अथ द्वितीये प्रकाशे
१ सर्वज्ञतादिगुणशिवात्मचित्तस्यैव मन्त्रत्वेनाभिधानम्
२ चित्तात्ममन्त्रसमावेशे उपायकथनम्
३ स्वप्रकाशविकासात्मविद्याया मन्त्ररहस्यत्वनिरूपणम्
४ मनसः प्राकृतगुणलोपे अनुत्तरपदारूढ्युपायस्य
तदन्यथात्वे अशुद्धविद्योद्गमाद्विचित्रभ्रान्तिसम्भव-
निरूपणम्
५ स्वालोकात्मशुद्धविद्योदयात् स्वात्मचिदाकाशसञ्चारित्वा-
वाप्तिनिरूपणम्
६ प्रोक्तमान्त्रादिवीर्यादौ सद्गुर्वाप्त्यादिशक्तिपाताधिगमात्-
मोपायप्रदर्शनम्
७ सद्गुर्वाश्रयणादिशक्तिपातात्सन्मार्गाभिज्ञानात्मफ-
लानुशासनम्
८ इत्थं मान्त्रतादात्म्यलक्षणे प्रज्वलज्ज्ञानाग्नौ
पुनर्भवहेतुककार्ममलोपादानकशरीरस्यापुनर्भवाय
हविष्ट्वकथनम्
९ लब्धस्वात्मवैभवस्य योगिनः परतृप्त्युपपादक-
ज्ञानस्यैव भोज्यद्रव्यतयातिदेशनम्
१० अविशिष्टविद्यासंहारे
तत्पूर्वावस्थाश्रयविकल्पोत्थभावानां स्वप्रकाशोदय-
सत्तया स्वप्नवत्प्रत्यवेक्षणात् स्वालोककलनात्मनित्यतृप्त-
तादेशनम्
इति द्वितीयः प्रकाशः