अथ तृतीये प्रकाशे

१ स्वरूपप्रथनादिना विवक्षिते विभूतिप्रकरणे प्रथमतः
सङ्कल्पन-मननादिधर्मस्याणुसम्बन्धिचित्तस्यात्मतया-
लक्षणम्
२ चित्तस्य रागादिविषयसंश्लेषाद्विक्षिप्ततया अवास्तवज्ञानस्य
बन्धकत्वनिरूपणम्
३ तत्त्वानां याथात्म्यबोधाभावरूपाया मायायाः
स्वरूपकथनम्
४ तत्त्वसङ्घातोपादानकदेहस्यांशानां स्वकारणे
लयभावनादार्ढ्यात् स्वात्मस्वरूपावाप्त्या
आणवोपायफल-परबोधात्मदेहाधिगमनिरूपणम्
५ पृथिव्यादिभूतमयदेहस्याप्यस्य
तत्तद्भूतधारणाभ्यासपाटवात्तत्तद्भूत-भौतिकस्थिति-
सञ्चार-निर्माण-संयोजन-वियोजनादौ
स्वातन्त्र्यनिरूपणम्
६ प्रोक्ततत्त्वधारणादिपाटवात् योगिनो मोहकर्तृकावरणेन
तत्तत्तत्त्वभोगसिद्ध्यभिलषणस्य, तदन्यथात्वे
प्राच्यशुद्धावस्थाविमर्शनेन सर्वज्ञ्यादिसिद्ध्यभ्युप-
गमस्य च निरूपणम्
७ अनन्ततया विस्तृताख्यात्यात्ममोहप्रशमनात्सुप्रबुद्धस्य
स्वप्रकाशात्मशुद्धविद्योदयनिरूपणम्
८ इत्थमधिगतसहजविद्यतया विश्वं स्वदीधितिकल्पं
समीक्षमाणस्य नित्यप्रबुद्धावस्थया परिनिष्ठाकथनम्
९ विश्वस्मिन् यावत्तत्तद्भावरसावेशाद्यथेष्टतया
चेष्टमानस्य आत्मनो जगन्नाट्यलीलाभिभावकत्व-
निरूपणम्
१० प्रोक्तगुणकात्मकर्तृकप्रवृत्तिस्थित्यादिजगन्नाट्यलीलाधार-
तया पुर्यष्टकस्य रङ्गत्वाभिधानम्
११ अस्यैव सुप्रबुद्धतया वशवर्तिनामिन्द्रियाणां
जगन्नाट्यलीलाप्रेक्षकत्वेन समभिव्याहरणम्
१२ शुद्धचिद्रूपाध्यवसायिबुद्धिसद्भावात्सर्वोत्कृष्टतानु-
शासनम्
१३ उक्तगुणस्यात्मनः स्वातन्त्र्यसिद्धिसम्पन्नत्वनिरूपणम्
१४ अधिष्ठीयमानदेहवत् अन्वाश्रितपरकीयदेहादावपि
सार्वज्ञ्य-स्वातन्त्र्यादिगुणाविर्भावनिरूपणम् [२-१ ४] १५
परकायप्रवेशादिस्वतन्त्रस्यास्य स्वधाम्नो
विभ्रंशानवाप्त्यादिनिरूपणम्
१६ विश्वकारणशाक्तपदे निरन्तराभ्यासेन विदात्मविमर्शन-
समाहितत्वस्यैव स्वधामाप्रच्युतिनिमित्ततयादेशनम्
१७ शाक्तपदसमावेशाधिगमात्परस्वरूपसुगमतानि-
दर्शनम्
१८ उक्तावधान-प्रवेशात्मोपायद्वयपरिशीलनात्स्वातन्त्र्य-
धामविक्रान्तत्वद्योतकस्यापूर्ववस्तुसम्पादनसामर्थ्य-
वत्त्वस्य निरूपणम्
१९ उक्तोपायपरिशीलनाच्छुद्धविद्योदयस्यापुनर्जन्मात्म-
फलानुशासनम्
२० प्राप्तसिद्धिकस्याप्यणोरवधानस्खलनात् शब्दानुवेधनतो
घोरादिसञ्ज्ञकमाहेश्वर्यादिमातृका शक्तीनां
मोहकत्वनिरूपणम्
२१ उक्तमातृभेदेषु चिद्रसाश्यानभावेन
शुद्धशिवतत्त्वानुसन्धानदार्ढ्यान्नित्यसमाहिततापरि-
शीलननिरूपणम्
२२ वर्णानुप्रवेशजन्यशुद्धशिवतत्त्वानुसन्धानदार्ढ्या-
धिगमोपायनिरूपणम्
२३ वर्णानामाद्यन्तकोट्यवस्थाविमर्शपरिहानात् मध्यकोटि-
विश्रमे विचित्रविकल्पनाद्यापातात् मोहाधिगमनिरूपणम्
२४ परनादात्मप्रकाशसमापत्तौ परातो वैखर्यन्तं
प्रसरत्पदमन्त्रादीनामभेदानुभवदार्ढ्यादनुत्तर-
सामर्थ्याधिगमनिरूपणम् ।
२५ मायादितत्त्वग्रामानुसन्धानात्तत्तद्भूमिसमावेश-
बलाधिगमेन नष्टभावशरीरानुप्राणनात्मसर्वज्ञत्व-
सर्वकर्तृत्वादिपरमैश्वर्यलाभनिरूपणम्
२६ इत्थं शिवस्वरूपपरिशीलनातिशयाच्छरीरादिसद्भावेपि
शिवसारूप्यनिरूपणम्
२७ एवं ध्रुवसमाधानवतः शरीरव्यापारस्यापि
व्रततयातिदेशनम्
२८ तथैवं पराहम्भावभावनापदारूढसम्बन्धि-
सामान्यसम्भाषणस्यापि जपतया निरूपणम्
२९ अस्यैव पशुषु आत्मस्वरूपज्ञप्तिप्रकाशनस्य दानतया
अतिदेशनम्
३० उक्तसंसिद्धियोगिनो
विश्वोल्लासनादिसामर्थ्यवैश्वरूप्यभोगान्मोक्षप्रदत्वा-
दिनिरूपणम् ।
३१ शिवतुल्यतापत्तेर्निजानुत्तरशक्तिमयविश्वात्मना
स्फुरत्तानिरूपणम्
३२ विश्वात्मत्वाधिगमात् क्रियाशक्त्युन्मीलितविश्वस्य स्वेच्छया
स्थिति-लयकर्तृत्वनिरूपणम्
३३ सृष्टिस्थितिध्वंसकालेपि अविलुप्तस्वस्वरूपत्वादेशनम्
३४ स्वविमर्शाप्रच्युत्या आध्यात्मिकादिनानाविधसुखदुःखा-
विर्भावेऽपि तदस्पर्शनिरूपणम् ।
३५ सुखाद्यसंस्पृष्टस्याविलुप्तस्वात्मविभवतया
केवलचिन्मात्रविश्रान्तत्वकथनम्
३६ शरीराद्यहं भावविजृम्भणे सुखादिमोहाभिघातात्
कर्मात्मसंसारिपशुत्वनिरूपणम्
३७ स्वव्यतिरिक्तं किञ्चनाप्यपर्यालोचयतः
स्वस्वरूपप्रत्यापत्त्या नवनवोल्लेखसन्निवेशचित्रितापूर्व-
सर्गकर्तृत्वसामर्थ्यावाअप्तिनिरूपणम्
३८ विचित्रभावोल्लासनात्मसर्गान्तरोत्पादनसामर्थ्ये
स्वानुभवस्यैव हेतूपदेशनम्
३९ जागराद्यवस्थामुख्यभूततुर्यावस्थाया भावानां
स्वबलार्पणे निदानादेशनम्
४० चित्तस्य स्वरूपादप्रच्युतेः करणग्रामेपि स्वरूपप्रथया
चिदात्मताभिव्यञ्जनकथनम्
४१ अधरावस्थायां दर्शनश्रवणादिप्रवृत्तीच्छोरात्मनो
बुद्धिकर्मेन्द्रियेषु चिद्वलाधानेच्छात्माभिलाषेण
सम्बाह्याकरणचक्रस्य प्रेरणात् शब्दस्पर्शादिविषयेषु
प्रवर्तननिरूपणम्
४२ स्वबलोद्योगाधिष्ठानात् रूढविज्ञानस्य पाशवाभिलाष-
हानात् सम्बाह्यात्मपुर्यष्टकप्रशमसम्भवादेशनम्
४३ अभिलाषात्ममलप्रक्षये सर्वज्ञत्वसर्वकर्तृत्वादिभूम्या-
रूढस्य भौतिकदेहसम्बन्धसत्तया
शिवतुल्यताप्रशंसनम्
४४ स्वप्रकाशसंविन्निष्ठत्वात् पुर्यष्टकाभिमानप्रशमेपि
यावत्कर्मोपभोगं प्राकृतिकतया प्राणतत्सम्बद्धभूत-
कञ्चुकावस्थितेर्निरूपणम्
४५ शिवतुल्यतावाप्तौ अनुत्तरस्वात्मसिद्ध्यभ्यसनार्थं
प्राणात्मानाहतशब्दब्रह्मोपासनानिर्देशः
४६ मायाशक्तिवशादभेदखण्डनामुपपन्नस्य विभोः
प्रोक्तोपदेशमार्गेण कालुष्यप्रक्षयात्स्वात्मावबोधाधि-
गमे पूर्णघनानन्दशिवताभ्युपगमानुशासनम्

इति तृतीयः प्रकाशः ॥ ३ ॥

समाप्तश्च शिवसूत्रवार्तिकसूत्राणां विषयार्थ
सङ्ग्रहः ॥