२ सहजविद्योदयः

अथ

सहजविद्योदयाख्यः

द्वितीयः प्रकाशः

————— पगे २९ ——————-
उक्तक्रमेण शिवतां सर्वज्ञानक्रियावतः ।

उपपाद्यात्मनस्तत्र मान्त्रं वीर्यं च यादृशम् ॥ २-१ ॥

पुनराहात्र वक्तव्यं मान्त्रं स्वं रूपमेव यत् ।

कोऽसौ मन्त्रो यस्य वीर्यं तदर्थं भगवानजः ॥ २-२ ॥

चित्तं मन्त्रः
[उक्तोपायः तीव्रतरादिशक्तिपातवतांसुप्राप्यः ।
मन्दशक्तिपातवतां तु मन्त्रवीर्यं समापत्तुं पौनःपुन्येन
श्रुतस्मरणादिवशात् अस्फुटतादिक्रमेण
स्फुटतमत्वाद्यापत्तिपर्यन्तं विकल्पसंस्करणात्
मन्त्रादिनिभालनात्मकमुपायान्तरं ( येन परस्फुरत्तासंवेदन

  • भेदप्रथनोपशमने सहजविद्योदयः ) उपेयपदप्राप्तये
    आरभ्यते चिदेव प्राक् विश्वक्रीडनप्रारिप्-सायां
    निजाकालकलितचिन्मयपदवीतः अधोभुवमवतरन्ती
    परिमितभावपरिग्रहणपुरःसरमुल्लासितसङ्कुचितचेत्यं प्रति
    औन्मुख्यं गृह्णाना चित्तमिति प्रोच्यते । सैव पुनः
    स्वपदारुरुक्षायां सोपानाद्यधिरोहण-क्रमेण
    पारिमित्यमुज्झती ईशनशीला चित्प्रकाशघनशिवतामयी सम्पद्यते
    । अतः तन्मनो वेद्यमुपसंहृत्यान्तर्मुखीभावेन स्वतन्त्रत्वात्
    स्वं महः पराम्रष्टुं पर्याप्तम्, तत्परामर्शनधर्मित्वात्
    चित्तमन्त्रयोरभेदोपचारः ।] ॥ २-१ ॥

————— पगे ३० ——————-
चित्तमेव शिवो ज्ञेयः प्रमाता निरुपाधिकः ।

सर्वज्ञतादिगुणवान् दिक्कालकलनोज्झितः ॥ २-३ ॥

स्वात्मानुभवधर्मित्वात्स मन्त्र इति गीयते ।

तत्कथं (तत्कथामिति पद्यार्धं पुस्तकान्तरेष्वविद्यमानं ग
पुस्तकाअत्प्रक्षिप्तम् ।) योगिनां सिद्ध्येत्तदाह परमेश्वरः ।

प्रयत्नः साधकः ॥ २-२ ॥

चित्तरूपसमावेशे [भूयो भूयो बाह्यवृत्तिसंहरणात्
ज्ञात्रादिभीन्नसंवेदनविलयपूर्वं प्रोक्तमन्त्रस्वरूपात्-
मध्येयाकारतादात्म्यप्रत्ययैकतानतायाः प्रवहद्रूपत्व-मेव
साध्यप्राप्तौ प्रकृष्टापकारकमित्यर्थः ।] प्रयत्नोऽतिशयः
स्मृतः ॥ २-४ ॥

पूर्वोक्तवीर्यवृत्त्यासौ पुनरुक्तनिभालनात् ।

स एव साधकस्तत्र प्रकृष्टः परिकीर्तितः ॥ २-५ ॥

————— पगे ३१ ——————-
चित्तत्त्वमात्मनः सिद्धं वक्ष्यमाणनयेन च ।

त्रिकसारे षट्सहस्रे शिवेनैव निरूपितम् ॥ २-६ ॥

चिच्छक्तेः स्वस्वभावो यः स मन्त्रः परिगीयते ।

यन्नैरन्तर्यमननाद्योगी रूढशिवावनिः ।

यद्वशात्परमार्थज्ञा योगिनो योगचिन्तकाः ॥ २-७ ॥ २-२ ॥

एवमादिश्य भगवान्वाचकानां स्वरूपकम् ।

वाच्यवाचकयो रूपमभिन्नं भेदयोगि वा ॥ २-८ ॥

स्यात्तदर्थं प्राह सूत्रं स तदर्थप्रकाशकम् ।

विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ २-३ ॥

शुद्धे चिन्मात्रतावेशादुन्मेषः सहसैव यः ॥ २-९ ॥

स्वप्रकाशविकासाख्या सा विद्येति निरूपिता ।

शरीरसत्ता सा मान्त्री रहस्यं परमं च तत् [इत्थं
मन्त्रवीर्यप्रविविक्षायां साधकस्य भेदास्पदतया
प्रकाशमानो वाचकात्मा मन्त्रः स्वव्यापारसमन्तरम्
अशेषविश्वाभेदमयेन पूर्णाहंविमर्शनसारस्फुरणात्मना
वाच्येनाभिन्न एव । ऽप्राक्संवित्प्राणे परिणताऽ इत्युक्तनीत्या
बिन्दुस्वरूपिणी परावाङ्मयी शक्तिः क्रियाशक्तिस्फारमयनाद-
रूपेण सूक्ष्मप्राणतामाश्रित्य परनादगर्भा चित्प्रकाशस्य
प्राधान्येन अनुदितवाच्यवाचकक्रमां पश्यन्तीरूपतामुन्-मील्य,
तदनु बुद्ध्याधिष्ठानां क्रमस्य स्फुटास्फुटतया
मध्यमाम्, ततोऽपि करणप्रधानां वैखरीं च स्फुटक्रमां
प्रोन्मीलयति-इत्येतावतः प्रसरक्रमस्य प्राच्यतररूपानुगततया
प्रकाशमानतान्यथानुपपत्तेः परतरवाच्याभिन्नमेव
मन्त्रचक्रमित्यर्थः ।] ॥ २-१० ॥
॥ २-३ ॥

————— पगे ३२ ——————-
एवं स्थिते रहस्येऽर्थे मन्त्ररूपे यथायथम् (क्: ऽएवं स्थिते
यस्य यस्य मन्त्ररूपो यथायथम् । तथा स देहिभिर्मान्त्र उपायः
परमोदयम्ऽ) ।

एष्टव्यो देहिभिर्मान्त्र उदयः परमोदयः ॥ २-११ ॥

कथं स्यादत्र च विभुः सूत्रमाह यथार्थवत् ।

गर्भे चित्ताविकासो विशिष्टोऽविद्यास्वप्नः
(शिवसूत्रविमर्शिन्यां हि ऽगर्भे चित्तविकासोऽविशिष्टविद्या-स्वपनःऽ
इत्येवंविधः पाठोऽस्ति) ॥ २-४ ॥

प्रकाशानन्दसारान्तर्व्यावर्तनबलाद्भृशम् ॥ २-१२ ॥

विषयेभ्यो निवृत्तस्य मनसश्चिन्मयी स्थितिः (ऽविषयेभ्यऽ
इत्याद्यारभ्य ऽविलोपनम्ऽ इत्यन्तं सार्धपद्यद्वयम्; ग
पुस्तकात्सङ्गृहीतम् ।) ।

परो विकासश्चिच्चन्द्रचन्द्रिकामृतनिर्भरः ॥ २-१३ ॥

स्रवच्छाक्तामृतापूराप्लुतानन्दिजगन्मयः ।

————— पगे ३३ ——————-
तत्सद्भावादविद्यायाः प्रथयन्त्या धरादिभिः ॥ २-१४ ॥

तत्त्वजालैरलङ्ग्रासयुक्त्या स्वप्नो वोलोपनम् ।

तदेवं सति विद्यैव यथावत्प्रतिपादिता ॥ २-१५ ॥

सोपायेयमतः सर्वमन्त्रमुद्रास्वरूपिणी (क्: सोपदेशमतः सर्व- ।)
[मान्त्रोदये चित्तस्य प्राकृतस्वभावविनाशेन तद्गुणापादितानां
विसृणामवस्थानां स्वरूपविप्रलोपात् अत्युन्नतपरपदावेशा-
रुढिरुपायः । एवं वीर्यलाभे सति मन्त्रान्तराणां
तत्सञ्जीवितानामधिकार्यसमृद्धौ शक्त्याधानं प्रयोज्यते,
अन्यथा औत्तराधर्येण स्थितयोरात्मशिवयोर्मन्त्रनियोजना
जाड्यनैष्फल्यमादधना वैयर्थ्यमियादिति भावः ।] ॥ २-४ ॥

मान्त्रं वीर्यं तत्स्वरूपं तद्विमर्शं तथोदयम् ॥ २-१६ ॥

प्रतिपाद्य पुनर्मुद्रावीर्यार्थं प्राह शङ्करः ॥

विद्यासमुत्थाने स्वभाविके खेचरी शिवावस्था [यया
परचिदाकाशे योगी चरति सा खेचरी मुद्रा, साक्षात् शिवावस्थैव ।
अत्र मुद्रामन्त्रवीर्ययोर्मायीयसमस्तक्षोभप्रशान्त्या
चिदात्मकस्वरूपोन्मज्जनैकलक्षणमवस्थासाम्यमस्ति केवलं
बाह्यार्थज्ञाने कार्यभेदात् पृथगर्थता ज्ञायते इत्यर्थः ।] ॥ २-५ ॥

स्वालोकलक्षणा शुद्धा यैव विद्या निरूपिता ॥ २-१७ ॥

————— पगे ३४ ——————-
समुत्थाने तदुदयो यथावत्प्रागुदीरितम् ।

स्वाभाविकं स्यात्सहजं बलमात्मन्यकृत्रिमम् ॥ २-१८ ॥

तदेवं सति तस्मिंस्तन्मुद्रावीर्यं विजृम्भते ।

खेचरी सा शिवावस्था शिवव्योम्न्युदिता यतः (तदेवमिति
पद्यार्धम्पुस्तकान्तरेषु अविद्यमानं गऽ पुस्तकाधारेण
पूरितमस्ति ।) ॥ २-१९ ॥

खे स्वचिद्गगनाभोगे चरणात्खेचरीति सा ।

ध्येयानुकारतादात्म्यप्रतिपत्त्युदयात्मिका (क्, ग्: ध्येयाकारस्य
तादात्म्या-) ॥ २-२० ॥

अत एव शिवावस्था स्वरूपावेशशालिनी ॥ २-५ ॥

एवं मौद्रं च मान्त्रं च वीर्यं स्यादेकरूपकम् ॥ २-२१ ॥

कार्यभेदाद्भेदयोगि बाह्यार्थप्रतिपत्तितः ।

अतो मुद्रामान्त्रवीर्यव्याप्त्युपायार्थमाह च ॥ २-२२ ॥

गुरुरुपायः [गुरुरत्र मन्त्रादिबललाभे पारमेश्वरी
अनुग्राहिका शक्तिरुपेयपदप्रापिणी, यया अनुत्तरे परमशिवाख्ये
औन्मनसपदे विश्रान्तिभाग्भवति भक्तजनः ।] ॥ २-६ ॥

————— पगे ३५ ——————-
प्राप्तावत्र गुरुः शक्तिरुपायः परमः स्मृतः ।

यतः सा शाम्भवी शक्तिरनुग्रहकरी सदा ॥ २-२३ ॥

उत्पाताद्रक्षितोरजन्तुः क्रियते भवनिस्पृहः ।

तदधिष्ठितदेहोऽसौ (क्: तदधिष्ठितदेहस्य) नीयते सद्गुरुं प्रति ॥ २४

वक्तृत्वात्तात्विकार्थानामुपेयपदलम्भनात् (वक्तृत्वादित्यारभ्य
सार्धपद्यं पुस्तकान्तरेष्वनुपलक्ष्यमाणं ग। पस्तकात्
सङ्गृह्योपन्यस्तम् ।) ।

गुरुरौन्मनसे धाम्नि विश्रान्तिपथदर्शकः ॥ २-२५ ॥

एवं गुरौ प्रसन्ने तु किं भवेत्तत्प्रदर्श्यते ।

मातृकाचक्रसम्बोधः ॥ २-७ ॥

स्वाभासा मातृका ज्ञेया क्रियाशक्तिः प्रभोः परा ॥ २-२६ ॥

तस्याः कलासमूहो यस्तच्चक्रमिति (क्: तस्य कालः समूहश्च-)
कीर्तितम् [अनुत्तरमूर्तेः परमशिवस्य स्वेच्छया विश्वं सिसृक्षोः
प्रथमस्पन्दात्मिका स्वरूपप्रत्यवमर्शनलक्षणा तदभिन्ना
मातृकाख्या क्रियाशक्तिरस्ति, सैव अम्बा-ज्येष्ठा-वामा-
रौद्रीरूपं शक्तिचतुष्टयं विभाव्य ध्रुवेच्छोन्मेषादि-
कलानां प्रसरविश्रान्त्यादौ अन्योन्यव्यतिमिश्रणात् उद्भविष्यन्तं
बीजात्मकशुद्धाध्वानं तदभेदवेदनरूपं बिन्दुं च
प्रोल्लास्य उत्स्रक्ष्यदधरभूमेः विसिसृक्षारूपं विसर्गं
प्रदर्शितवती, योन्यात्मशाक्तोल्लासमयमशुद्धा-ध्वानं
प्रपञ्चयति । तत्र सर्वशक्तिचक्रक्रोडीकारिण्या इच्छाशक्तेः
प्राणनात्मतावतारे अनाहतध्वनिविवर्तनपूर्वं
पदवाक्यादिगर्भप्राणक्रियासमुद्भवः । अतो मातृकैव एतावतो
वाच्यवाचकात्मकस्य विश्वस्य प्रपञ्चयित्री मन्त्राणां
मुख्यमादिकारणम् इत्यर्थः ।] ।

————— पगे ३६ ——————-
तस्य सम्यक् परिज्ञानं यत्सम्बोधः स इष्यते ॥ २-२७ ॥

सति तेन विवर्तो यो वाच्यवाचकलक्षणः ।

क्रियाशक्त्युदितत्वात्स भिन्नोऽभिन्नः सदायतः ॥ २-२८ ॥

नित्योदितानस्तमितप्रकाशवपुषः पुरा ।

विर्यौन्मुख्यात्प्रभोरिच्छाशक्तेः समुदयो भवेत् ॥ २-२९ ॥

ततः संवेदनस्पर्शौ प्रादुर्भूतौ ततः पुनः ।

सर्वार्थप्रतिभासश्च ततो ध्वनिरनाहतः ॥ २-३० ॥

पदवाक्यार्थगर्भः स्यात्ततः प्राणात्मिका (क्: ततश्च
पदवाक्यार्थगर्भा प्राणात्मिका) क्रिया ।

पञ्चाशद्वर्णगर्भा वाक् ततः सर्वस्य (क्, ग्:
पञ्चाशद्वर्णगर्भान्तर्विश्वसर्गस्य) सम्भवः ॥ २-३१ ॥

————— पगे ३७ ——————-
मन्त्रादिवस्तुजातस्य मूलमेकं ततः स्मृता ।

मातृकैव क्रियाशक्तिः शिवस्येत्थं विजृम्भते ॥ २-३२ ॥

मातृकाचक्रसम्बोध (क्: प्रमातृचक्रसम्बोध) एवं जातो यदा
तदा ।

यद्यद्वक्ति प्रबुद्धः सन्प्रभुर्मन्त्रेन्द्रतामियात् [एवं
सम्बोधवतः प्रबुद्धस्य यत्किञ्चन निरन्वयं लौकिकं वा
भाषणमयमपि, तत् मन्त्रवत् स्वकार्यसम्पत्तौ निर्यन्त्रणं
प्रसरेदिति ।] ॥ २-३३ ॥ २-७ ॥

इत्थं प्रज्वालिते मान्त्रे तेजसि प्रज्वलत्यलम् ।

कार्मं पुनर्भवकरं वपुस्तत्राह शङ्करः ॥ २-३४ ॥

शरीरं हविः ॥ २-८ ॥

ज्ञानानले [मान्त्रं दिव्यदेहमाश्रित्यासीनस्यास्य
सर्वभावजालचिदग्निसात्करणलक्षणेष्टिं कुर्वतो यजमानस्य
मायीयप्रमातृताप्रशान्त्या सर्वाहम्भावपरवीर्यात्म-
मान्त्रशरीरसम्पत्तौ देहबन्धनहेतोः कार्ममलस्य
विनस्टिरित्याशयः ।] प्रज्वलिते मन्त्रतादात्म्यलक्षणे ।

शरीरं प्रगलत्येव भौतिकं कर्मबन्धनम् ॥ २-३५ ॥

हविर्भूतमतश्चाथ (क्: हविर्भूतमय-) दिव्यदेहाश्रयाद्यतः ।

————— पगे ३८ ——————-
एष एव परो देहो यजमानस्य चिद्विभोः (क्: यजमानश्च
चिद्विभुः) ॥ २-३६ ॥

निरर्गले महासत्त्वे नित्योदितमहानले ।

यदर्पर्णं शरीरादेर्भावजातस्य सर्वदा ॥ २-३७ ॥ २-८ ॥

एवं परं ज्ञानकायस्थितस्यान्नं किमाह च ।

ज्ञानमत्रम् [परावस्थायां स्वात्मवैभवविजृम्भणं
परिशीलयन् असावत्यन्तं निराकाङ्क्षः, अन्तर्बहिःस्वात्म-
विस्फुरणमये विश्वस्मिन् भरितस्वभावत्वात्; व्यवहारे तु कदाचित्
शरीरभूमिकायां वर्तमानः प्रबुद्धनटवत् स्वात्मचमत्-
करणपूर्वं पात्रीभूय अभिनयान् निर्वहन् विषयेन्द्रियैः
विषयजातं परामृतरसाच्छुरितमाहृत्य स्वात्मने समर्पयति, न तु
विषयासक्त्या स्वरूपस्फूर्तिं विस्मृत्य पशुरिव
अधरावस्थामधितिष्ठतीति भावः ।] ॥ २-९ ॥

ज्ञानमत्र परं सम्यगुक्तं प्रकरणद्वये (क्, ख्:
प्रकरणद्वयम्) ॥ २-३८ ॥

तदेवान्नमिव ज्ञेयं परितृप्त्युपपादकम् ।

————— पगे ३९ ——————-
यतः प्रपूर्णतैव स्यादसकृत्तन्निभालनात् ॥ २-३९ ॥

तदेवं सत्यविद्यायाः संहारस्तेन किं भवेत् ।

तदर्थं चास्य निष्पत्त्यै खण्डमाहामरार्चितः (क्: खण्डस्याह
महेश्वर) ॥ २-४० ॥

विद्यासंहारे तदुत्थस्वप्नदर्शनम् [
इत्थमुक्तप्रक्रियार्थ-निभालनेन किञ्चिज्ज्ञत्वलक्षणाया
अविशिष्टविद्याया निमज्जने तदुत्पन्नानां
स्वरूपशून्यार्थनिर्भासनविकल्पमयानां
भवाभवादिजगतां स्वप्नवत् निरुपादानसामग्यं
स्वस्वातन्त्र्यात् गिरिनगरोपवनादिवैचित्र्येण
संवेदनस्वच्छतमदर्पणे निमग्नोन्मग्नानां
चित्सत्ताव्यतिरेकितां प्रत्यवेक्षमाणो योगी निरङ्कुशं शिववत्
नित्यसर्वज्ञतादिशक्तिः सहजविद्योदयपदे विहरतीत्यर्थः ।] ॥ २-१० ॥

संसारवेदनी (क्: संहारे वेदनी) विद्या ह्यविशिष्टा निरूपिता ॥ २-४१ ॥

तस्याः संहार एव स्यात्स्वप्रकाशोदये सति ।

संहारे सत्यविद्योत्थं भावजातं विमोहकम् ॥ २-४२ ॥

स्वप्नरूपं (क्: स्वप्नजातम्) स्मृतं तस्य दर्शनं प्रत्यवेक्षणम्

इत्येवं परमेशेन सङ्गृह्य च निरूपितम् ॥ २-४३ ॥

————— पगे ४० ——————-
प्रबुद्धता वृत्त्युदये सा निरङ्कुशवत्स्थितिः ।

स्वालोककलनात्मत्वं ध्येयैक्यं नित्यतृप्तता ॥ २-४४॥
॥ २-१० ॥

द्वितीयमेतत् सहजविद्योदयनिरूपकम् ।

शिवसूत्रप्रकरणं समाप्तमिह साम्प्रतम् ॥ २-४५ ॥

प्रवक्तव्यमतश्चात्र विभूतिस्पन्दलक्षणम् ॥

ज्ञानयोगबलप्राप्तौ चिन्तामणिरिवापरः ॥ २-४६ ॥

इति काश्मीरिकश्रीभत्टदिवाकरात्मज-भट्टभास्कराचार्यविरचिते
शिवसूत्रवार्तिके सहजविद्योदयाख्यो द्वितीयः प्रकाशः ॥ २ ॥