मङ्गलम्
॥ अथर्वशिरोपनिषत्॥
अथर्वशिरसाम् अर्थम् अनर्थ-प्रोचवाचकम् ।
सर्वाधारम् अनाधारं स्वमात्र-त्रैपदाक्षरम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वॄद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
रुद्रपरिचयः
ॐ देवा ह वै स्वर्गं लोकमायन्। ते रुद्रम् अपृच्छन् - को भवान् इति ।
सोऽब्रवीद् अहम् एकः प्रथमम् आसं - वर्तामि च भविश्यामि च।
नान्यः कश्चिन् मत्तो व्यतिरिक्त इति ।
सोऽन्तराद् अन्तरं प्राविशत्। दिशश् चान्तरं प्राविशत्। सोऽहम्।
नित्यानित्योऽहम्।
व्यक्ताव्यक्तो, ब्रह्माब्रह्माहम्।
प्राञ्चः प्रत्यञ्चोऽहम्।
दक्षिणाञ्च उदञ्चोहम्।
अधश्चोर्ध्वं चाहम्।
दिशश्च प्रतिदिशश्चाहम्।
पुमान् अपुमान्, स्त्रियश्चाहम्।
गायत्र्य् अहम्। सावित्र्य् अहम्।
त्रिष्टुब् जगत्य् अनुष्टुप् चाहम्। छन्दोऽहम्।
गार्हपत्यो दक्षिणाग्निर् आहवनीयोऽहम्।
सत्योऽहम्।
गौरहम्। गौर्य् अहम्।
ऋग् अहम्। यजुर् अहम्। सामाहम्। अथर्वाङ्गिरसोऽहम्।
ज्येष्ठोऽहम्। श्रेष्ठोऽहम्। वरिष्ठोऽहम्।
आपोऽहम्। तेजोऽहम्।
गुह्योहम्। अरण्योऽहम्।
अक्षरम् अहम्। क्षरम् अहम्।
पुष्करम् अहम्। पवित्रम् अहम्।
उग्रं च मध्यं च बहिश्च पुरस्ताज् ज्योतिर् इत्य् अहम् एव।
सर्वेभ्यो माम् एव स सर्वः समां यो मां वेद, स सर्वान् देवान् वेद, सर्वांश् च वेदान् साङ्गान् अपि।
ब्रह्म ब्राह्मणैश् च गां, गोभिर् ब्राह्माणान्, ब्राह्मणेन हविर्, हविषा आयुर्, आयुषा सत्येन सत्यं, धर्मेण धर्मं तर्पयामि स्वेन तेजसा ।
रुद्रस्तुतिः
ततो ह वै ते देवा रुद्रम् अपृच्छन्। ते देवा रुद्रमपश्यन् ।
ते देवा रुद्रम् अध्यायन्। ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥ १॥
ॐ यो वै रुद्रः स भगवान् यश् च ब्रह्मा - तस्मै वै नमो नमः ॥ १॥
यो वै रुद्रः स भगवान् यश् च विष्णुस् तस्मै वै नमो नमः ॥ २॥
यो वै रुद्रः स भगवान् यश् च स्कन्दस् तस्मै वै नमो नमः ॥ ३॥
यो वै रुद्रः स भगवान् यश् चेन्द्रस् तस्मै वै नमो नमः ॥ ४॥
यो वै रुद्रः स भगवान् यश् चाग्निस् तस्मै वै नमो नमः ॥ ५॥
यो वै रुद्रः स भगवान् यश् च वायुस् तस्मै वै नमो नमः ॥ ६॥
यो वै रुद्रः स भगवान् यश् च सूर्यस् तस्मै वै नमो नमः ॥ ७॥
यो वै रुद्रः स भगवान् यश् च सोमस् तस्मै वै नमो नमः ॥ ८॥
यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास् तस्मै वै नमो नमः ॥ ९॥
यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास् तस्मै वै नमो नमः ॥ १०॥
यो वै रुद्रः स भगवान्यच्च भूस् तस्मै वै नमो नमः ॥ ११॥
यो वै रुद्रः स भगवान्यच्च भुवस् तस्मै वै नमो नमः ॥ १२॥
यो वै रुद्रः स भगवान्यच्च स्वस् तस्मै वै नमो नमः ॥ १३॥
यो वै रुद्रः स भगवान्यच्च महस् तस्मै वै नमो नमः ॥ १४॥
यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमो नमः ॥ १५॥
यो वै रुद्रः स भगवान् यच् चान्तरिक्षं तस्मै वै नमो नमः ॥ १६॥
यो वै रुद्रः स भगवान् या च द्यौस् तस्मै वै नमो नमः ॥ १७॥
यो वै रुद्रः स भगवान्याश् चापस् तस्मै वै नमो नमः ॥ १८॥
यो वै रुद्रः स भगवान् यच् च तेजस् तस्मै वै नमो नमः ॥ १९॥
यो वै रुद्रः स भगवान् यश् च कालस् तस्मै वै नमो नमः ॥ २०॥
यो वै रुद्रः स भगवान् यश् च यमस् तस्मै वै नमो नमः ॥ २१॥
यो वै रुद्रः स भगवान् यश् च मृत्युस् तस्मै वै नमो नमः ॥ २२॥
यो वै रुद्रः स भगवान्यच् चामृतं तस्मै वै नमो नमः ॥ २३॥
यो वै रुद्रः स भगवान् यच् चाकाशं तस्मै वै नमो नमः ॥ २४॥
यो वै रुद्रः स भगवान् यच् च विश्वं तस्मै वै नमो नमः ॥ २५॥
यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमो नमः ॥ २६॥
यो वै रुद्रः स भगवान् यच् च सूक्ष्मं तस्मै वै नमो नमः ॥ २७॥
यो वै रुद्रः स भगवान् यच् च शुक्लं तस्मै नमो नमः ॥ २८॥
यो वै रुद्रः स भगवान् यच् च कृष्णं तस्मै वै नमो नमः ॥ २९॥
यो वै रुद्रः स भगवान् यच् च कृत्स्नं तस्मै वै नमो नमः ॥ ३०॥
यो वै रुद्रः स भगवान् यच् च सत्यं तस्मै वै नमो नमः ॥ ३१॥
यो वै रुद्रः स भगवान् यच् च सर्वं तस्मै वै नमो नमः ॥ ३२॥ ॥ २॥
भूस् ते आदिर्, मध्यं भुवः, स्वस् ते शीर्षम्। विश्वरूपो ऽसि।
ब्रह्मैकस् त्वं द्विधा त्रिधा, वृद्धिस् त्वं, शान्तिस् त्वं, पुष्टिस् त्वं
हुतम् अहुतं,
दत्तम् अदत्तं
सर्वम् असर्वं
विश्वम् अविश्वं
कृतम् अकृतं
परम् अपरं
परायणं च त्वम् ।
अपाम सोमम्, अमृता अभूम
+अगन्म ज्योतिर् अविदाम देवान् ।
किं नूनम् अस्मान् कृणवद् अरातिः
किमु धूर्तिर् अमृतं मार्त्यस्य+++(??)+++ ।
सोम-सूर्य-पुरस्तात् सूक्ष्मः पुरुषः ।
सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं
ग्राह्यम् अग्राह्येण
भावं भावेन
सौम्यं सौम्येन
सूक्ष्मं सूक्ष्मेण
वायव्यं वायव्येन ग्रसति स्वेन तेजसा।
तस्माद् उपसंहर्त्रे महाग्रासाय वै नमो नमः ।
हृदिस्था देवताः सर्वा
हृदि प्राणाः प्रतिष्ठिताः ।
हृदि त्वम् असि यो नित्यं
तिस्रो मात्राः परस् तु सः ।
प्रणवादिरूपम्
तस्योत्तरतः शिरो, दक्षिणतः पादौ।
य उत्तरतः स ओङ्कारः। य ओङ्कारः स प्रणवः।
यः प्रणवः स सर्वव्यापी। यः सर्वव्यापी सोऽनन्तः।
योऽनन्तस् तत् तारम्। यत् तारं तच् छुक्लम्।
यच्छुक्लं तत् सूक्ष्मम्। यत् सूक्ष्मं तद् वैद्युतम्।
यद् वैद्युतं तत् परं ब्रह्म। यत् परं ब्रह्म, स एकः।
य एकः स रुद्रः। यो रुद्रः स ईशानः।
य ईशानः स भगवान् महेश्वरः ॥ ३॥
निर्वचनम्
अथ कस्मादुच्यत ओङ्कारः?
यस्माद् उच्चार्यमाण एव प्राणान् ऊर्ध्वम् उत्क्रामयति, तस्माद् उच्यते ओङ्कारः ।
अथ कस्माद् उच्यते प्रणवः? यस्माद् उच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति, नामयति च - तस्माद् उच्यते प्रणवः ।
अथ कस्माद् उच्यते सर्वव्यापी?
यस्माद् उच्चार्यमाण एव सर्वाल्ँ लोकान् व्याप्नोति - स्नेहो यथा पलल-पिण्डम् इव।
शान्तरूपम् ओतप्रोतम् अनुप्राप्तो व्यतिषक्तश् च। तस्माद् उच्यते सर्वव्यापी ।
अथ कस्माद् उच्यते ऽनन्तः?
यस्माद् उच्चार्यमाण एव तिर्यग् ऊर्ध्वम् अधस्ताच् चास्यान्तो नोपलभ्यते तस्माद् उच्यतेऽनन्तः ।
अथ कस्माद् उच्यते तारम्?
यस्माद् उच्चार्यमाण एव गर्भ-जन्म-व्याधि-जरा-मरण-संसार-महाभयात् तारयति त्रायते च। तस्माद् उच्यते तारम् ।
अथ कस्माद् उच्यते शुक्लम्?
यस्माद् उच्चार्यमाण एव क्लन्दते क्लामयति च। तस्माद् उच्यते शुक्लम् ।
अथ कस्माद् उच्यते सूक्ष्मम्?
यस्माद् उच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्य् अधितिष्ठति, सर्वाणि चाङ्गान्य् अभिमृशति। तस्माद् उच्यते सूक्ष्मम् ।
अथ कस्माद् उच्यते वैद्युतम्?
यस्माद् उच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति। तस्माद् उच्यते वैद्युतम् ।
अथ कस्माद् उच्यते परम् ब्रह्म?
यस्मात् परम् अपरं परायणं च बृहद् बृहत्या बृंहयति। तस्माद् उच्यते परं ब्रह्म ।
अथ कस्माद् उच्यते एकः?
यः सर्वान् प्राणान् सम्भक्ष्य सम्भक्षणेनाजः संसृजति विसृजति।
तीर्थम् एके व्रजन्ति। तीर्थम् एके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चो ऽभिव्रजन्त्य् एके तेषां सर्वेषाम् इह सद्गतिः ।
साकं स एको भूतश् चरति प्रजानां तस्माद् उच्यत एकः ।
अथ कस्माद् उच्यते रुद्रः?
यस्माद् ऋषिभिर् नान्यैर् भक्तैर् द्रुतम् अस्य रूपम् उपलभ्यते, तस्माद् उच्यते रुद्रः ।
अथ कस्माद् उच्यते ईशानः?
यः सर्वान् देवान् ईशते, ईशानीभिर् जननीभिश् च परम-शक्तिभिः ।
अभि त्वा शूर णो नुमो दुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थिष॥
इति, तस्माद् उच्यते ईशानः ।
अथ कस्माद् उच्यते भगवान् महेश्वरः?
यस्माद् भक्ता ज्ञानेन भजन्त्य् अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वैर्येण महति महीयते, तस्माद् उच्यते भगवान् महेश्वरः ।
तदेतद् रुद्र-चरितम् ॥ ४॥
एको ह देवः प्रदिशो नु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जातः जनिष्यमाणः
प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ।
एको रुद्रो न द्वितीयाय तस्मै य इमाल्ँ लोकानीशत ईशनीभिः ।
प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा
भुवनानि गोप्ता ।
यो योनिं योनिमधितिष्ठतित्येको येनेदं सर्वं विचरति सर्वम् ।
तमीशानं पुरुषं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ।
क्षमां हित्वा हेतुजालास्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे ।
रुद्रमेकत्वमाहुः शाश्वतं वै पुराणमिषमूर्जेण
पशवोऽनुनामयन्तं मृत्युपाशान् ।
तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति
पशुपाशविमोक्षणम् ।
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां
ध्यायते नित्यं स गच्छेत्ब्रह्मपदम् ।
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा
तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां
ध्यायते नित्यं स गच्छेदैशानं पदम् ।
या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं
विचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायते
नित्यं स गच्छेत्पदमनामयम् ।
तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था
विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः
परमपरं परायणं चेति ।
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् ।
तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् ।
यस्मिन्क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा
हेतुजालस्य मूलम् ।
बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः ।
रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता ।
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्वंह वा इदं भस्म मन एतानि
चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि
संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाश विमोक्षणाय ॥ ५॥
योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा
विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये ।
यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश ।
यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमो नमः ।
यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु । येन
रुद्रेण जगदूर्ध्वन्धारितं पृथिवी द्विधा त्रिधा धर्ता
धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमो नमः ।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् ।
मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः ।
तद्वा अथर्वणः शिरो देवकोशः समुज्झितः ।
तत्प्राणोऽभिरक्षति शिरोऽन्तमथो मनः ।
न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः ।
यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति ।
न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् ।
सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्ति भूतम् ।
अक्षरात्सञ्जायते कालः कालाद्व्यापक उच्यते ।
व्यापको हि भगवान्रुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहार्यते प्रजाः ।
उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते
मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं
भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कारः
ॐकारात्सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति ।
अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्भुवम् ।
एतद्धि परमं तपः ।
आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरो नम इति ॥ ६॥
य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति
अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो
भवति स सूर्यपूतो भवति स सर्वेर्देवैर्ज्ञातो भवति स
सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो
भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः
षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां
रुद्राणां शतसहस्राणि जप्तानि भवन्ति ।
प्रणवानामयुतं जप्तं भवति । स चक्षुषः पङ्क्तिं पुनाति ।
आ सप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः
सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति ।
द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति ।
तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम् ॥ ७॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
॥ इत्य् अथर्वशिरोपनिषत्समाप्ता ॥