कैवल्योपनिषत्

कैवल्योपनिषत्

विश्वास-प्रस्तुतिः

कैवल्योपनिषद्-वेद्यं
कैवल्यानन्द-तुन्दिलम् ।
कैवल्य-गिरि-जा-रामं
स्व-मात्रं कलये ऽन्वहम् ॥

मूलम्

कैवल्योपनिषद्वेद्यं कैवल्यानन्दतुन्दिलम् ।
कैवल्यगिरिजारामं स्वमात्रं कलयेऽन्वहम् ॥

ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथाश्वलायनो
भगवन्तं परमेष्ठिनम् उपसमेत्योवाच ।

विश्वास-प्रस्तुतिः

अधीहि भगवन् ब्रह्म-विद्यां वरिष्ठां
सदा सद्भिः सेव्यमानां निगूढाम् ।
यथा ऽचिरात् सर्व-पापं व्यपोह्य
परात् परं पुरुषं याति विद्वान् ॥ १॥

मूलम्

अधीहि भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् ।
यथाऽचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १॥

विश्वास-प्रस्तुतिः

तस्मै स होवाच पितामहश् च
“श्रद्धा-भक्ति-ध्यान-योगाद् अवैहि” ॥ २॥

मूलम्

तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादवैहि ॥ २॥

विश्वास-प्रस्तुतिः

न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वम् आनशुः
परेण नाकं निहितं गुहायां
विभ्राजते, यद् यतयो विशन्ति ॥ ३॥

मूलम्

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ ३॥

विश्वास-प्रस्तुतिः

वेदान्त-विज्ञान-सुनिश्चितार्थाः
सन्न्यास-योगाद् यतयः शुद्ध-सत्त्वाः ।
ते ब्रह्म-लोकेषु परान्त-काले
परामृताः परिमुच्यन्ति सर्वे ॥ ४॥

मूलम्

वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ४॥

विश्वास-प्रस्तुतिः

विविक्त-देशे च सुखासन-स्थः
शुचिः सम-ग्रीव-शिरः-शरीरः ।
अन्त्याश्रम-स्थः सकलेन्द्रियाणि
निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ५॥

मूलम्

विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः ।
अन्त्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ ५॥

विश्वास-प्रस्तुतिः

हृत्-पुण्डरीकं विरजं विशुद्धं
विचिन्त्य मध्ये विशदं विशोकम् ।
अचिन्त्यम् अव्यक्तम् अनन्तरूपं
शिवं प्रशान्तम् अमृतं ब्रह्म-योनिम् ॥ ६॥

मूलम्

हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।
अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ ६॥

विश्वास-प्रस्तुतिः

तम् आदि-मध्यान्त-विहीनम् एकं
विभुं चिद्-आनन्दम् अरूपम् अद्भुतम् ।
उमा-सहायं परमेश्वरं प्रभुं
त्रिलोचनं नील-कण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर् गच्छति भूत-योनिं
समस्त-साक्षिं तमसः परस्तात् ॥ ७॥

मूलम्

तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् । var तथादि
उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७॥

विश्वास-प्रस्तुतिः

स ब्रह्मा स शिवः सेन्द्रः
सोऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः
स कालोऽग्निः स चन्द्रमाः ॥ ८॥

मूलम्

स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ।
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः ॥ ८॥

विश्वास-प्रस्तुतिः

स एव सर्वं यद् भूतं
यच् च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युम् अत्येति
नान्यः पन्था विमुक्तये ॥ ९॥

मूलम्

स एव सर्वं यद्भूतं यच्च भव्यं सनातनम् ।
ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥ ९॥

विश्वास-प्रस्तुतिः

सर्व-भूत-स्थम् आत्मानं
सर्व-भूतानि चात्मनि ।
सम्पश्यन् ब्रह्म परमं
याति नान्येन हेतुना ॥ १०॥

मूलम्

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना ॥ १०॥

विश्वास-प्रस्तुतिः

आत्मानम् अरणिं कृत्वा
प्रणवं चोत्तरारणिम् ।
ज्ञान-निर्मथनाभ्यासात्
पापं दहति पण्डितः ॥ ११॥ var पाशं

मूलम्

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ज्ञाननिर्मथनाभ्यासात्पापं दहति पण्डितः ॥ ११॥ var पाशं

विश्वास-प्रस्तुतिः

स एव माया-परिमोहितात्मा
शरीरम् आस्थाय करोति सर्वम् ।
स्त्र्य्-अन्न-पानादि-विचित्र-भोगैः
स एव जाग्रत्-परितृप्तिम् एति ॥ १२॥

मूलम्

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
स्त्र्यन्नपानादिविचित्रभोगैः स एव जाग्रत्परितृप्तिमेति ॥ १२॥

विश्वास-प्रस्तुतिः

स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ १३॥

मूलम्

स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितजीवलोके ।
सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति ॥ १३॥

विश्वास-प्रस्तुतिः

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
आधारमानन्दमखण्डबोधं यस्मिल्ँलयं याति पुरत्रयं च ॥ १४॥

मूलम्

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
आधारमानन्दमखण्डबोधं यस्मिल्ँलयं याति पुरत्रयं च ॥ १४॥

विश्वास-प्रस्तुतिः

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ १५॥

मूलम्

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥ १५॥

विश्वास-प्रस्तुतिः

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ १६॥

मूलम्

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ १६॥

विश्वास-प्रस्तुतिः

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७॥

मूलम्

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ १७॥

विश्वास-प्रस्तुतिः

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८॥

मूलम्

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ १८॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ १९॥

॥ प्रथमः खण्डः ॥ १॥

अणोरणीयानहमेव तद्वन्महानहं विश्वमहं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ २०॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुः स शृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥ २१
वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २२॥

न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च ।
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ॥ २३
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥

यः शतरुद्रियमधीते सोऽग्निपूतो भवति सुरापानात्पूतो भवति
स ब्रह्महत्यायाः पूतो भवति स सुवर्णस्तेयात्पूतो भवति
स कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो
भवत्यत्याश्रमी सर्वदा सकृद्वा जपेत् ॥

अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवं
विदित्वैनं कैवल्यं पदमश्नुते कैवल्यं पदमश्नुत इति ॥ २४॥

द्वितीयः खण्डः ॥ २॥

ॐ सहनाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इत्यथर्ववेदीया कैवल्योपनिषत्समाप्ता ॥