०४ मृत्युलाङ्गूलोपनिषत्

मृत्युलाङ्गूलोपनिषत्
अथ मृत्युलाङ्गूलं व्याख्यास्यामः । अस्य मृत्युलाङ्गूलमन्त्रस्य
वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । कालाग्निरुद्रो यमश्च देवता ।
मृत्यूपस्थाने विनियोगः । अथातो योगजिह्वः साधुमतियोजितं स मे
वाह कालं पुरुषमूर्ध्वलिङ्गं विरूपाक्षं विश्वरूपाय नमो नमः ।
पशुपतये नमः । य इदं शृणुयान्नित्यं मृत्युलाङ्गलं त्रिसन्ध्यं
कीर्तयति वा स ब्रह्महत्यां व्यपोहति । सुवर्णस्तेय्यस्तेयी भवति ।
गुरुदाराभिगाम्यगामी भवति । सर्वेभ्यः पातकेभ्य उपपातकेभ्यश्च
सद्यो विमुक्तो भवति । सकृज्जप्तेनानेन गायत्र्याः षष्टिसहस्राणि
फलितानि भवन्ति । अष्टौ ब्राह्मणान् ग्राहयित्वा ब्रह्मलोकमवाप्नोति ।
यः कश्चिन्न ददाति स श्वित्री कुष्ठी कुनखी वा भवेत् । यः
कश्चिद्दीयमानं न गृह्णाति सोऽन्धो बधिरो मूको वा भवति ।
मृत्युमुपस्थितः षण्मासादर्वाक् । बन्धोऽयं नश्यति इत्यनेन
मृत्युलाङ्गूलाख्यस्य च महामन्त्रस्य शतकृत्वो जप्तेन भगवान्
धर्मराट् मम प्रीयताम् ॥

ऋतं नष्टं यदा काले षण्मासेन मरिष्यति ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥

ऊर्ध्वलिङ्गं विरूपाक्षं विश्वरूपं नमाम्यहम् ।
सत्यं तु पञ्चमे मासे परं ब्रह्म चतुर्थके ॥

पुरुषं च तृतीये वा द्वितीये कृष्णपिङ्गलम् ॥

ऊर्ध्वलिङ्गं तु मासेन विरूपाक्षं तदर्धके ।
विश्वरूपं तृतीयेऽह्नि सद्यश्चैव नमो नमः ॥

(शैव-उपनिषदः)

इति मृत्युलाङ्गूलोपनिषत् समाप्ता ।