अथ
विभूतिस्पन्दाख्यः
तृतीयः प्रकाशः
————— पगे ४१ ——————-
स्वरूपप्रत्यभिज्ञानान्मान्त्राच्च सहजोदयात् ।
विभूतयः प्रवर्तन्ते कीर्त्यन्ते ताश्च साम्प्रतम् ॥
पूर्वापरविमर्शेन यो बोधोऽस्य (ऽयो बोधोऽस्यऽ इत्यत आरभ्य
ऽसमाचष्ट तदर्थकम्ऽ इत्यन्तं पादोनपद्यद्वयमितरेष्वादर्श-
मूलपुस्तकेष्वविद्यमानम्; ग। पुस्तकात्सगृह्य प्रत्युपन्यस्तम् ।)
विजृम्भते ।
तद्विकासादविच्छिन्नपरानन्दः स्वयं भवेत् ॥
येनाखण्डितस्वातन्त्र्यशक्तिः स्वाभाविकी स्फुटा ।
विभूतिः प्रथते, खण्डं समाचष्ट तदर्थकम् ॥
तत्र चित्तात्मनः पूर्वं प्रत्यवेक्षार्थमावदत् ।
आत्मा चित्तम् ॥ ३-१ ॥
————— पगे ४२ ——————-
मनःपर्यायमाख्यातं [मनसो बहिर्मुखतायां
परामर्शनं सङ्कल्पः, अन्तर्मुखतायां तु स्वात्ममननात्मको
मन्त्रः । आन्तर्मुख्ये विक्षेपाभावात् सङ्कुचितां चित्ततां
परित्यज्य सहजं स्वं चिदात्मस्वभावत्त्व-मादीयते । तत्र
नैविड्येन अभ्यासदशायामिन्द्रियवृत्त्यधीनता-विरहात्
अव्यवहितज्ञानक्रियः तद्बलाक्रमणात् यथास्वेच्छं शिववत्
क्षितिवार्यनलाद्यनपेक्षं सङ्कल्पितं वस्तु बहिः सर्वजनदृश्यं
स्रष्टुं शक्नोति । अयुक्तस्य सङ्कल्पादयोऽनन्य-दृश्या
अबहिःप्रकाश्याः, युक्तस्य तु मन्त्रादयोऽपि
शैवासाधारणगुणित्वात् यत् किञ्चित् सुदुष्करमपि अर्थजातं
प्रकाशयितं प्रभविष्णव इत्याशयः ।] चित्तं सर्वत्र शासने ।
इन्द्रियत्वात्स सङ्कल्पः स्यात्तु मन्त्रस्तदुच्यते ॥
आत्मैव चित्तं विज्ञेयं वागादिरहितं यदा ।
तदा मन्त्रः स विज्ञेयः सङ्कल्पानुविधायकः ॥
नैव सङ्कल्पसिद्धिः (क्, ख्: तेन सङ्कल्पसिद्धि)
स्यात्तत्स्वरूपनिभालनात् ॥ ३-१ ॥
कुतश्चित्तस्य सङ्कल्प सिद्धिर्नास्ति तदाह च ॥
ज्ञानं वन्धः ॥ ३-२ ॥
————— पगे ४३ ——————-
ज्ञानं [रागादिना विषयेषु व्यासङ्गात्
अविगलितरजस्तमोमलं विक्षिप्तं चेतः
प्राच्यवास्तवस्वरूपाक्रमणत्मस्वबलालाभे
प्रकाशवरणक्षित्यभावात् जनसाधारणान् सङ्कल्पान् निर्मातुं
न प्रभव्ति, अतो विषयासक्तिरेव
यथेच्छनिर्माणप्रतिबन्धमूलमित्यर्थः ।]
विषयसंश्लेषाद्रागादिज्ञप्तिलक्षणम् ।
तदेव बन्धश्चित्तस्य स्वरूपावरणात्मकम् ॥
अन्तर्बहिश्च (अन्तर्बहिरित्यादि पद्यार्धम् इतरमूलादर्शपुस्तके-
ष्वविद्यमानं ऽगऽ पुस्तकाधारेणोपन्यस्तम् ।)
विषयानासक्त्याभ्यासपाटवात् ।
यदा मन्तव्यता (क्: तदा मन्तव्य) तस्य तद्द्रष्टा मुक्त एव हि ॥ ३-२ ॥
इत्थं नित्यस्य च द्रष्टुः किमावरणमुच्यते ॥
कलादीनां तत्त्वानामविवेको माया ॥ ३-३ ॥
कलादिक्षितिपर्यन्तस्तत्त्वग्रामोऽस्य सोच्यते ।
ततमेतैर्जगत्सर्वमतस्तत्त्वानि तत्र च ॥
कला कतृत्वसामर्थ्यं किञ्चिन्मात्रं प्रकीर्तितम् ।
————— पगे ४४ ——————-
तादृशं ज्ञानसामर्थ्यं विद्यातत्त्वमिति स्मृतम् ॥
इदमेवेष्टमस्तीत्थं रागः पाशोऽस्ति बन्धनम् ।
इदानीन्तनभावेऽस्मिन् कालोऽप्याकलनं मतम् (कालोऽप्याकलनं
मतम् इत्यतोऽनन्तरम् ऽअल्पेषु भावजातेषु विद्या ज्ञानसमर्थता ।
कालोऽधुनादिताबुद्धिप्रवृत्तिः कलनात्मिका ॥ऽ इति पद्य ख। पुस्तके
समुपलक्ष्यमाण पक्षिप्तमधिकं प्रतिभाति ।) ॥
नियतत्वं कर्मफले नियत्यात्मकतात्मनः ।
समदुःखसुखज्ञत्वमन्तस्तत्त्वे प्रधानता ॥
सुखदुःखविमोहित्वं गुणाः स्युर्मन्तृता (क्: स्युः स्मर्तृता) च
धीः ।
संरम्भत्वमहङ्कारो मनश्चाक्षप्रयोक्तृता ॥
अक्षैर्विशेषितं ज्ञत्वं बुद्धीन्द्रियगणः स्मृतः ।
तैरेव भिन्नं कर्तृत्वं कर्मेन्द्रियगणस्त्वयम् ॥
शव्दमात्रावभासित्वं तन्मात्रकगणस्तथा ।
भिन्नशव्दादितोद्वृत्तं (क्: शव्दादिनोद्वृत्तम्) गणः
स्यात्पाञ्चभौतिकः ॥
————— पगे ४५ ——————-
एतेषामविवेको यः सा माया [माययैव कलादिभिः तत्त्वजालै
रचितकञ्चुक-पुर्यष्टक-भौतिक-शरीरेषु
परिमितप्रमातृभावाभिमानं ग्राहितानामणूनां
सदोदितस्वप्रकाशद्रष्ट्टस्वरूपं समाव्रियते ।
विवेकाभ्यासालम्बिनां तु मायापदो परिगतानां
शुद्धविद्यासंश्रयित्वात् अनावृतस्वात्मप्रत्यवभासः । तदनु
बन्धनिवृत्त्या प्रागुक्तमन्त्राद्यधिकारः ।] मोहनी यतः ।
विवेकः पुनरत्रैव शुद्धविद्यादिसंश्रितः ॥
अतः शुद्धानि तत्त्वानि प्रोच्यन्ते तत्त्ववेदिभिः (क्: प्रोच्यन्तेऽतो विवेकत
इति; ख्: प्रोच्यन्ते साञ्जनादणु) ।
स्वज्योतिष्ट्वं शिवं तत्त्वं दृक्क्रिये शक्तिरुच्यते ॥
सर्वाज्ञानक्रियावत्त्वयोग्यता (क्: क्रियावर्ते योग्यता)
स्यात्सदाशिवः ।
प्रेर्यत्वमैश्वरं तत्त्वं तद्द्वारा प्रेषणा (ख्: तद्वारप्रेरणम्)
यतः ॥
शिवशास्त्रादिवोद्धृत्वं विद्या शुद्धेह कीर्तिता ।
इत्थमात्मन्यवस्ताभिरेताभिस्तत्त्वकल्पना ॥
तत्त्वानां तदवस्थात्वमुच्यमानं न दुष्यति ।
————— पगे ४६ ——————-
सर्वानुस्यूतरूपत्त्वाद्विमर्शः परमस्त्वतः ॥ ३-३ ॥
इत्थं तत्त्वात्मककलारूपं प्रसरमात्मनः ।
निरूप्य पुनरप्याह तत्सङ्कोचाद्यथोदयः ॥
श्रीरे संहारः कलानाम् ॥ ३-४ ॥
तत्त्वानां यत्स्वसामर्थ्यं कलास्ताः परिकीर्तिताः ।
तत्सङ्घातः [तत्त्वसङ्घातात्मके शरीरे तत्त्वावयवानां
प्रातिलोम्येन स्वस्वकारणनुप्रवेशलयभावनया तदावसानिके
सर्वाधिष्ठानचिन्मये स्वात्मनि समापत्त्या परबोधदेहोदयः ।
यद्वा हठात्सर्ववृत्त्युपसंहारात्मना उल्लङ्घनवृत्त्या
विकल्पहानैकाग्रयवृत्तिसम्पत्तिपुरस्सरम् अविकल्पसंविदात्मै-
श्वर्यपदावाप्तिः । इत्थं प्रमातृत्वेन अभिमतस्य कलाप्रसरस्य
स्वरूपावरणानैश्वर्यनिदानस्य उपसंहरणेन सिद्ध्यङ्कुरः
पल्लवितः प्रस्फुरेदित्यर्थः ।] शरीरं स्यात्सकलत्वमतोऽस्य तत् ॥
आधार आत्मनस्तत्र कलानां करणात्मनि ।
स्वके स्वकेऽनुप्रवेशः संहारः परिकीर्तितः ॥
एवं यावद्वोधदेहप्राप्तिस्तत्रोदयः परः ।
————— पगे ४७ ——————-
अथोल्लङ्घनवृत्त्या वा शिवतत्त्वावलम्बनम् ॥
तत्स संहार एव स्यात्कलानां तेन चोदयः ॥ ३-४ ॥
तत्त्वप्रसरसङ्कोचस्वरूपेऽपीत्थमात्मनि ॥
वृत्त्युल्लङ्घनयोगेन स्वस्वरूपोदयं शिवः ।
प्रतिपाद्य पुनः प्राह भूतसिद्ध्युदयः कथम् ॥
नाडीसंहार-भूतजय-भूतकैवल्य-भूत-
पृथक्त्वानि ॥ ३-५ ॥
चिदाधारे [अन्तर्बहिर्वा द्वादशान्ते प्राणापानोपसंहारात्
इडादिनाड्युप-शमनेन सिद्धीच्छोः
तन्त्रोक्तप्रक्रियोपवर्णितकन्दाद्यधिष्ठाने
त्रयस्रवर्तुलादिसंस्थानां स्वस्वबीजाक्षरचिह्नितां
पृथिव्यादिधारणां धारयतो नियतकालांशाभ्यासेन भूतानि
वशीभवन्ति, येन पाञ्चभौतिकेषु गमागमविहरणादि अस्य न
प्रतिहन्यते । तथा आचरतोऽपि अस्य तदैश्वर्यानासक्त्या
भूतानुपरक्तस्वच्छचिदानन्दघनस्वात्मसंस्थितिसिद्धिरपि
अप्रयाससिद्धा भवति । तथा तत्त्वसङ्घटितं वस्तु तदिच्छया
वियुज्यते संयुज्यते च । एवं स्वात्मविवर्तनात्मभावजातानां
विविधामवस्थां विकृतां च अन्यथा च कर्तुमसौ
प्रभुशक्तिप्रतिहतस्वातन्त्र्या इत्यर्थः ।] शरीरेऽस्मिन्संस्थिते
पाञ्चभौतिके ।
स्वातन्त्र्यादात्मनः स्वाम्यं गृहे गृहपतेर्यथा ।
————— पगे ४८ ——————-
तत्र चिदाकाशलयान्नाडीसंहार इष्यते ।
यतः सर्वत्र सर्वासां नाडीनां मुखमुच्यते ॥
नाड्याधारा वायवः स्युस्तदाधारश्च चिद्विभुः ।
तस्य वृत्तिलयान्मध्ये षड्गुणा वृत्तिरुत्तमा ॥
स्थिरद्रवोष्णचलता सौषिर्यविपरीतता ।
तत्त्वस्वरूपमथवा स्थानलक्ष्यप्रभेदतः ॥
विभावयन्भूतजयः स्यात्प्रबुद्धस्य च प्रभोः ।
तन्निरासत एवास्य कैवल्यमनुपाधिकम् ॥
षट्त्रिंशत्तत्त्वसामर्थ्ययुक्तं भूतं पृथक् पृथक् ।
करोत्यात्मबलस्पर्शात्स्वविवर्तविवर्तनात् ॥
सङ्घातस्थमथात्मस्थं विकरोत्यथवा विभुः ।
प्रभुशक्तिरतः सेयं सर्वत्राखण्डितात्मनः ॥ ३-५ ॥
तथाप्यस्यात्मनो मोहे वहुशाखे विसर्पति ।
स्वरूपसिद्धिरस्य स्यान्न स्याद्वा प्राह शङ्करः ।
मोहावरणात्सिद्धिः [पारमार्थिकविचारात् अधरभूमिस्थं
सिद्ध्याद्याविर्भवनं भेदप्रथास्पदं मायाकोटिपतितमेव,
तद्धि योगिजनस्य स्वरूपाच्छादकम् अतः तदुपलब्धये
तदवस्थायां प्रहर्षकामादिवृत्त्युद्गमस्य
स्वरूपतिरोधायितायां सत्यां तेषां प्राच्यकोटौ चरमकोटौ वा
चेतःसमाधानेन सर्वज्ञत्वादिलक्षणा परसिद्धिर्भवेदित्यर्थः ।]
॥ ३-६ ॥
————— पगे ४९ ——————-
कामक्रोधलोभहर्षभयत्रासमदोद्गमे ।
प्रहर्षेऽपि च सर्वत्र मोह एव विजृम्भते ॥
तदेवावरणं ज्ञेयं स्वरूपाच्छादकत्वतः (क्:
स्वरूपाच्छादकं ह्यत) ।
हेतुभूतात्ततस्तस्मात्प्राक्कोटिप्रविमर्शतः ॥
सिद्धिः स्यादात्मनः सर्वज्ञत्वकर्तृत्वलक्षणा ॥ ३-६ ॥
सति मोहे सिद्धिरेवं तज्जयात्स्यात्किमाह तत् ।
मोहजयादनन्ताभोगात्सहजविद्याजयः [अपरिच्छिन्नपरिपूर्णात्
बहुशाखभेदप्रशमनाख्यमोहजयात् सुप्रबुद्धस्य
पूर्णाहंविमर्शसंविदाख्याकृत्रिमविद्योदयो भवति । यद्वा
मोहजयात् हेतोः अनन्तभट्टारकाख्यरुद्रप्रमात्रधिष्ठितं
शुद्धविद्यापदमध्यास्य सहजालोकसम्पत्प्राप्तिः,
शुद्धविद्यापदे हि अनन्तनाम्ना रुद्रप्रमात्रा समन्ततः
साम्राज्यं भुज्यते इति अत्र ल्यब्लोपे अपादानकारकम् इति ।] ॥ ३-७ ॥
————— पगे ५० ——————-
बहुशाखो मोह उक्तस्तज्जयः सुप्रबुद्धता ।
नित्यं स्वालोकवशतस्त्वसङ्कुचितचिद्गतेः ॥
तस्मादनन्ताभोगाख्यात्स्वप्रकाशोदयः स्फुटम् ।
जयस्यानन्तता यस्माद्वहुशाखो विजृम्भते ॥
स एवाभोग इत्युक्तः परिपूर्णस्वरूपतः ।
स्वप्रकाशात्मिका विद्या सहजा प्रागुदीरिता ॥
उद्भवः प्रोद्गमस्तस्यास्तेनात्मालोक (क्: उदयः प्रोद्गमात्तस्य)
उत्तमः ॥ ३-७ ॥
एवंसिद्धिः प्रबुद्धः संस्तिष्ठेन्नित्यमतन्द्रितः ।
एकत्रारोपयन्सर्वं तदर्थं प्रोक्तवानजः ॥
जाग्रद्द्वितीयकरः ॥ ३-८ ॥
ज्ञानं जाग्रदिति प्रोक्तं तेनालोच्य स्वगोचरम् ।
आदद्यादेकतः सर्वं ततो मोहबहिष्कृतम् ॥
प्रबुद्धः सर्वदा तिष्ठेद्योगिराड् भेदवर्जितः ।
करवत्कर एवातो जाग्रदादानगौरवात् ॥
————— पगे ५१ ——————-
अत एव द्वितीयत्वं विचित्रत्वादुदीरितम् [ज्ञानं जाग्रत् इति
प्रागुक्तसूत्रनीत्या जाग्रदत्र ज्ञानशक्तिः । पूर्वं तु
अनुवाद्यविधेयभावेन इदं व्याख्याय अधुना
विधेयानुवाद्यत्वेन व्याख्यायते सूत्राणां विश्वतोमुखत्वात् ।
आदानक्रियासादृक्ष्येण ज्ञानशक्तिरूपे करे रूपालोकमनस्-
कारैः भासितं विश्वं यत्किञ्चित् परप्रकाशात्
भेदाभेदविकल्पोपहतन्यायेन अभिन्नं पर्यालोच्य समादीयते
इत्येवं प्रबुद्धः एकस्मिन् संवेदने बहिरन्तः स्वात्ममयं
विश्वं विश्रान्तं सञ्जानानो मोक्षलक्ष्मीभाजनं
जीवन्मुक्तिव्यवहृतिमाचरन् स्वात्मन्येव विहरेदित्यर्थः ।] ॥ ३-८ ॥
इत्थं नित्यप्रबुद्धस्य मोहलक्ष्मीश्चिरोषिता ।
शरीरमाश्रयत्येव जीवन्मुक्तस्य सर्वदा ॥
अतः परानन्दरसक्षीव आत्मा सदा कथम् ।
चेष्टते सूत्रमाचष्टे तदर्थं चन्द्रशेखरः ॥
नर्तक आत्मा ॥ ३-९ ॥
रसभावनयाभिज्ञो (क्: रसभावनवाभिज्ञ; ख्: भावनया वेद्य)
वागङ्गाहार्यसत्त्वयुक् ।
यद्वत्प्रौढनटः सम्यगनुगन्ता प्रकीर्तितः ॥
————— पगे ५२ ——————-
तद्वदात्मा स्वरूपेण स्फुरन्स्फुरति सर्वतः ।
तत्तद्भावरसावेशात् तत्तच्चेष्टाविलासवान् ।
स नर्तकः स्मृतो यस्मात् सर्वावस्थावलम्बकः [इत्थं विहृतौ अयं
परानन्दरसेन घूर्णन् प्रौढनट इव रसभावतदा-
भासाद्यभिज्ञः मितमातृतात्मपात्रतामुपगत्य
अनुकार्यरसभावादीन् आङ्गिकाभिनयादिभिः स्वात्मानमवि-
स्मृत्यैव व्यञ्जयन् सर्वावस्थानुकारी विभावादिभिः
आस्वादिपदवीमुपनीतः इष्टानिष्टप्राप्तिपरिहारेच्छामन्तरेण
इन्द्रियपरिस्पन्दानुपूर्व्या जगन्नाट्यमभिनयन् सर्वत्र
स्वात्मभानेन अविलुप्तदृक्शक्तिसन्तोषितमना विलसतीत्यर्थः ।] ॥ ३-९ ॥
नृत्यतोऽस्यात्मनः सम्यगाधारार्थमतोऽवदत् ॥
रङ्गोऽन्तरात्मा ॥ ३-१० ॥
बहिरुन्मेषभाग्योऽयमात्मा (क्: बहिरुन्मेषभोग्यस्तु आत्मा)
नर्तक उच्यते ।
तस्यैवान्तर्निमेषो यः सोऽन्तरात्मा प्रकीर्तितः ॥
स एव रङ्ग आख्यातः पुर्यष्टकसमाश्रयात्
[विविधविततनाट्यक्रीडाप्रदर्शनाशयेन यत्र रज्यते स रङ्गः
तत्तद्विचित्रभूमिकाग्रहणस्थानं पुर्यष्टकरूपान्तरात्मा ।
तदाश्रयणेनैव नरतिर्यगादिदेहभूमिकासु रचितास्पदः
करणप्रवृत्त्या सृष्टयादिपञ्चकृत्यकृत् चिदात्मा परिनृत्यति ।] ।
————— पगे ५३ ——————-
प्रवृत्तिस्थितिसंहारैर्नृत्यतीवात्र चिद्विभुः ।
एवं सतीन्द्रियगणस्तस्यानाच्छादको भवेत् ॥
तदर्थं पुनराप्याह सूत्रं कान्तार्धदेहभृत् ।
प्रेक्षकाणीन्द्रियाणि ॥ ३-११ ॥
सुप्रबुद्धः स्वतन्त्रश्च चिदात्मैव यतः परः ।
तत्सामर्थ्याद् इन्द्रियाणि चेष्टन्ते स्वासु वृत्तिषु (क्: चेष्टन्ते
स्वस्ववृत्तिषु) ॥
प्रेषकाणीव तान्यत्र चिद्विभोः परिनृत्यतः ।
स्वरूपावरणे चास्य तानि न प्रभवन्ति हि [स्वतन्त्रश्चिदात्मैव
करणद्यवभासयिता, तद्भासैव सर्वस्य प्रकाशमानत्वात् तमेव
भान्तमनुपजीव्य विश्वमिदं सर्वं जडान्धमूकप्रायं
भवेदिति, अतः तदनुप्राणितानि करणानि
त्रैलोक्यनाटकप्रकटनाह्लादातिशयनिर्भरं
गलिताहमिदन्तात्मविभागं स्वरूपं साक्षात्कृत्य
सहृदयप्रेक्षकजनवत् प्रत्यगात्मदृशे योगिने
परामृतमयरसचमत्करणमर्पयन्ति, येन नास्य पशुजनस्येव
खेचर्यादिभिः आच्छाद्यमानाभेदप्रथामृतरसं करणचक्रं
दुःखमयविश्वसरणौ परिवर्त्यते । अतः परिनृत्यतः चिदात्मनः
स्वरूपं न तिरोधीयते इत्यर्थः ।] ॥ ३-११ ॥
————— पगे ५४ ——————-
तदेवं सति यद्बुद्धिवशात्सर्वोत्कटः पुमान् ।
प्रभवत्येव भगवांस्तदर्थं सूत्रमुक्तवान् ॥
धीवशात्सत्त्वसिद्धिः (क्: सत्त्वशुद्धिः; ख्:
सत्त्वभित्ति) ॥ ३-१२ ॥
शब्दादिविषया [सततप्रसरत्स्वभावेषु करणेषु सत्सु
वृत्तिप्रतिफलितान् शव्दादीन् विषयान् आगमोक्तयुक्त्यादिभिः
चिन्मयस्वभावाव्यतिरिक्तान् अध्यवस्यन्ती बुद्धिः
अनुशयान्तरप्रक्षयात् रजस्तमोवृत्त्यमलिनता स्वज्योतिर्मयं
विश्वत्र परप्रकाशं समवेक्षमाणा स्फुरत्तात्मसत्त्व-
प्रकाशास्पदं योगिनं निष्पादयति इत्यर्थः ।]
वृत्तिश्चिद्रूपाभिनिवेशिनी ।
यदा भवेत्तदा बुद्धिस्तत्रैवाध्यवसायिनी ॥
पूर्वं भवत्यतः शुद्धा सैव धीशक्तिरुच्यते ।
त्यक्ताशयत्वात्सत्त्वस्य भित्तिः सोऽवधिरुच्यते ॥
तद्वशात्सत्त्वसिद्धिः (क्: सत्त्वभित्तिः, सत्त्वशुद्धि) स्यादत एव
निरूपितम् ॥ ३-१२ ॥
————— पगे ५५ ——————-
इत्थं सति स्वतन्त्रत्वमात्मनः स्यादतोऽवदत् ।
सिद्धः स्वतन्त्रभावः ॥ ३-१३ ॥
स्वातन्त्र्यमस्य संसिद्धमात्मनः प्रोक्तरीतितः (क्: प्रोक्तनीतित) [येन
शिवादिधरण्यन्तमशेषं विश्वं भ्रियते दृश्यते भास्यते
स्ववशे स्थाप्यते च सोऽस्य स्वतन्त्रभावं सहजज्ञत्वकर्तृत्वात्-
मकः सर्ववशीकरणशीलः । यथा रासायनिक्या ओषध्या
संसिद्धया यत् किञ्चन वस्तु आविद्धं सत् हेमतामेति एवं
शिवस्वरूपभावनया विश्वं भावितमस्य वशे तिष्ठतीत्यर्थः ।]
॥ ३-१३ ॥
सर्वज्ञत्वक्रियावत्त्वाच्छरीरेऽस्मिन्यथा तथा ॥
सर्वत्र स्यान्न वा तत्र प्राहात्र शशिभूषणः ।
यथा तत्र तथान्यत्र ॥ ३-१४ ॥
आत्मनाधिष्ठिते देहे यद्वत्सर्वज्ञतादयः ।
स्फुरन्ति तद्वत्सर्वत्र स्वाधिष्ठानबलेन च [अधिकारिणोऽस्य यथा
अस्मिन् अधिकृतशरीरे स्वात्मशिवतां परामृशतः स्थितस्य
सर्वज्ञत्वक्रियावत्त्वादयः, एवं स्वात्मबलाक्रमणशक्त्या
सर्वत्र परकीयत्वाभिमतेषु देहेषु सर्वज्ञत्वादयोऽव्यवहिताः
प्रस्फुरन्ति इति ।] ॥ ३-१४ ॥
————— पगे ५६ ——————-
कर्तुरेवं स्वतन्त्रस्य विशतोऽन्यपुरादिषु ॥
तद्धर्मोपहितस्यास्य स्यादकालपदस्थितिः (विशत इति तद्धर्मोपहितेति
च पदद्वयं मूलादर्शपुस्तकान्तरेष्वविद्यमानम्; ग्:
पुस्तकाश्रयेण समुपन्यस्तम् ।) ।
कथं ? तदर्थं कालारिः प्राह सूत्रं यथार्थवत् ॥
विसर्गस्वाभाव्यादबहिःस्थितेस्तत्स्थितिः (ऽविसर्गस्वाभाव्यात्ऽ इति
सूत्रं तु विमर्शिनीग्रन्थे न विद्यते, एतद्ग्रन्थे एव ग्रन्थकृता
सङ्गृह्य व्याख्यातमस्ति ।) ॥ ३-१४ ॥ ३-२ ॥
सृष्टिस्वभावाच्चिद्रूपात्प्रवृत्तिकलनात्मना ।
जातस्य कालवपुषः स्पन्दस्यैवात्र चित्पदे ॥
जन्म न स्यात् सङ्कलनात्तस्य सङ्कल्पजस्य च ॥ ३-६१ ॥
बहिर्बाह्यपदार्थानां पृथक्संस्थित्यभावतः
(बहिर्बाह्येत्यादित आरभ्य योगनिभालनात् इत्यन्तः
सार्धपद्यात्मपाठः पुस्तकान्तरेष्वविद्यमानः; ग्:
पुस्तकात्सङ्गृह्य समुपन्यस्तोऽस्ति ।) ।
प्रकाश्यानां प्रकाशैक्यभावनापथसेविनाम् ।
————— पगे ५७ ——————-
स्वस्माद्धाम्नः प्रच्यवनं नास्ति योगनिभालनात् ।
अकालकामजा सैव स्यादकालपदाश्रयात् [विसिसृक्षाशीलो हि
परमेश्वरः सृज्यवस्तुविषयं स्वस्मिन् आधारभूते समुन्मग्नं
स्वाव्यतिरेकित्वेन आलोच्यमानं परिबिभ्रत् अपि नैव स्वात्मविस्मृतिं
जुषते । यावता मायाभूमावपि वेद्यप्रकाशनं वस्तुतः
परप्रकाशानान्तरीयकतया अन्तःस्थितं सत् स्वातन्त्र्यात् बहिः
प्रकाशते । तस्मात् प्रतिपन्नतात्त्विकस्वरूपस्य धर्मिधर्मोपहितता
न कदाचित् आक्राम्येदित्यर्थः ।] ॥
अकालपदसम्प्राप्तौ यो हेतुस्तमतोऽवदत् (क्: प्राप्तौ हेतुमत्र
तथावदत्) ।
बीजावधानम् ॥ ३-१५ ॥
बीजं सर्वस्य जगतश्चिदात्मैव परं स्मृतम् ।
अवधानं तद्विमर्शः सावधानेन चेतसा ॥
तदाकालपदप्राप्तिर्मोहाद्याग्रहहानितः [एवं
परिमिताहम्भावनिरसनपुरःसरं विश्वकारणशाक्त-पदे
निरन्तरतया दृढाभ्यासेन चित्तावधानमेव
अकालकलितस्वरूपप्राप्त्युपाय इति भावः ।] ।
————— पगे ५८ ——————-
सर्वभावोद्भवभुवः प्रवेशोऽन्तश्चिदात्मनः ॥
कथं पुनर्योगिवृत्त्या स्यादत्र प्राह शङ्करः ।
??????? व्याख्या कहा का है नहीपता
आसनस्थः सुखं ह्रदे निमज्जति ??? [विज्ञानवतां
योगिनां चिदात्मान्तःप्रवेशोपायात्मयोगोचित-
प्रयत्नाधिगम्यवृत्त्या द्रढिम्ना परिशीलनं विदधतां
सत्यामपि उभयवाहोच्छेदात्मकुम्भकवृत्तौ रवीन्दुसङ्घ्ट्ट-
जन्योदानाग्निपर्यायस्य शुचेरूर्ध्वोत्क्षेपणात्मना रेचकवाहेन
अधराधराधारादिपदानिक्रमश उल्लङ्घ्य यावता
द्वादशान्तपदे विश्रान्तिर्जन्यते, अत एवोदानस्य
द्वैतेन्धनप्लोषकारित्वात् चण्डत्वम्, परमशुद्धिकारणत्वाच्च
पवमानत्वम् तदाश्रित्यैव द्वादशान्तस्थशिवचैतन्यामृताब्-धौ
प्रोच्छलद्विश्ववैचित्र्यतरङ्गे निरायस्तावगाहमानता,
यन्निरन्तरसम्भोगरसपरिचर्वणोद्युक्तानाम्
अकालकलितानुत्तरशाक्तपदसम्प्राप्तिः उक्तोपायसेवनतो बहिरन्तः
कलनाविकलम् अखण्डस्वातन्त्र्यमयी कल्पते इति ।] ॥ ३-१६ ॥
पवमानः शुचिश्चण्डो मध्यमः प्राण आसनम् ।
योगिनां ज्ञानपूर्वाणां सन्मत्स्यवलनात्मना ॥
पूर्वमुक्तं च तत्रस्थः सुखं मज्जति तद्ध्रदे ।
ह्रदत्वमत्र प्रागुक्तं सर्वभावोद्भवत्वतः ॥
चिद्रूपस्य च बीजत्वमत एव निरूपितम् ।
अवधानानुप्रवेशावत्रोपायावुदाहृतौ ॥
कालकामजयायैवमजामरपदाप्तये ॥ ३-१६ ॥
————— पगे ५९ ——————-
एवं कर्त्रंशविश्रामस्तत्स्वातन्त्र्यमखण्डितम् ॥
तेन कर्तृत्वमस्य स्यात्तदाह वृषलाञ्छनः ।
स्वमात्रा निर्माणमापादयति ॥ ३-१७ ॥
स्वा शक्तिः परमेशस्य ज्ञत्वकर्तृत्वलक्षणा ।
यावद्वीर्यं बलं तस्य भवप्रभवकारणम् ॥
अतश्च सा जगन्माता तस्य शक्तिमतः परा ।
तया स्वमात्रा निर्माणं यथास्वं रोचते विभोः (क्: यथास्वं
रचति विभुः) ॥
तथा सम्पादयत्याशु तत्स्वातन्त्र्यबलादलम् [प्रागुक्तयोः
अवधानप्रवेशात्मनोरुपाययोः अनुशीलनमहात्म्-यात्
यथाभिमतं वेद्यवेदकावभासनात्मकं वस्तु
अपूर्वोल्लेखावभासनशीलिन्या कर्तृत्वादिसतत्त्वया स्वशक्त्या
तत्पदविश्रान्तो निर्मातुं प्रभवति, तन्निर्माणमेव अस्य
स्वातन्त्र्यधामविश्रान्तिसूचकमिति ।] ॥ ३-१७ ॥
एवमस्य च यद्रूपं तदा बुद्ध्या मलावृतम् ॥
तद्विनाशात्पुनर्जन्म न भवेत्तत्र चावदत् ।
विद्याविनाशे जन्मविनाशः ॥ ३-१८ ॥
————— पगे ६० ——————-
सोपाधिका वेदनीया (क्: सोपाधिका बोधनीया)
पदार्थविषयैव या ।
अशुद्धा सा स्मृता विद्या पुनः सम्भवकारणम् ॥
स्यात् तद्विनाशः सहजविद्योदयनिभालनम् ।
सति तेन स्वतन्त्रत्वव्यक्तिः स्यादात्मनः परा ॥
अत एव पुनर्जन्म न भवेत्स्वबलाश्रयात् ।
जीवन्मुक्तिरियं सिद्धिरकालपददायिनी [वृत्तिज्ञानं
वेद्यफलप्राप्तिसाधनं वस्त्वाकारखचिततया अशुद्धविद्या-
इत्युच्यते सैव बन्धयित्रो, तद्विपरीतशुद्धविद्यानुसन्धानेन
सहजसंवित्समासादनात् स्ववीर्यलाभे सति
आणवमायीयमलद्वयसहकृतं देहेन्द्रियादिसमुदायात्मकं
कार्मबन्धनं परिलुप्यते इत्यर्थः ।] ॥ ३-१८ ॥
वेदनीयपरा येयं बाह्यार्थोपाधिरञ्जनात् ।
विद्या तत्प्रेरणे हेतुः क इत्यत्रोक्तवानजः ॥
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ ३-१९ ॥
सर्वात्मकस्वरूपस्य शब्दराशेः कलामयम् ।
यद्रूपं पूर्वमादिष्टं पशोः शब्दानुवेधतः ॥
————— पगे ६१ ——————-
प्रत्ययोत्पादकं सम्यक् तद्द्विरूपं प्रकीर्तितम् ।
बीजयोनिप्रभेदेन तत्र बीजं शिवः स्वयम् ॥
शक्तिर्मायाभिधा योनिः कादिक्षान्ताष्टवर्गिणी ।
माहेश्याद्यष्टकं तत्र परापरफलप्रदम् ॥
अधिष्ठाय पशूनां च बाह्यार्थावगमे स्थितम् ।
मिश्रकर्मफलासक्तिजनकं घोरलक्षणम् ॥
विषयासक्तचित्तानामधोऽधः पातकारकम् ।
घोरघोरतरं तत्स्यादघोरं शिवदायकम् ॥
एवं मात्राष्टकं (क्: एवं मात्रष्टकम्) चैतत्प्रतिवर्गं
त्रिभेदवत् ।
पूर्ववर्गे भैरवता संस्थितैवानपायिनी [परा वाक्शक्तिः
शिवाभिन्नस्वरूपा इच्छादित्रिकमुद्भाव्य वर्गवर्ग्यादिरूपां
मातृकां समुन्मीलयन्ती पशुप्रमातृषु
सविकल्पकसंवेदनदशायाम् अन्तःस्थूलसूक्ष्मशब्दपरामर्-
शनं कुर्वती वर्गाद्यधिष्ठात्रीभिः माहेश्वर्यादिभिः
रागद्वेषकामलोभादीन् आतन्वाना तेषां देहादितादात्म्यमेव
निष्पादयति इत्यतः करणद्वारैः प्रसरन्त्यां वृत्तौ
घोरादिसञ्ज्ञिका माहेश्वर्याद्याः मातरः पशून्
स्वात्मविमुखान् विषयासक्त्या अधः पातयन्ति, पतिभ्यस्तु
स्वात्मविकासरसं तथा तथा चमत्करणपूर्वं समर्पयन्त्यो
नैव भेदप्रथनमुत्पादयन्ति इत्यर्थः ।] ॥ ३-१९ ॥
————— पगे ६२ ——————-
तदेवं शब्दराशिश्च त्रिस्वरूपोऽष्टवर्गजः ॥
उच्चारस्यादिमध्यान्तभेदा वर्णव्रजेऽपि च ।
तत्राभेदेन शिवता यथा स्यात्प्राह तत्तथा ॥
त्रिषु चतुर्थं तैलवदासेच्यम् ॥ ३-२० ॥
उक्तेषु मातृभेदेषु त्रिषु वर्णात्मकेषु च ।
योऽवशिष्यत एवात्र चतुर्थः स शिवः परः ॥
सोऽनुसन्धेय आसेच्यस्त्रिषु (क्: सोऽनुसम्बन्ध आसेव्य-)
तैलवदम्भसि ।
तदनुस्यूतरूपत्वात्स्यात्सिद्धिरनपायिनी [प्राक्सूत्रे निर्णीताभिः
घोराघोरादिसञ्ज्ञकपशुमातृभिः अधिष्ठितानां
स्थूलसूक्ष्मवर्णात्मकविकल्पानामाद्यन्त-कोटौ
अधिष्ठानात्मना प्रतीयमानेन चिद्रसेन परिषेचनं विधेयम् ।
अर्थात् चिद्रसाश्यानभावेन तदवस्थितिः पुनः भेदप्रथां
विगाल्य तैलवत् अधिकाधिकप्रसरदाश्रयव्याप्त्या चिद्रसमयी
अनुसन्धेया येन तेषां स्वव्यापृतिर्बन्धनात्मिका अपेयादित्यर्थः
।] ॥ ३-२० ॥
अत्र वर्णानुप्रवेशे क उपायस्ततोऽवदत् (क्: क उपाय इतोऽवदत्) ।
————— पगे ६३ ——————-
मग्नः स्वचित्ते प्रविशेत् (क्: मग्नः स्वचित्तेऽनुप्रविशेत्)
??????[बहिरिदन्तौन्मुख्यं जिगमिषोः चिन्नाथस्य
उद्युक्तप्रसरद्दृक्क्रियाशक्तिमत्त्वात् येयम् अर्थाच्छुरिता वृत्तिरस्ति,
तस्याः प्रत्याहरणात् योगी अङ्गारवह्निन्यायेन अविकल्पसंवित्त्या
वर्णानुप्रवेशं कुर्यात् । वर्णानुप्रवेशे संसिद्धया
भैरवमुद्रया मन्त्राद्यनुप्राणनमपि सिद्ध्येदिति ।] ॥ ३-२१ ॥
बाह्यार्थाकारता येयं प्रवृत्तिं भजतो विभोः ।
पूर्ववृत्त्युदयेनालं तत्प्रत्याहॄतियोगतः ॥
स्वात्मन्येव निमग्नः स्यात्प्रवृत्त्युपरमे सति ।
एवं निमेषवशतः शिवो भूत्वा स्वचेतसा ॥
अङ्गारकल्पवर्णानां वह्निनवच्चान्तरं विशेत् ।
पुनर्भैरववृत्त्यैव मन्त्रानुप्राणनं परम् ॥
न केवलं यावदयं विधिः परपुरादिषु ।
इत्थं सति च मन्त्राणां शिवभैरवता स्फुटम् ॥
स्फुरत्येवान्यथा कस्माद्वर्णात्मा मन्त्र ईश्वरः ॥ ३-२१ ॥
तदेवं वर्णमात्रस्य पूर्वापरनिरासतः ।
————— पगे ६४ ——————-
स्थितत्वात्किं भवत्याह तदर्थं सूत्रमीश्वरः ॥
मध्येऽवरप्रसवः (क्: -प्रसर) ॥ ३-२२ ॥
वर्णस्योच्चार्यमाणस्य पूर्वमध्यान्तलक्षणम् ।
भागत्रयं यत्तत्रादिपर्यन्ते शिवरूपता ॥
संस्थितैवोद्बुभूषाख्यविश्रमाख्यस्वरूपतः ।
मध्ये च प्रसवो भ्रंशः (ख्: मध्ये च प्रसरो भ्रम्श इत्येवं
एव पाठो व्याख्यातोऽप्यस्ति ।) स्यात्पशोर्वर्णमात्रके ॥
पत्युः शाक्तं स्फुरद्रूपमेतदेवोपदिश्यते [उच्चिचारयिषायां
तद्विरतौ च आद्यन्तकोटिलक्षणायां मध्यमादिवाग्विषयाणां
स्थूलसूक्ष्मसन्निवेशवतां वर्णानां पश्यन्त्यादाव-
विभक्तपदे निलयनात् अप्रयाससंसिद्धा शिवरूपता अस्ति ।
मध्यकोटौ तु तेषां तत्तद्विचित्राकारसन्निवेशस्फुरणात्
अविकल्पसंविदः सकाशात् परिभ्रं-शित्वमित्यर्थः ।] ॥ ३-२२ ॥
इत्थं सति त्रिस्वरूपे यथा साम्यं भवत्यलम् ॥
तथा प्रदर्शयन्नाह पार्वतीदयितः पुनः ॥
————— पगे ६५ ——————-
प्राणसमाचारे समदर्शनम् ॥ ३-२३ ॥
सर्वज्ञानक्रियारूपं यत्स्वसामर्थ्यमुत्तमम् ।
स प्राणः परनादाख्यः सर्वानुप्राणनक्षमः ॥
तत्समाचार आवेशो वर्णशब्दाणुषु स्फुरन् (क्: शव्दवर्णाणुषु
स्फुटम्) ।
तेनाभेदश्चानुभवः समदर्शनमुच्यते ॥
एवं तद्वलमाक्रम्य सर्वज्ञानबलान्विताः ।
वर्णमन्त्रादिकाः सर्वे भवन्तीति किमद्भुतम् [सर्वप्रकाशानं
जीवितभूते परनादाख्ये स्वतन्त्रप्रकाशे समापत्त्या
वैखरीपर्यन्तं प्रसृतानां पदमन्त्रादीनाम-
भेदानुभवनाभ्यासधाराधिरूढेः परवीर्यलाभः इर्त्यर्थः
।] ॥ ३-२३ ॥
वर्णानुप्राणनं शम्भुर्निरूप्याह प्रसङ्गतः ।
यथा भावशरीरादेः स्यादनुप्राणनं तथा ॥
मात्रास्वप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम् ॥
२४ ॥
मायाद्यवनिपर्यन्ततत्त्वग्रामकलास्तु
[मायातत्त्वादिपृथिवीपर्यन्ततत्त्वकला भूतशरीरोपादानभू-ताः
स्वात्माभिन्नताप्रत्ययानुसन्धानेन चिद्रसमयीः निष्पाद्य
शब्दादिविषयास्पदं भावश्रीरमपि चिदानन्दघनरसमयमुदेति
येन सर्वकर्तृत्वादिभूमिसमावेश-वीर्यं लब्ध्वा सर्वत्र
परिपूर्णज्ञत्वकर्तृत्वादिरूपं परमैश्वर्यमध्यास्यते इत्यर्थः
।] याः ।
————— पगे ६६ ——————-
ता मात्रा व्यक्तयो याश्च प्रतितत्त्वं स्वगोचरे ॥
तासु स्वप्रत्ययं ज्ञानं प्रतिस्वं तेन पूरणम् ॥
अनुसन्धानमेतत्तत्कर्तुस्तद्भूम्युपाश्रयम् ॥
सति तस्मिन्विनष्टस्य भावादेरुदयः पुनः ।
एवं कर्तृधरावेशबलतो (क्: कर्तृवरादेशबलत) यत्र यत्र च ॥
मात्राप्रत्ययसन्धानं कुर्यात्तत्कर्तृता भवेत् ।
सर्वज्ञसर्वकर्तृत्त्वबलावेशदृढस्थितिः ॥ ३-२४ ॥
य एवं नित्ययुक्तः स भवेत्कीदृक्तदाह च ।
शिवतुल्यो जायते ॥ ३-२५ ॥
सर्वस्मिन्कारणकुले शिवः शिरसि वर्तनात् ।
सदा निरुपधिज्योतीरूपत्वाच्चित्स्वरूपतः ॥
तत्तुल्यो नित्ययुक्तत्वात्कुर्वन्नपि विचेष्टितम् ।
————— पगे ६७ ——————-
जीवन्मुक्तः साधकः स्यात्पूर्वोक्तज्ञानवीर्यतः [एवं
नित्ययुक्तस्य शिवस्वरूपपरिशीलनातिशयासादिततत्पदत्वात्
देहकलासद्भावेपि जीवन्मुक्तिसुखास्वादनेन शिवता उपमीयते ।
प्रारब्धोपनीयमानभोगातिक्रान्त्या विदेहमुक्तो तु तादात्म्यमेव
प्राप्यते इति भावः ।] ।
एवमभ्यस्यतश्चास्य (क्, ख्: एवमभ्यस्य तच्चास्य) कीदृशी
नित्ययुक्तता ।
तदर्थं भगवान्सूत्रमाह व्रतनिरूपकम् ॥
शरीरवृत्तिर्व्रतम् ॥ ३-२६ ॥
शरीरमेव कङ्कालं कपालं कङ्करस्थितम् ।
पृष्ठदण्डं दण्डमत्र करपादगलस्थिताः (क्: दण्डमात्रकरेति;
ख्: दण्डपात्र ।) ॥
अस्थिखण्डाः पञ्च मुद्रा भस्म दीप्तिः परा स्मृता ।
गुणत्रयं चोपवीतं ध्वजिका स्यान्महापथम् ॥
भूषणानीन्द्रियाण्यत्र विहृतिर्विषयेष्वलम् ।
हॄच्छ्मशाने सदासक्तिः कायवाक्चेतसा स्फुरन् (क्: चेतसा स्फुटम्;
ख्: सदा शक्तिरित्येवंविधः ।) ॥
————— पगे ६८ ——————-
यो यश्चेष्टापरिस्पन्दो वीरेशस्योत्सवः सदा ॥
महाव्रतमिदं ज्ञेयं निरर्गलनिजस्थितेः [प्राङ्निर्दिष्टनयेन
अभ्यस्यतो महाव्रतं पाशुपताख्यं प्रसिद्ध्येत् यत्र कङ्काल-
कपाल-दण्ड-पञ्चमुद्रा-भस्म-उपवीत-ध्वज-भूषण-
निवास-विहृत्यादिसामग्रीजातमव्यक्त-द्रव्यमयमुपयुज्येत ।
व्यक्तलिङ्गितया तु धर्मध्वजी भूत्वा मलकालिकयोपसंलिप्यते ।] ।
इत्थं व्रतधरस्यास्य जपः कीदृक्तदाह च ॥
कथा जपः ॥ ३-२७ ॥
यद्यत्कर्तृधरारूढः प्रबुद्धः सन्प्रभाषते ।
तत्तज्जपः स्याद्व्रतिनः स जपात्पुरुषोत्तमः ॥
वीर्यावलम्बनोच्चारसञ्चाराख्या कथा जपः ।
एवं चतुर्धा विज्ञेयः शाक्तो हंसश्च (क्: पुद्गल; ख्: हाम्स च
पाठोऽस्ति ।) पौद्गलः ॥
[निष्कलोऽप्यथ] शाक्तोऽत्र येयं स्वा [हम्] क्रिया चितेः (पौद्गल
इत्यतोऽनन्तरं क। ख। पु। अविद्यमानः, (…शाक्तोऽत्र येयं
स्वा…क्रिया चितेः, इत्येतावानाद्य मध्यतो नष्टाक्षरोऽपि
पद्यार्थपाठः ग। पुस्तकात्सम्पूरितोऽस्ति ।) ।
————— पगे ६९ ——————-
निष्कलः प्रणवाङ्गस्थो हंसो नादकलात्मकः ॥
जीवसञ्ज्ञो मरुद्रूपः स्वप्रवृत्त्यायुतद्वयम् (क्:
महद्रूपस्वप्रवृत्त्या-) ।
सहस्रं षट्शतान्येव वहत्यच्छिन्नसन्ततिः [एवं
महाव्रतवतोऽस्य वीरेशस्य पराहम्भावभावनापद-
मधिरूढस्य परवीर्यानुप्राणिततया चतुर्विधानां निष्कलहम्स
- पौद्गल-शाक्तरूपाणां मन्त्राणां
स्वात्मदेवतापरामर्शनसारार्थवत्त्वावर्तनात्मा जपोऽनवरतं
प्रवर्तमानो नैव विच्छिद्येत ।] ॥ ३-२७ ॥
य एवं ज्ञानवान्सिद्धो जपव्रतपरायणः ।
केन दानेन तेनेह भाव्यं तत्राह शङ्करः ॥
दानमात्मज्ञानम् ॥ ३-२८ ॥
आत्मस्वरूपप्रज्ञप्तिर्ज्ञानं तत्परमुत्तमम् ।
उक्तं च वक्ष्यमाणं च तस्य सम्यक् प्रकाशनम् ॥
शक्तिपातप्रबुधानां यत्तद्दानमिहोत्तमम् ।
तद्दानात्क्षपणं सम्यक्पाशानां स्यात्पशोस्ततः (क्, ख्:
पाश्यानां स्यात्पशुष्टुत) ॥
————— पगे ७० ——————-
दीक्षाशब्द इह प्रोक्तो दानक्षपणलक्षणः
[तीव्रशक्तिपातवतां प्रोक्तजपव्रतिनामुक्तवक्ष्यमाणप्रक्रियया
वर्णितमात्मज्ञानमेव पशुषु प्रकाशनीयं तदेव दानम्, यतः
स्वरूपज्ञापनस्य आणवादिपाशानां च
दानक्षपणलक्षणायां दीक्षायामधिकारित्वमनुग्राह्येषु
प्रवर्ते इति ।] ॥ ३-२८ ॥
एवं सृष्टिस्थितिध्वंसरक्षानुग्रहकृद्विभुः ॥
आत्मैव शिवरूपत्वात्तत्स्वरूपनिरूपणे ।
सूत्रं व्यस्तं समस्तं च प्रोवाचेन्दुकलाधरः ॥
योविपस्थो ज्ञाहेतुश्च (क्: योनिस्थो ज्ञानहेतुश्च) ॥ ३-२९ ॥
योनित्वेन च विश्वस्य पर एव स्थितः प्रभुः ।
ज्ञानक्रियात्मा हेयस्य तुच्छीकरणहेतुतः ॥
अतो योगी विश्वरूपपदस्थो ज्ञानपूर्वकः ।
हेतुर्भोगस्य मोक्षस्य प्रकृष्टः प्रतिपादितः ॥
य एवं योगिराट् सम्यक्कत्रंशाभिनिवेशतः ।
लब्धस्थितिः स विपस्थस्तज्ज्ञाने (क्: लब्धस्थितिः स विश्वस्थ)
हेतुरुत्तमः ॥
————— पगे ७१ ——————-
अत्र ये पशवस्तेषु पतिर्मातृगणः स्मृतः ।
तत्स्थ आत्मा प्रस्फुरति तेन चक्रेश्वरस्त्वसौ [विश्वकारणं परशिव
एव ज्ञानक्रियात्मा हेयतुच्छीकरण-प्रयोजककर्ता तत्प्रसादादेव
हि विश्वोल्लासधाम्नि संस्थितो योग्येव पूर्णज्ञातृत्वादिसद्भावेन
भोगमोक्षभाजनम् । यद्वा कर्तृभूम्यधिरोहणात् लब्धस्थितिः
योगीन्द्रः स्वज्ञानशक्त्या उपदेश्यान् प्रतिबोधयितुं शक्तः । अथ
वा पशुप्रमात्रधिष्ठा-नेषु माहेश्वर्यादिमातृकागणेषु
तच्चक्रेश्वर आत्मैव प्रस्फुरति । तमेव निजरश्मिरूपा
मातृकाधिष्ठितचिद्वृत्तयो विषयसारांशाहरणेन सदा पूजयन्ति ।
तस्मात् तदाश्रिता इमा मातृकाः तद्व्यतिरिक्ततया
स्वसत्तामलभमानाः स्वप्रकाशनाय तमुपजीवन्ति इत्यसौ
शाक्तोल्लासमय एवेत्यर्थः ।] ॥
इत्थं चिद्भैरवस्यैता वृत्तयो रश्मयः स्मृताः ।
शब्दादिविषयैर्भोगैः पूजयन्त्यः सदा स्थिताः ॥
एतन्मातृगणज्ञानमत्र हेतुः स्वचिद्विभुः ॥ ३-२९ ॥
एवं शक्तिमयस्यास्य विश्वाकारत्वमाह तत् (क्: विश्वाकारतयाह
तम्) ॥
स्वशक्तिप्रचयोऽस्य विश्वम् ॥ ३-३० ॥
————— पगे ७२ ——————-
एवं शक्तिमतश्चास्य शक्तयः स्वाश्चिदादयः (क्:
स्वाश्चिदात्मनः; ख्: स्वाच्चिदात्मन) ।
तासां नवनवोल्लासस्पन्दा ये प्रचयाः स्मृताः (क्, ख्: प्रचयाश्च
ये) ॥
त एव विश्वं विज्ञेयं यतः शक्त्यात्मना विभुः ।
जगद्रूपः प्रस्फुरति स्फुरन्नेवात्मना सदा [यथा शिवस्य विश्वं
निजानुत्तरशक्तिमयम् एवमस्य योगिनः शिवतुल्यत्वात्
स्वसंविच्छक्तेः विचित्रनवनवोल्लासस्पन्दमयक्रिया-
शक्तिस्फुरणात्म विकसितमस्ति । तत्तन्नीलसुखादि वेद्यजातं
बहिरन्तश्च प्रथमानं प्रकाशविश्रान्तिमाश्रित्य
स्वव्यवस्थापनं प्राप्नुवत् अन्यथा स्वसिद्ध्यनुपपत्तिं प्रथयेदिति
स्वसंविदेव तथा तथा विश्ववैचित्र्येण सर्वत्र स्वयं
स्वैरमनोरथवत् प्रस्फुरति । शक्तितद्वतोरभेदात् शिव एव तथा
विभायदिति भावः ।] ॥ ३-३० ॥
एवं सृष्टिकृदेवात्मा स्थितिकृल्लयकृद्यथा ।
तथा प्रदर्शयन्नाह सूत्रं त्रिपुरसूदनः ॥
स्थितिलयौ ॥ ३-३१ ॥
तैरेव शक्तिप्रचयैर्वृत्त्युल्लासस्वरूपकैः ।
————— पगे ७३ ——————-
चिदात्मैव स्थितिलयौ प्रकरोति निजेच्छया [एवं स्वेच्छाशक्त्यैव
चिदात्मा स्थितिप्रलयौ रचयति क्रियाशक्त्युन्मीलितस्य विश्वस्य । तत्र
शक्तितत्त्वावधि तत्तत्पदाध्यक्षानाश्रितादिप्रमातॄन् अपेक्ष्य
तत्तत्परार्धकालप्रमितायुष्कालं यावत् बहिर्मुखत्वेन
स्वाधरस्थविश्वस्य अवभासनं नाम स्थितिः । यथास्वमुपरि-
तनपदनिमेषवशात् स्वस्यापि विलयः, का कथा स्वस्मात् अधस्तनस्य
विश्वस्य । एवं चित्प्रमातृविश्रान्त्यात्मको लयः । इत्थमेतावुभौ
अवभासमानौ स्वशक्तिप्रचय एव । यतः तत्तद्वेद्यजातं
निमील्यमानमुन्मील्यमानं च प्रकाशनान्यथानुपपत्तेः
संविच्छक्त्यात्मकमेवेत्यर्थः ।] ॥ ३-३१ ॥
एवं सृष्टिस्थितिध्वंसकालेऽप्यात्मा निजस्थितिः ।
यथा भवति तत्राह सूत्रं शास्त्रार्णवो हरः ॥
तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥ ३-३२ ॥
तेषां सृष्ट्यादिभावानां प्रवृत्तावपि चिद्विभुः ।
स्वस्थितिं न जहात्येव सदा संवेत्तृभावतः ॥
अनिरासोऽत्राविलोपः (क्: अनिरासोऽत्रावलुप्त) संवेत्तृत्वे विशेषणम् ।
इत्थं लोपो व्यवस्थानां नावस्थातुः कदाचन ॥
————— पगे ७४ ——————-
निरूपितं स्यात्सर्वत्रानुस्यूतत्वस्वरूपतः
[सृष्ट्याद्युन्मज्जनेऽपि चित्स्वभावस्थितिः
तुर्यचमत्करणविमर्शनमयात् संवेत्तृभावात् सकाशात् नैव जातु
किल निरस्यते । तदित्युपलक्षणं पञ्चकृत्यस्य । पञ्चकृत्यकारी
चिदात्मा तत्तत्कृत्योल्लसनात्मस्वात्मैश्वर्यं प्रकटयन्
विनश्यत्स्वभावानां तेषां भावानां पूर्वापरकोट्योः
चमत्कर्तृतया सदोदितः स्वस्य तत्साक्षिस्वभाव-तामवगमयेत् ।
इत्थमविनाशिनोऽवस्थातुरवस्था एव विविधा नष्टोदिता असकृत्
विपरिवर्तन्ते न तु तस्य विनाशः । तथात्वे हि
तद्विलयादयोऽसाक्षिकत्वात् असम्भाव्याः प्रतीयेरन् इत्यर्थः ।] ॥ ३-३२ ॥
एवं सुखासुखे अत्र निरूपयितुमाह च ॥
सुखासुखयोर्बहिर्मननम् (क्: सुखासुखत्वे बहिर) ॥ ३-३३ ॥
अदिव्यविषयास्वादादिष्टप्राप्त्यादिनोदितम् [इत्थमुपलब्धृपदस्थि-
तस्य लौकिकप्रेष्ठतमविषयस्पर्शप्राप्ति-जन्या आनन्दवृत्तिः ।
तदप्राप्त्या तद्विपर्यस्तापत्त्या च उत्पन्ना अनानन्दवृत्तिः दुःखम् ।
तत् पुनराध्यात्मिकादिबहुभेदैः बहुविधम् । एवमुभे एते
आविर्भूतेऽपि विमर्शदार्ढ्यात् अनहम्ममतावत्त्वेन नीलादिवत्
संवेद्यमाने स्वरूपानावरके स्तः, न पुनः पशुप्रमातुरिव अस्य
अहन्तास्पर्शो भवति तत्रेत्यर्थः ।] ।
————— पगे ७५ ——————-
प्रत्यगात्मनि बाह्यान्तःसुखस्य (क्: बाह्यान्तर्मुखस्य; ख्:
बाहयोऽन्तर्मुखस्य) मननं मतम् ॥
दुःखं त्रिधा पञ्चाधा च पुनर्भेदैरनन्तकम् ।
आध्यात्मिकादित्रितयं तापत्रितयमेव तत् ॥
तमो मोहो महामोहस्तामिस्रश्च चतुर्थकः ।
अन्धतामिस्र एवान्यदत्राष्टप्रकृतिः स्थितः ॥
आत्माभिमानस्तु तमो मोहो देहात्मता मतः ।
महामोहस्तु बाह्यस्य पुत्रादेरात्मरूपता ॥
तामिस्रः स्यात्कुटुम्बादिबाधाकर्तर्यमर्षणम् (ख्:
कुटुम्बादेर्नाशकर्तुरामर्ष) ।
पञ्चमस्त्वन्धतामिस्रो मरणत्रास एव यः ॥
अत एव विभेदेन पुनर्गच्छत्यनन्तताम् ।
चितः कर्तृधरावेशदार्ढ्यात्तादात्म्यरूपतः (ख्: चितेः
कर्तृधरादेशदार्ढ्यताद्रूप्यभागिता) ॥
सुखदुःखाद्यवस्थाख्यमननं यदुदेत्यलम् ।
कुतश्चित्कारणाद्वापि तदनावरकं भवेत् ॥ ३-३३ ॥
————— पगे ७६ ——————-
अतस्तन्मननं वाह्यमन्तर्विशति नो यदा ।
तदा तन्मुक्त आत्मैव (क्, ख्: तदा तन्मुख आत्म) कीदृशः
स्यात्तदाह च ॥
तद्विमुक्तस्तु केवली ॥ ३-३४ ॥
ताभ्यां च सुखदुःखाभ्यां (क्: तस्यां च सुखदुःखाभ्याम्,
तस्यां तादात्म्यदशायामिति पर्यायोपेतः पाठः ।)
मूढभावेन च प्रभुः ।
विमुक्तः केवलः स्वस्थः सर्वानुस्यूतवृत्तितः [यदा
सुखादिमननमन्तर्नैव विशति, तदा सुखादिना तत्कृतमोहेन च
असंस्पृष्टः सन् अविलुप्तस्वात्मविभवः केवलचिन्मात्रपरप्रमा-
तृरूपे विश्रान्त्या योगी योगफलमनुभवतीत्यर्थः ।] ॥ ३-३४ ॥
मूढभावश्छादकः (क्: मूढभावाच्छादक) स्यान्न वा
तन्निजगाद च ।
मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३-३५ ॥
मोहो मौर्ख्यमनुद्योगस्त्वविद्या (क्: मौर्ख्यमनुद्वेग; ख्:
मोहमौर्ख्याद्यनुद्योगश्चाविद्या) जाड्यमावृतिः [यदा
अविद्यापर्यायेण मोहेन शरीरादिषु आत्माभिमानितां विजृम्भ्य
नैरन्तर्येण व्याप्तो भवति, तदा देहावयवसहकृत-
शुभाशुभमिश्रकर्माणि समाचरन् पूर्णं चिद्व्योमैकरूपं
स्वात्मानमपह्नुवानो विविधविचित्रकर्मफलेभ्यः अभिनिवेशेन
स्पृहयालुः नानाविधनरादियोनीः संसरतीत्यर्थः ।] ।
————— पगे ७७ ——————-
अविवेकश्च मूर्छादिपर्यायैरेभिरुच्यते ॥
शरीरादेरहम्भावो यस्मिन्सति विजृम्भते ।
प्रतिसंहत एवात्मा व्याप्तस्तेन निरन्तरम् ॥
कर्मात्मा तस्य च प्रोक्तः संसारी पशुरित्यसौ ।
तदा भेदावभासित्वमभेदाख्यातिलक्षणम् (क्:
अभेदाभातिलक्षणम्; ख्: भेदाभावस्य लक्षणम्) ॥ ३-३५ ॥
मोहे सत्यात्मनोऽहन्तेदन्तारूपं सदा स्थितम् ।
तदुद्वेष्टनयोगेन कर्तृभूमिसमाश्रयात् ॥
प्रबुद्धः शिवरूपः स्यादात्मा नित्यं निजस्थितिः ॥
भेदाभावे भवत्यस्य किं तदाहात्र शङ्करः ॥
भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३-३६ ॥
प् ७८) आत्मैवं सर्वं बुद्धत्वाद्भिन्नं नेहास्ति किञ्चन
[शिवशक्तिपाताविद्धहृदयत्वात् हेतोः कर्मबन्धनोद्वेष्टनशिव-
योगाश्रयणेन प्रबुद्धः सन् परमशिवस्वभावात् व्यतिरिक्तं
किञ्चनापि अपर्यालोचयन् देहाद्यहन्तात्म-सकलप्रलयाकलादि-
प्रमात्रास्पदां भेदप्रथां न्यक्करोति । एवंविधोऽयं
स्वस्वरूपप्रत्यापत्त्या निश्चलस्थितिः लब्धपरशाक्तबलो
मन्त्रमन्त्रेश्वरादिप्रमात्रुचितमहावैभवप्राप्तौ सत्यां
स्वेच्छानतिक्रान्त्या नवनवोल्लेखसन्निवेशादिचित्रितान् अपूर्वसर्गान्
कर्तुं प्रभवेदित्यर्थः ।] ।
विश्वमातृभिरेतच्च स्वसूत्रेषु निरूपितम् ॥
निवृत्तस्य प्रवृत्तस्य निश्चलैव यदा स्थितिः ।
विषयस्य हि बुद्धानां तत्साम्यमजमव्ययम् ॥
इत्थं भेदतिरस्कारे सत्येकाकारतात्मनः ।
तेन सर्गान्तरं सृष्टेरपूर्वोल्लेख एव यः (क्: अपूर्वोल्लेखनेन यः)
॥
तत्कर्मत्वं कर्तृता स्याद्यथारुचि चिदात्मनः ॥ ३-३६ ॥
अत्र हेतुं सुराधीशः प्राह सर्गान्तरं प्रति ॥
करणशक्तिः स्वतोऽनुभवात् ॥ ३-३७ ॥
प् ७९) शक्तिः सर्गान्तरोत्पादे सामर्थ्यं (क्: सर्गान्तरोत्पादः
सामर्थ्यम्; ख्: सर्गान्तरोत्पादसामर्थ्यम्) करणेषु यत् ।
तत्स्वतोऽनुभवात्सिद्धमकृत्रिमबलाश्रयात् ॥
यतः करणसामर्थ्यमात्मावेशबलाद्भवेत् ।
तेन सत्यधरारूढो यादृशं कार्यमिच्छति ॥
तादृशं प्रकरोत्येव सङ्कल्पं परमेश्वरः ।
यद्यप्युक्तमिदं सर्वं तथापि व्यक्तये पुनः (ख्: व्यक्तये तत) ॥
प्रकारान्तरमत्रोक्तं विचित्राः सिद्धयो यतः [यथा साधारण्येन
क्रिम्यादेरपि स्वप्नस्वैरविकल्पादौ विश्ववैचित्र्यनिर्माणशक्त्या
कयाचिदपि तत्तदुद्यानवनगिरिसरो-नगरादीनामसाधारणानां
पदार्थानां निर्मातृत्वं स्वानुभवगम्यम् । एवं योगिना
गाढतराभिनिवेशात् अकृत्रिमवीर्यमाश्रयता तद्भूमिकारूढेन
यथास्वसङ्कल्पं यादृशं कार्यमिष्यते तत्सर्वं करणशक्त्या
निर्मीयते । प्रागभिहितोऽपि विश्ववैचित्र्योत्पादनसामर्थ्योपायः
सिद्धीनां बहुप्रकारान्तरज्ञापनाय इदानीं पुनरनूद्यते ।] ॥
३७ ॥
————— पगे ८० ——————-
एवं स्वानुभवस्तुर्यपदरूपः स्फुरत्यलम् ॥
यदा सर्वत्र सर्गादौ तदा लब्धात्मसंस्थितिः (क्: तदा
लब्धात्मसंस्थितिम्) ।
भवत्यात्मा तदाहात्र जगतां पतिरादरात् ॥
त्रिपदाद्यनुप्राणनम् ॥ ३-३८ ॥
त्रीणि जाग्रत्पदादीनि आदिभूतानि यस्य तत् ।
त्रिपदादि स्मृतं तुर्यं युगपत्पूर्णताभिधम् ॥
तेनानुप्राणनं सम्यग्भावानां स्वबलार्पणम् (क्: भावानां
स्वबलार्पणात्) [प्रोक्तोपायजालसेवनेन जागरादीनां
तिसृणामवस्थानामनु-प्राणकं तुरीयं चिदानन्दघनं
शिवतत्त्वमेव परिपूर्णं सर्वभावव्यवस्थापकं यदा
उपलभ्यते, तदा व्यवहारदशा-यां
तत्तदिष्टसङ्गीतादिविषयाणामास्वादाद्यवसरेषु
अन्तर्मुखविमर्शावस्थित्या बोद्धृतत्त्वं निरावरणं विद्युद्वत्
प्रस्फुरेदित्यर्थः ।] ॥ ३-८ ॥
कथं कुर्यात्तदाहात्र सूत्रं हार्दतमोहरः ॥
चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३-३९ ॥
————— पगे ८१ ——————-
चित्तस्योक्तस्वरूपस्य स्थितिर्निश्चलतैव या [वेद्यौन्मुख्ये
सङ्कुचद्रूपतया चित्तीभूतस्य चित्तत्त्वस्यैव उपायाद्यनुवृत्त्या
स्वभावचिदानन्दघनताप्रत्यापत्तेः कल्पितस्य
देहादेरपितात्त्विकस्वभावाप्रच्युतिः । प्रागवस्थायां हि सर्वं
भावजातं चिद्रससमकक्ष्यं बहिर्मुखतायां
काठिन्यमापन्नमिव स्वप्नमनोरथवत् प्रकाशते । वस्तुतो
बाह्याभ्यन्तरं स्वरूपप्रथैव तत्तद्भावेन आश्यानीभूय
अवभासमाना पुनर्विलीय चिद्रसीभवतीत्यर्थः ।] ।
अप्रच्युतिः स्वस्वरूपादिति तद्वच्छरीरके ॥
यथास्वं कल्पिते चात्र सबाह्याभ्यन्तरे स्थिते ।
करणग्राम एवालं स्थितिर्या प्राणनं हि तत् (क्: प्राणनं महत्) ॥
एवं बाह्येषु भावेषु येषु येषु (ख्: बाह्येषु भोग्येषु) प्रकल्पनम्
।
कुरुते तेषु तेष्वेव प्रथनं स्यात्तथैव तत् ॥ ३-३९ ॥
एवमन्तः स्थितस्यैव भवेद्वाह्यविसर्पणम् (क्: बाह्यविसर्पणा इति
स्त्रीलिङ्गनिर्दिष्टः पाठः) ।
भावव्रातस्य कस्मात्तत्प्रोवाच गिरिजाधवः ॥
————— पगे ८२ ——————-
अभिलाषाद् बहिर्गतिः संवाह्यस्य ॥ ३-४० ॥
आत्मनः स्वबलोद्रेकात्क्रियावेशप्रपूरणे ।
यैवेच्छा सोऽभिलाषः स्यात्तस्मादस्य भवत्यलम् ॥
करणादिसमूहस्य संवाह्यस्य बहिर्गतिः ।
सव्यापारप्रवृत्तिः सा प्रेर्यस्यात्मबलेरणात् ॥
अथाभिलषितव्यं यत्संवाह्यं तदुदाथृतम् ।
काकाक्षिन्यायतस्तूक्तं पशोरेव पशोः पुनः ॥
सर्गे सत्यभिलाषो यः स सर्वविषयेष्वलम् ।
तस्मात्कर्मात्मनः प्रोक्ता संवाह्यस्य बहिर्गतिः ॥
स्वस्वरूपपरित्यागो बाह्यो वैषयिकव्रजः ।
गतिः प्रसरणं तत्र संवाह्यस्य भवत्यतः ॥
विषयादिभिरेवासौ सदा संवाह्यते यदा ।
तदा दुरभिलाषाख्यो मोह एवास्य जृम्भते [यैव
स्वात्मविर्याक्रमणातिशयात् अधरस्यां दशायामपि
दर्शनश्रवणादिक्रियां विर्वोढुं कामयमानस्य आत्मनो
धीकर्मेन्द्रियगणेषु चिद्बलाधानेच्छा स एव अभिलाषः, तेनैव
संवाह्याख्यस्य करणचक्रस्य प्रेरणात् शब्दस्पर्शादिविषयेषु
प्रवृत्तिलाभः ।
यद्वा खेचरी-गोचरी-दिक्चरी-भूचर्याख्यशक्तिवृन्दा-
धिष्ठितैः कञ्चुकादिभिः सह योनेर्योन्यन्तरं संवाह्यते
प्राप्यते यः स संवाह्यः कर्मात्मा पशुः । तस्यैव
पाशराशिमूलभूताभिलाषाख्याणवमलसम्बन्धात्
स्वस्वरूपानुभवं परित्यज्य बाह्ये विषयजाते रिरंसयिषया
प्रसरणं भवति । उत्तरोत्तरं स एव घनीभूततावस्थायां
मोहकार्यं विदधानो भूचरीशक्तिचक्रमाश्रित्य पशून्
संवाहयतीत्यर्थः ।] ॥ ३-४० ॥
————— पगे ८३ ——————-
जीवसञ्ज्ञश्च कर्मात्मा सति दुष्टे तदेषणे (ऽदुष्टे तदेषणेऽ
इतीयान्पाठः पस्तकान्तरेषु त्रुटिसम्भवाद-विद्यमानः; ग
पुस्तकात्समुपलभ्य सन्निवेशितोऽस्ति ।) ॥
तत्क्षयादात्मनः किं स्यादथोवाच महेश्वरः ॥
तदारूढप्रमितेस्तत्क्षयाज्जीवसङ्क्षयः ॥ ३-४१ ॥
अभिलाषोद्गतौ पूर्वा कोटिर्द्रष्ट्टधरा स्मृता ।
तदा तस्मिन्नावसति प्रबुद्धः परमार्थवित् ॥
यदा द्रष्ट्टधराक्रामी स्वबलोद्योगवीर्यतः ।
तदासौ रूढविज्ञानः प्रमाता बुद्ध उच्यते ॥
प्रमातुः प्रमितिस्तस्य स्वसंविज्ज्ञानमेव यत् ।
तदाप्यारूढप्रमितेरभिलाषक्षयो भवेत् ॥
————— पगे ८४ ——————-
तत्क्षयाज्जीवसञ्ज्ञस्य क्षयः कर्मात्मनः स्मृतः [एवं
दुरेषणायां मिताहन्तासंयोगेन मोहानुभवात् कदाचित्
सुकृतसञ्चयोदितशक्तिपातः शैवशासनविवेकपरो
द्रष्टभूमिकायां प्ररूढसंवित् खेचर्यादिभिः शक्तिभिः
पशुकार्यवैपरीत्येन कञ्चुकादारभ्य तन्मात्रावधि
बाह्याभ्यन्तरं स्वसंविन्मरीचिकचनं प्रकाश्यमानं
स्वरूपानन्दमयं रसयन् यदा पाशवाभिलाषं जहाति तदैव
अस्य संवाह्यात्मनः पुर्यष्टकस्य प्रशमः ।] ॥ ३-४१ ॥
जीवसञ्ज्ञः स्मृतो बध्यः संसारी पशुरित्यतः ॥
पाशराशिक्षतौ सत्यां कीदृगात्मा तदाह च ॥
भूतकञ्चुकी तदाविमुक्तो भूयः पतिसमः परः ॥
४२ ॥
महाभूतानि पञ्चैव पाशरूपाणि कञ्चुकम् ।
कञ्चुकं चावृतिर्ज्ञेया तदासौ भूतकञ्चुकी ॥
अविमुक्तो बद्ध एव भूयः पूर्वोक्तरीतितः ।
सर्वज्ञसर्वकृद्भूमिरूढ्या (क्: सर्वज्ञः सर्वकृत् इति
व्यस्तपाठः) पतिसमः परः ॥
————— पगे ८५ ——————-
स्यादसौ नात्र सन्देहः सम्यक् स्वानुभवादलम्
[इत्थमभिलाषात्मकमलप्रक्षये भौतिकदेहसम्बन्धस्थित्या
अविमुक्ततायां भासमानायामपि सर्वकर्तृज्ञातृत्वभूमि-
प्ररूढ्या नैरन्तर्येण अनुत्तरचिदानन्दघनस्वात्मशिवता-
मनुभवन् बध्यपशुभावनिष्क्रान्तो देहकलाया अविगलनात्
शिवसदृक्षो भवति, न तु शिव एव देहपातानन्तरं तद्भावप्राप्तेः
।] ॥ ३-४२ ॥
भूतकञ्चुकिनश्चास्य सम्बन्धः प्राणसञ्ज्ञकः ॥
स कथं प्राह भगवानत्र सूत्रं वृषाकपिः ।
नैसर्गिकः प्राणसम्बन्धः ॥ ३-४३ ॥
स च भूतशरीरस्य प्राणसम्बन्ध एव यः ।
निसर्गसिद्धोऽसौ ज्ञेयः प्राणः प्राणमयो यतः (क्: निसर्गसिद्ध्यै
सञ्ज्ञेयः प्राणापानमयो यदा) [प्रोक्तार्थनीत्या
तदारूढसंवित्त्वात् पुर्यष्टकाभिमानविगल-नेन तत्सम्बद्धस्य
भूतकञ्चुकस्यापि अवश्यं भ्रंशप्राप्तौ सत्यामपि,
तत्स्थैर्यनिमित्तप्राणपुर्यष्टकसम्बन्धो
निसर्गसिद्धोऽभ्युपगम्यते । संविदेव किल सङ्कोचावभास-
पूर्वकं विश्ववैचित्र्यावभासनात् प्राणनात्मकग्राहक-भूमिं
श्रित्वा ग्राह्यरूपजगदात्मना स्फुरन्ती स्वयमेव
स्वविभवविस्मरणपूर्वं जीवदवस्थायां स्वोत्थापितैः
शुभाशुभविकल्पैः पुण्यापुण्यकर्मोपचयं विधाय तत्समुचिता
नरतिर्यग्देवतायोनीः भ्राम्यन्ती कदाचित्
निरपेक्षशक्तिपाताधिष्ठानात् शैवज्ञानसोपानपद्धतिक्रम-
समारोहणेन अनुत्तरोर्द्ध्वधामाभिलाषुका ज्ञानाग्निदग्धेषु
कर्मसु सत्स्वपि दण्डापगमे चक्रभ्रमिवत् यावत्प्रारब्ध-
कर्मोपभोगं प्राणतत्सम्बद्धभूतकञ्चुकात् नैव निवर्तते
इत्यर्थः ।] ॥ ३-४३ ॥
————— पगे ८६ ——————-
बिन्दुनादात्मकस्यास्य मार्गत्रयविसर्पिणः ।
जयः कार्यो न वा कार्यः स्वसिद्ध्यै प्राह चात्र तत् (क्: संसिद्ध्यै
प्राह चात्र ताम्; ख्: स्वसिद्धिं प्राह चात्र ताम्) ॥
नासिकान्तर्मध्यसंयमात्किमत्र
सव्यापसव्यसौषुम्नेषु ॥ ३-४४ ॥
नासान्तर्द्वादशान्तः स्यात्तत्र सन्न्यस्तचेतसाम् ।
नियमात्तज्जयः सिद्धस्ततः स्वात्मस्थितिः स्फुटम् ॥
मध्यं हृदयमेवात्र तत्र प्राणनिरासतः ।
चेतसो लीनवृत्तित्वाद्भवत्यात्मोदयः परः ।
एवं प्राणजये सिद्धे स्यात्किमत्र प्रयोजनम् ।
वामदक्षिणसौषुम्नमार्गेषु प्राणवाहिषु ॥
————— पगे ८७ ——————-
यस्मात्प्राणः प्राणसमः समर्थः सर्वसिद्धिदः ।
श्रीमत्स्वच्छन्दतन्त्रान्तर्गीतमेतच्छिवेन तु ॥
प्राणः प्राणमयः प्राणो विसर्गापूरणं प्रति ।
प्राणनाडीजयश्चैव सानुषङ्गिक ईरितः (क्, ख्: सानुषङ्गिकमीरित)
॥
यस्माच्छिवमयः शुद्ध आत्मा स्वच्छन्द इत्यतः [पतिभावप्राप्तौ
स्वात्मसिद्धिघनाभ्यसनार्थं प्राणात्मा-
नाहतशब्दब्रह्मोपासनां निर्दिशति नासिकान्तरिति, द्वादशान्ता-
दिषु प्राणार्कास्तमनस्थानेषु युक्तचेतसां योगिनामभ्यासाअति-
शयपरिचयात् इडादिमार्गत्रयसृप्तस्य क्रोडीकृत बिन्दुनादस्य
प्राणस्य विलयात् नाडीजयः सम्पद्यते । प्राणवृत्त्युपरतौ
अनाहतब्रह्मणि चेतोवृत्तिविश्रान्तेः स्पष्टतत्प्रत्ययैकताप्रवाह-
वशात् तन्मयीभूतत्वात् ध्यात्रादिभेदविगलनतः परमस्वात्म-
शिवोदयः । एवं साध्यसिद्धौ आणवोपायनिर्दिष्टोच्चारादिषु
अधरपदोपासाविश्रान्त्या अलम्प्राप्तोर्ध्वपदस्य
अर्वाचीनपदान्तरानपेक्षणात् इति कारिकासमुदायाशयः ।] ॥ ३-४४ ॥
एवमस्मिन्प्रकरणत्रयेऽथ विभुनोदितः (क्: प्रकरणे
योऽत्राप्यविभुना; ख्: विभुबोधित) ॥
उपायघटनाबन्धस्तत्र सिद्धान्तमाह च ।
————— पगे ८८ ——————-
भूयः स्यात्प्रतिमीलनम् ॥ ३-४५ ॥
इत्थमुक्तदृशैवेदं जगदिच्छाविजृम्भितम् (क्, ख्: जगदिच्छा
विजृम्भते) ।
सर्वं विभोरतो मायाशक्तिवीर्यादणुः पृथक् ॥
आत्मानं बुबुधे भूयः प्रोक्तरीत्युपदेशतः ।
कालुष्यप्रक्षयेण स्यात्प्रतिमीलनमीश्वरे (क्: प्रतिमीलनमीश्वरैः)
॥
अपृथग्भावमापन्नो यदसौ परमेश्वरे ।
तदसौ परिपूर्णैकघनानन्दः शिवो भवेत्
[इत्थमुक्तशैवप्रक्रियायाः सारसङ्क्षेपोऽत्र निर्दिश्यते भूय इति,
संविन्मयानुत्तररूपः परमशिव एव स्वेच्छावीर्याक्रमणात्
शिवशक्त्यादिपल्लवोद्गमान् विस्फार्य शुद्धाध्वानमधिष्ठितः ।
एतावति अध्वनि निजचिद्घनस्वभावादप्रच्युतः, अधराअध्वनि तु
स्वरूपविस्मरणात्मक्रिडाप्रदर्शनाशयेन मायाप्रमातृता-
मधिश्रितो विश्वनाट्यमभिनयति । स एव तीव्रतमशक्तिपाता-
विर्भतज्ञानक्रियात्मालुप्तशक्तिविभवः शैवज्ञानपद्धत्या
क्षेत्रज्ञभावं निमज्ज्य कालुष्यप्रक्षये परिपूर्णचिदानन्द-
घनानुत्तरपरमशिवीभावमुन्मज्ज्य स्वस्थितिं प्रत्यापद्यते इति
शम् ।] ॥ ३-४५ ॥
इति सङ्क्षेपतः सम्यक् सूत्रवार्तिकमुत्तमम् ।
शतत्रयेण श्लोकानां नवत्या चोपवर्णितम् ॥
————— पगे ८९ ——————-
इति प्रकरणत्रयं सुघटमीषदुन्मीलितं
मया शिवमुखोद्गतं सुमतिसिद्धये साम्प्रतम् ।
विचार्य गतमत्सर्बुधैर्जनैर्गुणग्राहिभिः
सुसेव्यमिह तेष्वलं भवतु सिद्धिमोक्षप्रदम् ॥
इति काश्मीरिक-श्रीमदाचार्यभट्टदिवाकरात्मज-
भट्टश्रीभास्कर-विरचिते शिवसूत्रवार्तिके
विभृतिस्पन्दाख्यस्तृतीयः प्रकाशः ॥ ३ ॥
समाप्तश्चायं शिवसूत्रवार्तिकाख्यो ग्रन्थः ॥
श्रीशिवार्पणं भूयात् ॥
अथ
अकारादिक्रमेण शिवसूत्रवार्तिकग्रन्थसूत्राणां
सूची ।
प्र। सू। सम्। पृ।
————— पगे ९१ ——————-
अभिलाषाद्वहिर्गतिः
संवाह्यस्य (३-४०) ८२
अविवेको मायासौषुप्तम् (१-१०) १३
आत्मा चित्तम् (३-१) ४१
आसनस्थः सुखं ह्रदे निमज्जति (३-१६) ५८
इच्छा शक्तितमा कुमारी (१-१३) १५
उद्यमो भैरवः (१-५) ८
कथा जपः (३-२७) ६८
करणशक्तिः स्वतोऽनुभवात् (३-३७) ७८
कलादीनां तत्त्वानामविवेको माया (३-३) ४३
कवर्गादिषु माहेश्वर्याद्याः
पशुमातरः (३-१९) ६०
गर्भे चित्तविकासो विशिष्टोऽविद्या-
स्वप्नः (२-४) ३२
————— पगे ९२ ——————-
गुरुरुपायः (२-६) ३४
चित्तं मन्त्रः (२-१) २९
चित्तस्थितिवच्छरीरकरणबाह्येषु (३-३९) ८०
चैतन्यमात्मा (१-१) ५
जाग्रत्स्वप्न-सुषुप्तभेदे तुर्याभोग-
संवित् (१-७) १०
जाग्रद्द्वितीयकरः (३-८) ५०
ज्ञानं जाग्रत् (१-८) ११
ज्ञामन्नम् (२-९) ३८
ज्ञानं बन्धः (१-२) ५
ज्ञानं बन्धः (३-२) ४२
ज्ञानाधिष्ठानं मातृका (१-९) ७
तत्प्रवृत्तावपि अनिरासः
संवेतृभावात् (३-३२) ७३
तदारूढप्रमितेस्तत्क्षयाज्जीव-
सङ्क्षयः (३-४१) ८३
तद्विमुक्तस्तु केवली (३-३४) ७६
त्रितयभोक्ता वीरेशः (१-११) १४
त्रिपदाद्यनुप्राणनम् (३-३८) ८०
————— पगे ९३ ——————-
त्रिषु चतुर्थं तैलवदासेच्यम् (३-२०) ६२
दानमात्मज्ञानम् (३-२८) ६९
दृश्यं शरीरम् (१-१४) १६
धीवशात् सत्त्वसिद्धिः (३-१२) ५४
नर्तक आत्मा (३-९) ५१
नाडीसंहार-भूतजय-भूत-
कैवल्य-भूतपृथक्त्वानि (३-५) ४७
नासिकान्तर्मध्यसंयमात् किमत्र
सव्यापसव्यसौषुम्नेषु (३-४४) ८६
नैसर्गिकः प्राणसम्बन्धः (३-४३) ८५
प्रयत्नः साधकः (२-२) ३०
प्राणसमाचारे समदर्शनम् (३-२३) ६५
प्रेक्षकाणीन्द्रियाणि (३-११) ५३
बीजावधानम् (३-१५) ५७
भूतकञ्चुकी तदा विमुक्तो भूयः
पतिसमः परः (३-४२) ८४
भूतसन्धान-भूतपृथक्त्व-
विश्वसङ्घट्टाः (१-२१) २३
भूयः स्यात्प्रतिमीलनम् (३-४५) ८८
————— पगे ९४ ——————-
भेदतिरस्कारे सर्गान्तरकर्म-
त्वम् (३-३६) ७७
मग्नः स्वचित्ते प्रविशेत् (३-२१) ६३
मध्येऽवरप्रसवः (३-२२) ६४
महाह्रदानुसन्धानान्मन्रवीर्या-
नुभवः (१-२३) २६
मातृकाचक्रसम्बोधः (२-७) ३५
मात्राप्रत्ययसन्धाने नष्टस्य
पुनरुत्थानम् (३-२४) ६५
मोहजयादनन्ताभोगात् सहजविद्या-
जयः (३-७) ४९
मोहप्रतिसंहतस्तु कर्मात्मा (३-३५) ७६
मोहावरणात् सिद्धिः (३-६) ४८
यथा तत्र तथान्यत्र (३-१४) ५५
योनिवर्गः कलाशरीरम् (१-३) ६
योऽविपस्थो ज्ञाहेतुश्च (३-२९) ७०
रङ्गोऽन्तरात्मा (३-१०) ५२
लोकानन्दः समाधिसुखम् (१-१९) २१
वितर्क आत्मज्ञानम् (१-१८) २०
विद्याविनाशे जन्मविनाशः (३-१८) ५९
विद्याशरीरसत्ता मन्त्ररहस्यम् (२-३) ३१
————— पगे ९५ ——————-
विद्यासमुत्थाने स्वाभाविके
खेचरी शिवावस्था (२-५) ३३
विद्यासंहारे तदुत्थस्वप्नदर्शनम् (२-१०) ३९
विसर्गस्वाभाव्यादबहिःस्थितेस्तत्-
स्थितिः (३-१४२) ३९
विस्मयो योगभूमिकाः (१-१२) १५
शक्तिचक्रसन्धाने विश्वसंहारः (१-६) ९
शक्तिसन्धाने शरीरोत्पत्तिः (१-२०) २२
शरीरं हविः (२-८) ३७
शरीरवृत्तिर्व्रतम् (३-२६) ६७
शरीरे संहारः कलानाम् (३-४) ४६
शिवतुल्यो जायते (३-२५) ६६
शुद्धतत्त्वसन्धानाद्वा (१-१६) १९
शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः (१-२२) २५
सिद्ध स्वतन्त्रभावः (३-१३) ५५
सुखासुखयोर्बहिर्मननम् (३-३३) ७४
स्थितिलयौ (३-३१) ७२
स्वपदशक्तिः (१-१७) २०
————— पगे ९६ ——————-
स्वप्नो विकल्पाः (१-९) १२
स्वमात्रानिर्माणमापदयति (३-१७) ५९
स्वशक्तिप्रचयोऽस्य विश्वम् (३-३०) ७१
हृदये चित्तसङ्घट्टाद् दृश्यस्वाप-
पदर्शनम् (१-१५) १७
इति शिवसूत्रवार्तिकसूत्राणामकारादिक्रमसूचि समाप्ता ॥
अथ
शिवसूत्रवार्तिकान्तर्वर्तिनां
पारिभाषिकपदानां विवरणम् ।
पृ। सम्।
८८ अणुः सङ्कुचितप्रमाता । परिमितत्वात् अणुः ।
२४ अनुभवभूः प्रकाशभूमिः । चिच्छक्तिः
७५ अन्धतामिस्रः मरणत्रासः ।
७ अम्बा पराभट्टारिका । शशाङ्कशकलाकारा
शक्तिः ।
२४ अर्कः ज्ञानशक्तिः । ज्ञानशक्तिः प्रभोरेषा
तपत्यादित्यविग्रहा । इति (त।)। प्रमाणम्
प्राणः
३३ अलङ्ग्रासयुक्तिः प्रशमविशेषः । यत्र अलमत्यर्थं
सार्वात्म्येन सृष्टयादीनां ग्रासः
स्वात्मसात्कारः (त। ३ आ। ।
————— पगे ९८ ——————-
६ अविद्या भेदप्रथात्मा बन्धः । मोहः (७६ पृ।)
७६ अविवेकः मोहः ।
४४ अहङ्कारः संरम्भः ।
२७ आनन्दः अपानशक्तिः । आह्लादशक्तिः ।
२३ आपूरणी विसर्गसङ्घट्टिता कौलिकी शक्तिः । ऐन्द्री
शक्तिः । योगिनीवक्त्रम् ।
६ आवृतिः अविद्या । विकल्पानामुदयः (१३ पृ।) । मोहः
(७६ पृ।) ।
५८ आसनम् उदानाभिधः प्राणः ।
२६ इच्छाशक्तिः सर्वातिशायी शक्तिविशेषः । यद्वा परस्य
प्रमातुः सिसृक्षात्मा परामर्शः । (त। ३ आ। )
————— पगे ९९ ——————-
२४ इन्दुः क्रियाशक्तिः । प्रमेयः । अपानः ।
२३ ईशानी इष्यमाण स्फुटसमापत्तिमती
अक्षुब्धेच्छाशक्तिः । यद्वा
वैष्णव्यपरपर्याया शक्तिः ।
४५ ईश्वरतत्त्वम् प्रेर्यत्वम्, तस्यैव भेदप्रथा-
प्ररोहणायां प्रेषणाहेतुत्वात् ।
६४ उद्बुभूषा आद्यकोटिः ।
८ उद्यमः प्रसरद्रूपाया विमर्शमय्याः
संविदो झगिति उच्छलनात्मक-
परप्रतिभोन्मज्जनम् ।
८ उद्योगः उन्मेषः । उद्यमः । सृष्टिः । इच्छाशक्तिः ।
८ उन्मेषः उद्योगः ।
————— पगे १०० ——————-
४७ उल्लङ्घनवृत्तिः शक्तिसङ्कोचः ।
३५ औन्मनसं
धाम शाम्भवपदम् ।
८४ कञ्चुकम् पाशः । अवृतिः । मायादिनियत्यन्तं तत्त्व-
जालम् ।
४६ कलाः तत्त्वानि । तत्त्वानां स्वसामर्थ्यं ।
आदिच्छान्त वर्णसमूहः (६ पृ।)।
निवृत्त्यादयः ।
५ कलाचक्रम् मातृचक्रम् । शक्तिचक्रम् देवीचक्रम् ।
रश्मिचक्रम् । आदिच्छान्तवर्णसमूहः ।
४४ कलातत्त्वम् किञ्चित्कर्तृत्वसामर्थ्यम् ।
४४ कर्मेन्द्रिय-
गणः अक्षैर्भिन्नं कर्तृत्वम् ।
४४ कालतत्त्वम् इदानीन्तनभावे । आकलनम् ।
२३ क्रियाशक्तिः विश्वाकारवैचित्र्यधारित्वयोग्यता ।
————— पगे १०१ ——————-
३४ खेचरी मुद्राविशेषः, येन चिद्गगनाभोगे गतिर्-
भवति । शिवावस्था ।
२४ गुणस्पन्दाः सत्त्वादिवृत्तयः ।
४४ गुणाः सुखदुःखविमोहित्वानि ।
३५ गुरुः शाम्भवी अनुग्रहशक्तिः ।
३५ चक्रम् कलासमूहः ।
७२ चक्रेश्वरः मातृगणेश्वरः ।
५८ चण्डः मध्यप्राणः ।
११ जाग्रत् ग्राह्यग्रहणग्रहीतृरूपा ऐन्द्रियज्ञान-
शक्तिः ।
७६ जाड्यम् मोहः ।
२३ ज्ञानशक्तिः आमर्शात्मता (तं-सा। २ आ।)
७ ज्येष्ठा संहारात्मशक्तिविशेषः, यया सुप्रबु-
द्धानां शिवीभावापत्तिः । तदुक्तम् ज्येष्ठा
स्वातन्त्र्यलेशं तु तनुते ज्ञान कर्मणोः । इति।
(तम्। ६ आ।) ज्येष्ठा शिवमयी यतः । इति च
(मू। तम्। ६ आ।)
————— पगे १०२ ——————-
४३ तत्त्वम् विशेषरूपाणां वर्गाणामेकीकरण-
कारणम्, सामान्यसंवित् ।
४४ तन्मात्रक-
गणः शब्दमात्राद्यवभासित्वम् ।
७५ तमः आत्माभिमानः ।
७५ तामिस्रः कुटुम्बादिबाधाकर्तरि अमर्षणम् ।
२२ तुर्यभूः स्वस्वरूपैकघनताविमर्शः ।
८६ दक्षिणमार्गः सूर्यमार्गः ।
३७ दिव्यदेहः परदेहः ।
१८ दिव्यमुद्रा खेचरीमुद्रा ।
७० दीक्षा संस्कारविशेषः । स्वरूपज्ञप्तिदान-
पाशक्षपणात्मा ।
२७ दृक् प्राणशक्तिः । प्रकाशशक्तिः ।
————— पगे १०३ ——————-
७ देव्यः शक्तयः ।
८३ द्रष्ट्टधरा अभिलाषोद्गतेः पूर्वा कोटिः ।
८६ द्वादशान्तः प्राणापानयोः विश्रन्तिस्थानम् ।
४४ धीतत्त्वम् मन्तृता ।
८६ नादः अपानः ।
८६ नासा अन्तर्द्वादशान्तः ।
९ निमेषः शक्तिचक्रस्य स्वात्मनि विलीनतापादनम् ।
४४ नियतितत्त्वम् ममेदं कर्तव्यं पुण्यहेतुत्वात्, नेदं
कर्तव्यमपुण्यकारणत्वात् इति नियत्यात्मकता ।
२१ निरानन्दः प्रमातृसम्मतादानन्दात् निष्क्रान्तो
दशाविशेषः (त। ५ आ।) ।
६४ निष्कलजपः प्रणवाङ्गपरामर्शः ।
————— पगे १०४ ——————-
१३ पतिः शुद्धाध्वप्रमाता मन्त्रादिरूपः ।
मुक्ताणुः शक्तिभिरनावृतस्वस्वभावः ।
८० पदम् जाग्रदादि ।
३८ परदेहः परप्रमातृभावः ।
२१ परानन्दः परेण प्रमेयेन कृत आनन्दविशेषः (त। ५
आ।)
८ परिस्पन्दः असाङ्केतिकः पराहम्परामर्शः
५८ पवमानः मध्यमप्राणशक्तिः ।
१६-७७ पशुः अणुः । जीवः । कर्मात्मा । आणवादि-
पाबद्धः (८४ वृ।) ।
६० पशुमातरः घोराभिधाः शक्तयः ।
४४ पाञ्चभौतिक-
गणः भिन्नशब्दादितोद्वृत्तत्वम् ।
५२ पुर्यष्टकम् सूक्ष्मदेहः ।
६८ पौद्गलजपः अजपापरामर्शः ।
२३ प्रक्रियादेहः अधिकारशरीरम् ।
————— पगे १०५ ——————-
२० प्रतिभालोकः दृक्क्रियारूपिणी शिवस्य शक्तिः ।
४४ प्रधानतत्त्वम् सुखदुःखादिज्ञानस्य साम्यावस्था ।
८३ प्रबुद्धः दृष्ट्टधरानिवासी ।
४८ प्रभुशक्तिः स्वातन्त्र्यशक्तिः ।
६५ प्राणः परनादः ।
२१ प्रोल्लासभूमिः महानन्दः । आत्मचैतन्यावस्था ।
१५ बिन्दुः अविभक्तः शिवप्रकाशः । यद्वा भ्रूम-
ध्यादौ प्रदेशे ध्यानाभ्यासप्रकर्षेण
प्रवर्धमानोत्तरोत्तरः तेजोविशेषः ।
८६ बिन्दुः प्राणः ।
५७ बीजम् चिदात्मा ।
८३ बुद्धः द्रष्ट्टधराक्रमणशीलः प्रमाता ।
४४ बुद्धीन्द्रिय-
गणः अक्षैर्विशेषितं ज्ञत्वम् ।
————— पगे १०६ ——————-
८ भैरवः परमशिवः, भरणरवणवमनस्व-
भावत्वात् ।
६३ भैरववृत्तिः शक्तिविकासः
५८ मत्स्यवलनम् अधः शक्तिः ।
४४ मनः अक्षप्रयोक्तृता ।
३० मन्त्रः परप्रमाता । चिच्छक्तेः स्वस्वभावः
(३१ पृ।) ।
२७ मन्त्रवीर्यम् परावाक्परामर्शः ।
३७ मन्त्रेन्द्रता मन्त्रेश्वराख्यप्रमातृभावः ।
१४ मरीचिः शक्तिः । गुणस्पन्दः ।
२१ महानन्दः महान् प्रमाणादिदशाधिशायिनिरानन्दा-
दिवैलक्षण्यात् उत्कृष्टः प्रमातृसम्मत
आनन्दविशेषः (त। ५ आ।)
७५ महामोहः पुत्रादिषु आत्माभिमानः ।
२६ महाह्रदः शुद्धचिदात्मा, विश्वलहरीप्रसरणाश्रय-
त्वात् ।
७ मातरः योगिनीगणः । शक्तयः । रश्मयः । कलाः ।
देव्यः ।
७ मातृका ज्ञानाधारभूता शक्तिः । विश्वजननी
परावाक्शक्तिः ।
१३ माया स्वाङ्गकल्पेषु भावेषु विभेदबुद्धिः ।
मीनाति हिनस्ति इति मायाशक्तिरुच्यते (त। ९ आ।) ।
स्वरूपगोपनशीला शक्तिः (त। ५ आ।)
कलादितत्त्वानामविवेकः (४५ पृ।)
६ मायीयमलः अहं ममेदमिति भेदप्रथात्मकं
ज्ञानम् । भिन्नवेद्यप्रथा (ई। प्र। ३।१आ।)
६० माहेश्वर्या-
द्याः परादिभेदभिन्नाः शक्तयः ।
३३ मुद्रावीर्यम् खेचर्यवस्था ।
७७ मूर्छा मोहः । देहात्मता ।
————— पगे १०८ ——————-
२३ मूर्तिः स्फुटतमक्रियाशक्तिः । शूलशक्तिः ।
योगेशीशक्तिः ।
२४ मूर्तिक्रिया-
योगः भुवनादिरूपो मन्त्रादिरूपो वा अध्वा ।
अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च
संविदः । मूर्तिक्रियाभासनं यत् स
एवाध्वा महेशितुः इति (त। ५ आ।) ।
७५ मोहः देहात्मभावः ।
७६ मौर्ख्यम् मोहः । देहात्मभावः ।
६ योनिः शक्तिः, सा चतुर्धा-अम्बा-ज्येष्ठा-
रौद्री-वामाभिधैः भेदैः। मायाशक्तिः
(६१ पृ।)
७ रश्मयः शक्तयः । चिद्भैरवस्य वृत्तयः (७१ पृ।) ।
४४ रागतत्त्वम् इदमेव इष्टमस्ति इत्याकलनम् । पाशः ।
बन्धनम् ।
————— पगे १०९ ——————-
७ रौद्री स्थित्यात्मिका शक्तिः, यया बुभुक्षूणां
शिवीभावौन्मुख्येन संसार एवावस्थानम्
। तदुक्तं रौद्री सांसारिकानन्दं
कदाचिद्वितरेदपि । इति (त। ६ आ।) द्रावयित्री
रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् । इति
(मू। त। ६ आ।)
२१ लाभभूमिः परानन्दः । पराशक्त्यवस्था ।
२१ लोकः वस्तुग्रामः । ग्राहकवर्गः ।
शुद्धचित्प्रकाशः ।
३१ वाचकम् मन्त्रादि ।
३१ वाच्यम् कलादि ।
८६ वाममार्गः सोममार्गः ।
७ वामा सृष्ट्यात्मिका शक्तिः, यया
संसारिणामधोधः पातो भवेत् । वामा
संसारवमना इति (मू। त। ६ आ।) तदुक्तम्
अणुस्वरूपादृश्वानं वामाधो विनिपातयेत् ।
इति (त। ६ आ।) ।
————— पगे ११० ——————-
३२ वामा विजिज्ञास्योन्मेषाच्छुरिता यामलशक्तिः ।
स्फुटतरशृङ्गाटशक्तिः । शूलशक्तिः ।
योगेशीशक्तिः ।
२३ विज्ञान-
देहाख्याः (विज्ञानदेहो विशुद्धसंविन्मात्रमूर्तिः
महेश्वरः आख्यायते प्रत्यभिज्ञायते
याभिः इति विज्ञानदेहाख्याः)
सौम्यशक्तयः ।
२० वितर्कः (विश्वात्मा शिव एवास्मि इति) विचारः ।
३१ विद्या शुद्धचिन्मात्रतावेशात् सहसोन्मेषः ।
स्वप्रकाशविकासः ।
————— पगे १११ ——————-
४४ विद्यातत्त्वम् किञ्चिञ्ज्ञानसामर्थ्यम् ।
६४ विश्रामः अन्नकोटिः ।
२१ विश्राम-
भूमिः निरानन्दः । शिवावस्था ।
७८ विश्वमातरः माहेश्यादिशक्तयः ।
१४ वीरेशः मरीचिनिचयस्य ग्रासकर्ता । (यद्वा गुण-
स्पन्दानां भोक्तृत्वेन चमत्करणात्)
पतिप्रमाता ।
३६ वीर्यम् परा विमर्शशक्तिः । ज्ञत्वकर्तृत्व-
शक्तिः (५९ पृ।)
१२ वृत्तिः जाग्रत् ।
७ शक्तयः मातरः । माहेश्वर्याद्याः । कलाः ।
रश्मयः । अघोराद्याः शक्तयः ।
परापराद्याः । चिदादयः (७१ पृ।) ।
५ शक्तिः स्वातन्त्र्यम् । पराशक्तिः ।
————— पगे ११२ ——————-
९ शक्तिचक्रम् खेचर्यादिचक्रम् । सृष्ट्यादिदेवीचक्रम् ।
विश्वम् । इन्द्रियवर्गः । मन्त्रगणः ।
मुद्रागणः । चिदादिशक्तयः ।
४५ शक्तितत्त्वम् दृक्क्रियासङ्घट्टात्मा दशाविशेषः ।
६९ शक्तिपातः शिवरश्मिस्पर्शः (यस्य आपतने
यथार्करश्मिस्पृष्टः सूर्यकान्तः
स्वकामाभिज्वलनलक्षणां क्रियां
समाविशेत् तथा अणुरपि शिवशक्तिपात-पूतः
स्वके पूर्णे ज्ञानक्रिये, समभिव्यक्तस्व
सांविद्विभवो भवेदित्यर्थः) ।
६८ शाक्तजपः पराहम्भावपरामर्शः ।
४५ शिवतत्त्वम् स्वज्योतिष्ट्वम् ।
५८ शुचिः उदानः ।
१८ शुद्धतत्त्वम् परमशिवः ।
————— पगे ११३ ——————-
४५ शुद्धविद्या कलादितत्त्वानां विवेकः । शिवशास्त्रादि-
बोद्धृत्वम् । स्वातन्त्र्यशक्तिः (२५ पृ।) ।
भेदाभेदमयी तत्त्वदशा ।
८२ संवाह्यः कर्मात्मा । पशुः ।
३६ संवेदनम् आद्योऽनुभवः ।
४५ सदाशिवतत्त्वम् सर्वज्ञानक्रियावत्त्वयोग्यता ।
१५ समाधि -
व्यक्तयः योगभूमिकाः ।
२२ समाधिसुखम् पदद्वये स्वात्मविकासप्रमोदः ।
१३ सुषुप्तता क्षानज्ञेयशक्तेरनुदये चिद्रुपस्य
अविवेकः ।
२७ सोमांशः प्रमेयभागः । अपानः ।
१८ सौषुप्तव्योम हृदयम् ।
८६ सौषुम्न-
मार्गः मध्यवाहः ।
३६ स्पर्शः परसंवित्साक्षात्कारः । (त। ५ आ।) ।
२४ स्पर्शभूः आह्लादः । आनन्दशक्तिः । सुखादिसम्-
बन्धिन्या आद्यायाः संविदो यत् आद्यं
संवेदनं स नाम अनुत्तरसंविदः
स्पर्शभूः, परसंवित्साक्षात्कारः (त। ५
आ।) ।
————— पगे ११४ ——————-
८७ स्वच्छन्दः स्वतन्त्रः । शिवः ।
१२ स्वप्नः बाह्यार्थविषयाभावे अन्तर्विकल्पानां
नवनवोदयः ।
५५ स्वातन्त्र्यम् प्रभुशक्तिः ।
६८ हंसजपः नादकलापरामर्शः ।
२३ हार्दी सिद्धयोगिनीमेलापशक्तिः । याम्या शक्तिः ।
५८ ह्रदः चिदात्मा ।
इति शिवसूत्रवार्तिकान्तर्वर्तीनि पारिभाषिकपदानि सविवरणानि
समाप्तानि ॥