारूढो गृहीत-दिव्य-वेश-भूषः स्वानन्द-सुप्त-प्रबुद्ध इव भगवान् विश्वम्भरः परितो विभवश् चाद्वैतोदयश् च, दूरे कीर्तयन्तो’न्ये च भागवताः ।)
**भगवान्- **अद्वैत !
गोलोकाद् अवतारितो’स्मि भवतैवाहं सुदुर्वारया
स्व-प्रेमामृत-वन्ययैव परया दैन्यादिनानन्यया ।
**अद्वैतः **(अञ्जलिं बद्ध्वा):
को’हं क्षुद्रतमस् त्वयैव भग्वल्-लीला-वशेनात्मना ।
लोकानुग्रह-साग्रहेण धरणावात्मायम् आविष्कृतः ॥५५॥ ६८[^२७]
कथम् अन्यथा—
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ [भा.पु. १.८.२०]
इति कुन्त्य्-उक्त-दिशा तथा-विधानां नीरसतया शुष्क-हृदयाणां मुनीनां हृदय-सरसीकरणाय प्रकटित-जगन्-मङ्गल-मङ्गलावतारेण स्वयं-भगवता व्रज-राज-कुमारेण विरचितासु पुरुषार्थ-सार्थापार्थीकरण-समर्थ-श्रवण-कीर्तनादिषु ब्रह्मानन्दाद् अपि चमत्कार-कारिणीषु गोकुल-मथुरा-द्वारावती-लीलासु— ६९22
इत्य् उद्धवोक्त-दिशा सकल-रस-पारावार-पारवर्तिनि गोकुलाद्य पर-नामनि श्री-वृन्दावन-धामनि निकाम-निरतिशयानन्द-भूमनि मूर्तिमद्-आनन्द-शक्तिभिः सन्तत-सन्तन्यमान-मानस-राग-पर-भाग-भाग-धेयाभिर् आभीर-भीरुभिः प्रवर्तितं तादृशम् एव प्रेम-तत्त्वं तदानीं तत्रैव स्थितं सम्प्रति सम्प्रतिपाद्यमान-तद्-आस्वाद-स्वादर-गृहीत-समुचित-विग्रहस्य तव सौभगवतो भगवतो निरवधि तद् एव मधुरतर-रस-रहस्य-पीयूष-यूषमाहित-गण्डूषम् आचमतो’ङ्गुलि-विवर-विगलिता इव तत्-कणाः क्व नामास्माभिर् अप्य् आचमन्ते ।23
**भगवान् : **श्रीवास ! स्मरसि विनिर्यतस् तवासून्
आरौत्सं यद् इह चपेट-पाटवेन ।
श्रीवासः (स्मृतिम् अभिनीय):
आं वेद्मि प्रभु-वर मोचितो’स्मि मृत्योः
केनापि प्रसभम् इति स्मृतिर् ममास्ते ॥५८॥ ७०[^३१]
(सर्वे विस्मयं नाटयन्ति ।)
**भगवान् : **श्रीवास ! आमूलं कथय । सर्वे शृण्वन्तु ।
**श्रीवासः : **भगवत आविर्भावात् पूर्वम् आशैशवम् आसोडश-वर्षम् अयं जन्तुर् अतिदन्तुरतया द्विज-गुर्व्-आदिषु मन्तु-मत्तया मत्तया मनो-वृत्त्यावृत्त्यागच्छद् अशान्ति-दशान्त्म् अकाष्ठाकाष्ठायमान-हृदयो’दयो वृथा-कलह-लहरी-कुकथादिभिर् मद-मेदुर-दुरवस्थित-धीः स्वप्ने’पि न श्रुत-कीर्तित-भगवद्-गुणः कदाचिद् आचित-पूर्व-सुकृत-सुकृत-वशान् निद्रा-विद्रावितायां संज्ञायां केनापि करुणात्मना स्वप्ने समुपदिष्ट इव जातो’स्मि । यथा—अरे ब्राह्मण-ब्रुव ! ब्रुवन्तु के त्वाम् उपदेश-वाचं वा चञ्चल-हृदय ! तथापि ब्रूमहे वर्षम् एकं ते’तःपरं परमायुर् अतः परं वृथायु-क्षेपं मा कार्षीर् इति । विजातायां विभावर्यां वर्षं ताम् उपदेश-वाचम् अनुस्मरन्न् अल्पायुष्कतया विमनस्को विरताखिल-चापलस् तद्-दिनम् उपोषितः पोषितस् तेनैवोपदेशापदेशामृतेन पुरुष-निःश्रेयसं किम् इति निर्णेतुं विधिवन्-नारदीय-पुराण-पद्यम् इदम् उपलब्धवान् अस्मि— ७१24
तद् अनु दनुज-दमनोपदेशम् इव तन्-मन्वानो’न्वानोदित-सकल-कर्मा हरि-नाम-मात्र-शरणः शरणम् अपि विस्मृतवान् अस्मि । सर्वैर् एवोपहस्यमानो’पि प्रशान्त-मना मनाग् अपि नान्य-वृत्तिस् तद् एव मृत्यु-दिनम् अनुसन्दधानो दधानो हृदि विषादं मासान् गणयन्न् उपरते वर्षे प्रत्युपसन्ने च मृत्यु-दिवसे’वशेषायुर् अहं श्री-भागवताध्यापन-कर्तुर् देवानन्द-पण्डितस्यालयं तच् छुश्रूषयागतः । प्रह्लाद-चरित-श्रवण-काले तम् एव समयम् आसाद्य साद्यमान-ज्ञानो मृत्यु-वशः गतः । पतिओत्’स्मि तद्-भवनालिन्दतो’ङ्गन-तलम् । तद् अनु केनापि मृत्यु-मुखोन्मोचितं चितं च पुनर्-आयुषेत्य् आत्मानं मन्यमानो विवश इव पुनर् उत्थितवान् अस्मि । तस्मिन्न् एव समये सर्वे एव माम् उत्थाप्य गृहम् आनिन्युः । ७२25
**भगवान् : **निशां समया स मया स्वप्नो दर्शितः प्रगत-जीवितो’वितो’पि पुनर् जीवित-दानेन ।
(सर्वे विस्मयं नाटयन्ति ।)
**भगवान् : **
स्पर्श-मणेः स्पर्श-वशात्
कनकी-भावं प्रयातम् इव लौहम् ।
तव तु तद् एव शरीरं
नारद-शक्ति-प्रवेशतो’न्यद् इव ॥६०॥
**अद्वैतः- **एवम् एतत् । अन्यथा न मृतः पुनर् जीवति । किन्तु भगवन् ! सर्व एवैते तव सहज-स्वभाव-भाव-सहचरास् तथापि मद्-भजनेन जनेन शरीरान्तरम् इव लभ्यत इति शिक्षयाक्षयानन्देन भगवतेदम् अध्यवसितम् । वस्तुतः स्तुत-महिमायं तव भक्ति-श्रीवासः श्रीवासः ॥ ७३
**भगवान् : **अद्वैत ! सत्यम् एतत् ।
**अद्वैतः- **भगवन् ! मुरारि-मुकुन्दादयो’प्य् एते तव दास्य-भाव-भाव-दाता दातारो नयनानन्दस्य ।
**भगवान् : **अद्वैत । अन्तर् अनयोर् अनयो महान् अस्ति ।
(अतः उभौ साशङ्कं वेपाते पातेन कुलिशस्येव ।)
**अद्वैतः- **देव को’सौ ?
भगवान् : मुरारेर् मनसि न सिध्यति भक्ति-रसो रसोन-दौर्गन्ध्यम् इव विसारि-काटवम् अध्यात्म-भावनावनाग्रह-ग्रहिलत्वम् एवास्ति । यद् अयम् अद्याप्य् अनुक्षण-क्षण एव वाशिष्ठ-विषये । ७४
**अद्वैतः- **किम् अपराद्धम् अध्यात्म-योगेन ?
**भगवान् : **त्वया कथम् इदम् उच्यते ?
यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे ।
विक्रीडतो ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥६१॥ [भा.पु. ६.१२.२२] ७५
**अद्वैतः- **मुकुन्देन किम् अपराद्धम् ?
भगवान्- अनेन निरुच्यते रुच्यते हि भगवतश् चतुर्भुज-रूप एव तद् एवोपास्यम् ।
**अद्वैतः- **किम् इदं मतम् अमतम् अहो ?
भगवान्- ऐच्छिकं हि भगवतश् चतुर्भुजत्वम् । स्वाभाविकं हि द्विभुजत्वम् एव । तथा हि—नराकृति परं ब्रह्म; गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भा.पु. ७.१०.४८]; परमात्मा नराकृतिः [भा.पु. ७.१५.७५] इति नराकृतित्वं द्विभुजत्वम् एव ।
**अद्वैतः- **स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । [ङीता १०.१५] तद् आज्ञापयन्तु निज-रूप-तत्त्वम् इति ।
भगवान्- (सानुग्रहम्) तत् ते दर्शयितव्यम् ।
**अद्वैतः- **अनुगृहीतो’स्मि । किन्तु भगवन् नयनयोः प्रसीद सीदत एवैतौ कृत-मनो’रुषा पुरुषापराधेन ।
दुर्वासनाविष-विषाद-हरे सुषीमच्-
छाया-करे पुरु-कृपा-मकरन्द-वर्षे ।
अम्भोज-गञ्जन-कृती चरणातपत्रे
मूर्ध्न्य् एतयोः कुरु विधेहि तथा प्रसादम् ॥६२॥ ७७
**भगवान्- **(तथा कृत्वा)
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।
ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ [भा.पु. १०.९.२१]
(इति पठित्वा सानुकम्पम्) नातः परं विजातीय-वासना-सनाथौ भवतम् ।
**उभौ : **(दण्डवत् पतित्वा)
अहं हरे तव पादैक-मूल-
दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासु-पतेर् गुणांस् ते
गृणीत वाक् कर्म करोतु कायः ॥६४॥ [भा.पु. ६.११.२४] (इति पठतः) । ७८[^३४]
भगवान् : तथास्तु ।
**शुक्लाम्बरः : **(स-दैन्यम्) देव !
तप्तानि भूरीणि तपांसि नाथ
बहूनि तीर्थानि च सेवितानि ।
तथापि चेतो नहि मे प्रसन्नं
कृपा-कटाक्षं कुरु मे प्रसीद ॥६५॥
(इति पठित्वा निःसाध्वसं साध्व् असङ्कोचेन तत्-पाद-पद्मयोः शिरो निदधाति ।) ७९26
श्रीवासः : +
**गदाधरः : **आचार्याश् चेति कथयन्ति ?
**अद्वैतः : **किं तत् ?
**श्रीवासः : **(कर्णे) एवम् एव ।
अद्वैतः : साधु साधुनानीयताम् । कः सम्भ्रमो भ्रमो’स्या अपयातु ।
श्रीवासः : यथाज्ञापयसि । (इति निष्क्रम्य ताम् आदाय पुनः प्रविश्य च) स्वामिन्न् आचार्य ! विचार्य विज्ञापय जगन्-मातरम् एतां रमेतां भगवतो’त्र कृपा-प्रसादौ । ८१27
अद्वैतः : (अञ्जलिं बद्ध्वा) देव ! देवहूतिः कपिलेन किल ज्ञान-योग-भक्ति-योग-योगतः कृतार्थीकृता । साम्प्रतम् इयं विश्वम्भर-जननीति विश्वम्भर-जन-नीति-कलया परिवृता केवल-वलमान-प्रेमानन्देन कृताथीक्रियताम् । (इति कराग्रेणावलम्ब्य भगवद्-अग्रतो’ग्र्यतोषेण समुपसर्पयति ।) ८२28
शची- (स-चमत्कार-विस्मयं स्वानन्दावेश-पेशलम् अद्भुत-नयं तनयं विलोक्य जात-तद्-अनुकम्पा कम्पायमान-शरीरा वाग्-देवतावतार-प्रतिभा प्रतिभासमानेव किञ्चिद् अपाठीत्—
विश्वं यद् एतत् स्व-तनौ निशान्ते
यथावकाशं पुरुषः परो भवान् ।
बिभर्ति सो ऽयं मम गर्भगो ऽभूद्
अहो नृ-लोकस्य विडम्बनं हि तत् ॥६७॥ [भा.पु. १०.३.३१]
(इति स्तुवती ग्रह-गृहीतेव विह्वला बलाद् एव तच्-चरणौ जिघृक्षति ।) ८३29
अद्वैतः : (निवार्य स-विस्मयम्)
कुत इयम् अस्याः स्फूर्तिर्
भवति हि सहजः स मातृ-भावो’यम् ।
देहान्तरम् अपि भजते
निरुपहितण्ट् प्राक्तनो भावः ॥६८॥[^३९]
**भगवान्- **देवि ! यद्यपि जगज्-जननी त्वम् असि तथापि श्रीवासादिषु यो जातस् ते’पराधस् तद्-उपरमे परमेश्वर-प्रसादस् ते भावी । भावीचि-निकर-परिपन्थी हि भागवतापराधः । ८४30
अद्वैतः : भगवन् ! मैवम् ।
नापराध्यति जगज्-जननीयं
क्वापि यज् जठर-भूस् त्वम् अधीशः ।
हन्त मातरि भवन्ति सुतानां
मन्तवः किल सुतेषु न मातुः ॥६९॥[^४१]
(श्रीवासं सम्बोध्य) हंहो श्रीवास ।
यद्यपीश-धिषणा तनये’भूद्
देवकस्य दुहितुर् न तथापि ।
भक्तिर् ईदृग् अजनिष्ट यद् एषा
पुत्र-पद-युग-जिघृक्षुर् इहासीत् ॥७०॥ ८५[^४२]
**श्रीवासः- **अधुना निःसङ्कोचाः स्मः ।
**अद्वैतः : **भो भोः श्रीवासादयः ! अस्य केवल-वलमानैश्वर्यावेशेन मातरं प्रति मातृ-भावो’पि निरस्तो मातृ-मातृ-भावो’पि निरस्तो’यं चेत्, तद् यथायम् आवेशो निवर्तते, तत् स्तुध्वम् ।31
सर्वे : स्वामिन् ! एवम् एव । (इत्य् अद्वैतेन समं तथा कुर्वन्ति) भो देव !
शाश्वती भगवतो भगवत्ता
नाथ बोध-सुख-चिन्मयता च ।
ही तथापि हि बिभर्ति यदा यद्
वर्ष्म तत्-प्रकृतिम् एष दधाति ॥७१॥[^४४]
तद् इदानीं भवतो’वन्तो’नुकम्पां तथा कर्तुम् अर्हन्ति । यद् आविष्कृत-भक्तावतारतया शैशवम् आरभ्य मद्-विध-भाग्यानुसारि-रूपं गृह्णद्भिर् वयम् आमोदिता दिताखिल-तापा भवद्भिस् तद् एवाधुना प्रकटयितुम् अर्हन्ति । यद् आहार्जुनः—
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः स-चेताः प्रकृतिं गतः ॥ [ङीता ११.५१] इति ।
वस्तुतस् तु—
अलौकिके वस्तुनि लौकिकत्वं
नालौकिकत्वस्य विरोध-हेतुः ।
मण्य्-अन्तराणां गुण-सन्निवेशश्
चिन्तामणेर् नह्य् अपकर्ष-कारी ॥७३॥ ८६[^४५]
**भगवान् : **(स्मारित-भक्तावेशस् तत्रैव कृत-प्रवेशः प्रकृतिम् आस्थाय) भो अद्वैतादयः ! किम् अहम् एतावन्तं कालं सुषुप्त इवासम् । कथं भवद्भिर् नाहं प्रबोधितः ?
**सर्वे : **भगवन् ! आनन्द-निद्रा-भङ्ग-भिया ।
भगवान् : हन्त हन्त एतावान् समयो मयोपहत-ज्ञानेन वृथा गमितस् तदा गच्छत श्री-कृष्णं कीर्तयामः ।
**सर्वे **(स-हर्षम्): यथाज्ञापयति देवः । (इति निष्क्रान्ताः सर्वे ।)
इति श्री-श्री-चैतन्य-चन्द्रोदये स्वानन्दावेशो नाम प्रथमो’ङ्कः
॥१॥ ८७32
(२)
द्वितीयो’ङ्कः
सर्वावतार-दर्शनः
(ततः प्रविशति विरागः)
**विरागः **(सर्वतोऽवलोक्य) अहो, बहिर्मुख-बहुलं जगत् !
न शौचं नो सत्यं न च शम-दमौ नापि नियमो
न शान्तिर् न क्षान्तिः शिव शिव न मैत्री न च दया ।
अहो मे निर्व्याज-प्रणयि-सुहृदोऽमी कलि-जनैः
किम् उन्मूलीभूता विदधति किम् अज्ञात-वसतिम् ॥१॥ १
हन्त, कथम् अज्ञात-वासस् तेषां सम्भावनीयः ? तथा-विध-स्थल-विरहात् । तथा हि—
षष्ठे कर्मणि केवलं[^४७] कृत-धियः सूत्रैक-चिह्ना द्विजाः
अपि च—
विवाहायोग्यत्वाद् इह कतिचिद् आद्याश्रम-युजो[^४८]
(कतिचित् पदानि परिक्रम्य)
अहो, अयं समीचीनो जनपदः । अत्र हि भूरयो रयोज्ज्वल-प्रतिभाः प्रतिभान्ति विद्वांसः । तद् अमी अवगाह्या बाह्या अबाह्या वा । (इति चिरं निरूप्य ।) अहो !
अभ्यासाद्य उपाधि-जात्य्-अनुमिति-व्याप्त्यादि-शब्दावलेर्
जन्मारभ्य सुदूर-दूर-भगवद्-वार्ता-प्रसङ्गा अमी ।
ये यत्राधिक-कल्पनाकुशलिनस् ते तत्र विद्वत्तमाः
स्वीयं कल्पनम् एव शास्त्रम् इति ये जानन्त्य् अहो तार्किकाः ॥४॥ ४
तद् अलम् एभिः सह वार्तया । इतो’न्यतो गच्छामि । (इति कियद् दूरं गत्वा) अहो, अमी अमीव33-रहिता हिताभियोगा इव34 दृश्यन्ते । यद् अभून् निरूपयामि । (इति तथा कृत्वा ।) अहो अमी मायावादिनः । तथा हि—
(इति तान् अपास्य पुनर् अन्यतो गत्वा परितः परिलोक्य ।) अहो अमी यद् अन्योन्यं विअवदन्ते । तद् अस्य तत्त्वम् अवगन्तव्यम् । (इति निभाल्य) अहो, कपिल-कणाद-पातञ्जल-जैमिन-मत-कोविदा एते अन्यो’न्यं विवदन्ते । भगवत्-तत्त्वं न के’पि जानन्ति । तद् इतो गन्तव्यम् । (इति पुनः कतिचित् पदानि गत्वा) अहो दक्षिणस्यां दिशि पतितो’स्मि । यद् अमी आर्हत-सौगत-कापालिकाः प्रचण्डा हि पाखण्डाः35 । एते पाशुपता अपि हतायुषो मां हनिष्यन्ति । तद् इतः पलायनम् एव शरणम् । (इत्य् अपसृत्य कियद्-दूरं गत्वा किञ्चिद् अवलोक्य ।) अहो अयं साधुर् भविष्यति, यतः खलु नदी-तट-निकट-प्रकट-शिला-पट्ट-घटित-सुखोपवेशः क्लेशातीतो गुणातीतं किम् अपि ध्यायन्न् इव समयं गमयति । तद् अमुं निरूपयामि । (इति तथा कृत्वा ।) ६
(इति स-विस्मयं विचिन्त्य ।) अहो ज्ञातम् ।
पानीयाहरण-प्रवृत्त-तरुणी-शङ्ख-स्वनाकर्णनैः ॥६॥
तद् इदम् उदर-भरणाय केवलं नाट्यम् एतस्य । (पुनर् अन्यतो गत्वा परितो’वलोक्य) अहो अयं निष्परिग्रह इव लक्ष्यते । तैर्थिक एव भविष्यति । तद् अस्य दैवाद् ¸अगतेन पथिकेन सह सङ्कथयतः कथयैव हृदयम् आकलनीयम् । (इत्य् आकर्ण्य स्वयम् अनुवदति ।) ७
गङ्गा-द्वार-गया-प्रयाग-मथुरा-वाराणसी-पुष्कर-
श्री-रङ्गोत्तर-कोशला-बदरिका-सेतु-प्रभासादिकाम् ।
अब्देनैव प्रक्रमैस् त्रि-चतुरैस् तीर्थावलीं पर्यटन्न्
अब्दानां कति वा शतानि गमितान्य् अस्मादृशानेतु कः ॥७॥
(इत्य् अनूद्य)
भद्रं भोः ! भद्रम् । कलिनोपद्रुतं सत्यं निभृतं त्वयि वर्तते । तद् इतो’पसरामः । (इति तथा कृत्वा पुरतो’वलोक्य ।) अहो अयं तपस्वी समीचीनां भविष्यतीव निभालयामि । (इति कृत्वा) हन्त हन्त ततो’प्य् अयं दुष्कृती । तथा हि—
हूं हूं हूम् इति तीव्र-निष्ठुर-गिरा दृष्ट्याप्य् अतिक्रूरया
दूरोत्सारित-लोक एष चरणाव् उत्क्षिप्य दूरं क्षिपन् ।
मृत्स्नालिप्त-ललाट-दोस् तट-गल-ग्रीवोदरोराः कुशैर्
दीव्यत्-पाणि-तलः समेति तनुमान् दम्भः किम् आहो स्मयः ॥८॥
अहो, चित्रम् इदानीम् ।
विष्णोर् भक्तिं निरुपधिम् ऋते धारणा-ध्यान-निष्ठा
शास्त्राभ्यास-श्रम-जप-तपः-कर्मणां कौशलानि ।
शैलूषाणाम् इव निपुणताधिक्य-शिक्षा-विशेषा
नानाकारा जठर-पिठरावर्त-पूर्ति-प्रकाराः ॥९॥
तद् अहो कले साधु ! एकातपत्री-कृतं भुवन-तलं भवता । तथा हि—
उत्सारितं शम-दमादि निगृह्य गाढं
भृत्यी-कृतं क्वचन हन्त धनार्जनाय ।
कामं समूलम् उदमूल्यत धर्म-शाखी
मैत्र्य्-आदयश् च किम् अतः परम् ईहितव्यम् ॥१०॥
(क्षणं विमृश्य) तादृश-बन्धु-जन-विप्रयोग-जनित-क्लेशेन चिरतर-तद्-अनुसन्धान-कृत-परिश्रमेण च निःसारीभूत-भूत-लाव-लोक-शोकेन च भृशम् आकुलो’स्मि । तेन क्वचन च क्षणं विश्रमणीयम् (इति तथा कृत्वा स-बाष्पम्)
दृष्टं सर्वम् इदं मनो-वचनयोर् उद्देश्य-तच्-चेष्टयोर्
वैजात्यैक-विसङ्कुलं कलि-मल-श्रेणीकृत-ग्लानितः ।
कृष्णं कीर्तयतस् तथानुभजतः साश्रून् सरोमोद्गमान्
बाह्याभ्यन्तरयोः समान् बत कदा वीक्ष्यामहे वैष्णवान् ॥११॥
(आकाशे कर्णं दत्त्वा ।) किं ब्रवीषि ? यत्र भक्तिस् तत्रैव ते द्रष्टव्या इति । (क्षणं विमृश्य) अहो भक्ति-देवी क्वाय् अस्तीइत् सम्भाव्यते । (पुनर् आकाशे लक्ष्यं बद्ध्वा ।) किं ब्रवीषि भोः ?
गौड-क्षोणी जयति कतमा पुण्य-तीर्थावतंस-
प्राया यासौ वहति नगरीं श्री-नवद्वीप-नाम्नीम् ।
तस्यां चामीकर-चमरु-चेरीश्वरस्यावतारो
यस्मिन् मूर्ता पुरि पुरि परिस्पन्दते भक्ति-देवी ॥१२॥
(इति सहर्षम्) हन्त हन्त ! जीवद्भिः किं न दृश्यते ? तद् इतस् तत्रैव गच्छामि । (इति कतिचित् पदानि परिक्रामति ।)
(ततः प्रविशति भक्ति-देवी ।)
भक्ति-देवी (पुरो’वलोक्य)** :** अम्मो, को एसो निरन्तर-गरुओब्बेअ-बेअणा-जज्जन्त-माणसो माण-सोहग्ग-बिब्भंस-गलाणाणणो मए पडिचिज्जनोबि मं आलोइअ लोइअ-भिण्ण-दसां आबन्नो सन्तो संतोसं पआसअन्तो सअं तोदं मुञ्चन्तो ब्ब इध आअच्छदि । हन्त अम्हाणं एदादिशीए संपत्ति-पडिपत्ति-पडिबादिए सुत्थदसाए भाउणो बिराअस्स सङ्गो संगोचरो ण होइ । ण आणे दुज्जनेहिं कलि-जणेहिं कलिदाच् चाहिदो उब्बरिओ ण वेत्ति ।
[अहो, क एष निरन्तर-गुरूद्वेग-वेदना-जर्जरित-मानसो मान-सौभाग्य-विभ्रंश-ग्लानाननो मया परिचीयमानो’पि माम् आलोक्य लौकिक-भिन्न-दशाम् आपन्नः सन् सन्तोषं प्रकाशयन् स्वयं तोदं मुञ्चन्न् इव इत आगच्छति । हन्त अस्माकं एतादृश्यां सम्पत्ति-प्रतिपत्ति-प्रतिपादिन्यां सुस्थ-दशायां भ्रातुर् विरागस्य सङ्गो सङ्गोचरो न भवति । न जाने दुर्जनैः कलि-जनैः कलितात्याहितो उद्धृतो न वेत्ति ।]
**विरागः **(अवलोक्य): इयम् एव भक्ति-देवी । तथा हि—
अन्तः प्रसादयति शोधयतीन्द्रियाणि
मोक्षं च तुच्छयति किं पुनर् अर्थ-कामौ ।
सद्यः कृतार्थयति सन्निहितैव जीवान्
आनन्द-सिन्धु-विवरेषु निमज्जयन्ती ॥१३॥
तद् उपसर्पामि । (इत्य् उपसृत्य) देवि, विरागो’हं प्रणमामि ।
**भक्ति-देवी (स-वात्सल्यम्): **भातओ जीवसि ! बसिणं पराणोऽसि तुमम् । एहि एहि । [भ्रातः! जीवसि ! वशिनां प्राणोऽसि त्वम् । एहि एहि ।] (इति करणे स्पृशति ।)
**विरागः (चरणाव् अभिवाद्य): **देवि ! कथय । वयं सत्यादय इव कलिना भवत्यो न पराभूताः ?
भक्ति-देवी : विराअ ! ण आणेसि ? सुणह अम्हाणं ज्जेब कए कोबि महा-कारुणिओ भअबं भअ-बंध-च्छेअअ-चरिदो गोरचन्दो ओदीण्णो । [विराग ! न जानासि ? शृणु अस्माकम् एव कृते कोऽपि महा-कारुणिको भगवान् भव-बन्ध-छेदक-चरितो गौरचन्द्रोऽवतीर्णः ।]
विरागः : भगवति ! कथय किम् अत्र रहस्यम् ।
**भक्ति-देवी : **विराअ ! एदस्सिं कलि-आले कलिआ-लेसमेत्तं बि धम्मन्तरं णत्थि, न त्थिरदरं यं किम्पि होइ, केअलं अलंकरेदि । एदं कलिं भअबद्-धम्मो बन्धं मोहं बि पराकरेदि त्ति तं जेब्ब साहण-सद्ध-सद्-धमो । सुद्ध-भक्ति-जोएण सामबाहरएण कलिमल-मलण-आरिणा आ-चाण्डालं चण्डाल-घणिज्ज-दुब्बासणाबासना सेण सङ्गोपाङ्गाओ मादिसीओ भक्ति-देईओ सङ्गे कदुअ भअवदा अअदारो किदो भत्तविसेण ।
[*विराग ! एतस्मिन् कलि-काले कलिका-लेश-मात्रम् अपि धर्मान्तरं नास्ति, न स्त्थिरतरं यत् किम् अपि भवति, केवलम् अलङ्करोति । इदं कलिं भगवद्-धर्मो बन्धं मोहम् अपि पराकरोतीति तद् एव साधन-साध्य-सद्-धर्मः । शुद्ध-भक्ति-योगेनैन-सामवाहरकेण कलि-मल-म्लान-कारिणा आ-चाण्डालं चण्डालङ्घनीय-दुर्वासणा-वासनाशेन सङ्गोपाङ्गां मादृशीं भक्ति-देवीं सङ्गे कृत्वा भगवता अवतारः कृतो भक्त-वेशेन *।]
विरागः : अवगतम् इदं मिदं36 प्रकाशयन्त्या गगन-वाण्या । किन्तु—
भक्ति-देवी (संस्कृतम् आश्रित्य): विराग ! श्रूयताम्—
पुनीमश् चण्डालम् अपि खलु धुनीमोऽखिल-मलं
लुनीमः संस्कारान् अपि हृदि तदीयान् अतिदृढान् ।
कृपा-देवी तस्य प्रकटयति दृक्-पातम् इह चेत्
तदा तेषाम् अन्तः कम् अपि रसभावं च तनुमः ॥१५॥
विरागः : तस्य कृपा-देवीं विना स्वातन्त्र्येण भवतीनं तथा-सामर्थ्यं न विद्यते ?
**भक्ति-देवी : **अस्स बा तज्जणाणां वा णबाणुग्गहमन्तरेण अम्हे ण होम्म किं उण अधा कुणम्ह । [*अस्य वा तज्-जनानां वा नवानुग्रहम् अन्तरेण वयं न भवामः, किं पुनस् तथा कुर्मः *।]
विरागः : द्वितीय-प्रश्नस्योत्तरं किम् ?
भक्ति-देवी : विराअ, सुणेहि । (इति संस्कृतेन)
नवद्वीपे नासीद् अहह सजनो यस्य न पुरे
हरेर् गेहं नो तद् यद् अपि भगवन्-मूर्ति-रहितम् ।
न सा यस्याः सेवा न भवति न सा या न सरसा
रसो नासौ सङ्कीर्तन-नटन-मुख्यो न खलु यः ॥१६॥[^५३]
इअं ज्जेब्ब तस्स ईहा । [इयम् एव तस्येहा ।]
विरागः : किम् अयं स्वयम् एव तथाज्ञापयति, किं वा ते त एव तद्-आशयम् अभिमत्य मत्य्-अनुसारेण सारेण तथा व्यवहरन्ति ?
**भक्ति-देवी : **तस्स तह ज्जेब महिमा महिमाणदो जं दट्ठूण ज्जेब तह ज्जेब ग्गहग्गत्था बिअ होन्ति, जणाओ जह तस्स आसअं सअं ज्जेब्ब सब्बे जाणन्ति कुणन्ति च तद्-अणुरूअं । तस्स ओदारे कमला बि ओदीण्णेब जदो ण कस्स बि देण्णं तत्थ आसि । आ सिसु-आलं सअं च जं करेदि, तं सुणह ।
[तस्य तथैव महिमा महिमाणदो यं दृष्ट्वैव तथैव ग्रह-ग्रस्ता इव भवन्ति जणाः, उअथा तस्याशयं स्वयम् एव सर्वे जानन्ति कुर्वन्ति च तद् अनुरूपम् । तस्यावतारे कमलापि अवतीर्णैव यतो न कस्यापि दैन्यं तत्रासीत् । आ-शिशु-कालं स्वयं च यत् करोति, तत् शृणु ।]
श्रीवासस्य गृहे कदाचन कदाप्य् आचार्य-रत्नालये
श्री-विद्यानिधि-मन्दिरेऽपि च कदा गेहे मुरारेर् अपि ।
गायत्सु प्रिय-पार्षदेषु पुलक-स्तम्भाश्रु-घर्मादिभिः
सान्द्रानन्द-मयी भवन्न् अनुदिनं देवो नरीनृत्यते ॥१७॥
विरागः : भगवति ! स किं सर्वदा भक्त-चरितम् एव प्रकटयति । किं वा कदाचिद् ऐश्वर्यम् अपि ?
**भक्ति-देवी **(संस्कृतेन) **: **विराग ! यद्यपि—
अलौकिकीतोऽपि च लौकिकीयं
लीला हरेः काचन लोभनीया ।
महेश-शीर्षाद् अपि भूमि-मध्यं
गतेव गङ्गा मुदम् आतनोति ॥१८॥
इति तहबि कहिम्पि कहिम्पि आलोइअं बि पअडेदि । तधा हि कहिम्पि दहे सिरिबास-वासम्मि करिज्जन्त-देअ-गेहप्पदक्खिणो दक्खिणाङ्गण-गएण केण बि भाअधेअ सुइ-बुत्तिणो महा-मज्जबेणामलेच्छेण मलेच्छेण बसणं सीब्बन्तेण दीब्बन्तेईन दीह-दरमएण भअबं विस्सम्भरो दिट्ठो, दट्ठूण तक्खणदो मैरा-मअदोबि मादअतमेण तस्स दंसण-मएण भेम्हलो भबिअ बिअसिद-णेत्तो हीही मए दिट्ठं दिट्ठं किम्पि त्ति सब्बङ्ग-पुलैओ णिरन्तर-णिस्सरन्त-प्पबाह-बाह-सलिल-त्थिमिद-बच्छ्ह-त्थलो बसणादिअं बिच्छिबिअ उर्द्ध-बाहू णच्चिदुं पौत्तो सो । तदो तं तधा-बिधं पेक्खिअ भअबं अबञ्चअनोत् सिरिबासं भण्दबन्तो
[इति तथापि कदापि कदापि अलौकिकम् अपि प्रकटयति । तथा हि कस्मिन् अपि दिवसे श्रीवास-वासे क्रियमाण-देव-गेह-प्रदक्षिणो दक्षिणाङ्गन-गतेण केनापि भाग-धेय-सूचि-वृत्तिना महा-मद्यपेनामलेच्छेन म्लेच्छेन वसणं सीव्यता दीव्यता दीघतर-मदेन भगवान् विश्वम्भरो दृष्टः । दृष्ट्वा तत्-क्षणतो मदिरा-मदतोऽपि मादकतमेन तस्य दर्शन-मदेन विह्वलो भूत्वा विकसित-नेत्रो हीही मया दृष्टं दृष्टं किम् अपीति सर्वाङ्ग-पुलकितः निरन्तर-निःसरत्-प्रवाह-वाह-सलिल-स्तिमित-वक्षः-स्थलो वसनादिकं विक्षिप्य ऊर्ध्व-बाहुर् नर्तितुं प्रवृत्तः सः । ततस् तं तथाविधं दृष्ट्वा भगवान् अवञ्चयन् श्रीवासं भणितवान्—] श्रीवास ! किम् इदं कथम् अकस्माद् अयम् ईदृग् जातो दृग्-जातोत्सव इति ?
तदो तेणबि भणिदं णिदंसणं ब्ब कुणन्तेण पडिहास-रसस्स— [ततस् तेनापि भणितं णिदर्शनम् इव कुर्वता परिहास-रसस्य—] भगवन् ! अपूर्व एवायं तव मदस्य महिमा । यतोऽयम् अद्य मद्य-घट-घटमानासक्तिर् अपि न धियं जहाति । हा तिल-मात्र-भवद्-दर्शनेनानेनानेना37 जातोऽजात्योद-रहितो38 हितो भवन्न् अतिममाद ।
विरागः : ततस् ततः ?
**भक्ति-देवी : **तदो तदो पहुदि भअबदो णाम-मेत्त-सरणो सब्ब-परिअरं उज्झिय ओधूअबेसो भुविअ णच्चन्तो गाअन्तो जबणाचारिएहिं ताडिज्जन्तोबि भअबदो णाम-सङ्कीत्तणं कुणन्तो ज्जेब बट्ठदि । केणाबि पुच्छिदो—उण बिस्संभरो ज्जेब ईसरो णाबरो कोबित्ति भणेदि । सअस्लेहिं भाअबदेहिं बिहिद-देह-जात्तो सिद्धो बिअ भविअ बिचरेदि ।
[ततस् ततः-प्रभृति भगवतो नाम-मात्र-शरणः सर्व-परिकरं त्यक्त्वा अवधूत-वेशो भूत्वा नृत्यन् गायन् यवनाचार्यैः ताड्यमानो’पि भगवतो नाम-सङ्कीर्तनं कुर्वन्न् एव वर्तते । केनापि पृष्टः—पुनर् विश्वम्भर एव ईश्वरो नापरः को’पीति वदति । सकलैर् भागवतैर् विहित-देह-यात्रः सिद्धो इव भूत्वा विचारयति ।]
विरागः : देवि, कीदृश-रूपनेन दृष्टम् ?
भक्ति-देवी : बिराअ ! आणन्दो ज्जेब भअबदो रूअं । जेण रूएण महं ज्जेब आणन्दो होइ । तं ज्जेब तस्स रूअंति इदरेदर-सब्ब-पेच्छत्तणं आणन्द-रूबाणं त्ति आणन्द-तारतम्मेण रूअ-दंसणस्स तारतम्मं ।
[विराग ! आनन्द एव भगवतो रूपम् । येन रूपेण महान् एव आनन्दो भवति । तद् एव तस्य रूपम् इति इतरेतर-सव्यपेक्षितृत्वम् आनन्द-रूपाणाम् इति आनन्द-तारतम्येन रूप-दर्शनस्य तारतम्यम् ।]
विरागः : कथम् अयं नीच-योनिर् एतादृश-सौभाग्य-भाजनम् आसीत् ।
भक्ति-देवी (संस्कृतेन):
न जाति-शीलाश्रम-धर्म-विद्या-
कुलाद्य्-अपेक्षी हि हरेः प्रसादः ।
यादृच्छिको’सौ बत नास्य पात्रा-
पात्र-व्यवस्थ्â-प्रतिपत्तिर् आस्ते ॥१९॥
विरागः : एवम् एव । ततस् ततः ?
भक्ति-देवी : तदो अबरस्सिं दिअहे मुरारि-भअणाङ्गणे पुण्णिमाचन्द-चन्दिआ-पक्खालिआए णिशाए उबबिट्ठेहिं सअलेहिं भाअबदेहिं सो ज्जेब देओ संकरिषण-रूओ दिट्ठो । [ततो’परस्मिन् दिवसे मुरारि-भवनाङ्गने पूर्णिमा-चन्द्र-चन्द्रिका-प्रक्षालितायां निशायां उपविष्टैः सकलैः भागवतैः स एव देवो सङ्कर्षण-रूपो दृष्टः ।]
विरागः : देवि, विशिष्य कथय ।
**भक्ति-देवी : **अग्गदो बम्भमिज्जन्त-मत्त-महुअर-णिअर-परिपिज्जन्त-चन्दिआ-चअ-तक्-काल-सामलिद-गगण-तलान्धआरम्मि दीसन्तम्मि कोबि काअम्बरी-परिमलो सअल-जणेहिं आलद्धो । [अग्रतो बम्भ्रम्यमान-मत्त-मधुकर-निकर-परिपीयमान-चन्द्रिका-चय-तत्-काल-श्यामलित-गगन-तलान्धकारे दृश्यमाने को’पि कादम्बरी-परिमलः सकल-जनैर् आलब्धः ।]
**विरागः : **ततस् ततः ?
भक्ति-देवी : तदो आलद्धे परिमले सअलेहिं भअबं पुच्छिदो, जधा— [तत आलब्धे परिमले सकलैर् भगवान् पृष्टः, यथा—] भगवन् ! कथम् आकस्मिको’यं पुष्पं-धय-गणान्धीकरण-चणः परिमलो विमलो विस्मयं नः समुल्लासयति कादम्बर्याः । परतश् च जनित-कौतूहलं हलं विपक्ष-पक्ष-मुषलं चालोक्यते ।
**विरागः : **ततस् ततः ?
भक्ति-देवी : तदो सिरि-बिस्संभर-देएण उत्तम्— [ततः श्री-विश्वम्भर-देवेनोक्तम्—] हन्त भोः ! निखिल-हृदय-सङ्कर्षणेन सङ्कर्षणेन भगवतावताद्य प्रादुर्भवितव्यम् । तद्-अग्रे कादम्बरी वरीयसी तत्-प्रियाणां तदायुधं युधं विनापि विराजमानं हलं मुषलं च प्रादुरभूत् ।
**विरागः : **ततस् ततः ?
**भक्ति-देवी : **तदो तह णिअदन्तो ज्जेब सो देओ तेहिं मैरामोअ-मुदिअ-लोल-लोहिद-लोअणो एककण्ण-तड-तण्डबिद-कुण्डलो ससि-मण्डल-पाण्डरो सो ज्जेब गोरचन्दो ऐसअं सअं ज्जेब तालङ्को’लं कोदूहलेण संभूतो । तदो तच्-चरिदाहिद-णअ-णअ-गीद-पदाइं गाअन्तेहिं तेहिं णच्चा बहुदरं ईडिदोबि बिक्खणाणं बिम्हअकारि संबुत्तो ।
[ततस् तथा निगदन्न् एव स देवस् तैर् मदिरामोद-मुदित-लोल-लोहित-लोचन एक-कर्ण-तट-ताण्डवित-कुण्डलः शशि-मण्डल-पाण्डरः स एव गौरचन्द्रो’विषयं स्वयम् एव तालाङ्को’लं कौतूहलेन सम्भूतः । तदा तच्-चरिदाहित-नव-नव-गीत-पदानि गायद्भिस् तैर् नर्तितो बहुतरम् ईडितो’पि क्षणं विस्मयकारी संवृत्तः ।]
**विरागः : **ततस् ततः ?
**भक्ति-देवी : **एब्बं बुद्ध-बराह-णरसिंह-मुक्खतरावदाराणुआरं कमेण कदुअ गदे दिअहे अहेदुअ-करुणेण णिच्चाणन्दस्स च्छब्भुअअं रूअं तेण दंसिदं ।
[एवं बुद्ध-वराह-नरसिंह-मुख्यतरावतारानुकारं क्रमेण कृत्वा गते दिवसे’हैतुक-करुणेन नित्यानन्दस्य षड्-भुजं रूपं तेन दर्शितं ।]
विरागः : कीदृशं तत् ?
**भक्ति-देवी **(संस्कृतेन) :
भुजाभ्याम् उभाभ्यां दधच्-चारु-वंशी
चतुर्भिर् गदा-शङ्ख-चक्राम्बुजानि ।
किरीटं च हारांश् च केयूरके च
स्रजं वैजयन्तीं मणिं कौस्तुभं च ॥२०॥
अपि च—
अनाहार्य-सौन्दर्य-माधुर्य-धुर्यं
महौदार्य-चातुर्य-गाम्भीर्य-शौर्यम् ।
अवैधुर्य-धैर्यं सदा सौकुमार्यं
महस् तुर्यम् आर्यं तद् आश्चर्यम् आसीत् ॥२१॥
**विरागः : **ततस् ततः ?
भक्ति-देवी : तदो तं रूअं पेक्खिअ परमाणन्द-णिप्फन्दो उअच्चिद-रोमञ्च-कञ्चुओ बहुदरं त्थुबन्तो आसि णिच्चाणन्दो । जहा— [ततस् तद्-रूपं प्रेक्ष्य परमानन्द-निष्पन्द उदञ्चित-रोमाञ्च-कञ्चुको बहुतरं स्तुवन् आसीत् नित्यानन्दः । यथा—]
हरिस् त्वं हरस् त्वं विरिञ्चिस् त्वम् एव
त्वम् आपस् त्वम् अग्निस् त्वम् इन्दुस् त्वम् अर्कः ।
नभस् त्वं क्षितिस् त्वं मरुत् त्वं मुरारे
नमस् ते नमस् ते समस्तेश्वराय ॥२२॥
अपि च—
भुजैः षड्भिर् एभिः समाख्याति कश्चिन्
निसर्गोग्र-षड्-वर्ग-हन्तेति भोस् त्वाम् ।
वयं ब्रूमहे हे महेच्छ त्वम् एभिश्
चतुर्-वर्गदो भक्तिदः प्रेमदश् च ॥२३॥
**विरागः- **अहो अत्यद्भुतम् इदम् । ततस् ततः ?
**भक्तिदेवी : **तदो ईसर-भाबो दाब ईदिसो तस्स कधिदो । पेम्माबेसो सुणीअदु । एत्थ पुरे तिण्ण-बिहा ज्जेब पुरिसाओ । केबि अणुअत्ताओ, केबि मज्झमाणुरत्ताओ, केबि णाणुरत्ताओ णाबि बिरत्ताओ । बिज्झत्थिणो हि णअर-बीहीए अप्पाणअं ओबारिअ सुर-णई-सिणाणं कदुअ त्थिमिद-णिअबसणं च्चेअ आअच्छन्तं पेक्खिअ कोबि महुरतरं भअबदो णाम-पदम्, कोबि सरसतरं भाअबद-पज्जम् । कोबि पेम्म-पडिपण्णं ललिदतर-गीदं सुणाबेदि । तदो तं सुणन्तो ज्जेब मग्गमज्झम्मि भूदले णिबिडिअ त्थिमिद-बसण-णिबडन्त-जल-कद्दमिद-पुहबी-दल-णिबडण-कद्दमिद-सब्बङ्गो बाप्फ-सलिलेहिं सीमन्तिद-बच्छ-त्थल-कद्दमो आणन्द-भेम्भलदाए लदाए बद्धो बिअ बिज्जुद्-दाम-दाम-पुञ्जो बिअ लुठन्तो बट्ठेदि । तधाबिअं पेक्खिअ ते सह-अराओ चाबल-दोस-दुसिदाओ हसन्तो कोदूहलं कुणन्ति । मुहुत्तन्तरे णिअ-परिअणाओ उत्थाबिअ पुणो सुरणईं लम्भिअ पक्खालिद-सब्बङ्गं सिणाबेन्ति एदं सुणिअ णिअ-तणअस्स णअस्स बैबसिअं अणुभबिअ तस्स जणणी जण-णीदि-बिसारदाबि ।
[*तत ईश्वर-भावो तावद् ईदृशस् तस्य कथितः । प्रेमावेशं शृनुत । अस्मिन् पुरे त्रिविधा एव पुरुषाः । के’पि अनुरक्ताः, के’पि मध्यमानुरक्ताः, के’पि नानुरक्ताः नापि विरक्ताः । विद्यार्थिनो हि नगर-वीथ्यां आत्मानं उत्तार्य सुर-नदी-स्नानं कृत्वा स्तिमित-निज-वसनं चेमम् आगच्छन्तं प्रेक्ष्य को’पि मधुरतरं भगवतो नाम-पदम्, को’पि सरसतरं भागवत-पद्यम् । को’पि प्रेम-प्रतिपन्नं ललिततर-गीतं श्रावयति । ततस् तं शृण्वन्न् एव मार्ग-मध्ये भूतले निपत्य स्तिमित-वसन-निपतज्-जल-कर्दमित-पृथिवी-तल-निपतन-कर्दमित-सर्वाङ्गो बाष्प-सलिलैः सीमन्तित-वक्षः-स्थल-कर्दम आनन्द-विह्वलतया लतया बद्ध इव विद्युद्-दाम-दाम-पुञ्ज इव लुठन् वर्तते । तथाविधं प्रेक्ष्य ते सहचराश् चापल-दोष-दूषिताः हसन्तः कौतूहलं कुर्वन्ति । मुहूर्तान्तरे निज-परिजना उत्थाप्य पुनः सुर-नदीं लम्भयित्वा प्रक्षालित-सर्वाङ्गं स्नापयन्ति । इदं श्रुत्वा निज-तनयस्य नयस्य वरिवसितं अनुभाव्यते तस्य जननी जन-नीति-विशारदापि *।]
विरागः : अहो, प्रेमानन्द-वैवश्यम् अवश्यम् अस्य ।
**भक्ति-देवी : **अवरस्सिं बासरे बासरेस-सहस्स-सरिस-महा-महानन्द-परवसो आचारिअ-रअण-पुर-रअण-पुरदो णच्चिअ णिअ-घरं आअच्छन्तो मग्ग-मज्झम्मि केणाबि बह्मण-बन्धुणा बन्धु-णाहो णिअ-अणस्स देओ दिट्ठो । दिट्ठिय तं सो सब्बङ्ग-गलन्त-सित्तो स-काउ बाअं उबाअं अण्णं ण पेक्खिअ किम्पि गदन्तो आसि । भो भो शची-पुत्तअ विस्संभर, भबन्तं पभबन्तं परमं पुरिसं सब्बै णिअदन्ति । दन्तिअ-बर-बिक्कम-बिक्कम-वैभवं तुह बहुतरं जेब्ब णिरूबेन्ति । जै मज्झ पामरस्स एसो गओ गओ करिज्जै तदो सेच्चं ज्जेब तुमं भू-मङ्गल-रूओ ईसरो सरोअ-णअणो सअं जेब्ब ।
[अपरस्मिन् वासरे वासरेश-सहस्र-सदृश-महा-महानन्द-परवशो आचार्य-रत्न-पुर-रत्न-पुरतो नर्तित्वा निज-गृहं आगच्छन् मार्ग-मध्ये केनापि ब्राह्मण-बन्धुना बन्धु-नाथो निज-जनस्य देवो दृष्टः । दृष्ट्वा तं स सर्वाङ्ग-गलन-सिक्तः सकाकु वाचम् उपायम् अन्यं न प्रेक्ष्य किम् अपि गदन्न् आसीत् । भो भोः शची-पुत्र विश्वम्भर, भवन्तं प्रभवन्तं परमं पुरुषं सर्वे निगदन्ति । दन्ति-वर-विक्रम-विक्रम-वैभवं तव बहुतरम् एव निरूपयन्ति । यदि मम पामरस्य एष गतो गतः क्रियते, ततः सत्यम् एव त्वं भू-मङ्गल-रूप ईश्वरः सरोज-नयनः स्वयम् एव ।]
**विरागः- **ततस् ततः ?
**भक्ति-देवी : **तदो भअबदा जादानुकम्पेण कम्पेण रोमञ्चेन अ बिलसन्त-देहं तं बह्मण-पाशं पाशं मिच्चुणो उबगदं लच्छी-कदुअ णिअदिदम् । [ततो भगवता जातानुकम्पेन कम्पेन रोमाञ्चेन च विलसद्-देहं तं ब्राह्मण-पाशं पाशं मृत्योर् उपगतं लक्ष्यी-कृत्य निगदितम् ।] « अये यस् तावद् ईश्वरः स खलु दुष्प्राप्य एव सर्वेषाम् । किम् इति माम् उपालभसे । किन्तु तवास्य रोगस्योपशमोपाय एको वर्तते । तं चेद् आचरसि तदायं गमिष्यति । नात्र सन्देहः । देहो’यं तव पूर्वतो’पि समीचीन एव भवितुम् अर्हति । »
**विरागः- **ततस् ततः ?
भक्ति-देवी : तदो बह्मण-बन्धुणा पफुल्ल-लोअणेण गदिदं—देव, को सो उबाओ ? तदो पहुणा भणिदं णिदंसण-रूअं किंपि—[ततो ब्राह्मण-बन्धुना प्रफुल्ल-लोचनेन गदितं—देव, को’सौ उपायः ? ततः प्रभुना भणितं निदर्शन-रूपं किम् अपि—] अये द्विज-बन्धो ! बन्धोर् अखिल-जगतां गतांहः-सङ्घानां भगवतः प्रेम-परायणानां प्रधानतमो’यम् अद्वैताचार्यः । अस्य चेत् पादोदकं पिबसि, तदा पाप-कृतो’यं गदो हेत्व्-अभाव इति दूरीभविष्यति ।
तदो बह्मणेण गदिदं—तुह दंसणादो ज्जेब गमिस्सदि । किं उण कधिदेण उबाअ-विशेषेण त्ति । तस्स प्पहाबदो तधा-किदे सदि पुब्बदो बि समीचीण-देहो सो संवृत्तो । [ततो ब्राह्मणेन गदितं—तव दर्शनाद् एव गमिष्यति । किं पुनः कथितेन उपाय-विशेषेन इति । तस्य प्रभावतस् तथा-कृते सति पूर्वतो’पि समीचीन-देहः स संवृत्तः ।]
**विरागः- **किं चित्रम् इदं तस्य भगवतः ? तत् कथय क्व गच्छन्तीच्छन्ती च किं तत्रभवती, यत इयं च्छाया-मात्र-सहचरी चरीकर्ति त्वराम् ।
भक्ति-देवी : अज्ज, अज्ज-उत्तो सिरबास-बास-मज्झम्मि आअदेण अद्वैअ-अदेएण सद्धं किंपि णिब्बिरह-रहस्स-बुत्तन्तं कुणन्तो बट्ठदि । तं अणुसरिदुं तुबरेमि । [आर्य, आर्य-पुत्रः श्रीवास-वास-मध्ये आगतेन अद्वैत-देवेन सार्धं किम् अपि निर्विरह-रहस्य-वृत्तान्तं कुर्वन् वर्तते । तम् अनुसर्तुं त्वरयामि ।]
**विरागः- **भगवति ! तृतीय-प्रश्नस्योत्तरम् अवशिष्यते शिष्यते’यं भगवत्या मम । तद् अनुशाधि मां स किं मदाश्रयो भविताविता वा किं माम् ।
भक्ति-देवी (संस्कृतेन): अथ किम् !
आनन्दोऽपि च मूर्तो, व्यापी च तथा परिच्छिन्नः ।
तद्वन् नित्य-विलासोऽपि च वैराग्याश्रयो भगवान् ॥२४॥
तद् एहि, सहैव गच्छावः । (इत्य् उभौ निष्क्रान्तौ )
(ततः प्रविशत्य् आसनस्थो भगवान् विश्वम्भरो’द्वैताचार्यश् च परितः श्रीवासादयश् च ।)
**भगवान् **(सपरिहासम् अद्वैतं प्रति) : सीता-पतिर् जयति लोक-मल-घ्न-कीर्तिः ।
**अद्वैतः **: कुतो’त्र रघुनाथो नाथो हि यदूनाम् अयम् उज्जृम्भते तत्रभवान् भगवान् ।
**भगवान् **: अद्वैत ! तव विच्छेद-च्छेद-कर उपायो निरुपायो निरवधि मया चिन्त्यते ।
**श्रीवासः **: देव ! यद्यपि शान्तिपुर-वास एवाद्वैतोपयोगी, तथापि नवानां भक्तीनां द्वीप इवेति नवद्वीपे चरणाविर्भावावधि अत्रैवाद्वैत-पक्षपातः । तेन व्यापको नित्यानन्दश् चात्र ।
**अद्वैतः **: अतो’त्र श्रीवासः ।
**श्रीवासः **: सा तु तिरोभूतेव ।
**भगवान् **: श्री-विष्णु-भक्तिः सा भवत्सु सत्सु वर्तत् एव ।
**अद्वैतः **: इदानीं सैव विष्णुप्रिया ।
**भगवान् **: अथ किम् । सत्सु ज्ञानादि-मार्गेषु भक्तिर् एव विष्णोः प्रिया ।
**अद्वैतः **: अत एव भगवान् अपि ताम् अङ्गीचकार ।
नेपथ्ये : भो भोः ! विश्वजनन्या शची-देव्या निगद्यते—अद्वैतस्यान्यत्र विश्राम-स्थली न कार्या । ममैवालयो विश्रमणीयो मणीयोग इव स्वयं वृत्तः ।
अद्वैतः (आकर्ण्य): यथाज्ञापयति विश्व-जननी । तद् उच्यतां सहैवाद्य भोक्तव्यं भगवता विश्वम्भरेण भरेण हर्षस्य मन्थरो’यं मे देहः ।
**श्रीवासः **: तन् ममापि मापितव्यं तत्र भोजनम् ।
भगवान् : तर्हि परिश्रमो’स्य महान् भविता वितानेन पाकस्य ।
**अद्वैतः : **अस्येति किम् उच्यते ? अस्या इत्य् उच्यताम् । (इति कश्चिद् आत्मनीनं तत्र प्रेषयति । स चेङ्गितं बुद्ध्वा निष्क्रान्तः ।)
(अद्वैतः श्रीवासस्य कर्णे लगति ।)
**भगवान् : **किम् आहाचार्य आर्यः ?
श्रीवासः : नित्यानन्देन देवस्य षड्-भुजं रूपम् अवलोकितम् । तद्-भवते दर्शनीयम् इति स्वरूप-दर्शनाय यद् अङ्गीकृतं मह्यं तत् कथं न दर्श्यते भगवतावतादृष्टं मे कीदृशम् इति ?
नेपथ्ये : भो भोः ! षड्-भुजं रूपम् अवलोकितम् ।
भगवान् (सावहित्थम्) : मम स्वरूपम् इदम् एव । यद् इदम् अद्वैत-प्रेम-पात्रम् ।
**अद्वैतः **(स्वगतम्) **: **किम् अत्र ब्रूमहे ? महेच्छं प्रति यदि तवैतद् एव स्वरूपं तदा दर्शनीयम् । श्यामसुन्दर-विग्रहाभिलाषो विश्रान्तः । यदि स एव स्वरूपम् इत्य् उच्यते तदास्मिन् प्रेम-हानिः । (इति क्षणं परामृशति ।)
श्रीवासः : अस्माकम् इदम् एव भवद्-वपुः प्रेम-पात्रम् अत्र कः सन्देहः । किन्तु स्वयम् एवोक्तम्—यद् भवते दर्शयिष्यामि इति कृत्वासौ निवेदयति ।
भगवान् : उन्माद-दशायां केन किं न भण्यते ।
**श्रीवासः : **भगवन् ! अन्योन्मादस् तु व्याधिर् एव । अयं तु तवोन्मादो द्रष्टृ-श्रोतॄनाम् अपि व्याधि-निर्मूलकः । किं च जीवस् तु वस्तुतः क्षुद्रानन्देनापि विलुप्त-धीर् अधीर एव भवति । ईश्वरस्य त्व् आनन्द-स्वरूपत्वाज् ज्ञान-स्वरूपत्वाच् च किं केनापि बाध्यताम् । तेन स्वाधीनानन्दः स्वाधीन-ज्ञानश् चायम् ।
**भगवान् **(स-स्मितम्) : तत् खलु मद्-अधीनं न भवति यन् मया दर्शयिष्यते । स्वयम् एव भाव-चक्षुषा दृश्यताम् । (इति तद्-अन्तःकरणे स्वरूअप्म् आविर्भावयति ।)
(अद्वैत-चक्षुषी निमील्य प्रणिधानं नाटयति ।)
श्रीवासः (चिरं निर्वर्ण्य) : अहो चित्रम् । अद्वैतो’द्वैतोपरि परिवर्तते । तथा हि—
यद् बाह्येन्द्रिय-वृत्तयो’स्य गलिताः स्वानन्द-सान्द्रो लयः
को’प्य् अन्तः-करणस्य हन्त नितरां स्पन्देन मन्दं वपुः ।
आत्माप्य् एव लयं ययावनुभवास्वाद्ये परे वस्तुनि
प्रायो’यं श्वसईनीति बोध-विषयं प्राप्नोति रोमोद्गमैः ॥२५॥
भगवान् : एवम् एव तद् आस्वाद-संवादः ।
श्रीवासः : भगवन् ! तदैव नाट्यम् इदम् । बहिर् न दर्शितम् अस्माभिर् अपि न दृश्यते । इति भवत्व् अस्माकं तवैतद् एव स्वरूपं महा-धनम् । किं त्व् अधुना धुनातु भवान् । मातः परं परन्तप चेतो’स्य तिरोधापयान्तःकरणतो’स्य तद्-रूपम् । अन्यथा समाधि-समा धिषणस्य न परं बहिश् चारिणी भविष्यति । पृच्छामश् चैतं किं दृष्टम् इति ।
**भगवान् : **स्वयम् एवासौ प्रबोध्यताम् । (इति तद्-अन्तः-करणात् तद्-रूपं तिरोधापयति ।)
(अद्वैतो हृदि स्फुरद्-रूपं तत् किम् अप्य् अनालोकयन् सुप्तोत्थित इव चक्षुषी उन्मील्य क्षणं तद् एव पश्यन्न् इव दशां काम् अप्य् अभिनयति ।)
**भगवान् : **अद्वैत, किम् ईक्ष्यते ?
**अद्वैतः **(स्वप्नायमान इव ग्रह-ग्रस्त इव किम् अपि पठति )
अकस्माद् उन्मीलन्-नव-कुवलय-स्तोम-सुरभिर्
घन-श्रेणी-स्निग्धः स्तवकित-तमालावलि-घनः ।
प्ररोहन्-नीलाश्म-व्यतिकर-विशेषोज्ज्वलतरो
महः-पूरः को’यं नयन-पदवीं चोरयति नः ॥२६॥
अपि च—
प्रश्याम-चित्-किरण-मण्डल-मध्यवर्ति-
प्रत्यङ्गकं मधुरिमामृत-पूर-पूर्णम् ।
वंशी-कल-कणित-केलि-कला-विदग्धम्
आद्यं महो घन-सहोदरम् आविरास्ते ॥२७॥
श्रीवासः : अहो ! वर्तमान-प्रयोगाद् अतीतम् अपि प्रत्यक्षं मन्यमानो’यं निगदति ।
भगवान् : आनन्दस्य वर्तमानत्वात् । तद् आकर्णय । भूयो’पि विवक्षुर् अयम् । सर्वे तूष्णीं तिष्ठन्तु ।
अद्वैतः :
सुश्याम-दीर्घ-घन-कुञ्चित-केश-पाशं
सुभ्रूलतं स्वलकम् उन्नत-चारु-नासम् ।
आलोल-शोण-विपुलायत-नेत्र-पद्मं
बन्धूक-बान्धव-सुरेख-शुभाधरौष्ठम् ॥२८॥
श्रीवत्स-कौस्तुभ-रमा-सुषमासमेत-
वक्षः-स्थल-स्खलद्-उदार-सुतार-हारम् ।
आपाद-लम्बि-वन-माल्य-सुपाल्यमानं
सद्-वृत्त-दीर्घतर-पीवर-बाहु-दण्डम् ॥२९॥
श्रीवासः : कथम् अकस्माद् अस्यैवम् अभिनिवेशो जातः ।
**भगवान् : **श्रूयताम्—
ध्यानाभ्यास-कृता स्फूर्तिः स्फूर्तिः सा तु चिराद् भवेत् ।
याकस्मिकी हृदि हरेः सावतार इवापरः ॥३०॥
**श्रीवासः : ** एवम् एव । सकृद् यद् दर्शितं रूपम् एतत् कामायते’नघ इति नारदस्य प्राग्-जन्मनि दर्शितम् इत्य् अवतार-सूचकम् । ध्रुवस्य त्व् अभ्यास-कृता स्फूर्तिः किन्तु भगवन् विना चिराभ्यास-योगेन कथं भगवत्-प्रकाश-योग्यतान्तःकरणस्य ।
भगवान् : अवधेहि—
पुरो’नुग्रह एवास्य स्वोदयाधार-धावनः ।
उदयात् पूर्वम् अर्कस्य विनिहन्ति तमो’रुणः ॥३१॥
श्रीवासः : किम् अयम् अद्यापि साक्षाद् एव वीक्षते किं वेक्षितम् अनुवदति ।
भगवान् : पृच्छ्यताम् ।
**श्रीवासः **(अद्वैतं प्रति): भो भो महानुभाव ! किं पश्यसि ? किं वादृष्टम् अनुवदसि ?
अद्वैतः (आनन्दाब्ध्य्-उत्थित इव किंचिद् बाह्यम् अवगाह्य):
अस्माद् विभोर् भैर् उपेत्य महो’तिनीलम्
अन्तर् ममाविशद् अहो क्षणतस् तिरो’भूत् ।
तेनातिदुःखित-मना बहिर् आत्त-दृष्टिः
पश्यामि तत् पुनर् इहैव निमग्नम् आसीत् ॥३२॥
**श्रीवासः **(सोल्लासम्) : भगवन् ! फलितम् अस्मद्-वचः ।
भगवान् : तन्द्रादोषो’यम् अस्य ।
श्रीवासः : आनन्द-तन्द्रा खल्व् इयम् । कुतो’स्य दोषः ?
**भगवान् **(अद्वैतं प्रति): अद्वैत जाग्रत्-स्वप्नो’यं भवतः ।
**अद्वैतः **(साभ्यसूयम् इव):
नव-कुवलय-दाम श्यामलो वाम-जङ्घा
हित-तद्-इतर-जङ्घः को’पि दीव्यः-किशोरः ।
त्वम् इव स स इदत्वं गोचरो नैव भेदः
कथय रूप्यम् अहो मे जाग्रतः स्वप्न एषः ॥३३॥
भगवान् : अद्वैत, तवैवायं वासनावगाही दोषः । यतस् त्वम् एवैवं पश्यसि नापरः को’पि ।
**श्रीवासः : **क एवंविध-भाग्यवान् आस्ते, यस् त्वां तथा पश्यतु ।
भगवान् (सोपहासम्): श्रीवास ! भवान् अप्य् अद्वैत-पथ-पतितो’भूत् ।
श्रीवासः : कृष्णेन सह तवाद्वैतं यत् तत् पथ-पातिन एव वयम् । को’त्र सन्देहः ?
भगवान् : एवं चेद् भवतो’पि तेन सहाद्वैतम् ।
श्रीवासः : भगवन् ! मैवं वादीः । त्वच्-चरणारविन्द-मकरन्द-कणास्वाद-भाजां नैष पन्थाः ।
भगवान् : तर्हि मयि कथं तद् आरोपयसि ।
श्रीवासः : न हीदम् आरोपणं स्वभावो’पि भावो नोपह्नोतुं शक्त्यते, किन्तु नायम् अद्वैताचार्यस्य दोषः, अपि तु तवैव । यतस् त्वयोक्तम्—तद् भवते दर्शयिष्ये इति ।
नेपथ्ये : सत्यं सत्यम् ।
**श्रीवासः : **जितम् अस्माभिः, यद् इदं दैव-वच इव नरेङ्गितम् अभूत् ।
पुनस् तत्रैव : अये, सत्यम् एव शची-देव्या कृत-पाक-क्रियया समम् अद्वैतागमनं प्रतीक्ष्यते । गगन-मध्यम् अध्यारूढश् चायं भगवान् मार्तण्डः ।
श्रीवासः (श्रुतिम् अभिनीय): नातः परम् अत्र विलम्बनीयम् । भोः कथय विश्व-जनन्यै । एते वयं श्री-विश्वम्भरेण समम् अद्वैतादयश् चलिताः ।
(इति सर्वे यथायथं निष्क्रामन्ति)
(इति निष्क्रान्ताः सर्वे ।)
इति श्री-श्री-चैतन्य-चन्द्रोदये सर्वावतार-दर्शनो नाम
द्वितीयो’ङ्कः
॥२॥
(३)
तृतीयो’ङ्कः
दान-विनोदः
(ततः प्रविशति मैत्री ।)
**मैत्री : **हद्धी हद्धी ! पराण-मेत्त-उब्बरिओ जो एक्को अम्ह-बंसस्स कडम्बो बिराओ जीबदि त्ति सुदं, तं ण आने कहिं बट्टदि । अहम्पि जं णाम मेत्तेण जीवामि, तम्पि सो ण आणेदि, ता उद्देसं करेमि । (इति परितो’वलोक्य) अम्मा का इअं पुरदो आअच्छदि ? [हा धिक् हा धिक् ! प्राण-मात्रोर्वरितो य एको’स्मद्-वंशस्य कडम्बो विरागो जीवतीति श्रुतं, तं न जाने कुत्र वर्तते । अहम् अपि यन्-नाम-मात्रेण जीवामि, तद् अपि स न जानाति, तद्-उद्देशं करोमि । अहो केयं पुरतो आगच्छति ? ]
(संस्कृतम् आश्रित्य)
आनन्द-मूर्तिर् अमृत-द्रववत् समन्ताद्
अङ्ग-प्रभां तत इतः सरसां किरन्ती ।
आसादयन्त्य् अतितरां करुणा-कटाक्षैर्
अन्तर्-विशुद्धिम् अखिलस्य पुरो’भ्युपैति ॥१॥ १
(इति स-विस्मयम् आलोकयति । ततः प्रविशति प्रेम-भक्तिः ।)
**प्रेम-भक्तिः (पुरो’वलोक्य): **अहो केयम् ?
नामैक-मात्रं वपुर् आदधाना
विम्लान-कान्तिः परितोष-हीनः ।
सोत्कण्ठम् अस्मन्-मुखम् ईक्षमाणा
शनैः शनैर् मत्-पुरतो’भ्युपैति ॥२॥ २
मैत्री (निपुणं निभाल्य): अम्महे, इअं च्चेअ प्रेम्म-भत्ति जणणी कहिएण लच्छणेण लच्छीअदि, ता उबसल्लिअ पणमामि । (इत्य् उपसृत्य) देइ ! बन्दिज्जसि मेत्ति-णाम-धेआए मए । [आश्चर्यं, इयं एव प्रेम-भक्ति जननी कथितेन लक्षणेन लक्ष्यते, तद् उपसृत्य प्रणमामि । देवि ! वन्द्यसे मैत्री-नाम-धेयया मया ।] ३
**प्रेम-भक्तिः **(स-चमत्कारम्): कथं मैत्री त्वम् असि, एहि वत्से एहि ! (इत्य् आलिङ्ग्य) मैत्रि ! कथय कथम् एकाकिनी दुरवस्थिता भ्रमसि ?
**मैत्री : **कलि-पडिअणेहिं णिज्जिदेसु अम्ह-सपच्छेसु भअभेम्हलिदा जीविदं गेण्हिअ पलाइदा । अदो मे दुरवत्थं किं पुच्छेसि ? [*कलि-परिजनैर् निर्जिरेषु मत्-सपक्षेषु भय-विह्वलिता जीवितं गृहीत्वा पलायिताः । अतो मम दुरवस्थां किं पृच्छसि *?] ४
प्रेम-भक्तिः : वत्से ! निर्भयम् अतः परं स्थीयतां मत्-सङ्गेनैव । तव मातामह-भगिन्य् अस्मि ।
**मैत्री : **कहं बिअ ? [कथम् इव?]
**प्रेम-भक्तिः : **आमूलम् आकलय ।
भगवद्-अनुग्रह-नामा जनको भगवज्-जनासक्तिः ।
जननी तयोस् तु समये’जनिषत भूरीण्य् अपत्यानि ॥३॥[^५६]
अपि च—
एको विवेक-नामा तनयो बह्व्यस् तु भक्ति-संज्ञिकाः[^५७] कन्याः ।
अपि च—
अनसूया समभावं पतिम् आसाद्य स्वभावजं शुद्धम् ।
मैत्रीम् असूत पुत्रीं भवतीं मत्-तोष-सन्धात्रीम् ॥५॥ ५
अपि च—
कन्यकाः सरस-नीरस-भावाद्
आययुर् द्विविधतां प्रथमं ताः ।
नीरासास् तु बहुधा गुण-योगाद्
भेजिरे’थ दशतां रस-भाजः ॥६॥
उज्ज्वलाद्भुत-शमाश् च हसश् च
प्रेयो वत्सल इतीह रसाः षट् ।
उत्तमा इति तद्-आश्रय-भाजो
भक्तयश् च षड् अमूर् अतियोग्याः ॥७॥[^५९] ६
**मैत्री : **चरमा हि पेम्म-रस-भत्ति ? [चरमा हि प्रेम-रस-भक्तिः ?]
प्रेम-भक्तिः : अथ किम् । तथा हि—
सर्वे रसाश् च भावाश् च तरङ्गा इव वारिधौ ।
उन्मज्जन्ति निमज्जन्ति यत्र स प्रेम-संज्ञकः ॥८॥[^६०]
एष ते व्याख्यातो निजान्वयः । ७
मैत्री : देइ ! दाणीं तुमं एआइणी कहिं बच्चसि ? [*देवि ! इदानीं त्वम् एकाकिनी कुत्र व्रजसि *?]
प्रेम-भक्तिः : मैत्रि ! अस्माकम् आश्रय-भूतस्य भगवतः कस्यापि श्री-विश्वम्भर-देवस्य विहित-सर्वावतार-लीलस्य सम्प्रति वृन्दावनेश्वरी-भावम् अनुचिकीर्षोर् अनुज्ञया सकल-लोकस्य हृदय-शोधनाय साधयामि ।
मैत्री : कहिं ? [कुत्र?]
प्रेम-भक्तिः : यत्र खलु तद्-भाव-भावुक-सुभगम्भावुकतया सर्व-भुवन-प्रियम्भावुकस्य तस्य तन्-नूत्यानुकरणं भविष्यति ।
मैत्री : सो ज्जेब् अ को पदेसो ? [स एव कः प्रदेशः ?]
प्रेम-भक्तिः : आचार्य-रत्नस्य पुराङ्गनम् । ८
मैत्री : कहं दाब ईसरो हूबिअ इत्थि-भावेण णच्चिस्सदि ? [*कथं तावद् ईश्वरो भूत्वा स्त्री-भावेन नर्तिष्यति *? ]
प्रेम-भक्तिः : बाले ! न जानासि ईश्वरः खलु सर्व-रसः सर्वेषां भक्तानाम् आशयानुरोधाद् विचित्राम् एव लीलां करोति । स्व-स्व-वासनानुसारेण भक्तास् तां ताम् अनुकुर्वन्ति । अतः केषाञ्चिन् निभृतानां39 भागवतानां चेतसि तद्-भावम्40 एवाशयितुं सर्वोत्तमोत्तमां तद्-अनुकार-लीलां करिष्यति । यतः परम् अन्यं सरसं नास्ति । ९
**मैत्री : **कधेहि, तं णच्चं किं अन्धकरं किम्बा पैण्णअं । [कथय, तं नृत्यं किम् अङ्क-रूपं किं वा प्रकीर्णकम् ।]
प्रेम-भक्तिः : अङ्क-रूपम् एव ।
मैत्री : कधेहि, को कस्स भूमिअं गहिस्सदि । [कथय, कः कस्य भूमिकाम् ग्रहीष्यति ।]
प्रेम-भक्तिः : वत्सेऽवधारय । अद्वैतस्य रुद्रत्वेनात्मत्वम् । स्वस्य च श्री-राधा-स्वरूप-ग्रहणम् अन्य-जनाशक्यं परम-रहस्यत्वेनायोग्यं च मत्वा—
अद्वैतम् आपादयद् ईश-वेशं
स्वयं च राधाकृतिम् अग्रहीत् सः ।
इति प्रतीतिः किल वस्तुतस् तु
स एव देवो द्विविधो बभूव ॥१०॥ १०
अद्वैतो वेश-मात्रेण केवलं चरितार्थताम् ।
अगमत् किन्तु तत्रासीद् आविर्भूतः स्वयं हरिः ॥११॥
अपि च—
हरिदासः सूत्र-धारो मुकुन्दः पारिपार्श्विकः ।
वासुदेवाचार्य-नामा नेपथ्य-रचनाकरः ॥१२॥
श्री-राधा-कृष्ण-संयोग-कारिणी जरतीव सा ।
योगमाया भगवती नित्यानन्द-तनूं श्रिता ॥१३॥ ११
मैत्री : सामाइआओ के मी ? [सामाजिकाः केऽमी ?]
प्रेम-भक्तिः : अधिकारिणो येऽस्मिन्न् अर्थे स्वयम् एव भगवान् अवादीत् प्राग् एव । यथा—
हे श्रीवास स्वयम् अवहितेनाद्य भाव्यं त्वयास्मिन्
योग्यो यः स्यात् स विशति यथा नापरस् तद्-विधेयम् ।
इत्य् अर्धोक्ते श्रीवासेनाभाषि—देव ! कस्मिन् कर्मणि योग्यायोग्य-व्यवस्था करणीया । कुत्र वा प्रवेशः कारयितव्य इति । पुनर् देवेनाप्य् अवादि—
श्री-राधात्र स्वयम् इयम् अहो नूनम् आचार्य-रत्न-
स्यावासस्याङ्गन-भुवि रसाद् व्यक्तम् आविर्भवित्री ॥१४॥
मैत्री : तदो तदो ?
प्रेम-भक्तिः : ततः श्रीवासेन मनसि सन्दिहानेन भगवद्-वच इति विहित-निश्चयेनापि गङ्गादास-नामा भगवतः परमाप्तो भूसुर-वरो द्वारपालकत्वेन न्ययोजि ।
**मैत्री : **तदो तदो ?
प्रेम-भक्तिः : ततो भगवता पुनर् अपि श्रीवासो निज-गदे—श्रीवास ! भवता नारदेन भवितव्यम् । शुक्लाम्बरेण तव स्नातकेन भाव्यम् । गाथकाः श्री-रामादयस् त्रय आचार्य-रत्न-विद्यानिधी चेति देवेनैव नियोजिताः । अतः परं न केषाम् अपि तत्र प्रवेशः किन्तु श्रीवासादि-सहोदर-वधूभिः सहाचार्य-रत्न-मुरारि-वधू-प्रभृतयः प्राग् एव तत्र प्रविश्य स्थिताः । अधिकार-भाजश् च ताः ।
(नेपथ्ये मृदङ्ग-तालादि-ध्वनिः ।)
प्रेम-भक्तिः : वत्से ! श्रुतम् । अयम् आरब्धः पूर्व-रङ्गाङ्ग-भूतः प्रत्याहारः ।
(पुनर् नेपथ्ये):
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥१५॥ [भा.पु. १०.९०.४८]
अपि च—
सम्पूर्णेन्दु-मुखी सरोज-नयना कोक-स्तनी कैरव-
स्माया कम्बु-शिरोधिर्-अम्बुधि-भुवो गर्वस्य सर्वङ्कषा ।
माङ्गल्यैर् इव वस्तुभिर् विरचिता नान्दीव वृन्दावन-
क्रीडा-कौतुक-नाटकस्य दिशतु श्री-राधिका वः शुभम् ॥१६॥ १४
प्रेम-भक्तिः : सत्यम् एवैतत् । यन् निरटङ्कि मया यद् असौ सूत्रधार-भूमिको हरिदासः श्री-भागवत-पद्यं मङ्गलं कुर्वन् नान्दीं पपाठ । तन्-मध्ये एकाङ्को भाणो व्यायोगो वा रूपकम् अत्र निरूपयितव्यम् अनेन, यतो नेपथ्ये गीयते नान्दी [सा.द. ६.२८९] इत्य् आदि तयोर् लक्षणम् । तद् वत्से ! तवास्य दिदृक्षा वर्तते ?
मैत्री : कहिं मे तारिसं भाअ-धेयं ? [कुत्र मे तादृशं भाग-धेयम् ?]
प्रेम-भक्तिः : का ते चिन्ता ? मया सह वर्तितव्यम्, मत्-प्रभावात् केनापि भवती न लक्षणीया त्वद्-अनुरोधान् मयापि तन्-निकट एव तथा भूत्वा स्थातव्यम् ।
मैत्री : अनुगहिदम्हि । [*अनुगृहीतास्मि *।]
प्रेम-भक्तिः : तद् एहि ।
(इति निष्क्रान्ते ।)
इति प्रवेशकः ।
(ततः प्रविशति गृहीत-सूत्रधार-भूमिको हरिदासः ।
कियद्-दूरे उपविष्टे अलक्षिताकारे प्रेम-भक्ति-मैत्र्यौ च ।)
सूत्रधारः (पुष्पाञ्जलिम् अञ्जलौ कृत्वा):
भासा भास्वरयन् दिशो विशदया कान्तिं द्विज-श्रेणीजां
बिभ्राणः परितो लसत्-परिमलः प्रोद्दाम-सन्तोष-भूः ।
शुद्धः पाद-सरोरुहे भगवतः पुष्टिं नखेन्दु-श्रियां
तन्वन् हास इवैष नाट्य-रहसः पुष्पाञ्जलिः कीर्यते ॥१७॥ १७
(इति तथा करोति ।)
प्रेम-भक्तिः (निर्वर्ण्य): सुविहितम् एव विहितं भवता । यद्यपि नेपथ्ये एव नान्दी पठिता, तथापि रङ्ग-पूजा-प्रसङ्गेन भगवत्-पाद एव पुष्पाञ्जलिः कीर्णः । पश्य वत्से । पश्य—
हारि कण्ठे श्रवण-युगले कुण्डली चावतंसी
स्रग्वी भूयस्य् उरसि भुजयोर् अङ्गदी कङ्कणी च ।
अप्य् उष्णीषी शिरसि पदयोर् नूपुरी नाट्य-लक्ष्म्या
मूर्तस् तेजो-भर इव पुरो हरिदास-प्रतीकः ॥१८॥ १८
मैत्री- देइ ! ण क्खु अअं सखीओ मग्गो । [देवि, न खल्व् अयं शास्त्रीयो मार्गः ।]
प्रेम-भक्तिः- श्रूयताम्—
शास्त्रीयः खलु मार्गः पृथग् अनुरागस्य मार्गोऽन्यः ।
प्रथमोऽर्हति सनियमताम् अनियमताम् अन्तिमो भजते ॥१९॥
**मैत्री- **अणिअदमग्गेण चलन्तस्स बिलम्बेण ज्जेब्ब गम्मलाहो होइ । [अनिरत-मार्गेण चलतो विलम्बेनैव गम्य-लाभो भवति ।]
प्रेम-भक्तिः- इदम् अनैकान्तिकम् । तथा हि—
वन्यासु तरणि-सरणिर् जवेन गम्यं नयत्य् अनियतापि ।
न सहज-कुटिलेषु पुनर् नदी-प्रवाहेष्व् अतिनियतापि ॥२०॥
तद् अलम् अनया वार्तया । शृणुमस् तावत् किम् अयं प्रस्तौति । १९
**सूत्रधारः- **अलम् अतिविस्तरेण । भो भो! अद्याहं भगवतः कमलयोनेश् चरण-कमलोपकण्ठाद् दैनन्दिन-वन्दनादिकं निर्वाह्य निवर्तमानो मानोन्नतेन दैवात् तत्रैवोपसीदता नारदेन नारदेन समादिष्टोऽस्मि । यथा—हंहो गन्धर्व-राज ! राज-मनोऽतिचिराय मम मनोरथो वरीवर्ति, भवद्भिर् नरीनृत्यमाना भगवतः श्री-वृन्दावन-विहारिणः कापि केलि-कौमुदी नयन-विषयी-कर्तव्येति तद् यथा सम्पद्यते ’द्य ते तथा कौशलेन भवितव्यम् । तद् अहं तत्र यतिष्ये । (इति पुरतोऽवलोक्य) भो भोः ! इत इतः ।
(प्रविश्य)** पारिपार्श्विकः-** किम् आज्ञापयति भावः ?
**सूत्रधारः- **मारिष ! अद्याहम् उपरोधितोऽस्मि तत्रभवता भगवता नारदेन ।
पारिपार्श्विकः- कथम् इव ?
सूत्रधारः- भगवतः कमल-योनेः इत्य् आदि पठति ।
पारिपार्श्विकः- भाव ! कथम् अयम् आत्मयोनेर् भगवत आत्मजः सनक-सनन्दनादीनाम् अवरज आत्मारामो ब्रह्म-भूतः सततं ब्रह्मानन्दानुभव-भविक-शुभगम्भावुकः श्री-कृष्णस्य लौकिकीं केलिम् अनुबद्ध-तृष्णस् त्वाम् इदम् अभ्यर्थितवान् ? २१
**सूत्रधारः- **अस्ति रहस्यम् ।
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥२१॥
इति भागवतीया गाथा [भा.पु. १.७.१०] ।
पारिपार्श्विकः- भवतु नाम भक्तिं कुर्वन्तु, कथं लौकिकाचरितेऽनुरज्यन्ति ?41
सूत्रधारः- मैवं वादीः ।
अलौकिकीतः किल लौकिकीयं
लीलाहरेर् एति रसायनत्वम् ।
लीलावतारानुकथातिमृद्वी
विश्वस्य सृष्ट्य्-आदि-कथा पलक्नी ॥२२॥[^६५] २२
अत उक्तं—भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भा.पु. १०.३३.३६] इति साधारण-जन-परम् एव । विशेषतस् त्व् अयं श्री-नारदः श्री-वृन्दावन-विनोदन-प्रियः श्री-गोपाल-महा-मनो ऋषिर् अपि । तेन युक्तम् एवैतत् । तद् अविलम्बितम् एव सम्पाद्यताम् पात्र-वर्गस्य भूमिका-परिग्रहः ।42 २३
**पारिपार्श्विकः- **भाव ! क्षणम् अपेक्ष्यताम् । यावद् असौ मुनि-वरः समायाति ।
सूत्रधारः- आगत-प्राय एव, न खलु तादृशाम् अन्तरीक्ष-चारिणां पर्यटन-विलम्बः ।43
**पारिपार्श्विकः- **एवं चेत् कः प्रयोगो’नुष्ठातव्यस् तद् अप्य् अनुज्ञायताम् ।
सूत्रधारः-
गृहीत्वा जरती-भावं या देव्या योगमायया ।
सम्पाद्यते दान-लीला सैव राधा-मुकुन्दयोः ॥२३॥[^६८]
**पारिपार्श्विकः- **कथम् एषा त्वरितं सम्पादयितुं शक्यते ?44
सूत्रधारः- कथम् इव ?
**पारिपार्श्विकः- **श्रूयताम्—
तस्मिन् प्रयोगे भवतस् तनूजाः
सर्वा विशेषाद् गणना प्रवीणाः ।
**सूत्रधारः **(साशङ्कम्) : कथय, तासां स्वस्त्य् अस्ति ?
**पारिपार्श्विकः- **अस्त्व् एव । किन्तु—
वृन्दावनं ताः प्रययुः प्रमोदात्
सम्भूय गोपीश्वर-पूजनार्थम् ॥२४॥[^७०]
सूत्रधारः- किं करोमि ? कथम् एतत् नारदः प्रत्येतु ? अहो तद्-अभिशापाद् भयेन भाव्यम् ।
**पारिपार्श्विकः- **अलम् अलं चिन्तया । ता अपि समागत-प्राया एव ।45
सूत्रधारः- हन्त मारिष । न जानासि ?
वर्त्मानभिज्ञाः किल ताः कुमार्यो
न चोपयुक्तः कतमो’स्ति बन्धुः ।
दान-द्रवोत्सिक्त-करः करालः
स्तम्बे रमो यत्र स मेघ-धामा ॥२५॥[^७२]
**पारिपार्श्विकः- **अस्ति तासां सङ्गे योगमाया-प्रभावा जरती भवच्-छ्वश्रूः ।
सूत्रधारः (विहस्य): तदा निश्चिन्त एवास्मि ।
या न शश्यति पन्थानं न शृणोति च या वचः ।
सा किं करोति साहाय्यं या जरेव शरीरिणी ॥२६॥
**पारिपार्श्विकः- **मैवं वादीः ।
महा-प्रभावा खलु योगिनी सा
वयो न तस्याम् अतिविप्लवाय ।
क्रमेण वृद्धा विधु-मण्डलीयं
न ग्लायति द्योतत एव कामम् ॥२७॥[^७३]
**नेपथ्ये : **हंहो गन्धर्व-पते ! को विलम्बस् तद्-अभिनयस्य ?
सूत्रधारः (श्रुतिम् अभिनीय): मारिष ! पश्यायम् उत्कण्ठमानो मुनि-वरः स-प्रमोदम् अभिनेष्यमाण-विलोकनार्थं त्वरमाण आगच्छति । अस्माकं तु न कापि सामग्री सम्पद्यते, तद् वयम् इतो गत्वा तासाम् एव कुमारीणाम् अनुसन्धानाय यामः ।
**पारिपार्श्विकः- **यथा रुचितं भवते । (इति क्षणं तेनातेनेति नर्तित्वा निष्क्रान्तौ ।)
– प्रस्तावना –
(ततः प्रविशति स्नातकेनानुगम्यमानो नारदः ।)
नारदः- अये गन्धर्व-राज ! किम् अतः परं विलम्बसे ?46 (इति तम् अनुसन्दधाति ।)
**प्रेम-भक्तिः- **वत्से मैत्रि । पश्य पश्य—
अंसे निधाय महतीं रणयन् प्रकोष्ठे
वामेतरे वलयवत् कलिताक्ष-मालः ।
विद्युद्-विकस्वर-विकीर्ण-जटा-कलापः
कैलास-कान्तिर् अयम् एति सुरर्षिर् अग्रे ॥२८॥[^७५]
वत्से ! प्रणमैनम् । महा-भागवतोत्तमोऽयं मुनि-वरः । यस्य खल्व् इयं गाथा—
अहो देवर्षिर् धन्यो ऽयं यत्-कीर्तिं शार्ङ्गधन्वनः ।
गायन् माद्यन्न् इदं तन्त्र्या रमयत्य् आतुरं जगत् ॥२९॥<sup> </sup>[भा.पु. १.६.३९]
**मैत्री **(प्रणम्य) **: **देइ ! तुए भणिदं सिरबासो णारओ हुबिस्सदि, कहं दाणीं सअं जेब्ब णारओ आअओ ? [देवि ! त्वया भणितं श्रीवासो नारदो भविष्यति, कथं इदानीं स्वयम् एव नारद आगतः ?]
प्रेम-भक्तिः- अस्य सहज-नारदावेशत्वान् नारद-रूपता व्यक्तैव । अद्विअतादेस् तु तत्-तद्-आरोपः । तत् त्वया यथादृष्टम् एव प्रतीयताम् ।47
नारदः : भो भोः स्नातक ! कथम् अत्र को’पि न दृश्यते ?
स्नातकः : सुरर्षे ! गन्धर्व-राजस् तु वृन्दावन एव नर्तितव्यम् इति तत्रैव स-सामग्रीको गतवान् अस्ति । एहि तत्रैव गच्छावः ।
नारदः : इदं वृन्दावनं न भवति ?
**स्नातकः : **भो महात्मन् ! अतिशय-हर्षोत्कर्षेण स्वात्मापि विस्मृतो भवता, यच् च तथा वृन्दावन-परिचय-चातुर्य-धूर्यो’पि वृन्दावनं न परिचिनोषि ।
नारदः : भो भोः स्नातक ! सत्यम् एवोक्तं भवता ।
आनन्दोन्माद-लुप्तान्तर्-बहिः-करण-वृत्तयः ।
परिचिन्वन्तु के सम्यग् आत्मानं किम् उतापरम् ॥३०॥
तद् आदिश तस्य पन्थानम् ।
स्नातकः : भो भो इत इतः । (इत्य् उभौ नाट्येन परिक्रामतः ।)
**प्रेम-भक्तिः **(निरूप्य) अहो महा-भागवतस्य नैसर्गिकी वृन्दावन-रतिः ।
**नारदः (नाट्येन कियद्-दूरे गत्वा): **हन्त भोः !
यत्-पारे विरजं विराजि परम-व्योमेति यद् गीयते
नित्यं चिन्मय-भूमि-चिन्मय-लता-कुञ्जादिभिर् मञ्जुलम् ।
सान्द्रानन्द-महो-मयैः खग-मृग-व्रातैर् वृतं सर्वतस्
तद्-वृन्दावनम् ईक्षते किम् अपरं सम्भाव्यम् अक्ष्णोः फलम् ॥३१॥[^७७]
यत्र स्वयम्भूर् अप्य् अस्मत्-पिता यत् किञ्चिद् एव जन्माभिलषितवान् । तथा च पौराणिकी गाथा—
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुले’पि कतमाङ्घ्रि-रजो’भिषेकम् । [भा.पु. १०.१४.३४] इत्य् आदि ।[^७८]
(इत्य् एतद् एव पद्यम् उपवीणयन् नटति ।)
स्नातकः : एवं चेत् प्रतिपदम् एव भवता प्रेमानन्द-विह्वलेन भूयते, तदा कथं गम्यताम् ?
**नारदः **(धैर्यम् अवष्टभ्य) : आदिश मार्गम् ।
स्नातकः : इत इतः ।
(इत्य् उभौ पुनर् नाट्येन परिक्रामतः ।
नेपथ्ये मुरली-ध्वनिः ।)
स्नातकः : देवर्षे ! इदम् एव वृन्दावनम् । यद् एष भगवतो मुरली-कल आकर्ण्यते ।
**नारदः (श्रुतिम् अभिनीय): **अये सत्यम् एवात्थ । तथा हि—
मधुरिम-रस-वापी-मत्त-हंसी प्रजल्पः
प्रणय-कुसुम-वाटी-भृङ्ग-सङ्गीत-घोषः ।
सुरत-समर-भेरी-भाङ्कृतिः पूतनारेर्
जयति हृदय-दंशी कोऽपि वंशी-निनादः ॥३२॥ [अ.कौ. ८.७२]
प्रेम-भक्तिः : वत्से ! भगवतः श्री-कृष्ण-चन्द्रस्य प्रवेशो भविता । तद् इदानीं विस्मर्यताम् आजन्म-दुःखं सफली-क्रियेतां च नयने ।
मैत्री : सब्बं तुह चरण-पसाददो ज्जेब्ब । [सर्वं तव चरण-प्रसादाद् एव ।]
**नारदः **(निपुणं निभाल्य) : स्नातक ! सत्यम् एव व्रज-राज-कुमारस्यैव वंशी निनादोऽयम् । यतः—
विततिर् अपि गिरीणां मुञ्च तीव्राश्रु-धारां
पुलकयति तरूणां वीरुधां चैष वर्गः ।
विदधति सरितोऽपि स्रोतसस् तम् उच्चैर्
हरि हरि हरि वंशी-नाद एवोज्जिहीते ॥३३॥
(इत्य् एतद् एव पद्यं पूर्ववद् उपवीणयन् नृत्यति ।)
स्नातकः : यथार्थम् एवैतन् नटनम् । यतः—
श्रुतिभिर् अपि विमृग्यं ब्रह्म-सम्पत्ति-भाजाम्
अपि पुरु-रसनीयं मूर्त आनन्द-सारः ।
यद् अहह भविताद्य श्रील-शम्भु-स्वयम्भू-
प्रभृतिभिर् अभिवन्द्यं पाद-पद्मं दृशोर् नः ॥३४॥
तद् देवर्षे ! क्षणम् अपवार्य स्थातुं युज्यते, किम् असौ सह सहचरैर् एवोपसर्पति । किं वा सौभाग्य-रस-गभीराभीर-भीरुभिर् इति सहसोपसर्पणम् असाम्प्रतम् ।
**नारदः : **सत्यम् आत्थ । तद् एवम् एव कुर्मः । (इति तथा स्थितौ ।)
(ततः प्रविशति कदम्ब-तरु-काण्ड-कृतालम्बस् त्रिभङ्गी-ललितो मुरलीं वादयन् कतिपयैः सखिभिः सह श्री-कृष्णः ।)
श्री-कृष्णः : सखे ! रम्यम् इदं वृन्दावनस्य सौभाग्यम् । तथा हि—
हसन्ती वासन्ती वलित-मुकुलो बाल-बकुलो
विशोकश् चाशोकः सुलभ-विचयश् चम्पक-चयः ।
अनागः पुन्नाग-स्तवक-कमनः पश्य सुमनः
कुटीरः पाटीर-श्वसन-सुरभिर् भाति सुरभिः ॥३५॥
वयस्याः : भो बअस्स ! तुज्झ एदं कीला-काणणं कधं रमणीज्जं ण हुबिस्सदि ? [भो वयस्य ! तवेदं क्रीडा-काननं कथं रमणीयं न भविष्यति ?]
प्रेम-भक्तिः (निर्वर्ण्य): अहो किम् एतत् ?
अयं नैवाद्वैतो बत न तद् इदं वेश-वचना
कला-शिल्पं किन्तु स्वयम् इह हरिः प्रादुरभवत् ।
यथार्थं वस्त्व् एव प्रथयति चमत्कारम् अधिकं
यथार्थस्याकारः सुखयति च सन्देहयति च ॥३६॥
(पुनर् निभाल्य स-परामर्शम्)
अकृष्णः कृष्णत्वं व्रजितुम् असमर्थो हि भवति
स्वयं कृष्णो नानाकृति-कृति-समर्थः किल भवेत् ।
ग्रहीतुं योग्यः स्याद् अवयव-कलापं ह्य् अवयवी
कथङ्कारं धत्ताम् अवयव-विशेषोऽवयविताम् ॥३७॥
तद् अयम् अद्वैत एव न भवति । नापि वेष-रचना-कौशलम् । किन्तु स्वयं कृष्ण एवावतीर्णः । ३८
**नारदः (दूरान् निभाल्य सानन्दम्): **अहो किम् एतत् ?
सान्द्रानन्द-रसाब्धि-मन्थ-विदितं सद्-भक्त-गोष्ठ्यां कृपा-
मोहिन्या परिवेषितं रतिमतां वृन्देन तत्राभितः ।
नाना-रुच्य्-अनुपानतः प्रतिमुहुः पीतं च पूर्णं सदा
नो जीर्यत्य् अपि नोपयाति विकृतिं श्यामामृतं किञ्चन ॥३८॥ ३९
अपि च—
नव-जलधर-धामा कोटिकामाभिरामः
परिणत-शरद्-इन्दु-स्निग्ध-मुग्धानन-श्रीः ।
नव-कमल-पलाश-द्रोणि-दीर्घारुणाक्षो
दशन-कुसुम-कान्ति-श्रान्ति-बिम्बाधरौष्ठः ॥३९॥ ४०
इत एवाभिसर्पति । तद् एहि कुञ्जान्तरितौ भूत्वा पश्यावः ।
स्नातकः : एवम् एव । (इति तथा कुरुतः ।)
श्री-कृष्णः : सखे सुबल ! सखे श्रीदामन् ! सखे सुदामन् ! कुसुमासवो नाम बटुः प्रिय-सखो मे कथं न दृश्यते ? तद् एतं मृगयत ।
सखायः : यथाज्ञं मृगयामः । (इति तद्-अन्वेषणं नाटयन्ति ।)
(प्रविश्यापटी-क्षेपेण सम्भ्रान्तो विदूषकः ।)
विदूषकः : भो बअस्स ! परित्ताहि परित्ताहि । [भो वयस्य ! परित्राहि परित्राहि ।]
श्री-कृष्णः : कथं भीत इव लक्ष्यसे ?
**विदूषकः : **बअस्स ! एआ जोइणी जरदीब्ब दीसमाणा दैवोपसण्ण-ललिद-बाल-ललणाओ पञ्चसाओ बणमज्झम्हि आणीअ गोबीसर-पूअणत्थं किदारम्भा दिट्ठा, तुह पुण्णेण अहं उब्बरिओ, मं गहिअ णं बलिं दास्सदि त्ति मे भअं जादं । [वयस्य ! एका योगिनी जरतीव दृश्यमाना दैवोपसन्न-ललित-बाल-ललनाः पञ्चषा वन-मध्ये आनीय गोपीश्वर-पूजनार्थं कृतारम्भा दृष्टा, तव पुण्येनाहम् ऊर्वरितः, मां गृहीत्वा नूनं बलिं दास्यतीति मम भयं जातम् ।] ४२
**श्री-कृष्णः **(विहस्य) : वयस्य सुबल ! किम् एतत् ?
सुबलः : ज्ञातम् इह-स्थेनैव मया । अद्य खलु गोपीश्वर-पूजन-कृते गुरु-जन-कृते गुरु-निवारणे’पि मातामह्यामह्याचरणया बलतो बलतो हर्षोत्कर्षतः स्वच्छन्दतो वन-गमनाय प्रवर्तयिष्यते राधा । तत्र ताम् एव जरतीम् आलोक्य योगिनी-भ्रान्त्यायं बटुर् बिभाय । विभायता हि सा स्वभावाद् एव देवमायेव ।
विदूषकः : ही ही ज{इ} एब्बं, तहबि पिअ-बअस्सस्स हत्थे णिबडिस्सन्ति सब्बाओ । जं गोउल-बासिणीणं इत्थी-कुरङ्गीणं रङ्गणीणं क्खु पिअ-बअस्स-गुण-गणो बाउरा-जालो । [ही ही यद्य् एवं, तथापि प्रिय-वयस्यस्य हस्ते निपतिष्यन्ति सर्वाः । यद् गोकुल-वासिनीनां स्त्री-कुरङ्गीनां रङ्गिणीनां खलु प्रिय-वयस्य-गुण-गणो वागुरा-जालम् ।]
**नारदः : **भोः स्नातक ! अतः-परम् अत्रावस्थातुं न युज्यते, तद् एहि योग-प्रभावेण नभश्चरौ भूत्वा पश्यावः । (इति निष्क्रान्तौ ।) ४४
**नेपथ्ये : **हन्त अज्जे ! केण पहेण गोबीसरं अणुसरेम्ह, जदो—
बिर{इ}अ ठाणे ठाणे दाणं सो बणगओ धुत्तो ।
कड्ढ{इ} सदालि-बग्गं हेला-कण्डुल-कर-दण्डो ॥४०॥
[हन्त आर्ये ! केन पथा गोपीश्वरं अनुसरामः, यतः—
*विरचय्य स्थाने स्थाने दानं स वन-गजो धूर्तः ।*
*कर्षति सदालि-वर्गं हेला-कण्डूल-कर-दण्डः *।*।*]
**सुबलः : **वयस्य ! फलितम् अस्मद्-वचः ।
कुसुमासवः : मए जं उत्तं बअणं तं किं ण फलिस्सदि ? ता अलीअं ज्जेब गब्बम् उब्बहसि । [मया यद् उक्तं वचनं तत् किं न फलिष्यति ? तस्माद् अलीकम् एव गर्वम् उद्वहसि ।] (कृष्णं प्रति) बअस्स ! तुम्हे बि तेण उज्जमेण चिट्ठध । [वयस्य ! यूयम् अपि तेनोद्यमेन तिष्ठत ।] ४५
श्री-कृष्णः : को’साव् उद्यमः ?
कुसुमासवः : ण सुदं बिर{इ}अ ठाणे ठाणे इच्चादि जं पढिदं किं तु बणगओ त्ति जं भणिदं तं उइदं ज्जेब, धुत्तो त्ति जं भणिदं तं क्खु मे दुखाअरं । [न श्रुतं विरचय्य स्थाने स्थाने इत्य् आदि यत् पठितं किन्तु वन-गज इति यद् भणितं तद् उचितम् एव । धूर्त इति यद् भणितं तत् तु मम दुःखाकरम् ?।
**श्री-कृष्णः **(विहस्य सावहित्तम्) **: **वन-गजो धूर्त इति कथं ते दुःखाकरम् ?
कुसुमासवः : एत्थ बणे को अबरो बणगओ ? [अत्र वने को’परो वन-गजः ?]
पुनर् नेपथ्ये :
अवगाहिअ उण मग्गं सो बिबिणे सह-अरेहिं कलहेहिं ।
बिहर{इ} दाण-बिणोई हन्त कधं तत्थ गन्तब्बं ॥४१॥
[*अवगाह्य पुनर् मार्गं स विपिने सहचरैः कलभैः ।*
*विहरति दान-विनोदी हन्त कथं तत्र गन्तव्यम् ॥*]
कुसुमासवः : बअस्स ! अम्हे क्खणं कुञ्जे ओबारिअ चिट्ठम्ह, जाब इमाओ बि बिस्सत्था हुबिय इत्थ आअच्छन्ति । [वयस्य ! वयं क्षणं कुञ्जे अपवार्य तिष्ठामः, यावद् इमा अपि विश्वस्ता भूत्वात्रागच्छन्ति ।]
सर्वे : एवम् एव । (इति श्री-कृष्णेन सह कुञ्ज-प्रवेशं नाटयन्ति ।)
(इति प्रविशति पूजोपकरण-पात्र-पाणिभिः सह सहचरीभिर्
जरत्योपगम्यमाना पाण्डु-पुत्रावृता नव-किशलय-श्रीर् इव श्री-राधा ।)
श्री-राधा : सहीओ गोबीसर-पूअण-त्थं सब्बो ज्जेब संभारो आणीदो ? [सख्यः गोपीश्वर-पूजनार्थं सर्व एव सम्भार आनीतः ?]
सख्यः : अध इं । किं तु मिलाणं हुबिस्सदि त्ति कुसुमं ज्जेब्ब ण आहरिदं, इदो ज्जेब अवचिणिस्सं । [अथ किं । किन्तु म्लानं भविष्यतीति कुसुमम् एव नाहृतं, इत एवावचेष्यामः ।]
श्री-राधा : पिअं मे पिअं, ता एहि अवचिणुमह । [प्रियं मे प्रियं, तद् एहि अवचिनुमः ।] (इति नाट्येन पुष्पावचयनं नाटयन्ति ।)
**प्रेम-भक्तिः **(निर्वर्ण्य) **: **अहो चित्रम् । स एवायं देवः । नास्य किम् अप्य् अशक्यम् । यतः—
मोहिन्य् एष बभूव यः स्वकलया देव-द्विषो मोहयन्
नात्मारामम् अपीश्वरेश्वरम् अपि श्री-शङ्करं लोभयन् ।
तस्याश्चर्यम् इदं न कञ्चिद् अपि यत् कृष्णावतारोऽपि सन्
श्री-राधाकृतिम् अग्रहीत् स्व-वपुषा देवः स विश्वम्भरः ॥४२॥
अथवा—
हरिर् अयम् अथ लीलया स्व-शक्त्या
विदल-युगात्मकलायवन् न भिन्नः ।
अभवद् इव पृथक् पुमान् वधूश् च
स्वयम् उभयांश-समान-रूप-योगात् ॥४३॥
(पुनर् अन्यतोऽवलोक्य)
इयम् अपि ललितैव राधिकाली
न खलु गदाधर एष भू-सुरेन्द्रः ।
हरिर् अयम् अथवा स्वयैव शक्त्या
तिर्तयम् अभूत् सा सखी च राधिका च ॥४४॥
(पुनर् अन्यतो’वलोक्य) अहो इयम् अपि योगमायागमायादशमिनी शमिनी नीरजाक्षी धवलतावलता केश-पाशेन तम इव शुद्ध-सत्त्वीकृत्य दधाना जरती-वेषं विधाय प्रविष्टा नेयं नित्यानन्द-तनुर् नित्यानन्द-तनुर् भगवान् हि स्वाम् एव योगमायाम् आयापयामास । तस्य तु न चित्रम् एतत् । यतः—
निवास-शय्यासन-पादुकांशुको-
पधान-वर्षातप-वारिणादिभिः ।
शरीर-भेदैस् तव शेषतां गतैर्
यथोचितं शेष इतीर्यते जनैः ॥४५॥ [स्तोत्र-रत्न ३७]
इति प्राचीनैर् भक्तैर् उक्तम् ।
**श्री-कृष्णः **(राधां निर्वर्ण्य) : सखे !
उत्कीर्णा किम् उ चारु कारु-पतिना कामेन किं चित्रिता
प्रेम्णा चित्र-करेण किं लवणिमा त्वष्ट्रैव कुन्दे धृता ।
सौन्दर्याम्बुधि-मन्थनात् किम् उदिता माधुर्य-लक्ष्मीर् इयं
वैचित्रं जनयत्य् अहो अहरहर् दृष्टाप्य् अदृष्टेव मे ॥४६॥
अथवा—
शौटीर्यं स्मर-भूपतेर् मधुमदो लावण्य-लक्ष्म्याः स्मयः
सौभाग्यस्य विनोद-भूर् मधुरिमोल्लासस्य हासः श्रियः ।
अद्वैतं गुण-सम्पदाम् उपनिषत् केली-विलासावलेः
केयं लोचन-चन्द्रिका-चय-चमत्कारश् चकोरेक्षणा ॥४७॥
(इति सस्पृहम् आलोकयति ।)
**श्री-राधा : **एहि ललिदे ! लबङ्ग-कुसुमं अबचिणुमह । [एहि ललिते ! लवङ्ग-कुसुमम् अवचिनुमः] (इति परिक्रामति ।)
**जरती : **एसा लअङ्ग-बाडिआ बि कण्हस्स अदिपेअसी, इमाए णियडं मा गच्छ । गच्छात्तुनं मोआबेदुं ण सक्किस्सम्ह । [एषा लवङ्ग-बाटिकापि कृष्णस्यातिप्रेयसी । अस्या निकटं मा गच्छ । पश्चात् त्वां मोचयितुं न शक्ष्यामः ।]
**ललिता : **अज्जे, तुमं पडिभूत्तणेण संचारिअ अम्हे आप्पाणअं मोआबिस्सम्ह । का चिन्ता ? [आर्ये, त्वां प्रतिभूत्वेन सञ्चार्य वयम् आत्मानं मोचयिष्यामः । का चिन्ता ?] (इति स-कौतुकं सर्वाः कुसुमासव-चयनं नाटयन्ति ।)
**श्री-राधा : **ललिदे, पडित्ताहि पडित्ताहि, एसो दुट्ठो भमरो बाधेइ । [*ललिते, परित्राहि परित्राहि, एष दुष्टो भ्रमरो बाधते *।]
**सख्यः : **
मुक्किअ लबङ्ग-लदिअं चबलो महुसुअणो एसो ।
पिअ-सहि, अणिअद-पेम्मो तुह मुह-गन्धेण अन्धिओ भम{इ} ॥४८॥
[*मुक्त्वा लवङ्ग-लतिकां चपलो मधुसूदन एषः । *
प्रिय-सखि, अनियत-प्रेमा तव मुख-गन्धेनान्धो भ्रमति ।]
**कृष्णः **(अवलोक्य स-स्पृहं) **: **सखे, पश्य पश्य—
मुखम् अनु निपतन्तं वारयन्ती द्विरेफं
भय-चकित-चलाक्षी न्यङ्-मुखीयं करेण ।
तम् अपि तद्-अभिभूतं कूणितं भ्रू-धुनीते
स च रुजम् अभिनिन्ये झङ्कृतैः कञ्कणानाम् ॥४९॥ ५६
कुसुमासवः : बअस्स, अअं ओसरो अम्हाणं, अम्ह लबङ्ग-कुसुमं एसा आहरेदि, इमाए आहरणं रणं कदुअ तुमं आहर । [वयस्य, अयं अवसरो’स्माकम् । अस्मल्-लवङ्ग-कुसुमम् एषा आहरति । अस्य आहरणं रणं कृत्वा त्वम् आहर ।]
**श्री-कृष्णः : **एवं-विधम् आलोकनम् एवातिसुरसम् । तथापि प्रिय-बटोर् वचो’नुरोधेन तथा कुर्मः । (इति समुपसृत्य स-दर्पम् ।) अयि ललिते, दुर्ललिते’दुः के तव साहसिक्य-शिक्षाम् एताम् ? कस् ते मदो मद्-ओकसि वृन्दावने कथं स्वातन्त्र्यम् आलभ्यते ? वारं वारम् एव मे वनम् आगत्य गत्य्-अनवस्थया तत इत इतर-जनीवद् गात्र-गर्वेण फल-कुसुम-सुमञ्जुल-लता-विटप-भङ्गम् आचरन्त्यश् चरन्त्यः परितो’परितोषं मम जनयन्ति । नयं तिरस्कृत्य माम् अवजानन्ति च भवत्यः । भद्रम् अद्य विलोकिताः स्थः । अतः परम् अस्य फलं भुज्यताम् । ५७
**जरती : **अरे कण्हड ! कुसुमेहिं ज्जेब एदाणं पओअणं, ण क्खु फल-भोअत्थं एदाहिं बण-मज्झे आअदं । [अरे कृष्ण ! कुसुमैर् एव एतासां प्रयोजनं, न खलु फल-भोगार्थं एताभिर् वन-मध्ये आगतम् ।]
कुसुमासवः : अज्जिए ! बअसेण समं तुज्झ बुद्धी च गदा । जदो फलं अबराह-दण्डो त्ति ण आणासि । [आर्ये ! वयसा सह तव बुद्धिश् च गता । यतः फलं अपराध-दण्ड इति न जानासि ।]
**जरती : **बम्हण-डिम्ह ! च्छीरकण्टोसि तुमं किं जाणेसि । विचारेहि को अबराहो, अबराहे ज्जेब दण्डो ण क्खु साराहासु अम्हेसु । [ब्राह्मण-डिम्भ ! क्षीर-कण्ठो’सि त्वं किं जानासि ? विचारेहि को’पराधः ? अपराध एव दन्डः । न खलु साराधासु अस्मासु ।] ५८
**ललिता : **अए बडुअ ! तुम्ह बअस्सो अस्स बणस्स को ? [*अये बटुक ! युष्मद्-वयस्यो’स्य वनस्य कः *?]
कुसुमासवः : ललिदे, अहिआरी अअं । [ललिते, अधिकारी अयम् ।]
**ललिता : **होइ एब्बं ण्णेदं, अहिओ अरी ज{इ} ण होइ, तदो कधं अम्ह पिअ-सहीए एदस्स बणस्स एदारिसी अबत्था ? [*भवत्य् एवं न्व् एतत् । अधिको’रिर् यदि न भवति, ततः कथं अस्मत्-प्रिय-सख्या एतस्य वनस्य एतादृशी अवस्था *?]
**कुसुमासवः : **ललिदे, पण्डिद-च्चणं पआसेहि, होदु होदु, अम्ह बअस्सो एदस्स बणस्स अहिओ अरी ज्जेब । एदं बणं तुम्ह पिअ-सहीए कधं जादं ? [*ललिते, पण्डितत्वं प्रकाशय, भवतु भवतु, अस्मद्-वयस्य एतस्य वनस्याधिको’रिर् एव । एतद् वनं युष्मत्-प्रिय-सख्याः कथं जातम् *?] ५९
ललिता : उबभोओ ज्जेब पमाणं, अण्णधा कधं णीसङ्कं कुसुमाइं आहरेम्ह ? [*उपभोग एव प्रमाणं, अन्यथा कथं निःशङ्कं कुसुमानि आहरामः *?]
जरती : सच्चं ज्जेब भणिदं ललिदाए, मह णत्तणीए ज्जेब एदं बणं, जाए एत्थ देअदा-रूएण णिओइदा अप्पणो परिअण-रूआ बुन्दा । [सत्यम् एव भणितं ललितया, मम नप्त्र्या एव एतद् वनं, यया अत्र देवता-रूपेण नियोजिता आत्मनः परिजन-रूपा वृन्दा ।]
**श्री-कृष्णः **(विहस्य) **: **आर्ये, वृन्दा खलु तव नप्त्र्याः परिजन-रूपा ।
जरती : अरे कण्हड ! एत्थ को संदेहो । सा च्चेब पुच्छीअदु । [*अरे कृष्न ! अत्र कः सन्देहः ? सैव पृच्छ्यताम् *।] ६०
**कुसुमासवः **(कर्णे लगित्वा) : भो बअस्स ! सा क्खु एदाणं ज्जेब पच्छ-बादिणी । [*भो वयस्य ! सा खलु एतासाम् एव पक्ष-पातिनी *।]
सुबलः : कुसुमासव ! मा भेतव्यम् । ललिते मद्-वयस्यस्य नाम मुद्रैवात्र प्रमाणम्, या खलु प्रतिद्रुमम् एव विराजते ।
**ललिता : **ज{इ} एब्बं तहबि अम्हे ण अबरज्जम्ह, सअलाओ ज्जेब लदाओ मह पिअ-सहीणाम् अक्खरङ्किदा तेण क्खु लदासु को अहिआरो तुह बअस्सस्स ? अम्हेहिं लबङ्ग-लदिआणं ज्जेब कुसुमाइं आहरीअन्ति । [यद्य् एवं तथापि वयं नापराध्यामः, सकला एव लता मम प्रिय-सखीनाम् अक्षराङ्कितास् तेन खलु लतासु को’धिकारस् तव वयस्यस्य ? अस्माभिर् लवङ्ग-लतिकानाम् एव कुसुमानि आह्रियन्ते ।] ६१
**जरती : **ललिदे ! णिम्मञ्छणं दे जामि, भद्दं ज्जेब भणिदं । कण्हड, कीस कलहाएसि अत्तणो अहिआरे चिट्ठन्तीहिं एदाहिं सद्धं, मग्गसि ज{इ}, तदो मग्ग, मए ज्जेब दादब्बाणि लबङ्ग-कुसुमाइं तुमं कस्स ण पिओ होहि ? [ललिते ! निर्मञ्छनं ते यामि, भद्रं एव भणितं । कृष्न, कस्मात् कलहायसे आत्मनो’धिकारे तिष्ठन्तीभिर् एताभिः सार्धं, मार्गयसि यदि, तदा मार्गय, मयैव दातव्यानि लवङ्ग-कुसुमानि त्वं कस्य न प्रियो भवसि ?] ६२
**श्री-राधा **(स-स्पृहम् आत्म-गतं कृष्णम् उद्दिश्य संस्कृतेन) :
श्यामीकरोति भुवनं वपुषा दिग्-अन्तान्
पूर्णेन्दु-मण्डल-मयी कुरुते मुखेन ।
वाचा सुधा-रस-भृतो विदधाति कर्णान्
दृष्ट्या नभो’म्बुज-मयी कुरुते किम् एतत् ॥५०॥
**जरती : **कण्हड ! णेहि कुसुमाइं । [कृष्ण ! नय कुसुमानि ।] (इति तासाम् अञ्चलतः कुसुमान्य् आदाय कृष्णोपकण्ठं विकिरति ।)
**श्री-राधा **(अञ्चलेन मुखम् आवृत्य किञ्चित् स्मित्वा) **: **अज्जिए किं किदं ? देअ-पूअण-किदे अबचिदस्स कुसुमस्स ईरिसी अबत्था किदा ? [आर्यया किं कृतं ? देव-पूजन-कृते’वचितस्य कुसुमस्य ईदृशी अवस्था कृता ?]
**श्री-कृष्णः **(राधां निर्वर्ण्य स्व-गतं): अहो’तिरम्यत्वं वर्तते वसनावृत-मुखायाः । यतः—
अञ्जनी[^७९] मृग-दृशो दृग्-अञ्चलः
ललिता : अज्जे ! अदिभआउलासि तुमं । किं त्ति चिर-परिस्समेण अबचिदं कुसुमं णट्ठीकिदं ? को एसो इमस्स बुन्दाबणस्स ? [*आर्ये ! अतिभयाकुलासि त्वं । किम् इति चिर-परिश्रमेण अवचितं कुसुमं नष्टीकृतं ? क एषो’स्य वृन्दावनस्य *?]
जरती : ललिदे, समत्थासि तुमं कलहं कादुं । अलीअ-गब्ब-भर-कण्डूलं दे हिअअं, ता कुण्ह एदेहिं धिट्ठेहिं सह कलहं, एहि णत्तिणि एहि । [ललिते, समर्थासि त्वं कलहं कर्तुं । अलीक-गर्व-भर-कण्डूलं ते हृदयं, तस्मात् कुरु एतैर् धृष्टैः सह कलहं, एहि नप्त्रि एहि ।] (इति राधाम् आदाय गन्तुं प्रवृत्तः ।) ६५
श्री-राधा : अज्जे ! कहिं गन्तब्बं ? गोबीसरो ण अच्चिदब्बो ? [आर्ये ! क्व गन्तव्यं ? गोपीश्वरो न अर्चितव्यः ?]
कुसुमासवः : अज्जे ! एत्थ बअस्सस्स दाणं बट्टदि । कुसुम-चोरिअं तुह मुहं दट्ठुण समत्थिदं, दाणं दाउण सब्बाओ गच्छन्तु । [आर्ये ! अत्र वयस्यस्य दानं वर्तते । कुसुम-चौर्यं तव मुखं दृष्टा समर्थितं, दानं दत्त्वा सर्वा गच्छन्तु ।]
जरती : अरे बह्मण-बडुअ ! किं रे दाणं ? [अरे ब्राह्मण-बटुक ! किं रे दानम् ? ]
कुसुमासवः : बअस्स सुअल, भणीअदु । [वयस्य सुबल, भण्यताम् ।]
सुबलः : आर्ये, श्रूयताम्—
योग्यं मत्वा स्मर-नरपतिः पश्य दत्त्वा प्रसूनं
वृन्दारण्ये नव-कुल-वधू-वृन्द-घट्टाधिपत्ये ।
यत्नाद् अस्थापयद् अयम् इमं मद्-वयस्यं यशसां
दत्त्वा शुल्कं व्रजत सुदृशो मास्तु शुल्को विवादम् ॥५२॥ ६७
जरती : होदु दे बअस्सो दाणी, अम्हाणं किं तेण सुमर-णरब{इ}णो बसाओ ण अम्हे । [भवतु ते वयस्यो दानी, अस्माकं किं तेन स्मर-नरपतेर् वशा न वयम् ।]
कुसुमासवः : होइ, बुड्ढिआए तुह कहिं तस्स अहीणदा ? [भवति, वृद्धायास् तव कुत्र तस्याधीनता ? ]
**जरती **(स-क्रोधं) : अरे दाण-जोग्ग-पअत्थो ज{इ} होइ तदो सङ्का करीअदि । [अरे दान-योग्य-पदार्थो यदि भवति ततः शङ्का क्रियते ।]
सुबलः : प्रिय-वयस्य ! स्वयम् अस्योत्तरं दीयताम् ।
**श्री-कृष्णः **(स-गाम्भीर्यं) : हन्त भो ! श्रूयताम्—
रत्नाद्यं वः कुवलय-दृशाम् अस्तु वा नास्तु वस्तु
प्रेङ्खोले’स्मिन् भुज-लतिकयोर् भाग-धेयो विधेयः ।
मर्यादेयं मम निगदिता किन्तु किन्तु रत्नान्य् अपीमान्य्
आनीयन्ते पुरट-पुटिकाम् अन्तरा दर्शयध्वम् ॥५३॥ ६८
जरती : पूओबकरणस्स पूडिआ इअं गोबीसरस्स । [*पूजोपकरणस्य पूटिकेयं गोपीश्वरस्य *।]
कुसुमासवः : अरे, मुक्खा अअं ज्जेब गोबीसरो इमं ज्जेब पुएध । [*अरे, मूर्खाः ! अयम् एव गोपीश्वर इमम् एव पूजयध्वम् *।]
**सख्यः : **अरे महाआलो गोबीसरो । [*अरे महा-कालो गोपीश्वरः *।]
**कुसुमासवः : **अरे महाआलो किं ण होदि, जस्स रुइपडलेहिं सब्बं ज्जेब बणं तमाल-बण्णं किदं ? । [ *अरे महा-कालो किं ण भवति, यस्य रुचि-पटलैः सर्वम् एव वनं तमाल-वर्णं कृतम् *? ।]
सख्यः : चन्दसेहरो ज्जेब अच्चिदब्बो । [*चन्द्रशेखर एवार्चितव्यः *।]
**कुसुमासवः : **पेक्ख पेक्ख ! एस चन्दअसेहरो ण होइ । [*पश्य पश्य, एष चन्द्रशेखरो न भवति *। ] (इति बर्हावतंसं दर्शयति ।) ६९
**सख्यः : **बाआल, गोरीपतिं पुअ{इ}स्सम्ह । [ वाचाल, गौरीपतिं पूजयिष्यामः ।]
कुसुमासवः : तुम्हे गोरीओण भवध ? [ *यूयं गौर्यो न भवथ ? *]
जरती : अरे बडुआ एदाणं प{इ} तुह बअस्सो त्ति तुमं जाणेसि । चिट्ठ चिट्ठ । गाम-मज्झे तुह दंसणं ण लम्भिस्सं ? [*अरे बटुक, एतासां पतिस् तव वयस्य इति त्वं जानासि । तिष्ठ तिष्ठ, ग्राम-मध्ये तव दर्शनं न लप्स्ये *? ]
**सख्यः : **अरे बाआल, पसुब{इ} पूइदब्बो । [*अरे वाचाल, पशुपतिः पूजयितव्यः *।]
**कुसुमासवः : **हन्त भो एत्तिआओ धेणुओ जो पालेदि, स किं पसुब{इ} ण होइ ? [*हन्त भो एता धेनूर् यः पालयति, स किं पशुपतिर् न भवति *?]
**सख्यः : **एव्वं भणध, जस्स एदे अम्हे पसुओ, सो किं पसुब{इ} ण होइ ? [*एवं भणत, यस्य एते वयं पशवः, स किं पशुपतिर् न भवति *?]
**सुबलः : **भवतु, वयं सर्वे एव पशवः । तेन भवन्-मते अयम् एव पशुपतिः । तदायम् एवार्च्यताम् । किं च, पुटिकाभिः कृत्वा किं नीयते । तद् दर्शयित्वा सुखं गम्यताम् । किम् अनेन शुष्क-कलहेन ?
राधिका : भो सखीओ ! दंसेध दंसेध ! [भोः सख्यः ! दर्शयत दर्शयत ।]
(सख्यस् तथा कुर्वन्ति ।)
कुसुमासवः (विलोक्य) : अअं मिअमओ, एदं कुङ्कुमं, एदं कालागुरुअं, एदं चन्दणं, अअं कप्पुरो, अअं मोत्ताहारो सिप्पकोसलेण फणिहारो ब्ब किदो । [*अयं मृगमदः, एतत् कुङ्कुमं, एतत् कालागुरुकं, एतत् चन्दनं, अयं कर्पूरः, अयं मुक्ताहारः । शिल्प-कौशलेन फणिहार इव कृतः *। ]
जरती : अरे, फणिहारा इमं बडुअं डंसेध । [ *अरे, फणिहाराः ! इमं बटुकं दंशथ *।]
कुसुमासवः : अज्जिए कालिअ-मद्दण-सहअरस्स मे कुदो फणिहारदो भअं, ता एदाणं करं दाउण गच्छध । [ *आर्ये कालिय-मर्दन-सहचरस्य मे कुतः फणि-हारतो भयं, तस्माद् एतेषां करं दत्त्वा गच्छत । *]
सख्यः : होदु, होदु । अम्हे देअ-पूअं कदुअ घरं गच्छम्ह, तदो तुह बअस्सो तत्थ ज{इ} गच्छदि, तदा जं सक्कीअदि, तं ज्जेब दादब्बं । [ *भवतु भवतु । वयं देव-पूजां कृत्वा गृहं गच्छामः । ततस् तव वयस्यस् तत्र यदि गच्छति, तदा यत् शक्यते, तद् एव दातव्यम् । *]
कुसुमासवः : अरे दासीए धीदा अप्पणो अहिआरप्पदेसं मुञ्चिअ तुम्ह घरं गदुअ मग्गिस्सदि मे बअस्सो, ता चिट्ठध चिट्ठध ! [अरे दाया दुहितरः ! आत्मनोऽधिकार-प्रदेशं मुक्त्वा तव गृहं गत्वा मार्गयिष्यति मे वयस्यः । तस्मात् तिष्ठत तिष्ठत !] (इति पूजोपकरणान्य् आदातुम् इच्छति ।)
**ललिता : **अए गोब-राअ-णन्दण ! देव-द्दब्बाणि एदाणि, एब्बं अपबित्ताणि कादुं ण जुज्जिअन्ति । [अये गोप-राज-नन्दन ! देव-द्रव्याणि एताणि, एवं अपवित्राणि कर्तुं न युज्यन्ते ।]
**राधा : **ललिदे ! इमिणा प्फंसिदाणि एदाणि कधं देबस्स दादब्बाणि ? ता मुञ्चेहि मुञ्चेहि । घरं गदुअ अण्णोबअरणं आणिअ देओ अच्चिदब्बो । ता अज्जिए, एहि घरं गच्छम्ह । [ललिते ! अनेन स्पृष्टान्य् एतानि कथं देवस्य दातव्यानि ? तस्मात् मुञ्च मुञ्च । गृहं गत्वा अन्योपकरणं आनीय देवोऽर्चितव्यः । तस्मात् आर्ये, एहि गृहं गच्छामहे ।] (इति गन्तुम् इच्छति ।)
**कृष्णः **(पन्थानम् आक्रम्य) : अयि चतुरंमन्ये, क्व यासि ?
**राधा **(सावहित्थामर्षम्) : मूलं ज्जेब दिण्णं, किं तस्स दाणं मग्गसि ? [*मूलम् एव दत्तं, किं तस्य दानं मृगयसि *? ]
**श्री-कृष्णः **(स-हासामर्षम्) किं मूलं दत्तम् अस्ति ? मूलं त्व् एतद् एव श्रूयताम्—
एतत् स्वर्ण-सरोरुहं तद्-उपरि श्री-नील-नीलोत्पले
तत्-पश्चात् कुरुविनकन्दल-पुटे तत्रापि मुक्तावली ।
सर्वं दृश्यत एव किन्तु निभृता या हेम-कुम्भ-द्वयी
किं वान्यन् नयसे’नयेति तद् इदं बाले विचार्यं मम ॥५४॥ ७४
**राधा : **को तुमं बिआरस्स ? णहि अविआरेण विआरो कादुं सक्किअदि । [कस् त्वं विचारस्य ? न ह्य् अविचारेण विचारः कर्तुं शक्यते ।]
**जरती **(द्वयोर् मध्यम् अध्यास्य संस्कृतेन) : अरे यशोदा-मातर् मा तरओ भव, लोभवता हृदयेन कथम् आचरसि दुर्विनीतत्वम् । तत्त्वं ते कथयामि । यदि निराकुल-कुल-वधूपद्रव-द्रव-कथा क्रियते, तदा न तेन ते भद्रं भविष्यति । ७५
**ललिता **(स-क्रोधम् उपसृत्य संस्कृतेन) :
कस् त्वं भो ननु माधवः कथम् अहो वैशाख आकारवान्
मुग्धे विद्धि जनार्दनो’स्मि तद् इदं ब्रूते वनावस्थितिः ।
मां गोवर्धन-धारिणं न धरणौ वेत्ति हुं वर्धनं
हिंसा हे वृषहन् बिभर्षि तद्-अघ-द्वारैव गोवर्धनम् ॥५५॥ ७६
**प्रेम-भक्तिः : **अहो कौतूहलम् ।
यूयं नटैर् अप्य् अभिनीयमाना
लीला हरेर् एति रसायनत्वम् ।
सा यत् स्वकीयैः स्वयम् ईश्वरेणा-
भिनीयते तत् किम् उदाहरामः ॥५६॥ ५६
अपि च—
सामाजिकानां हि रसो नटानां
नैवैति पन्थाः कृतिषु प्रसिद्धाः ।
हतोभयत्वे रस-वित्त्वम् एषाम्
अलौकिके वस्तुनि को विरोधः ॥५७॥ ५७
अपि च—
अलौकिकाल् लौकिकम् एव शौरेर्
वृत्तं चमत्कारि तद् एव लीला ।
आकर्षकत्वं हि जगज्-जनानाम्
अलौकिकत्वस्य स को’पि हेतुः ॥५८॥ ५८
(इति स-विस्मयम् आलोकयति ।)
**कुसुमासवः : **आः, कुडिले दुर्विणीदे ललिदे, मह बअस्सो दुट्ठाआरो किदो, ता चिट्ठ चिट्ठ । [ आः, कुटिले दुर्विनीते ललिते, मम वयस्यो दुष्टाचारः कृतः, तस्मात् तिष्ठ तिष्ठ । ]
**सुबलः **(स-परिहासामर्षम्) : हन्त भोः ! सत्यम् एतत् ।
वक्त्रं वो द्विज-राज-हिंसि मदिरा-लोले दृशौ रोचिषा
मूर्तिः काञ्चन-हारिणी न विरमो गुर्व्-अङ्गना-सङ्गतः ।
सङ्गी पञ्चम एष पञ्च-विशिखः शुद्धिस् तथापि ह वो
यन् नामाप्य् अखिलाघनाशि स परं दुष्टो’स्मदीयः सखा ॥५९॥ ५९
तद् वयस्य, घट्ट-पाला हि विना धृष्टाप्रकटनेन स्वार्थ-कुशलं न भवन्ति, तद् आत्मनः प्रकटय शौटीर्यम् ।
(कृष्णो’न्तर्वर्तिनीभूय राधां पृष्ठतः कृत्वा स्थितवतीं जरतीं करेण निक्षिप्य बलात् राधा-पटान्तर्-ग्रहणम् अभिनयति । जरती बलान् मोचयित्वा राधा अन्तर्धापयन्ती स्वयम् अप्य् अन्तर्दधाति । नित्यानन्दं स्वरूपेण स्थितो नृत्यति ।)
मैत्री- देइ ! किं ण्विदं ? कुदो अअं अअम्हादो णिच्चाणन्दो ? कहिं गदा सा जरदी ? [देवि ! किं न्व् इदम् ? कुतोऽयम् अकस्मान् नित्यानन्दः ? कुतो गता सा जरती ?]* *
**प्रेम-भक्तिः : **अयं खलु योगमाया-प्रभावः । स्वयम् अस्मिन्न् आविश्य जरती भूत्वा सम्प्रति रसः सविशेष एव सुरसो भवतीति यथा-समयम् अन्तर्हितासुअ । अतः स्वरूपेणावतिष्ठतेऽयं नित्यानन्दः । यतः—
स्वतो बलीयान् सहजो हि भावः
स कृत्रिमः भावम् अधः करोति ।
अग्न्यातपाभ्यां जनितो जलानां
नैवोष्ण-भावश् चिर-काल-वर्ती ॥६०॥
तद् इदानीम् एतावतैव स्थितं नाट्यं । भवति हि ईश्वर-लीलैवेयं, न खलु नट-रीतिः । पश्याद्वैतो’द्वैत एव । ७९
**मैत्री- **ण जाणे दाणीं भअवं कीरिसो होइ । [न जाने इदानीं भगवान् कीदृशो भवति ।]
**नेपथ्ये- **भो भो सन्न्यासी सन्न्यासी ।
प्रेम-भक्तिः- अहो किम् अयम् आकस्मिकी प्रतिकुला वाक् । निरूपयामि । (इति निरूप्य) अये भगवद्-वाटीं कश्चित् सन्न्यासी प्रविशति । तम् आलोक्य कश्चिद् आक्रोशति । तद् एहि सहैव निष्क्रमावः । ८०
(इति निष्क्रान्ते)
(इति निष्क्रान्ताः सर्वे ।)
इति श्री-श्री-चैतन्य-चन्द्रोदये दान-विनोदो नाम
तृतीयो’ङ्कः
॥३॥
(४)
चतुर्थो’ङ्कः
सन्न्यास-परिग्रहः
(ततः प्रविशत्य् आचार्य-रत्न-पत्न्यानुगम्यमाना भगवती शची ।)
शची : बहिणिए सण्णासिणं पदि कथं सिरिबिस्सम्भरस्स एदारिसो आअरो, विजादीअबासणो क्खु सण्णासी । [भगिनि ! सन्न्यासिनं प्रति कथं श्री-विश्वम्भरस्य एतादृश आदरः ? विजातीय-वासनः खलु सन्न्यासी ।
भगिनी : आअरो कधं जाणिदो ? [आदरः कथं ज्ञातः ?]
**शची : **यदो तत्थ दिअहे केसब-भारदी णामस्स कस्स बि सण्णासिणो भिच्छत्थं सद्धालुओ हुबिअ मं उत्तरं सअं च तसिं गुरुई भत्ती अणुराओ बि पअडिदो । [यतस् तत्र दिवसे केशव-भारती नाम्नः कस्यापि सन्न्यासिनो भिक्षार्थं श्रद्धालुर् भूत्वा माम् उक्तवान् । स्वयं च तस्मिन् गुर्वी भक्तिर् अनुरागो’पि प्रकटितः ।] १
भगिनी : सोबि भत्तो हुबिस्सदिब्ब । [सो’पि भक्तो भविष्यतीव ।
शची : कम्पेदि मे हिअअं सण्णासीणाम् अमेत्तेण, अस्स अग्गएणाहं पढाइदा, तदो इमं सन्दब्भं तस्स ठाणे पुच्छिस्सं । [कम्पते मे हृदयं सन्न्यासि-नाम-मात्रेण, अस्याग्रजेनाहं पाठिता, तत इमं सन्दर्भं तस्य स्थाने प्रक्ष्यामि ।]
**भगिनी : **जुत्तं ण्णेदं । [युक्तम् एतत् ।]
शची : ता जाणेहि कुदो सो मह हिअआणन्दणो चन्दण-द्दुमो । [तज् जानीहि कुतः स मम हृदयानन्दनश् चन्दन-द्रुमः ।]
**भगिनी **(पुरो’वलोक्य) : देइ ! पेक्ख पेक्ख, अअं दे पुण्णिमा-चन्दो बिअ पूब्ब दिसाए उग्गच्छदि णन्दणो । [देवि ! पश्य पश्य, अयं ते पूर्णिमा-चन्द्र इव पूर्व-दिशाया उद्गच्छति नन्दनः ।]
(शची स-स्पृहम् आलोकयति । ततः प्रविशति भगवान् विश्वम्भरः ।) २
**विश्वम्भरः **(अञ्जलिं बद्ध्वा) **: **अम्ब, प्रणमामि ।
**शची **(चिरञ्जीवेति मूर्धानम् आघ्राय) **: **ताद ! इअं आचारिअरअण-कलत्तं, इमं पणम । [तात ! इयं आचार्य-रत्न-कलत्रं, इमां प्रणम ।]
(देवस् तथा करोति । सा स-साध्वसं सङ्कुचति ।)
**शची : **ताद ! एक्कं पुच्छिस्सं । [तात ! एकं प्रक्ष्यामि ।]
**देवः : **आज्ञापय ।
**शची : **पुत्तअ ! सण्णासिणं पदि कधं दे एदारिसो आअरो, जं तत्थ दिअहे केसब-भारदीं पदि तादिसी भक्ती किदा तुमए ? [पुत्रक ! सन्न्यासिनं प्रति कथं ते एतादृश आदरः, यत् तस्मिन् दिवसे केशव-भारतीं प्रति तादृशी भक्तिः कृता त्वया ?]
**देवः : **अम्ब ! ते खलु परम-भागवता भवन्ति । ३
शची : तत्तं कधेहि, सण्णासो बा कादब्बो तुमए ? [तत्त्वं कथय, सन्न्यासो वा कर्तव्यस् त्वया ?]
**देवः **(विहस्य) **: **अम्ब ! कुतो’यं ते भ्रमः ? इदम् अपि भवति किम् ?
शची : बच्छ एदेण ज्जेब दे अग्गएण दिण्णं पुत्थअं मए पाअ-समए चुल्ली-मज्झे दाउण जालिदं । [वत्स, एतेनैव ते अग्रजेन दत्तं पुस्तकं मया पाक-समये चुल्ली-मध्ये दत्त्वा ज्वालितम् ।] ४
**देवः : **किं पुस्तकं कथं वा प्रदीपितम् ?
**शची : **बिस्स-रूबेण मे कधिदं—« अम्ब ! विश्वम्भरो यदा विज्ञो भवति, तदा तस्मै एतत् पुस्तकं देयम् » इति । मए दाबदा ज्जेब तं रक्खिदं जाब सो पब्ब{इ}इदो ण भूदो । पब्ब{इ}दे तत्थ अअंपि एदं पुत्तअं लम्भिअ पब्ब{इ}दो हुबिस्सदि त्ति तुह सण्णास-संकाए जालिदं । [विश्वरूपेन मे कथितं—« अम्ब ! विश्वम्भरो यदा विज्ञो भवति, तदा तस्मै एतत् पुस्तकं देयम् » इति । मया तावता एवैतद् रक्षितं यावता स प्रव्रजितो न भूतः । प्रव्रजिते तत्र अयम् अपि एतत् पुस्तकं लब्ध्वा प्रव्रजितो भविष्यतीति तव सन्न्यास-शङ्कया ज्वालितम् ।]
**देवः **(क्षणम् अनुतप्य विहस्य च) **: **अम्ब ! यद्यपि संविद्-रूपैव भवती, तथापि पुत्र-वात्सल्येनेदम् अज्ञान-विलसितम् अनुशीलितम् ।
शची : ताद ! एसो अवराहो मह ण गहिदब्बो । [तात ! एषो’पराधो मम न ग्रहीतव्यः ।]
**देवः : **को’पराधो जनन्याः पुत्रेषु, किन्तु ममापराधो यदि भवति, तदा क्षन्तव्य एवासौ मातृ-चरणैर् इति प्रसादः क्रियताम् ।
**शची : **बच्छ ! ण कहिं दे अबराहो मए गहिदब्बो, सो तुह णत्थि ज्जेब । [वत्स ! न कुत्र ते अपराधो मया ग्रहीतव्यः, स तव नास्त्य् एव ।] ५
**देवः : **अम्ब ! दिनानि कतिपयानि कुत्रापि मम गन्तव्यम् अस्ति । त्वया मनसि खेदो न कार्यः ।
शची : कहिं गन्तब्बं ? [कुत्र गन्तव्यं ?]
**देवः : **अम्ब ! येन भवत्याः सर्वेषां च बन्धूनां सदा सुखायैव भूयते । तद् अनुसन्धानं कर्तुम् ।
शची : बच्छ ! जधा मह दुक्खं ण होइ, तधा करणिज्जं । [वत्स ! यथा मम दुःखं न भवति, तथा करणीयम् ।]
**देवः : **अम्ब !
श्री-कृष्णः परिपाकस् तव पिता माता च पुत्रो’पि च
ज्ञातिश् च द्रविणं च नित्य-सुखदो बन्धुश् च देवो’पि च ।
सङ्गः शाश्वत एव यस्य तम् अनुस्मृत्यानिशं चेतसा
सम्पन्नासि तवाधुना सुखमयं जानीहि दिङ्-मण्डलम् ॥१॥ ६
शची : बच्छ ! तुमं ज्जेब सब्बं, तुह पसादादो मह दुक्खं णत्थि । किन्तु जधा सन्ततं तुमं पेक्खामि । तह ज्जेब कादब्बं । [वत्स ! त्वम् एव सर्वं, तव प्रसादान् मम दुःखं नास्ति । किन्तु यथा सन्ततं त्वां पश्यामि । तथैव कर्तव्यम् ।]
**देवः : **कृष्ण एव सन्ततं त्वया द्रष्टव्यः । स एव तव सर्व-दुःख-ध्वंसी भविष्यति ।
शची : तहत्थु, ता तुमं ज्जेब मह कण्हो, ता उत्थेहि मह्हण्हो जादो, तुमं पि सिणाण-पुअणादिअं कुण्ह, अहम्पि पाअत्थं जामि । बहिणिए ! तुमम् पि घरं गच्छेहि, तुह बि भअबदो पाअ-सेआ-समओ जादो । [तथास्तु, तत् त्वम् एव मे कृष्णः, तस्माद् उत्तिष्ठ मध्याहो जातः, त्वम् अपि स्नान-पूजनादिकं कुरु, अहम् अपि पाकार्थं यामि । भगिनि ! त्वम् अपि गृहं गच्छ, तवापि भगवतः पाक-सेवा-समयो जातः ।] ७
(इति सर्वे निष्क्रान्ताः । ततः प्रविशति अद्वैतः ।)
अद्वैतः : भूतावेश-विवश-निखिलेन्द्रिय-वृत्तिर् भगवद्-आवेश-विसंष्ठुलश् च समानम् एव भावम् आदधाति । यतः खलु यावत् तस्मिन् दिवसे भगवद्-आवेशेन यन् मया नर्तितं, तज्-जन-मुखाद् एव साम्प्रतं श्रुत्वा प्रतीयते सन्दिह्यते च । तेनाव्याहत-प्रभावो’यं भगवान् विश्वम्भरः । वस्तुतस् तु कोटि-कोटि-जगद्-अण्ड-घट-घटन-विघटन-नाटक-परिपाटी-पाटवस्य निज-चरित-ललित-कीर्ति-सुखासुधावित-जगज्-जन-हृदयावट-घटमान-तमः-काटवस्य भगवतस् तथैव लीलायितम् । यत् खलु प्रत्यक्षानुमानोपमान-शब्दार्थापत्त्यैतिह्यादि-प्रमाण-निवहैर् अपि न प्रमातुं शक्यते । विना तस्यैवानुग्रह-जन्य-ज्ञान-विशेषम् । तेन तदानीन्तनम् अलौकिक-चमत्कार-कारणम् अस्मन्-निष्ठम् अपि नटन-लीलायितं नास्माकम् अनुभव-गोचरस् तद्-व्यवसितम् । तेन—
यास्यन्ति के’पि मोहं विवदिष्यन्ते च तैः समं केचित् ।
केचन सन्दर्भ-विदो रहसाम् इदम् इत्य् अवैष्यन्ति ॥२॥ ८
(इत्य् ऊर्ध्वम् अवलोक्य) अहो चरमाचल-शिखर-चुम्बी लम्बमानो’यं भगवान् मरीचि-माली । तथा हि—
नाम्नैव मे त्वम् असि किन्त्व् अखिलग्रहाणां
विश्राम-पात्रम् इति तत्-पतिनाभिशस्ता ।
तत्-प्रत्ययाय परितप्त-मयो दधाति
सन्ध्यार्क-बिम्ब-कपटाद् इव वारुणी दिक् ॥३॥
अथवा,
सायाह्न-सङ्ग-सुख-लुप्त-धियः प्रतीच्याः
शोणाभ्र-वाससि समुच्छ्वसिते नितम्बात् ।
काञ्ची-कलाप-कुरुविन्द-मणीन्द्र-रूपी
काल-क्रमाद् दिनमणिः पतयालुर् आसीत् ॥४॥
तद् इदानीं विगत-वर्त्म-परिश्रमः सन्ध्याम् उपास्य दर्शनीयतमो द्रष्टव्यः । स खलु भगवान् विश्वम्भरः । (इति तथा कर्तुम् इच्छति ।) ९
**नेपथ्ये : **हन्त भो निज-पुरं गत्वा समागत-प्रायो’हम् इति कृत्वा गतो’द्वैतः कथम् अद्यापि नायातः ?
**अद्वैतः **(श्रुतिम् अभिनीय) : अहो मद्-विलम्बम् आलोक्य स्वयम् एव देवो माम् आक्षिपति । तद् अहं सत्वरम् एव गच्छामि । (इति परिक्रामति ।) १०
(प्रविश्यापटी-क्षेपेन) श्रीरामः : भो अद्वैत ! देव आज्ञापयति भगवान्—« अहम् इतः श्रीवास-गृहं गच्छन्न् अस्मि, भवतापि तत्रैव गम्यताम् » इति ।
**अद्वैतः : **यथाज्ञापयति देवः । (इति तेन सह परिक्रामन् पुरो’वलोक्य) इदम् इदं श्रीवास-पुरं यावत् प्रविशामि । (इति प्रवेशं नाटयित्वा प्राचीं दिशम् अवलोक्य) अहो रम्यम्—
आह्लादयन्न् अक्षि जगज्-जनानां
प्रेमामृत-स्यन्द-सुषीम-पादः ।
उल्लासयन् कौमुदम् उज्झिहीते
चन्द्रश् च विश्वम्भर-चन्द्रमाश् च ॥५॥ ११
**विश्वम्भरः **(प्रत्युत्थाय) : स्वागतं भोः स्वागतम् ।
अद्वैतः : श्री-मुख-चन्द्र-दर्शनेन ।
**देवः **(सादरम् अभिवन्द्यालिङ्ग्य च) : भगवन् ! अत्रोपविश्यताम् ।
अद्वैतः : यथाज्ञापयसि । (इति सर्वे सुखोपवेशं नाटयन्ति ।)
**भगवान् **(अद्वैतं प्रति) : सर्वे वयं भुक्तवन्तः पीतवन्तश् च । केवलम् अध्व-परिश्रान्ताः क्षुत्-परिश्रान्ताश् च भवन्तस् तद् अलं विलम्बेन । श्रीवास आतिथेयो’सि आतिथ्येन । समुपचर्यन्ताम् एते भवता ।
**अद्वैतः : **अलम् अनया चिन्तया, वयम् अपि भवन्त इव समाप्त-सर्वाह्निका एव ।
**भगवान् **(स-प्रमोदम्) : तद् इदानीं हिमकर-कर-कल-धौत जल-धौत श्रीवास-वासाङ्गन-परिसरे भगवत्-सङ्कीर्तन-मङ्गलम् अङ्गीकुर्वन्तु भवन्तः ।
**सर्वे **(स-प्रमोदम्) : भगवन् ! उत्थीयतां स्वयम् अपि ।
भगवान् : एषो’हं गच्छामि । (इति सङ्कीर्तन-स्थलीं प्रति सर्वे निष्क्रान्ताः ।) १२
(ततः प्रविशति) गङ्गादासः : अहो अद्वैत-देवः शान्तिपुरतः समागतो’स्तीति श्रुतम् अस्ति । न जाने किं भगवद्-विश्वम्भरालये समुत्तीर्णः श्रीवासालये वा, तद् अस्य तत्त्वम् अवधारयामि ।
(इति कतिचित् पदान्य् आदधाति । नेपथ्ये सङ्कीर्तन-कोलाहलः ।)
**गङ्गादासः **(आकर्ण्य) : अहो श्रीवासालयं समया समयासादित-सकल-भक्त-जन-प्रमोदी-प्रमोदीर्ण-सङ्कीर्तन-कोलाहलो’यं मया श्रूयते । तद् इत एवाद्वैतेनापि भवितव्यम् । तद् इह स्थित्वैव निभालयामि । (इति निभाल्य) अहो सर्व एव कीर्तयन्तो भगवन्तं विश्वम्भरं नर्तयन्ति नृत्यन्ति च । १३
तद् एवं मन्ये—
दुर्वार-दैत्य-घटया घटिते पटीयो-
भारे स्वयं-भगवतापहृते’पि भूमेः ।
तस्यावसादम् अधुना विधुनोति देवो
भक्तैर् नटन् नटन-निष्ठुर-पाद-घाटैः ॥६॥
(पुनर् निभाल्य) अहो—
आनन्दः किम् उ मूर्त एष परमः प्रेमैव किं देहवान्
श्रद्धा मूर्तिमती दयैव किम् उ वा भूमौ स्वरूपिण्य् असौ ।
माधुर्यं नु शरीरि किं नव-विधा भक्तिर् गतैकां तनुं
तुल्यावेश-सुखोत्सवो भगवता वक्रेश्वरो नृत्यति ॥७॥ १४
(पुनर् नेपथ्ये सम्भूयानन्द-तुमुलो जय-जय-ध्वनि-कलकला ।)
**गङ्गादासः **(निभाल्य) : अहो महत् कौतुकम्—
वक्रेश्वरे नृत्यति गौरचन्द्रो
गायत्य् अमन्दं कर-तालिकाभिः ।
वक्रेश्वरो गायति गौरचन्द्रे
नृत्यत्य् असौ तुल्य-सुखानुभूतिः ॥८॥ १५
(पुनर् नेपथ्ये तथैव जय-जय-ध्वनि-कोलाहल उलुलु-निनादश् च ।)
**गङ्गादासः **(चिरं निरूप्य) : अहो भगवान् विश्वम्भर एव नृत्ये प्रवृत्तः । तथा हि—
गभीरैर् हुङ्कारैर् निज-जन-गणान् बहिर् नयति
द्रुतैर् बाष्पाम्भोभिर् भुवनम् अनिशं दुर्दिनयति ।
महःपूरैर् विद्युद्-वलययति दिक्षु प्रमदयन्न् असौ
विश्वं विश्वम्भर-जलधरो नृत्यति पुरः ॥९॥ १६
अपि च—
दिशि विदिशि दृशो सरोज-मालां
नयन-जलेन मधुनि तत्र तन्वन् ।
मधुकर-निकरं भ्रुवा च चक्रं
भ्रमि नटने जयतीह गौरचन्द्रः ॥१०॥
अपि च—
पादाघातैर् उरग-नगरानन्द-निस्यन्द-हेतोर्
बाहूत्क्षेपैर् इव सुर-पुरी-ताण्डावे पण्डितस्य ।
आशा-चक्रं भ्रमयत इव भ्राम्यद्-उद्योत-दण्डैर्
जीयाच् चक्र-भ्रमण-नटनं देव-विश्वम्भरस्य ॥११॥ १७
(पुनर् निभाल्य) अहो ! अनतरं भगवान् अद्वैतो’पि नर्तितुं प्रविष्टः ।
श्रीवासस् त्रिभिर् एव सुस्वरतमै रामादिभिः सोदरैर्
गायत्य् एष कलं स्वयं च भगवान् वक्रेश्वरश् चोत्सुकः ।
मञ्जीराङ्गद-हार-कङ्कण-वरः काञ्ची-कलापादिमान्न्
अद्वैतस् तनुमान् इवैष भजनानन्दो नरीनृत्यते ॥१२॥
स्थूलोष्णीष-विलास-सुन्दर-शिराः कर्ण-द्वये ताण्डवा-
न्दोलन्-मौक्तिक-कुण्डलो हृदि चलच्-चामीकर-स्रग्-वरः ।
पादाग्रे चल-नूपुरः पुलकितो बाष्पाम्बुधौताननो
नित्यानन्द-महाशयो’पि महतावेशेन नृत्यत्य् अयम् ॥१३॥ १८
(अम्बरम् अवलोक्य) अहो याम-मात्रावशिष्टेयं त्रियामा । उचितम् एव घूर्णते नयन-युगलम् । भगवत्या निद्रयाभिभूतो’स्मि । तद् अत्रैव क्षणं निद्रामि । (इति निद्रां नाटयन् स्वप्नायते ।) भो विश्वम्भर देव, कुत्रासि कुत्रासि ? (इति स्वप्नायित्वा पुनाह् प्रबुध्य) अहो किम् अयम् आलोकितो दुःस्वप्नः । (इति मुहूर्तं हृदि भगवच्-चरणौ विचिन्त्य पुनर् नेपथ्याभिमुखम् अवलोक्य) अहो, न को’पि दृश्यते । सर्व एव भगवत्-प्रमुखाः सङ्कीर्तनोपरमे यथायथं शयनाय गतवन्त इव लक्ष्यन्ते । भवतु, तद् अहम् अपि स्व-निलयं गच्छामि । (इति कतिचित् पदानि परिक्रम्य) अहो ! विभातैव विभावरी । (इति प्राचीम् अवलोक्य ।)
उल्लङ्घ्य किञ्चिद् उदयाचलावप्र-धारां
प्राच्या दिशो’म्बर-तटीम् अवलम्बमानः ।
पाद-प्रसारण-विधाव-पटुस् तथापि
बालो रविः कलय काल-वशाद् उदेति ॥१४॥
(इति कतिचित् पदानि गत्वा पुरो’वलोक्य) अहो ! को’यं सत्वरः किञ्चित् पिपृक्षुर् इव समुपैति ?
(प्रविश्य सम्भ्रान्तः कश्चित् पुरुषः ।)
पुरुषः : अहो गङ्गादास ! भवद्-वाट्यां देवो विश्वम्भरः ।
**गङ्गादासः (सोल्लासम्) : अहो मे भाग-धेयम् । यम् अवलोकयितुं गच्छन्न् अस्मि, स एव स्वयम् आगतो’स्मद्-वाट्याम् । **
पुरुषः : अये, एवं पृच्छामि । भवद्-वाट्याम् आगतः किम् इति ?
**गङ्गादासः **(सवैमनस्यम्) : कथम् एवं पृच्छसि ?
पुरुषः : अन्यस्मिन्न् अहनि प्रातः स्व-निलये गत्वा कृत्यं करोति । अद्य न गत इति शची-देव्या प्रेषितो’स्मि तद्-अन्वेषणाय । (इत्य् उक्त्वैव पुनअर् अन्यतो’न्वेष्टुं निष्क्रान्तः । पुनर् अन्यतः सम्भ्रान्तः सत्वरं प्रविश्य पुनस् तथैव पृष्ट्वा निष्क्रान्तः । पुनर् अन्यतः पुनर् अन्यतः पुनर् अन्यतश् चेति तथा तथैव पृष्ट्वा पृष्ट्वा निष्क्रामति ।)
**गङ्गादासः **(सवैमनस्यम्) : अहो ! फलितम् इव दुःस्वप्नेन । तत् किं करोमि । अद्वैतादयो यत्र तिष्ठन्ति तत्रैव यामि । (इति कतिचित् पदान्य् आदधाति ।)
(ततः प्रविशति दौर्मनस्येन वितर्कं नाटयन्तो’द्वैतादयः ।)
**अद्वैतः : **श्रीवास ! किम् एतत् ?
मते’स्माकं प्रातः स्व-भवनम् उपेतो’स्ति भगवान्
गृहे श्रीवासादेः स्थित इति जनन्या मतम् इदम् ।
इति भ्रान्ताः सर्वे’प्रकृत-मनसः सम्प्रति वयं
कथं विद्मो’कस्माद् अयम् अशनि-पातो’द्य भविता ॥१५॥
श्रीवासः : ये ये प्रहितास् तद्-अन्वेषणाय तेषां न को’पि प्रत्यावर्तते ।
अद्वैतः : अन्विष्य यदि पश्यति तदैव प्रत्यावर्तिष्यते । को’पि किम् अप्य् अनुसन्धानं न लब्धवान् । एतत् किं सम्भाव्यते ?
इह ग्रामे को वा स्थगयतु तम् आत्म-प्रकटनं
स किं वा स्वात्मानं स्थगयितुम् अपीशः प्रभवतु ।
अपह्नोतुं शक्यो न भवति जनैश् चण्ड-किरणः
कथङ्कारं व्योम्नि स्वम् अपि स दिने व्यन्तरयतु ॥१६॥
**श्रीवासः **(पुरो’वलोक्य) : अयं गङ्गादासः समायाति । तद् अयं प्रष्टव्यः ।
**गङ्गादासः **(उपसृत्य) **: **भो भो महाभागाः ! कथम् आकस्मिको’यं विप्लवः ?
सर्वे : अहो ! अयम् अपि तद्-अनुसन्धान-धुरन्धरः । यद् अयम् अस्मान् एव पृच्छति ।
**अद्वैतः **(सास्रम्) :
हे विश्वम्भर-देव हे गुणनिधे हे प्रेम-वारां-निधे
हे दीनोद्धरणावतार भगवन् हे भक्त-चिन्तामणे ।
अन्धीकृत्य दृशो दिशो’न्धतमसी-कृत्याखिल-प्राणिनां
शून्यीकृत्य मनांसि मुञ्चति भवान् केनापराधेन नः ॥१७॥
मुरारिः : भो भो देव अद्वैत ! त्वम् अतिदुरवगाह-गभीरो’सि । कथम् अनिर्णयेनैवं विलपसि । त्वादृशाम् ईदृशानुतापेनैव नितरां प्रतप्ता भविष्यति तपस्विनी शची-देवी ।
श्रीवासः : सत्यम् आह मुरारिः । यतः—
तन्-मात्र-पुत्रा बत सा तद् एक-
चक्षुस् तद् एक-स्व-सुखानुभूतिः ।
मातापि तस्मिन् गुरु-देव-बुद्धिर्
न तं विना जीवति सा क्षणं च ॥१८॥
तद् अधुना तज्-जीवन-रक्षैव नः कर्तुम् उचिता । तस्माद् भो गङ्गा-दास ! भवद्-वचसि तस्याः प्रत्ययो’स्ति त्वया तथा कथनीयं यथासौ जीवनेन न वियुज्यते ।
गङ्गादासः : यथाज्ञापयन्ति भवन्तः । (इति निष्क्रान्तः ।)
**गदाधरः **(सकरुणम्) : भो नाथ !
गतो यामो यामाव् अहह गतवन्तौ बत गता
अमी यामा हा धिक् दिनम् अपि गत-प्रायम् अभवत् ।
क्रमाद् आशा-पाशस् त्रुटति बत हा साअर्धम् असुभिस्
तथापि त्वद्-वार्ता नहि गतवती श्रोत्र-पदवीम् ॥१९॥
(इति मुह्यति ।)
वक्रेश्वरः :
त्यक्त्वा नः किम् उ यास्यसीति करुणा-सिन्धो गतायां निशि
प्रेमाधिक्य-परि-प्रकाश-सरसां नानानुकम्पां व्यधाः ।
कारुण्यं तव तच् च कीदृशम् अहो भूयस्य् उपेक्षा च वा
कीदृक्ते बत हृत्पते द्वयम् इदं हे नाथ लोकोत्तरम् ॥२०॥
(इति मुह्यति ।)
मुरारिः (स-विक्षोभम्):
आहार्य धैर्यं क्रियते बहिर् यत्
क्षिणोति तद्-बाष्प-भरो’न्तरस्थः ।
पुनः पुनर् बद्धम् अपि प्रवृद्धं
सेतुं यथा सैकतम् अम्बु-पुरः ॥२१॥
(इति फुत्कृत्य फुत्कृत्य रुदन् भूमौ निपतति ।)
**श्रीवासः **(तम् आलोक्य) : अहो अतिगभीरो’प्य् अयं दुर्निवारानुराग-तारल्यः संवृत्तः । भवत्य् एव—
पयः-प्रपुरः स्थिर एव तावत्
करोति यावन् न हि सेतु-भङ्गम् ।
भग्ने तु सेताव् अतिदुर्निवारः
समस्तम् आप्लावयितुं समर्थः ॥२२॥
भो नाथ विश्वम्भर ! क्वासि क्वासि ?
पूर्वं मृतः कथम् अहो बत जीवितो’हं
भूयो’पि मारयसि किं बत जीवयित्वा ।
दुर्लीलता तव विभो न मनो’धिगम्या
नन्व् ईश्वरो भवति केवल-बाल-लीलः ॥२३॥
(इति रोदिति ।)
**मुकुन्दः : **
नालोक्यते तव मुखं नयनेन किं नो
नाकर्ण्यते तव वचः श्रवणेन वा किम् ।
हे प्राणनाथ भगवंस् त्वद्-उपेक्षितानां
कष्टेन वा किम् अमुना हत-जीवितेन ॥२४॥
**जगदानन्दः **(स-बाष्पम्) :
नास्मादृशैस् तव पदाम्बुज-सङ्ग-हीनैर्
जीविष्यते क्षणम् अपीति मनो न आसीत् ।
लज्जामहे दयित हे तत एव देव
जीवाम एव दिवसांस् त्वद्-अनीक्षणे’पि ॥२५॥
(इति मूर्च्छति ।)
**दामोदरः : **हा प्राणनाथ ! क्वासि क्वासि ?
प्राणा न किं व्रजत मुञ्चत जाड्यम् उच्चैः
प्राणेश्वरश् चरति साम्प्रतम् एव एव ।
तत्-पाद-पङ्कजम् उपेत्य भजध्वम् अध्वा
प्रेमात्मनाम् अहह मास्तु कुले कलङ्कः ॥२६॥
(इति मूर्च्छति ।)
**हरिदासः : **अहो कष्टम् ।
प्राणेश्वरेण सह चेत् सहसा न जग्मुः
प्राणाः पुनर् झटितेनैव भवन्ति गन्तुम् ।
धिक्कार-कोटि-कटुताम् अनिशं सहन्ते
सीदन्ति नैव वहतस् त्व् अवसादयन्ति ॥२७॥
भवतु क्षणम् अवगच्छामि ।
यदि नयनयोः पन्थानं मे न याति स ईश्वरो
यदि करुणया नो दृक्-पातं करोति मद्-विधे ।
कुल्श-कठिनानां वो’सूनां सहस्रम् अपि क्षणात्
तृणम् इव परित्यक्ष्याम्य् अञ्जस् तदाङ्घ्रि-परीप्सया ॥२८॥
(इति धैर्यम् अवष्टभ्य चिन्तां नाटयति ।) ३३
विद्यानिधिः :
प्रेमन् नमो’स्तु भवते यद् अकैतवेन
नोत्पद्यसे क्वचन हा बत किं ब्रवीमि ।
तस्मिन्न् अकैतव-कृपे’पि सकैतवस् त्वं
नो चेत् कथं नु मम जीवन-योग एषः ॥२९॥
(इति भूमौ पतित्वा विह्वलः सन् रोदिति ।) ३४
**मुरारिः **(धैर्यम् अवष्टभ्य) **: **हंहो महानुभावाः ! एवं विचारयत—किम् एकाकिनैव प्रभुणा क्वापि गतं किं वा क्वचिद् अन्यो’पि गत इति ।
अद्वैतः : अयं विचारः कथम् उत्पद्यताम् ?
न गच्छन् पथिकेनापि स दृष्टो गौरचन्द्रमाः ।
विद्युत्-पुञ्ज इवाकस्माद् दृशोर् अविषयं गतः ॥३०॥ ३५
मुरारिः : अस्त्य् उपायो विचारस्य ।
सर्वे : कथम् इव ?
मुरारिः : आत्म-वर्ग-मध्ये विचार्यतां को’त्र न वर्तते ।
**सर्वे : ** सम्यग् उक्तम् एतेन । (इति मिथो विचारयन्ति ।)
**मुरारिः : **अहो मयाकलितम् ।
सर्वे : किम् तत् ?
मुरारिः : नित्यानन्दम्-महानुभाव आचर्य-रत्नश् च ।
सर्वे : कुत इदम् उपयुज्यते ?
मुरारिः : एतावति कष्टे यद्य् अत्र ताव् अभविष्यतां तदात्रैवागमिष्यताम् ।
**सर्वे **(किञ्चिद् आश्वस्य) : अहो’स्माकं यथा तथा भवतु , स चेद् एकाकी न भवति, तेनैव किञ्चिद् आश्वस्तम् अस्माभिः ।
अद्वैतः : अये मुकुन्द ! त्वम् अनया वार्तया मातरम् आश्वासय—मातस् तं प्रति चिन्ता न कार्या । नित्यानन्दाचार्यरत्नाभ्यां कार्य-विशेषार्थं क्वापि देवेन गमितम् अस्ति । समागत-प्रायो’यम् इति वक्तव्यम् ।
मुकुन्दः : यथाज्ञापयति । (इति निष्क्रान्तः) ३७
अद्वैतः : हंहो विश्वम्भर-देव-प्रियाः । किञ्चिद् धैर्यम् इव जातं चेतसः, यतस् ताव् उभाव् एवाभियुक्तौ । तयोः सतोः स्वतन्त्रे’पि भगवान् न स्वातन्त्र्यं करिष्यति । हन्त किम् उद्देश्यं तस्य यद्-अर्थम् इदम् अध्यवसितम् ?
तीर्थं चेत् किम् अपह्नवेन
गन्तुं समर्थाः सह तेन सर्वे ।
तयोर् विशेष-प्रणयेहितं चेद्
अत्रापि तत् सम्भवितुं च योग्यम् ॥३१॥
(इति सर्वे क्षणं चिन्तयन्तस् तूष्णीं तिष्ठन्ति ।) ३८
नेपथ्ये : हन्त भो कष्टम् !
हा धिक् कष्टम् अहो दिन-त्रयम् अभूद् वार्तापि तैर् न श्रुता
ते जीवन्ति मृता न किं किम् अथवा दत्ताश्रया मूर्च्छया ।
सन्त्य् अद्य प्रियम् ईश्वरं बत विधे दृष्ट्वा च तं तादृशं
प्रत्यावृत्ति-परः कथं नु पुरतस् तेषां भविष्याम्य् अहम् ॥३२॥
तद् इहैव स्थित्वा शरीर-त्याग एव यतनीयम् ।
**सर्वे **(श्रुतिम् अभिनीय) : अहो आचार्य-रत्नस्येव स्वरः श्रूयते । बाष्प-गद्गदतया सम्यक् नालक्षि । तन् निपुणम् अवधारयामि । (इति सर्वे अवधानं नाटयन्ति ।) ३९
पुनर् नेपथ्ये : हन्त हन्त किम् इति पामरेण मया तत्-सङ्गे न गतम् । अथवा—
शिव शिव हठं कर्तुं शक्यो नहि प्रभुणा समं
निजम् अभिमतं स्वेषां चित्ते प्रवर्तयति प्रभुः ।
प्रकटयति हि स्वीयं सूर्यः स्व-कान्त-मणौ मत्वा
न विघटयितुं न शक्नोत्य् एष स्वदाहकरं च तत् ॥३३॥
**सर्वे **(आकर्ण्य) : सत्यम् एवायम् आचार्य-रत्नः । तन् मन्यामहे भगवन्तं विमुच्य समागतो’यम् । यतः शिव शिव हठं कर्तुं शक्यो नहि प्रभुना समम् इति निगदति । हन्त भो भर्जितम् इव दुर्दैव-दव-दहन-ज्वालया कथम् अप्य् आसादितम् आश्वसन-बीजम् ।
मुरारिः : एवं मन्ये, नित्यानन्दम् एव सङ्गे वर्तते । अयं कार्यान्तरायात्र प्रेषित इव ।
अद्वैतः : किं तावद् अस्यात्र कार्यम् ? न तावद् वित्ते प्रयोजनम् । यद्-अर्थम् अयम् आगमिष्यति, न मातरि न तथा ममत्वम्, यत् ताम् एव सान्त्वयितुं प्रहेष्यति । न तादृग् अस्मादृशां सौभाग्यं, यद् अस्मान् आनयितुं प्रस्थापयिष्यति । तद् अलम् अनया विचिकित्सया ! तन् न वेद्मि, किम् अपरं फलं धृतम् अस्ति मादृशां दुर्दैव-विष-भूरुहेण । (इति स-चिन्तस् तिष्ठति )
पुनर् नेपथ्ये : हा कष्टं पामर एवास्मि ।
पश्चात् पश्चात् कथम् अनुसृतं नैव हा हन्त दृष्ट्वा
तादृग् रूपं कथम् इव दृशौ हन्त तापैर् न दग्धे ।
याहीत्य् उक्ते सति भगवता जीवितं किं न यातं
हा हा विश्वम्भर तव तया मायया वञ्चितो’स्मि ॥३४॥
**सर्वे **(आकर्ण्य नेपथ्याभिमुखम्) : हंहो सर्वे वयम् उत्कण्ठमाना भवन्-मुखं निरीक्षामहे मातः-परं विलम्बताम् । (इति तम् उद्वीक्षमाणास् तिष्ठन्ति ।) ४२
(ततः प्रविशत्य् आचार्य-रत्नः)
**आचार्य-रत्नः : **
क्व स स्निग्ध-श्यामः कुटिल-कच-पाशः क्व स विधिः
क्व स श्रोणी-भारः क्व शिव शिव कौपीनम् अपि तत् ।
(क्षणं स्थित्वा परामृश्य)
प्रतीतिर् द्रष्तॄणां परम् इयम् अहो वस्तु नहि तत्
समस्तस्याधारात्मनि चिति समस्तं स्फुरति हि ॥३५॥
**सर्वे **(उपसृत्य स-कौतुकम्) : आचार्य ! कथय कथय क्वासौ भगवान् ?
आचार्य-रत्नः : हन्त हन्त भोः किम् एष पामरः कथयतु ?
अद्वैतः : कथय, किं वृत्तम् ?
**आचार्य-रत्नः **(कर्णे) : एवम् एव ।
**अद्वैतः : **हन्त कथम् अयं करेण पिधापनीयो’र्थः ? तत् स्फुटं कथय, सर्वे शृण्वन्तु ।
**आचार्य-रत्नः **(इति स-बाष्पम् उच्चैः) :
तास् ताः कीर्तन-नृत्य-कौतुक-कला हा धिक् समाप्तिं गतास्
तास् ताः प्रेम-विलास-हास-मधुरा वाचः स्थिता नो हृदि ।
सा प्रीतिः करुणा च सा शिव शिव स्मृत्य्-एक-शेषाभवत्
सन्न्यासेन तव प्रभो विरचितः सर्वस्व-नाशो हि नः ॥३६॥
(सर्वे आकर्ण्य मोहं नाटयन्ति ।)
(प्रविश्य सत्वरं) गङ्गादासः : आचार्य ! कथय कल्याणिनो देवस्य कल्याणम् इत्य् एषा पृच्छति भगवन्-माता ।
(आचार्यो बाष्प-रुद्ध-कण्ठस् तिष्ठति ।)
अद्वैतः : मन्-नाम्ना तां ब्रूहि ।
रामस्य विपिन-वासः कृष्णस्य च माथुरं गमनम् ।
अस्य च सन्न्यास-विधिस् त्रितयं मातृ-त्रयस्य सोढव्यम् ॥३७॥
गङ्गादासः : हंहो तयाप्य् एतद् अनुमितम् अस्ति पुरैव । उक्तं च—
किं गोप्यते भवद्भिः स खलु ज्येष्ठस्य वर्त्म शिश्राय ।
लोकोत्तर-चरितानां तुल्ये काठिन्य-कारुण्ये ॥३८॥
अद्वैतः : भवत्य् एवम् एवासौ धैर्यवती । कथम् अन्यथा तादृशः पुत्रः ? (क्षणं स्थित्वा विमृश्य) भवत्य् एवम्—
सन्न्यास-कृच् छमः शान्तो निष्ठा-शान्ति-परायणः ।
इति नामानि देवो’यं यथार्थान्य् अधुनाकरोत् ॥३९॥
अपि च—
अस्मिन्न् एव हि भगवति यथार्थम् अभवन् महा-वाक्यम् ।
मुख्यार्थतया हि तया जहत्-स्वार्थ-लक्षणा नात्र ॥४०॥
आचार्य ! आमूलतः कथय ।
आचार्य-रत्नः : हन्त एतद्-अर्थम् एव जीवितं मया । तद् इतो निशावसाने नृत्योपरम-समय एव मत्-करम् आलम्ब्य कतिचित् पदानि गच्छन्न् अग्रे नित्यानन्द-देवम् आलोक्य त्वम् अप्य् एहीति सङ्गे कृत्वा सुरधुनीम् उत्तीर्य चलितवान् । मयोक्तं—देव ! कथय—कथम् एकाकिना कुत्र गम्यते इति तद् अनाकलयन् तूष्णीम् एव चलन्न् अनुपदम् आवाभ्याम् अनुगम्यमान एव कटोङा-नामानं ग्रामम् आसाद्य केशव-भारती-यतीन्द्रम् उपसेदिवान् । तद् आवाभ्याम् आत्म-गतम् एव विचिन्तितम् । भगवान् तुर्याश्रमं परिजिघृक्षुर् इति चिन्तयित्वापि प्रभु-तेजसा पराभूताभ्यां न किञ्चिद् अपि वक्तुम् अशक्यत । परे-द्यवि—आचार्य-रत्न ! त्वयैतस्य कर्मणः पूर्व-क्रिया क्रियताम् इत्य् उक्तेन मया भगवान् अवादि, भगवन्, तत् किं कर्म ? इति । तद् अनु गदितः भगवता मयैतत् कर्तव्यम् इति । समनन्तरं प्रतिपत्ति-मूढेन मया मूकवद् अनुत्तरेण रोदितुम् एव प्रवृत्तम् । समनन्तरम् अनायत्त्यैव विधिवद् विहितं सकलम् एव कर्म । ततो यद् वृत्तं तद् वाचा वक्तुं न शक्यते । ४६
**सर्वे **(आकर्ण्य स-विषादम्) : हा देव ! कथम् इदम् अध्यवसितम् ? अथवा, मद्-विधानाम् एव दुःख-द्रुम-फल-काल-विलसितम् इदम् । किम् अनुयोज्यन्ते प्रभु-चरणाः । हन्त हन्त स्मरण-दशारूढम् अपि तन् नो मनः कृन्तति । कथम् आचार्य भवता दृष्टम् ? (इति वैक्लवं नाटयन्ति ।)
अद्वैतः : किं तावत् तद्-आश्रम-समुचितं नामाङ्ग-कृतं भगवता ?
आचार्य-रत्नः : श्री-कृष्ण-चैतन्य इति । ४७
**अद्वैतः **(स-चमत्कारम्) **: **अहो समुचितम् एवैतत्—
कृष्ण-स्वरूपं चैतन्यं कृष्ण-चैतन्य-संज्ञितः ।
अत एव महा-वाक्यस्यार्थो हि फलवान् इह ॥४१॥
केशव-भारती हि श्रुतिर् एव तस्याः केशवस्य भारतीत्वात् । यथा—मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः इति । अतः केशव-भारती-प्रतिपादितं श्रुति-प्रतिपाद्यम् एवेति । तत् कथयाचार्य कथय—
किं तत्रास्ति किम् अन्यतः स भगवान् ?
आचार्य-रत्नः : तत् कालम् एव प्रभुर्
धृत्वा मस्करि-भूमिकां चलितवान्
**अद्वैतः : **त्वां नो किम् अप्य् उक्तवान् ।
**आचार्य-रत्नः : **प्रेमान्धः स्खलिताङ्घ्रिर् अश्रु-सलिलैर् निधौत-वक्षः-स्थलं
स्वात्मानं च न वेद हन्त किम् असौ हा हन्त मां वक्ष्यति ॥४२॥
**अद्वैतः : **भवान् कथं नानुगतः ?
आचार्य-रत्नः :
नित्यानन्दस् त्व् अकथयद् इदं यामि देवस्य पश्चात्
पश्चाद् एवं पथि पथि परिभ्राम्य तैस् तैर् उपायैः ।
अद्वैतस्यालयम् अपि नयाम्य् एष याहि त्वम् एतां
वार्ताम् आर्तान् उपहर सुखं प्रापयाद्वैत-मुख्यान् ॥४३॥
**अद्वैतः : **धन्यो’सि नित्यानन्द-देव धन्यो’सि, जितं भवता निष्कैतव-सौहृदेन, तद् आगच्छत, अनया वार्तया भगवतीं शचीम् आश्वास्य वयम् अपि समुचितम् आचरामः ।
(इति निष्क्रान्ताः सर्वे ।)
इति श्री-श्री-चैतन्य-चन्द्रोदये सन्न्यास-परिग्रहो नाम
चतुर्थो’ङ्कः
॥४॥
(५)
पञ्चमो’ङ्कः
श्रीमद्-अद्वैत-पुर-विलासः
(ततः प्रविशति श्री-कृष्ण-चैतन्यः पश्चान् नित्यानन्दश् च ।)
**श्री-कृष्ण-चैतन्यः- **
एतां समास्थाय परात्म-निष्ठाम्
अध्यासितां पूर्व-तमैर् महर्षिभिः ।
अहं तरिष्यामि दुरन्त-पारं
तमो मुकुन्दाङ्घ्रि-निषेवयैव ॥१॥ [भा.पु. ११.२३.५८]
(इति स्खलितं नाटयति ।)
नित्यानन्दः (स्वगतम्): अहो अद्भुतम् ।
प्रेमामृतं किल तथाविधम् एव किन्तु
निर्वेद-खेद-दहनेन शृतत्वम्[^८०] एत्य ।
तद् एकाकिना मया किं क्रियते ? भवतु चिन्तयामि । (इति पुनर् निर्भाल्य) अहो अद्भुतम् !
नृत्योर्मीकः प्रकटित-महोल्लास-हुङ्कार-घोषः
स्वेद-स्तम्भ-प्रभृति-विलसद्-भाव-रत्नावलीकः ।
अन्तर्-वेगः समजनि विभोः सोऽयम् आनन्द-सिन्धुर्
नो जानीमः परिणतिर् अहो भाविनी कीदृग् अस्य ॥३॥[^८१]
अहो बलवता वातेन चालितः केशर-पराग-पुञ्ज इव चलत्य् एषः । मयापि सत्वरेणाप्य् अनुगन्तुं न शक्यते । विरत-सकलेन्द्रिय-वृत्तिस् तत इत एव गच्छन्न् अस्ति न तूद्देश्य-पुरःसरं क्वापि । तथा हि—
अपन्थाः पन्था न भवति दृशोर् अस्य विषयः
किम् उच्चं नीचं वा किम् अथ सलिलं वा किम् उ वनम् ।
प्रभिन्नो[^८२]’यं वन्यो गज इव चलत्य् एव न पुनःपुरो वा पश्चाद् वा कलयति न चात्मानम् अपि च ॥४॥
भवति हि ।
आत्मारामाः किम् अपि दधते वृत्ति-हीनेन्द्रियत्वं
प्रेमारामा अपि भगवतो रूपमात्रैक-मग्नाः ।
स्वानन्दस्थो भवति यदि चेद् ईशरोऽपि क्व भेदः
आं ज्ञातम्—
निघानन्दो भवति भगवान् जीव आनन्द-निघ्नः ॥५॥
तद् इदानीं किं करोमि ? (क्षणं स्थित्वा)
नाहारोऽद्य दिन-त्रयं न च पयः-पानं किम् अन्याः क्रियाःकौपीनैक-परिच्छदो निज-सुखावेशैक-मात्रानुगः ।गच्छन्न् एव दिनं निशाम् अपि विभुर् नो वेत्ति किं कुर्महे हे गौराङ्ग कृपानिधे कुरु कृपाम् आर्ते मयि प्रीयताम् ॥६॥[^८३]
(क्षणं स्थित्वा) एतेन किञ्चिद् आश्वस्तम् अपि भवति चेतः । तद् यथा—
आनन्द-वैवश्यम् इदं महाप्रभोर्
बभूव नः सम्प्रति जीवनौषधम् ।
विभ्रामयन् वर्त्म विवेचनाक्षमं
नेष्येऽहम् अद्वैत-विभोर् गृहान् अमुम् ॥७॥
(इति साश्वासम् अनुगच्छति ।)
(नेपथ्ये हरिं वद हरिं वद इति सम्भूय कोलाहलः ।)
**नित्यानन्दः **(पुरो’वलोक्य) **: **अये ! अद्भुतम् इदं यद् अमी गोरक्ष-बाला भगवन्तम् आलोक्य स-कौतुकादर-भक्ति-श्रद्धानन्द-चमत्कारं हरिं वद हरिं वदेति उच्चैर् जल्पन्ति ।
(भगवान् पूर्वाभ्यासेन हरि-ध्वनिं श्रुत्वा किञ्चिद् आनन्द-सुप्तोत्थित इव हरि-ध्वन्य्-आनुसारिणीं दिशं नयन-कमले समुन्मील्यावलोकयति ।)
**नित्यानन्दः **(निरूप्य) : अहो उपकृतं गो-रक्षक-डिम्भैर् यद् अमीषां हरि-ध्वनिम् आकर्ण्य किञ्चित्तराम् आनन्द-निद्रोत्थित इवायं महा-मन्त्राकृष्ट इव फणि-दष्टस् तम् एव पन्थानम् अनुसर्पति ।
**भगवान् **(उपसृत्य): ब्रूत भो ब्रूत हरिम् । (इति पुनः पुनः प्रजल्पति ।)
(प्रविश्य गोरक्षकाः शिशवः परितो दण्डवन् नत्वा करतालिकाभिर् हरि-सङ्कीर्तनं कुर्वन्ति । भगवान् स-स्पृहम् आकर्णयन् मुहूर्तं प्रस्थानतो विरमति ।)
**नित्यानन्दः **(सानन्दम्) :
उन्माद आनन्द-कृतो हि नाना-चापल्य-कृज्-जाड्य-कृद् अप्य् अमन्दम् ।चापल्य-जाड्योभय-कृच् च कश्चित्कश्चिद् ग्रह-ग्रस्त-तस्या समानः ॥८॥
तद् इदानीं चरमावस्था इव भगवत आनन्दोन्मादो जातः । तथा हि—
उमील्य दृशौ पश्यति न किम् अपि विषयीकरोत्य् एषः ।अर्ध-वधिर इव किञ्चित् शृणोति न तद्-अर्थम् उपयाति ॥९॥
**भगवान् **(पाणि-कमलेन तेषां शिरः परामृश्य): अये साधु कीर्तितं भवद्भिर् भगवन् नाम, कृतार्थीकृतश् चाहम् । तज् जानीत वृन्दावनं केन पथा गम्यते ?
नित्यानन्दः (स-हर्षम्)**: **अयम् अवसरो मम । (इति तेषां मध्याद् एकम् आनीय) तात ! एष मार्गो वृन्दावनस्येति कथय ।
बालकः : जह आणबेदि भअबं (इत्य् उपसृत्य) भो भअबं एसो मग्गो बुन्दाबणस्स । [यथाज्ञापयति भगवान् । भो भगवन् ! एष मार्गो वृन्दावनस्य ।] (इति नित्यानन्दोपदिष्टम् अभीष्ट-मार्गं दर्शयति ।)
(भगवान् सानन्दावेशं तम् एव मार्गम् अनुक्रामति । शिशवः प्रणम्य निष्क्रामति ।)
नित्यानन्दः- हन्त निस्तीर्णो’स्मि, सम्प्रति सम्पत्स्यते मे मनोरथः, यद् अनेन पथैवाद्वैत-वाटीम् आसादयितुं शक्यते । (इति तेन पथा तम् अनुगच्छन् कियद्-दूरं गत्वा सपरामर्शम्) अहो कथम् अहं न परिचीये ? पर-परिचय-दशा किञ्चित्तराम् इवास्य जातास्ति । तत् परीक्षे च निज-सौभाग्यम् । (इति निकटम् उपसर्पति ।)
भगवान् : (एतां समास्थाय परात्म-निष्ठम् इत्य् आदि पुनः पठित्वा) अहो सम्यक् गीतं भिक्षुणा । मुकुन्द-निषेवयैव तमस् तरिष्यामि, न त्व् अनया परात्म-निष्ठया, अस्यां आस्था-मात्रं कार्यम् । न त्व् एषैवोद्देश्या । तद् वृन्दावनं गत्वा मुकुन्दस्येवैव मानसी कर्तव्या । (इत्य् आकाशे लक्ष्यं बद्धा ।) हंहो कियद् दूरे वृन्दावनम् ?
नित्यानन्दः (उपसृत्य): देव ! दिवसैक-प्राप्यम् अस्ति वृन्दावनम् ।
**भगवान् **(स्वप्न-जाग्रतोर् अन्तराल-दशाम् आपन्न इव स-चमत्कारम्) : कथम् अहो श्रीपाद-नित्यानन्दो’सि ?
नित्यानन्दः- देव ! स एवाहम् । (इत्य् अर्धोक्ते बाष्प-रुद्ध-कण्ठस् तिष्ठति ।)
भगवान्- श्रीपाद ! कथय कुतो भवन्तः ?
**नित्यानन्दः- **देवस्य वृन्दावन-जिगमिषाम् आश्रुत्य मयापि तद्-दिदृक्षया चलता भगवत्-सङ्गो गृहीतः ।
भगवान् : भद्रं भो भद्रं ! एहि सहैव गच्छावः । (इति सानन्दं गच्छति ।)
नित्यानन्दः : भगवन्न् इत इतः । (इति कियद्-दूरं नीत्वा ।) भगवन् ! इतः कियद्-दूरे भगवती यमुना वर्तते । तद् अवगाहनं कर्तुम् उचितम् ।
**भगवान् : **हन्त यमुनाद्य विलोकितव्या ।
नित्यानन्दः : अथ किम् ।
भगवान् (इयं नाटयित्वा): श्रीपाद ! क्व सा क्व सा ?
**नित्यानन्दः : **इत इतः । (इति कियद्-दूरं नीत्वा गङ्गाम् आसाद्य ।) भगवन् ! इयम् इयं यमुना ।
भगवान् (सानन्दं प्रणम्य स्तौति):
चिद्-आनन्द-भानोः सदा नन्द-सूनोःपर-प्रेम-पात्री द्रव-ब्रह्म-गात्री ।अघानां लवित्री जगत्-क्षेम-धात्रीपवित्री-क्रियान् नो वपुर् मित्र-पुत्री ॥११॥
नित्यानन्दः : भगवन्न् अवगाह्यताम् इयम् ।भगवान्- यथाभिरुचितम् । (इति स्थानम् अभिनयति ।)**नित्यानन्दः (स्वगतम्): **अहो निर्वृतो’स्मि । महा-मत्त-वन्य-बुञ्जरो मन्त्रेणैव वशीकृतः । तत् परिशेषम् अस्य कर्मणः किम् अप्य् अस्ति, तद् अपि सम्पादयामि । (इति परितो’वलोक्य कञ्चिद् आह्वयति । प्रविश्य कश्चित् पुरुषः प्रणमति ।)**नित्यानन्दः (जनान्तिकम्): **अये इदम् अनतिदूरे पारे-गङ्गं भगवतो’द्वैतस्य पुरम् । त्वम् इतस् त्वरितं गत्वा विज्ञापय नित्यानन्दः केनचिद् अन्येन सन्न्यासिना सह निकटवती भवन्तम् अपेक्षते । ततस् त्वरताम् ।पुरुषः- एसो’हं तथा करोमि । (इति सत्वरं निष्क्रान्तः ।)**नित्यानन्दः **(स्वगतम्) : अहो अद्य दिन-त्रयं जातम् । जल-स्पर्शो’पि न जातः । तद् अहम् अपि स्नामि । (इति तथा करोति ।)नेपथ्ये-
आशा-पाश-द्विगुण-वलितैस् तद्-गुणैर् एव बद्धाः प्राणा नो यद् विरह-विधुरा हन्त गन्तुं न शेकुः ।सम्प्रत्य् एतैर् उपकृतम् अहो तन्-मुखं दर्शयद्भिर्दिष्टे हीष्टे भवति सहसा हन्त वामोऽप्य् अवामः ॥१२॥
**नित्यानन्दः **(दूराद् आकर्ण्य) : अहो आचार्य एवायं प्रस्तौति ।तत् सुविहितम् एव विधिना । अतः परं ममातिभावो लघुभृतः । (भगवन्तम् अवलोक्य) अहो कष्टम्—
अम्भैः स्यन्दैस्तिमित-वपुषं लज्जयाभ्यास-हानेः
कौपीनाच्छादनम् अपि निर्गील्य निःस्वारिताम्बुम् ।
देवं रक्ताम्बुज-दल-चयैश् छाद्यमानोत्तमाङ्गं
स्नानोत्तीर्णं करि-वरम् इव स्वर्ण-गौरं निरीक्षे ॥१३॥
अहो अतिरम्यम् ।
रक्ताम्बरं कनक-पीतम् इदं तद् एव देवस्य पश्यत वपुः सदृशीकरोति ।गौरारुणस्य परिपक्व-महा-रसस्यवैराग्य-सार-सहकार-फलस्य लक्ष्मीम् ॥१४॥
(इति त्वरमाण उपसृत्य ध्यानामीलित-नयनस्य भगवतः पुरो’वस्थाय मुक्त-कण्ठं रोदिति ।)
**भगवान् **(सत्वरम् अक्षिणी समुन्मील्य) : कथम् अमी अद्वैताचार्य-महानुभावाः ।
**नित्यानन्दः **: भगवन्! एवम् एतत् ।
**भगवान् **(गाढं परिष्वज्य) : कथय कथम् इहस्थो’हं भगवद्भिर् अवगतः । कथं वा ममानुपदम् एव भवान् अपि वृन्दावनम् अनुप्राप्तः ? अथ वा ममैवायं स्वप्नः ।
**अद्वैतः (स-बाष्पम् आत्म-गतम्) **: अहो देवस्यात्र वृन्दावन-प्रतीतिर् एव जातास्ति ! (प्रकाशम्) देव ! नायं ते स्वप्नः । अपि तु स एवात्र पामरः । (इति स्खलितं नाटयति ।)
**देवः **(बाहुभ्याम् आलिङ्ग्योत्थापयन् सबाष्पम्) : भवतु । भो अद्वैत ! त्वम् एव वृन्दावनं त्वय्य् अनवरतं भगवत्-पाद-कमल-संयोगात् । तत् कथय कुत्रागतो’स्मि ?
**अद्वैतः **: इत्थं भगवती भगीरथी । इदम् इदं पारे मदीयं पुरम् ।
**भगवान् **(बहिर् वृत्तिं नाटयित्वा) : श्रीपाद ! भवता यमुनेयम् इत्य् अभाणि ।
**नित्यानन्दः **: अस्यां यमुना वर्तते न वेति देव एव जानातु ।
**भगवान् **: श्रीपादस्य नाट्येनैव नाटितो’स्मि ।
(अद्वैतः आशा-पाश (५.१२) इत्य् आदि यच्-छब्दे तच्-छब्दे च स्वच्छन्दं दत्त्वा पुनः पठति ।)
**नित्यानन्दः **: भो अद्वैत ! अस्य दण्ड-ग्रहणावधि ममैव दण्डो जातः दिन-त्रयम् आहार-विरहात् । देवस्य तु स्वानन्द-भोगेनैव तृप्तिः । तद् अलम् अत्रकथा-प्रसङ्ग-तुङ्गिम्ना ।
**अद्वैतः **(परिजन-करात् प्रत्यग्र-कौपीनाच्छादने आनीय पुनर् भगवन्तं स्नापयित्वा ग्राहयति स-करुणम्) :
देवोचितं च परिधापितम् अस्ति पूर्वं
भिक्षूचितं च वसनं परिधापयामि ।
लक्ष्मीः समा तव समश् च मुख-प्रसादो
हा हन्त नो नयनयोर् विषमं तद् एतत् ॥१५॥
तद् इदं अनतिदूरम् एव मे भवनम् । तद् अलङ्कर्तुम् अर्हन्ति भगवच्-चरणाः ।
**भगवान् **: एतद् अर्थम् एव श्रीपादेनाहं प्रतारितो’स्मि ।
**अद्वैतः **: भगवान् कस्यापि प्रतार्यो न भवति । किन्तु—
ईशो’पि स्यात् प्रकृति-विधुरः स्वीयया माययैव
स्वच्छन्दो’पि स्फटिक-मणिवत् संनिकृष्टेन योगात् ।
इत्थं केचिद् वयम् इह किल ब्रूमहे बाल-खेला
प्रायं लीला-विलसितम् अहो सर्वम् ईशस्य सत्यम् ॥१६॥
उभयथैव न प्रतार्यो’सि । अय्स च नैष दोषः श्रीपादत्वात् । श्रियं प्रातीति श्रीपः कृष्णः तम् आददातीति तथैवानेन कृतम् । तद्-अग्रे भवन्तु भगवन्तः । अद्य प्राथमिकी भिक्षा ममैवालये भवतु भगवतः ।
**भगवान् **: यथारुचितं भवते । तद् आदिश पन्थानम् ।
**अद्वैतः **: इत इतः । (इति नावम् आरोपयति ।)
**नित्यानन्दः **(आकर्ण्य) : भो अद्वैत ! नवद्वीपे कश्चित् प्रहितो’स्ति ।
**अद्वैतः **: अथ किम् । सर्वे समागत-प्राया एव ।
भगवान्- भो अद्वैत ! अपूर्वं नो भवद्-भवन-गमनम् ।
**अद्वैतः- **श्रीवासस्येव क्व मे तादृशं सौभाग्यम् । यस्य भवने प्रतिदिनम् एव देवितं देवेन ।
**नित्यानन्दः : **भो अद्वैत ! अतः परं महीयसी लोक-यात्रा भाविनी । स्वयं प्रकाशिनी हि भगवद्-वार्ता । तत्रापि भगवतो मथुरा-गमनं ग्रथितम् अस्ति । सम्प्रति तद्-भवन-सुभगंभावुक-भावुके भगवति सर्व एवाबाल-वृद्ध-तरुणाः करुणा-पारावारम् अधुनैवामुम् अवलोकयितुं समागमिष्यन्ति लोकाः । तद् यावत् तेषां तथा प्रचारेण न भूयते तावद् अलक्षिता एव भवद्-भवनं प्रविशाम ।
**अद्वैतः- **एवम् एव । (इति कतिचित् पदानि परिक्रम्य) भो देव ! इदम् इदम् अस्मद्-भवनम् । तावत् प्रविश । (इति सर्वे प्रवेशं नाटयन्ति ।)
**नेपथ्ये **:
विश्वम्भरऊ स भगवान् जननीं प्रतार्य
धृत्वा यतेर् अनुकृतिं मथुरां यियासुः ।
व्याजेन शान्तिपुरम् आगमितः स नित्या-
नन्देन भोश् चलत भोश् चलतेक्षणाय ॥१७॥
**नित्यानन्दः **(आकर्ण्य निरूप्य च): अद्वैत ! श्रुतं दृश्यतां च । तद् इहत्या एवैते सपद्य् एव परः सहस्रा बभूवुः । कियता विलम्बेन लक्ष-सङ्ख्या भविष्यन्ति । तद् इह द्वारि दौवारिकैर् भूयताम् ।
(अद्वैतः प्रति-द्वारि दौवारिकान् नियोज्य देवम् अग्रतः कृत्वा नित्यानन्देन सह प्रवेशं नाटयन् निष्क्रान्तः । ततः प्रविशन्ति भगवद्-दर्शनोत्कण्ठिताह् पुरुषाः ।)
**केचित् **:
नवद्वीपे यादृक् समजनि दृशोर् नः पदम् असौ
तदान्याकारत्वं यद् अपि मनसः क्षोभ-जनकम् ।
तथाप्य् उत्कण्ठा नः शिव शिव महत्य् एव वलते
ह्य् अनाहार्यं वस्तु प्रकृति-विकृतिभ्यां सम-रसम् ॥१८॥
तद् अधुना जानीमः क्व भगवान् । (इति परितः परिक्रामन्ति ।)
(अन्यस्यां दिशि) अन्ये :
पूर्वाश्रमे मधुरिम-प्रथिमा य आसीद्
अस्येश्वरस्य स दृशोर् अतिथिर् न नो’भूत् ।
अद्यापि चेन् न स विलोक्यते एव तन् नो
धिग् जन्म धिग् वपुर् अहो धिग् असून् धिग् अक्षि ॥१९॥
अपरे: हन्त भो ! आगच्छतागच्छत । भगवान् अधुनाद्वैत-पुरं प्रविष्ट इति श्रुतम् । तत् तत्रैव प्रविशामः । (इति सोत्कण्ठम् उपसृत्य) अहो अमी दौराविकाः सर्वान् एव निवारयन्ति । भद्रम् अमी एवानुनेयाः दातव्यं च किञ्चिद् एतेभ्यः । (इति निकटम् उपसर्पन्ति ।)
(ततः प्रविशन्ति वेत्र-पाणयो द्वारोपान्तर् निविष्टा दौराविकाः ।)
**दौराविकः **: अरे पुरुषाः ! क्षणं विलम्बतां यावत् तुरीयाश्रम-परिग्रहः कृतो भगवता तावद् अनाहारेणैव स्थीयते । अद्यैव भिक्षा भविष्यति । तद् अधुना कोलाहलो न कार्यः । उपविश्य स्थीयतां भिक्षोत्तरं भगवान् अवलोकनीयः ।
नेपथ्ये: भगवन् ! इत इतः ।**दौराविकः **: निरूपयामि । (इति समुच्छ्रितं स्थलम् आरुह्य उद्ग्रीविकम् आलोक्य च ।) अये कृत-भिक्ष एव भगवान् यद् अयम्—
श्रीखण्ड-पङ्क-परिलिप्त-तनुर् नवीन-
शोणाम्बरो धवल-माला-विराजि-वक्षाः ।
हेम-द्युतिर् विजयते हिम-सान्ध्य-राग-
गङ्गापवाह-रुचि-भाग् इव रत्न-सानुः ॥२०॥
तद् एते समुत्कण्ठिताः कथम् अमुं द्रक्ष्यन्ति । (इति पुनर् निभाल्य ।) अहो साधु समाहितम् अद्वैत-देवेन यद् अनेनायम् उच्चतराम् उपकारिका-मध्य-रोपितो भगवान् । तद् अधुना सर्वे सुखं द्रक्ष्यन्ति स्व-नाम च यथार्थम् अनयोपकारिकयाकारि48 ।
अद्वैतः-
केयं लीला व्यरचि भवता योऽयम् अद्वैत-भाजाम्
अत्यन्तेष्टस् तम् अधृत भवान् आश्रमं य तूरीयम् ।
भगवान् (विहस्य):
भो अद्वैत स्मर किम् उ वयं हन्त नाद्वैत-भाजो
भेदस् तस्मिंस् त्वयि च यद् इयान् रूपतो लिङ्गतश् च ॥२१॥
**अद्वैतः : **वागीश्वरेण किम् उचितं वचनानुरचनम् ?
**भगवान् : **तत्त्वतो’वधारयन्तु ।
विना सर्व-त्यागं भवति भजनं न ह्य् असु-पतेर्
इति त्यागो’स्माभिः कृत इव किम् अद्वैत-कथया ।
अयं दण्डो भूयान् प्रबलतरसो मानस-पशोर्
इतीवाहं दण्ड-ग्रहणम् अविशेषाद् अकरवम् ॥२२॥
**अद्वैतः : **सर्वम् इदं प्रतारणम् एव । किन्तु—संन्यास-कृच् छमः शान्तो निष्टा-शान्ति-परायणः इत्य् आदि नाम्नां निरुक्त्य्-अर्थम् एवैतत् ।
**दौवारिकः (पुरतः सर्वान् आलोक्य): **अहो, आश्चर्यम् ।
एतावत्य् अपि दुर्गमे जन-घटा-स;ग्
(नेपथ्ये परितः कोलाहलः ।)
पुरुषाः : अहो अमी भगवज्-जन्म-स्थली-निवासिनः सर्वे समागच्छन्ति । तद् अधुना महता संमर्देन भवितव्यम् । वयम् इत इदानीम् अपसराम । (इति सर्वे निष्क्रामन्ति ।)
(ततः प्रविशन्ति सर्वे नवद्वीप-वासिनः ।)
ते :
अद्यान्ध्यं गतम् एव नो नयनयोर् अद्य प्रसन्नो दिशः
शुष्काश् चाद्य जिजीविषा-व्रततयः प्रोन्मीलयन्त्य् अङ्कुरान् ।
नष्टे’न्तःकरणे च केनचिद् अहो चैतन्यम् अप्य् आहितं
येनास्माकम् अहो बताद्य भविता चैतन्य-चन्द्रोदयः ॥२५॥
(इति सोत्कण्ठम् उपसर्पन्ति ।)
अद्वैतः (आलोक्य) :
अग्रे निधाय भगवज्-जननी समीयुः
श्रीवास-पण्डित-मुखाः सुहृदस् त एते ।
अन्ये च बाल-तरुण-स्थविराः किम् अन्यद्
देशः स एष उदपादि स एष कालः ॥२६॥
(भगवान् सत्वरम् अवतारं नाटयति । दौवारिकाः सादरं प्रवेशयन्ति । भगवान् मातरं प्रणमति ।)
**माता **(सभय-भक्ति-वात्सल्य-परितोष-शवलिताश्रु-पुलक-गद्गदं संस्कृतेन) :
वैराग्यम् एव भव किं किम् उ वानुभूतिर्
भक्तिर् नु वा किम् उ रसः परमस् तनूभृत् ।
तात स्तनन्धयतयैव भवन्तम् ईक्षे
लब्धो’धुनापि न कदापि पुनस् त्यजामि ॥२७॥
(इति सोत्कण्ठम् आलिङ्गति ।)
श्री-कृष्ण-चैतन्यः :
भगवति जगन्-मातर् मातः परं फलम् उत्तमं
किम् अपि फलितुं वात्सल्याख्या लता भवति क्षमा ।
भवति भवती विश्वस्यैवानुपाधि-सुवत्सलेत्य्
अथ भगवता नूनं चक्रे क्षमापि शरीरिणी ॥२८॥
(इति पुनः पठति । माता पुनर् आलिङ्ग्य प्रणमति । अद्वैतस् ताम् उत्थाप्य स्वयम् अन्तःपुरे प्रवेशयन् निष्क्रान्तः । भगवान् यथायथं सर्वान् एवालिङ्गन-स्पर्शन-दर्शन-प्रश्नादिभिर् अनुरज्यति ।)
(पुनः सत्वरं प्रविश्य) **अद्वैतः- **कः कोऽत्र भो सर्वान् एवाबालवृद्ध-तरुणान् आचाण्डालांश् च यथोपजोषम् आवास-भक्ष्य-पेयोआदिभिर् उपाचरन्तु भवन्तः ।
(प्रविश्यापटी-क्षेपेण) एकः- अयम् अयम् अहं तथा करोमि । (इति निष्क्रान्तः ।)
**अद्वैतः **(भगवन्तम् उपसृत्य) :
सोऽहं त एते स भवान् स चैषां
प्रेमा तवेयं करुणापि सैव ।
सर्वं तद् एवास्ति सुखैक-हेतुर्
अन्यादृशं रूपम् अतोष-हेतुः ॥२९॥
भगवान्- अद्वैताद्वैत, मैवम् ।
श्यामामृत-स्रोतसि पातितं वपुस्
तस्यैव तुङ्गेन तरङ्ग-रंहसा ।
यां यां दशाम् एति शुभाशुभाथवा
सा सैव मे प्रेम चरीकरोति ॥३०॥
तद् एहि चिर-दृष्टैर् एभिः सह रह उपविशाम ।
(इति निष्क्रान्ताः सर्वे)
इति श्री-श्री-चैतन्य-चन्द्रोदये श्रीमद्-अद्वैत-पुर-विलासो नाम
पञ्चमो’ङ्कः
॥५॥
(६)
षष्ठो’ङ्कः
सार्वभौमानुग्रहः
(ततः प्रविशति रत्नाकरः ।)
**रत्नाकरः : **अहो अद्य कथम् अकस्मात् प्रेयसी सुर-सरिद् विमनस्केव दृष्टा । तद् अस्या मनो-दुःख-कारणं प्रष्टव्यम् अस्ति । (इति पुरो’वलोक्य) कथम् इयं तद्-अवस्थैव दृश्यते देवी ? तद् उपसृत्य पृच्छांइ । (इत्य् उपसर्पति)
(ततः प्रविशति यथा-निर्दिष्टा गङ्गा ।)
गङ्गा : हद्दी हद्दी जस्स पाअ-सेअ-सलिलत्तणेण मह एदारिसं सोहग्गं, तस्स पहुणो चिर-आलं अङ्ग-सङ्गो लम्भिओ । अदो बरो को मे भाअ-धेओ ? तह तं लम्भिअ पुणोबि ण लम्भणिज्जो बिअ दीस{इ} । अदो वरं बा किं मे असुहं ? ता किं करेमि मन्दभाइणी ? [*हा धिक् ! हा धिक् ! यस्य पाद-सेक-सलिलत्वेन ममैतादृशं सौभाग्यं, तस्य प्रभोः चिर-कालम् अङ्ग-सङ्गो लब्धः । अतो’परः को मे भाग-धेयः ? तथा तं लब्ध्वा पुनर् अपि न लम्भनीय इव दृश्यते । अतः परं वा किं मे असुखम् ? तस्मात् किं करोमि मन्द-भागिनी *।] (इति चिन्तयन्ति क्षणं तिष्ठति ।) २
**रत्नाकरः **(उपसृत्य) : भागीरथि ! कथं विमनायसे ?
**गङ्गा : **कहं अज्ज-उत्तो ? अज्ज-उत्त किं पुच्छसि ? मन्द-भाइणी क्खु अहं । [*कहं आर्य-पुत्रः ? आर्य-पुत्र किं पुच्छसि ? मन्द-भागिनी खल्व् अहं *।]
**रत्नाकरः : **भागीरथि ! कथम् इव ?
**गङ्गा **(संस्कृतेन) :
यत् पाद-शौच-जलम् इत्य् अलम् अस्मि विश्व-
विख्यात-कीर्तिर् असकौ रस-कुतुकीशः ।
नित्यावगाह-कलया रसयां चकार
माम् अद्य स त्यजति हा बत तेन दूये ॥१॥ ३
रत्नाकरः : आं जानामि । स खलु मथुरा-गमनतः प्रत्यावृत्य सप्रत्य् अद्वैतालये समागतो’स्तीति श्रुतम् । तं कथं दूयसे ?
**गङ्गा : **होइ एब्बण्णेदं, किन्तु णअद्दीआदो आअदेसु सिरिबास-पहुदिएसु बन्धु-बग्गेसु अण्णस्सिं दिअहे सिरिसईदेईए पाइदं अण्णं सब्बेहिं अप्पबग्गेहिं सह सरस-हास-विलासं भुञ्जिअ तेहिं ज्जेब्ब सद्धं उपबिसिअ भअबं किम्पि गदिदुं प{उ}तो । [भवति एवं न् इदम्, किन्तु नवद्वीपाद् आगतेषु श्रीवास-प्रभृतिकेषु बन्धु-वर्गेषु अन्यस्मिन् दिवसे श्री-शची-देव्या पाचितम् अन्नं सर्वैर् आत्म-वर्गैः सह सरस-हास-विलासं भुक्त्वा तैर् एव सार्धम् उपविश्य भगवान् किम् अपि गदितुं प्रवृत्तः] ४
रत्नाकरः : किं तत् ?
गङ्गा :
भो अद्वैत-प्रभृतय इदं श्रूयतां यज्-जनन्या
युष्माकं च प्रणयि-सुहृदाम् आज्ञया न प्रयातम् ।
विघ्नस् तेन व्यजति मथुरां गन्तुम् ईशे न तस्माद्
आज्ञां सर्वे ददतु कृपया हन्त यायाम् इदानीम् ॥२॥ ५
रत्नाकरः : ततस् ततः ?
**गङ्गा : **तदो अद्दई आचारिएण गदिदं [ततः अद्वैताचार्येण गदितम्]—
तव प्रीत्या याहीत्य् अभिलपति सर्वो यदि जनस्
तदा सर्वस्यैव त्वद्-उपगमनात् पूर्वम् असवः ।
न धिक्कारान् सोढुं बत भवति नः पाटवम् इति
प्रयास्यन्त्य् अवामी प्रथमम् अनुभूय व्यसनिताम् ॥३॥ ६
**रत्नाकरः : **भद्रं भो अद्वैत, भद्रम् । ततस् ततः ?
गङ्गा : तदो भअबदा सप्पणअं पुणोबि भणिदं [ततः भगवता स-प्रणयं पुनर् अपि भणितम्]—भो अद्वैत-प्रभृतयः इति ।
गृहीतो’यं वेशो यद् इह निज-देशस्य सविधे
तदा स्थातुं सार्धं प्रणयिभिर् इदानीम् अनुचितम् ।
बुधा यूयं विज्ञा भवति जननी चास्य वपुषः
समाधां कुर्वन्तु स्वयम् अहह किं वच्मि बहुलम् ॥४॥ ७
**रत्नाकरः : **भगवतापि समीचीनम् उक्तम् । ततस् ततः ?
गङ्गा : तदो सब्बेहिं भअबदो बन्धु-जनेहिं आचारिओ-जणणीए सई-देईए णिअडं गदुअ मन्तिदम् । [ततः सर्वैः भगवतो बन्धु-जनैः आचार्य-जनन्या शची-देव्या निकटं गत्वा मन्त्रितम्] ८
रत्नाकरः : ततस् ततः ?
गङ्गा : अस्सिं अत्थे जदो कस्सबि सम्मई ण होइ तदो जणणीए उत्तम् । भो भो ज{इ} धम्म-दोसो होइ तदो अप्पणो सुहकेअए तस्स खल-अण-किदो किंबदन्ती कधं करणिज्जा ? अप्पणो जह तह होउ । तदा जअण्णाह-छेत्तं ज्जेब जं गच्छदि तं ज्जेब भद्दम् । कदाचि प{उ}त्ती बि लहीअदि त्ति आसा होइ । [अस्मिन् अर्थे यतः कस्यापि सम्मतिर् न भवति ततः जनन्योक्तम् । भो भो यदि धर्म-दोषो भवति ततः आत्मनः सुख-कृते तस्य खल-जन-कृत-किंवदन्ती कथं करणीया ? आत्मनो यथा तथा भवतु । तदा जगन्नाथ-क्षेत्रम् एव यद् गच्छति तद् एव भद्रम् । कदाचित् प्रवृत्तिर् अपि लभ्यते इत्य् आशा भवति ।] ९
रत्नाकरः : साधु मातः ! साधु ! अतिक्रान्तास्ति भवत्या देवहूतिः । ततस् ततः ?
**गङ्गा : **तदो सब्बे ज्जेब बिबसा हुबिअ पुणोबि गदिदबन्तो [ततः सर्व एव विवशा भूत्वा पुनर् अपि गदितवन्तः ।—मातः ! कथम् इदम् उक्तम् ? अतः परम् अस्माभिर् इदं श्रुति-प्रतिपादितम् इव खण्डितुं न शक्यते भवद्-वचः । १०
**रत्नाकरः : **ततस् ततः ?
गङ्गा : तदो तए गदिदम् । अम्हाणां जह तह होउ । अस्स दोसं जं खल-जणो पेक्खिस्सदि तं क्खु दुस्सहं । जअण्णाहं ज{इ} गच्छदि तदो मज्झे मज्झे तुम्हे गन्तुं सक्कध । मए पौत्ती लहीअदि । [ततस् तया गदितम् । अस्माकं यथा तथा भवतु । अस्य दोषं यत् खल-जनः प्रेक्षिष्यति तं खलु दुःसहं । जगन्नाथं यदि गच्छति ततः मध्ये मध्ये यूयं गन्तुं शक्नुथ । मया प्रवृत्तिर् लभ्यते ।] ११
रत्नाकरः : ततस् ततः ?
गङ्गा : तदो सब्बे भअबदो णिअडं आअदुअ देईए कधिदं तह णिअदिदबन्तो । [ततः सर्वे भगवतो निकटं आगत्य देव्या कथितं तथा निगदितवन्तः ।]
रत्नाकरः : ततस् ततः ?
**गङ्गा : **तदो भअबं सहरिसअं गदिदबं [ततः भगवान् सहर्षं गदितवान्]—यथाज्ञापयति विश्व-जननी तद् आज्ञापयत । गच्छामि ।
**रत्नाकरः : **ततस् ततः ?
**गङ्गा : **तदो सब्बेहिं गदिदं [ततः सर्वैः गदितं]—देव ! कियन्ति दिनानि स्थीयताम् । पश्यामस् ते चरण-कमलम् इति । १२
रत्नाकरः : ततस् ततः ?
गङ्गा : तदो जणणीए ताणं च पमोअत्थं तिण्ण-दिणाणि तत्थ ठाऊण पूब्बं बिअ भअबदीए जणणीए अच्चुदाणन्द-जणणीए च पाइदं अण्णं सब्बेहिं सह भुञ्जिअ ताण अणुरञ्जिअ चौत्थे दिअहे गन्तुं पौत्ते सब्बेहिं मन्तिअ णित्ताणन्द-जअदाणन्द-दामोदर-मुउन्दाओ सङ्गे दिण्णाओ । तदो गदेसु णअद्दीअ-बासिसु तेहिं सद्धं देबे पत्थिदे अद्दई-आचारिएण बहुदरं रोइदं । देबो तं अणामन्तिअ चलिदो । [ततो जनन्यास् तेषां च प्रमोदार्थं त्रीणि दिनानि तत्र स्थित्वा पूर्वम् इव भगवत्या जनन्या अच्युतानन्द-जनन्या च पाचितम् अन्नं सर्वैः सह भुक्त्वा तान् अनुरज्य चतुर्थे दिवसे गन्तुं प्रवृत्ते सर्वैः मन्त्रयित्वा नित्यानन्द-जगदानन्द-दामोदर-मुकुन्दाः सङ्गे दत्ताः । ततो गतेषु नवद्वीप-वासिषु तैः सार्धं देवे प्रस्थिते अद्वैताचार्येण बहुतरं रोदितम् । देवस् तं अनामन्त्र्य चलितः ।]१३
रत्नाकरः : हन्त, इदानीं गौडाधिपतेर् यवन-भूपालस्य गजपतिना सह विरोधे गमनागमनम् एव न वर्तते । कथम् अयं चतुर्भिर् एव परिजनैः सह गच्छति ? १४
**गङ्गा (संस्कृतम् आश्रित्य): **आर्य-पुत्र ! नैतद् आश्चर्यम् । पश्य पश्य—
यो’न्तर्यामी भवति जगतां यो’यम् अव्याज-बन्धुर्
यस्य द्वेष्यो न जगति जनः को’पि के तं द्विषन्तु ।
द्वैराज्ये’स्मिन् पटु-विकटयोः सेनयोर् एव मध्यान्
निष्प्रत्यूहं कलय चलितो बन्धुभिः पञ्च-षैः सः ॥५॥ १५
अपि च—
ग्रामे ग्रामे पटुक-पटिनो घट्ट-पाला य एते
ये’रण्यानी-चर-गिरि-चरा बाट-पाटच्-चराश् च ।
शङ्काकाराः पथि विचलतां तं विलोक्यैव साक्षाद्
उद्यद्-बाष्पाः स्खलित-वपुषः क्षोणि-पृष्ठे लुठन्ति ॥६॥ १६
रत्नाकरः : भवति हि भगवान् सहजासुर-भाव-भावितान्तः-करणान् एव नानन्दयति । तद् इतरान् परम-पामरान् अपि दृक्-पातेन पवित्रयति चित्रयति च भक्ति-रसेन । ततस् ततः ?
**गङ्गा **: अह इं ।
रत्नाकरः : ततस् ततः ?
गङ्गा : तदो णिरन्तर-संचरन्त-गअब{इ}-महा-सामन्त-सन्तदि-सन्तणिज्जन्त-दन्ताबल-तुङ्ग-तुरङ्ग-पत्ति-सम्पत्ति-दुग्गमं राअ-पहं उज्झिअ बण-माग्गं ज्जेब अअगाहिअ चलिदबन्तो । [ततो निरन्तर-सञ्चरद्-गजपति-महा-सामन्त-सन्तति-महा-दन्ताबल-तुङ्ग-तुरङ्ग-पत्ति-सम्पत्ति-दुर्गमं राजपथम् उज्झित्वा वन-मार्गम् एवागाह्य चलितवान् ।]१७
रत्नाकरः : ततस् ततः ?
**गङ्गा (संस्कृतेन): **ततः—
आश्चर्यं प्राग् अहह गहनं गाहमाने रघूणां
पत्यौ द्वीपि-द्विरद-महिषा गण्डकाश् चण्ड-कायाः ।
तत्-कोदण्ड-प्रतिभय-हता दुद्रुवुर् ये त एते
यन् माधुर्य-द्रव-लव-लभः स्तब्धताम् एव दध्रुः ॥७॥
एब्बं कियन्ति दिणाणि बणे बणे चलन्तो विविह-तरु-लदा-सोहग्गमणु-गेण्हन्तो पुणोबि राअ-पहं अङ्गीकिदं । [एवं कियन्ति दिनानि वने वने चलन् विविध-तरु-लता-सौभाग्यम् अनुगृह्णन् पुनर् अपि राज-पथम् अङ्गीकृतवान् ।] १८
रत्नाकरः : कुतः ?
**गङ्गा (संस्कृतेन): **
रेमुणा-नगर-मण्डल-मूर्तिर्
वेणु-पाणि-भगवत्-प्रतिमूर्तिः ।
प्राक्तनीति बहुमानत आसीद्
वन्दनार्थम् अथ राज-पथस्थः ॥८॥
रत्नाकरः : प्राक्तनीति को’र्थः ?
गङ्गा **: **अअं क्खु देओ च{उ}ब्भुअरूअदोबि दुअभुअरूओ गोबीणाहं ज्जेब भत्तेहिं भअणीअं त्ति भणन्ति केबि । केबि भणन्ति पूराअणी च{उ}ब्भुअ-मुत्ती पुराअणी च{उ}ब्भौ-मुत्ती ज्जेब्ब दीस{इ} सब्ब-त्थले ज्जेब्ब ण क्खु दुअभुअ-रूआ गोबीणाह-मूत्ती पुराअणी त्ति । [अयं खलु देवश् चतुर्भुउअ-रूपतो’पि द्विभुज-रूपं गोपीनाथम् एव भक्तैर् भननीयम् इति भणन्ति के’पि । के’पि भणन्ति पुरातनी चतुर्भुज-मूर्तिर् एव दृश्यते सर्व-स्थल एव, न खलु द्विभुज-रूपा गोपीनाथ-मूर्तिः पुरातन-नीतिः ।]
रत्नाकरः : ते भ्रान्ताः कटकादौ साक्षि-गोपालादयो’तिप्राचीना एव । ततस् ततः ?
गङ्गा (संस्कृतेन)**: **
दण्डवद् भुवि निपत्य ववन्दे
तां स सापि तम् अपूजयद् उच्चैः ।
अस्य मूर्ध्नि पततालम् अकस्माच्
छेकरेण शिरसः स्खलितेन ॥९॥ २०
रत्नाकरः : ततस् ततह् ?
गङ्गा (संस्कृतेन)**: ** ततो भगवता स-प्रेम किंचिद् उपश्लोकितम् । तथा हि—
न्यञ्चत्-कफोणि-नमद्-अंसम् उदञ्चद्-अग्रं
तिर्यक्-प्रकोष्ठ-कियद्-आवृत-पीन-वक्षाः ।
आरज्यमान-वलयो मुरली-मुखस्य
शोभां विभावयति काम् अपि वाम-बाहुः ॥१०॥
किं च—
आकुञ्चनाकुल-कफोणि-तलादि-बाधो
लब्ध-स्रुता मधुरिमामृत-धारयैव ।
आप्लावयन् क्षिति-तलं मुरली-मुखस्य
लक्ष्मीं विलक्षयति दक्षिण-बाहुर् एषः ॥११॥ २१
रत्नाकरः : ततस् ततह् ?
गङ्गा **: **पुणोबि बण-मग्गं लम्भिअ पुणोबि साच्छि-गोपाल-दंसणत्थं कडअ-णाम-धेयं राअधाणीं गओ । [पुनर् अपि वन-मार्गं लब्ध्वा पुनर् अपि साक्षि-गोपाल-दर्शनार्थं कटक-नाम-धेयं राजधानीं गतः ।]
रत्नाकरः : दर्शनीय एवायम् । यः खलु प्रतिमाकार एव । वस्तुतस् तु स्वयं भगवान्, यतः—
साक्षित्वेन वृतो द्विजेन स चलंस् तस्यैव पश्चाच् छनैः
श्रीमत्-कोमल-पाद-पद्म-युगलेनारान् नदन्-नूपुरम् ।
दृष्टस् तेन विवृत्त-कन्धरम् अथो माहेन्द्र-देशावधि
प्राप्यैव प्रतिमात्वम् अत्वर-मनास् तत्रैव तस्थौ प्रभुः ॥१२॥
ततश् चिरेण गङ्गा-पति-महाराजेन पुरुषोत्तम-देवेनायम् आनीय स्वराज-धान्यां स्थापितः । २२
गङ्गा **: **एबं एदं । [एवम् इदम् ।]
रत्नाकरः : ततस् ततह् ?
गङ्गा **: **तदो तं आलोइअ अप्पणो हिअआदो णिक्कमिअ पुरदो अबट्ठिदं बिअ मण्णमाणो पुणोबि तत्त सअं पबिसन्तो बिअ मुहुत्तं आसि । [ततस् तं आलोक्यात्मनो हृदयान् निष्क्रम्य पुरतो’वस्थितम् इव मन्यमानः पुनर् अपि तत्र स्वयं प्रविशन्न् इव मुहूर्तम् आसीत् ।] (संस्कृतेन) अथ किंचिद् उपश्लोकितं च—
शोणि-स्निग्धाङ्गुलि-दल-कुलं माद्यद्-आभीर-रामा-
वक्षोजानां घुसृण-रचना-भङ्ग-रिङ्गत्-परागम् ।
चिन्-माध्वीकं नख-मणि-महः-पुञ्ज-किञ्जल्क-मालं
जङ्घनालं चरण-कमलं पातु नः पूतनारेः ॥१३॥ २३
रत्नाकरः : ततस् ततह् ?
गङ्गा : तदो सब्बेहिं एब्बं ज्जेब दिट्ठं । [ततः सर्वैर् एवं एव दृष्टम् ।]
रत्नाकरः : कीदृशम् इव ?
गङ्गा (संस्कृतेन)**: **
वेणु-वादन-परो’पि स वेणुं
स्वाधरात् क्षणम् अधो विनिधाय ।
तेन सार्धम् इव वर्धित-शुद्ध-
श्रद्धम् ईहित-कथो’यम् अलोकि ॥१४॥ २४
रत्नाकरः : ततस् ततह् ?
गङ्गा **: **तदो तं दिणं तत्थ ज्जेब ठाऊण अबरस्सिं दिणे सिरि-पुण्डरीअ-णअणो जअण्णाहो दट्ठब्बोत्ति गुरीए उक्कण्ठाए घोणन्त-हिअओ बिअ तुरिअं पत्थिदो । [ततस् तद् दिणं तत्रैव स्थित्वा अपरस्मिन् दिणे श्री-पुण्डरीक-नयनो जगन्नाथः द्रष्टव्य इति गुर्व्या उत्कण्ठया घूर्णित-हृदय इव त्वरितं प्रस्थितः ।]
रत्नाकरः : ततस् ततह् ?
**गङ्गा- **तदो कमल-पुरणामं गामं लम्भिअ किअण{इ}सिणाणे भअबदो देब-उलं पेक्खिदुं अग्गदो गच्छन्तम्मि देबे णिअकरट्ठिअं देबस्स दण्डं णिच्चाणन्ददेएण किं एदेण अआण्डूबप्लव-खण्डेण दण्डेणत्ति भञ्जिअ णईमज्झम्मि णिक्खित्तो । [ततः कमल-पुर-नामानं ग्रामं लब्ध्वा कृत-नदी-स्नाने भगवतो देव-कुलं द्रष्टुं अग्रतो गच्छति देवे निज-कर-स्थितं देवस्य दण्डं नित्यानन्द-देवेन किं एतेन दण्डेन अकाण्डोपप्लव-खण्डेन इति भङ्क्त्वा नदी-मध्ये निक्षिप्तः ।]
रत्नाकरः : ततस् ततः ?
**गङ्गा- **तदो मुउन्दो भअबदो जअण्णाहस्स देव-उलं पेक्खिअ भअबन्तं गदिदबं [ततो मुकुन्दो भगवतो जगन्नाथस्य देव-कुलं दृष्ट्वा भगवन्तं गदितवान्]—देव ! पश्य पश्य—
उत्क्षिप्तः किम् अयं भुवा दिनमणेर् आकर्षणार्थं भुजः
पातालात् किम् उ सत्यलोकम् अयितुं शेषः समभ्युत्थितः ।
किं वा नाग-फणा-मनीन्द्र-महसां राशिर् जिहानो दिवं
दिव्यं देव-कुलं प्रभोर् इदम् इदं भो देव विद्योतते ॥१५॥
रत्नाकरः : देवि, सर्वम् अधिगतम् । कथम् अत्र विमनायते भवती । मत्-सौभाग्ये सौभाग्यवती भवती । पश्य पश्य—
यद्-अर्थं बद्धो’हं शिव शिव यद्-अर्थं च मथितस्
तदीयस् तातो’साव् इति न गणितं येन विभुना ।
अहो कीदृग्-भाग्यं मम हि स हरिस् तां च दयितां
परित्यज्यैवास्मत्-तट-वट-कुटुम्बी समभवन् ॥१६॥
तद् एहि । निकटं गत्वैव पश्याव ।
**गङ्गा : **जह रुइदं अज्ज-उत्तस्स । [यथा रुचितम् आर्य-पुत्रस्य ।]
(इति निष्क्रान्तौ)
प्रवेशकः ॥
(ततः प्रविशति परमाविष्टो भगवान् परितश् च नित्यानन्दादयश् च )
भगवान् :
अभ्रंलिहो’पि जगतां हृदयं प्रविष्टा
स्थूलो’पि लोचन-युगान्तरम् अभ्युपेतः ।
सिद्धः शिलाभिर् अपि यो रस-वर्ष-शाली
प्रासाद एष पुरतः स्फुरतीश्वरस्य ॥१७॥
(इति सोत्कण्ठं परिक्रामति ।)
**सर्वे : **अहो मुहूर्त-मात्र-गम्यो’यं पन्था दीर्घातिदीर्घ इव जायते भगवतः । किम् अत्र चिन्तयामः ? भगवतो नीलाचल-चन्द्रस्य विलोकनं परिचारकाणाम् एव सुलभम् । नान्येषाम् । विशेषतः पारदेशिकानाम् अस्माकं दुर्लभम् एव, विना राज-पुरुष-साहाय्येन सुलभं न भवति ।
मुकुन्दः : अस्त्य् उपायः ।
अन्ये : कस् तावद् असौ ?
मुकुन्दः : अस्त्य् अत्र विशारदस्य जामाता सार्वभौमस्यावृत्तो भगवतः परमाप्ततमो गोपीनाथाचार्यः, यः खलु भगवतो नवद्वीप-विलास-विशेषाभिज्ञो युष्मद्-विध इव ।
अन्ये : तेन किं स्यात् ?
मुकुन्दः : तेन सार्वभौम-द्वारा सर्वम् एव कारयितुं शक्यते ।
**सर्वे **(हर्षं नाटयित्वा) **: **साधूक्तं । तर्हि तन्-निलयः प्रथमम् अन्वेष्टुम् इष्टः । (इति परिक्रामति ।) २९
(ततः प्रविशति गोपीनाथाचार्यः)
गोपीनाथाचार्यः (स्वगतम्):
दक्षिणं स्फुरति मे विलोचनं
सुप्रसाद-विशदं मनो मम ।
वेद्मि नो’द्य जगदीश-दर्शनं
कीदृशं सुखम् उदीरयिष्यति ॥१८॥ ३०
(इति जगन्नाथ-दर्शनार्थं परिक्रामति)
मुकुन्दः : अयम् एव गोपीनाथाचार्यः ।
नित्यानन्दः : मुकुन्द ! शीघ्रं गच्छ गच्छ यावद् असौ सिंह-द्वारं न प्रविशति ।
(मुकुन्दस् तथा करोति)
**गोपीनाथाचार्यः **(स्वगतम्) **: **
दक्षिणं स्फुरति मे विलोचनं
सुप्रसाद-विशदं मनो मम ।
वेद्मि नो’द्य जगदीश-दर्शनं
कीदृशं सुखम् उदीरयिष्यति ॥१८॥
(इति जगन्नाथ-दर्शनार्थं परिक्रामति ।)
मुकुन्दः : अयम् एव गोपीनाथाचार्यः ।
नित्यानन्दः : मुकुन्द ! शीघ्रं गच्छ गच्छ, यावद् असौ सिंह-द्वारं न प्रविशति ।
(मुकुन्दस् तथा करोति ।)
**गोपीनाथाचार्यः **(अग्रतो’वलोक्य) : अये को’यम् ? अपि कश्चिद् गौडीयो भविष्यति । (निभाल्य) अये नावद्वीपः ! (पुनर् निभाल्य) अये भगवतो विश्वम्भरस्य प्रिय-सेवको मुकुन्द एव । फलितं शकुनेन ! (उपसृत्य) हंहो मुकुन्दो’सि ?
**मुकुन्दः : **आचार्य ! वन्दे ।
गोपीनाथाचार्यः : अपि कुशलं भगवतः ?
मुकुन्दः : इहैवागताः श्री-प्रभु-चरणाः ।
**गोपीनाथाचार्यः **(सानन्दं) : किं वदसि क्व क्व ? (इति पुनस् तम् आलिङ्गति ।)
(मुकुन्दस् तम् आदाय प्रत्यावर्तते ।)
**गोपीनाथाचार्यः **(अग्रतो’वलोक्य) : मुकुन्द ! को’यं यतीन्द्रः ?
(मुकुन्दः सर्वं कथयति ।)
**गोपीनाथाचार्यः **(साश्चर्यम्) :
यः केवलं प्रेम-रसस् तदासीत्
स एव वैराग्य-रसेन मिश्रः ।
स्वादस् तथापोष दृशोस् तथैव
चित्तस्य नो’यं मधुराम्ल-रूपः ॥१९॥
**मुकुन्दः **(उपसृत्य) : भो देव ! श्री-जगन्नाथ-देवेनैव भगवन्तम् अभ्यागमयितुं प्रतिनिधिर् एष प्रहितो गोपीनाथाचार्यः । ३२
भगवान् (बहिर् वृत्तिं नाटयन्): क्वासौ क्वासौ ?
गोपीनाथाचार्यः : अयम् अस्मि ।
(इति चरणयोः पतति । भगवान् आलिङ्गति । गोपीनाथाचार्यो नित्यानन्दं प्रणम्य जगदानन्द-दामोदरौ प्रणमति ।)
मुकुन्दः : आचार्य ! कथम् अबाधं यथा-कामम् एव भगवतो जगन्नाथस्य दर्शनं सम्पद्यते ।
गोपीनाथाचार्यः : सार्वभौमस्य तथा सौभाग्योदयश् चेद् भवति ।
सर्वे : तर्हि विज्ञाप्यतां स्वयम् एव देवः ।
गोपीनाथाचार्यः : स्वामिन् ! विना सार्वभौम-भाषणं श्री-जगन्नाथ-दर्शनं न सुलभम् इति मन्यामहे । भगवतो वा कीदृग् इच्छा ?
भगवान् : भवद्-इच्छैव ममेच्छा ।
गोपीनाथाचार्यः : तर्हि फलितं सार्वभौमस्य सुकृत-द्रुमेण । देव, तद् इत इतः पदानि धारयन्तु भगवन्तः ।
**भगवान् : **आदिश मार्गम् ।
गोपीनाथाचार्यः : इत इतः ।
(इति सर्वे परिक्रामन्ति । ततः प्रविशति अध्यापयन् स-शिष्यः सार्वभौम-भट्टाचार्यः ।)
**सार्वभौमः : **कः को’त्र भोः ! जानीत श्री-जगन्नाथस्य मध्याह्न-धूपः संवृत्तो न वेति ।
गोपीनाथाचार्यः : अयम् अयं भट्टाचार्यस्याध्यापनोपरमः संवृत्तः । सम्प्रत्य् अभ्यन्तरं यास्यन्ति । तत् त्वरितम् एवोपसर्पामि । (इति विचार्य) भगवन् ! इहैव क्षणं विश्रमितुम् अर्हति यावद् अहम् आगच्छामि । (इति सत्वरम् उपसृत्य) भट्टाचार्य, को’पि महानुभावः सम्प्राप्तो’स्ति । तद् अभिगम्य समानीयताम् इति ।
**सार्वभौमः : **कियद् दूरे’सौ ?
गोपीनाथाचार्यः : अभ्यर्ण एव ।
(सार्वभौम-भट्टाचार्य उत्थायाभिगच्छति । शिष्याश् चानुगच्छन्ति ।)
नित्यानन्दः : अहो, अयम् अयं भट्टाचार्यः सार्वभौमः । यद् अयं स्वयम् आगतस् तर्हि साधीयान् एव भवति ।
**सार्वभौमः **(उपसृत्य) **: **नमो नारायणाय । (इति प्रणमति ।)
**भगवान् : **कृष्णे रतिः कृष्णे मतिः ।
**सार्वभौमः **(स्वगतम्) **: **अहो, अपूर्वम् इदम् आशंसनम् । तर्ह्य् अयं पूर्वाश्रमे वैष्णवो वा भविष्यति ।
(शिष्याः स्मयन्ते ।)
**सार्वभौमः : **स्वामिन्, इतः । (इति भगवन्तम् आदाय यथा-स्थानम् उपवेश्य स्वयम् अप्य् उपविशति । सर्वे उपवेशं नाटयन्ति ।)
**सार्वभौमः : **आचार्य, अयं पूर्वाश्रमे गौडीयो वा ?
**गोपीनाथाचार्यः : **भट्टाचार्य ! पूर्वाश्रमे नवद्वीप-वर्तिनो नीलाम्बर-चक्रवर्तिनो दौहित्रो जगन्नाथ-मिश्र-पुरन्दरस्य तनुजः ।
**सार्वभौमः **(स-स्नेहादरम्) **: **अहो, नीलाम्बर-चक्रवर्तिनो हि मत्-तात-सतीर्थाः । मिश्र-पुरन्दरश् च मत्-तात-पादानाम् अतिमान्यः ।
गोपीनाथाचार्यः : श्री-जगन्नाथ-दर्शन-सौलभ्यम् एषाम् उद्देश्यम् अस्ति ।
**सार्वभौमः : **सर्वथैव तद् भावि । कः को’त्र भोः ! आहूयतां चन्दनेश्वरः ।
(प्रविश्य सत्वरं चन्दनेश्वरो भगवन्तं प्रणम्य पितरं प्रणमति ।)
**सार्वभौमः : **चन्दनेश्वर! श्रीपादस्यानुपदं गच्छ ।
चन्दनेश्वरः : यथाज्ञापयन्ति श्री-चरणाः ।
**सार्वभौमः : **स्वामिन्, अत्र स्थीयताम् ।
(भगवान् नित्यानन्दादिभिः सह चन्दनेश्वरम् आदाय निष्क्रान्तः ।)
**सार्वभौमः : **आचार्य, स्थीयताम् ।
(गोपीनाथाचार्यो’र्ध-निष्क्रान्त एव मुकुन्दं हस्तेनाकृष्य प्रत्यावृत्योपविशति ।)
**सार्वभौमः : **आचार्य, अमुम् आलोक्य स्नेह-शोक-तारल्यं जातम् । नीलाम्बर-चक्रवर्ति-सम्बन्धाद् अयम् अतीव स्नेहास्पदं नः । अल्पीयसि वयसि तुरीयाश्रमो गृहीतः कथम् अनेन । कस् तावद् अस्य महा-वाक्योपदेष्टा ।
गोपीनाथाचार्यः : केशव-भारती ।
**सार्वभौमः : **हन्त ! कथम् अयं भारती-सम्प्रदाये प्रवर्तितवान् वा ?
गोपीनाथाचार्यः : नास्य तथा बाह्यापेक्षा । केवलं त्याग एवादरः ।
**सार्वभौमः : **किं तावद् बाह्यम् ?
गोपीनाथाचार्यः : सम्प्रदायोत्कर्षादि ।
**सार्वभौमः : **समीचीनं नोच्यते । आश्रमौज्ज्वल्यं न बाह्यम् ।
गोपीनाथाचार्यः : केवलं गौरवायेति बाह्यम् एतत् ।
**सार्वभौमः : **गौरवेण किम् अपराद्धम् । तन्-मयैवं भण्यते भद्रतर-साम्प्रदायिक-भिक्षोः पुनर् योग-पट्टं ग्राहयित्वा वेदान्त-श्रवणेनायं संस्करणीयः ।
**गोपीनाथाचार्यः **(सासूयम् इव) : भट्टाचार्य, न ज्ञायते’स्य महिमा भवद्भिः । मया तु यद् यद् दृष्टम् अस्ति तेनानुमितम् अयम् ईश्वर एवेति ।
**मुकुन्दः **(स्वगतम्) : साधु भो आचार्य साधु ! दग्धं मे जीवितं निर्वापितम् अस्ति भवता ।
**शिष्याः : **केन प्रमाणेनेश्वरो’यम् इति ज्ञातं भवता ?
गोपीनाथाचार्यः : भगवद्-अनुग्रह-जन्य-ज्ञान-विशेषेण ह्य् अलौकिकेन प्रमाणेन । भगवत्-तत्त्वं लौकिकेन प्रमाणेन प्रमातुं न शक्यते अलौकिकत्वात् ।
शिष्याः : नायं शास्त्रार्थः । अनुमानेन न कथम् ईश्वरः साध्यते ।
गोपीनाथाचार्यः : ईश्वरस् तेन साध्यतां नामा । न खलु तत् तत्त्वं साधयितुं शक्यते । तत् तु तद्-अनुग्रह-जन्य-ज्ञानेनैव तस्य प्रमाकरणत्वात् ।
शिष्याः : न दृष्टं तस्य प्रमा-करणत्वम् ।
गोपीनाथाचार्यः : पुराण-वाक्य एव ।
शिष्याः : पठ्यताम् ।
गोपीनाथाचार्यः :
अथापि ते देव पदाम्बुज-द्वय-
प्रसाद-लेशानुगृहीत एव हि । \
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन् ॥ [भा.पु. १०.१४.२९] इति शास्त्रादि-वर्त्मसु ।
शिष्याः : तर्हि शास्त्रैः किं तद्-अनुग्रहो न भवति ?
गोपीनाथाचार्यः : अथ किम् । कथम् अन्यथा विचिन्वन्न् इत्य् उक्तम् ?
**शिष्याः **(विहस्य) : तत् कथम् एतावन्ति दिनानि वृथैव भवता पठितम् ?
गोपीनाथाचार्यः : शिल्प-विशेष एव तत् ।
**सार्वभौमः **(विहस्य) **: **भवति तद्-अनुग्रहो’स्ति जातः । तत् तत्त्वं तु भवता ज्ञायत एव किंचित् कथ्यताम् ।
गोपीनाथाचार्यः : तत्-कथा-विषयो न भवति । अनुभव-वेद्यम् एव भवति चेद् अस्यानुग्रहस् त्वयि तदा भवतैवानुभाव्यम् ।
**शिष्याः **(स्वगतं) : कथम् अयम् असाध्वसम् एवानेन सह व्यधिकरणं किंचिज् जल्पति । अथवा आवुत्तो’यम् इति किञ्चित् परिहसतीव ।
गोपीनाथाचार्यः : भट्टाचार्य, भवता यद् एनम् ईश्वरम् उद्दिश्य किञ्चिद् व्यधिकरणम् उक्तम् । तेनासहिष्णुतया किञ्चिन् मयोक्तम् । न तावद् अतिगभीरैर् भवद्भिर् एवम् अभिलषितुं युज्यते । अथवा नैष वा दोषः ।
यच्-छक्तयो वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति ।
कुर्वन्ति चैषां मुहुर् आत्म-मोहं
तस्मै नमो ऽनन्त-गुणाय भूम्ने ॥ [भा.पु. ६.४.३१]
**सार्वभौमः **(विहस्य) **: **ज्ञातं, वैष्णवो’सि ।
**गोपीनाथाचार्यः **(स-प्रश्रयम्) : यद्य् अस्य कृपा स्यात् तदा त्वम् अपि भविष्यसि ।
**सार्वभौमः : **अलं पल्लवेन । भवान् गच्छतु भगवद्-दर्शनानन्तरं मातृ-स्वसुर् आवासे । तवेश्वरः स-गणो वास्यतां मन्-नाम्ना भगवत्-प्रसादेन निमन्त्रयितव्यश् च ।
गोपीनाथाचार्यः : यथाज्ञापयसि ।
**सार्वभौमः : **तद् अहम् अपि माध्यन्दिन-कर्मणे प्रयामि । (इति स-शिष्यो निष्क्रान्तः ।)
गोपीनाथाचार्यः : मुकुन्द, एह्य् एहि । (इति परिक्रम्य) भो मुकुन्द ! भट्टाचार्य-वाग्-वर्जम् अद्यापि मे हृदयं कृन्तति । यदि परम-कारुणिकेन भगवता तद् उद्ध्रियते तदैव मे मनो निर्वाति ।
**मुकुन्दः : **किम् अशक्यं तस्य भगवतः ?
गोपीनाथाचार्यः : तद् एहि, श्री-जगन्नाथ-दर्शनार्थं प्रयातं भगवन्तम् अनुसराव । (इति निष्क्रामतः ।)
नेपथ्ये : अहो अद्भुतम् ।
तुङ्ग-भृङ्ग-युव-सङ्गत-फुल्लत्-
पुण्डरीक-वर-लोचन-लक्ष्मि ।
हिङ्गुल-स्नपित-शुक्ल-चतुर्थी-
शीत-दीधिति-कला-धर-बिम्बम् ॥२२॥
अपि च,
चारु-कारुणिक-मारु-चिराङ्गं
ब्रह्म-दारु-मयम् एतद् उदेति ।
आहतो’स्य रुचि-कन्दल-वृन्दैर्
इन्द्रनील-मणि-दर्पण-दर्पः ॥२३॥
गोपीनाथाचार्यः : अये ! श्री-मुख-दर्शनं जातम् इव यद् अमी नित्यानन्दादयो मिथो वर्णयन्ति ।
**पुनस् तत्रैव नेपाथ्ये- **
अन्योन्येक्षण-राग-रञ्जिततया द्वौ निर्निमेषेक्षणौ
राजेते जगतः पती उभयतो निस्पन्द-सर्वाङ्गकौ ।
दारु-ब्रह्मणि लीयते किम् उ नर-ब्रह्मैतद् आहो नर-
ब्रह्मण्य् एव हि लीयते शिव शिव ब्रह्मैव वा दारवम् ॥२४॥
गोपीनाथाचार्यः : भद्रं भोः भद्रम् ! एक एव भगवान् आस्वाद्यास्वादक-भावेन द्विधाभूत इव ।
पुनस् तत्रैव :
द्वाव् एव पूर्ण-करुणौ जगद्-उद्दिधीर्षू
द्वाव् एव लोचन-पथं जगतो जिहानौ ।
अन्तः-स्थ-नन्दतनयो’न्तर-वर्ति-दारु-
ब्रह्मेति केवलम् इयन् उभयोर् हि भेदः ॥२५॥
गोपीनाथाचार्यः : साधु भोः नित्यानन्द-देव, साधु ! तत्त्वज्ञो’सि भगवतो गौरचन्द्रस्य । तन् मन्ये भगवद्-दर्शनं कृत्वा प्रत्यावर्तन्त एव सर्वे । तद् आवाम् अपि भगवन्तं श्री-जगन्नाथं दृष्ट्वा त्वरितम् एव पुनर् एताव् अनुसराव । (इति निष्क्रान्तौ ।)
(ततः प्रविशति पुण्डरीकाक्ष-दर्शनानन्द-निःस्यन्दो भगवान् नित्यानन्दादयश् चन्दनेश्वरश् च ।)
चन्दनेश्वरः : हंहो महान्तः ! सम्पन्नं यथा-सुखम् एव भवतां भगवद्-दर्शनम् ।
नित्यानन्दादयः : यथा-मनोरथम् एव सुसम्पन्नम् ।
**चन्दनेश्वरः **(स्वगतं) : अहो कथम् असौ विलम्बते गोपीनाथाचार्यः । किम् इदानीम् अहं करोमि । न किम् अपि निगदितं तात-चरणैः । मन्ये तस्मै एव सर्वं कथितम् अस्ति । तत् कथम् अयम् अद्यापि नायातः । (इति परितो’वलोकयति ।)
(ततः प्रविशति त्वरां नाटयन् मुकुन्देन सहाचार्यः ।)
गोपीनाथाचार्यः : एहि मुकुन्द, एते’मी गच्छन्ति । तद् उभयम् एव संवृत्तम् । नीलाचल-चन्द्रो’पि दृष्टः । हेमाचल-गौरो’पि दृश्यते । (इति सत्वरम् उपसृत्य) चन्दनेश्वर, त्वम् इतो गृहं गच्छ । अतः परं मयैव सर्वं समाधास्यते ।
चन्दनेश्वरः : यथाह भवान् । (इति भगवन्तं प्रणम्य निष्क्रान्तः ।)
(गोपीनाथाचार्य उपसृत्य देवं प्रणमति ।)
**भगवान् **(बहिर् वृत्तिं नाटयित्वा) : एह्य् एहि । (इति तम् आलिङ्गति ।)
गोपीनाथाचार्यः : देव ! भट्टाचार्येण सानुचर एव निमन्त्रितो’सि । तद् इत एवागच्छन्तु । (इति पूर्वोद्धिष्टावासं प्रापय्य भगवतः पाद-धावनादिकं दन्त-धावनावसानं सकलम् एव परिचरणं कृत्वा भिक्षोत्तरं सुख-निविष्टे सति तस्मिन् स-वैमनस्यम् ।) देव, भट्टाचार्येणान्यद् अपि निमन्त्रितम् अस्ति ।
भगवान् : किं तत् ?
**गोपीनाथाचार्यः : **साम्प्रदायिक-सन्न्यासिनः सकाशाद् योग-पट्टं ग्राहयित्वा वेदान्तं श्रावयिष्यति ।
भगवान् : अनुगृहीतो’स्मि तेन । भवतु । एवं करिष्यामि ।
मुकुन्दः : देव, आचार्येण तद्-अवधि तेन वाक्-स्फुलिङ्ग-निकरेण दन्दह्यमान-हृदयेन स्थीयते । महा-प्रसादो’पि नाद्य स्वीकृतो’स्ति ।
भगवान् : आचार्य ! बालको’स्मि । यद् अयं मां प्रति स्निह्यति तेनैवेदम् अवादीत् । कथम् अस्त्र दूयसे ?
**गोपीनाथाचार्यः : **भगवन् ! श्री-चरणैर् इदं मे शल्यं हृदयाद् उद्ध्रियते चेत् तदा जीवितं धारयिष्ये । (इति रोदिति ।)
भगवान् : पुण्डरीकाक्षस् ते मनोरथं पूरयिष्यति । दामोदर, भगवतायं निमन्त्र्यताम् ।
दामोदरः : यथाज्ञापयसि । (इति तम् आदाय निष्क्रामति ।)
भगवान् : जगदानन्दः, भगवतः पुण्डरीकाक्षस्य रजनी-शेष-शयनोत्थापन-लीला यथा दृश्यते तथा यतनीयम् ।
(प्रविश्याचार्येण सह) **दामोदरः : **भगवन् ! यथाज्ञम् । महा-प्रसादेन भोजितो’यम् अत्रैव शिशयिषुर् अस्ति ।
भगवान् : साधु साधु । (इति सर्वे प्रिय-सङ्कथया मुहूर्तान् गमयन्ति ।)
(नेपथ्ये पाणि-शङ्ख-ध्वनिः ।)
**सर्वे **(सचमत्कारम्) : अहो, याम् अशेषेव त्रियामा । यद् अयम् ।
पूर्देव्याः शयनोत्थिताव् इव चलत्-सर्वाङ्ग-भूषा-क्वणः
किं वा देव-कुलस्य वारण-पतेर् उद्बृंहितं बृंहितम् ।
आयातेति कृपानिधेः किम् उ कृपा-देव्या जगत्-पाणिनाम्
आह्वान-ध्वनिर् अभ्य्पैति मधुरः श्री-पाणि-शङ्ख-ध्वनिः ॥२६॥
**भगवान् : **तद् अहो, अवितथम् एव गतेयं रजनी । आचार्य एहि । सहैव पुण्डरीकाक्षस्य शयनोत्थानावकाशं पश्याम ।
गोपीनाथाचार्यः : यथाज्ञापयसि । (इति तत्-समयोचितं कर्म कर्तुं निष्क्रान्तः ।)
(प्रविश्य सत्वरः) कश्चित् : कः को’त्र भोः ! गोपीनाथाचार्यः क्व वर्तते ? वृत्तं तज् जानासि । (आकाशे लक्ष्यं बद्ध्वा) किं ब्रवीषि—आचार्यः श्री-कृष्ण-चैतन्य-देवस्य निकटे इति । भवतु, तत्रैव यामि । (इति कतिचित् पदानि गत्वा पुरो’वलोक्य) अहो अयम् एष आचार्यो भविष्यति । (इत्य् उपसर्पति ।)
(ततः प्रविशत्य् आचार्यः ।)
गोपीनाथाचार्यः : अहो, जात-प्रायो’यं समयः शयनोत्थानस्य । तद् अहं त्वरयामि भगवन्तम् ।
पुरुषः (उपसृत्य)** :** आचार्य, भट्टाचार्यो विज्ञापयति श्री-कृष्ण-चैतन्य-देवो यथा भगवतो जगन्नाथ-देवस्य शय्योत्थानं पश्यति तथा त्वयैव सङ्गे कृत्वा यतनीयम् ।
गोपीनाथाचार्यः : यथाज्ञं करवाणि । (इति श्री-कृष्ण-चैतन्य-देवं त्वरयितुम् उपसर्पति ।)
(ततः प्रविशति सानुचरो देवः) देवः : मुकुन्द, विलोक्यतां को विलम्ब आचार्यस्य ।
**गोपीनाथाचार्यः : **एषो’हं भगवन्तं प्रतीक्षमाणो वर्ते ।
भगवान् : तद्-अग्रे गम्यताम् ।
**गोपीनाथाचार्यः **(तथा कृत्वा) : भगवन्, इत इतः । (इति प्रवेशं नाटयित्वा जगन्-मोहनम् आसाद्य) देव, पश्य—
तत्-कालीन-कवाट-वाट-निविडोद्भाटे विन्ष्क्रामता
गर्भागार-गरिष्ठ-सौरभ-भरेणामोदम् अभ्युद्वमन् ।
निद्रा-भङ्ग-भृतालसो मुखम् इव व्यादाय शेषे निशो
जृम्भारम्भम् इवातनोति स इमं प्रासाद एष प्रभोः ॥२७॥
अपि च । देव, आश्चर्यम् आश्चर्यम् ।
दोषाभाव-घनान्धकार-गहने गम्भीर-गम्भीरिका
कुक्षौ तल्पत उत्थितस्य जयतो लक्षमीपतेर् लोचने ।
कालिन्दी-सलिलोदरे विजयिनी वातेन घूर्णायिते
प्रोन्मत्त-भ्रमरावलीढ-जठरे सत्-पुण्डरीके इव ॥२८॥
(भगवान् गरुड-स्तम्भस्य पश्चाद् अवस्थाय स-स्पृहं पश्यति ।)
मुकुन्दः : आचार्य, पश्य पश्य—
क्षणात् प्रदीपावलयः समन्ताद्
गम्भीरिकायाः कुहरे ज्वलन्त्यः ।
विलोचनोत्सारिभिर् अस्र-पूरैर्
न्यग्-भूत-भासो लिखिता इवासन् ॥२९॥
**गोपीनाथाचार्यः : **पश्य पश्य—
अनुवदन-प्रक्षालनम्
अभ्यङ्ग-स्नान-भूषणाद्यम् अथ ।
अनुबाल-भोग-लीला
हरि-वल्लभ-भोग एष तत्-पश्चात् ॥३०॥
दृश्यताम् अधुना प्रातर् धूपाख्यः पूजा-विशेषः ।
(भगवान् आनन्द-स्तिमित एव सपुलकास्रं पश्यत्य् एव ।)
**गोपीनाथाचार्यः : **भो भो जगदानन्दादयः ! पश्यत पश्यत । प्रातर्-धूपस्य प्रसादान्नं कियद्-अञ्जलौ कृत्वा कश्चिन् मालां च करयोः क्र्ट्वा कश्चिद् युगपद् एव समागच्छतः । किम् एतौ महाप्रभवे श्री-कृष्ण-चैतन्याय दास्यतः । केन वा प्रेरिताव् एतौ । अथ वा श्री-जगन्नाथेनैव ।
(प्रविश्य पार्षदौ श्री-कृष्ण-चैतन्यम् उपसर्पतः । भगवान् उपसृत्य मूर्धानम् अवनमयति । एको मालां प्रयच्छति । भगवान् बहिर्वासो’ञ्चलं प्रसारयति । अपरः प्रसादान्नं प्रयच्छति । भगवान् अञ्चले कृत्वा श्री-जगन्नाथं प्रणम्यैव सिंहवत् त्वरित-गतिर् निष्क्रान्तः ।)
सर्वे : अहो, किम् इदम् ? कथम् अकस्माद् एव देवो निष्क्रान्तः ? तद् आगच्छन्त । क्वायं गच्छति विलोकयाम । (इति पुरान् निष्क्रम्य कतिचित् पदानि गत्वा पुरतो विलोक्य) अहो, भगवान् स्वआवास-वर्त्म त्यक्तवान् ।
गोपीनाथाचार्यः (निभाल्य): अये दामोदरादयः ! सार्वभौमालयं प्रति देवः प्रस्थितवान् ।
उभौ : यथा-रुचितं भवते । (इति निष्क्रान्तौ ।)
गोपीनाथाचार्यः : एहि मुकुन्द, सार्वभौमस्य द्वितीय-कक्षायां तिष्ठाव । (इति तथा कृत्वा पुरो’वलोक्य) अये, एतौ सार्वभौम-भृत्यौ स-विस्मयम् इत एवोपसर्पतः । तद् अपवार्य तिष्ठाव ।
(इति द्वारोपान्ते तिष्ठतः । ततः प्रविशतो भृत्यौ ।)
एकः : अले ! एसे सण्णासी कंपि मोहणमन्तं जाणादि । जदो भट्टाचालिए इमिणा गहग्गत्थे बिअ किदे । [अरे ! एष सन्न्यासी कम् अपि मोहन-मन्त्रं जानाति । यतो भट्टाचार्यो’नेन ग्रह-ग्रस्थ इव कृतः ।]
अन्यः : अले कीलिसे किदे ? [अरे, कीदृशः कृतः ?]
प्रथमः : अले, ण जाणासि ? सेज्जाए अणुत्थिदे ज्जेब भट्टाचालिए एसे अ अह्मादो सअणघर-दुआले गदे । तदो बहुएण कहिअम्—भट्टाचालिअ भट्टाचालिअ ! उत्थेहि उत्थेहि । से सण्णासी आअदो त्ति । तदो धस्मसिअ भट्टाचालिए उत्थिअ इमस्स चलणे पडिए । तदो इमिणा जहण्णाहस्स पसाअभत्तं हत्थे ददुअ भुङ्क्ष्व त्ति गदिदवन्तो । तदो अह्माणं ईसले उम्मत्ते बिअ अकिअ-विचाले तक्खण-मेत्तेण तं भत्तं गिलिअवन्ते अकिद-सिणाणे ज्जेब अकिअं-मुह-पक्खालणे ज्जेब । गिलिऊण उम्मत्ते बिअ कण्ट{इ}द-सअलङ्गे णअण-जल-त्थिमिद-वसणे घग्घल-कण्ठ-सद्दे अवह्माल-लोअ-विवसे बिअ भविअ मही-दले लण्ठदि । किं हुबिस्सदि ण आणेह्म ।
[अरे, न जानासि ? शय्यातो’नुत्थिते एव भट्टाचार्ये सति एषो’कस्माच् छयन-गृह-द्वारे गतः । ततो बटुकेन कथितम्—भट्टाचार्य भट्टाचार्य ! उत्तिष्ठ उत्तिष्ठ ! स सन्न्यासी आगत इति । ततो धस्मसिति शब्दं कृत्वा भट्टाचार्य उत्थाय अस्य चरणे पतितः । ततो’नेन जगन्नाथस्य प्रसाद-भक्तं हस्ते कृत्वा भुङ्क्ष्वेति गदितवान् । तदा अस्माकम् ईश उन्मत्त इव अकृत-विचारस् तत्-क्षण-मात्रेण तद्-भक्तं गिलितवान् अकृत-स्नान एव अकृत-मुख-प्रक्षालन एव गिलित्वा उन्मत्त इव कण्टकित-सर्वाङ्गो नयन-जल-स्तिमित-वसनो घर्घर-कण्ठ-शब्दो’पस्मार-रोग-विवश इव भूत्वा मही-तले लुठति । किं भविष्यति न जानीमः ।]
**गोपीनाथाचार्यः **(आकर्ण्य) : मुकुन्द, श्रुतम् ।
मुकुन्दः : तवानुतापेनैव देवेनेदम् अध्यवसितम् ।
भृत्यौ : आअच्छ ! अहो गोपीणाहाचालिअं मग्गेम । [*आगच्छ, अहो गोपीनाथाचार्यं मार्गयाव *।] (इति निष्क्रान्तौ ।)
गोपीनाथाचार्यः : भद्रं भोः भद्रम् ! यदाभ्याम् अहं न दृष्टः, तद् इतः स्थित्वा दामोदर-जगदानन्दौ प्रतिपालयाव । (इति तथा कुरुतः ।)
(ततः प्रविशति विस्मयं नाटयन् दामोदरः ।)
दामोदरः :
विना वारीं बद्धो वन-मद-करीन्द्रो भगवता
विना सेकं स्वेषां शमित इव हृत्-ताप-दहनः ।
यदृच्छा-योगेन व्यरचि यद् इदं पण्डित-पतेः
कठोरं वज्राद् अप्य् अमृतम् इव चेतो’स्य सरसम् ॥३१॥
**गोपीनाथाचार्यः **(उपसृत्य) : दामोदर, किं तत् ?
दामोदरः : अस्ति रहस्यम् । कथयिष्यामः । किन्तु मया भवद्-अर्थम् इत आगतम् । द्वारान्तरेण निष्क्रम्य लब्धावासं भगवन्तम् अनुसराम ।
(इति त्रयः कतिचित् पदानि परिक्रामन्ति ।)
(**दामोदरः- **विना वारीं इत्य् आदि पठित्वा सर्वम् एव कथयति ।)
**गोपीनाथाचार्यः **: श्रुतम् एव सर्वं मिथः कथयतोस् तद् भृत्ययोः प्रमुखतः ।
**दामोदरः : **तवैव प्रसादाद् इदं तस्य सौभाग्यम् । तद् एहि शीघ्रम् । भगवत्-समीपम् अनुसराम । यद् अयं भट्टाचार्यो’पि कृताह्निकस् तत्रागत-प्राय एव इदानीम् अस्याशयो गम्यः । तद् इदानीं वाक्-प्रयोग एव नाभूत् । (इति परिक्रामन्ति ।)
(ततः प्रविशति कृतासन-परिग्रहो भगवान् नित्यानन्दो जगदानन्दश् च ।)
भगवान् : जगदानन्द ! क्वासौ गोपीनाथाचार्यः ?
जगदानन्दः : अयम् अयं दामोदर-मुकुन्दाभ्यां त्वरमाण आचार्यः ।
**गोपीनाथाचार्यः **(उपसृत्य) : जयति जयति परम-कारुणिकः !
जगदानन्दः : अहो, कथम् अयम् अश्रुत-पूर्वस् ते व्याहार-विलासः ।
गोपीनाथाचार्यः : स खलु भगवताम् एव वेद्यः । (इत्य् उपसृत्य प्रणमति ।)
नेपथ्ये : स्वामिन् ! नायं पन्थाः श्री-जगन्नाथालयोपसर्पणाय ।
**भगवान् **(आकर्ण्य) : ज्ञायताम् आचार्य ! किम् एतत् ?
**गोपीनाथाचार्यः **(नेपथ्याभिमुखम् अवलोक्य) **: **ज्ञातं ज्ञातम् । अयम् अयं भट्टाचार्यः श्री-जगन्नाथम् अदृष्ट्वैव भगवच्-चरणोपसर्पणार्थम् आगच्छति ।
**दामोदरः : **पुरैव ज्ञातम् अस्ति ।
(इति सर्वे तन्-मुखम् ईक्षमाणास् तिष्ठन्ति ।
ततः प्रविशति विस्मयोत्फुल्ल-मनाः सार्वभौमः ।)
**सार्वभौमः **(स्वगतम्) **: **अहो, अवितथम् एवाह गोपीनाथाचार्यः । अस्माकम् अपि चेतो यदीदृशम् अजनि तद् अयम् ईश्वर एव । (इति सोत्कण्ठं परिक्रम्य ।) अहो, इदम् अस्मन्-मातृ-ष्वसुः पुरम् । तद् यावत् प्रविशामि । (इति प्रवेशं नाटयति ।)
(आचार्य उत्थायाभिगच्छति ।)
**सार्वभौमः **(अग्रे’वलोक्य) **: **आचार्य, किं कुर्वन्ति स्वामिनः ।
**आचार्यः : **इत इत आगच्छन्तु भवन्तः ।
**सार्वभौमः **(उपसृत्य भगवन्तं दण्डवत् प्रणम्याञ्जलिं बद्ध्वा) **: **
नाना-लीला-रस-वशतया कुर्वतो लोक-लीलां
साक्षात्कारे’पि च भगवतो नैव तत्-तत्त्व-बोधः ।
ज्ञातुं शक्नोत्य् अहह न पुमान् दर्शनात् स्पर्श-रत्नं
यावत् स्पर्शाज् जनयतितरां लोह-मात्रं न हेम ॥३२॥
अपि च—
स्वजन-हृदय-सद्मा नाथ पद्माधिनाथो
भुवि चरसि यतीन्द्र-च्छद्मना पद्मनाभः ।
कथम् इह पशु-कल्पास् त्वाम् अनल्पानुभावं
प्रकटम् अनुभवामो हन्त वामो विधिर् नः ॥३३॥
**भगवान् **(कर्णौ पिधाय) : भट्टाचार्य, भवद्-वात्सल्य-पात्रम् एवास्मि । तत् किम् इदम् उच्यते । (स्वगतम्) अहो, इदानीम् अस्याशयः परीक्षणीयः । (प्रकाशम्) हंहो महाशय निरुच्यतां कस् तावच् छास्त्रार्थः ।
**भट्टाचार्यः **(अञ्जलिं बद्ध्वा) **: **भगवन् !
शास्त्रं नाना-मतम् अपि तथा कल्पितं स्व-स्व-रुच्या
नो चेत् तेषां कथम् इव मिथः खण्डने पण्डितत्वम् ।
तत्रोद्देश्यं किम् अपि परमं भक्ति-योगो मुरारेर्
निष्कामो यः स हि भगवतो’नुग्रहेणैव लभ्यः ॥३४॥
अपि च—
वेदाः पुराणानि च भारतं च
तन्त्राणि मन्त्रा अपि सर्व एव ।
ब्रह्मैव वस्तु प्रतिपादयन्ति
तत्त्वे’स्य बिभ्राम्यति सर्व एव ॥३५॥
यतः—
यस्मिन् बृहत्-तत्त्वाद् अथ बृंहणत्वान्
मुख्यार्थवत्त्वे सविशेषतायाम् ।
ये निर्विशेषत्वम् उदीरयन्ति
ते नैव तत् साधयितुं समर्थाः ॥३६॥
तथा हि हायशीर्ष-पञ्चरात्रे—
या या श्रुतिर् जल्पति निर्विशेषं
सा साभिधत्ते स-विशेषम् एव ।
विचार-योगे सति हन्तु तासां
प्रायो बलीयः स-विशेषम् एव ॥३७॥
तथा हि—आनन्दाद् ध्य् एव खल्व् इमानि भूतानि जायन्ते । आनन्देनैव जातानि जीवन्ति । आनन्दं प्रयन्त्य् अभिसंविशन्ति इत्य् आदि-कथा श्रुत्या अपादान-करण-कर्मादि-कारकत्वेन विशेषवत्त्वापतेः । एवं—यतो वा इमानि भूतानि जायन्ते इत्य् आदि कथा, स ऐक्षत इत्य् आदौ, सो’कामयत इत्य् आदौ च, ईक्षणं पर्यालोचनम्, कामः सङ्कल्पः इत्य् आभ्याम् अपि विशेषवत्त्वान् न तावन् निर्विशेषत्वम् उपपन्नं भवति । आयाते च विशेषे रूपस्यापि विशेषाद् आयातत्वम् । न तु तद्-रूपं प्राकृतं ज्योतिश्चरणाभिधानाद् इति । ज्योतिषो’प्राकृतत्वं यथा साध्यते तथा तस्य रूपस्यापीति । केवल-निर्विशेषत्वे शून्यवादावसरः प्रसज्येत । तेन ब्रह्म-शब्दो मुख्य एव मुख्यत्वेन भगवान् ब्रह्मेत्य् अवशिष्टम् । तथा हि—
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा.पु. १.२.११]
स्व-पक्ष-रक्षण-ग्रह-ग्रहिलास् तु मुख्यार्थाभावाभावे’पि लक्षणया निरूपयितुम् अशक्यम् अपि निर्विशेषत्वं ये प्रतिपादयन्ति, तेषां दुराग्रह-मात्रम् । वस्तुतस् तु—
आनन्दो द्विविधः प्रोक्ता मूर्तामूर्त-प्रभेदतः ।
अमूर्तस्याश्र्यो मूर्तो मूर्तानन्दो’च्युतो मतः ॥
अमूर्तः परमात्मा च ज्ञान-रूपश् च निर्गुणः ।
स्व-स्वरूपश् च कूटस्थो ब्रह्म चेति सतां मतम् ॥
अमूर्त-मूर्तयोर् भेदो नास्ति तत्त्व-विचारतः ।
भेदस् तु कल्पितो वेदैर् मणि-तत्-तेजसोर् इव ॥ इति हायशीर्ष-पञ्चरात्रम् ।
तथा कपिल-पञ्चरात्रे’पि अगस्त्यं प्रति कपिल-वाक्यम्—
द्वे ब्रह्मणी तु विज्ञेये मूर्तं चामूर्तम् एव च ।
मूर्तामूर्त-स्वरूपो’यं ध्येयो नारायणो विभुः ॥ इति ।
पञ्चरात्र-त्रिक-मतम् एव निर्मत्सरम् । केवलं निर्विशेष-ब्रह्मवादिनस् तु अमूर्तानन्दम् एव ब्रह्मेति निरूपयन्तः स्व-वासना-पारुष्यम् एव प्रकटयन्ति, न तु ते निविशेषत्वं स्थापयितुं शक्नुवन्ति ।
पाञ्चरात्रिक-मत-स्वीकारे तु आनन्दं ब्रह्मणो रूपं [छा.उ. ६.२.१], एकम् एवाद्वितीयं ब्रह्म इत्य् आदि च सिध्यति रूपवत्त्वेन मूर्तत्वम्, मणि-तत्-तेजसाव् इव इत्य् उक्तेनाद्वितीयत्वम् । तेन भगवान् एव ब्रह्मेति सर्व-शास्त्र-मतम् । वासना-वैशिष्ट्याद् एव मूर्तानन्दे भगवति लीला-विग्रहम् इति मन्वाना अमूर्तानन्दम् एव ब्रह्मेति केचिद् आहुः । पाञ्चरात्रिकास् त्व् अविगीत-शिष्टाः । भगवद्-उपासकत्वात् । तेन तद्-आचरितेनैव वेदार्था अनुमीयन्ते । तथा च—
शाखाः सहस्र-निगम-द्रुमस्य
प्रत्यक्ष-सिद्धो न समग्र एषः ।
पुराण-वाक्यैर् अविगीत-शिष्टा-
चारैश् च तस्यावयवो’नुमेयः ॥४२॥
तत्र पुराण-वचनानि । यथा—यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् [भा.पु. १०.१४.३१] इत्य् आदि । पूर्णं रूपत्वेन । निर्विशेषं तु ब्रह्म अपूर्णम् । नीरूपम् इत्य् अर्थः । शिष्टास् तु सात्त्वताः । तेषां मतम्—वासुदेव-परा देवता वासुदेव-परात् परमात्मनः सङ्कर्षणो जीवः इत्य् आदि । जीवयति जीवं करोतीति जीवः, न तु स्वयं जीवः । स चात्मा—शब्द-ब्रह्म पर-ब्रह्म ममोभे शाश्वती तनू [भा.पु. ६.१६.५१] इति तद्-उक्तेः । तस्माद् एव जीव-सृष्टिर् इत्य् अर्थः । अतो मूर्तानन्द एव कृष्ण इति शास्त्रार्थः ।
भगवान् : साधु साधु । तद् इदानीं पुण्डरीकाक्ष-दर्शनाय साधय ।
भट्टाचार्यः- यथाज्ञापयति देवः । (इति दामोदर-जगदानन्दौ गृहीत्वा निष्क्रान्तः ।)
मुकुन्दः : कथम् अयम् एतौ गृहीत्वा गतः ?
गोपीनाथाचार्यः : अस्ति निगूढम् । किन्तु देव । स एवायं भट्टाचार्यः ।
**भगवान् : **महाभागवतस्य भवतः सङ्गाद् अन्यथैव जातः ।
**गोपीनाथाचार्यः **(विहस्य): एवम् एव । ७३
(ततः प्रविशतो’पटीक्षेपेण दामोदर-जगदानन्दौ ।)
**दामोदर-जगदानन्दौ- **देव ! भट्टाचार्येण पद्य-द्वयं भैक्ष्यम् अन्नं च भगवज्-जगन्नाथ-भुक्तावशिष्टं प्रहितम् अस्ति ।
भगवान् : अनुगृहीतो’स्मि ।
मुकुन्दः : पद्य-द्वयं पश्यामि । (इति तत्-करात् पत्रिकाम् आदाय स्वगतं वाचयति ।)
वैराग्य-विद्या-निज-भक्ति-योग-
शिक्षार्थम् एकः पुरुषः पुराणः ।
श्री-कृष्ण-चैतन्य-शरीर-धारी
कृपाम्बुधिर् यस् तम् अहं प्रपद्ये ॥४३॥
कालान् नष्टं भक्ति-योगं निजं यः
प्रादुष्कर्तुं कृष्ण-चैतन्य-नामा ।
आविर्भूतस् तस्य पदारविन्दे
गाढं गाढं लीयते चित्त-भृङ्गः* ॥*४४॥
(इति वाचयित्वा भित्तौ विलिख्य देव-हस्ते ददाति । भगवान् आलोक्य विदारयति ।)
गोपीनाथाचार्यः : देव मध्याह्नो जातः । तद् उत्तर-करणीयाय सज्जीभवन्तु श्री-चरणाः ।
सर्वे : एवम् एव । (इति निष्क्रान्ताः ।) ७४
इति सार्वभौमानुग्रहो नाम षष्ठो’ङ्कः
॥६॥
(७)
सप्तमो’ङ्कः
तीर्थाटनः
(ततः प्रविशति सार्वभौमः ।)
**सार्वभौमः : **अहो, कथम् अद्यासमय एव गजपतिना समाहूतो’स्मि । तद् उचितम् उपसर्पितुम् । (इत्य् उपसर्पति ।)
(ततः प्रविशति राजा, अभितश् च परिवारः ।)
**राजा : **कः को’त्र भोः ? समाहूयतां भट्टाचार्यः ।
(उपसृत्य) **भट्टाचार्यः : **एषो’हम् अनाह्वानेनैवागतः ।
**राजा **(प्रणम्य) : इदम् आसनम् । आस्यताम् । (भट्टाचार्य आशिषं प्रयुज्यासनम् अध्यास्ते ।) भट्टाचार्य, श्रुतं मया को’पि महा-प्रभावः परम-कारुणिको यतीन्द्रः सम्प्रति गौडाद् आगतो’स्ति ।
**भट्टाचार्यः : **अथ किम् ।
राजा : कथं मया तस्य चरण-वन्दनं क्रियते ।
**भट्टाचार्यः : **इदं त्व् अतिदुर्घटम् । विरल-प्रचाराणां तेषां निष्किञ्चनेनैव दर्शनं लभ्यते । तत्रापि दिन-कतिपयान्य् अद्य दक्षिणस्यां दिशि चलिताः सन्ति ।
राजा : किम् इति जगन्नाथ-महाप्रभोः समीपं विहाय चलितवन्तः ?
**भट्टाचार्यः : **तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदा-भृता [भा.पु. १.१३.१०] इति सामान्यानाम् एव महताम् अयं निसर्गः । अयं तु भगवान् एव स्वयम् ।
**राजा (स-विस्मयम्): **भट्टाचार्य ! भवन्तश् चेद् इदं ब्रुवन्ति तत् सत्यम् एवैतत् । तदा किम् इति यत्न-पुरःसरं भवतात्र नारक्षि ?
**भट्टाचार्यः : **महाराज !
ब्रह्मादयो लोक-पाला यद्-भ्रू-भङ्ग-तरङ्गिणः ।
विना स्व-करुणा-देवीं पारतन्त्र्यं न सो’र्हति ॥१॥
तथापि,
कति न विहितं स्तोत्रं काकुः कतीह न कल्पिता
कति न रचितं प्राण-त्यागादिकं भय-दर्शनम् ।
कति न रुदितं धृत्वा पादौ तथापि स जग्मिवान्
प्रकृति-महतां तुल्यौ स्याताम् अनुग्रह-निग्रहौ ॥२॥
**राजा **(सोत्कण्ठम्) **: **पुनर् अत्रागमिष्यन्ति ?
**भट्टाचार्यः : **अथ किम् । सङ्गिनस् त्व् अत्र वर्तन्ते ।
**राजा : **कथम् एकाकी चलितः ?
**भट्टाचार्यः : **तादृशः कथम् एकाकी ? तथापि मया समीचीना विप्राः सङ्गे नियुक्ताः सन्ति ।
**राजा : **कियद् दूरं तावत् ?
**भट्टाचार्यः : **गोदावरीं यावत् ते यास्यन्ति । भगवांस् तु सेतुबन्ध-पर्यन्तं गमिष्यतीत्य् अनुमीयते ।
**राजा : **ब्राह्मणास् तावद् दूरं किम् उ न प्रेषिताः ?
**भट्टाचार्यः : **तस्याननुमतेः । गोदावरी-पर्यन्तं तु रामानन्दानुरोधात् तेषां सङ्गो’ङ्गीकृतः ।
**राजा : **कस् तावत् तस्यानुरोधः ?
**भट्टाचार्यः : **गन्तव्यम् इति निश्चये कृते मयोक्तं गोदावरी-तीरे रामानन्दो वर्तते । सो’वश्यम् एवानुग्राह्यः ।
**राजा : **कथं तस्येदं सौभाग्यम् ?
**भट्टाचार्यः : **महाराज ! स खलु सहज-वैष्णवो भवति । पूर्वम् अयम् अस्माकम् उपहास-पात्रम् आसीत् । सम्प्रति भगवद्-अनुग्रहे जाते तन्-महिमज्ञता नो जाता ।
**राजा : **श्रुतो’स्ति मया त्वयि यादृईचस् तस्यानुग्रहो जातः ।
**भट्टाचार्यः : **भगवत्-प्रभावो हि स्वतः-प्रकाशी ।
(प्रविश्य) दौवारिकः : भट्टाचार्य ! भवत्-प्रेषिता विप्रा गोदावरीतो निवर्तिता भवन्तं प्रतीक्षन्ते ।
**भट्टाचार्यः : **उत्कण्ठते राजा । प्रवेश्यन्ताम् इहैव ।
दौवारिकः- यथाज्ञापयसि । (इति पुनस् तान् आदाय प्रविशति ।)
**भट्टाचार्यः : **अहो आगच्छतागच्छत ।
(विप्रा उपसृत्य राजानम् आशीर्भिर् अभ्यर्च्य सार्वभौमं प्रणमन्ति ।)
**राजा : **उपविश्यामूलं कथयत । (सर्वे उपविशन्ति ।)
**भट्टाचार्यः : **एकतम एव कथयतु ।
**एकः : **इतस् तावद् आलालनाथ-देवम् अवलोक्य स्तुत्वा महा-मत्त-करीन्द्रवद् अनईकुश-कुशल-गति-कुशलस् त्वरया रयातिशयिअर् अप्य् अस्माभिर् अनुगन्तुं दुःशकऊ शकलम् इव सुमेरोर् औदीच्येन प्रबलतर-मरुता विभज्य चलितं निरवधि भगवन्-नाम-सङ्कीर्तन-विकस्वर-पर-भागाधरीकृत-धाराधर-धोरणि-धीर-ध्वनिर् अध्वनि बतैक-मनो’भिवीक्ष्यमाणो जनैर् लघीयसा कालेनैव कूर्म-क्षेत्रम् उत्तीर्णवान् ।
**सार्वभौमः : **एतद् अभ्यन्तरे भिक्षा नाभूत् ?
**विप्रः : **नाभूद् एव ।
**भट्टाचार्यः : **भवद्भिः किं कृतम् ?
**विप्रः : **अस्माभिस् तु यथा-लाभं किञ्चिद् अशित्वा दृश्यमान एवायम् अनुगम्यते । ततस् तत्रैव कूर्म-क्षेत्रे कूर्म-देवं प्रणम्य स्तुत्वा कूर्म-नाम्नो द्विज-वरस्य गृहम् उत्तीर्णवान् । समनन्तरं तेनैव निमन्त्रितः कृत-भिक्षश् च यद् अन्यत् कृतवान्, तद् अत्यद्भुतम् ।
**भट्टाचार्यः : **किं तत् ?
विप्रः : तत्रैव कश्चिद् वासुदेव-नामा विप्रो गलत्-कुष्ठः कुष्ठ-कृमि-निकर-करम्बित-बहल-रुधिर-रसा-पूज-क्लिन्न-सर्वाङ्गः कदाचित् पनीपत्यमानान् कृमीन् उत्थाप्य तत्रैव निवेशयन्न् अनुद्विग्ने भगवन्-मग्न-मना इव केनाप्य् अकथितो’पि स्वयम् एव भगवताप्रापि । अनतरम् अविलम्बेनैव चिर-काल-लब्ध-परम-सुहृद् इव गाढतरम् आयताभ्यां भुजाभ्याम् अयं तथाविध एव पर्यरम्भि । समनतरं तेन विप्रेण—
क्वाहं दरिद्रः पापीयान्
क्व कृष्णः श्री-निकेतनः ।
ब्रह्म-बन्धुर् इति स्माहं
बाहुभ्यां परिरम्भितः ॥३॥ (भा.पु. १०.८१.१६)
इति पठन्न् एव सद्यो’तिद्योति-प्रकृति-सुन्दराङ्गः समजनि । तद् अनु पुनस् तेनोक्तम्—भगवन् ! कथम् अयम् ईदृशो मे निग्रहः कृतः ? तथाविधेन मया आमयाविना विना दुःखं निरुद्वेगेन स्थितम् । सम्प्रति सम्प्रतिपद्यमान-मानतया सर्वा एव मनो-वृत्तय उत्तिष्ठेयुः । भगवतोक्तम्—ब्रह्मन् ! न पुनस् ते भगवद्-अनुस्मरणम् अन्तरेण मनसो बाह्य-व्यापारा भविष्यन्ति । तद् अलम् उद्वेगेनेति ।
राजा : भट्टाचार्य ! सत्यम् एवायम् ईश्वरः । अन्यतेदृक्-करुणा जीवस्य न घटते कुष्ठ-हारित्वं तु योगीन्द्रस्यापि सङ्गच्छते ।
**सार्वभौमः **: ततस् ततः ?
**विप्रः : **ततश् च नृसिंह-क्षेत्रम् उपगम्यागम्यानुभावो भगवन्तं नृसिंहं दृष्ट्वा स्तुत्वा प्रणम्य प्रक्षिणीकृत्य प्रतस्थे ।
काञ्चनाचल-मरीचि-वीचिभिर्
गौरयन् किम् अपि दक्षिणां दिशम् ।
दर्शनेन करुणा-तरङ्गिणा
द्रावयन् जन-मनांसि सर्वतः ॥४॥
अपि च,
कृष्ण कृष्ण जय कृष्ण कृष्ण हे
कृष्ण कृष्ण जय कृष्ण कृष्ण हे ।
कृष्ण कृष्ण जय कृष्ण कृष्ण हे
कृष्ण कृष्ण जय कृष्ण पाहि नः ॥५॥
इत्थम् अम्बुद-विकस्वर-स्वर-
स्निग्ध-मुग्ध-वचनामृत-द्रवैः ।
ह्लादयन् श्रुतिमतां श्रुति-द्वयं
चित्तम् अप्य् अपहरन् स जग्मिवान् ॥६॥
**सार्वभौमः **: सत्यम् एवात्थ । तस्यैवम् एव प्रकृतिः ।
**विप्रः : **ततो गोदावरी-तीरम् आसाद्य विहित-विश्रामे जगज्-जन-मनो’भिरामे विहित-विश्रामे जगज्-जन-मोहनो’भिरामे निरुपम-कृपारामे प्रेम-सौभगवति कनक-केतकोपवन इव परिमलामोदित-दिग्-वलये सकल-गुण-निलये स्वयं प्रकाशिकया तत्-प्रथया को’यं को’यम् इति कृत-समूहः समूहः क्षौणि-सुराणां तत्र मिलितवान् निमन्त्रितश् च केनापि समनतरम् अनन्त-रहस्ये सर्वतः सञ्चरति जन-चय-श्रवण-कान्ते तद्-उदन्ते मन्त्राकृष्ट इव ग्रह-गृहीत इव विस्मय-चमत्कार-विकार-विसंष्ठुल इव रामानन्द-रायः समुपेयिवान् । ११
राजा : रामानन्द ! धन्यो’सि धन्यो’सि । यस्य ते नयन-विषयीभूतास् ते चरणाः ।
विप्रः : समनन्तरम् आगत्यैव चरण-कमल-परिसरे स वेवीयमानाश्रु निपतति स्म स्वयम् एव । अये त्वम् एव रामानन्दो’सीति भगवतो सानुग्रहम् उक्ते अथ किम् इति च प्रत्यूचे । तद् अनुय् भगवतापि सार्वभौमानुरोधेन भवद्-आलोकनम् अभीष्टं ममेति मयात्र क्षणम् अवस्थितम् । तत् सुविहितम् एव विहितं भवता, यत् स्वयम् एव समुपसेदे । तद् उच्यतां किञ्चिद् इत्य् अभाणि । ततो यद्यपि रामानन्दो हि को’यं किं-नामा किं-महिमा किम्-आशयः किं-तत्त्व इति किम् अपि भगवद्-विषयक-ज्ञान-विशेषानभिज्ञस् तथापि चिर-काल-कलित-सतत-सख्य-सुख-सुभगम्भावुको भावुक इव निःसाध्वस एव किम् अपि पठितुम् उपचक्रमे—
मनो यदि न निर्जितं किम् अमुना तपस्यादिना
कथं स मनसो जयो यदि न चिन्त्यते माधवः ।
किम् अस्य च विचिन्तनं यदि न हन्त चेतो-द्रवः
स वा कथम् अहो भवेद् यदि न वासना-क्षालनम् ॥७॥ १२
भगवान्- बाह्यम् एतत् । का विद्या ?
**रामानन्दः- **हरि-भक्तिर् एव, न पुनर् वेदादि-निष्णातता ।
**भगवान्- **कीर्तिः का ?
**रामानन्दः- **भगवत्-परो’यम् इति या ख्यातिर् न दानादिजा ।
**भगवान्- **का श्रीः?
**रामानन्दः- **तत्-प्रियता न वै धन-जन-ग्रामादि-भूयिष्ठता ।
**भगवान्- **किं दुःखम् ?
**रामानन्दः- **भगवत्-प्रियस्य विरहो नो हृद्-व्रणादि-व्यथा ।
भगवान्- भद्रम् । के मुक्ताः ?
**रामानन्दः- **
प्रयासत्तिर् हरि-चरणयोः सानुरागे न रागे
प्रीतिः प्रेमातिशयिनि हरेर् भक्ति-योगे न योगे ।
आस्था तस्य प्रणय-रभसस्योपदेहे न देहे
येषां ते हि प्रकृति-सरसा हन्त मुक्ता न मुक्ताः ॥९॥
भगवान् : भवतु ।
किं गेयं ? *व्रज-केलि-कर्म *किम् इह श्रेयः ? *सतां सङ्गतिः*
किं स्मर्तव्यम् ? *अघारि-नाम *किम् अनुध्येयं ? *मुरारेः पदम् *।
क्व स्थेयम् ? *व्रज एव *किं श्रवणयोर् आनन्दि ? *वृन्दावन-*
*क्रीडैका *किम् उपास्यम् ? *अत्र महसी श्री-कृष्ण-राधाभिधे *॥१०॥
भगवान्- भद्रम् । उच्यताम् उच्यताम् ।
रामानन्दः- (स्व-गतम्) इतः परं किं वक्तव्यम् ? प्रश्नानुरूपम् उदितम् एव । अधुना यद् वक्तव्यं तेनास्य सुखं भवति न वेति न जानामि । (इति क्षणम् अभिचिन्त्य प्रकाशम्)—
निर्वाण-निम्ब-फलम् एव रसानभिज्ञाश्
चुषन्तु नाम रस-तत्त्व-विदो वयं तु ।
श्यामामृतं मदन-मन्थर-गोप-रामा-
नेत्राञ्जली-चुलुकितावसितं पिबामः ॥११॥ १४
**भगवान्- **पुनर् अन्यद् उच्यताम् । समानर्थकम् एतत् ।
रामानन्दः- इतः परं प्रतिपाद्यम् एव नास्ति । किम् अन्यद् वक्तव्यम् ? (इतः मनसि विचार्य प्रकाशम्)—
लीढान् एव पथश् चकोर-युवती-यूथेन याः कुर्वते
सद्यः स्पाटिकयन्ति रत्न-घटितां याः पाद-पीठावलीम् ।
याः प्रक्षालित-मृष्टयोर् जल-लव-प्रस्यन्द-शङ्काकृतस्
ताः कृष्णस्य पदाब्जयोर् नख-मणि-ज्योत्स्नाश् चिरं पान्तु वः ॥१२॥
**भगवान्- ** काव्यम् एवैतत् । पुनर् उच्यतम् ।
रामानन्दः- (क्षणं विचिन्त्य)—
श्री-वत्सस्य च कौस्तुभस्य च रमा-देव्याश् च गर्हाकरो
राधा-पाद-सरोज-यावक-रसो वक्षः-स्थल-स्थो हरेः ।
बालार्क-द्युति-मण्डलीव तिमिरैश् छदेन वन्दीकृता
कालिन्द्याः पयसीव पीव-विकचं शोणोत्पलं पातु नः ॥१३॥
**भगवान्- **इदम् अपि तथा ।
रामानन्दः- (चरणौ धृत्वा)–
सखि न स रमणो नाहं रमणीति भिदावयोर् आस्ते ।
प्रेम-रसेनोभय-मन इव मदनो निष्पिपेष बलात् ॥१४॥
अथवा,
अहं कान्ता कान्तास् त्वम् इति न तदानीं मतिर् अभून्
मनो-वृत्तिर् लुप्ता त्वम् अहम् इति नौ धीर् अपि हता ।
भवान् भर्ता भार्याहम् इति यद् इदानीं व्यवसितिस्
तथापि प्राणानां स्थितिर् इति विचित्रं किम् अपरम् ॥१५॥
**सार्वभौमः : **ततो भगवता किम् उदितम् ?
विप्रः : तदा यद् अवलोकितं तद् आकलय—
धृत-क्षण इव भोगी गारुडीयस्य गानं
तद्-उदितम् अतिरत्याकर्णयन् सावधानम् ।
व्यधिकरणतया वानन्द-वैवश्यतो वा
प्रभुर् अथ कर-पद्मेनास्याप्य् अधत्त ॥१६॥
**राजा : **भट्टाचार्य ! को’यं सन्दर्भः ?
**भगवान् : **महाराज ! निरुपाधि हि प्रेम कथञ्चिद् अप्य् उपाधिं न सहत इति पूर्वार्धे भगवतोः कृष्ण-राधयोर् अनुपधि-प्रेम श्रुत्वा तद् एव पुरुषार्थीकृतम् । भगवतो मुख-पिधानं चास्य तद्-रहस्यत्व-प्रकाशकम् ।
विप्रः : तदा चिकुर-कलापं द्विधा कृत्वा तेनैव तच्-चरण-युगं वेष्टयित्वा निपत्य गदितम्—
महा-रसिक-शेखरः सरस-नाट्य-लीला-गुरुः
स एव हृदयेश्वरस् त्वम् असि मे किम् उ त्वां स्तुमः ।
तवैतद् अपि साहजं विविध-भूमिकास्वीकृतिर्
न तेन यति-भूमिका भवति नो’तिविस्मापनी ॥१७॥
(इति चिरं चरण-कमलं धृत्वा रुदन्न् आसीत् । मध्ये मध्ये किञ्चिद् गदति च ।
आकस्मिको न विधिना निधिर् अभ्यनायि
भग्नः किम् इन्दुर् अमृतस्य यद् एष पातः ।
आनन्द-भूरुह-फलं सुविपच्-चरीणं
दृष्टं यद् एव तव देव पदारविन्दम् ॥१८॥
भगवन्, यथैवाद्य मया स्वप्ने दृष्टं तथैव साक्षाद् अपि । (इति पुनर् अपि पादौ धृत्वा रोदिति । भगवान् गाढं परिष्वजते ।) अतः परं निमन्त्रयित्वा, विप्र-वरेण समागत्य, देव अपराह्णो जातः इत्य् उक्तो भगवान् माध्यन्दिन-कर्मणे चलितवान् । वयम् अपि तच्-चरणारविन्दं प्रणम्य तद् अहर् एव प्रत्याजिगमिषवः स्मः ।
**सार्वभौमः : **तद् अधुना विश्राम्यतां भवद्भिः ।
**विप्रः : **यथाज्ञापयति भवान् ।
(राजा पारितोषिकं ददाति । विप्राः सादरम् आदाय निष्क्रान्ताः । ततः प्रविशति दौवारिकः ।)
दौवारिकः : देव ! कर्णाट-पतिना महाराजेन प्रेषितम् उपायनम् आदाय तद्-अमात्यो मल्ल-भट्ट-नामा पण्डित-राजो द्वारम् अध्यस्ते ।
**सार्वभौमः : **ज्ञायते’सौ महा-पण्डितो भवति ।
**राजा : **प्रवेश्यताम् ।
**दौवारिकः : **यथाज्ञापयति देवः । (इति निष्क्रम्य तम् आदाय प्रविशति ।)
**सार्वभौमः : **आगच्छन्तु भट्टाः । (इत्य् उत्थानं नाटयति ।)
(राजानम् आशीर्भिर् अभ्यर्च्य) मल्ल-भट्टः : भट्टाचार्य ! किम् इदं क्रियते ? नाहं तवाभ्युत्थानीयः । अथवा—
सदैव तुङ्गः किल काञ्चनाचलः
सदैव गम्भीरतमाः पयोधराः ।
सदैव धीरा विनयैक-भूषणा
लक्ष्मीः प्रकृत्यैव जनैः समीयते ॥१९॥
राजा : इदम् आसनम् ।
**मल्ल-भट्टः **: यथाज्ञाम् उपविशामि । (इत्य् उपविशति ।)
**राजा : **अपि कुशलं कर्णाट-पतेः ।
मल्ल-भट्टः : यस्य भवद्-विधाः सुहृदस् तस्य सततम् एव तत् । किन्तु साम्प्रतम् अधिकम् अपि ।
**राजा : **कीदृशं तत् ?
**मल्ल-भट्टः : **महाराज !
एतस्माज् जन-पदतः सतीर्थ-यात्रा-
व्याजेन द्रुत-कनक-द्युतिर् यतीन्द्रः ।
को’प्य् एको यद्-अवधि हन्त दक्षिणाशात्
सम्प्राप्तस् तद्-अवधि सो’पि निर्वृतात्मा ॥२०॥
**सार्वभौमः **(सोत्कण्ठम्) **: **भट्टाः ! कथयन्तु कथयन्तु ।
**राजा : **कथम् इव ?
**मल्ल-भट्टः : **यथोत्तरम् एव दक्षिणस्यां दिशि कियन्तः कर्म-निष्ठाः कतिचिद् एव ज्ञान-निष्ठाः, विकला एव सात्वताः, प्रचुरतराः पाशुपताः प्रचुरतमाः पाषण्डिनः । तेन तेषाम् अन्योन्य-वाद-विसंष्ठुलानाम् उच्चावच-निर्वचन-चातुर्य-धूर्याणां प्रसङ्गेन प्रायशः बहुलोद्वेग एव नो महीपालः । २१
**राजा : **ततस् ततः ?
मल्ल-भट्टः : तत आकस्मिक-प्रवेश-मात्रेणैव तस्य यति-पतेर् दिशि विदिशि सानन्द-चमत्कारं समूढेष्व् आबाल-वृद्ध-तरुणेषु लोकेषु दिदृक्षयोपनतेषु च पण्डित-मण्डलेष्व् अपि परम-नयन-सुभगया वपुर्-लक्ष्म्यैव प्रकटीकृतं महिमानम् अनुभूय विनोपदेशेनापि कर्ह्य् एव स्याम इति तत्-काल-समुदितर-वासना-विशेषेण जात-पुलकाश्रवः, सर्व एव स्व-स्व-मत-प्रच्यावेन तत्-पथ-प्रविष्टा बभूवुः । तस्य परस्पराश्रवणेन लब्ध-परमानन्दो’स्मन्-नर-लोक-पालस् तद्-विशेष-चरितम् अवगन्तुं गूढ-वेशेन ब्राह्मणान् प्रहित्य यावत् सेतुबन्धं ततः प्रत्यागमनावधि च तस्यालौकिक-चरित-चमत्कारं तत्-तन्-मुखाद् अनुभवन् भव-दव-दहन-ज्वालाम् एव विस्मृतवान् । २२
**राजा : **अमात्य, धन्यो’सौ युष्मदीयो महीपालः ।
**सार्वभौमः : **किं किं श्रुतं, किञ्चित् कथ्यताम् ।
**राजा : **अमात्य, कथ्यताम् ।
मल्ल-भट्टः : एकस्मिन्न् अहनि निज-सुधावेशेन विगलद्-विलोचन-जल-सकल-धौत-कल-धौत-शरीरं रोमाञ्च-सञ्चयेन मुकुलाकुलायमान-कदम्ब-भूरुहाकारं भग्नवन् नाम-सङ्कीर्तन-सगद्गद-स्वराम् स्वरंहसा स्वानन्द-वैवश्येन वर्त्म-परिचयाभावतो’पि यथा-वर्त्मैव चलन्तं भगवन्त्म् आलोक्य पाषण्डिनो—वैष्णवो’यं भवति भिक्षुर् भगवत्-प्रसाद-नाम्नैवेदं ग्रहीष्यति, तद् एतन् नमेनम् आशयामः इति श्व-भोजन-योग्यम् अशुचितरम् अन्नं स्थाल्यां निधाय पुरतो गत्वा—स्वामिन् ! भगवत्-प्रसादम् इमं गृहाण इति श्रावयित्वा समुचिरे’चिरेण । भगवान् सर्वज्ञो’पि भगवत्-प्रसाद-नाम्ना तत्-त्यागम् असहमान एव पाणौ गृहीत्वा तत्-सहितम् एव पाणिम् उद्यम्य चलितवान् । समनन्तरम् एव महता केनापि विहगेन चञ्चु-पुटे कृत्वा तद्-अन्नं भगवत्-कर-तलतः समादाय उड्डीनम् । २३
**सार्वभौमः : **अहो मोहस्य महिमैषाम् ।
यन् मायया मूढ-धियो भ्रमन्ति भुवनेश्वराः ।
तम् अपीह भ्रमयितुं क्षुद्राणाम् अयम् उद्यमः ॥२०॥
मल्ल-भट्टः : अन्ये-द्युर् अन्यत्र कुत्रापि ब्राह्मण-गृहे यदृच्छयोपगतस् तं ब्राह्मणं केवलं राम राम रामेति नाम-मात्र-जप-परायणं दृष्ट्वा गतवान् । प्रत्यागमन-समये पुनस् तम् आलोकयितुं तत्रैव समुत्तीर्णस् तम् एव कृष्ण कृष्ण कृष्णेत्य् एवं जपन्तं दृष्ट्वा पृष्टवान्—ब्राह्मण ! कथं गमन-समये राम राम रामेत्य् एवं जपन् भवान् आलोकि, अधुना कृष्ण कृष्ण कृष्णेत्य् एवं जपन्न् आलोक्यते । तत् कथयास्य तत्त्वम् इति । तदा स ऊचे—भगवन् ! तवैव प्रभावो’यं यतः शैशवावधि राम-नाम-मात्र-जप-परायणो’हं भगवद्-दर्शन-मात्रेण कृष्ण कृष्ण कृष्णेत्य् एव मे वदनान् निःसरति । बलाद् अप्य् अहम् एतन् निवरयितुं न शक्नोमीति तवैव दर्शन-दोषो’यं, न मम इति । २५
**राजा : **भट्टाचार्य, को’त्र सन्दर्भः ?
**भट्टाचार्यः : ** महाराज ! यद्यपि समानार्थम् उभयम् एव,
रमन्ते योगिनो’नन्ते सत्य् आनन्द-चिद्-आत्मनि ।
इति राम-पदेनासौ परं ब्रह्माभिधीयते ॥२२॥
यथा—
कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥२३॥
इति पर-ब्रह्मार्थत्वं समानम् एव, तथापि रतिमतां राम इत्य् उक्ते रघुनाथ-स्फूर्तिः । कृष्ण इत्य् उक्ते व्रज-राज-कुमार-स्फूर्तिर् इति । श्री-कृष्ण-चैतन्य-देवस्य कृष्णात्मकत्वात् तद्-दर्शने कृष्ण-स्फूर्तिर् एव स्फुरतीति रहस्यम् । अपि च—
सहस्र-नामभिस् तुल्यं राम-नाम वरानन ॥२४॥
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥२५॥
इति राम-नामतः कृष्ण-नाम श्रेयः । २६
मल्ल-भट्टः : सत्यम् एतत् । अस्माभिर् अपि भूपालस्य सदसीदम् एव निरणायि । एवं दक्षिणस्यां दिशि ये ये विष्णु-भक्तास् ते किल रघुनाथ-भक्ति-द्वारैव वन-वासे पञ्च-बट्यादिषु रघुनाथ-चरित-चारु-स्थल-दर्शनात् तत्रैवानुरक्तिस् तेषां स्वाभाविकी । सम्प्रति यतीन्द्रम् एनम् एवालोक्य कृष्ण-पक्ष-पाता एव बभूवुः । एवं क्वचन स्थले कम् अपि ब्राह्मणम् अतिमूर्खतया शब्दार्थावबोध-विरहेण शुद्धि-वर्जित-भगवद्-गीतां पठन्तं प्रायशः सर्वैर् एव विहस्यमानम् अथ च यावत्-पाठं तावद् एव पुलकाश्रु-विवशं विलोक्य—अहो अयम् उत्तमो’धिकारीति भगवांस् तम् अवादीत्—ब्राह्मण ! यत् पठ्यते तस्य को’र्थः ? इति । स प्रत्यूचे—स्वामिन् नाहम् अर्थं कम् अपि वेद्मि, अपि तु पार्थ-रथस्थं तोत्रपाणिं तमाल-श्यामं श्री-कृष्णं यावत् पठामि, तावद् एव विलोकयामि इति तदा भगवतोक्तम्—उत्तमो’धिकारी भवान् गीता-पाठस्य इति ताम् आलिलिङ्ग । तद्-अनुभव-सुखम् अनुभूय स खलु गीता-पाठ-जाताद् आनन्दाद् अपि प्रचुरतरम् आनन्दम् आसाद्य—स्वामिन् ! स एव त्वम् इति भूमौ निपत्य प्रणमन्न् अतिशय-विह्वलो बभूव । २७
**सार्वभौमः : **उचितम् एवास्य तथा ज्ञानम् । निरन्तर-भगवत्-स्फूर्ति-निर्मल-हृदयत्वेन यथार्थ-स्फूर्तिर् एव भवति ।
**मल्ल-भट्टः : **एवम् एवास्मत्-भूपाल-सदसि विचारितम् अस्ति । एवम् अनन्तैव विचित्रा कथा तैस् तैर् गूढ-चरैः पुरुषैः कथिता कति कथनीया भवति ?
**सार्वभौमः : **एवम् एतत् ।
**राजा (सोत्कण्ठम्): **हन्त, कदा भगवान् वीक्षितव्यः ? २८
नेपथ्ये : हन्त ! वीक्षण-समयो’यम् । तद् अलं विलम्बेन ।
राजा (स-हर्षम्) : भट्टाचार्य ! यथायं यथा-प्रस्तावम् एव जगन्नाथ-दर्शन-समयं प्रस्तौति, तथा मन्ये श्री-कृष्ण-चैतन्यो’प्य् आगत-प्रायः ।
**भट्टाचार्यः : **भट्टारक ! एवम् एव ।
राजा : भट्टाचार्य ! अयं पुरुषोत्तमः पुरुषोत्तम-क्षेत्रस्य बीज-भूतं किम् अपि भविष्यति । अस्मात् किल बहव एवानन्दाङ्कुरा जायेरन् । नीलाचल-चन्द्रस्य सेवा-सौभाग्य-विशेषो’पि भविष्यति ।
**सार्वभौमः : **सत्यम् एतत् । पुण्यात्मानो हि नर-देवा देवांश-भूता एव । तेन भवतां मनसि यद् उन्मीलति तद् एव सत्यम् ।
नेपथ्ये : हन्त भोः ! सत्यं सत्यम् ।
राजा (सहर्षम्): अद्यापि तथैव वाक्-शकुनम् । तत् पश्य ज्ञायतां को’यम् ।
**भट्टाचार्यः : **तैर्थिकस् तैर्थिकान्तरेण सह जगन्नाथ-दर्शनोत्कण्ठां प्रपञ्चयति।
(प्रविश्य) दौवारिकः- देव ! अतिसत्वरं धावमानाः कतिचित् पुरुषाः सामायान्ति ।
**राजा : ** ज्ञायतां निरस्त्राः सास्त्रा वा ते’मी ।
दौवारिकाः (निष्क्रम्य पुनः प्रविश्य च ।) : देव ! निरस्त्रा एव सर्वे ।
**सार्वभौमः : **नूनं प्रत्यावर्तते स एव देवः । ३०
(पुनर् नेपथ्ये सम्भूय हरिं वन्दे हरिं वन्दे इति कोलाहलः । )
**सार्वभौमः : **अवितथम् एव भगवान् प्रत्यावृत्तः ।
नेपथ्ये :
तीर्थेष्व् अमीषु सकलेषु तथा न तृप्तिर्
जातास्य सत्वरम् अतः पुरुषोत्तमे सः ।
प्रत्याययौ कलय जङ्गम-रत्न-सानू
रत्नाकरस्य सविधे सुमुखो विधिर् नः ॥२४॥
**सार्वभौमः : **महाराज ! यद् अयं गोपीनाथाचार्यः सहर्षम् आलपति तद् अयम् आगत एव भगवान् तद् अहम् उपसर्पामि ।
राजा : त्वरतां त्वरताम् । मल्ल-भट्ट त्वम् अप्य् अधुना विश्रामं कुरु । वयम् अपि कार्य-विशेषाय गच्छाम । ३१ (इति निष्क्रान्ताः सर्वे ।)
इति तीर्थाटनो नाम सप्तमो’ङ्कः
॥७॥
(८)
अष्टमो’ङ्कः
प्रतापरुद्राग्रहः
(ततः प्रविशति सार्वभौमादिभिर् दामोदर-जगदानन्दादिभिश् चानुगम्यमानः श्री-कृष्ण-चैतन्यः ।)
श्री-कृष्ण-चैतन्यः : सार्वभौम ! एतावद् दूरं पर्यटितं, भवत्-सदृशः को’पि न दृष्टः । केवलम् एव रामानन्द-रायः । स त्व् अलौकिक एव भवति ।
**सार्वभौमः : **देव ! अत एव निवेदितं सो’वश्यम् एव द्रष्टव्य इति । १
श्री-कृष्ण-चैतन्यः : कियन्त एव वैष्णवा दृष्टास् ते’पि नारायणोपासका एव । अपरे तत्त्व-वादिनस् ते तथाविधा एव । निरवद्यं न भवति तेषां मतम् । अपरे तु शैवा एव बहवः । पाषाण्डास् तु महा-प्रबला भूयांस एव । किन्तु भट्टाचार्य रामानन्द-मतम् एव मे रुचितम् ।
**सार्वभौमः : **भवन्-मत एव प्रविष्टो’सौ न तस्य मत-कर्तृता । स्वामिन् ! अतः परम् अस्माकम् अप्य् एतद् एव मतं बहु-मतं सर्व-शास्त्र-प्रतिपाद्यं चैतद् इति । २
गोपीनाथाचार्यः : भट्टाचार्य ! भगवतो’वस्थान-स्थानं चिन्तितम् अस्ति ?
**भट्टाचार्यः : **आचार्य ! राज्ञैव चिन्तितम् ।
गोपीनाथाचार्यः (जनान्तिकम्): कीदृशं तत् ?
**भट्टाचार्यः : **काशी-मिश्रस्यालयः ।
गोपीनाथाचार्यः : साधु साधु । सिंह-द्वार-निकटवर्ती भवति । यतः सकाशात् सुखेनैव जगन्नाथ-दर्शनं भविष्यति ।
(इति समुद्र-कूलात् पुरुषोत्तम-ग्रामं विशन्ति । ततः प्रविशन्ति भगवज्-जगन्नाथ-प्रसाद-माला-पाणयो जगन्नाथ-देव-पशुपालकाः काशी-मिश्रः परीक्षा-महापात्रं च ।)
**सार्वभौमः : **अयम् अयं श्री-कृष्ण-चैतन्यः स्वामी । (इति सोत्कण्ठम् उपसर्पन्ति ।) भगवन् ! एते भगवतः पशुपालाः । एष काशीमिश्र-नाम । एष सर्वाधिकारी प्राड्विवाको49 भगवतः ।
(काशी-मिश्र-परीक्षा-महापात्रे उपसृत्य दण्टवन् निपततः । पशुपालक मालां कण्ठे दत्त्वा पर्णमन्ति ।) ३
भगवान्- अहो किम् एतत् ? भगवत्-पार्षदा भवन्तो मद्-आराध्या एव । कथम् अयोग्यम् एतत् क्रियते ? (इति सर्वान् प्रणम्यालिङ्गति ।)
**पशुपालाः : **सार्वभौम ! भगवतो दिवास्वप्न-समयः सम्प्रति जातः । किम् इदानीं तत्रैव गत्वा स्वामिना स्थातव्यं किं वा विश्रम्य स्नानादि कृत्वा समागन्तव्यम् ?
**सार्वभौमः : **स्नात्वा देव-दर्शनं कर्तव्यम् ।
काशी-मिश्रः : तद् इत एवागच्छन्तु । (इति स्वालयम् उपसारयति ।)
**सार्वभौमः : **भगवन् ! इदं खल्व् अस्यैव मिश्रस्य पुरं श्री-चरणानां कृते शोधयित्वा स्थापितम् अस्ति । तद् अत्रैव प्रविशन्तु भगवन्तः ।
(इति प्रवेशं नाटयन्ति । पशुपालादयः प्रणम्य निष्क्रान्ताः । ततः प्रविशन्ति बहव एवोत्कल-वासिनो महाशयाः केचित् ।) ४
तदानीम् आस्माकं समजनि न तादृक् सुभगता
गतास् तेनास्माकं परम-करुणां नेक्षण-पथम् ।
इदानीं नो भाग्यं समघटत यज् जङ्गमम् इमं
स्वयं नीलाद्रीशं बत नयन-पातैर् विचिनुमः ॥१॥
(इत्य् उपसर्पन्ति ।) ५
**सार्वभौमः : **भगवन् ! अयं भगवतो’नवसर-कालाङ्ग-सेवको’न्तरङ्गो जनार्दन-नामा । अयं स्वर्ण-वेत्र-धारी पार्षदः कृष्ण-दास-नामा । अयं लिखनाधिकारी शिखि-माहाती । भ्रातरौ चास्यैतौ । अयं दास-महासोआर-नामा महानसाधिकारी । एते निसर्ग- भक्ताः श्री-जगन्नाथ-देवस्य । इमे चन्दनेश्वर-मुरारि-हंसेश्वरा ब्राह्मणोत्तमा राज-महा-पात्राणि स्वभाव-वैष्णवाः । अयं प्रहर-राज्य-महा-पात्रं परमो भगवद्-भक्तः । अयं प्रद्युम्न-मिश्रः, अयं विष्णु-दासः । इमे रामानन्द-राय-सहोदराः तन्-मध्ये अयं वाणीनाथ-पट्टनायकः । अयं तस्य जनको भवानन्द-रायः । इमे चान्ये गौडोत्कल-वासिनः सर्वे त्वच्-चित्तास् त्वद्-गत-प्राणा दण्डवत् प्रणमन्ति । एतान् आत्मीयत्वेनानुग्रहीतुम् अर्हन्ति । ६
भगवान् : आत्मान एवामी । कथम् एषाम् आत्मीयत्वम् ? विशेषतो जगन्नाथ-सेवकाः ।
सार्वभौमः : भगवन्, जगन्नाथस्य भवतश् च कृष्ण-चैतन्यत्वम् अविशिष्टम् एव, तथाप्य् अस्ति कश्चिद् विशेषः । असौ दारु-ब्रह्म, भवान् नर-ब्रह्म ।
**भगवान् **(कर्णौ पिधाय) :
अत्युक्तिर् एषा तव सार्वभौम
तनोति कामं श्रवसोः कटुत्वम् ।
तीक्ष्णो हि गुडस्य रसस्य पाकस्
तिक्तत्वम् आयाति न चैति रन्धम् ॥२॥
सार्वभौमः : भगवन् ! गौड-देशस्य रसस्य पाकः सुरस एव । यत्राविरासीद् भगवान् ।
**श्री-कृष्ण-चैतन्यः : **विरम विरम, अतः परं श्री-पुण्डरीकाक्ष-दर्शनस्य समयो जातः ।
सर्वे : एवम् एव । तद् उपसर्पन्तु भगवन्तः । (इति भगवन्तम् अग्रे कृत्वा परिक्रामन्ति ।)
नेपथ्ये :
अयम् एष दृशो रसायनं
परमानन्द-पुरीश्वरः पुरस्तात् ।
दमनार्थम् अघौघ-कारिणाः
धृत-दण्डः समये समुज्जिहीते ॥३॥
**सर्वे **(आकर्ण्य) **: **अहो अवसरः संवृत्त एव देवस्य, यद् अयं प्रस्तौति । ८
**श्री-कृष्ण-चैतन्यः **(स्वगतं) : अहो परमानन्द-पुरीश्वरस् तावन् मुनीन्द्र-माधव-पुरीश्वर-शिष्यः, यत्र खल्व् अगजस्य विश्वरूपस्य समग्रम् ऐश्वरं तेजः प्रविष्टम् । स एव वा समागतः । भवतु, देवं विलोक्य तत्त्वम् अस्य ज्ञेयम् ।
सार्वभौमः : इयंपुरो भगवतः परमानन्द-पुरी, तद् एनां प्रविशन्तु ।
(इति सर्वे भगवता सह श्री-जगन्नाथ-दर्शनार्थं निष्क्रान्ताः ।
ततः प्रविशति परमानन्द-पुरी ।) ९
**परमानन्द-पुरी **(सोत्कण्ठम्) :
कदासौ द्रष्टव्यः खलु भगवान् भक्त-तनुमान्
इति प्रौढोत्कण्ठा विलुलितम् अहो मानसम् इदम् ।
चिराद् अद्य प्राप्तः स खलु फल-कालो मम पुनर्
न जाने कीदृक्षं जनयति फलं भाग्य-विटपी ॥४॥
(इति परिक्रामन्) भगवन् श्री-जगन्नाथ ! क्षम्यताम् ! त्वाम् अनालोक्य यद्-अग्रे तम् उपसर्पामि, तत् तादृशीम् उत्कण्ठां सर्वज्ञा जानन्त्य् एव ।
(पुनर् अवलोक्य) अहो ! इहैव भवितव्यं भगवता तेन, यतः—
जगन्नाथ-द्वाराद् अपि बहल-कोलाहल-कृतां
समूहो लोकानाम् इह सरति नैवापसरति ।
अतो मन्ये धन्ये धरणि तव पुण्येन मिलितः
स एवायं देवः कनक-रुचिर् अत्रैव भविता ॥५॥
तद् अहम् औपसर्पामि । (इत्य् उपसर्पति)
(ततः प्रविशति परिजनैः सार्धं श्री-जगन्नाथ-दर्शनानन्द-निष्पन्दः श्री-कृष्ण-चैतन्यः ।)
**श्री-कृष्ण-चैतन्यः **(स्मृतिम् अभिनीय) : अहो, परमानन्द-पुरीश्वरः साम्प्रतम् आगमिष्यतीति लक्ष्यते, यतः—
भगवद्-दर्शन-सुखम् अनु
सुखान्तरं किम् अपि साम्प्रतं भावि ।
आसन्न-शर्म-शंसी
प्रसाद आकस्मिको मनसः ॥६॥
(इति सोत्कण्ठं तिष्ठति ।)
**पुरी **(अग्रतो’वलोक्य) : अहो अयम् असौ—
जयति कलित-नील-शैल-चन्द्रे-
क्षण-रस-चर्वण-रङ्ग-निस्तरङ्गः ।
कनक-मणि-शिला-विलासि-वक्षः-
स्थल-गलद्-अस्रम् अजस्र-रोमहर्षः ॥७॥
**श्री-कृष्ण-चैतन्यः **(अग्रतो’वलोक्य) : अयम् एवासौ यद् इदम् आकस्मिकम् आगमनम् इहैतस्य । (इत्य् उत्थाय प्रणम्य) स्वामिन् ! पुरीश्वरो’सि ?
**पुरी **(स-सम्भ्रमं) : भगवन् ! त्वद्-दर्शनार्थम् एवायम् उत्कण्ठितो वाराणसीत आगच्छन्न् अस्मि । (उपसृत्य)
**श्री-कृष्ण-चैतन्यः : **स्वामिन् ! इत इतः । (इति विश्रामयति ।)
सार्वभौमः : भोः स्वामिन् ! नेदम् अतिचित्रम् ।
ये के’पिप् यां काश्चन स-प्रवाहा
नदाश् च नद्यश् च भवन्ति भूमौ ।
कस्यापि रत्नाकरम् अन्तरेण
कुत्रापि नास्था न च सन्निवेशः ॥८॥ १२
नेपथ्ये :
अहो रस-कलावतो भगवतो रसाचार्यकं
ग्रहीतुम् इव मूर्ततां बाधित भिक्षु-वेषं वपुः ।
यद् एतद् अवनी-तले सकल एव दामोदर-
स्वरूप इति भाषते तद्-अपृथक्तया प्रेमतः ॥९॥
सार्वभौमः : अहो लोकानाम् अत्र भगवति नैसर्गिकी रतिः । यद् इदं परोक्षे’पि सर्वे भगवत्ताम् एवास्य गायन्ति ।
**श्री-कृष्ण-चैतन्यः **(श्रुतिम् अभिनीय) : अये दामोदर-स्वरूप इति नामाकर्णितम् । कच्चिद् अयम् अपि समागमिष्यतीव लक्ष्यते ।
सार्वभौमः : स्वामिन् ! प्रायशो भवद्-अवतारे केचित् पूर्वं केचित् पश्चाच् च भवदीया एव सर्वे’वतेरुः । समये सर्वैर् एव मिलितैर् भवितव्यम् । अत एव सम्प्रवाहा इत्य् उक्तम् । १३
**दामोदर-स्वरूपः **(आकाशे लक्ष्यं बद्ध्वा) :
हेलोद्धूनित-खेदया विशदया प्रोन्मीलद्-आमोदया
शाम्यच्-छास्त्र-विवादया रस-दया चित्तार्पितोन्मादया
शश्वद्-भक्ति-विनोदया स-मदया माधुर्य-मर्यादया
श्री-चैतन्य दया-निधे तव दया भूयाद् अमन्दोदया ॥१०॥
(इत्य् उपसर्पति ।) १४
**गोपीनाथाचार्यः **(पुरो’वलोक्य स्वगतम्) : अये श्रुतं मया चैतन्यानन्द-शिष्यः परम-विरक्तो भगवद्-भक्तो’तिविद्वान् कश्चिद् दामोदर-स्वरूप-नामा, यः खलु गुरुणा बहुतरम् अभ्यर्थितो’पि वेदान्तम् अधीत्याध्यापयेति । न च तच् च कृतवान् । अपि तु—
समस्त-हानाय तुरीयम् आश्रमं
जग्राह वैयाग्र्य-वेशेन केवलम् ।
श्री-कृष्ण-पादाब्ज-पराग रागतस्
तुच्छी-चकारैनम् अहो वहन्न् अपि ॥११॥
स एवायम् । तद् भगवते निवेदयामि । (इत्य् उपसृत्य ।) भगवन्न् अयम् अयं श्रुत-चरो दामोदर-स्वरूपः ।
**भगवान् : **क्व सः ? क्व सः ? (इति सोत्कण्ठम् उपसर्पति ।)
(दामोदर-स्वरूप उपसृत्य पादयोः प्रणमति ।
श्री-कृष्ण-चैतन्यो बाहुभ्याम् उत्ताप्यालिङ्गति ।)
नेपथ्ये :
ईश्वर-पुरी-निषेवण-रतः स्वतः कृष्ण-भक्तश् च ।
अयम् एति विशद-हृदयो विरक्तिमान् सकल-विषयेषु ॥१२॥
**सार्वभौमः **(आकर्ण्य) : अये भगवतः पूर-परिचारकः को’पि समायाति । कस् तावद् असौ ?
श्री-कृष्ण-चैतन्यः : अहो पुरीश्वरस्य सकाशात् कश्चिद् यातीव ।
**सार्वभौमः **(अवलोक्य) : जानीमः । (इति निरूपयति)
(ततः प्रविशति गोविन्द-नामा कश्चित् ।)
**गोविन्दः **(स्वगतं) : प्रहितो’स्मीश्वर-पुर्या—महाप्रभोः सविध एव याहीति । उपसन्नं तद् इदम् अथो न वेद्मि निज-भाग्य-महिमानम् । (इत्य् उपसृत्य प्रणम्य चाञ्जलिं बद्ध्वा) स्वामिन् !
दृष्टं मया प्रथमम् अस्य यद् एव रूपं
तेनैव निर्वृतिर् अहो मम नान्य-वेषम् ।
पश्यामि तं त्वम् उपयाहि तम् इत्य् अहं ते
सम्प्रेषितश् चरण-सीम्नि पुरीश्वरेण ॥१३॥ १७
**श्री-कृष्ण-चैतन्यः : **अस्ति तथैव मयि तेषाम् अखण्डम् एव वात्सल्यम् ।
सार्वभौमः : त्वं तस्य परिचारकः ?
**गोविन्दः : **अथ किम् ।
सार्वभौमः : स्वामिन् ! कथम् असौ ब्राह्मणेतरः परिचारकत्वेनानुगृहीतवान् ?
**श्री-कृष्ण-चैतन्यः : **भट्टाचार्य ! मैवं वादीः ।
हरेः स्वतन्त्रस्य कृपापि तद्वद्
धत्ते न सा जाति-कुलाद्य्-अपेक्षाम् ।
सुयोधनस्यान्नम् अपोज्झ्य हर्षाज्
जग्राह देवो विदुरान्नम् एव ॥१४॥ १८
**सार्वभौमः : **देव, एवम् एव ।
श्री-कृष्ण-चैतन्यः : भवतु, यद्यपि पूज्यानां परिचारकेण स्व-परिचार्या कारयितुं न युज्यते, तथापि तद्-आज्ञया तथैव कर्तव्यम् । (इति तम् अनुगृह्णाति ।)
(प्रविश्य सत्वरं) मुकुन्दः : स्वामिन् !
श्री-कृष्ण-चैतन्यः : शान्तं, मान्याः खलु भवन्त्य् अमी । तन् मयैव गन्तव्यम् ।
सर्वे :
अलौकिकानाम् अपि लौकिकत्वम्
अलौकिकत्व-प्रथनाय नूनम् ।
भुवः प्रयाणं किल विष्णुपद्या
दिवं नयत्य् एव शरीर-भाजः ॥१५॥
(इति भगवन्तम् अग्रे कृत्वा परिक्रामन्ति । ततः प्रविशति चर्माम्बरो ब्रह्मानन्दः ।)
**ब्रह्मानन्दः **(पुरो’वलोक्य) **: **अयम् एव श्री-कृष्ण-चैतन्यः । तथा हि—
कनक-परिघ-दीर्घ-दीर्घ-बाहुः
स्फुटतर-काञ्चन-केतकी-दलाभः ।
नव-दमनक-माला-लाल्यमान-
द्युतिर् अतिचारु-गतिः समुज्जिहीते ॥१६॥
**श्री-कृष्ण-चैतन्यः **(उपसृत्य तम् अवलोक्यापि चर्म-चेलत्वम् आत्मनो’भिमतम् इति बोधयन् सावहित्थं) : मुकुन्द, क्वासौ ? २०
मुकुन्दः : अयम् अयम् ।
**श्री-कृष्ण-चैतन्यः : **नहि नहि, स चेद् अभविष्यत्, तदा कथं चर्म-चेलत्वेन वाहृ-वेश-वशत्वम् अस्याभविष्यत् ?
**ब्रह्मानन्दः **(आकर्ण्य स्वगतम्) : अहो अस्मै चर्मा-चेलत्वं न रोचते इव । भवति हि—
दम्भैक-मात्र-प्रथनाय केवलं
चर्माम्बरत्वादि न वस्तु-साधनम् ।
चलद्भिर् उर्वीम् ऋजुनैव वर्त्मना
सुखेन गम्यस्य समाप्यते’वधिः ॥१७॥
किम् एतेनेति चर्म जिहासति ।
(श्री-कृष्ण-चैतन्यो दामोदरं निरीक्षते, दामोदर इङ्गितं बुद्ध्वा सत्वरं बहिर्वासं प्रयच्छति । ब्रह्मानन्दः पर्दधाति । श्री-कृष्ण-चैतन्य उपष्र्त्य प्रणमति ।) २१
**ब्रह्मानन्दः **(स-साध्वसादरं ) : स्वामिन् ! लोक-शिक्षार्थं यद्यपि भवताम् इदम् उचितम् एव, तथापि नो’तिभय-जनकम् एतत् । तद् अपरं नैतद् अनुष्ठेयम् । पश्य पश्य—
नीलाचलस्य महिमा नहि मादृशेन
शक्यो निरूपयितुम् एवम् अलौकिकत्वात् ।
एते चर-स्थिरतया प्रतिभासमाने
द्वे ब्रह्मणी यद् इह सम्प्रति गौर-नीले ॥१८॥ २२
**श्री-कृष्ण-चैतन्यः : **सम्प्रति-शब्दस्य वर्तमानत्वाद् अचिरागते भवत्य् एव गौर-ब्रह्मतानाम् ऐकदेश-वर्ति ब्रह्म-शब्दत्वाच् च ।
ब्रह्मानन्दः : व्याप्य-व्यापक-भावत्वेनैव तद् अनुमीयते । व्याप्यत्वं च चर्म-त्यागेनैव ज्ञायताम् ।
सार्वभौमः : सम्यग् आहुः श्री-पादाः ।
ब्रह्मानन्दः : सार्वभौम, पश्य पश्य—
सुवर्ण-वर्णो हेमाङ्गो वराङ्ग-चन्दनाङ्गदी ।
इति नामान्य् अनेनैव सान्वयत्वं प्रपेदिरे ॥१९॥
चन्दनाङ्गदित्वं स्व-प्रसाद-चन्दनाक्त-डोरेणैव भगवद्भिः श्री-जगन्नाथ-देवैर् एव क्रियमाणम् अस्ति । पश्य पश्य भगवद्-रूप-मात्रस्य परमानन्द-प्रदत्वम् । किं पुनः स्वयं भगवतः श्री-कृष्णस्य । अहो चित्रम्—
आनन्दानुभवैक-साधनम् अहो रूप घनानन्द-चिद्
बाह्यान्तः-करणोर्मि-वृत्ति-विरहस्यापादकं पश्यताम् ।
हित्वानन्दथु-लब्धये हृदि निराकारं तु यैश् चिन्त्यते
मन्ये तान् भ्रमयत्य् अहो भगवती सा कापि दुर्वासना ॥२०॥
अपि च—
अमूर्तत्वं तत्त्वं यदि भगवतस् तत् कथम् अहो
मदासूयादीनाम् अपि न भगवत्त्व-गणना ।
न मूर्तामूर्तत्वे भवति नियमः किन्तु परमो
य आनन्दो यस्माद् अपि स च स ईशो मम मतम् ॥२१॥ २४
**सार्वभौमः : **स्वामिन एवम् एव । आनन्द-मयो’भ्यासात् इत्य् अत्र व्याख्यातं चैतत् । स्वयम् आनन्दः परान् अप्य् आनन्दयति । यथा प्रचुर-धनः परेभ्यो’पि धनं ददातीति प्राचुर्यार्थे मयड् इति, किन्तु तत्-कृपा चेद् भवति, तदा निराकार-भावनातो’पि पुनः श्री-विग्रह-माधुर्य एव निपतति । उक्तं चाभियुक्तैः—
अद्वैत-वीथी-पथिकैर् उपास्याः
स्वानन्द-सिंहासन-लब्ध-दीक्षाः ।
शठेन केनापि वयं हठेन
दासी-कृता गोप-वधू-विटेन ॥२२॥ इति ।
**दामोदरः **(ब्रह्मानन्दं प्रति) : श्रीपादा मया निमन्त्रिताः स्थ । तद् इदानीम् अनन्तर-करणीयाय गच्छन्तु ।
श्री-कृष्ण-चैतन्यः : स्वामिन्, एवम् एव युज्यते ।
ब्रह्मानन्दः : यद् अभिरुचितं भवते । (इति दामोदरादिभिः कतिभिः सह निष्क्रान्ताः ।)
श्री-कृष्ण-चैतन्यः : सार्वभौम ! त्वम् अपि गन्तुम् अर्हसि ।
सार्वभौमः : देव, किञ्चिन् निवेदनीयम् अस्ति ।
श्री-कृष्ण-चैतन्यः : किं तत् ?
सार्वभौमः : स्वामिन्, अभयं चेद् दीयते तदा निवेद्यते ।
श्री-कृष्ण-चैतन्यः : असाध्वसम् एव कथ्यताम् ।
सार्वभौमः : भूपालः श्री-चरणावलोकनाय समुत्कण्ठते । यद्य् अनुमन्यसे तदा तम् आनयाम ।
**श्री-कृष्ण-चैतन्यः **(कर्णौ पिधाय) : सार्वभौम, भवतापीदम् उच्यते ।
निष्किञ्चनस्य भगवद्-भजनोन्मुकस्य
पारं परं जिगमिषोर् भव-सागरस्य ।
सन्दर्शनं विषयिणाम् अथ योषितां च
हा हन्त हन्त विष-भक्षणतो ऽप्य् असाधु ॥२३॥ २७
सार्वभौमः : स्वामिन्! सत्यम् एवैतत्, किन्त्व् असौ जगन्नाथ-सेवकः ।
श्री-कृष्ण-चैतन्यः :
आकाराद् अपि भेतव्यं स्त्रीणां विषयिणाम् अपि ।
यथाहेर् मनसः क्षोभस् तठा तस्याकृतेर् अपि ॥२४॥
यद्य् एवं पुनर् उच्यते, तदात्र न पुनर् अहं द्रष्टव्यः । (सार्वभौमस् तूष्णीं तिष्ठति ।)
**श्री-कृष्ण-चैतन्यः : **भट्टाचार्य, अतिकालो बभूव ।
**सार्वभौमः : **यथा रुचितं स्वामिने । (इति निष्क्रान्तः ।)
श्री-कृष्ण-चैतन्यः : मुकुन्द, मयि दक्षिणस्यां दिशि गते सति श्रीपाद-नित्यानन्देन क्व गतम् ?
मुकुन्दः : गौडे । उक्तं चेदम्—भगवद्-आगमन-समयम् अनुमाय पुनः सर्वैर् अद्वैत-प्रमुखैः मयात्रागन्तव्यम् इति ।
गोपीनाथाचार्यः : सम्प्रति द्वैराज्यादिकम् अपि नास्ति । पन्थाश् च सुगमः, गुण्डिचा-यात्रा च नेदीयसी, तद्-आगमन-सामग्री सर्वैवास्ति, किन्तु स्वामिनां प्रत्यागमन-वार्ता तावद् दुरगामिनी चेद् भवति, अथवा कृतं सन्देहेन ।
ध्वान्तं विधुर किरणैर् उदितस्य भानोश्
चन्द्रस्य वा जगति के कथयन्ति वार्ताम् ।
लोकोत्तरस्य किल वस्तुन एव सेयं
शैली स्वयं स्वम् अभितः प्रकटीकरोति ॥२५॥
तत् स्वामिन् जगन्नाथ-देवस्य सायाह्न-धूप-समयो जातः यद्य् अनुमन्यसे । (इत्य् अर्धोक्ते साध्वसं नाटयति ।)
**श्री-कृष्ण-चैतन्यः : **आचार्य ! गम्यतां धूपावलोकायाहम् अपि पुरीश्वर-स्वरूपाभ्यां सह सङ्कथनाय गच्छामि । (इति भगवान् निष्कृआन्तः ।)
**गोपीनाथाचार्यः **: अहो निष्क्रान्त एव भगवान् । तद् अहम् अपि धूपं दृष्ट्वा पुनस् तत्रैव मिलिष्यामि (इति कतिचित् पदान्य् आवधाति ।)
नेपथ्ये :
आसन्ने रथ-विजये’खिलेश्वरस्य
प्राप्तो’यं धरणि-पतिः प्रतापरुद्रः ।
भूयो’हं यति-वृषभस्य गौर-मूर्तेः
प्रत्यक्षी-करण-कृते प्रयन्त-कृत् स्यात् ॥२६॥
**गोपीनाठाचार्यः **: अहो अयं भट्टाचार्यस्यालापः श्रूयते, तन् महीपालेन गजपतिना समागतम् इव । भवतापि अभ्यर्णो’यं रथ-महोत्सवस् तद् अहं जगन्नाथम् आलोक्य यावद् आगच्छामि । (इति निष्कृआन्तः ।) ३१
(ततः प्रविशति भट्टाचार्यः ।)
**भट्टाचार्यः **: आगमन-सम-कालम् एव यद् अहम् आहूतो’स्मि गजपतिना, तेनोन्नीतं श्री-कृष्ण-चैतन्य-दर्शनार्थम् अयम् उत्कण्ठते । (इति परिक्रम्यावलोक्य च) अहो अयम् अवनिपतिः । यावद् उपसर्पामि । (इत्य् उपसर्पति ।)
(ततः प्रविशत्य् आसनस्थो राजा महा-पात्राणि च ।)
**राजा **(सोत्कण्ठम् आत्म-गतम्) :
अभून् न चेष्टा मम राज्य-चेष्टा
सुखस्य भोगश् च बभूव रोगः ।
अतः परं चेत् स न वीक्षते मां
धारयिष्ये बत जीवितं च ॥२७॥
**सार्वभौमः **: अन्तः सचिन्तित इव लक्ष्यते महाराजः । यद् उपगतम् अपि मां न गोचरीकरोति । तत् स्वयम् एव परिचीये । जयति जयति महाराजः !
**राजा **(अवधानं नाटयित्वा) : कथं भट्टाचार्यो’सि ! एह्य् एहि ! (इति प्रणमति ।)
(सार्वभौम आशीर्भिर् अभिनन्द्योपविशति ।)
राजा : भट्टाचार्य, निवेदितं भवता भगवते श्री-कृष्ण-चैतन्याय ? ३३
**सार्वभौमः : **अथ किं ।
राजा : किम् आज्ञप्तम् ?
**सार्वभौमः : **किं कथयामि ?
**राजा **(स-विषादम्) : तदैव मया ज्ञातम् अस्ति, यद् भवता स्वयम् उपेत्य सहऋषोल्लासं न कथितम् । हा धिक् !
अदर्शनीयान् अपि नीच-जातीन्
संवीक्षते हन्त तथापि नो माम् ।
मद्-एक-वर्जं कृपयिष्यतीति
निर्णीय किं सो ऽवततार देवः ॥२८॥
(क्षणं विचिन्त्य) अये श्रूयताम्—
ज्ञातैव तस्य किल सत्य-गिरः प्रतिज्ञा
सम्प्रत्य् अहो क्रियते एष मयापि पक्षः ।
प्राणांस् त्यजामि किम् उ वा किम् उ वा करोमि
तत्-पाद-पङ्कज-युगं नयनाध्वनीनम् ॥२९॥
(इति स-बाष्पस् तिष्ठति ।)
**सार्वभौमः **(स्वगतम्) **: **अतिभूमिं गतो’यम् अस्यानुराग-पर-भागः किं करोमि ।
पुनर् गत्वा ब्रूयाम् अहह तद् इदं नैव घटते
स निर्बन्धस् तस्य द्रढिव-गरिम-द्राघिम-घनः ।
सुदुर्वारो’प्य् अस्य प्रथिम-पटिम-प्रौढिम-वहो
महा-रागः कश्चित् कम् अपि न विजेतुं प्रभवति ॥३०॥
तद् अधुना युक्तिः किर्यते । (प्रकाशम्) महाराज ! समाश्वसिहि समाश्वसिहि, अस्त्य् उपायः को’पि भवन्-मनोरथ-तरोः फल-प्रसवाय ।
राजा : जानासि चेद् उच्यताम् ।
**सार्वभौमः : **यद्यपि भवतो’यम् अनुराग-दूत एव तत्-सङ्गमस्य कारयिता, तथाप्य् अस्मद्-युक्तिर् वर्तनी-भवितुम् अर्हति ।
राजा : उच्यतां का युक्तिः ?
**सार्वभौमः **(जनान्तिकम्) **: **केवलम् अनुरागम् एव दूतं कृत्वाद्वितीय एव राज-वेशं विहाय केनाप्य् अविदित एव भगवतो जगन्नाथ-देवस्य रथोत्सव-वासरे नृत्य-विनोद-परिश्रमम् अपेनेतुं विजनम् आरामम् अवगाहमानम् आनन्दास्वाद-विरत-बहिर्-वृत्तिकम् अकस्माद् उपेत्य विलोकयन्तु भगवन्तं भवन्त इति । इतो’न्यथा न तद् घटते । ३६
**राजा **(साश्वासम् अपवार्य) : एवम् एव, किन्तु यथेदं भवन्तं विना को’पि न जानाति, तथा विधेयम् ।
**सार्वभौमः : **एवम् एव ।
(प्रविश्य) दौवारिकः : देव ! राजधानीतः कश्चिद् एकः सत्वरम् उपसन्नो’स्ति प्रणिधिः ।
राजा : प्रवेश्यताम् ।
**दौवारिकः **(सत्वरं निष्क्रम्य तम् आदाय प्रविश्य च) : देव ! अयम् अयम् । ३७
राजा : प्रणिधे, कथय सम्भ्रमस्य कारणम् ।
**प्रणिधिः : ** देव !
परः-सहस्राः सहसैव पारे-
चित्रोत्पलं ये मनुजाः समूढाः ।
किं तैर्थिकास् ते परचक्रजाः किं
श्रुत्वैव कोलाहलम् आगतो’स्मि ॥३१॥
**सार्वभौमः : **तैर्थिका एव । अन्यथा पुरैव वार्ताभविष्यत् । तद् अनुमीयते गौडीया एवैते भगवतः श्री-कृष्ण-चैतन्यस्य प्रिय-पार्षदाः । भवतु, महत्य् एवासौ मधुर-गोष्ठी-गरिष्ठानां भविष्यति भगवता सह कापि गोष्ठी । ३८
(नेपथ्ये कलकलः)
**सार्वभौमः : **महाराज ! सत्यम् एवामी नरेन्द्र-सरस्-तीरं समया समायाताह् यद् अयम् आनन्द-कोलाहलः श्रूयते ।
राजा : सत्यम् एवैतत् ।
**सार्वभौमः : **महाराज ! यदि रोचते, तदा बडभीम् आरुह्य पश्यन्तु कौतुकम् ।
राजा : यथा रुचितं भवते । (इति बडभीम् आरुह्य पन्थानम् अवलोक्य च) सार्वभौम! क एष भगवन्-निर्माल्य-मालाम् आदाय त्वरमाणस् तैर्थिकानाम् अभिमुखं धावति ?
**सार्वभौमः : **अयं दामोदरो भगवच्-चैतन्यस्य प्रिय-पार्षदो भगवता अद्वैतादि-प्रिय-सुहृद्-आगमनं श्रुत्वा भगवत्-प्रसाद-मालया पुरस्कृत्य तान् एव समानेतुं प्रेषित इव लक्ष्यते ।
राजा : एवम् अस्ति को’पि तत्र भगवच्-चैतन्यानुग्रह-पात्रम् ?
**सार्वभौमः : **अथ किं । अन्यथा कथम् एवं स्यात् ? तद् आज्ञापय गोपीनाथ-चर्याह्वानाय, तेनैव सर्वे परिचीयन्ते ।
(प्रविश्यापटीक्षेपेण) गोपीनाथाचार्यः : एषो’हम् अस्मि । तद् आज्ञापयतु देवः किं विधेयम् इति ।
राजा : सार्वभौम, आदिश ।
**सार्वभौमः : **भवतामी सर्वे परिचीयन्ते, तद् अस्मान् अपि प्रत्येकं परिचाय्यन्ताम् ।
गोपीनाथाचार्यः : बाढम् । (इत्य् उपसर्पति ।) ४१
(नेपथ्ये हरि-सङ्कीर्तन-ध्वनिः ।)
**सार्वभौमः **(आकर्ण्य) **: **
सङ्कीर्तन-ध्वनिर् अयं पुरतो’विभक्त-
सर्वार्थ एव समभूच् छरण-प्रमोदी ।
शब्द-ग्रहणे तद्-अनन्तरम् अन्य-रूपो
लब्धार्थ एव पुनर् अन्य-विधो बभूव ॥३२॥
**राजा **(निरूप्य) : ईदृशं कीर्तन-कौशलं क्वापि न दृष्टम् ।
**सार्वभौमः : **इयम् इयं भगव-कृष्ण-चैतन्य-सृष्टिः ।
राजा : आचार्य ! यस्मै भगवन्-मालाम् अर्पितवान् अयं कः ?
गोपीनाथाचार्यः : कथयामि प्रत्येकम् । अयम् अद्वैतः, अयं नित्यानन्दः ।
**सार्वभौमः : **अयं परिचीयते ।
राजा : कथम् असौ कतिचिज् जनैः सह पृथग् आयाति ?
**सार्वभौमः : **सर्वादृतत्वाद् अन्य-सङ्गं नेहते ।
गोपीनाथाचार्यः : अयं श्रीवासः । अयम् अयं वक्रेश्वरः । अयम् आचार्यरत्नः । अयम् अयं विद्यानिधिः ।
**सार्वभौमः : **बाल्ये मया दृष्टाव् एतौ ।
गोपीनाथाचार्यः : अयं हरिदासः । अयम् अयं गधाधरः । अयं मुरारिः । इमे श्रीवासस्य सहोदराः । अयं गङ्गादासः । अयं नृसिंहाचार्यः । इमे चान्ये नवद्वीप-वासिनः । एते ममाप्य् अपूर्वाः । आज्ञा चेद् भवति, तदा ज्ञात्वा आगच्छामि ।
राजा : तथैव क्रियताम् ।
गोपीनाथाचार्यः : यथा-रुचितं देवाय । (इति सत्वरं परिक्रम्य नेपथ्य-स्थो भूत्वा त्वरितं पुनः प्रविश्य च) सार्वभौम ! एष आचार्य-पुरन्दराह् । एष हरिभट्टः । एष राघवः । एष नारायणः । एष कमलानन्दः । एष काशीश्वरः । एष वासुदेवो मुकुन्दस्य ज्यायान् । अयं शिवानन्दः । एष च नारायणः । एष वल्लभः । एष श्रीकान्तः । किं बहुना ? सर्वे एवामी श्री-चिअत्नय-पार्षदाः । नैको’प्य् अत्र तैर्थिकः ।
राजा : कथम् अमी जगन्नाथालयं पृष्ठतः कृत्वा अग्रतः श्री-चैतन्य-कृष्णालयम् एव प्रविशन्ति ? ४४
**सार्वभौमः : **एष एव नैसर्गिकस्य प्रेमणो महिमा ।
**राजा **(पुनर् अन्यतो’वलोक्य) : अये कथम् अयं वाणीनाथो रामानन्दानुजः सत्वरं प्रचुरतरैर् महा-प्रसादान्नादिभिर् उपसरति ?
**सार्वभौमः : **हृदयज्ञो’यं श्री-चैतन्य-भगवतः । तद्-अनुक्त एव महा-प्रसादैर् उपचरितुम् एतान् उपसर्पति ।
राजा : भट्टाचार्य ! मुण्डनं चोपवासश् च सर्व-तीर्थेष्व् अयं विधिः इति विधि-वचनम् उल्लाङ्घ्यामी अद्य महा-प्रसादम् उरीकरिष्यन्ति ?
**सार्वभौमः : **भट्तारक ! स खल्व् अन्यः पन्थाः । सा तु भगवतः पारोक्षिकी ह्य् आज्ञा, इयं तु साक्षात्कारिणी । तत्रापि भगवता स्व-हस्तेन प्रसादी-क्रियमाणं जगन्नाथ-प्रसादान्नम् । अत्र का विप्रतिपत्ति ? तथा च—
यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥३३॥ [भा.पु. ४.२९.४७] इति ।
अपि च, तत् कर्म हरि-तोषं यत् [भा.पु. ४.२९.४९] इत्य् उक्तेर् अस्य तोष एवैष्याम् उद्देश्यो न तीर्थ-यात्रा फलम् ।
राजा : एवम् एव । किन्तु कथय रथयात्रा कदेति त्वद्-उपदिष्टो मन्त्र एव मे हृदि लग्नः । तद् अत्र निम्ष-मात्रो’पि कालह् कल्पायत इव मे ।
सार्वभौमः : परश्वः ।
राजा : कः को’त्र भोः । आहूयतां परीक्षा-महापात्रं काशीमिश्रश् च ।
(प्रविश्य) **कश्चित् **(प्रणम्य) : देव ! यथाज्ञापयसि । (इति निष्क्रम्य ताव् आदाय पुनः प्रविश्य च) देव ! सम्प्राप्ताव् एतौ । ४७
राजा : महापात्र ! श्री-जगन्नाथ-देवस्य यात्रा-विधौ भगवच्-चैतन्य-हृदयज्ञेनामुना काशी-मिश्रेण यद् यद् आदिश्यते, तद् एव मद्-आदेश इति ज्ञात्वा व्यवहर्तव्यम् ।
**महापात्रः : **यथाज्ञापयति देवः ।
राजा : मिश्र ! त्वयापि भगवच्-चैतन्य-चित्तानुवृत्तिर् अहरहर् एव कार्या ।
मिश्रः : मदीयम् अभीष्टम् एवैतत् ।
राजा : अपि च, ये’मी यावन्तो गौडाः समायाताः सन्ति, तेषाम् अपि यथा स्वाच्छन्द्येन भगवद्-दर्शनं भवति, तथा च विधेयम् ।
उभौ : यथाज्ञा देवस्य । (इति निष्क्रान्तौ ।) ४८
राजा : भट्टाचार्य ! उपसृत्य विलोकयेदम् अन्योन्य-सम्भाषण-कौतूहलम् । सति तादृशे’धिकारे मयैव तादृश-परमानन्द-भोगाद् अवञ्चितेन कथं भवितव्यम् । अहम् अपि भविष्यद्-रथ-विजय-कार्याकार्य-परिकलनायावहितो भवामि । (इति निष्क्रान्तः ।)
**सार्वभौमः : **ममाभीष्टम् एव नरपतिर् आदिष्टवान् । तद् अधुना तथैव करोमि । (इति गोपीनाथाचार्येण कतिचित् पदानि गत्वा ।) अहो पुरतः—
आनन्द-हुङ्कार-गभीर-घोषो
हर्षानिलोल्लासित-ताण्डवोर्मिः ।
लावण्य-वाही हरि-भक्ति-सिन्धुश्
चलः स्थिरं सिन्धुम् अधःकरोति ॥३४॥
तद् उपसर्पाव । (इत्य् उपसर्पति) ५०
(ततः प्रविशति उक्त-प्रकाराः सर्वे अद्वैत-प्रमुखाः ।)
**अद्वैतः **(पुरो’वलोक्य) : दामोदर ! पुनर् मालान्तरं गृहीत्वा को’यम् आयाति ?
**दामोदरः : **अयं भगवत्-पार्श्ववर्ती गोविन्दः ।
(प्रविश्य सत्वरं गोविन्दो मालाम् अर्पयति । अद्वैतः सादरं गृह्णाति ।)
दामोदरः : इदम् इदं काशी-मिश्राश्रम-पदम्, तत् प्रविशन्तु ।
(अद्वैतादयः प्रवेशं नाटयन्ति ।)
**सार्वभौमः : **अहो आश्चर्यम् !
युगान्ते’न्तः कुक्षेर् इव परिसरे पल्लव-लघोर्
अमी सर्वे ब्रह्माण्डक-समुदया देव-वपुषः ।
यथा-स्थानं लब्ध्वावसरम् इह यान्ति सम् शतशः
सहस्रं लोकानां बत लघुनि मिश्राश्रम-पदे ॥३५॥ ५१
(पुरो’वलोक्य) अये ! अयम् असौ—
अद्वैतेन्दोर् उदय-जनितोल्लास-सीमातिशायी
श्री-चैतन्यामृत-जल-निधी रिङ्गतीवोत्तरङ्गः ।
पूर्णानन्दो’प्य् अयम् अविकृतः शश्वद् उच्चैर् अखण्डः
खण्डानन्दैर् अपि कथम् अहो भूयसीं पुष्टिम् एति ॥३६॥ ५२
(ततः प्रविशति यथा-निर्दिष्टः श्री-चैतन्यः पुरीश्वर-स्वरूपादयश् च ।
श्री-कृष्ण-चैतन्य उपसृत्य नित्यानन्दं प्रणम्याद्वैतं परिष्वजते ।
अद्वैतः प्रणम्य प्रतिपरिष्वजते ।)
**सार्वभौमः **(निरूप्य) **: **
प्रेमारण्य-करीन्द्रयोर् इह मिथः प्रेम्णा मदोत्सिक्तयोर्
अन्योन्यं कर-घट्टना-चटुलयोस् तार-स्वरं गर्जतोः ।
अन्योन्यं गलद्-अश्रु-दान-पयसा संसिक्तयोर् एतयोर्
अन्योन्यं परिरम्भ एष जयताद् अद्वैत-चैतन्ययोः ॥३७॥
(सर्वे इतस् ततो भुवि दण्डवन् नमन्ति । भगवान् सर्वान् एवालिङ्गन-सम्भाषण-दर्शनादिभिर् अनुगृह्णाति । अद्वैतो’दृष्ट-पूर्वान् परिचाययति । श्री-कृष्ण-चैतन्यो’दृष्ट-पूर्वान् अपि तान् स्वयम् एव नाम-ग्राहं सम्बोधयति ।) ५३
गोपीनाथाचार्यः : अहो अतिचित्रम् !
क्षेमं ते राघव ननु शिवं वासुदेव प्रियं ते
हंहो नारायण ननु शिवानन्द कल्याणम् आस्ते ।
भव्यं हे शङ्कर नु कमलानन्द-काशीश्वरौ वां
भद्रं श्रीकान्त तव कुशलं स्वस्ति नारायणस्य ॥३८॥
अपि च—
इति प्रियोक्त्या मधुरार्द्रया शनैर्
अदृष्ट-पूर्वान् अपि दृष्टवत् प्रभुः ।
सम्बोधयत्य् एष किम् ईशताथवा
प्रेमैव वा प्राक्तन एष सर्व-वित् ॥३९॥ ५४
श्री-कृष्ण-चैतन्यः :
अद्यायं मे समजनि महान् उत्सवः शवः परश्वो
वान्यो नीलाचल-शशधरस्योत्सवो गुण्डिचाख्यः ।
तुल्यौ यद्यप्य् अहह हृदयानन्द-निःस्यन्द-हेतु-गर्भ-विशेषाणं यत्राद्वैत-प्रकटनम् असाव् उत्सवो मे प्रमोदी ॥४०॥
(इति प्रत्येकम् अद्वैतादीन् भगवज्-जगन्नाथ-प्रसाद-माला-चन्दनाभ्यां भूषयित्वा श्री-हस्तेन प्रसादान्नं किञ्चित् किञ्चिद् ददाति ।)
**सार्वभौमः : **न मयेदानीम् उपसर्तव्यम् । माम् अवलोक्य रसान्तरं भवितुम् अर्हति । गत-प्रायम् एवैतद्-दिन-द्वयम् । यात्रायाः सामग्री-समवधानाय राज्ञा नियुक्तो’स्मि । तद् अधुना तत्रैव गच्छामि । आचार्य त्वम् अत्रैव तिष्ठ । (इति निष्क्रान्तः ।) ५५
**गोपीनाथाचार्यः **(उपसृत्य) : जयति जयति महाप्रभुः !
श्री-कृष्ण-चैतन्यः : कथम् आचार्यो’सि । एहि प्रणमाद्वैतम् ।
(गोपीनाथाचार्यस् तथा करोति ।)
**अद्वैतः **(आलिङ्ग्य) : जानामि भवन्तं विशारदस्य जामातरम् ।
श्री-कृष्ण-चैतन्यः : अत एव महोत्तरो’यम् । आचार्य, वाणीनाथेन सह युक्त्या सर्वेषाम् अवस्थानं कल्प्यताम् ।
गोपीनाथाचार्यः : यथाज्ञापयति भगवान् । (इति निष्क्रान्तः ।)
श्री-कृष्ण-चैतन्यः : वासुदेव ! यद्यपि मुकुन्दो मे प्राक् सहचरस् तथापि त्वम् अद्य दृष्टो’प्य् अतिप्राक्-प्रियतमो’सि । ५६
**वासुदेवः **(स-दैन्यम्) **: **भगवन् ! क्वाहं वराकः, मुकुन्दस् तु तवानुगृहीत एव चिरम् । तेनेश्वरानुग्रह-कालस्य जन्म-कालतया कनीयान् अप्य् असौ मम ज्यायान् एव ।
श्री-कृष्ण-चैतन्यः : शिवानन्द ! त्वम् अतीव मयानुरक्तो’सीति जानामि ।
शिवानन्दः :
निमज्जतो ऽनन्त भवार्णवान्तश्
चिराय मे कूलम् इवासि लब्धः ।
त्वयापि लब्धं भगवन्न् इदानीम्
अनुत्तमं पात्रम् इदं दयायाः ॥४१॥ [स्तोत्र-रत्ने २१]
(इति भूमौ निपतति ।) ५७
श्री-कृष्ण-चैतन्यः : राघव ! त्वम् अतिप्रेम-पात्रम् असि मे ।
(राघवो’नुक्त्तरेणैव प्रत्युत्तरयन् प्रणिपतति ।)
श्री-कृष्ण-चैतन्यः : स्वरूप ! यद्य् अयं शङ्करो दामोदरानुजस् तथापि मे… (इत्य् अर्धोक्ते दामोदरं निरीक्षते ।)
दामोदरः : नाथ ! ममेदम् अतिसौभ्याग्यम् एव । तद् अयं समाप्यतां वाक्-शेषः ।
श्री-कृष्ण-चैतन्यः : स्वरूप ! दामोदरे सादरः स्नेहः, अत्र तु निरवकरं प्रेम, तद् अयम् अत्रैव भवत्-समीपे तिष्ठतु । गोविन्द ! त्वयाप्य् अस्यानुकूल्यं विधेयम् ।
**उभौ : **यथाज्ञापयति देवः । ५८
**गोपीनाथाचार्यः **(प्रविश्य सत्वरं) : स्वामिन् ! यथाज्ञं सर्वं सुसम्पादितम् । विशेषतो गदाधरस्य यमेश्वरस्य समीपे समीचीनम् एव स्थलं सार्वाकालिकं जातम् अस्ति ।
**श्री-कृष्ण-चैतन्यः : **अद्वैत ! अयं द्वितीयो मुनीन्द्र इव पुरीश्वरः, यः किल तव गुरोः प्रिय-शिष्यः । तद् एनं प्रणम ।
(अद्वैतस् तथा करोति । सर्वे तथैव प्रणमन्ति ।)
श्री-कृष्ण-चैतन्यः : आचार्याद्वैत ! अयम् अयं स्वरूपः, स्वं रूपम् अस्यास्तीति निरुक्तेर् अविकृत एवायं मम हृदयम् एवायम् इति जानीथाः । ५९
अद्वैतः : एवम् एव । (इति प्रणमति । सर्वे प्रणमन्ति ।)
गोपीनाथाचार्यः : भगवन्न् आज्ञाप्यताम् अमीसां विश्रामाय ।
श्री-कृष्ण-चैतन्यः : आचार्य ! स्वयम् एवोच्यताम्, याहीति कथं मया वक्तव्यम् ।
(अद्वैतादय इङ्गितं बुद्ध्वा निष्क्रान्ताः ।) ६०
**श्री-कृष्ण-चैतन्यः : **स्वामिन् पुरीश्वर ! प्रणयिन् स्वरूप ! अद्याहं पूर्णो’स्मि ।
**स्वरूपः : **स्वामिन् !
ईशरः स्वेन पूर्णो’पि पार्षदैर् एव पूर्यते ।
पूर्णो’पि रजनी-नाथो रिक्त एवोडुभिर् विना ॥४२॥
तद् आगच्छ, सायाह्नो जातः । भवन्तम् अन्तरेण पुरीश्वरो’प्य् अकृत-भिक्ष एव ।
श्री-कृष्ण-चैतन्यः : एवम् एव । (इति निष्क्रान्ताः ।)
नेपथ्ये :
शतधृतिर् अपि धृति-हीनः सहस्र-नयनो’पि परमान्धः ।
नीलगिरीन्दु-स्यन्दन-यात्रा-सन्दर्शनौत्कण्ठ्यात् ॥४३॥
**गोपीनाथाचार्यः **(आकर्ण्य) : अहो मुहूर्तम् इव गतं दिन-द्वयम्, यद् अयं रथयात्रा-प्रसङ्गो भट्टाचार्येण प्रस्तूयते, तन् निभालयामि । (इति कियद् दूरं गत्वा) अहो चित्रम् !
मूर्तास् त्रय इव वेदाः शम्भोस् त्रीणीव नयनानि ।
तिस्र इवामर-सरितो धाराः पुरतो रह-त्रयी स्फुरति ॥४४॥ ६२
**पुनर् नेपथ्ये **:
आयातो’द्य रथोत्सवस्य दिवसो देवस्य नीलाचला-
धीशस्याद्य पुरो नटिष्यति निजानन्देन गौरो हरिः ।
विश्रान्तिं नटनावसान-समये कर्ताद्य जाती-वने
हन्ताद्यैव मनोरथः सफलतां यास्यत्य् अयं मादृशः ॥४५॥
गोपीनाथाचार्यः : हओ गजपतेर् महाराजस्यालाप इव श्रूयते, तद् अवधातव्यम् अवश्यम् इदम् । (इति निरूप्य) सत्यम् एवायं भट्टाचार्येण सह सङ्कथयन्न् उत्कण्ठते महाराजः । पश्यामि को विलम्बो जगन्नाथ-रथारोहणस्य । (इति पश्यति ।)
(नेपथ्ये काहलादि-निर्घोषः ।) ६३
**गोपीनाथाचार्यः **(निरूप्य) : अहो !
हृदयम् इव महः समाधि-भाजाम्
उदय-गिरेर् इव शीर्षम् उष्ण-रश्मिः ।
अयम् अखिल-दृशां रसायन-श्री
रथम् अधिरोहति नीलशैल-नाथः ॥४६॥ ६४
(पुनर् निरूप्य)
अद्वैताद्यैर् अखिल-सुहृदां मण्डलैर् मण्ड्यमानो
गायद्भिस् तैः कतिभिर् अपरैः श्री-स्वरूप-प्रधानैः ।
श्रीमद्-वक्रेश्वर-मुख-सुधाविष्ट-भूयिष्ठ-बन्धुः
सिन्धुः प्रेम्णाम् अयम् इह नरीनर्ति गौरो यतीन्द्रः ॥४७॥ ६५
(नेपथ्ये कलकलः)
**गोपीनाथाचार्यः **(सहर्षम्) :
गौडाख्यै रथ-कर्षिभिर् जन-चयैर् आदाय वामे करे
हेलोल्लासित-पीन-रज्जु-पटली-सङ्कर्षण-व्याजतः ।
स्थायं स्थायम् अहो क्वचिद् द्रुततरं धावत्य् अमन्दं क्वचिद्
धावं धावम् अहो स्थितः स्थिरतरं स्वेच्छा-वशः स्यन्दनः ॥४८॥ ६६
(पुनर् नेपथ्ये सङ्कीर्तन-कोलाहलः ।)
**गोपीनाथाचार्यः **(आलोक्य सकौतुकम्) :
प्रचलित जगन्नाथे गौरो’पसर्पति सम्मुखात्
स्थितवति जगन्नाथे गौरः प्रसर्पति तत्-पुरः ।
अतिकुतुकिनाव् एवं देवौ परस्परम् उत्सुकौ
कलयत इव क्रीडां नीलाचएल्न्द्र-मणीश्वरौ ॥४९॥
(पुनर् निभाल्य) अहो—
स्थितवति बलगण्डी-मण्डपस्योपकण्ठं
भगवति जगदीशे शान्त-नृत्यो यतीन्द्रः ।
उपवनम् अनुगच्छन् पार्षदैः प्रेमवद्भिः
सह जयति नितान्त-श्रान्तितो विश्रमाय ॥५०॥
तद् अधुना नरपतिनापि गूढ-वेशेन तत्राभिसर्तव्यम् इति भट्टाचार्यस्येङ्गितेन ज्ञातम् अस्ति । तद् अहम् अपि सत्वरम् उपसर्पामि । (इत्य् उपसर्पति ।) ६७
(ततः प्रविशति नृत्यानन्दानुभव-निष्पन्दो निमीलित-नयनो नयनाभिराम उपवन-मण्डपम् अध्यास्य प्रसार्यमाण-लोलच्-चरण-कमल-नाल-दण्ड-युगलो गल-लोचन-जल-धौत-वक्षाः साक्षाद् इव प्रेमानन्दः श्री-कृष्ण-चैतन्यः प्रतितरु-मूलम् एकैकम् उपविष्टास् तूष्णीकाः पार्षदाश् च ।)
**भगवान् : **अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन्न् अरविन्द-लोचन [भा.पु. ११.२९.३] (इति श्लोकार्धम् एव भूयो भूयः प्रमीलित-नयन एवं पठति ।)
**गोपीनाथाचार्यः **(आलोक्य) : अहो प्रेमानन्दास्वाद-महिमा देवस्यानुभूतस्य नृत्य-कालिन-भगवत्-कृष्ण-साक्षात्कारानन्दस्य ब्रह्मानन्दतो’पि चमत्कार-कारणत्वं चर्वणयास्वादयति । अथेति—उच्चावच-शास्त्र-सकल-प्रतिपाद्यावबोध-परिसमाप्तौ । अत इति ब्रह्मानन्दाद् अपि चमत्कार-कारत्वात् । हंसा सारासार-विवेक-चतुराः पदाम्बुजं श्रयेरन् । कुतः ? आनन्द-दुघम् इति स्वानुभूतानन्द-माहात्म्यासूचनम् इदम् । (परितो’वलोक्य) अहो इत एव सर्वे परम-भागवताः । तथा हि—
निस्पन्दम् उज्ज्वल-रुचः सुशिखाः सुपूर्ण-
स्नेहास् तमः-क्षय-कृतः प्रतिशाखि-मूलम् ।
आभान्ति शोभन-दशास् त इमे महान्तो
निर्वात-मङ्गल-महोत्सव-दीप-कल्पाः ॥५१॥
भवतु, अत्रैव क्वापि निभृतम् उपविश्य राज्ञाः प्रवेशं प्रतिपालयामि । (इति तथा करोति ।) ६९
(ततः प्रविशति त्यक्त-राज-वेशः परिहित-धौत-वसन-युगलो राजा ।)
**राजा **(सोत्कण्ठम्) :
उत्कण्ठा-भर-तर्कयोर् बलवतोर् आच्छादनं कुर्वती
माम् उच्चैस् तरलीकरोति चरणौ हा धिक् कथं स्तभ्नुतः ।
हंहो दैव परीक्षयाद्य भवतः प्राय-परीक्षा मम
प्राणानाम् अपि भाविनी नहि मम प्राणेषु को’पि ग्रहः ॥५२॥
(इति शनैः शनैः परिक्रामति ।)
**गोपीनाथाचार्यः **(राजानं निर्वर्ण्य) : अहो चित्रम् !
प्रभाव-मात्रैक-नृदेव-चिह्नो
वीरो रसः सुप्त इवायम् अग्रे ।
आनन्द-शङ्का-भय-तर्क-मिश्रः
कृच्छ्रेण विन्यसति पाद-पद्मम् ॥५३॥
(परितः सर्वे आत्मगतम्) अहो मङ्गल-सूत्र-मुद्रित-करो’यं राजा प्रतापरुद्रः, कथम् अयं गृहीत-तपस्वि-वेषो’कस्माद् उपसर्पति । स्वामिनाम् उद्वेगो भावी । तद् अवलोकयामः किम् अयं करोतीति । ७०
(राजा शनैर् इतस् ततो’वलोकयन् सहसैवोपसृत्य दोलायमानं भगवच्-चरण-कमल-युगलं परिघ-दीर्घाभ्यां दोर्भ्यां दृढतरम् आलिङ्गति ।)
**सार्वभौमः **(आलोक्य) **: **अतो महान् अयम् अनर्थः । निमीलयन्-नयन-कमलेन स्वानन्दावेश-विवशेन भगवतायम् अलक्षित एव यद् भगवच्-चरण-कमले दधार । तद् अस्य न विद्मः किं भावि ।
**भगवान् **(स्वानन्द-स्थ एव निमीलिताक्ष एवानिभालनेनैव गाढं परिष्वज्य) :
को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् ।
न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः ॥ [भा.पु. ११.२.२]
(इति पुनः पुनः पठति ।)
गोपीनाथाचार्यः : अहो कौतुकम् !
साहसं क्व च गुणाय कल्पते
क्वापि दूषणतया च सिध्यति ।
साहसेन यद् अकारि भूभुजा
तत् तपोभिर् अखिलैश् च नाप्यते ॥५५॥ ७१
(पुनर् निभाल्य)
महामल्लैर् यस्य प्रकट-भुज-वक्षःस्थल-तटी-
विनिष्पेषाद् भुग्नास्थिभिर् इव विदध्रे विकलता ।
स एवायं माद्यत्-करि-वर-कराक्रान्त-कदली-
तरु-स्तम्भआकारो’प्य् अजनि भगवद्-बाहु-दलितः ॥५६॥ ७२
(नेपथ्ये कलकलः । भगवान् राजानं परित्यज्य तत्-कलकलाकलित-रथ-प्रस्थान-सत्वरः पुनर् जगन्नाथ-दिदृक्षया तथा-विध-स्वानन्दत्व एव निष्क्रामति । सर्वे यथायथं तम् अनु निष्क्रामन्ति ।)
**गोपीनाथाचार्यः **(उपसृत्य) : महाराज ! जगन्नाथ-दर्शनार्थं गतो देवः । सम्प्रति भवन्तो’पि चलितुम् अर्हन्ति ।
(इत्य् आनन्द-तन्द्रितं राजानम् आदाय निष्क्रान्तः ।
इति निष्क्रान्ताः सर्वे ।) ७३
इति प्रतापरुद्राग्रहो नाम अष्टमो’ङ्कः
॥८॥
(९)
नवमो’ङ्कः
(ततः प्रविशति किन्नर-मिथुनम् ।)
**पुरुषः : **प्रिये ! गत-गतेभ्योऽपि संवत्सरेभ्य ऐषमः50 खलु जगन्नाथस्य गुण्डिचोत्सवः परम-रमणीयो दृष्टः ।
**स्त्री- **कहं बिअ ? [कथम् इव?]
**पुरुषः : **अस्मिन्न् अब्दे तु मूर्तिमद्-आनन्देनैव कनक-गिरि-गौरेण यतीन्द्र-वेश-धारिणा भक्तावतारेण भगवता श्री-कृष्ण-चैतन्येन महोत्सवोऽयं सरुअसत्वेन परम-रमणीयो विहितः ।
स्त्री : हद्धी हद्धी । अहं कथं सङ्गे ण णीदा ? मए दट्ठुं ण पारिदं ? [हा धिक् हा धिक्! अहं कथं सङ्गे न नीता ? मया द्रष्टुं न प्राप्तम् ?]
पुरुषः : प्रिये ! आगामिन्य् अब्दे दर्शनीयो भवत्या ।
स्त्री : आगमिणि अद्दे जै एब्बं होइ । [आगमिन्य् अब्दे यद्य् एवं भवति ।]
पुरुषः : प्रिये ! इतः प्रभृति तेनात्रैव स्थातव्यम् ।
स्त्री : एत्थ को णिअमो ? [अत्र को नियमः ?]
पुरुषः : जानामि तत्त्वम् ।
स्त्री : कधं जाणीदं ? [कथं ज्ञातम् ?]
पुरुषः : परस्परं कथयतां तज्-जनानां तज्-जनानाञ्चित-चरित्र-विदां कथयैव ।
स्त्री : केरिसी सा कहा ? [कीदृशी सा कथा ?]
**पुरुषः : **प्रिये ! श्रूयतां, अस्य त्रिविध एव लोकानुग्रह-प्रकारः ।
स्त्री : केरिसो तिण्ण विहो? [कीदृशस् त्रिविधः ?]
पुरुषः : एकः साक्षात्कारी, द्वितीयः पर-हृदय-प्रवेश-लक्षणः, तृतीयश् चिन्तन-मात्राविर्भाव-रूपः ।
स्त्री : विवरेइअ कहेहि । [विवृत्य कथय ।]
**पुरुषः : **ये खलु पुरुषोत्तम-क्षेत्रागमन-समर्थास् तेषां साक्षात्कारी । तथा हि, प्रतिसंवत्सरं स-रंहसो नाना-देशतः सर्वे जगन्नाथ-दर्शनतोऽपि तद्-दर्शन-बद्धोत्कण्ठा अदृष्ट-पूर्वा अश्रुत-पूर्वाः परः-सहस्राः प्राणिन उपतिष्ठन्ति ।
स्त्री : तदो तदो ?
**पुरुषः : **ततस् तेषु गौडीयाः प्रियाः, गौडीयानां मध्ये ये’तिप्रियाः शतशः दृष्टवन्तस् ते’प्य् अदृष्टवन्तो’पि शुभादृष्टवन्तः । यथामी—
नरहरि-रघुनन्दन-प्रधानाः
कतिचन खण्ड-भुवो’प्य् अखण्ड-भाग्याः ।
प्रथमम् इमम् अदृष्टवन्त एते
प्रतिशरदं पुरुषोत्तमं लभन्ते ॥१॥
कुलीन-ग्रामीणा अपि गुणराजान्वय-भुवो
जना रामानन्द-प्रभृतय इमे देव-सुहृदः ।
तथा न्यायाचार्यादय उपचित-प्रेम-सरसा
महा-विद्वांसो’मी प्रतिशरदम् अत्रोपगामिनः ॥२॥
भगवन्-नाम-न्यायाचार्यस् तु पुरुषोत्तम एव भगवच्-चैतन्य-दर्शनाकाङ्क्षी यावज्-जीवं स्थितः । एवम् एषां साक्षाद् अनुग्रहः । आगमनासमर्थानां तु पर-हृदयम् आरुह्यानुग्रहः क्रियते । हृदयारोह-योग्यास् तु अद्वैत-नकुल-ब्रह्मचर्यादयः ।
स्त्री : किञ्चि कधेहि । [किञ्चित् कथय ।]
**पुरुषः : **अद्वैतारोह-वार्ता तु प्रथीयसी, तत् कथनं बहु-काल-साध्यम् । नकुल-ब्रह्मचारि-हृदयारोहः श्रूयताम् ।
स्त्री : कधेहि अबहिदम्हि । [कथय अवहित्थास्मि ।]
**पुरुषः : **अस्ति कश्चिद् अम्बु-ग्रामे परम-वैष्णव आजन्म-ब्रह्मचारी नकुलो नाम । तस्यैकस्मिन् दिवसे ग्रह-ग्रस्तस्येव कस्याम् अपि दशायाम् उत्पन्नायाम् आनन्दाश्रु-पुलक-निर्भरस्य दर्शन-मात्रेणैव सर्वेषां हृदय-कुहरे श्री-चैतन्यावेशो’यम् अस्य जात इति प्रत्ययम् उत्पादयत एव कतिचिद् अहो-रात्रा गताः । ६
स्त्री : तदो तदो ?
पुरुषः : तद् अनु—
गौर-त्विषा कपिशयन् ककुभः समन्ताद्
आनन्द-भोग-परिलोपित-बाह्य-वृत्तिः ।
आबाल-वृद्ध-तरुणैर् अथ लक्ष-सङ्ख्यैर्
लोकैर् अभूत् प्रणयिभिः परिपूज्यमानः ॥३॥ ७
स्त्री : तदो तदो ?
पुरुषः : ततो दैवात् तस्मिन् काले तत्र गतेन भगवच्-चैतन्य-पार्षदेन शिवानन्देन तम् उदन्तम् अत्यन्त-सन्दिह्य्मानतयाश्रुत्य दिदृक्षुणा मनसि कृतम्—अहो किम् एतस्य दर्शनेन साक्षाद् एव मया दृष्टो’स्ति भगवान् । तम् आलोक-सुख-सदृशं किम् अस्य दर्शनेन भविष्यति सुखम् ? नैव । इति वर्तमानेन पुनर् मनसि कृतं—अहो यद्य् अयं सर्व-लोक-बहिर्-वर्तमानं मां स्वयम् एवाहूय स्व-समीपं नीत्वा मामकम् इष्ट-मन्त्रं प्रख्यापयति, तदा सत्यम् एवात्र तस्यावेशो जातः इति चिन्तयित्वा प्रसारिण्यो जन-समूहस्य बहिः स्थितवति शिवानन्दे यावद् आवेशं तूष्णीं स्थितो’प्य् असौ । कः को’त्र भो दूरे वर्तमानः शिवानन्द आहूयताम् इति निदेश-मात्रेण धावद्भिर् एव कतिभिर् इतस् ततो नाम-ग्राहं विचिन्वद्भिर् अतिदूरे स्थितं तम् आदाय तन्-निकटम् आययौ । अनन्तरं च तेन गदितम्—शिवानन्द ! भवता मनसि विचारितं यत् तद् आकर्ण्यताम्—भवदीय इष्ट-मन्त्रश् चतुर्-अक्षरो गौर-गोपाल-देवताकः इत्य् आकलय्य तेन निर्णीतं सत्यैवेयं प्रथेति । ८
स्त्री : अज्ज-उत्त ! तीओ केरिसो ? [आर्य-पुत्र, तृतीयः कीदृशः ?]
पुरुषः : तृतीयस् तु चिन्तन-मात्राविर्भावो यः सो’पि श्रूयताम् । एकदा तस्यैव शिवानन्दस्य भागिनेयः श्रीकान्त एकक एव प्रथमं श्री-पुरुषोत्तमम् आगत्य भगव-चैतन्य-चरणौ ददर्श । तस्मिन्न् एव समये कौतुक-वशात् पुरीश्वर-स्वरूपादि-समक्षं श्री-भगवता किञ्चिज् जगदे जगद्-एक-बन्धुना—श्रीकान्त ! अस्मिन्न् अब्दे अद्वैतादयो दयोद्धुरा वक्तव्यास् ते यथा नायान्ति, मयैव तत्र गन्तव्यम् इति । अपि च, शिवानन्दो’पि भवन्-मातुलो वक्तव्यः—पौषे मासि तत्रोपसन्नेन मया भवितव्यम् । तत्र जगदानन्दो’स्ति, तत्रैव भिक्षा कर्तव्या इति निवृत्तेन श्रीकान्तेन भगवत्-सन्देशे कथिते सति सर्वे’द्वैतादयश् चलनोद्यमाच् छिथिलीबभूवुः । शिवानन्दस् तु भगवद्-आगमनम् अभिललिषिषुर् भगवद्-भिक्षायाम् इदं लगिष्यतीति कृत्वा भगवत्-प्रियत्वेन वास्तुक-वास्तुक-दली-गर्भोत्थ-कणिशादि-सामग्री-समवधानाय स्थितवान् । ९
स्त्री : तदो तदो ?
पुरुषः : ततो दैवाद् गोदावरीतः समयातेन रामानन्द-रायेणोपरोधितो भगवान् न गन्तुम् ईष्टे ।
स्त्री : तदो तदो ?
**पुरुषः : **ततो’सौ शिवानन्दः श्री-नृसिंहानन्द-ब्रह्मचारीति प्रथितः परम-योगीन्द्रं साक्षान् नृसिंहम् इव प्रद्युम्न-ब्रह्मचारित्वेन पूर्व-ख्याताव् अपि भगवतैव नृसिंहोपासना-सिद्धत्वेन नृसिंहानन्द इति कारित-संज्ञं समये समुवाच—स्वामिन् ! आयास्यामीति कृत्वा भगवान् नायातः । वास्तुक-शाकम् अवलोक्य मनो-दुःखम् एव जायते । १०
स्त्री : तदो तदो ?
पुरुषः : ततस् तेनोक्तं—मयैवानेतव्यो दिन-द्वयम् अपेक्ष्यताम् इति । तत्-प्रभावज्ञो’सौ तथैव श्रद्दधे । स च नृसिंहानन्दो नृसिंहानन्दो’पि तं समयम् आरभ्य समाधि-स्थो दिन-द्वयाभ्यन्तरे शिवानन्दम् आहूय—अये भगवच्-चैतन्यो राघवालये समानीतो’स्ति । प्रातर् अत्रागमिष्यति । मयैव पक्तव्यम् । भिक्षा च दातव्या । इति श्रुत्वा तस्मिन्न् अपि तथोद्युक्ते सति स्वयम् उषसि कृत-स्नानः शुचितरो भूत्वा पाके प्रवृत्तः । स्वेच्छा-पूर्वं यथेष्टम् एव पेचिवान् । अनन्तरं तस्मिन्न् एव रसमये समये श्री-चैतन्यस्य जगन्नाथस्य नृसिंहस्य च पृथक् पृथक् त्रयो भोगा विभज्य निष्पादिताः । अनन्तरं तत्-तन्-नाम्ना समर्प्य बहिर् भूय निमीलित-चक्षुर्-आन्तरेण चक्षुषा पश्यति त्रीन् एव भोगान् एक एव भगवान् भुङ्क्ते । अनन्तरं सञ्जात-महानन्दो गलद्-अश्रु-धारः सारवम् उच्चैः प्रणयामर्ष-कृपाक्षेपम् इदं भद्रं भो भद्रं जगन्नाथेन सह तवैक्यम् अतो जगन्नाथस्य भोगो भुज्यतां नाम । मम नृसिंहस्य भोगः कथं भुज्यते ? नृसिंहो’द्य मयायम् उपोषित इत्य् उच्चैर् आक्रन्दं शिवानन्देनोक्तम्—स्वामिन् ! कथम् आक्रुश्यते ? इति ।
स्त्री : तदो तदो ?
**पुरुषः : **ततस् तेनोक्तम्—तव गोस्वामिना चैतन्येन भोग-त्रयम् एव भुक्तम् । नृसिंहस्योपवासो जातः इति ।
स्त्री : तदो तदो ?
**पुरुषः : **ततः शिवानन्देनोक्तम्—स्वामिन् ! नृसिंहार्थम् अन्या भोग-सामग्री कर्तव्येति । तथा कृते स्वस्थो बभूवेति स्थिते शिवानन्दस्य संशयो जातः—किम् एतेनावेश-वशाद् एवोक्तम् अथवा सत्यम् एव इति मनसि कृत्वा पुनर् अन्यस्मिन् संवत्सरे पुरुषोत्तमम् आसाद्य भगवच्-चैतन्य-सविधे गतः । प्रसङ्गतो नृसिंहानन्दस्य तन्-महिम-कथने’वान्तर-भूता पाक-क्रिया तस्यातिसमीचीनेत्य् अपि वदति भगवति सर्वेषु सन्दिहानेषु मया गते संवत्सरे पौषे मासि तस्य भिक्षा कृता । तत्र तस्य पाक-कौशलं ज्ञातम् इत्य् उक्ते पुनः सर्वे सन्दिग्धा एव स्थिताः । शिवानन्दस् तु निःसन्देहो बभूवेति व्याख्यातस् ते त्रिविधो’नुग्रह-प्रकारः ।
स्त्री : अच्चरिअं अच्चरिअं ! ता एदं पि कधेहि । रामाणन्देण कहं तत्थ गन्दुं णिसेहो किदो ? [*आश्चर्यम् आश्चर्यम् ! तद् इदम् अपि कथय । रामानन्देन कथं तत्र गन्तुं निषेधः कृतः *?]
**पुरुषः : **प्रिये ! स तावद् भगवतो’तिप्रणयी तद्-विच्छेदं न सहते । तेन तद्-उपरोधान् मथुरां जिगमिषुर् अपि वर्ष-द्वयम् अद्य श्व इति कृत्वा विलम्बितो भगवान् ।
स्त्री : अदो बरां एत्थ ज्जेब बट्टिस्सदि । अहबा महुरां गमिस्सदि । [*अतः परम् अत्रैव स्थास्यति । अथवा मथुरां गमिष्यति *।]
**पुरुषः : **प्रिये, अधुना तु चिरम् अनुनीय तम् एव रामानन्दं तेनानुमतं गौड-वर्त्मन्य् एव गन्तुम् उद्यतो’स्ति ।
स्त्री : अज्ज-उत्त, पुणो एत्तह् आअमिस्सदि ? [*आर्य-पुत्र, पुनर् अत्र आगमिष्यति *?]
**पुरुषः : **अथ किम् ।
स्त्री : एत्थ अत्थि संदेहो । जदो महुरा क्खु एदस्स पिअट्ठाणं । [*अत्रास्ति सन्देहः । यतो मथुरा खल्व् असय प्रिय-स्थानम् *।]
पुरुषः : यद्यप्य् एवं, तथापि—
आपामरं प्राणिन उद्दिधीर्षोर्
नीलाचलेन्दोर् अतिभारम् एतम् ।
लघूकरिष्यन् पुरुषोत्तम-स्थो
भूयो’पि भावी पुरुषोत्तमो’यम् ॥४॥
स्त्री : आं होइ, एबं होइ । [आं, भवति एवं भवति ।]
**नेपथ्ये : **भत्ताचार्य ! कथं रामानन्देनास्मिन् कर्मणि कृतानुमतिः ।
पुरुषः : प्रिये ! श्रुतम् इदं यद् अभिहितं मया तद् एवाधुना तद्-विच्छेद-विधुरो गजपतिर् अपि सार्वभौमेन सह सङ्कथयन्न् आस्ते । तद् आवाम् अपि भगवन्तं नीलाचल-चन्द्रं गानेनोपस्थातुं गच्छाव । (इति निष्क्रान्तौ)
– प्रवेशकः –
(ततः प्रविशत्य् आसन-स्थो राजा सार्वभौमश् च ।)
**राजा : **भट्टाचार्य, रामानन्दस्याग्रह-पाश-ग्रन्थि-शैथिल्येनैव भगवान् प्रस्थितः ।
सार्वभौमः : ईश्वरेण सार्धं किम् अधिको हठः कर्तुं शक्यते । तथापि वर्ष-द्वयम् एव विलम्बितः ।
**राजा : **भट्टाचार्य, रामानन्देन मे महान् एवोपकारः कृतः । तथा हि—
आनीतो राजधान्याः पथि पुरु-करुणः कारितं चेक्षणं मे
स्पर्शः पादाम्बुजस्य व्यधित मम दुरापो’पि सम्यक् सुखापः ।
वाक्-पीयूषं च सानुग्रहम् अतिमधुरं पायितं श्रोत्र-पेयं
यन् नाभूद् भूरि-यत्नैस् तद् अजनि सहसा शून्यम् अन्तस् तथापि ॥५॥
**सार्वभौमः : **महाराज ! रामानन्दो हि भागवतोत्तम एव । तथा हि—प्रणय-रसनया धृताङ्घ्रि-पद्मः, स भवति भागवत-प्रधान उक्तः [भा.पु. ११.२.५५] इति । तेनास्य भगवान् वश एव । अतस् तद्-उपरोधेन भगवता त्वयेतादृशो’नुग्रहः कृतः ।
राजा : रामानन्देन कियद् दूरम् अनुव्रजितव्यम् ?
**सार्वभौमः : **भद्रक-पर्यन्तम् इति श्रुतम् ।
राजा : स्वामिनः सङ्गे कियन्तश् चलिताः ?
**सार्वभौमः : **पुरीश्वर-दामोदर-जगदानन्द-गोपीनाथ-गोविन्दाद्याः पञ्चषा एव ।
राजा : हन्त—
यद्यपि जगद्-अधीशो नील-शैलस्य नाथः
प्रकट-परम-तेजा भाति सिंहासनस्थः ।
तद् अपि च भगवच् छ्री-कृष्ण-चैतन्य-देवे
चलति पुनर् उदीचीं हन्त शून्या त्रिलोकी ॥६॥
**सार्वभौमः : **राजन् ! निरुपधि-प्रेम्णो हीदृशः प्रकारः ।
राजा : अस्मदीयः को’पि न गतः प्रभोर् अनुपदम् ?
**सार्वभौमः : **राजन्, प्रेम्णैवेदम् उच्यते । क्व तस्य त्वदीय-जनापेक्षा, तथापि तवाधिकारं यावत् तव लेखम् आदाय पूर्वम् एव कश्चिद् गतो’स्ति, करिष्यति च स एव सर्व-समाधानम् ।
प्रतिवसति नवीनावासम् अग्रे विधाय
पर्तिगृहम् उपचारैर् भूरिभिः पूरयित्वा ।
कृत-सुवचनम् उच्चैस् तत्र तथाभियुक्तैः
पद-विहरण-खेदं धुन्वते ते विशन्तः ॥७॥
भगवांस् तु रामानन्दस्य कृतिर् इयम् इत्य् एव जानाति ।
(प्रविश्य) **दौवारिकः : **देव ! रामानन्दादयो द्वारम् अधितिष्ठन्ति ।
राजा : त्वरितम् आनीयताम् ।
दौवारिकः : यथाज्ञापयति । (इति निष्क्रम्य तान् आदाय प्रविशति ।)
**राजा **(सादरम् उपवेश्य) : कथय कियद् दूरं भवान् अनुगतो देवम् ।
रामानन्दः : इत इतो निवर्तस्वेति प्रतिपद-मुक्तो’पि भद्रक-पर्यन्तम् अनुगतवान् अस्मि । महाराज, दुस्त्यजो हि व्यवहार-मार्गः, यतः—
तम् अपि परम-दीनोद्धारि-कारुण्य-सिन्धुं
शिव शिव परिहाय त्वद्-भियैवागतो’हम् ।
कथम् अहह न जातस् तत्र मे देह-पातः
कुलिश-कठिन-मूर्तेर् हा यतो’हं निवृत्तः ॥८॥
सार्वभौमः : रामानन्द ! त्वम् अतिधीरो’सि कथम् एवम् उत्ताम्यसि । ईश्वरो हि तथाविध-लील एव व्रज-वासिनो विहाय मथुरां गताह् । पुनस् ततो’पि द्वारवत्यां, पुनस् ततो’पि क्वचित् क्वचित् । तत्रत्याः कथं सहन्ति स्म तद्-विरहम् । यद्यपि दुःसह एव तद्-विरहस् तथापि स एवं तं साहयते । तद् अलम् अनुशोचनेन । राजानम् अधुना सान्त्वयितुम् अर्हसि, न पुनः स्व-खेद-प्रकटनेन खेदयितुम् ।
राजा : कथय ।
**रामानन्दः : **भवद्-अधिकारं यावद् भवदीया एव गच्छन्ति । तद्-ऊर्ध्वं मदीयाः पथि प्रज्ञा एव गौड-राष्ट्र यावद् यास्यन्ति केचित् तेषां कियद् दूरत एवागमिष्यन्ति । केचिद् दूरतरं यास्यन्ति ।
(प्रविश्य) **दौवारिकः : **देव महाप्रभुम् अनुव्रजन्तो ये रायस्य मनुजाश् चलिताः सन्ति, तेषां किम् अन्तः समायाताः ।
**राजा : **प्रवेश्यन्ताम् अविचारेणैव ।
(दौवारिकस् तथा करोति ।)
(प्रविश्य) **पुरुषः : **जयति देवः ।
**रामानन्दः : **कथयत रे ! कियद् दूरं भगवन्तो गताः ?
पुरुषः : कुलिया-ग्रामं यावत् ।
**राजा **(सार्वभौम-मुखं निरीक्षते ।)
**सार्वभौमः : **देव ! नवद्वीप-पारे पार-गङ्गं कश्चन तन्-नामा ग्रामो’स्ति ।
**राजा : **आमूलं कथय ।
पुरुषः : देव, इतो देवाधिकारं यावत् तावत् तव प्रभावेणैव निर्वाहित-वर्त्म-सौकय्रा अचङ्क्रमणेनैव सर्वे गतवन्तः । गौड-सीम्नि प्रवेष्टुं त्रयः पन्थानः । द्वयं रुद्धम् एकस् तु जल-दुर्गः । तम् एवोद्दिश्य चलिते सति तत्-सीमाधिकारी तुर्ष्को’रुष्कोषकार इव सर्वेषां मर्महा महा-मद्यपो दुर्वृत्त-चक्र-चूडामणिः—इतो देशाद्ये गच्छन्ति तेषां दुर्गतिः क्रियते इति श्रुत्वा सर्वेषाम् एव भयम् उत्पन्नम् । महा-प्रभवे को’पि न श्रावयति । अस्मत्-सीमाधिकारिणोक्तं—अत्र क्रियान् विलम्बः क्रियतां यावन् मयानेन सन्धिः सन्धीयते इत्य् एतावत् कश्चन समकालम् एव तस्यैव कश्चिद् अस्मत्-सीमाधिकारिणः समीपम् आगतः ।
**राजा : **ततस् ततः ?
पुरुषः : ततो’नेनोक्तम्—त्रि-चतुरैश् चेद् आयातु नामेति श्रुत्वा तथैवागतो भगवत्-पाद-समीप-भूमौ निपतितश् चिरं प्रणनाम । ततः सर्वैर् उक्तम्—भगवन् ! अस्य साहाय्येनैव सुखेन गन्तुं शक्यते । एनं प्रति कृपावलोकः क्रियताम् इति तद्-अनुरोधेन तं प्रति कृत-दृक्-पाते भगवति स यवनः पुलक्,आश्रु-गद्गद-स्वरो भवन् ग्रह-ग्रस्त इव जातः । ततो गोपीनाथाचार्येणोक्तम्—अये महाप्रभुर् अयं सुखेन कथं चलति ?
**राजा : **ततस् ततः ?
**पुरुषः : **ततस् तेनोक्तं कियद् दूरं भवद्भिर् गन्तव्यम् । तद् अनु गोपीनाथेनोक्तम्—गन्तव्यं तावत् पाणीय-हाटी-पर्यन्तम् इदानीम् ।
**राजा : **ततस् ततः ?
पुरुषः : ततः—
प्रफुल्ल-रोमा गलद्-अश्रु-धारः
स-गद्गदं किञ्चिद् असौ जगाद ।
अहो मदीयं महद् एव भाग्यं
देवस्य साहाय्य-विधौ भवेयम् ॥९॥ इति ।
सकल-सज्जन-नाविकैर् वाह्यमाना नवीना तरणिर् मध्य-गृह-शालिनी पुनः प्रक्षालिता क्षणेनाधिनदि समानायिता । अनन्तरं नौकान्तरं स्वयम् अप्य् आरुह्य भगवन्त एनाम् अधिरोहन्त्व् इति निगदिते देवेन सह सर्वे ताम् आरुरुहुः । अथ स एव जलचर-दस्यु-भय-निवारणाय स्वयम् अग्रेसरो भूत्वा मन्त्रेश्वरम् उत्तीर्य पिच्छनदा-ग्राम-पर्यन्तम् आगतवान् । निवृत्ति-समये भगवता जगन्नाथ-प्रसाद-मनोहराख्य-मोदकाः प्रसादीकृताः । तान् अवाप्य हरिं वदेत्य् आविष्टो भूत्वा महा-भागवत-दशाम् आपन्नः ।
(राजा विस्मयं नाटयति ।)
सार्वभौमः : एवम् एवेश्वरस्य लीला । तथा हि—
अस्थाने’पि प्रथयति कृपाम् ईश्वरो’सौ स्वतन्त्रः
स्थाने’प्य् उच्चैर् जनयतितरां नूनम् औदास्यम् एव ।
रामो देवः स गुहम् अकरोद् आत्मनीनं सखायं
कृष्णः स्तोत्रैः प्रणमति विधौ हन्त मौनी बभूव ॥१०॥
**राजा : **ततः ?
पुरुषः : तद्-आज्ञया भगवत्-कीर्तनं कुर्वन्तस् ते नाविकास् तथा तरणिम् अवाहयन्त यथैकेनाह्ना पाणीय-हाटी-ग्रामे समुत्तीर्णाः स्मः ।
राजा : तत्र को वर्तते ?
**सार्वभौमः : **राघव-पण्डितः ।
पुरुषः : ततो यद् अभूत् तद् आश्चर्यम् ।
**राजा **: कथम् इव ?
पुरुषः : देव !
यावद् देवो न सुर-सरितस् तीर-सीमानम् आप्तस्
तावत् सर्वं जनम् अयम् अभूद् धन्त किं तद् ब्रवीमि ।
किं तत्रासीद् अहह धरणी-धूलयो लोक-रूपाः
किं तारा वा मनुज-वपुषः पेतुर् ऊर्व्यां नभस्तः ॥११॥
एवं गङ्गा-तटतः कष्टेनैव तद्-वाटीम् अभ्याययौ देवः ।
**राजा : **ततस् ततः ?
पुरुषः : ततस् तां रजनीं तत्रैव गमयित्वा परेद्यवि नौ-वर्त्मनैव चलितवान् ।
अथो अविच्छिन्न-शुभ-प्रवाहा
निरन्तराया चपलोर्मि-हस्ता ।
निरन्तरं विष्णुपदावतारा
गङ्गेव दीर्घा जन-पङ्क्तिर् आसीत् ॥१२॥
ततः कुमार-हट्टे श्रीवास-पण्डित-वाट्याम् अभ्याययौ । तत्र च गङ्गा-तीराद् वाटी-पर्यन्त-गमने
यत्र यत्र पदम् अर्पयतीशस्
तत्र पाद-रजसां ग्रहणाय ।
प्राणि-पाणि-पतनेन स पन्था
हन्त गर्त-मय एव बभूव ॥१३॥
तत्रोत्तीर्ण एव भगवति जगदानन्दः शिवानन्दालये भगवद्-अगोचर एव गतवान् । तत्र तेन चिरम् एव स्थितम् इति तद् आसक्त्या भगवान् अत्रानेतव्य इति रचना-वैशिष्ट्यम् अपि कृतवान् ।
अथ—
प्राचीरस्योपरि विटपिनां सर्व-शाखासु भूमौ
रथ्यां रथ्याम् अनु पथि पथि प्राणिषु प्राप्तवत्सु ।
उच्चैर् उच्चैर् वद हरिम् इति प्रौढ-घोषेषु देवो
रात्री-शेषे तरिम् अधि शिवानन्दानीतः प्रतस्थे ॥१४॥
ततो जगदानन्देनोभयोः पार्श्वयोः कदली-स्तम्भ-पूर्ण-कुम्भ-मुकुल-दीपावलीभिः सुरचनाविशेषेण शिवानन्द-वाटी-पर्यन्तम् अभिमण्डितं वर्त्मारूढः स्मित-सुमधुर-वदनो जगदानन्द-कृतम् इति मन्यमानो वामे वासुदेव-वाटी-पथम् अपि तथा-विधम् आलोक्य किम् इतो’ग्रे गन्तव्यं किम् इत इति सन्दिहानो वासुदेवेनोचे—भगवन् ! अग्रतः शिवानन्द-वाटीम् एवालङ्कुरु इति । तथा कुर्वाणा जगदानन्देन धारित-चरणाम्बुजस् तदीय-भगवद्-गृहं प्रविष्टः । अनन्तरं तच्-चरणोदकं गृह-पटलोपरि किञ्चिद् विकीर्य कियद् अन्तः-पुरे परिजनेभ्यो जगदानन्देनैव दत्तम् । अनन्तरं मुहूर्तं स्थित्वा वासुदेव-वाटीम् आगत्य क्षणम् अवस्थाय पुनस् तरणिम् आरुह्य चलितवति भगवति चरण-जल-ग्रहणार्थम् आकण्ठ-मग्नानां जनानां यद्-वैयाग्र्यं जातं तद् अवलोक्य भगवतस् तथा करुणा जाता यथा सर्वैर् एव चरण-जलं प्राप्तम् आसीत् । ततस् तट-वर्त्मनैव सर्व-लोकाश् चलिता न के’पि निववृतिरे ।
**राजा : **ततस् ततः ?
**पुरुषः : **ततो’द्वैत-वाटीम् अभ्येत्य हरिदासेनाभिवन्दितस् तथैव तरणी-वर्त्मना नवद्वीपस्य पारे कुलिया-नाम-ग्रामे माधव-दास-वाट्याम् उत्तीर्णवान् । नवद्वीप-लोकानुग्रह-हेतोः सप्त-दिनानि तत्र स्थितवान् । तत्र च नवद्वीपात् पार-गमने ।
य आतरः काकिणिकैक-मात्र
आसीत् प्रतिव्यक्ति स तु क्रमेण ।
बंहीयसीष्व् अप्य् अथ नौषु सो’’भूत्
कार्षापणानाम् अधिकाधिको’पि ॥१५॥
अपि च—
दुर्गं बध्नाति वंशैर् दृढतर-विपुलैर् माधवो यन्-निशायां
तत्-प्रातश् चूर्ण-भावं व्रजति जन-घटा-घट्टनेन क्रमेण ।
सप्ताहान्य् एवम् एव व्यजनि जनिमतां दर्शनौत्कण्ठ्य-भाजां
सङ्घट्टो यत्र देवः स्वयम् अमर-धुनीं स्नातुम् ईशो’पि नेशः ॥१६॥
एवं सप्त-दिनानि तत्र स्थित्वा पुनस् तट-वर्त्मनैव चलितवान् ।
स यत्र यत्रोपससार देवो
वृत्तान्ततः प्राक् तत एव लोकाः ।
ततस् ततो भूर् अपि भूरि भुग्ना
विशिष्य विस्मापयते फणीन्द्रम् ॥१७॥
श्रुतं च गौडेश्वरस्य राजधान्याः पारे-गङ्गं चलतो भगवतः पश्चाद् उभयोः पार्श्वयोश् चलन्तीं लोक-घटाम् आलोक्य गौडेश्वरो गङ्गा-तट-घटमानोपकारि-कामा रूढो विस्मितः किम् इदम् इति यदा पृष्टवांस् तदा केशव-वसु-नाम्ना तद्-अमात्येन कथितम्—शूर-त्राण, श्री-कृष्ण-चैतन्यो नाम को’पि महा-पुरुषः पुरुषोत्तमान् मथुरां प्रयाति । तद्-दिदृक्षया अमी लोकाः सञ्चरन्ति इति । ततस् तेनाप्य् उक्तम्—अयम् ईश्वरो भवति यस्यैवंविधं लोकाकर्षणम् इति । अतः परं च श्रुतम् । ततः कियद् दूरं गत्वा पुनः प्रत्यावृत्तो न तेन पथा मथुरां गमिष्यति, अपि तु पुरुषोत्तमम् आगत्यअ वन-पथेनैवेति न जानीमः सत्यम् असत्यं वदति ।
**नेपथ्ये : **सत्यं भो सत्यम् ।
आगतश् च सहसा स एकको
नीलशैल-तिलकं विलोक्य च ।
लोक-सङ्कुल-भिया वनाध्वना
निह्नुतः स मथुरां जगाम च ॥१८॥
**राजा **(स-विस्मयम्) : काशी-मिश्रस्य स्वर इव श्रूयते । तद् आहूयताम् ।
(प्रविश्य सत्वरम्) **काशी-मिश्रः : **देव, अयम् अयम् अनाहूत एवागतः ।
**राजा : **कथय किं तत्त्वम् इदम् ।
**काशी-मिश्रः : **सत्यम् एव लोक-भिया ततो’पि निवृत्तः । ततो’पि केनाप्य् अविदित एव चलितवान् ।
राजा : सार्वभौम ! अस्माकं तु समः पन्थाः विच्छेद-दुःखस्य तुल्य-फलत्वात् । एकाकिनस् तस्य निर्वाहः कथं भवतु ।
काशी-मिश्रः : भिक्षा-योग्याः कियन्तो विप्राः प्रेषिताः सन्ति । भगवता तु तन् न ज्ञायते ।
राजा : साधु मिश्र, साधु ! किम् अप्य् उक्त्वा गतम् ?
काशी-मिश्रः : आगत-प्रायो’हम् इति ।
राजा : तत् किं दिनं भविष्यति ? भट्टाचार्य! जङ्घा-जीविनः कियन्तो गच्छन्तु, यथा भगवतो वार्तां प्रापयन्ति ।
**सार्वभौमः : **उचितम् एवैतत् ।
**राजा : **काशी-मिश्र ! महापात्रं चन्दनेश्वरं मद्-आज्ञां समादिश, यथैव करोति ।
काशी-मिश्रः : देव ! परीक्षा-महापात्रं निवेद्य मयैव तथा कारितम् अस्ति । कतिचिद् आगत-प्राया एव ।
(प्रविश्य) दौवारिकः : देव ! महाप्रभोर् वार्ता-हारिणो द्वारि वर्तन्ते ।
राजा : प्रवेश्यन्ताम् ।
(दौवारिकस् तथा करोति ।)
(प्रविश्य) **वार्ता-हारिणः : **जयति जयति देवः !
**राजा : **कथयत किं जानीत ।
**वार्ता-हारिणः : **सर्वम् एव जानीमः ।
राजा : कथ्यताम् ।
**वार्ता-हारिणः : **
प्रत्यावृत्तः स मधुपुरतो दृष्ट-वृन्दावन-श्रीः
कुञ्जे कुञ्जे तरणि-तनया-कुलतः कॢप्त-केलिः ।
गत्वा गोवर्धन-गिरि-वरं कानने कानने च
भ्रान्त्वा भ्रान्त्वा दिन-कतिपयं वर्त्मनीशो व्यलोकि ॥१९॥
राजा : अरे ! वृन्दावने किं किं कृतं भगवता तज् जानासि ?
**वार्ता-हारिणः : **अथ किं । तत्-सङ्गे ममागतानां केषांचिद् भाग्य-भाजां मुखतः श्रुतम् ।
**राजा : **कथ्यताम् ।
**वार्ता-हारिणः : **
आविर्भावाद् अवधि स निजानन्द-वृन्दैक-कन्दो
यद्यप्य् उच्चैः प्रथयतितरां तद्-विकार-प्रकारम् ।
वृन्दारण्योपगम-समये हन्ते ते ते तरङ्गा
वृद्धिं प्रापुर् यद् उपरि वचश् चित्तयोर् न प्रवेशः ॥२०॥
तथा हि–
क्वचन च यमुना-वनान्त-लक्ष्मीम्
अवकलयन्न् अनुरक्ति-मुक्त-कण्ठम् ।
विलपति परिरभ्य लोभ्य-बाहुः
प्रतिलतिकं प्रतिशाखि सो’खिलेशः ॥२१॥
अपि च—
नैचिकी-निचय-वीक्षण-मोदाद्
उन्मदः स्खलितवान् गलद्-अश्रुः ।
स्यन्दमान-सुर-सिन्धुर् इवासीद्
वात-भग्न इव मेरु-तटान्तः ॥२२॥
राजा : ततस् ततः ?
**वार्ता-हारिणः : **ततस् तैः कथितम्—
मद-मुदित-मयूर-कण्ठ-काण्ड-
द्युतिम् अभिवीक्ष्य कुतश्चिद् अप्य् अकस्मात् ।
स्खलति लुठति वेपते विरौति द्रवति
विषीदति हन्त मूर्च्छतीशः ॥२३॥
अपि च—
क्वापि वत्स-कुलम् उच्चल-पुच्छं
धावमानम् अनुवीक्ष्य वनान्तः ।
कण्टकावलिनि वर्त्मनि सद्यो
वीक्षिताङ्गम् अभितः स्खलतीशः ॥२४॥
राजा : ततस् ततः ?
**वार्ता-हारिणः : **ततः—
कुञ्ज-सीमनि कदापि यदृच्छा-
मूर्च्छया निपतितस्य धरण्याम् ।
आलिहस्ति हरिणा मुख-फेणान्
अपिबन्ति शकुना नयनाम्भः ॥२५॥
कदापि—
पतयालुर् असाव् उपेत्य् कायाम्
अपि गोवर्धन-भूधरस्य देवः ।
अनुराग-सुधाब्धि-मध्य-मग्नो
न हि भुग्नो’पि बहिर् व्यथां विवेद ॥२६॥
अनुवनम् अनुकुञ्जम् ईक्ष्यमाणे
रुदति विभाव् अनुरक्ति-मुक्त-कण्ठम् ।
रुरुदुर् इव लताश् च शाखिनश् च
द्विज-मृग-राजिर् अभाजि मूर्च्छयैव ॥२७॥
अपि च—
विलपति करुण-स्वरेण देवे
जलधर-धीर-गभीर-निःस्वने’पि ।
चिरम् अनुविलपन्ति बाष्प-कण्ठाः
क्वचन च लास्यम् अपास्य नीलकण्ठाः ॥२८॥
एवम् अत्यनुराग-वैकल्याद् ईश्वरत्वेनैव धार्यमाण-देहं तम् आलोकयद्भिः पुण्यवद्भिर् बलभद्र-भट्टाचार्यादिभिर् अहो अनर्थो’यम् आपतित इति चिन्तयद्भिर् बलाद् इव वृन्दावनान् निष्कासितो भगवान् इति न चिर-कालावस्थितिस् तत्र तस्येति । ततश् च—
यः प्राग् एव प्रिय-गुण-गणैर् गाढ-बद्धो ऽपि मुक्तो
गेहाध्यासाद् रस इव परो मूर्त एवाप्य् अमूर्तः ।
प्रेमालापैर् दृढतर-परिष्वङ्ग-रङ्गैः प्रयागे
तं श्री-रूपं समम् अनुपमेनानुजग्राह देवः ॥२९॥
राजा : सार्वभौम ! प्रिय-वृन्दावनो’पि कथम् असौ स्वल्पम् एव कालं तत्रवतस्थे ?
**सार्वभौमः : **जगन्नाथेन तद्-विरहम् असहमानेन समाकृष्ट इव । अपि च—
प्रिय-स्वरूपे दयित-स्वरूपे
प्रेम-स्वरूपे सहजाभिरूपे ।
निजानुरूपे प्रभुर् एक-रूपे
ततान रूपे स्वविलास-रूपे ॥३०॥
राजा : ततस् ततः ?
वार्ता-हारिणः : ततश् च वाराणस्याम्—
चन्द्रशेखर इति प्रथितस्य
क्ष्मासुरस्य भवने भुवनेशः ।
प्राक्तनैः सुकृत-राशिभिर् अस्य
प्रत्यपद्यत तदा स यतीन्द्रः ॥३१॥
राजा : ततस् ततः ?
**वार्ता-हारिणः : **तदानीन्तं तु—
तम् एत्य पश्येत्य् अनुराग-पूर्वं
विश्वेश्वरो विश्वम् इव न्ययुङ्क्त ।
कुतो’न्यथा तावति तुल्य-काले
तुल्य-क्रियः सर्व-जनो बभूव ॥३२॥
अपि च—
ब्रह्मचारि-गृहि-भिक्षु-वनस्था
याज्ञिका व्रत-पराश् च तम् ईयुः ।
मत्सरैः कतिपयैर् यति-मुख्यैर्
एव तत्र न गतं न स दृष्टः ॥३३॥
राजा : सार्वभौम ! किम् इति तथाविधानाम् अपि तादृशं मात्सर्यम् ?
**सार्वभौमः : **महाराज ! यावन् मनोजयो न भवति, तावद् एव भगवती मत्सरता न कञ्चिद् अपि मुञ्चति ।
राजा : ततस् ततः ?
वार्ता-हारिणः : ततश् च—
गौडेन्द्रस्य सभा-विभूषण-मणिस् त्यक्त्वा य ऋद्धां श्रियं
रूपस्याग्रज एष एव तरुणीं वैराग्य-लक्ष्मीं दधे ।
अन्तर्-भक्ति-रसेन पूर्ण-हृदयो बाह्ये ऽवधूताकृतिः
शैवालैः पिहितं महा-सर इव प्रीति-प्रदस् तद्-विदाम् ॥३४॥
राजा : ततस् ततः ?
वार्ता-हारिणः :
तं सनातनम् उपागतम् अक्ष्णोर्
दृष्ट-मात्रम् अतिमात्र-दयार्द्रः ।
आलिलिङ्ग परिघायत-दोर्भ्यां
सानुकम्पम् अथ चम्पक-गौरः ॥३५॥
राजा : कथम् इव तस्य दर्शनं जातम् ?
वार्ता-हारिणः : श्रुतम् इदं तन्-मुखाद् एव ।
राजा : कथ्यताम् ।
वार्ता-हारिणः :
औत्कण्ठ्यैक-पुरः-सराः प्रथमतो ये यान्ति नाथाग्रतो
निष्क्रामन्ति त ईश-नाम-निरताः सास्राः सरोमोद्गमाः ।
यातायातवतां क्रमं विगणयंस् तत्-पाद-धूलीर् जुषन्
सर्वज्ञेन बहिः स्थितो भगवता कैर् अप्य् अहं नायितः ॥३६॥
राजा : ततस् ततः ?
वार्ता-हारिणः : ततश् च न मे प्रियश् चतुर्वेदी [इतिहास-समुच्चये] इत्य् आदि पठित्वा सत्वरम् अवतीर्यायं दोर्भ्यां परिरब्ध इति ।
राजा : ततस् ततः ?
वार्ता-हारिणः : ततस् तत्रैव कापि किंवदन्ती श्रुता ।
राजा : कासौ ?
वार्ता-हारिणः :
पुरुषोत्तमम् एत्य तैः पुनर्
गमयित्वा कतिचिद् दिनान्य् अपि ।
रमितैः प्रभुणैव तद्-गिराप्य्
अथ वृन्दावनम् एव गंस्यते ॥३७॥
राजा : किं देवेन सहैव वा किं पश्चात् ?
वार्ता-हारिणः : पश्चाद् एव भविष्यति, यतो वाराणसीत एकाकिनैव भगवता चलितम् इति दृष्टम् । अन्यद् अपि तत्र किम् अपि श्रुतम् ।
**सार्वभौमः : **किं तत् ?
वार्ता-हारिणः :
कालेन वृन्दावन-केलि-वार्ता
लुप्तेति तां ख्यापयितुं विशिष्य
कृपामृतेनाभिषिषेच देवस्
तत्रैव रूपं च सनातनं च ॥३८॥
**रामानन्दः : **समुचितम् एवैतत् ।
(नेपथ्ये दूरतो जय-जयेत्य् उच्चैः कोलाहलः ।)
**सर्वे **(समाकर्ण्य) : अये समागत इव भगवान् श्री-कृष्ण-चैतन्यः, यद् अयम् अपूर्वः कोलाहलः श्रूयते ।
पुनर् नेपथ्ये :
अद्यास्माकं सफलम् अभवज् जन्म-नेत्रे कृतार्थे
सर्वस् तापः सपदि विरतो निर्वृतिं प्राप चेतः ।
किं वा ब्रूमो बहुलम् अपरं पश्य जन्मान्तरं नो
वृन्दारण्यात् पुनर् अपगतो नील-शैलं यतीन्द्रः ॥३९॥
राजा : किम् अपरं विलम्बध्वे ? तत्रैव गच्छाम । (इति सर्वे निष्क्रान्ताः ।)
(ततः प्रविशति श्री-कृष्ण-चैतन्यस् तत्-कालोपनतौ परमानन्द-पुरी-स्वरूपौ च । परिते दिदृक्षोपनताः काशीमिश्रादयश् च ।)
**श्री-कृष्ण-चैतन्यः **(पुरीश्वरं प्रति) : स्वामिन् !
तीर्थ-द्वयं यद् अपि तुल्यम् इदं महान्तः
काश्यादयो’पि पुरतः कलुषापहारि ।
आनन्ददाः किल तथापि महान्त एव
यद् युष्मद्-ईक्षण-सुखं हि सुखायते नः ॥४०॥
अतो हि त्वादृशां सङ्गस् तीर्थान्तर-सेवनाद् अपि परमो रम्य इति शीघ्रम् एवायातम् ।
पुरीश्वरः : अस्ति तादृशं नो भागधेयम् । यद् अतिकालं भगवद्-विरह-दव-दहनेन न गद्घाः स्मः ।
(सत्वरम् उपसृत्य सार्वभौम-रामानन्दौ दण्डवत् प्रणमतः,
श्री-कृष्ण-चैतन्यस् ताव् आलिङ्गति ।)
काशीमिश्रः : स्वामिन् ! जगन्नाथ-वल्लभावकाशानन्तरं श्री-जगन्नाथः शिशयिषुर् अपि भगवन्तं प्रतीक्षते । तत् त्वरितम् एव तम् अवलोकयन्तु ।
श्री-कृष्ण-चैतन्यः : एहि पुरीश्वर ! एहि । (इति सर्वैः सह निष्क्रान्तः ।)
(इति निष्क्रान्ताः सर्वे ।)
इति श्री-श्री-चैतन्य-चन्द्रोदये श्री-मथुरा-गमनो नाम
नवमो’ङ्कः
॥९॥
(१०)
दशमो’ङ्कः
महा-महोत्सवः
(ततः प्रविशति कश्चिद् वैदेशिकः ।)
**वैदेशिकः **: श्रुतं मया प्रत्यब्दम् एव गुण्डिचा-समये अद्वैताचार्यादयः सर्वे श्री-कृष्ण-चैतन्य-दर्शनार्थं गच्छन्ति । तेषाम् अभिभावकतया शिवानन्द-नामा कश्चित् तस्यैव भगवतः पार्षदो वर्त्मनः कण्टकायमानानां घट्ट-पालानां घट्ट-देयादि-निघ्न-विघ्न-निवारक आचाण्डालम् अपि प्रतिपाल्य नयति । तद् अहम् अपि तम् अनुसन्दधामि यथा तस्य सङ्ग एव गम्यते । (इति कतिचित् पदानि गत्वा ।) अये, पुरतो’यं समीचीनो जन आलोक्यते तद् अयम् एव प्रष्टव्यः । (इत्य् उपसर्पति ।)
(ततः प्रविशत्य् अद्वैत-सेवकः कश्चिद् गन्धर्व-नामा ।) १
**गन्धर्वः **: अये, नियुक्तो’स्मि स्वामिनाद्वैतेन । यथा—
आयातः पुरुषोत्तमस्य गमने कालः शुभो’यं वयं
यामः सत्वरम् एव सम्प्रति शिवानन्दस् त्वया भण्यताम् ।
प्रस्थानस्य दिनं विधाय लिखतु क्वैकत्र सर्वे वयं
गच्छन्तः सहसा भवेम मिलिताः पश्चात् पुरोभावतः ॥१॥
तद् अहम् उपैमि (इति परिक्रामति ।)
**वैदेशिकः **(उपसृत्य) **: **भ्रातः ! क्व यासि ?
**गन्धर्व-नामा- **(आयात इति पद्यं पठति ।)
वैदेशिकः (सहर्षम् आत्म-गतम्) : यच् छ्रुतं मया तद् अवितथम् एव । तथापि पृच्छामि । (प्रकाशम्) भ्रातः, अपरिचितं प्रतिपाल्य स किं नयति ?
**गन्धर्व-नामा- **भ्रातः ! कुक्कुरो’पि तेन प्रतिपाल्य नीतो’स्ति किं पुनर् मानुषः ।
**वैदेशिकः : **भ्रातः ! कथय कीदृशं तत् ? २
**गन्धर्व-नामा- **भगवतो मथुरागमनात् पूर्वम् एकस्मिन्न् अब्दे सर्वेषु परः सहस्रेषु लोकेषु चलितवत्सु कश्चित् कुक्कुरो’पि रोपित-यादृच्छिकेच्छः शिवानन्द-निकटे चलितः । शिवानन्दो’पि सङ्गे सङ्गे चलन्तम् आलोक्य स-श्रद्धम् एवानुसन्धत्ते, प्रतिवसति समये’नुच्छिष्टम् एवान्नं तस्मै प्रयच्छति, यत्र नद्य्-आदि-पारं तत्र तद्-अर्थं पृथग् यथेष्ट-मातरं दत्त्वा नावम् आरोहयति । सो’पि तद्-अनुपदम् एव प्रत्यहं चलति । एवं वर्त्मनस् त्रिभाग-पर्यन्तं गते कुत्रापि दिवसे तद्-भक्ष्यम् अन्नं विस्मृत्य भृत्येन न दत्तम् । पश्चात् तम् अनवलोक्य—अहो अद्य शुने भक्ष्यं न दत्तम् इत्य् अनुतपता स्वयम् इतस् ततो नाम-ग्राहम् आह्वयतापि न तस्य दर्शनं लब्धम् । तद्-अवधि पुरुषोत्तम-पर्यन्तम् एव न दृष्टः । पश्चान् मनः कष्टतरम् एवास्य जातम् ।
तद् अनु दैव-गत्या पुरुषोत्तमे समुत्तीर्णं तम् एव श्वानं जलधि-तीरोपकण्ठम् एकाकिन उपविष्टस्य भगवतश् चैतन्यस्य समीपे दृष्ट्वा शिवानन्दः सापराधम् इव प्रणम्य दूरे स्थितो’वलोकयति । भगवान् जगन्नाथ-प्रसाद-नारिकेल-शस्यं खण्डशः प्रक्षिप्य ददाति । कृष्णं ब्रूहीति च वदति । स चैकैकं भक्षयति कृष्ण कृष्ण कृष्णेत्य् अपि वदति । तद्-अपूर्वम् आलोक्य शिवानन्दः पुनस् तं प्रणम्य स्वापराधं क्षमापयति स्म । पुनस् तद्-अवधि सो’परेण न केनाप्य् अदृश्यन्त । मन्ये तेनैव शरीरेण रूपान्तरं लब्ध्वा लोकान्तरं प्राप्तः । ३
वैदेशिकः- भ्रातः ! अद्य मे शुभो दिवसः । यद् इयं श्री-कृष्ण-चैतन्य-कथा कर्णातिथिर् जाता । यो देवः कुक्कुरम् अपि भगवन्-नाम ग्राहयामास तस्य नृ-लोकं प्रति यत्-कृपा भविष्यति तत् किम् उत ? तद् भ्रातः पथि गच्च्छताम् एषां वर्त्म-कण्टक-भूता घट्ट-पालाः कीदृशं व्यवहरन्ति ?
गन्धर्व-नामा- भ्रातः, श्रूयताम् ।
प्रभावाद् एव देवस्य प्रत्यब्दम् अनुगच्छताम् ।
यातायात-सुखं भूरि सर्वेषाम् एव निश्चितम् ॥२॥ ४
तथा क्वचनाब्दे कष्टं च भवति ।
वैदेशिकः- कीदृशं तत् ?
गन्धर्व-नामा- क्वचनाब्दे सर्वेषु मद्-ईश्वर-प्रभृतिषु परः-सहस्रेषु जनेषु चलितेषु सफल-जनाभिभावकेन शिवानन्देनापि स-परिकरेण चलितम् । स एव प्रतिघट्टं मद्-ईश्वरादि-गण-वर्जं यावन्तो गच्छन्ति तावताम् एव घट्ट-देयस्य प्रतिभवी-भूत्वा स्वयम् एव जनं प्रति यत्र यल् लगति तस्य निर्णयानुरूपं परिच्छेद्यं दत्त्वा याति, लोकाः सुखं गच्छन्ति, एवं गच्छत्सु सत्सु रेमुणा-जनपदे घट्ट-पालानाम् अधिकारी कश्चिद् गजपतेर् अमात्यो गजपति-महाराजे दक्षिणां दिशम् ईयुषि स्वतन्त्रः सन् तत्रैवागतः । तेन दुरात्मना लङ्घित-मर्यादेन करं वर्धयित्वा प्रत्येकं जनान् विगणय्य गतानाम् अब्दानाम् अपि तत् क्रमेणैव लेखयित्वा पुञ्जीभूतं शुल्कम् आदातुं शिवानन्दः काष्ठ-निगडेन बद्धः । तद्-बन्धने सर्व एव मद्-ईश्वरादयः परमोद्विग्ना अकृताह्निका एव तस्थुः । ५
वैदेशिकः- ततः ?
गन्धर्व-नामा- ततो रातेर् याम-द्वये गत्ते तेनैव पामरेण शिवानन्दो यष्टि-धारकेण केनचिद् अनुचरेणाजुहुवे । स तदानीं परमोद्विग्न आसीत् । कदाचिद् अयं प्रहरतीति चैतन्य-चरणं स्तुत्वा वल्लभेन सह तत्-पुरत ईयिवान् । अनन्तरं सुप्तोत्थितं दीपिका-धारिभिर् बहुभिः परिवृतं वीक्ष्य विभयां चकार । अनन्तरम् अमात्येन पृष्टः । अये, त्वं सपरिकरः समायातो’सि अनेनोक्तम् । अथ किं । पुनः स ऊचे—त्वं कस्य लोकः ? अनेनोक्तम्—श्री-कृष्ण-चैतन्यस्य । पुनस् तेनोक्तम्—त्वं चैतन्यस्य, अहं जगन्नाथस्य । जगन्नाथ-चैतन्ययोः को महान् ? अनेनोक्तम्—मम तु कृष्ण-चैतन्य एव महान् । इत्य् आकर्ण्य प्रीति-सुमुखो भूत्वा सापराध इव—अये मया स्वप्नो दृष्टः । श्री-कृष्ण-चैतन्यो माम् उक्तवान् मदीयो लोकस् त्वया बद्धो’तित्वरितम् एव मुच्यताम् इति । तद् अयम् अपराधो मे क्षन्तव्यः । तव किंचिद् अपि दातव्यं नास्ति सुखेन प्रातर् उत्थाय सर्वैः सह गम्यताम् इत्य् उक्त्वा दीपिका-धारिणौ द्वाव् उक्तवान् अस्य परिकरो यत्र वर्तते तत्रायं स्थाप्यताम् इति । तथायाते तदा सर्वे’स्मद्-ईश्वरादय आह्निकम् आरब्धवन्तः । ६
वैदेशिकः- अहो विचित्रैव चैतन्य-देवस्य करुणा प्रभाव ऐश्वर्यं च ।
**गन्धर्व-नामा- **त्वं कुतो’सि ?
वैदेशिकः- अहम् उत्तर-राढतः ।
**गन्धर्व-नामा- **कथम् एकाकी ?
वैदेशिकः- नरहरि-दासादिभिर् अहं प्रेषितः ।
**गन्धर्व-नामा- **किम्-अर्थम् ?
वैदेशिकः- कदासौ पुरुषोत्तमं गन्तेति ज्ञातुम् ।
**गन्धर्व-नामा- **तद् इहैव मद्-ईश्वरालय-निकटे तिष्ठ । यावद् अहं ज्ञात्वा समागच्छामि । अन्ये केचिद् दशजना भवान् इव तत्र चलन्तो मद्-ईश्वरेणैव स्थापिताः । मयैव सह यूयं यास्यथ इति । ७
वैदेशिकः- कथं तेषु भवद्-ईश्वरस्य तादृशानुग्रहो जातः ।
**गन्धर्व-नामा- **तेष्व् एकः परम-मधुरो लोक-लोचन-रसायनम् इव नवीन-वया रमणीय-रूपः सहजावतीर्ण-श्री-कृष्ण-प्रेम-रस-बाह्यान्तर-सरसः श्रीनाथ-नामा द्विज-कुल-चन्द्रः । तम् अतिलोभनीयं दृष्ट्वा मद्-ईश्वरः परमं पिप्रिये । उक्तं च मया रहसि श्री-कृष्ण-चैतन्यं—भवान् दर्शयिष्यते मान्य-सङ्गे गन्तव्यम् इति । गृहतस् तद्-अनुरोधेन मासम् आरभ्य दशानाम् एव योग-क्षेमं करोति ।
वैदेशिकः- भवत्व् अहम् इहैव स्थित्वा भवन्तं प्रतीक्षे ।
**गन्धर्व-नामा- **अहम् अपि शिवानन्दम् अनुसर्पामि । (इत्य् उभौ निष्क्रान्तौ ।) ८
– विष्कम्भकः –
(ततः प्रविशति शिवानन्दस् तत्-सङ्गे यियासवः कियन्तो’न्ये च ।)
**शिवानन्दः (तत्रैकं प्रति): **अये त्वं कुतो’सि ?
सः : महात्मन् ! गोवर्धन-दासेनाहं त्वत्-समीपं प्रेषितः ।
शिवानन्दः : आं ज्ञातम् । रघुनाथ-दासोद्देशार्थं गमिष्यति भवान् ।
सः : अथ किम् ।
शिवानन्दः : किं तद्-उद्देशेन ? ९
सः : महाशय ! स त्वया परिचीयते ?
**शिवानन्दः : **श्रूयताम्—
आचार्यो यदुनन्दनः सुमधुरः श्री-वासुदेव-प्रियस्
तच्-छिष्यो रघुनाथ इत्य् अधिगुणः प्राणाधिको मादृशाम् ।
श्री-चैतन्य-कृपातिरेक-सतत-स्निग्धः स्वरूपानुगो
वैराग्यैक-निधिर् न कस्य विदितो नीलाचले तिष्ठताम् ॥३॥
अपि च—
यः सर्व-लोकैक-मनोभिरुच्या
सौभाग्य-भूः काचिद् अकृष्ट-पच्या ।
यत्रायम् आरोपण-तुल्य-कालं
तत्-प्रेम-शाखी फलवान् अतुल्यः ॥४॥
तथाप्य् आगच्छ मयैव प्रतिपाल्य नेतव्यो’सि । यावद् अद्वैत-देवाज्ञा न लभ्यते तावद् एव विलम्बः । (इति चिन्तयति ।) १०
(ततः प्रविशति गन्धर्वः ।)
**गन्धर्व-नामा : **अये, अयम् अयं शिवानन्दः । तद् यावद् उपसर्पामि । (इत्य् उपसर्पति ।)
**शिवानन्दः **(पुरो’वलोक्य): अये! पुरतो’यम् आचार्य-गोस्वामिनो भृत्य इव लक्ष्यते । तद् भद्रं जातम् । यद् अर्थं चिन्त्यते तद् एव सम्पन्नम् । (उपसृत्य ।)
**गन्धर्व-नामा : **महाशय ! आज्ञापयति भगवान् अद्वैत-गोस्वामी भवन्तम् ।
शिवानन्दः : अवहितो’स्मि । कथ्यताम् ।
**गन्धर्व-नामा : **आयातः । (इत्य् आदि पुनः पठति ।)
शिवानन्दः : अहम् अपि तद्-आज्ञां प्रतीक्षमाण एवास्मि । ११
**गन्धर्व-नामा : **विशेषः कश्चिद् अस्ति ।
शिवानन्दः : को’सौ ?
**गन्धर्व-नामा : **अस्मिन्न् अब्दे स्नान-यात्रा न द्रष्टव्येति ।
शिवानन्दः : अभीष्टम् एवैतद् अखिलस्य । तत् साधय भगवन्तो ज्ञाप्यन्ताम् । अयम् अहं दिनानि निर्धार्य चरणान्तिकं गच्छन्न् अस्मि । तावद् अहं श्रीवास-पण्डित-प्रभृतिभिर् निर्णेतुं तत्र गच्छामि । त्वम् अपि साधय । (इति निष्क्रान्ताः ।)
(ततः प्रविशत्य् अपटीक्षेपेण सार्वभौमः ।)
सार्वभौमः : यद्यपि भगवतो’स्मिन्न् अर्थे नानुमतिर् जाता, तथापि हठाद् एवाहं वाराणसीं गत्वा भगवन्-मतं ग्राहयाईति हठाद् एव तत्र गच्छन्न् अस्मि । न जाने किं भवति । यद्यपि भगवत इच्छाधीनैव करुणा, तथापि करुणा-परतन्त्रत्वं तस्येति कदाचित् करुणापि स्वतन्त्रा भवतीति करुणाया एव साहाय्येन यद् भवति, तद् एव भविष्यति ।
(इति परिक्रामम् पुरो’वलोक्य ।) अहो यद् अमी एकत्र समुपचिता अनेकशो नाना-देशीया जनाः पुरो दृश्यन्ते, तद् अमी तैर्थिका एव ।
(पुनर् निर्भाल्य ।) अये सर्व एव गौडीयाः । (पुनर् निरूप्य) अयम् अयम् अद्वैताचार्यः । अयम् अयं नित्यानन्दावधूतः । अयम् अयं श्रीवासः । अयम् अयं हरिदासः । अयम् अयं गदाधर-दासः । इमे गोविन्द-घोषादयः । एष मकरध्वजः । एष काशीनाथः । एते नरहरि-प्रमुखाः । एते कुलीन-ग्रामीणा रामानन्दादयः । एते नित्यानन्द-पार्षदा गौरीदासादयः । किं बहुना, सर्वे श्री-चैतन्य-पार्षदा एव समागच्छन्ति । तद् भद्रम् एव जातम् । अद्यात्रैव स्थित्वा प्रत्येकम् एते सम्भाषणीयाः । (इत्य् उपसर्पति ।)
(ततः प्रविशन्ति भगवद्-दर्शनार्थं प्रस्थिता अद्वैतादयः ।)
अद्वैतः : अये पुरतः सार्वभौम इव दृश्यते । को’र्थः ?
सार्वभौमः : (उपसृत्याद्वैतं प्रणमति । एवम् अन्यान् अपि दूरे हरिदासं विलोक्य ।) कुल-जात्य्-अनपेक्षाय हरिदासाय ते नमः । (हरिदासो दूरे’पसर्पन् ससाध्वसं प्रणमति ।)
**अद्वैतः : **सार्वभौम ! भवति कथं श्री-कृष्ण-चैतन्य-पदारविन्दस्य विच्छेद उरीकृतः ?
सार्वभौमः : एवम् एव । (इति सर्वं कथयति ।)
**अद्वैतः : **हंहो अद्यात्रैव सर्वे विश्राम्यन्तु । भट्टाचार्येण सह गोष्ठी कर्तव्या ।
**सर्वे : ** यथा रुचितं भवद्भ्यः । (इति यथायथं वासं कुर्वन्ति ।)
श्रीकान्तः- (शिवानन्दं प्रति) भो मातुल-महाशय ! अहम् अग्रे यामि, यदि वो’नुमतिर् भवति ।
शिवानन्दः : यथा-सुखं साधय ।
(श्रीकान्तः प्रणम्य निष्क्रामति ।)
**अद्वैतः- **एहि भट्टाचार्य एहि । वासं कृत्वा समये सर्वं श्रोतव्यम् । (इति निष्क्रान्ताः ।)
(ततः प्रवेशितः स्वरूप-गोविन्दौ ।)
स्वरूपः : श्रुतं गौडतः सर्वे’द्वैतादयः समागच्छन्ति ।
गोविन्दः : अथ किम् । सम्प्रति तान् मध्य-वर्त्मनि परित्यज्य श्रीकान्तो’धुनैव समायातः ।
स्वरूपः : क्वासौ ?
**गोविन्दः : **महाप्रभुणा सह सङ्कथयन्न् आस्ते ।
स्वरूपः : तदावाम् अपि शृणुवः । (इति उपसर्पतः ।)
(ततः प्रविशति सुखोपविष्टः पुरीश्वरेण सह महाप्रभुः । कियद् दूरे श्रीकान्तश् च ।)
महाप्रभुः : श्रीकान्त ! कथय के के समायान्ति ?
**श्रीकान्तः : **प्रभो ! सर्व एव त्वदीयाः । अस्मिन्न् अब्दे न को’पि तत्र वर्तते । अदृष्ट-श्री-चरणाश् च केचित् ।
**स्वरूपः (उपसृत्य): **जयति जयति महाप्रभुः ।
महाप्रभुः : एह्य् एहि स्वरूप ! (इति स्व-समीपम् उपवेशयति ।)
(श्रीकान्तः स्वरूपं प्रणमति ।)
महाप्रभुः : श्रीकान्त ! ततस् ततः ? के ते’दृष्ट-पूर्वाः ?
श्रीकान्तः : प्रभो ! अद्वैताचार्यस्य पुत्रा विष्णुदास-गोपालदासादयः । अन्यश् चाद्वैत-सङ्गे कश्चिद् अखिल-जन-प्रियः श्रीनाथ-नामा ।
महाप्रभुः : कथम् असौ शिवानन्द-सङ्गं त्यक्ता तत्-सङ्गे आयाति ?
श्रीकान्तः : तेनोक्तम्—मया निभृते भवान् महाप्रभोः समीपे नीत्वा तद्-विशेषानुग्रहं ग्राहयितव्यः इति तद्-आश्वासेन ।
महाप्रभुः (विहस्य स्वरूपं प्रति): श्रूयताम्—
अद्वैतोपायनम् इदम् अतिस्वादु भावीति कार्यं
प्रेमैतस्मिन् किम् अपि भवताप्य् अत्र मैत्री स्वरूप ।
त्वं चास्मिन् शङ्कर सुमधुरं भावम् उद्भावयेथाः
सर्वेषां हि प्रकृति-मधुरो हन्त त्य्ल्येन योगः ॥५॥
उभौ- यथाज्ञापयति देवः ।
**महाप्रभुः : **पुनः के ?
**श्रीकान्तः : **वासुदेवापत्यं मातुलस्य पुत्रौ ।
महाप्रभुः : तौ दृष्ट-पूर्वौ ।
श्रीकान्तः : कनीयांस् तुर्यः सो’दृष्ट-श्रीचरणः ।
**महाप्रभुः **(पुरीश्वरं प्रति): स्वामिन्, तव दासः ।
श्रीकान्तः : प्रभो, एवम् एव ।
महाप्रभुः : ततस् ततः ?
श्रीकान्तः : रामानन्द-वसोर् अपत्यम् । एवम् अन्ये’पि ।
महाप्रभुः : स्वामिन् पुरीश्वर ! हंहो स्वरूप ! अस्मिन्न् अब्दे एतेषां कृते खल्व् अमी मद्-दर्शनं लप्स्यन्ते ।
**उभौ : **(स्वगतम्) अहो कः सन्दर्भो’स्य वचसः । भवतु स्वयम् एव स्फुटिष्यति ।
महाप्रभुः : अस्मिन्न् अब्दे भूपाल-दर्शनम् आचार्यस्य भविष्यति ।
श्रीकान्तः : देव ! मया दूराद् एवागतम्, तेन तद्-अनभिज्ञो’स्मि ।
पुरीश्वर-स्वरूपौ (स्वगतम्): अहो अवगतम् । गते’ब्दे’द्वैताचार्येण यद् भूपालः सम्भाषितस् तेन न एवाक्रोशो’द्यापि भगवतो मनसि जागर्ति ।
महाप्रभुः : पुरीश्वर ! वासुदेव-चरितम् एव मे रोचते ।
पुरी : भाग्यवान् एवासौ, यस्य परोक्षे’पि भगवन्तः प्रशंसन्ति ।
(नेपथ्ये कलकलः )
**पुरी **(आकर्ण्य): देव ! उपसन्ना एवामी, यद् अयं कोलाहलः श्रूयते ।
महाप्रभुः : गोविन्द ! भगवत्-प्रसाद-मालां गृहीत्वोपसर्पतु भवान् ।
गोविन्दः : यथाज्ञापयति । (इति निष्क्रान्तः ।)
(प्रविश्य) **वाणीनाथः **(प्रणम्याञ्जलिं बद्ध्वा) : देव ! महा-प्रसादान्नादीनि भगवत्यः श्री-जगन्नाथस्य ।
महाप्रभुः : वाणीनाथ ! साधु समयज्ञो’सि, यद् अधुनाद्वैतासीनाम् आग्मनम् आकलय्यैवं कृतवान् । यावद् गोविन्द एति, तावत् स्वयम् एव क्वापि समावेशय । (वाणीनाथस् तथा करोति ।)
(प्रविश्य) काशीमिश्रः : भगवन्! श्वः खलु भगवतः स्नान-महोत्सवः ।
महाप्रभुः : आं जानामि । किन्तु भो मिश्र ! यथास्मिन्न् अब्दे आपादयम् अपिप् स्नान-महोत्सवं मदीय-गौडीयाः सुखेन पश्यन्ति, तथा कर्तव्यम् ।
काशीमिश्रः : स्वामिन् ! भूपतिनादिष्टो’स्मि, अस्मिन्न् अब्दे मदीयावरोधादयः के’पि देव-स्नानं न द्रक्ष्यन्ति, ते यत्र चक्रवेष्टोपरि स्थित्वा पूर्वं देव-स्नानं पश्यन्ति, तत्रैव सर्वे गौडीया आरोहणीयाः ।
महाप्रभुः : स्वस्ति तस्मै ।
(पुनर् नेपथ्ये सङ्कीर्तन-ध्वनिः ।)
पुरी : स्वामिन् ! चार-गणेशं प्राप्ता अमी ।
महाप्रभुः : स्वरूप ! त्वम् अग्रतो’भिगच्छ, पश्चाद् अहम् अपि ।
स्वरूपः : यथाज्ञापयसि । (इति निष्क्रान्तः ।)
पुरी (स्वगतम्) :
आक्षेपो’पि महान् असौ प्रकटितः सम्प्रत्ययं चादरो
भूयान् एव विकाश्यते भगवताद्वैतं प्रति स्निह्यता ।
सौहार्दस्य स एवम् एव महिमा देह-स्वभावात् सतोर्
बन्धूनां गुण-दोषयोर् अपि गुणे दृष्टिर् न दोष-ग्रहः ॥६॥ २५
महाप्रभुः : पुरीश्वर ! उत्तिष्ठ, वयम् अप्य् अभिगच्छामः ।
पुरी : उत्तिष्ठत गोस्वामिनः ! (इति पुराद् अभुपगच्छन्ति ।)
(ततः प्रविशति भगवत्-प्रसादम् आलालम्भन-लब्ध-द्विगुण-हर्षो नृत्यानन्द-निर्भरो’द्वैतः परित्ः कीर्तयन्तश् चाभितः शिवानन्दादयश् च । अद्वैतो दूराद् आगच्छन्तं महाप्रभुम् आलोक्य नृत्यन्न् एव भूमौ निपतति ।)
**शिवानन्दः **(स्व-तनयं प्रति सर्वान् श्रावयित्वा) : पश्य पश्य अयम् अयम् ।
विद्युद्-दाम द्युतिर् अतिशयोत्कण्ठ-कण्ठि-रवेन्द्र-
क्रीडागामी कनक-परिघ-द्राघिमोद्दाम-बाहुः ।
सिंह-ग्रीवो नव-दिन-कर-द्योत-विद्योति-वासाः
श्री-गौराङ्गः स्फुरति पुरतो वन्द्यतां वन्द्यतां भोः ॥७॥
(इति सर्वे भूमौ प्रणम्य पुनर् यावद् उत्तिष्ठन्ति, तावद् एवाद्वैत-गोष्ठी-प्रविष्टं भगवन्तं पुनर् दृग्भिर् अन्वेषयन्ति ।)
**शिवानन्दः **(निर्वर्ण्य) :
अद्वैत-चैतन्य-दृढोपगूहने
न को’पि कञ्चित् परिचेतुम् ईश्वरः ।
चैतन्यम् अद्वैतम् इतीक्षते जनो’
द्वैतं च चैतन्यम् इतीक्षते क्षणम् ॥८॥
पश्यत भोः—
अद्वैतम् अग्रे विनिधाय् देवो
दिदृक्षया तस्य गतः पुरस्तात् ।
प्रवेशयत्य् एव निजाश्रमान्तर्
विलम्ब्य सर्वे क्रमतो विशन्तु ॥९॥
(इति सर्वान् निवार्य क्रमात् प्रवेशयति । महाप्रभुर् उपविश्य प्रत्येकम् अद्वैतादीन् । यथायथम् आलिङ्गन-सम्भाषणावलोकनादिभिर् नन्दयित्वा भगवत्-प्रसादान्नं श्री-हस्तेन मुष्टि-प्रपूरं ददाति । अद्वैतादयो यथा-क्रमं गृह्णन्ति ।)
**भगवान् : **भो भो अद्य नापरं भोक्तव्यं, चक्र-वेष्टोपरि सर्वैर् एवाद्य रजनी-मुखे समारोढ्यव्यम्, यथा सुखेन स्नान-महोत्सवो दृश्यते ।
सर्वे : यथाज्ञापयन्ति । (इति निष्क्रान्ताः ।) २८
स्वरूपः : भगवन् ! स्वयम् अपि यथा-समयाह्निकं कर्तुम् अर्हन्ति ।
भगवान् : यथा-रुचितं वः । (इति पुरी-गोस्वामिना सह निष्क्रान्तः ।)
स्वरूपः : काशी-मिश्र ! भूपालो राजधानीतः साम्प्रतम् आगन्ता किं गुण्डिचा-निकटे ?
**नेपथ्ये : **आयातः । २९
**काशी-मिश्रः : **गोस्वामिन् ! यथायं प्रस्तौति, तथागत इव लक्ष्यते ।
स्वरूपः : तस्य स्नान-दर्शनं सुखेन न भावि ।
काशी-मिश्रः : तत्त्वं जानामि । (इति निष्क्रान्तः ।)
**स्वरूपः : **गोविन्द ! एहि भगवन्तम् अनुगच्छाव । (इति निष्क्रान्तः ।)
(ततः प्रविशति बडभी-स्थो राजा पुरोहितश् च ।)
राजा : पुरोहित ! अस्मिन्न् अब्दे मया इह स्थितेनैव स्नानं द्रष्टव्यम् । अन्यथा भगवतो गौराङ्गस्य सङ्कोचो भविष्यति ।
पुरोहितः : उचितम् एवैतत् ।
**राजा : **कः को’त्र भो आहूयतां काशी-मिश्रः ।
(प्रविश्य) **काशी-मिश्रः : **अयम् अस्मि । आज्ञापयतु देवः ।
राजा : मिश्र !
ये गौडीया इह भगवतः पार्षदास् तज्जना वा
तेषां ये वा तद्-अनुगमिनो हन्त ये वा सभृत्याः ।
सर्वे’स्मत्-स्त्री-तनय-सुहृदो यत्र यत्रोपविश्य
स्नानं पश्यन्त्य् अतिसुखम् अमी सन्तु तत्रोपविष्टाः ॥१०॥
**काशी-मिश्रः : **महाराज ! भवद्-आज्ञया पूर्वम् एव तथैव सम्पादितम् अस्ति । ३१
**राजा : **सुविहितम् ।
(प्रविश्य) **कञ्चुकी : **देव ! देव्यो विज्ञापयन्ति—अस्माभिर् देव-स्नानं द्रष्टुम् आगतम्, तन् नाभूद् इति ।
राजा : कथं नो भविष्यति, इहैव स्थित्वा ताभिर् अपि द्रष्टव्यम्, पश्यायं तत्-प्रकारो’स्ति कल्पितः ।
कशीमिश्रः : देव ! पश्य पश्य—
स्नानालयस्याभिमुखं सुधौतम्
अट्टं गताश् चन्द्रकराभिगुप्तम् ।
देवा इवैते विलसन्ति भक्ताः
सर्वे नभो-मध्ये इवोपविष्टाः ॥११॥
**राजा : **साधु प्रवेशिता इमे श्री-कृष्ण-चैतन्य-पार्षदाः, तद् अधुना साधयतु भवान् जगन्नाथ-विजय-समरो नेदीयान् इव जातः । तद् उचित-कर्मणे नापरं विलम्बस्व । ३२
कशीमिश्रः : यथाज्ञापयति । (इति निष्क्रान्तः)
**महिष्यः : **जअदु जअदु महाराओ ! [जयतु जयतु महाराजः !]
**राजा **(देवीं प्रति) : एहि देवि एहि ! कृतार्थीकुरु जनुः । (इति सश्लाघम् उपवेश्य) देवि ! पश्य पश्य—
इमे चैतन्य-देवस्य पार्षदा विश्व-पावनाः ।
कियतैव विलम्बेन तमप्य् आलोकयिष्यसि ॥१२॥
तद् एतान् प्रणम । (देवी प्रणमति ।)
राजा : पश्य पश्य, महद् इदम् आश्चर्यम् ।
महा-ज्यैष्ठी-योगे भवति भगवद्-देव-कुलगा
पताकोदञ्चन्तीत्य् अतिसुविदितो’यं जनयवः ।
इति श्रद्धोन्नेत्रा युगपद् अभिपश्यन्ति त इमां
लिहन्तीं तज् जिह्वाम् इव तुहिन-भानोर् इव वपुः ॥१३॥
महिषी : देअ ! सच्चं ज्जेब्ब एसा जणस्सुई । [देव सत्यम् एवैषा जन-श्रुतिः ।] ३३
**राजा : **पश्य स्वयम् अपि । (इत्य् उत्पतन्तीं पताकां दर्शयति ।)
(नेपथ्ये काहल-ध्वनिः ।)
**राजा **(आकर्ण्य) : देवि ! पश्य पश्य । जगन्नाथ-देवस्य विजय-समयो जातस्, तद् आकलयामि श्री-कृष्ण-चैतन्य-देवस्यागमनम् । (इति तथा कृत्वा सहर्षम् ।) अयम् अयं श्री-कृष्ण-चैतन्यः । पश्य पश्य—
अविरल जन-सङ्घे सर्व-मूर्धोर्ध्व-वर्ती
स्फुरति भगवतो’यं मण्डलः श्री-मुखस्य ।
तरद्-उरु-विध-हंसे वारि-राशाव् इवोच्चैः
कलय किम् अपि हेम्नः पद्मम् उद्दण्ड-नालम् ॥१४॥ ३४
देवी : अज्ज-उत्त ! अम्हाणं उस्सबादोबि उस्सबान्तरम् आपडिदं, जदो जअण्णाह-दंसणत्थिणीणं गोरचन्द-दंसणं जादं । [आर्य-पुत्र ! अस्माकम् उत्सवाद् अप्य् उत्सवानन्तरम् आपतितं, यतो जगन्नाथ-दर्शनार्थिनीनां गौरचन्द्र-दर्शनं जातम् ।] (संस्कृते)—
महः-पूरः सद्यो विषय-रस-संशोषण-विधौ
प्रचण्डो मार्तण्ड-व्यतिकर इवास्य प्रसृमरः ।
अहार्यं माधुर्यं भगवद्-अनुरागामृत-किरो
महा-वर्ष्मा को’यं कनक-निधिर् अक्ष्णोः पथि गतः ॥१५॥
अपि च—
निर्मञ्छयानि विधुभिर् मुख-बिम्बम् अस्य
नीराजयानि च रुचं कनक-प्रदीपैः ।
सम्पूजयानि पद-पद्मम् असु-प्रसूनैः
प्रत्याददानि करुणाम् अपि देह-लक्षैः ॥१६॥
(इति प्रणमति ।)
राजा : यथार्थो’यम् अनुभावो भवत्याः । तद् आकलय श्री-जगन्नाथो’पि स्नानालयम् अध्यारूढः ।
(देवी आलोक्य प्रणमति । नेपथ्ये पुनः काहल-ध्वनिः ।)
**राजा **(आकर्ण्य) **: **देवि ! पश्य पश्य श्री-जगन्नाथ-स्नानम् । ३५
**देवी **(उभयतो दृष्टिम् आधाय) : अज्ज-उत्त ! महं जेब्ब कोदुहलं । [आर्य-पुत्र ! महद् एव कुतूहलम् ।]
राजा : देवि ! किं तत् ?
देवी (संस्कृतेन)** :**
अन्योन्याभिमुख-स्थितौ विनिमिषाव् अन्योन्य-सन्दर्शने
स्नानाम्भो-नयनाम्भसोः प्लुत-तनूर् दुर्वारया धारया ।
कारुण्यैक-महा-निधी भव-भय-प्रध्वंसनैकौषधी
देवौ तुल्य-रुची पुरो विलसतः प्रश्याम-गौराव् अपि ॥१७॥
राजा : सत्यम् एतत् ।
देवी : अज्ज-उत्त ! णिब्बूढो सिणाण-महूसबो देअस्स, जदो दक्षिणाहिमुह-बिलोअण-क्खणे अण्णदो सर{इ} गोरचन्दमा । [आर्य-पुत्र ! निर्व्यूढः स्नान-महोत्स्वओ देवस्य, यतो दक्षिणाभिमुख-विलोकन-क्षणे अन्यतः सरति गौर-चन्द्रमाः ।]
राजा : एवम् एव ।
अग्रतो’स्य विरलायते जनः
पृष्ठतस् त्व् अविरलायते पुनः ।
पार्षदास् तु परितो भुजाभुजि
श्रद्धया विदधति स्म मण्डलम् ॥१८॥ ३७
नेपथ्ये :
अनवसरताम् अभ्यायाते प्रभुर् जगदीश्वरे
विरह-विधुरां हन्तावस्थां जगाम यतीश्वरः ।
भवति विशद प्रेमानन्दावतारतया यदा
ह्य् अभिनिविशते यस्मिन् तस्मिन् तदैव स तन्मयः ॥१९॥
**राजा **(आकर्ण्य) : अये निश्चितम् इदम् उक्तं काशी-मिश्रेण । तत् पुनर् आकलयामि वाक्य-शेषम् । (इति सावधानस् तिष्ठति ।)
**पुनस् तत्रैव **:
स्नानं नो तुलसी निषेचन-विधिर् नो चक्र-सन्दर्शनं
नो नाम ग्रहणं च नो नति-ततिर् नो हन्त भिक्षापि नो ।
श्री-नीलाचल-चन्द्र-मोहन-वसर-व्याजात् स्वयैवेच्छया
स्वीकृत्य स्व-वियोग-दुःखम् अनिशं निःस्पन्दम् आक्रन्दति ॥२०॥ ३८
राजा : अहो प्रमादः ! यावद् अनवसरं तावद् एव चेद् एवं स्यात् तदा किं भवति ?
पुनस् तत्रैव :
नान्युओ’प्य् उपायः प्रिय-कीर्तनस्य
सङ्कीर्तनानन्दथुम् अन्तरेण ।
रसान्तरायेति तद् एव कर्तुं
स्वरूप एवोद्यमम् आतनोति ॥२१॥
राजा : भद्र वो भद्रं ! (देवीं प्रति) प्रिये ! त्वम् इतो’पसर, आकारयामि तावद् एनं काशी-मिश्रम् इति ।
देवी : जह आणबेदि । [*यथाज्ञापयति *] (इति निष्क्रान्ता ।) ३९
काशी-मिश्रः : जयति जयति देवः !
राजा : मिश्र ! कथय किम् उक्तं भवता ?
**काशी-मिश्रः : **यद् उक्तं तथैव तत् ।
**राजा : **कथय स्वरूप-गोस्वामिना किं मन्त्रितम् अस्ति ।
काशी-मिश्रः : भगवता स्वीकृते तथाविध-विरह-विअक्लयानुभवे तद्-अपनोदनार्थं सकलैर् एव सुहृद्भिः सह मन्त्रितम्—अद्य सायं यदि गोपीनाथ-विजय-दर्शनानन्तरं भगवता मधुरतर-भगवत्-कीर्तनं श्रूयते, तदा रसान्तरं भवति । तस्मिंश् च सति विरहावेशः श्लथते । इति संमन्त्र्य रोहिणी-कुण्ड-सविधे परमाप्तैस् तदीय-हृज्-ज्ञैर् एव कतिपयैर् मधुर-मधुर-कीर्तनम् आरब्धम् अस्ति ।
राजा : मिश्र ! कथम् इदम् आलोक्यते ?
काशी-मिश्रः : जगतीं चेद् आरोहसि ।
राजा : तथैव क्रियते । (इति तेन सह तद्-आरोहं नाटयति ।)
(नेपथ्ये मधुरतर-सङ्कीर्तन-कलकलः ।) ४०
**काशी-मिश्रः **(निरूप्य) **: **भो महाराज ! पश्य पश्य—
विरह-व्यथैव मूर्ता
करुणो रस एव मूर्तिमान् दिवसम् ।
आसीद् य एव सम्प्रति
कीर्तन-कलतो’यम् अन्यथा जातः ॥२२॥
राजा : भवति हि,
आनन्द-कन्दलितम् वपुर् यदा यं
भावं स्पृशत्य् अथ तम् एव बहिर् व्यानक्ति ।
यैः पूर्यते स्फटिकजा घटिका रसैस् तैस्
तद् वर्ण-भाग् भवति तान् उपदर्शयन्ती ॥२३॥
(पुनर् नेपथ्ये गान-ध्वनिः ।) ४१
**राजा **(आकर्ण्य) : किम् एतद् गीतम् ?
काशी-मिश्रः : भगवद्-वंशी-नाद-माधुरी-प्रतिपादकम् इदं गौडीय-भाषोपनिबद्धम् इति देवेन नाकलय्यते ।
**राजा : **अहो चित्रं यद् एषः—
गौरः कृष्ण इति स्वयं प्रतिफलन् पुण्यात्मनां मानसे
नीलाद्रौ नटतीह सम्प्रथयते वृन्दावनीयं रसम् ।
आद्यः को’पि पुमान् नवोत्सुक-वधू-कृष्णानुराग-व्यथा-
स्वादी चित्रम् अहो विचित्रम् अहहो चैतन्य-लीलायितम् ॥२४॥
(पुनर् निरूप्य) अये ! चिरकालम् एकस्यैव गीत-पदस्य ध्रुवम् एव गीयते । ४२
**काशी-मिश्रः : **प्रथमतो यस्यां लीलायां मनः प्रविवेश, न ततः पुनर् आवर्तते ।
राजा : भवत्य् एवम् एव । (इति पुनर् आलोक्य सहर्षम्) अहो कीदृशम् अस्य माधुर्यम् ! पश्य पश्य—
जानूत्क्षेप-भुजावधूनन-पद-न्यासाक्षि-विक्षेपणैर्
हन्तानन्दयतो मनांसि सुहृदां विश्वं जडीकुर्वतः ।
निष्ठेवैर् मुखम् अस्य भाति सुभग-स्मेरं महानन्दतः
फेनैर् हेम-सरोरुहं वृतम् इव स्त्यानैर् इवेन्दुर् हिमैः ॥२५॥
(पुनर् आलोक्य सविस्मयं) अये !
क एष निःसाध्वसम् आस्य-मण्डलान्
निष्ठेवम् आकृष्य पिबन् प्रमोदते ।
चन्द्राद् बहिर्भूतम् इवामृत-द्रव-
स्योल्लासिनं फेनम् अहो चकोरकः ॥२६॥ ४३
काशी-मिश्रः : शुभानन्द-नामायं वैष्णवः ।
राजा : अहो एकम् एव गीत-ध्रुव-पदं, एक एव तार-स्वरः, एक एवोल्लासो गायकानां याम-द्वयं यावत् । भगवतो’पि समान एवानन्द-प्रकाश-चमत्कारः । तद् अमीभी रसान्तरेण विरहावेश-तरङ्गे । दूरीकृतः प्रकृत-रसान्तरं केनान्तरयन्तु ? उभयथैव भगवत आह्निक-विगमः ।
काशी-मिश्रः : तथापि विरहावेशो भक्तानां दुःसहः । (इति पुनर् निभाल्य) देव ! निर्व्यूढो’यं नृत्योत्सवः । यद् अमी भगवन्तं धृत्वा स्वावासं प्रति गच्छन्ति ।
राजा : भद्रं भद्रम् ! सम्भाव्यते कदाचिद् आह्निकम् अपि, तद् अधुना मिश्र, भगवत्-समीपम् एव गम्यताम् । अहम् इहैव क्षणं निद्रामि ।
काशी-मिश्रः : यथाज्ञापयसि । (इति निष्क्रान्तः) ४४
**राजा : **गतो मिश्रस् तद् इह निद्रामि । (इति निद्रां नाटयित्वा पुनर् उत्थाय) अहो विभातेयं विभावरी । यतः—
अस्ताचओल्दय-महीधरयोस् तटास्तं
शीतांशु-चण्ड-करणाव् उपसेदिवांसौ ।
तुल्य-त्विषो मृदुतया वहतः प्रगे’स्य
वर्षीयसः क्षणम् इवोपविलोचनत्वम् ॥२७॥
(इति परितो विलोकयति ।) ४५
**नेपथ्ये : **अहो महत् कौतुकम्—
प्रातः प्रत्यहम् अर्घ्य-गन्ध-तुलसी-पुष्पादिभिः पूजयत्य्
अद्वैते भगवन्तम् अन्तर-सुखावेशोल्लसद्-रोमणि ।
स्मित्वा तैर् हठतो हृतैर् अतिरसेनाद्वैतम् अभ्यर्चयन्
देवो बुर्बुरितैर् मुखे’ङ्गुलि-दलैर् उद्वाद्य-वाद्यं व्यधात् ॥२८॥
अपि च—
यस्य न्यस्य कराब्ज-कोष-कुहरे पूजोपचारं प्रभोः
पूजां कर्तु-मनाः प्रयाति कुतुकाद् अद्वैत-देवो’न्वहम् ।
श्रीनाथः स तदा प्रभोर् गुणनिधेः सन्दर्शन-स्पर्शन-
प्रेमालाप-कृपा-कटाक्ष-कलया पूर्णान्तरो’जायत ॥२९॥
**राजा : **अये कथम् अयं तुलसी-मिश्रः परीक्षा-महापात्रं किम् अपि प्रस्तौति । तच् छ्रोतव्यं यत् सत्वरम् इत एवाभिगच्छति ।
(प्रविश्य) **तुलसी-मिश्रः **: देव ! जगन्नाथस्य नेदीयसीति गुण्डिचा-मन्दिर-मार्जन-क्षालनार्थं स्वयम् एव महाप्रभुस् तत्रोद्यतः ।
राजा : प्रियं मे प्रियम्, किञ्चिद् आज्ञप्तम् अस्ति ?
तुलसी-मिश्रः : यद् आज्ञप्तं तत् काशी-मिश्रेणैव सम्पादितम् ।
राजा : किं तत् ?
तुलसी-मिश्रः : यावन्तस् तल्-लोकास् तावत्य एव सम्मार्जन्यः घटास् तु ततो’धिकाः ।
राजा : एतावन् मात्रम् ?
तुलसी-मिश्रः : किम् अन्येन तत् प्रयोजनम् ?
(नेपथ्ये कलकलः ।)
तुलसी-मिश्रः : पश्य पश्य—
श्री-हस्तेन विलप्य चन्दन-रसैः प्रत्येकम् एषां वपुर्
निक्षिप्याप्य् अधिकन्धरं भगवतो निर्माल्य-माल्यानि च ।
उल्लास-द्रुम-मञ्जरीर् इव करे सङ्ग्राहयन् शोधनीर्
माद्यत्-तुङ्ग-मतङ्ग-जालसगतिर् गौरो विनिष्क्रामति ॥३०॥
अपि च—
निर्गच्छन्ति मुदा मनोरथ-रथैः सन्तोष-दन्तावलैर्
अत्युल्लास-तुरङ्गमैर् भव-जये जैत्रा इवामी भटाः ।
रोमाञ्चावलि-कञ्चुकाढ्य-वपुषो’श्रान्त-स्रवैर् बिभ्रतो
बाष्पैर् वारुण-मन्त्रम् एव समदं हुङ्कार-झङ्कारिणः ॥३१॥
राजा : धिग् भूपत्वम् ! कदाहम् एषां मध्ये यः कश्चिद् एव भवन् भगवन्तम् अनुव्रजामि । तुलसी-मिश्र ! कथम् इदं कौतुकम् आमूलम् आकर्ण्यते ? ४८
तुलसी-मिश्रः : अस्ति कश्चिन् मदीयः पुरुषः, स एव सर्वः समाकलय्यागत-प्रायः ।
राजा : प्रियं मे प्रियम् ।
(प्रविश्य सत्वरः कश्चिद् पुरुषो राजानं प्रणम्य): महाराज ! सर्वम् अवलोक्यागतम् ।
राजा : कथय ।
पुरुषः : देव ! अवधीयताम्—
पाणौ कृत्वा मधुर-मृदुले शोधनीम् ऊर्ध्वम् ऊर्ध्वं
सर्वैः सार्धं स्वयम् अयम् असौ गुण्डिचा-मण्डपान्तः ।
लूता-तन्तून् मलिन-रजसः सारयन्न् एव तैस् तैर्
व्याप्तो गौरः शशधर इव व्यक्त-लक्ष्मा बभूव ॥३२॥
अनन्तरम्—
हस्ताप्राप्ये कम् अपि समुपारोप्य कस्यापि चांसे
मा भैषीर् इत्य् अहह निगदन् मेघ-गम्भीरयोक्त्या ।
अभ्युन्-नेत्रः सरजस-तनुर् मार्जयित्वोर्ध्वम् ऊर्ध्वं
भित्तीः सिंहासनम् अथ तलं शोधयामास देवः ॥३३॥
अपि च—
बहिर्वासो’ञ्चलम् अवकरचयं शोधनिकया
समाहृत्यापूर्य स्वयम् अथ बहिः सारयति सः ।
क्वचिद् धस्त-प्राप्यावधि सरभसं मार्ष्टि च कलं
सुहृद्-वर्गैर् गायत्य् अपि सुकुतुकं गापयति च ॥३४॥ ४९
राजा : ततस् ततः ?
**पुरुषः : **एवं मूल-मण्डप-जगन्-मोहन-भोग-मण्डपानां मार्जनानन्तरम्—
कूपां के’पि समुद्धरन्ति कतरः कस्यापि हस्ते ददौ
सो’प्य् अन्यस्य करे स चापर-करे सो’म्भः करे कस्यचित् ।
इत्थं शृङ्खलया घटान् अथ नयन् पूर्णान् अपूर्णांस् त्यजन्
पूर्णापूर्ण-परिग्रह-त्यजनयोः शिक्षां व्यतानीज् जनः ॥३५॥
अपि च—
केचिद् गौर-गिरा मनोज्ञ-मतयः सिञ्चन्ति सिंहासनं
भित्तीः केचन के’पि तस्य करयोर् वार्य्-अर्पणं कुर्वते ।
केचित् तत्-पद-पङ्कजोपरि घटैः सिञ्चन्ति सन्तोषतस्
तं के’प्य् अञ्जलिना पिबन्ति ददते केचिच् च मूर्धन्य् अपि ॥३६॥ ५०
**राजा : **ततस् ततः ?
**पुरुषः : **तत एवं पूर्ववत् क्रमेण प्रक्षाल्य धौत-पादा एव सर्वे स्व-स्व-वासोभिस् तत्-क्रमेण सलिलान्य् अपसारयाम्बभूवुः । तथा कृत्वाङ्गनम् उत्तीर्य तच् छोधनारम्भे—
पङ्क्तीर्भूयोपविष्टे निज-जन-निकर्;ए कौत्कान् मध्यवर्ती
चिन्वन् वासः-प्रपूरं चिर-समुपचिताः शर्कराश् चत्वरस्य ।
पश्यामः के कतीमा विदधति विचिता इत्य् अवोचद् यदेशस्
तर्ह्य् एवामी प्रमोदाद् अहम्-अहमिकया चेतुम् उद्योगम् ईयुः ॥३७॥ ५१
एवं स्व-चरितम् इव निरवकरं स्व-हृदयम् इव स्निग्धं च सर्वतश् चत्वर-तलं कृत्वा ते’मी भगवत्-कीर्तनम् आरेभिरे । तथा हि—
क्षोभं क्षौणी-मृगाक्ष्याः स्तह्गनम् इह रवेः कम्पम् आशा-वधूनां
स्तम्भं वा तस्य कुर्वन्न् अमर-परिवृढस्यास्रम् अक्ष्णां सहस्रे । \
स्वेदं सप्तर्षि-गोष्ठ्याः परम-रसमयोल्लासम् औत्तानपादैर्
ध्यान-ध्वंसं विरिञ्चेः स जयति भगवत्-कीर्तनानन्द-नादः ॥३८॥
ततश् च—
नरित्वा क्षणम् एव चारु मधुरं गौरो हरिर् नर्तयाञ्-
चक्रे’द्वैत-तनूजम् एक-मधुरं गोपाल-दासाभिधम् ।
नृत्यन्न् एव स मूर्छितः सुख-वशाद् देहान्तरं यन्न् इवा-
द्वैते खिद्यति पाणि-पद्म-वलनाद् देवः स तं प्राणयत् ॥३९॥
ततो हरि-ध्वनिर् उच्चैर् उच्चचार । ५१
राजा : अहो मे दुरदृष्टं, यद् एतद् अपि न दृष्टम् ।
पुरुषः : ततो नरसिंहनाथ-मण्डपं च संस्कार्य धावित्वेन्द्रद्युम्न-सरसि कृत-जल-विहारः सर्वैर् एव तद् अभ्यर्णवर्तिनि कुसुमोद्याने विशश्राम । तद् अनु वाणीनाथ-पट्टनायकेनोपनीतानि भगवत्-प्रसादान्नादीनि सर्वैर् एव सेवितानि । ५२
**नेपथ्ये : **
नेत्रोत्सवः सर्व-जनस्य भावी
श्वः श्रीपतेः श्री-मुख-दर्शनेन ।
इतीव चित्तोत्सव एष जातो
महोत्सवस्यापि महोत्सवो यः ॥४०॥
**राजा : ** महापात्र ! काशीमिश्रो’यं यथा लपति, तथामन्ये भवन्तम् एव श्रावयति, तद् अधुना नेत्रोत्सवस्य कृताकृतावेक्षणम् आचरतु भवान् ।
तुलसी-मिश्रः : यथाज्ञापयसि । (इति निष्क्रान्तः ।)
(ततः प्रविशति काशी-मिश्रः ।)
**काशी-मिश्रः : **अहो अतिमधुरं भावि ।
काशीश्वर-क्षपित-लोक-चयः पुरसताद्
गोविन्द-पालित-विलास-गतिश् च पश्चात् ।
पार्श्व-द्वये च सपुरीश्वर-सस्वरूपो
नेत्रोत्सवाय स भविष्यति गौरचन्द्रः ॥४१॥
राजा : अहो मनसा सह सङ्कथयन् माम् अपि नावलोकते मिश्रः ।
**काशी-मिश्रः **(दक्षिणे’क्षि निक्षिप्य) : अहो निष्पण्ण-मण्डनेनैव रथ-त्रयी । विशेषतो’यं श्री-जगन्नाथस्य रथः ।
उत्सर्पि-दर्पण-सहस्र-विभावित-श्रीः
सच्-चारु-चामर-सुचीन-चयैः परीता ।
तेजोमयः समयम् एत्य विराजमान
आनन्दयन् नयनम् एव रथो विभाति ॥४२॥
(सम्मुखम् अवलोक्य) अये कथम् इहैव राजा ! (उपसृत्य) जयति जयति महाराजः ! महाराज ! इह स्थितेनैव त्वया रथारोहणं भगवतो’वलोकनीयं, पश्चात् स्नानोत्तरं स्व-सेवा विधेया । ५४
राजा : रथ-विजय-सेवा मे नियतापि तथा मां नोत्कण्ठयति, यथा महाप्रभोर् नृत्य-दर्शन-स्पृहा ।
काशी-मिश्रः : रथारोहणे जाते सति यामार्धान्तरित एव महाप्रभोर् नृत्यारम्भो भावी ।
**राजा **(स-वितर्कम्) :
इतश् चेति पश्येयं भवति परितोषो न मनसस्
ततो वा पश्येयं तद् अपि सुलभं नैव भवति ।
प्रवेशस् तद्-गोष्ठ्यां मम न घटते तद्-वृततया
तद्-अन्तर्-वर्तित्वात् कथ्म् उ कलये तस्य नटनम् ॥४३॥
तथापि यावन् नटनं तावद् एव तत्रैव स्थेयं, तत्-कृपा-देव्य् एव शरणम् । ५५
काशी-मिश्रः : महाराज ! कञ्चुकी-द्वारा महिषीभिर् अभ्यर्थितम् अस्ति भगवतो गौरचन्द्रस्य नृत्य-दर्शनार्थं इहावस्थानम् ।
राजा : सुखेन पश्यन्तु कृतार्थयन्तु लोचने जनुश् च ।
काशी-मिश्रः : तत् त्वरस्व, भगवतो रथारोहण-कालं सन्निकृष्ट इव ।
राजा : एवम् एव ।
काशी-मिश्रः : अहम् अपि भगवन्-निकट एव गच्छामि । (इत्य् उभौ निष्क्रान्तौ ।)
(ततः प्रविशन्ति कञ्चुकिनोपगम्यमानास् ताम् एव वडभीम् आरूढा महिष्यः ।)
कञ्चुकी : देव्यः ! पश्यन्तु—
सम्प्राप्तो रथ-कन्दरं तनुभृतां नेत्रैर् मनोभिः समं
श्री-नीलाचल-चन्द्रमा रथ-पथं सम्प्राप गौरो हरिः ।
भावाक्रान्ततयैव नेत्र-मनसी तेषां वरं मुञ्चतः
पूर्वं नैव परन्तु पूर्व-परयोः सत्यं बलीयान् परः ॥४४॥
अपि च—
मण्डलैस् त्रिभिर् असौ स्वजनानाम्
आवृतो जयति काञ्चन-गौरः ।
बीज-कोष इव वारिरुहस्य
प्रोल्लसत्तर-सहस्र-दलस्य ॥४५॥
(देव्यः सोत्कण्ठ्यं निरीक्ष्य प्रणमन्ति ।)
कञ्चुकी : देव्यः ! पश्यन्तु पश्यन्तु !
काशीश्वरो’जनि बहिर् वलयस्य मुख्यो
गोविन्द उत्तम-तमो’जनि मध्यमस्य ।
अभ्यन्तरस्य मनिवज् जयति स्वरूपः
सामाजिकः किल पुरीश्वर ईश्वराग्रे ॥४६॥
(क्षणं निभाल्य) अहो महत् कौतुकम्—
सङ्कोचाद् अविरलीकरोति न जनांश् चैतन्य-पादाश्रयांस्
तैस् तैऋ गाढ-निरन्तरावृततया गौरं च नो पश्यति ।
सोत्कण्ठं नयन-द्वयीं तत इतो व्यापारयन्न् अन्तरं
सम्प्रेप्सुर् हरिचन्दनांस-विलसद्-बाहुर् नृपो भ्राम्यति ॥४७॥ ५८
देव्यः : अस्स जादिसी उक्कण्ठा, तादिषं ज्जेब ब्यबहरदि । [*अस्य यादृशी उत्कण्ठा तादृशम् एव व्यवहरति *।]
कञ्चुकी : देव्यः ! पश्यन्तु पश्यन्तु—
राजाक्षि-वर्त्मभिर् दूरं हरिचन्दनो’सौ
श्रीवासम् अन्तरयति स्वकरेण मन्दम् ।
रुष्टो जघान तमसौ प्रतिरुष्टम् एनं
राजैव सान्त्वयति सानुनयं नयेन ॥४८॥ ५९
देव्यः : तादिसाणं णिरबेच्छाणंको बराओ हरिचन्दणो ? [*तादृशानां निरपेक्षाणां को वराको हरिचन्दनः *?]
कञ्चुकी : पश्यन्तु पश्यन्तु—
उद्दाम-ताण्डव-विधौ जगदीश्वरस्य
सर्वे परस्पर-कर-ग्रहणं विधाय ।
बाहू प्रसार्य परितः प्रसरन्ति शश्वद्-
भूमौ स्खलत्तर-तनोः क्षत-शङ्कयैव ॥४९॥
देव्यः : दाणीं सुहेण दीस{इ} । [*इदानीं सुखेन दृश्यते *।] ६०
कञ्चुकी : पश्यन्तु पश्यन्तु—
क्षणम् उत्प्लवते मृगेन्द्र-कल्पं
क्षणम् आधावति मत्त-नाग-तुल्यम् ।
भ्रमति क्षणम् अप्य् अलात-चक्रं
प्रभम् आनन्द-तरङ्गतो यतीन्द्रः ॥५०॥
अपि च—
अन्तर्भाव-विदाम् उदार-मनसाम् आद्यः स्वरूपो यदा
यद् गातुं दिशतीदम् एव सकलः प्रीत्यैव तद् गायति ।
तस्यार्थस् तनुमान् इव प्रतिफलन् गौरो नरीनृत्यते
स्तम्भाश्रु-स्वर-भङ्ग-कम्प-पुलक-प्रस्वेद-मूर्च्छा-स्मितैः ॥५१॥
देव्यः : अच्चरिअं क्खु एदं पेम्माणन्द-चमक्कारस्स । [*आश्चर्यं खलु इदं प्रेमानन्द-चमत्कारस्य *।]
कञ्चुकी : पश्यन्तु पश्यन्तु—
आनन्दाम्बुधि-निधेर् न वेद्मि कतमैर् उच्चावचैर् ऊर्मिभिर्
नृत्योन्माद-मदेन गौर-भगवत्य् आनन्द-मूर्च्छां गते ।
निष्ठेवः कठिनो’स्रम् अस्रवद् अभूच् छ्वासो न संलक्ष्यते
कान्तिः केवलम् उज्ज्वलैव सुहृदाम् आश्वास-वीजायते ॥५२॥
देव्यः : ईसरो त्ति संवित्ती च्चेअ णो जीअअणं धावेदि, अण्णधा एदं दंसिदं सक्कीयदि ? [*ईश्वर इति संवृत्तिर् एव नो जीवनं धावयति, अन्यथा एतं किं द्रष्टुं शक्यते *?]
**कञ्चुकी **(क्षणं निभाल्य) **: **अहो जीवितं जीवितं—
रोमाञ्चाः पुनर् उन्मिषन्ति नयने भूयो’पि पर्यश्रुणी
निष्ठेवश् च पुनः प्ररोहति पुनः श्वासो’धरं धावति ।
सर्वेषाम् अभितो’भितः समुदयत्य् आह्लाद-कोलाहलो
देवो जागरयाञ्चकार हृदयं स्वानन्द-मूर्च्छां त्यजन् ॥५३॥ ६२
**देव्यः : **अम्महे जीविदम्ह । [अहो जीविताः स्मः ।]
**कञ्चुकी **(पुनर् निभाल्य) : अहो अद्भुतम्—
येनैव गीतेन बभूव मूर्च्छा
तेनैव भूयो’जनि सम्प्रबोधः ।
किम् एक एवैष स को’पि मन्त्रः
प्रयोग-संहार-विधौ समर्थः ॥५४॥
अपि च—
नृत्योन्माद-तरङ्गिणीर् बलवतीर् आनन्द-वात्या क्रमाद्
अत्युल्लासयति स्म तत्र जनितो वीचि-तरङ्ग-क्रमः ।
कश्चिद् कञ्चिद् अनीनशत्तम-परस् तं चापरस् तं परश्
चेत्य् आनन्द-तरङ्गजैव विविधा वृधिर् न गीतार्थजा ॥५५॥
अहो स्वरूपस्य प्रेम-माधुर्यं, तथा हि—
उत्थाय मन्दम् उपविश्य सुखोर्मि-वेग-
निघ्नस्य तर्जनिकया इखतो धरित्रीम् ।
आशङ्कितः क्षति-कृते सदयं स्वरूपो
देवस्य पाणिम् अरुणन्-निज-पाणिनैषः ॥५६॥
(पुनर् निरूप्य) अहो कष्टं—
गच्छत्य् एष जगत्-पतिः रथ-गतो बाहू प्रसार्य स्वरं
प्रीत्योत्थापयितुं रथोदरम् इव श्री-गौरचन्द्रं पुरः ।
नृत्यन्न् एव स चापसर्पति परं वाम्योदयेनात्मनो
द्वाव् एवाक्षि-पथं व्यतीयतुर् हओ भाग्यं विशश्राम नः ॥५७॥
तद् वयम् इतो’वतारयामः । यद् अयं राजापीत एवागच्छति । ६३
(इति देवीर् अवतार्य जाभिः सह निष्क्रान्तः ।
ततः प्रविशति राजा काशी-मिश्रश् च ।)
राजा : अहो निर्व्यूढो रथोत्सवः ।
गुण्डिचा-गृहम् अवस्थित एकः
प्रात्पवान् उपवनान्तरम् अन्यः ।
देव-युग्मम् इदम् एव जनानां
चित्तम् एव युगपत् प्रविवेश ॥५८॥
काशी-मिश्र ! हेरा-पञ्चम्यां भगवत्याः शिर्यो देव्याः प्रयाण-यात्रा सर्वतश् चमत्कारिणी यथा भवति, तथा कार्यम् । छत्र-चामरादीनि भगवद्-भाण्डारागारे यावन्ति सन्ति, यावन्ति वा मम कोषागारेषु सन्ति, तावन्त्य् एव समानेत्यानि, यथा रथोत्सवाद् अपि लोचन-चमत्कारकत्वेन मूर्त एवाद्भुत-रसो भवति ।
काशी-मिश्रः : यथाज्ञापयसि । ६४
राजा : त्वम् अद्यारभ्य तथा कुरु, अहम् अपि पुरं प्रविशामि । (इति निष्क्रान्तः ।)
**काशी-मिश्रः **(स्वगतं) : आरामान्तरम् आगतेषु भगवत्-पादेष्व् अद्वैतादिषु च समन्तेषु महत्सु किं वृत्तम् इति निभालयामि । (इति जगन्नाथ-वल्लभाख्यम् उपवनं प्रविश्य सहर्षम् आलोक्य) अहो भगवतः श्री-कृष्ण-चैतन्यस्यैव साक्षत् ।
श्वो मे परश्वो मम तत् परे’ह्नि
ममापरेद्युर् मम चापरे’ह्नि ।
ममेति भिक्षा-दिन-निर्णयेना-
द्वैतादयः कौतुकिनो बभूवुः ॥५९॥
तद् अधुनात्र मम प्रवेशो न योग्यस् तद् अहम् आसन्नस्य हेरा-पञ्चमी-महोत्सवस्य सामग्री-समभिधानाय गच्छामि । (इति निष्क्रान्तः ।) ६५
(ततः प्रविशति श्री-कृष्ण-चैतन्यः परितो’द्वैतादयश् च ।)
श्री-कृष्ण-चैतन्यः : स्वरूप, यद्यपि श्री-जगन्नाथो द्वारका-लीलाम् एवानुकरोति, तथापि गुण्डिचा-व्याजेन वृन्दावन-स्मारकेष्व् एतेषूपवनेषु विहर्तुं प्रत्यब्दम् एव नीलाचलं परित्यज्य सुन्दराचलम् आगच्छति । कथं देवीं श्रियं परित्यजति ?
**स्वरूपः : **स्वामिन् ! वृन्दावन-स्मारकेष्व् इति स्वयम् एव यद् उक्तं, तद् एव सिद्धान्तः । न हि वृन्दावने श्रिया सह विहारं, अपि तु गोपाङ्गनाभिर् एव ।
श्री-कृष्ण-चैतन्यः : तथाप्य् एषा कोपिनी भवति ।
**स्वरूपः : **प्रणयिनीनां प्रकृतिर् एवेयं, यत् स्वायोग्यतां नेक्ष्यते । ६६
(नेपथ्ये महा-वादित्र-निर्घोषः ।)
**सर्वे **(आकर्ण्य) **: ** अहो निमेष-मात्रम् इव दिन-चतुष्टयं जातं यद् अयं हेरा-पञ्चमी महोत्सवः प्रत्यावर्तते ।
श्री-कृष्ण-चैतन्यः : यथा-प्रस्तावम् एवायं भगवत्याः श्री-देव्याः कोप-प्रयाण-महोत्सवः । तद् अयम् आलोकनीयो भवति ।
सर्वे : एवम् एव । (इत्य् आलोकन-समुचितं स्थलम् उपसर्पन्ति ।) ६७
(पुनर् नेपथ्ये जय-जय-ध्वनिः ।)
**स्वरूपः **(आलोक्य) भगवन् !
मानस्य क्रम एष नैव यद् इयं स्वैश्वर्य-विख्यापकैर्
नाना-दिव्य-परिच्छदैः स्वयम् अहो देवं प्रतिक्रामति ।
व्यक्तं रौद्र-रसो’यम् अम्बुधि-भुवः क्रोधस्य यत् स्थायिनो
भूयान् एव विकार एष विदितं वैदग्ध्यम् अस्याः परम् ॥६०॥
पुरीश्वरः : स्वरूप ! सत्यम् एव, किन्तु पश्यतां पुनर् अद्भुत एव रसः । तथा हि—
पताकाभिर् देवी कलहम् अनु भोगीन्द्र-रसना-
सहस्रस्य द्वाभ्यां युगपद् इव लीढा दश-दिशः ।
नभो वापीहंसैर् इव मृदु-चलैश् चामर-चयैः
सित-च्छत्रैः फुल्लद्-धवल-कमलौघैर् इव वृता ॥६१॥
अपि च—
सुधूपानां धूमैः प्रतिदिशम् उदीर्णैर् उपचिते
घनौघे गम्भीरं ध्वनति मुरजादि-व्यतिकरे ।
बलाकानां श्रेण्याम् इव धवल-सत्-तोरण-ततौ
चलन्त्याम् उन्मत्ता इव दधति लास्यानि शिखिनः ॥६२॥ ६८
अद्वैतः :
पुरो वार-स्त्रीभिर् गुण-विजित-रम्भा-प्रभृतिभिर्
लसल्-लीला-लास्यं मुहुर् अभिनयन्तीभिर् अभितः ।
समन्ताद् दासीभिर् व्यजन-चय-ताम्बूल-पुटिका-
मणि-भृङ्गारादि-ग्रहण-चटुलाभिः परिवृता ॥६३॥
अपि च—
विमानस्य म्लानीम् इव विदधतीं मुग्ध-महसा
चतुर्दोलीं चामीकर-मणिमयीम् उत्थितवती ।
अतिक्रोधान्धापि स्वयं भव-समाभुग्न-हृदया
पयोधेः पुत्रीयं पितृ-जनित-दर्पेव वलते ॥६४॥ ६९
**स्वरूपः **(सोपहासम्) : अहो मान-वैदग्ध्यम् अस्याः ।
श्री-कृष्ण-चैतन्यः : स्वरूप, कीदृशं प्रणय-कोप-वैदग्ध्यम् ?
स्वरूपः : या यादृशी तस्याः खलु तथाविधं वैदग्ध्यम् ।
श्री-कृष्ण-चैतन्यः : तथापि शृणुमः ।
**स्वरूपः : **कदाचित् कृतापराधे प्रणयिनि श्री-व्रजराज-किशोरे सविधम् आगत्य समुचितं व्याहरति सति—
किं पादान्तम् उपैषि नास्मि कुपिता नैवापराद्धो भवान्
निर्हेतुर् नहि जायते कृत-धियां कोपो’पराधो’थवा ।
योग्या एव हि भोग्यतां दधति ते तं किं मयायोग्यया
तेनाद्यावधि गोकुलेन्द्र-तनय स्वाच्छन्द्यम् एवास्तु ते ॥६५॥
इदं कोप-वैदग्ध्यं, प्रकारान्तरं च—
ऊराद् उत्थितम् अन्तिकं मयि गते पीठं करेणार्पितं
स्मित्वा भाषिणि भाषितं मृदु-सुधा-निःस्यन्दि मन्दं वचः ।
आरूढे’र्धम् अथासनं प्रकटितो हर्षस् तयाश्लिष्यति
प्रत्याश्लिष्टम् अवामयैव मनसो वाम्यं तयाविस्तृतम् ॥६६॥ ७०
श्री-कृष्ण-चैतन्यः : पूर्वतो’पि सुरसम् इदम् ।
**श्रीवासः **(सपरिहासं) : गोप-ललनानां क्वेतादृशम् ऐश्वर्यम् ? ऐश्वर्यं हि मद-हेतुः ।
अस्याः पश्यत भो मदस्य महिमा दासीकुलेनेश्वरी-
गर्वोत्सेक-मदोद्धूरेण यद् अमी बद्धाः कटी-रोधसि ।
मुख्या एव जगत्-पतेः परिजनाः प्रत्येकम् आकर्षता
पात्यन्ते स्म निजेश्वरी-पद-पूरः प्रापय्य चौरा इव ॥६७॥
भृत्यापराधे स्वामिनो दण्ड इत्य् एव श्रुतम् इदं तु तद्-विपरीतम् एवेत्य् अहो अत्यद्भुतम् ।
**स्वरूपः **(श्रीवासं प्रति) भोः पण्डित ! पश्य पश्य तव देव्या वैदग्ध्यम् ।
अचेतनस्यास्य रथस्य को वा
मन्तुः कथं ताड्यत एष भृत्यैः ।
यास्याम्य् अदूरे’हम् इतीश्वरेण
प्रोक्ते कथं वाशमि दीर्घ-कोपः ॥६८॥
**श्रीवासः : **स्वामिन् ! ईश्वर्या हीयम् एव रीतिः । ७१
श्री-कृष्ण-चैतन्यः : श्रीवास ! नारदत्वेन भवान् द्वारका-विलास-प्रिय एव, तेन तुभ्यम् ऐश्वर्यांशे एव रोचते । स्वरूपस्य वृन्दावन-प्रियत्वात् तथाविधानन्द-वैदग्ध्यांश एव प्रेयान् ।
अद्वैतः : भगवन् !
भवत्-पदाम्भोरुहयोर् अनुग्रहाद्
अस्मादृशाम् ईदृशम् ईदृशं महत् ।
बभूव सौभाग्यम् अहो महोत्सवा
मूर्ता इवामी विविशुर् दृशोः पथि ॥६९॥
श्री-कृष्ण-चैतन्यः : किं ते भूयः प्रियम् उपकरोमि ? ७२
अद्वैतः : किं भूयः प्रियम् उपकरिष्यसि ?
हेला-खेलायितेनातनि कलि-मथनं ख्यापितो भक्ति-योगो
व्यक्तिं तत्रापि नीतः परम-सुनिभृतः प्रेम-नामा पदार्थः ।
क्वाप् क्वाप् प्रकीर्णा पुरुतर शुभ-गम्भावुका भावुकानां
तत्राप्य् आभीर-नारी-मुकुट-मणि-महाभाव-विद्यानववद्या ॥७०॥
अस्माकं तु—
धर्मार्थ-कामेषु परैव कुत्सा
लिप्सा न मोक्षस्य च कर्हिचिन् नः ।
एभिः समस्तैस् तव देव लोकैर्
लोकान्तरे’प्य् अस्तु सहैव वासः ॥७१॥ ७३
**श्री-कृष्ण-चैतन्यः : **एवम् एव—
वृन्दारण्यान्तरस्थः सरस-विलसितेनात्मनात्मनम् उच्चैर्
आनन्द-स्यन्द-वन्दीकृत-मनसम् उरीकृत्य नित्य-प्रमोदः ।
वृन्दारण्यैक-निष्ठान् स्वरुचि-सम-तनून् कारयिष्यामि युष्मान्
इत्य् एवो’स्ते’वशिष्टं किम् अपि मम महत् कर्म तच् चातनिष्ये ॥७२॥
अपि च—
दास्ये केचन केचन प्रणयिनः सख्यैक एवोभये
राधा-माधव-नैष्ठिकाः कतिपये श्री-द्वारकाधीशितुः ।
सख्यादाव् उभयत्र केचन परे ये वावतारान्तरे
मय्य् आबद्ध-हृदो’खिलान् वितनवै वृन्दावनासङ्गिनः ॥७३॥
अद्वैतः : तथास्तु—
निजेच्छया प्रापय यद् यद् एव
स्थलान्तरं नो वपुर् अन्तरं वा ।
तवैतद् आश्चर्य-चरित्रम् एव
जातिस्मरा एव चिरं स्मरामः ॥७४॥
तथापीदम् अस्तु ।
आकल्पं कवयन्तु नाम कवयो युष्मद्-विलासावलीं
ताम् एवाभिनयन्तु नर्तक-गुणाः शृण्वन्तु पश्यन्तु ताम् ।
सन्तो मत्सरतां त्यजन्तु कुजनाः सन्तोषवन्तः सदा
सन्तु क्षोणि-भुजो भवच्-चरणयोर् भक्त्या प्रजाः पान्तु च ॥७५॥
भगवान् : तथैवास्तु ।
(इति निष्क्रान्ताः सर्वे ।)
इति श्री-श्री-चैतन्य-चन्द्रोदये महा-महोत्सवो नाम दशमो’ङ्कः
॥१०॥
–ओ)०(ओ–
यस्योच्छिष्ट-प्रसादाद् अयम् अजनि मम प्रौढिमा काव्य-रूपी
वाग्-देव्या यः कृतार्थी-कृत इह समयोत्कीर्त्य तस्यावतारम् ।
यत् कर्तव्यं मयैतत् कृतम् इह सुधियो ये’नुरज्यन्ति ते’मी
शृण्वन्त्व् अन्यान् नमामश् चरितम् इदम् अमी कल्पितं नो विदन्तु ॥१॥
श्री-चैतन्य-कथा यथा-मति यथा-दृष्टं यथाकर्णितं
जग्रन्थे कियती तदीय-कृपया बालेन येयं मया ।
एतां तत्-प्रिय-मण्डले शिव शिव स्मृत्य्-एक-शेषं गते
को जानातु शृणोतु कस् तद् अनया कृष्णः स्वयं प्रीयताम् ॥२॥
दृष्टा भागवताः कृपाप्य् उपगता तेषां स्थितं तेषु च
ज्ञातं वस्तु विनिश्चितं च कियता प्रेम्णापि तत्रासितम् ।
जीवद्भिर् न मृतं मृतैर् यदि पुनर् मर्तव्यम् अस्मद्-विधैर्
उत्पद्यैव न किं मृतं बत विधे वामाय तुभ्यं नमः ॥३॥
शाके चतुर्दश-शते रवि-वाज-युक्ते
गौरो हरिर् धरणि-मण्डल आविरासीत् ।
तस्मिंश् चतुर्नवति-भाजि तदीय-लीला-
ग्रन्थो’यम् आविरभवत् कतमस्य वक्त्रात् ॥४॥
समाप्तम् इदं चैतन्य-चन्द्रोदयं नाम नाटकम्
–ओ)०(ओ–
-
आदेशम् आह सो’हम् इति । आरामाः उपवनानि । नन्दन-वन-श्रीणां इन्द्रवन-शोभानां मन्यामहे वयम् इति गौरवे बहु-वचनम् ॥३॥ ↩︎
-
बाधां दुःखम् । अभिनीतान् नाट्य-शास्त्रात् । ऋते विना ॥५॥ ↩︎
-
पर्वतो’यं वह्निमान् धूमाद् इति वह्न्य्-अनुमितौ धूम एवाव्यभिचार-ज्ञापक-हेतुर् अत्र तु तं विनाग्नेर् अनुमानम् एतच् चित्रम् । निर्धूमो धूम-रहितः । अनुमीयते अस्माभिर् इति । यस्य प्रतापरुद्रस्य । व्यूहस्य समूहस्य । दाहोद्धूरः दाहे उद्धुरः उद्धतो यः । यस्य प्रतापानलस्य । उष्माणां दाहक-लीला-मण्डलीनां प्रक्रमैः प्रसरणैः । श्रीशेन महाविष्णुना । बहुभिर् इति पृथिव्यादिभिर् आवरणैर् इत्य् उत्प्रेक्षा । बहिः बाह्ये ॥६॥ ↩︎
-
इदं यात्रादिकम् उक्त-कर्ता ॥९॥ ↩︎
-
अनुत्तमेति नास्ति उत्तमा यस्याः सा अनुत्तमा भक्तिर् अभूत् । ↩︎
-
मतेर् ज्ञान-स्वरूपाया जनन्याः । ↩︎
-
खण्डेदित् पृथग् आनन्दाः दधि दुग्ध सितादि पृथग् इव न तु पृथक् इति निर्गलितार्थह् । ↩︎
-
समाकर्ण्यताम् नोत् इन् ब्. ↩︎
-
ब्. श्री-पुरुषोत्तमस्य. ↩︎
-
ओन्ल्य् ओने जय इन् ब्. ↩︎
-
ग्रहिल नोत् इन् ब्. ↩︎
-
शात नोत् इन् अ. ↩︎
-
नान्द्य्-अन्त्ये इति तल्-लक्षणं नातक-चन्द्रिकायाम् [१५-१६]—
अथास्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।
प्रस्तावनायां तु मुखे नान्दी कार्या शुभावहा ॥
आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमान्विता ॥
अष्टभिर् दशभिर् युक्ता किं वा द्वादशभिः पदैः ॥
चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला ।
मङ्गलं चक्र-कमल-चक्रोर-कुमुदादिकम् ॥ इति तत्राष्ट-पदीयं नान्दी । सूत्रधारो वदति । अलम् इति अतिप्रसङ्गेन भगवतः अतिप्रसङ्गेन । रत्नाकर-वेलायां समुद्र-तीरे कन्दलितं अङ्कुरीभूतं दलिताञ्जनम् उज्ज्वलन् महानील-मणीनां कन्दलं समूहस् तस्य नील-गिरेर् दयां कन्दरे सर्वैः पुनः पुनर् अतिशयेन वा दृश्यमाना घना निविडा दल-माला पत्र-पङ्क्तिर् यस्य एवम्भूतस् तमाल-तरुः स एव कडम्बं नव-नूतन इव तस्य । गभीरतरः कोटरो यस्य महान् आतवो गर्तो यस्य अक्षय-बटस्य पाताल-स्पर्शित्वात् । गभीरतर-कोटरश् चासौ महा-बटश् चेति तस्याक्षय-बटस्य निकटे प्रकटः प्रमद-मत्तो मातङ्ग इव तस्य । सकल दिग्-विदिक्षु विहारिणां हारिणां मनोहराणां नर-निकराणां मुखर-मुखेषु शब्दायमान-मुखेषु रममाणाः क्रीडायमाना जय-ध्वनयस् तैर् ध्वनितो जगद्-अण्ड-भाण्ड-गह्वरो यत्र प्रकृष्ट-मोदेन मोदमान-मानसाः रसाविभक्ता रस-युक्ता भक्त-जनास् तैर् जनितेन भगवत्-कीर्तन-रूपेण कुतूहलास्वानेन कोलाहल-शब्देन सानन्दितो दिग्-वधू-समूहो यत्र । अविभक्तः अपृथग्-भूतः । हलहला इति स्त्रीणां मुख-रवे हुलहुलीति ख्याते । विमर्देन सहिता यो ढक्कारः शब्दः । रतया अनुगतया समुपसीदता समुपस्थितेन । चैतन्येन तन्यमान-तिरोभाव-भावेन भावित-मानस-व्यथया । परुषं निष्ठुरम् । अशात-वैमुख्येन सुखाभावेन मानं सम्मानम् । देयम् अपि कर्तुं योग्यम् अपि न कुर्वता अकुर्वता निभृताभिलाषेण गोपनीयाभिलाषेण । हंहो चारणाचार्य भो नट-श्रेष्ठ त्वया समाकर्ण्यतां हंहो इत्य् अव्ययम् आश्चर्यम् ॥२॥
सो’यं नील-गिरीश्वरः स विभवो यात्रा च सा गुण्डिचा
ते ते दिग्-विदिग्-आगताः सुकृतिनस् तास् ता दिदृक्षार्तयः ।
आरामाश् च त एव नन्दन-वन-श्रीणां तिरस्कारिणः
-
गुण-परिमलेति गुणान्य् एवात्र पुष्पाणि तेषां परिमलोद्गारः सौगन्ध्य्-अमृत-विशेषः स एव सारो यत्र तेन । रसं आरातीति रषारस् तेन प्रयोगेण नाटक-प्रबन्धेन ॥४॥
प्रियस्य साक्षाद् अविलोक-जन्यां
बाधां विषोढुं नहि को’प्य् उपायः ।
सुहृद्भिर् उक्ताद् अथवाभिनीताद्
-
इति हेतोः । तन् नाट्य-शास्त्रे । अत्र प्रयतनीयं मयेति शेषः । (ब्. यतनीयम्)
निर्धूमो’प्य् अनुमीयते प्रतिदिशं यस्य प्रतापानलः
साधूनां सुखदो विपक्ष-शलभ-व्यूहस्य दाहोद्धुरः ।
प्राग् एव स्फुटने विशङ्कित-धिया यस्योष्मणां प्रक्रमैः
-
सो’यं प्रतापरुद्र-महाराजा । निवहीभूतः समूहीत्भूतः सन् । क्रमेण समुपचीयमानणः संवर्धमानो यो भगवद्-भावस् तेन स्वयम् आविर्भूतो यः शान्तिरसस् तत्रावगाहेन निर्धूते रजस्-तमसी तत्-कार्ये राज्य-गृह-सुख-भोग-वैरि-वधादि-रूपे यस्य तत् तया हेतु-भूतया अस्तया निरस्तया विद्यया हेतुनानुगुणः शरीरी शमः शान्त-रस इव शम-निष्ठता बुद्धेर् इति भगवद्-वाक्यात् केवल-तन्-निष्ठा-बुद्धिर् एव सन् । स्वस्य परेषाम् अपि ज़्री-कृष्ण-चैतन्य-निष्ठतया सिद्धान्तीं स्वतः सिद्ध-रूपाम् अपि विषयाणां बालानां अभिलाषं मनसि न करोति । अहो श्री-कृष्ण-चैतन्य-रूपाद् अमृतम् आस्वादितं तं विना तैः किं प्रयोजनम् इति अन्धत्वादिकम् इच्छतीति भावः ॥७॥ ↩︎
-
भाव विद्वन् ! प्रकृष्टो विद्यया भावः किञ्चिन्-न्यूनस् तु मारिषः ॥८॥
अहो सो’यं नीलाचल-तिलक-यात्रावधिर् इयं
नवोद्यान-श्रेणीर् अथ विजय-वर्त्मापि तद् इदम् ।
दहत्य् उच्चैः पित्त-ज्वर इव दृशौ कृतति मनः
-
अभिषिक्तस्येति भक्त-जनैर् इति सर्वत्र योज्यम् । निःसारितं निर्मोचितं सारितरेण अङ्ग-मार्जनी-वस्त्रेणाभिषिक्तस्य जलं यस्य । लालस्यमानस्य देदीप्यमान-वसनस्य परिधापनस्य व्यवहारेण शोभमानस्य । मान्सस्यम् इति मनसि भवः मान्सयं तस्य परितोष-विशेषेण करणेन मनो-भव-शिल्प-नैपुण्येन इत्य् अर्थः । अनुलिप्तस्य चन्दन-कुङ्कुमादि-चित्रितस्य । करण-स्यदेन इन्द्रिय-वेगेन । धावितेति प्रक्षालिते चरण-कमले यस्य, ज्वलनेन धौतं निर्मलीकृतं कल-धौतं तस्य कलया नीराजितात् निश्चय-दीप्यमानात् राजित-गौर-तेजः तस्मात् महसः तेजसः सम्बन्धे असूयमानः न्यक्कृतः महिमा यस्य निर्मल-कान्तित्वात् । भर-स्यदेन प्रेम्णां अतिशय-वेगेन । सर्वैर् भक्त-गणैः । उपकण्ट्थे निकटे यथा वैभवं वैभवंउपकरणादिकं पूरयद्भिः पूर्णं कुर्वद्भिः । श्री-कृष्णस्य द्वितीयं अद्वैतं पुरस्कृत्य अग्रसरं कृत्वा । उपढौक्यन्ते लौकिकतां क्रियन्ते ॥५८॥ अल्तेर्नते रेअदिन्ग्स्- ब्. *करणास्पदेन *फ़ोर् करण-स्यदेन; *भरास्पदेन *फ़ोर् भर-स्यदेन; दूरयद्भिः फ़ोर् पूरयद्भिः.. ↩︎
-
यस्य गौराङ्गस्य । आनन्द-मये गौराङ्गे । इति श्रीवासोक्तिः । सर्वे यूयम् । अयं गौराङ्गः । प्रतनूकृत्य साम्यं कृत्य ॥६३॥ ↩︎
-
एभिर् भक्तैः । अस्य गौराङ्गस्य । तेन हेतुना अनुमीयते । मेदुरः निविडः । तेषां स्वजनानां । गृह्यते गौराङ्गेन किम् इति शेषः ॥६४॥ ↩︎
-
मच्-चित्ता इति हे भक्ता यूयम् । अमीषां भक्तानां । सास्रं चक्षुर् जलेन सह वर्तमानं यथा स्यात् तथा । सोत्कलिकं सोत्कण्ठम् ॥६६॥ ↩︎
-
लोकेति लोकेषु अनुग्रहस्य आग्रहेण सह वर्तमानेन । पुरुषार्थेति पुरुषार्थ-सार्थानां धर्मार्थ-काम-मोक्ष-समूहानाम् अपार्थीकरणाय तुच्छीकरणाय समर्थाः श्रवण-कीर्तनादयस् तेषु ॥६९॥
भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा ।
भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा ॥५७॥5 [भा.पु. १०.४७.२५] ↩︎
-
पारावारः समुद्रः । गोकुलाद्येति आदि-शब्देन मथुरा-द्वारावती । सन्ततेति सततं सम्यग् अतिशयं तन्यमान-मानस-रागस्य पर-भागम् अनुरागादिकं भाग्यं यासां ताभिः । तदानीं तस्मिन् काले श्री-वृन्दावने । सम्प्रतिपद्यमानेति सम्यक् प्रतिपद्यमानाय तत्-प्रेमास्वादाय स्वादरेण गृहीतः समुचित-विग्रहो येन एवम्भूतस्य तव । निरवधि तत्-प्रेम-तत्त्वम् एवातिशय-मधुर-रस-रहस्यं तद् एवामृतम् । आहित-गण्डूषं धृत-गण्डूषम् । आचामतः आसम्यक् आस्वादयतः तत्-कणाः तत्-प्रेमामृत-कणाः । क्व कुत्र नाम इति प्रकाश्ये । आचाम्यन्ते आस्वाद्यन्ते । ↩︎
-
मृत्योः मृत्यु-सकाशात् । केनापि प्रकारेण प्रसभं हठात् । अयः जन्तुः प्राण्य् अहम् । दन्तुरतया दुर्दान्ततया । मन्तुमत्तया अपराधवत्तया । मत्तया उद्धतया । काष्ठायमान हृदयः काष्ठवद् आचरत् हृदयं यस्य सः । लहरी विस्तारः । मद् एति मद-निविडेन दुर्निन्दितावस्थिता धीर् यस्य । सुकृतेति सञ्चित-पूर्व-पूर्व-सुष्ठु-कृत-पुण्य-वशात् । निद्रेति निद्रया विद्रावितायां संज्ञायां चेतनायाम् । ब्राह्मण-ब्रुव-निन्दित-ब्राह्मण ! विभातायां प्रभातायाम् । विरतम् अखिल-चञ्चलं येन । तद्-दिनं वाप्य उपवासः कृतः । पुरुष-निःश्रेयसं पुरुष-मङ्गलं पोषितः ॥७१॥
हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् ।
कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ इति । ↩︎
-
तद् अन्व् इति । तत् श्लोकम् अनुलक्षीकृत्य श्री-कृष्णोपदेशम् इव तत्-पद्यं मन्यमानः । अन्व् इति । अनु तत्-पश्चात् । आ सम्यक् नोदितं खण्डितं सकलं कर्म येन एवम्भूतो’हम् । शरणं गृहम् । मनाग् अपि अल्पम् अपि । तन्-निरूपितं मृत्यु-दिनम् उपरते शेषे । तत् शुश्रुषया तत् श्रवणम् इच्छया । आसाद्य प्राप्य । साद्यमानः प्राप्यमानः । तद्-भवानन्दस्य भवनालिन्दतः अलिन्दतः पिंडा इति ख्याते । तद्-अनु तत्-पश्चात् । केनापि करुण-हृदयेण ॥७२॥ ↩︎
-
निःसाध्वसं निर्भयं यथा । तत् गौराङ्गस्य ॥७९॥ ↩︎
-
शा शची देवी । अस्याः शची-देव्याः । एतां शची-देवीम् । अत्र मातरि ॥८१॥ ↩︎
-
विश्वं संसारं बिभरित् यस् तस्य जननी वा । विश्वम्भरेति विश्वम्भरस्य तव जनानां भक्तानां कलयापरि सर्वतोभावे वरणीया अर्थात् भक्ति-रूपिणी । कराग्रेणेति शची-देव्याः । अवैयग्र्येति नास्ति व्यग्रो यत्र तस्य भावः । अवैयाग्र्यः तस्मिन् । अग्रतोषेण अति सन्तुष्टेन ॥८२॥ ↩︎
-
पेशलं पटुता । जातेति जातया तद्-विश्वम्भर-कृपया कम्पायमान-शरीरा प्रज्ञा नव-नवोल्लेख-शालिनी प्रतिभा मता । अपाठीत् देवकी-वाक्यम् इति शेषः । तच्-चरणौ पुत्र-चरणौ जिघृक्षति ग्रहीतुम् इच्छति ॥८३॥ ↩︎
-
भावीति प्रसादः सम्प्रति कथं न स्यात् चेत् तत्राह प्रसादस्य दीप्ति-लहरी-निकरस्य परिपन्थी विरोधी भागवतापराधः । हि यतः ॥८४॥ ↩︎
-
अस्य श्री-गौराङ्ग-भगवतः । मात्र् इति मातुर् मातृ-भावम् । ↩︎
-
स्वानन्दावेशः स्वकीयानन्दावेशो यत्र ॥८७॥ ↩︎
-
पाप- ↩︎
-
हितेषु भगवद्-अनुशीलनेषु अभियोगो येषां ते इव ।
सन्-मात्रा निर्विशेषाचिद्-उपधि-रहिता निर्विकल्पा निरीहा
ब्रह्मैवास्मीति वाचा शिव शिव भगवद्-विग्रहे लब्ध-वैराः ।
ये’मी श्रौत-प्रसिद्धान् अहह भगवतो’चिन्त्य-शक्त्य्-आद्य्-अशेषान्
प्रत्याख्यान्तो विशेषान् इह जहति रतिं हन्ति तेभ्यो नमो वः ॥५॥ ५ ↩︎
-
आर्हतेति । ऋहत ऋषभ-देवः सुगतो बुद्धः कपालः कल्पितागमः एतेषां मतं विदन्तीति । पाषण्डाः सर्व-लिङ्गिनः ।
जिह्वाग्रेण ललाट-चन्द्रज-सुधास्यन्दाध्व-रोधे महद्-
दाक्ष्यं व्यञ्जयतो निमील्य नयने बद्ध्वासनं ध्यायतः ।
अस्योपात्त-नदी-तटस्य किम् अयं भङ्गः समाधेर् अभूत् ↩︎
-
स्नेह-युक्तम् ।
भवत्यो वा किम् ईहन्ते स वा देवः किम् ईहते ।
निराश्रयस्य मम वा किम् असौ भवताशयः ॥१४॥ ↩︎
-
अनेना इति नञ् पूर्व एनः पाप-वाची निष्पापो जात इत्य् अर्थः । ↩︎
-
अविद्या-व्यथा-रहितः । ↩︎
-
विरल-प्रचाराणाम् । ↩︎
-
तत् वृन्दावनेश्वरी-भावम् । ↩︎
-
नाम प्राकाश्ये । लौकिकाचअरिते कृष्ण-केलौ । अनुरज्ञन्ति अनुरागं कुर्वन्ति । ↩︎
-
साधारणेति सर्व-जन-परम् एव । विशेषतः इतर-साधारण-जनात् महा-मनोः महामन्त्रस्य ऋषीर् मन्त्र-दाता । तेन मिलित्वा । ↩︎
-
आगत-प्रायो नारदः । नारद-सदृशां अन्तरीक्षे शून्य-मार्गे । चरितं गन्तुं शीलं येषां तेषां । अनुष्ठातव्यः अस्माभिः । ↩︎
-
एषा दान-लीला । शक्यते अस्माभिः । कथम् इव न शक्यते । ↩︎
-
कथम् एतत् तासां वृन्दावन-गमनम् । प्रत्येतु प्रत्ययं करोतु । तत् नारदस्य अभिशापात् । भाव्यं मया तया वा अलं अलं व्यर्थं व्यर्थम् । ताः तव पुत्र्यः । ↩︎
-
विलम्बसे विलम्बं करोषि । तं गन्धर्व-राजम् । ↩︎
-
अस्य श्रीवासस्य । व्यक्तैव ज्ञेया । तत्-तद्-आरोपः रुद्राद्य्-आरोपः ज्ञेयः । तत् नारदादि-स्वरूपम् । ↩︎
-
उपकरोति उपकारं करोतीति णकः आप् मध्या-कारस्य इ-कारः तया । ↩︎
-
द्रष्टरि व्यवहाराणां प्राड्विवाको’क्ष-दर्शकौ इत्य् अमरः । ↩︎
-
अद्य वत्सरः । ↩︎