तत्रादौ प्रथमप्रकाशे

१ ज्ञानक्रियात्मकत्वेन आत्मनः स्वरूपप्रतिज्ञानम्
२ अहन्ता-ममतात्मद्वैतप्रथाहेतुकस्यात्मस्वरूपावरणस्य
लक्षणम्
३ अणोर्ज्ञानलोपकर्त्रीणां शक्तीनां निरूपणम्
४ द्वैतप्रथा-तत्कर्तृशक्तिसंश्रयादेर्निरूपणम्
५ स्वरूपावरणकृत्प्रोक्तज्ञानाभासनिवृत्त्यै
स्वरूपविज्ञानाय च हेतोरनुशासनम्
६ स्वरूपपरिज्ञाने बाह्यान्तरतोऽपि अद्वैतज्ञप्त्यपरिहानि-
निरूपणम्
७ जाग्रदाद्यवस्थासु तुल्यतया स्वरूपोपलब्धिदार्ढ्य-
कथनम्
८ सर्वभावेषु चिदात्मन एव ग्रहीतृ-ग्रहण-ग्राह्य-तया
स्फुरणात्मज्ञानशक्तिरूपाया जागरावस्थाया लक्षणम्
९ पशोरावरकनानाविधभावोल्लेखनात्मविकल्परूपस्वप्ना-
वस्थाया लक्षणम्
१० ज्ञान-ज्ञेयस्वरूपशक्त्यनभिव्यक्तेः स्वरूपापोहक-
मायाशक्त्युद्भावितसुषुप्तावस्थालक्षणम्
११ स्वस्वरूपाभिनिविष्टस्य प्रोक्तावस्थात्रये समकक्ष्यतया
सत्त्वादिगुणचमत्कर्तृत्वाद्वीरेश्वरत्वाभिधानम्
१२ विश्वात्मना स्फुरच्चिदात्मसमीक्षापरिनिष्ठस्यानुत्तर-
भूमिकाधिरोहात्मसिद्ध्यभिव्यक्तिकथनम्
१३ इत्थं परभूमिकाधिरूढस्य निरावरणचिद्रूप-
समावेशादखण्डितस्वातन्त्र्यावाप्तिनिरूपणम्
१४ अस्यैव (योगिनः) विश्वस्मिंस्तादात्म्यसम्पत्त्या
अन्तर्बहिर्व्यापित्वकथनम्
१५ विषयविषय्याद्याधारभूते हृदि समस्तवासनाविलयनात्-
सर्वभावानां याथात्म्यावबोधनिरूपणम्
१६ प्रोक्तशिवचैतन्यलाभायोपायकथनम्
१७ शक्तिचैतन्यलाभायोपायकथनम्
१८ आत्मचैतन्याधिगमनिरूपणम्
१९ बाह्यान्तरतः स्वप्रकाशस्फुरणात्मानन्दातिशयोद्भाव-
कसमाधिसुखस्य निरूपणम्
२० अस्यैतादृशः सिद्धयोगिनो निरावरणचिद्रूपसमावेशाद्य-
थेष्टशरीराद्युद्भावनेऽखण्डितस्वातन्त्र्यनिरूपणम्
२१ अस्यैव स्वातन्त्र्यसम्पत्त्या यथेष्टक्रीडन-रचनादिवैभव-
सिद्ध्यभिधानम्
२२ मितसिद्ध्युपेक्षणोत्तरं स्वात्मसाम्राज्यावाप्तिनिरूपणम्
२३ समस्तभावोद्भवहेतुशक्तिमच्छक्त्यात्मचित्स्वरूप-
परामर्शपरिशीलनात् महावीर्यवत्त्वनिरूपणम्

इति प्रथमः प्रकाशः ॥ १ ॥