०५ रुद्रोपनिषत्

रुद्रोपनिषत्
विश्वमयो ब्राह्मणः शिवं व्रजति । ब्राह्मणः पञ्चाक्षरमनुभवति ।
ब्राह्मणः शिवपूजारतः । शिवभक्तिविहीनश्चेत् स चण्डाल
उपचण्डालः । चतुर्वेदज्ञोऽपि शिवभक्त्यान्तर्भवतीति स एव
ब्राह्मणः । अधमश्चाण्डालोऽपि शिवभक्तोऽपि ब्राह्मणाच्छ्रेष्ठतरः ।
ब्राह्मणस्त्रिपुण्ड्रधृतः । अत एव ब्राह्मणः । शिवभक्तेरेव
ब्राह्मणः । शिवलिङ्गार्चनयुतश्चाण्डालोऽपि स एव ब्राह्मणाधिकोवति ।
अग्निहोत्रभसिताच्छिवभक्तचाण्डालहस्तविभूतिः शुद्धा ।
कपिशा वा श्वेतजापि धूम्रवर्णा वा । विरक्तानां तपस्विनां शुद्धा ।
गृहस्थानां निर्मलविभूतिः । तपस्विभिः सर्वभस्म धार्यम् । यद्वा
शिवभक्तिसम्पुष्टं सदापि तद्भसितं देवताधार्यम् ॥

ॐ अग्निरिति भस्म । वायुरिति भस्म । स्थलमिति भस्म । जलमिति
भस्म । व्योमेति भस्म इत्याद्युपनिषत्कारणात् तत् कार्यम् । अन्यत्र
``विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ।’’
तस्मात्प्राणलिङ्गी शिवः । शिव एव प्राणलिङ्गी । जटाभस्मधारोऽपि
प्राणजलिङ्गी हि श्रेष्ठः । प्राणलिङ्गी शिवरूपः । शिवरूपः
प्राणलिङ्गी । जङ्गमरूपः शिवः । शिव एव जङ्गमरूपः ।
प्राणलिङ्गिनां शुद्धसिद्धिर्न भवति । प्राणलिङ्गिनां जङ्गमपूज्यानां
पूज्यतपस्विनामधिकश्चण्डालोऽपि प्राणलिङ्गी । तस्मात्प्राणलिङ्गी
विशेष इत्याह । य एवं वेद स शिवः । शिव एव रुद्रः प्राणलिङ्गी
नान्यो भवति ॥

ॐ आत्मा परशिवद्वयो गुरुः शिवः । गुरूणां सर्वविश्वमिदं
विश्वमन्त्रेण धार्यम् । दैवाधीनं जगदिदम् । तद्दैवं तन्मन्त्रात्
तनुते । तन्मे दैवं गुरुरिति । गुरूणां सर्वज्ञानिनां गुरुणा
दत्तमेतदन्नं परब्रह्म । ब्रह्म स्वानुभूतिः । गुरुः शिवो देवः ।
गुरुः शिव एव लिङ्गम् । उभयोर्मिश्रप्रकाशत्वात् । प्राणवत्त्वात्
महेश्वरत्वाच्च शिवस्तदैव गुरुः । यत्र गुरुस्तत्र शिवः ।
शिवगुरुस्वरूपो महेश्वरः । भ्रमरकोटकार्येण दीक्षिताः शिवयोगिनः
शिवपूजापथे गुरुपूजाविधौ च मश्वरपूजनान्मुक्ताः । लिङ्गाभिषेकं
निर्माल्यं गुरोरभिषेकतीर्थं महेश्वरपादोदकं जन्ममालिन्यं
क्षालयन्ति । तेषां प्रीतिः शिवप्रीतिः । तेषां तृप्तिः शिवतृप्तिः ।
तैश्च पावनो वासः । तेषां निरसनं शिवनिरसनम् । आनन्दपारायणः ।
तस्माच्छिवं व्रजन्तु । गुरुं व्रजन्तु । इत्येव पावनम् ॥

(शैव-उपनिषदः)

इति रुद्रोपनिषत् समाप्ता ।