१ सामान्यचित्प्रकाशस्वरूपनिरूपणम्

ॐ नमः श्रीशम्भवे स्वात्मानन्दप्रकाशवपुषे ।

अथ

शिवसूत्राणि ।

श्रीभट्टभास्कराचार्य-विरचितवार्तिकोपेतानि ।

तत्रायं प्रथमः प्रकाशः

————— पगे १ ——————-
हिमगिरितनयाकान्तं शशधरकलिकोत्तंसम् ।
स्थितिलयजनिकर्तारं प्रणमत वरदं देवम् [अतिस्वच्छतरात्
अनुत्तरध्रुवपदात् उन्मिषितया स्वस्वातन्त्र्यशक्त्या कमनीयम्,
विश्वसञ्जीविनी अमाख्या कला उत्तंसो मुख्यमुपकरणं यस्य
तादृशम्, सृष्ट्यादिपञ्चकृत्यकरणशीलम्, देवं
द्योतनादिसतत्त्वं विश्वोल्लासनादिक्रिडापरं च,
प्रोत्कृष्टस्वात्मलाभात्मवरदं स्वात्मानं समाविशतेत्यर्थः ।
बाह्यार्थस्तु स्पष्टः । अत्र प्रथमपादे
शक्तिमत्स्वरूपप्रधानतया सामान्यचित्स्वरूपस्य, द्वितीये
शाक्तस्वरूपप्राधान्येन सहजविद्योदयस्य, शिष्टे
विश्वनाट्योल्लासिरूपमुख्यतया विभूतेर्वर्णनात्
वक्ष्यमाणप्रकाशत्रयोपक्षेपणं कृतम् ।] ॥ १-१॥

————— पगे २ ——————-
नित्योदितनिजाभासस्फुरत्तानिह्नुतात्मने ।

शिवाय परिपूर्णैकचिद्रूपवपुषे नमः [सदोदितस्वप्रका-
शात् अनवरतं प्रसरद्रूपिण्या स्वाभिन्नोच्छलद्विशदतमनीला-
दिस्फुरत्तया आवृताकृतेः शिवस्य सङ्कुचिताण्।वात्मप्रकटी-
करणम्, वस्तुतः तावदस्थ्येऽपि पूर्णसच्चिद्धनभावस्यान-
पहानिरित्याशयः, अनेन तृतीयप्रकाशे उपक्रमाभ्यासादिषु
वक्ष्यमाणसारार्थसर्व-स्वं सूच्यते ।
आदर्शपुस्तकविशेषे उपलक्ष्यमाणो गुरुपारम्पर्योप-
दिष्टार्थस्तु यथा-स्वात्मैव शिव इति, तथा चोपनिबत्स्यते
ऽतत्रात्मन्येव शिवता सर्वस्याखण्डितैव हिऽ इति । अथ कथं
संसारिणः शिवत्वं ? अत्रोच्यते-विमोहिनीशक्तिवशात्
अयमाच्छादित इव भवति, न त्वाच्छादितः परमार्थतः सदा
प्रकाशमानत्वात्, तदाच्छादने सर्वव्यवहारोच्छेदः स्यात् तथा च
वक्ष्यते

ऽसा चास्त्यहन्तेदन्तादि ज्ञानाभासादिनावृता ।ऽ

इति । किं तर्हि तदपसरणकारणम्?-ईश्वरानुग्रह एव । तथा च

ऽशक्तिपातवशाद्देवि नीयते सद्गुरुं प्रतिऽ

इति । तत्रानुग्रहे सति स्वस्वरूपं कथितरूपं स्फुटीभविष्यति । तथा
तस्य चैवं-विधस्य स्ववशे एव सर्वं भवति । तद्वक्ष्यते

स्वस्वरूपं शिवः साक्षात् ।

इत्यादि ।] ॥ १-२ ॥

श्रीमन्महादेवगिरौ वसुगुप्तगुरोः पुरा ।

सिद्धादेशात्प्रादुरासन् शिवसूत्राणि तस्य हि ॥ १-३ ॥

सरहस्यान्यतः सोऽपि प्रादाद्भट्टाय सूरये ।

श्रीकल्लटाय सोऽप्येवं चतुःखण्डानि तान्यथ ॥ १-४ ॥

————— पगे ३ ——————-
व्याकरोत्त्रिकमेतेभ्यः स्पन्दसूत्रैः स्वकैस्ततः ।

तत्त्वार्थचिन्तामण्याख्यटीकया खण्डमन्तिमम् (क:-टीकायाः
खण्डमिति) ॥ १-५ ॥

एवं रहस्यमप्येष मातुलेयाय चावदत् ।

श्रीमत्प्रद्युम्नभट्टाय सोऽपि स्वतनयाय च ॥ १-६ ॥

श्रीमत्प्रज्ञार्जुनाख्याय प्रादात्सोऽप्येवमावदत् ।

श्रीमहादेवभट्टाय स्वशिष्यायाप्यसौ पुनः ॥ १-७ ॥

श्रीमच्छ्रीकण्ठभट्टाय प्रददौ स्वसुताय च ।

तस्मात् प्राप्य करोम्येष सूत्रवार्तिकमादरात् ॥ १-८ ॥

दैवाकरिर्भास्करोऽहमन्तेवासिगणेरितः ।

यस्मादागमविभ्रंशाद्भान्तेर्भ्रमितबुद्धयः ॥ १-९ ॥

सुकुमारा अतस्तानि सूत्राणि विवृणोमि च ।

————— पगे ४ ——————-
तत्रात्मन्येव शिवता सर्वस्याखण्डितैव [स्वात्मैव शिवः
चिदात्मा न तु व्यतिरिक्तो वाद्यन्तराभिमत इव, शिवता हि सर्वस्य
स्वानुभवसिद्धा परिपूर्णालौकिककार्यकारणात्मैश्वर्या-
श्रया सर्वविश्रान्तिस्थानं यत्प्रत्यभिज्ञापनायानुक्षणं
व्यवहारदशायां भावसर्जनादिकृत्यस्वातन्त्र्यमुपलक्षणं
चिदणुषु सहृदयैकावगम्यमस्ति । सैव स्वेच्छाविर्भावितमाया-
प्रमातृतावशात् इदन्ताज्ञानसम्पादितावृतिरिव पुद्गलैरुप-
लब्धुं न पार्यते, अतस्तद्विज्ञानायानुग्राह्यजनानुजिघृक्षोः
श्रीशिवात् सूत्राणामवतारः ।] हि ॥ १-१० ॥

सदास्त्यहन्तेदन्तादिज्ञानाभासादिनावृता ।

तस्यावृतिविनाशाय स्वरूपज्ञप्तये शिवः ॥ १-११ ॥

सक्रमज्ञानपूर्वाणि (क्: सङ्क्रामे ज्ञानेति-) सूत्राण्याह
कृपाकुलः [तीव्रतरशक्तिपातिनः शाम्भवज्ञानेन,
तीव्रमध्यशक्त्यनु-गृहीताः शाक्तज्ञानेन, मन्दशक्तिपातवन्त
आणवज्ञानेन ऊर्ध्वोर्ध्वतरादिसोपानाधिरोहणक्रमेण
सर्वोर्ध्वपदवीमा-सादयन्ति इत्यतोऽधिकारिजनापेक्षया
सूत्राणां सक्रममुपन्यासः ।] ।

स्वस्वरूपं शिवः साक्षात्तस्योन्मेषनिमेषतः [उन्मेषो नाम
शक्तिप्रसरः , निमेषो नाम तत्सङ्कोचः, तन्निबन्धिन्यावेव
विशुद्धसंविन्मात्ररूपस्य जगतः चिदिच्छादिकलाचक्रस्य
तन्निमित्तस्य शिवादितत्त्वपञ्चकस्य वा खेचर्यादिशक्तिप्रसरणस्य
वा सृष्टिस्थिती ।] ॥ १-१२ ॥

————— पगे ५ ——————-
शक्तिप्रसरसङ्कोचनिबद्धावुदयव्ययौ ।

जगतो ज्ञानदेहस्य कलाचक्रस्य चोद्भवः ॥ १-१३ ॥

तत्स्वरूपस्योपन्यासे (क्: तत्स्वरूप-उपन्यास) बह्व्यो
विप्रतिपत्तयः [मलप्रतिबन्धतारतम्यात् वादिनां विमतयः सन्ति ।
तत्र लौकिकाः चैतन्यविशिष्टं शरीरम्, नैयायिका
ज्ञानादिगुणिनं बुद्धितत्त्वप्रायम्, मीमांसकाः पुर्यष्टकम्,
सौगता ज्ञानसन्तानम्, केचित् श्रुतिविदः
शून्यमभावब्रह्मात्मकम्, माध्यमिका अप्येवम्,
पाञ्चारात्रा अव्यक्तम्, साङ्ख्या विज्ञानकलावस्थाम्, केचित्
वेदविद ईश्वरतत्त्वम्, वैयाकरणाः सदाशिवतत्त्वम्,
विश्वोत्तीर्णतन्मयतादिस्वभावं त्रिकादिदर्शिन आत्मानं
पर्तिपद्यन्ते । सर्वे अमीपारमार्थिकस्वातन्त्र्यवञ्चिता मायया
भेदभूमिमापन्नाः ।] ।

संस्थितास्तद्व्युदासार्थं शिवः सूत्रमरीरचत् (ख्: शिवसूत्रमिति-
; ग्: शिवसूत्राण्यरीरचत्) ॥ १-१४ ॥

चैतन्यमात्मा ॥ १-१ ॥

चौतन्यमात्मनो रूपं सिद्धं ज्ञानक्रियात्मकम् ।

तस्यानावृतरूपत्वाच्छिवत्वं केन वार्यते ॥ १-१५ ॥

तदावृतेरुपन्याससूत्रमाह (क्: तदावृत उपन्यासेति-) महेश्वरः ।

ज्ञानं बन्धः ॥ १-२ ॥

————— पगे ६ ——————-
अहं ममेदमिति यज्ज्ञानं भेदप्रथात्मकम् (ग्:-
ज्ञानभेदिति-) ॥ १-१६ ॥

शव्दानुवेधतो जातं मायीयमलमूलकम् (ख्:
मायीयमलपूर्वकम्) [परमेशर्वस्यैव नित्यविभुस्वरूपस्य
दुर्घटनासम्पादयित्र्या स्वमायाशक्त्या
विश्वात्मनाट्योद्भासनाय नटस्येवाकल्पेन स्वात्मैश्वर्यमपह्न
य सङ्कोचग्रहणेनाण्।वात्मभूमिका-मध्यासीनस्य
प्रकाशान्वयव्यतिरेकानुविधायितया सत्त्वाससत्त्वविकल्पोपहतत्वात्
स्वात्मा व्यतिरेकिषु भावेषु अहं ममेदमिति-
कॢप्तशव्दसम्बन्धितया भिन्नभिन्नप्रथात्मकं यज्ज्ञानं
तदेव निजैश्वर्यावरणलक्षणाणवमलं बन्धात्मकं
मायीयं मलमुक्तमित्यर्थः ।] ।

तद्वन्धनं समाख्यातमविद्यावृतिलक्षणम् ॥ १-१७ ॥

शव्दानुवेधने त्वस्मिन्कारणं (क्: शव्दाविद्याभिधे
त्वस्मिन्कारणे) किमतोऽवदत् ।

सूत्रं पशोर्मोहिकानां (ग्: मोहकीनामिति) कलानां प्रतिपादकम्
॥ १-१८ ॥

योनिवर्गः कलाशरीरम् ॥ १-३ ॥

योनयः शक्तयो ज्ञेयाश्चतस्रः सर्वकारणम् ।

————— पगे ७ ——————-
अम्बा ज्येष्ठाभिधा रौद्री वामा च शिवमूर्तयः ॥ १-१९ ॥

तासां वर्गः समूहः स्यात्तच्छरीरं कलासु च ।

अकारादिक्षपर्यन्ता कलास्ताः शव्दकारणम् ॥ १-२० ॥

मातरः शक्तयो देव्यो रश्मयश्च कलाः स्मृताः ।

एताः शब्दानुवेधेन प्रत्ययोद्भासिकाः पशोः ॥ १-२१ ॥

तेनासौ भोग्यतां याति तासाम्, स्वविभवं यतः ।

तस्य लुप्तं तदुत्थेन ज्ञानाभासेन सर्वदा [सर्वशक्तिकारणात्
शक्तिचतुष्कादेव आदिक्षान्तकलाचक्रोदयः, तदेव कलाचक्रं
स्थूलं वर्णात्मकं पदवाक्यसङ्घटनया अशेषविचित्र-
लौकिकालौकिकशब्दरूपेण परिणतं पशूनां प्रत्ययजनयितृ,
येन विलुप्तविभवास्ते तद्भोग्यभावं यान्ति इति योनय इत्यारभ्य
कारिकाचतुष्टयाभिप्रायः ।] ॥ १-२२ ॥

ज्ञानाभासस्य तासां (ख्: ज्ञानाभासः स तासामिति) च
किमाधारो ह्यतोऽवदत् ।

ज्ञानाधिष्ठानं मातृका ॥ १-४ ॥

ज्ञानस्यैव द्विरूपस्य परापरविभेदतः ॥ १-२३ ॥

————— पगे ८ ——————-
स्यादधिष्ठानमाधारः शक्तिरेकैव मातृका [अभेदाभास-
भेदप्रथनभावेन द्विविधज्ञानस्य परापर-रूपता,
उभयविधस्यास्य विश्वजननी शक्तिरेवाधिष्ठात्री, तत्र परज्ञाने
अघोराख्या शक्तिः अन्तर्बहिः स्वात्ममयताभासयि-तृत्वात् ।
अपरस्मिन् अभेदानुसन्धानवैकल्-यात् बाह्यौन्मुख्यसम्पादिनी
घोराख्या शक्तिः शिवताच्छाद-यित्रोत्यर्थः ।] ॥ १-४ ॥

इत्थमावृतिरूपं यज्ज्ञानं तद्विनिवृत्तये ॥ १-२४ ॥

व्यक्तये स्वस्वरूपस्य सूत्रमीशोऽभ्यभाषत ।

उद्यमो भैरवः ॥ १-५ ॥

परिपूर्णस्वरूपस्य शिवस्येत्थं चिदात्मनः ॥ १-२५ ॥

स्वस्वरूपापरित्यागं कार्यं प्रत्युद्बुभूषतः (ख्:
प्रतिबुभूषता) ।

भाव उद्योग उन्मेष उद्यमः परिभाष्यते ॥ १-२६ ॥

तदेव जगदाख्यातं शार्वं तत्त्वं च भैरवम् (ग्: भौवनम्) ।

तत्रापि स्वपरिस्पन्दस्फुरत्तायां स भैरवः ॥ १-२७ ॥

————— पगे ९ ——————-
भरणाद्रमणादत्र वमनादपि चोच्यते ।

अखण्डितनिजाभासप्रथनादपि चिद्विभोः [अत्र शाम्भवोपायौ-
चित्यवशात् तीव्रतरपरशक्तिपातपूतस्वान्तानां सिद्धादिदर्शन-
चर्वाद्यभ्यवहारादिनानुग्राह्याणां जनानां जपध्याना-
द्यनुष्ठानयन्त्रणानिरपेक्षं भरणरवणवमनात्मक-
परमभैरवावेशशालिनाम् अविरतप्रसरज्ज्ञानक्रियात्मशाक्ता-
मृतरनिःष्यन्दचर्वणात् पुनरपि नवनवामृतरसास्वादशालिनी
स्वरूपावेशप्रत्यापत्तिः सञ्जायते । एवमुद्यतानां
स्वभावोन्मेषे संवित्प्रकाशावरणाभावः सिद्ध एव ।] ॥ १-२८ ॥
॥ १-५ ॥

एवमुद्यमिनश्चास्य चिद्वपुर्भैरवात्मनः ।

उन्मेषेऽपि स्वस्वरूपप्रकाशो न प्रहीयते (क्: प्रतीयते; ख्: प्रलीयते) ॥
२९ ॥

इत्युक्त्वापि निमेषस्य यथा न परिहीयते ।

स्वस्थितिस्तत्प्रसिद्ध्यर्थं सूत्रमाह महेश्वरः ॥ १-३० ॥

शक्तिचक्रसन्धाने विश्वसंहारः ॥ १-६ ॥

————— पगे १० ——————-
शक्तयश्च जगत्कृत्स्नं ताश्च ज्ञानक्रियात्मिकाः ।

वृत्तयः पूर्वनिर्दिष्टास्तच्चक्रं चकनादतः (ख्: चक्रं
चशनादिति) ॥ १-३१ ॥

तत्सन्धानं स्वीकरणं स्वात्मन्येव निमेषतः ।

संहारः प्रविलीनत्वं शिवत्वं तेन तस्य तत् ॥ १-३२ ॥

एवं शव्दार्थरूपादेर्ज्ञानस्योन्मेषसम्भृतौ ।

कारणं परमात्मैव भैरवः स शिवस्तदा [ज्ञानक्रियाशक्ति-
मयस्य जगतः प्राकाशविमर्शात्मानुत्तररूपात् अपृथक्तया
परामर्शने परमसंविन्मयशिवाग्निसाद्भावात्मा प्रविलयो
भवति, एवं कारणे कार्यस्याविभिन्नभावेन स्थितस्य
निमेषावस्थायामपि स्वस्थितिर्नाव्रियते इति भावः ।] ॥ १-३३ ॥

स्वस्वरूपपरिस्पन्दादच्युतस्य चिदात्मनः ।

जाग्रदादिविभेदोऽयं स्यादनावरको (ग्: स्यादवावारक) यथा ॥ ३४

तदर्थमिह देवेशः सूत्रमाह यथार्थवत् ।

जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोग संवित्
(शिवसूत्रविमर्शिन्यां हि मूलसूत्रपाठः
ऽतुर्थाभोगसम्भवःऽ) ॥ १-७ ॥

————— पगे ११ ——————-
स्वस्वरूपैकघनताविमर्शस्तुर्यभूः स्मृता ॥ १-३५ ॥

सर्वानुस्यूतरूपत्वाद् गलितभ्रमसंस्थितेः ।

तुर्याभोगाख्यसंवित्सा ह्युपलब्धृस्वरूपता ॥ १-३६ ॥

स्थितैव जाग्रदादीनां भेदे सर्पत्यपि स्फुटम् (क्: भेदे सत्यपि च
स्फुटे) [स्मृत्याद्यवस्थाः स्वप्नेन मदमूर्छाद्यवस्थाः
सुषुप्तेन गृह्यन्ते, अतोऽत्र तिसृणामवस्थानामवस्थान्तरा-
क्षेपिणीनां निर्देशात् न पृथक् तन्निर्देशापेक्षणम् । एवमेषां
त्रयाणां विजृम्भमाणे विभिन्नव्याप्रारे व्युत्थितस्य योगिनः
स्वरूपैकघनविमर्शनात् एतदवस्थात्रयकृतपारमार्थिकवस्तु-
समावृतिर्नास्ति; तस्मात् समाध्यनुष्ठानप्रयासोऽस्यानुपयुक्तः
परिपूर्णस्वरूपेऽवधानस्य विधानानौचित्यात्, अपूर्णे तु
पारिमित्यास्पदावधानस्य पूर्णताप्रायकताविरोधात्-
इत्ययमाशयः स्वस्वरूपेति कारिकाद्वयस्य ।] ॥ १-७ ॥

एवमुक्त्वा जाग्रदादिव्यक्तये परमेश्वरः ॥ १-३७ ॥

सूत्रत्रयमन्ववदज्जीवन्मुक्तत्वसिद्धये (ख्:-पर्यवदद्-) ।

ज्ञानं जाग्रत् ॥ १-८ ॥

————— पगे १२ ——————-
बौद्धं गार्वं च साकल्पं (ख्: बौद्धं
सौगतसाङ्कल्पम्) शाब्दं स्पार्शं च रूपजम् ॥ १-३८ ॥

रसजं गन्धजं चान्यदैन्द्रियज्ञानमेव यत् ।

अत्र गृहीतृग्रहणग्राह्यरूपा चिदात्मनः ॥ १-३९ ॥

स्फुरत्येव ज्ञानशक्तिर्जाग्रद्वृत्तिरिहैव सा ।

पशोः स्वरूपहान्यैव सा वृत्तिः परिभाष्यते [ निश्चयनाभिमानन

  • सङ्कल्पन-शब्दन-स्पशन-दर्शन -रसनगन्धो-
    पादानात्मकं बाह्येन्द्रियवृत्तिजं ज्ञानम्,
    द्रष्ट्राद्युपाध्युपहिता जाग्रद्वृत्तिः पशूनां
    स्वात्मव्यवधायिनी, पतीनां तु स्वरूपस्फूर्तिदायिनीत्यर्थः ।] ॥ ४०

स्वप्नो विकल्पाः ॥ १-९ ॥

दृष्टिस्वभावस्य विभोरन्तर्नवनवोदयः ।

विकल्पानां स्मृतः स्वप्नस्तद्बाह्यार्थनिरासतः (क्:
बाह्यार्थनिरासनम्) [बाह्यार्थाभावे तद्वत्त्युपशान्तौ
बाह्यार्थनिरपेक्षमन्तर्वि-सृत्वराणां
पुरगिरिवनोपवनाद्युल्लेखवैचित्र्येणाभासमाना-नां
स्वार्थक्रियाकारिणां विकल्पानां नवनवाविर्भावः स्वप्नः
पशोः स्वरूपामावृणोतीत्यर्थः ।] ॥ १-४१ ॥

पतिभावाद्विकल्पानां दृढतादृढता पुनः ।

————— पगे १३ ——————-
पशुत्वादावृतिः सैव ज्ञेया शक्त्यात्मनः प्रभोः ॥ १-४२ ॥

अविवेको मायासौषुप्तम् ॥ १-१० ॥

ज्ञानज्ञेयस्वरूपायाः शक्तेरनुदयो यदा ।

चिद्रूपस्याविवेकः स्यादसावेवाविमर्शतः ॥ १-४३ ॥

सैव मायावृतिजालपोषकत्वात्प्रकीर्तिता ।

अर्थस्मृती स्वात्मसंस्थे चिद्रूपे सा सुषुप्तता ॥ १-४४ ॥

पत्युरेवं स्वविश्रान्त्या पशोरावृतिरूपतः ।

इत्थं तिस्रस्त्रिप्रकाराः प्रत्येकान्योन्ययोगतः ॥ १-४५ ॥

मुख्यगौणत्वभेदेन ज्ञेयाः सम्यक् चिदात्मनः ।

एवं ज्ञानज्ञेयमयः पतिरत्र पदद्वये ॥ १-४६ ॥

सुषुप्ततुर्ये त्वन्यस्मिंश्चिन्मयश्च विभुः स्मृतः [उभयत्र
वेद्यवेदनात्मतया विलसन्त्याः शक्तेः विरत्या किरणसंहृत्या
रवेरिव चिद्रूपस्यात्मनोऽनवभासनं सा आवरणजालमयी
मायात्मिका सुषुप्तिः, यत्रार्थतत्स्मृती अव्यवहितस्वात्ममात्र-
संस्थे, न तु तस्याप्यसत्ता तद्व्युत्थितस्य सुखस्वापाकिञ्चिञ्ज्ञा-
नयोः स्मृत्यनुपपत्तेः । एवमासु तिसृषु दशासु पतिपश्वोः
स्वरूपावभासानवभासनं स्वभावसिद्धम् इति
ज्ञानेत्यादिपद्यजातस्याभिप्रायः ।] ।

————— पगे १४ ——————-
अथासामेव तिसॄणामवस्थानां गुणत्रयम् ॥ १-४७ ॥

स्थितमेवानुषङ्गेण तदर्थं सूत्रमुक्तवान् ।

त्रितयभोक्ता वीरेशः ॥ १-११ ॥

सत्त्वं रजस्तमश्चेति त्रितयं गुणसञ्ज्ञितम् ॥ १-४८ ॥

अवस्थानुगुणं तद्धि स्वस्वरूपादुदेत्यलम् ।

आच्छादकं (क्: आधारगम्; ग्: आवारकम्) पशूनां तत्स्वस्थितेस्तु
विभोः पुनः ॥ १-४९ ॥

सर्वानुस्यूतरूपत्वात्स्वरूपाच्छादनं न तत् ।

इत्थमेवं गुणस्पन्दनिःष्यन्दानां च चिद्वपुः ॥ १-५० ॥

भोक्ता स्वीकरणात्प्रोक्तः प्रसरस्य विभुत्वतः ।

अत एव हि वीरेशः स्वप्रकाशैकवृत्तितः [गुणसाम्यावस्थात्म-
प्रकृतितत्त्वोत्पन्नानां सत्त्वादीनां गुणानामेकैकप्राधान्यात्
त्रिविधस्य जाग्रदादिदशात्रयस्य प्रकाश-प्रवृत्ति-मोह-मयस्य
स्ववैभवप्रसरणात्मतया चमत्कर्तृत्वाद्वीरेशः प्रोच्यते इत्यर्थः
।] ॥ १-५१ ॥

एवं मरीचिनिचयो गुणत्रयसमुद्भवः ।

वैकल्पिके जगत्यस्मिन्वमनग्रासतत्परः ॥ १-५२ ॥

तत्रापि ग्रासकृद्यस्मात्तेन वीरेश्वरः स्मृतः ।

————— पगे १५ ——————-
एवं स्वस्य स्वभावस्य व्युत्थानेऽपि यथा स्थितिः ॥ १-५३ ॥

स्वका न प्रच्यवत्यस्य तदर्थं सूत्रमादिशत् ।

विस्मयो योगभूमिकाः ॥ १-१२ ॥

एवं सर्वस्य सर्गादेः कारणं चिद्वपुः प्रभुः ॥ १-५४ ॥

तदधिष्ठितमेवेदं जगत्समवलोकयन् ।

विस्मयाविष्ट इव यस्तिष्ठति प्रतिभानवान् ॥ १-५५ ॥

तस्य बिन्द्वादिभावौघसंवन्धाद्विस्मयोदयः ।

समाधिव्यक्तयस्ताः स्युर्या एता योगभूमयः [वेद्यवस्तुजाता-
मृतरससारचर्वणे चिद्घनस्वात्मावेशसद्भावात्
विकसिताकृत्रिमकरणैः स्वात्मविभूतिं नित्योदितविकसितां
पश्यतोऽस्य योगिनोऽपूर्वालौकिकविस्मापकवस्तुदर्शनात् या
आश्चर्यायमाणता बिन्द्वादिस्थानावधानपरिशीलनादिवर्जं
सञ्जायते सा परतत्त्वभूमिकाधिरूढिज्ञापिका,
बिन्द्वादिभावौघसम्बन्धादिति ल्यब्लोपे अपादानविभक्तिः ।] ॥ १-५६ ॥
१२ ॥

एवमस्याप्रतिहता सर्वेच्छा च विजृम्भते ।

तदर्थं भगवान्सूत्रमभ्यभाषत शङ्करः ॥ १-५७ ॥

इच्छाशक्तितमा (ऽइच्छा शक्तिरुमाऽ) कुमारी ॥ १-१३ ॥

————— पगे १६ ——————-
सर्वातिशायिनी शक्तिरिच्छैव परमात्मनः ।

सर्वदृक्कर्तृतायोगात्कुत्सावत्सृतिमारिणी ॥ १-५८ ॥

निरावरणचिद्रूपसमावेशाद्भवत्यतः ।

तदेव कारणं तस्य सर्वत्राखण्डितं विभोः [निखिलशक्ति-
गर्भिण्या इच्छाशक्तेर्योगादेवास्य सर्वत्र दृश्यमये जगति
अप्रतिहतं स्वातन्त्र्यं समस्ति, यद्यथेच्छति तथा प्रथते । येन
विश्वमनाश्रितादि पृथ्व्यन्तं स्वाङ्गकल्पं
निरावरणचिद्घनरूपं प्रस्फूरेत् इत्यर्थः ।] ॥ १-५९ ॥

एवं सर्वात्मकस्यास्य किमेकं देहिदेहवत् ।

शरीरमुत वा सर्वमत्रोवाच सुरेश्वरः ॥ १-६० ॥

दृश्यं शरीरम् ॥ १-१४ ॥

सर्वभावोद्भवस्यास्य [सर्ववेद्याकारः परमशिव एव स्फटिक इव
स्वप्रतिफलितानां स्वाधिष्ठानानां क्वचित्
सङ्कुचितभूमिकायामपि बहिरन्तः सतां भावानां व्यापित्वात्
तत्प्रकाशसत्ताप्रदान-तत्स्थित्यन्यथानुपपत्तिसद्-भावेन
जीवितदेशीय इति सूत्राशयः ।] सर्वबीजात्मनः प्रभोः ।

————— पगे १७ ——————-
चिद्रूपस्य व्यापकत्वान्नैकं तस्य शरीरकम् ॥ १-६१ ॥

तन्न बाह्यार्थ (क्: तेन बाह्यार्थ) एवास्य यो यो दृश्यो विकल्पजः ।

स स देहो व्यापकत्वात्सर्वभावोद्भवत्वतः ॥ १-६२ ॥

स्ववर्गचित्स्वरूपेण तादात्म्यात्सर्वदेहभृत् ।

शरीरव्यतिरेकेण दर्पणप्रतिबिम्बवत् ॥ १-६३ ॥

दृश्यं यस्य व्यापकत्वात्स मोक्षश्रीनिकेतनम् ।

उक्त्वैवं ज्ञानसद्भावस्तद्योगश्च (क्, ग्: उक्त्वेति ज्ञानसद्भावं
तद्योग) कथं भवेत् ॥ १-६४ ॥

स्वहृन्मन्दिरगस्यास्य (क्: सुहृन्मन्दिरगम्यस्ये) तदर्थं सूत्रमाह
च ।

हृदये चित्तसङ्घट्टाद्दृश्यस्वापदर्शनम् ॥ १-१५ ॥

आधारभूते [सर्वेन्द्रियनाडिसन्ततीनामधिष्ठानभूते हृदि
ऐहिकामुष्मिकेभ्यो बाह्यार्थेभ्यो विरज्योपरतस्य
चित्तस्याभ्यासादिनावधानात् दृश्यानर्थविलयः । यद्वा
शुद्धाशुद्धाध्वनोरूर्ध्वाधस्तनयोरवधिकल्पतया स्थितं
सौषुप्तं व्योम हृदयमुच्यते, तत्र वृत्तिविलयनात् औष्ण्याभावे
वह्नेरिव मनसोऽपि लयः । तस्मिन् निर्मनस्के अतेजस्तमोमये (यत्र
देहाद्यहन्ताभावात् तदपेक्षिब्रह्मक्षत्रशब्दोपलक्ष्यमाण-योः
वेदाध्ययनव्यवहारव्यवस्थापनकर्मणोरानुषङ्गिकी निवृत्तिः )
तुरीयाकाशे अव्यवहितस्वस्वभावस्योपलब्धिः,
जन्ममरणादिसंसारानर्थमूलाज्ञाननिवृत्तिश्च ।
अप्रबुद्धमतेस्तु तत्र स्वापानुभव इति आधारभूते इत्यादीनां
सूत्रार्थज्ञापककारिकापद्यानां सङ्ग्रहाशयः ।] हृदये
चेतसः स्थित्युपग्रहः ॥ १-६५ ॥

————— पगे १८ ——————-
सङ्घट्ट इष्यते तेन स्याद्दृश्यस्वापदर्शनम् ।

सौषुप्तं व्योम (क्: सौषुम्णं व्योमेति; ग्: सौषुप्त्यमिति) हृदयं
मध्यस्थत्वात्प्रभाष्यते ॥ १-६६ ॥

अत्रात्मनः समाधानं यत्सङ्घट्टः स चेतसः ।

तदुत्थवृत्तिजालस्य स्वात्मन्यैक्यादुदीरितः ॥ १-६७ ॥

शरीरापेक्षया तस्मिन् व्योम्नि लीनो यदा तदा ।

ब्रह्मक्षत्रवधस्तस्य स्थित एवानुषङ्गतः ॥ १-६८ ॥

दृश्यं स्यादुपलभ्यं यन्निरावरणलक्षणम् ।

स्वस्वरूपं प्रबुद्धं तत्तत्प्राप्तिर्दर्शनं स्मृतम् ॥ १-६९ ॥

स्वापकारस्य मोहस्य हानावत्र च दर्शनम् ।

दिव्यमुद्रासमावेशात्प्रबुद्धः सर्वदा विभुः ॥ १-७० ॥

अप्रबुद्धमतेस्तस्य स्यात्स्वापस्यैव दर्शनम् ।

सोमपानात्प्रबुद्धस्य स्वप्नस्वातन्त्र्यमेव तत् ॥ १-७१ ॥

————— पगे १९ ——————-
तमोवरणनिर्भेदः सोऽयं च प्रतिभोदयः ।

अन्तर्बहिर्विचार्यैव स्वरूपं तद्विवर्जनात् ॥ १-७२ ॥

अखण्डमण्डलाकारं परिपूर्णं करस्थितम् ।

तदर्थं शिवशक्त्यात्मभेदे स्थितिर्यथा स्थिता ॥ १-७३ ॥

स्वालोकश्च (क्: स्वो लोकश्च) न हीयेत प्राह सूत्रत्रयं विभुः ।

शुद्धतत्त्वसन्धानाद्वा (विमर्शिन्यां तु
मूलशिवसूत्रेषु ऽशुद्धतत्त्वसन्धानाद्वाऽपशुशक्तिःऽ
इत्येकसूत्रात्मा भेदविशिष्टश्च पाठोऽस्ति । अस्मिन्ग्रन्थे
शुद्धतत्त्वसन्धानाद्वा इति, ऽस्वपदशक्तिःऽ इति च
विभक्तसूत्रद्वय्यात्मा पाठः एतद्ग्रन्थकृता संव्याख्यातोऽस्ति ।)
[अत्र विश्रामभूमिसञ्ज्ञकस्य परानदात्मशिवचैतन्यस्य
निरूपणपूर्वकमुपायकथनम् ।] ॥ १-१६ ॥

शुद्धं निरुपधि ज्योतीरूपं तत्त्वं शिवाभिधम् ॥ १-७४ ॥

तत्सन्धानं तदात्मत्वविमर्शस्तेन वा भवेत् ।

तमोवरणनिर्भेदः परिपूर्णैकरूपतः ॥ १-७५ ॥

बाह्याहम्भावसन्त्यागादखण्डितनिजस्थितिः (क्:-निजस्थितेः) ।

इति शिवचैतन्यनिरूपणम् ॥

————— पगे २० ——————-

स्वपदशक्तिः [अस्मिन्
परानन्दात्मलाभभूमिसञ्ज्ञकशाक्तचैतन्यनिर्देशः
संव्याख्यातोऽस्ति ।] ॥ १-१७ ॥

स्वपदं सत्पदं ज्ञेयं (ग्: ऽसत्पदशक्तिस्थितिःऽ) शिवाख्यं
यदुदीरितम् ॥ १-७६ ॥

तद्वीर्यं दृक्क्रियारूपं यत्सा शक्तिः प्रकीर्तिता ।

तस्याः कर्त्रंशसंवेशो लीनता स्यात्स्थितिश्च सा ॥ १-७७ ॥

तदेव प्रतिभालोकः स्यात्प्रकाशैकमन्थरः ।

इति शक्तिचैतन्यनिरूपणम् ॥

वितर्क आत्मज्ञानम् [अनेन
प्रोल्लासभूमिसञ्ज्ञकात्मचैतन्यध्वननपुरःसरम् स्वालोकस्य
पाप्त्युपायो निरूप्यते ।] ॥ १-१८ ॥

उपाध्युपाधिसम्भेदे विवेकः प्रत्यवेक्षणम् ॥ १-७८ ॥

स वितर्कः स्वस्वभावविमर्शैकघनात्मनः ।

आत्मनः शिवरूपस्य प्रत्यभिज्ञाप्रसाधने ॥ १-७९ ॥

————— पगे २१ ——————-
परं तत्साधनं ज्ञेयं तस्मिन्सत्यात्मवेदनम् ।

तस्माद्वा प्रतिभोन्मेषः स्याच्छुद्धस्यात्मनः परः ॥ १-८० ॥

इति आत्मचैतन्यनिरूपणम् ॥

निरानन्द-परानन्द-महानन्दस्वरूपकम् ।

शिवशक्त्यात्मचैतन्यत्रयमेतन्निरूपितम् ॥ १-८१ ॥

विश्रामलाभप्रोल्लासभूमिसञ्ज्ञं त्रयेण च ।

सूत्राणां … ॥ १-१६-१-१८ ॥

…पुनरप्याह यथास्य प्रतिभोदये ॥ १-८२ ॥

स्वरूपलाभसौख्यैक्यप्रकाशैक्यं कचत्यलम् ।

लोकानन्दः समाधिसुखम् [स्फुरितस्वात्मस्फूर्तेर्योगिनः
स्वरूपलब्धिसुखम्, विश्वत्र भावेषु प्राकशैक्यकचनं च
प्रोक्तोपायसेवनात् झटिति प्रस्फुरतीत्याशयः ।] ॥ १-१९ ॥

चित्प्रकाशः परः शुद्धश्चान्तर्बहिरिवोदितः ॥ १-८३ ॥

नित्यः सर्वात्मकः सर्वः सर्वभावोद्भवो विभुः ।

स लोक इति विज्ञेयः स एवानन्द उच्यते ॥ १-८४ ॥

चित्प्रकाशैककचनं निर्यन्त्रणस्फुरद्वपुः ।

————— पगे २२ ——————-
तदास्वादैकतानत्वात्समाधिसुखमीर्यते ॥ १-८५ ॥

यद्वा ग्रहीतृग्राह्यैकवर्गप्रसरणात्मके ।

पदद्वये स्वप्रमोदस्तत्समाधिसुखं स्मृतम्
(निर्यत्रणेत्याद्यारभ्य स्मृतमित्येतत्पर्यन्तं पादोनपद्यद्वयं
पुस्तकान्तरेष्वविद्यमानं ग पुस्तकाश्रयेण पूरितम् ।) ॥ १-८६ ॥ १-१९ ॥

एवं स्वतन्त्रस्य (ख्: तस्य स्वतन्त्रस्य) सतः स्वेच्छाकर्तृत्वसूचकम् ।

सूत्रं प्रोवाच भगवानकृत्रिमफलोदये ॥ १-८७ ॥

यतः क्रियात्मिका शक्तिर्बन्धयित्री पशुष्वतः ।

शक्तिसन्धाने शरीरोत्पत्तिः [शक्तिरूपाणां भावानां
निरुपादानादिसामग्रीजातं स्वभित्तावेव निर्भासनाद्धेतोः
शक्तिमांश्चित्स्वरूप एव स्वेच्छया स्वात्मनि प्रकाशैक्येन
स्थितमर्थजातमुन्मीलयति, अतः प्रागुक्ततत्स्वातन्त्र्याख्यशक्तिं
तादात्म्येन परामृशन् स्वतन्त्रोऽयं योगी
यथेच्छममरादिविलक्षणां कायसम्भूतिं रचयतीत्यर्थः ।] ॥
२० ॥

शक्तिमान्निरुपादानः सच्चिद्रूपः प्रकाशकः (क्:
चिद्रूपोर्ऽथप्रकाशक) ॥ १-८८ ॥

अन्तःस्थितानां भावानामिच्छयैव बहिर्यतः ।

————— पगे २३ ——————-
इच्छाज्ञानक्रियापूर्वाः शक्तयः पञ्च संस्थिताः ॥ १-८९ ॥

ईशान्यापूरणी हार्दी वामा मूर्तिश्च ता मताः ।

अन्या विज्ञानदेहाख्या आसामेवानुगाः स्मृताः ॥

प्रक्रियादेहनिर्माणमासां सन्धानमुच्यते ॥ १-९० ॥

तस्मिन्सति शरीरस्य यस्य यस्य यथा स्थिता ॥ १-९१ ॥

स्यादुत्पत्तिस्तथा तिर्यङ्नरामरविलक्षणा ।

इत्थं कर्तृत्वमेवास्य सर्वत्राक्षय्यखण्डितम् ॥ १-९२ ॥

सत्यालोकेऽपि कार्यस्य क्षयित्वं च निरूपितम् ॥ १-२० ॥

स्वातन्त्र्यात्पुनरस्यैव विभवप्रतिपादकम् ॥ १-९३ ॥

अवोचद्भगवान्सूत्रं स्वेष्टक्रीडानिरूपितम् ।

भूतसन्धानभूतपृथक्त्वविश्वसङ्घट्टाः [य एष चिदात्मनः
शुद्धाध्वोपादानभूतो विशदतमश्चिदानन्दे-
च्छाज्ञानक्रियाशक्तिनिचयः स एवाधस्तनाध्वनि पञ्चकपञ्च-
कात्मना तत्त्वक्रमावतरणनिबन्धनम्, तद्यथा आकिञ्चन्य-
दशावभासने सङ्कुचिततया स्वशक्त्या मायाभावमाश्रितया
चिदात्मा पुंस्तत्त्वभूमिकामापन्नः । शक्तिनिचयस्तु
तद्दशौचितीपरिमितवैभवोपभोगायकञ्चुकीभूतः । तदनु
तदधरतत्त्वजालसन्तानाय त्रिशक्तिच्छायोपजीविन्या तया
गुणपरिणत्युन्मिषत्तया तत्साम्यावस्थां प्रकृतिमध्यासीनया
पुर्यष्टकभावसमापत्तिः । इच्छादित्रितयोपादानानि मनोबुद्ध्य-
हङ्कृत्तत्त्वानि, शक्तिपञ्चकानुषङ्गेनैव ज्ञानशक्तिप्राधा-न्यात्
धीन्द्रियाविर्भावः, क्रियाशक्तिप्राधान्यात् कर्मेन्द्रियोत्-पत्तिः;
बहिरपि स्थूलभावेन अथः सह तदुत्पादः । इत्थं
भिन्नभिन्नप्रकारेण विश्वरचना, तथा तेषु तत्त्वेष्वनुगतमेकं
सामान्यप्रकाशस्वरूपं भिन्नेष्वभिन्नं विलक्षणां
पुर्यष्टकभूमिकासंश्रित्या विश्वनाट्यनिर्वहणं चास्य
चिदात्मनः स्वेष्टक्रीडनविस्फुरितं निरूप्यते इति ।] ॥ १-२१ ॥

————— पगे २४ ——————-
शव्दशक्त्याद्यवयवैः खादिभूतविनिर्मितिः ॥ १-९४ ॥

सन्धानमुक्तं तत्तेषां मूर्तिभेदविवक्षया ।

प्रतिभूतं च भूतं च स्वसत्तैक्यं (ख्: स्वमर्थैक्यम्) विविक्तता
॥ १-९५ ॥

पृथक्त्वमुच्यते तद्धि कर्त्रंशप्रवरो यतः ।

वृत्त्याह्लादप्रकाशाख्यस्पर्शानुभवभूजुषः ॥ १-९६ ॥

ज्ञेयौ ज्ञानक्रियेऽर्केन्दू यजमानस्य चिद्विभोः (क्: यजमानश्च
चिद्विभुः) ।

चतसृभिस्तथाभूत-विश्वसङ्घट्ट (क्: -तथा भूतैर्विश्व-) इष्यते
॥ १-९७ ॥

प्रतिमूर्तिक्रियायोगं कचनं चिद्विभोरतः ।

एतावद्विश्वमेवेह यदष्टकसमागमः ॥ १-९८ ॥ १-२१ ॥

————— पगे २५ ——————-
कथं सर्वस्य जगतः कारणं शक्तयस्तथा ।

आत्मनस्तत्प्रभुत्वं स्यात्तदर्थं सूत्रमुक्तवान् ॥ १-९९ ॥

शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ १-२२ ॥

शुद्धं निरुपधि ज्योतिः सर्वाभासावभासकम् (क्, ख्: ज्योतिः
सर्वभासेत्यादिकपदजातं तत्प्रथनमित्यन्तं नाभूत्, ग
पुस्तकादुपन्यस्तम् ।) ॥ १-१०० ॥

तस्यानन्तार्थस्रष्ट्टत्वात्परस्वातन्त्र्यधर्मिणः ।

वेदना वर्णिता विद्या सर्वाहम्बोधरूपिणी ॥ १-१०१ ॥

तस्योदयस्तत्प्रथनं तस्माच्चक्रेशलक्षणा ।

सिद्धिर्भवति विश्वत्र माहेश्वर्यविकस्वरा (क्: सिद्धिर्भव्ति
चक्राख्येत्येवं रूपः, माहेश्वर्येति-पादहीनश्च पाठः ।)
[विश्वमयानुत्तरचिद्धनपरमशिवस्य स्वात्मनः साक्षात्करणात्
परापरस्वातन्त्र्यमासाद्य योगिनः परममाहेश्वर्यविकस्वर-
तच्छक्तिसमापत्त्या अणिमाद्यष्टैश्वर्यात्मिकानां
चक्रेश्वरीणामीश्वरताप्राप्तिः । यत्र अणिम्ना स्वेच्छया सद्य एव
अवयवापचयेन देहसौक्ष्म्यसम्पादनात् परमाणुष्वपि
समावेष्टुं शक्तता । लघिम्ना गरिष्ठवपुषः इषीकातूलवत्
वायुस्कन्धेषु सञ्चारः । महिम्ना महत्परिमाणत्वम् । प्राप्त्या
भूमिष्ठस्याप्यवयवोपचयेनाङ्गुल्यग्रदैर्ध्यात्
चन्द्रादिस्पर्शनम् । प्राकाम्येन इच्छानभिघाततया उदक इव
भूमावपि निमज्जनोन्मज्जनयोर्नास्य रूपं भूतरूपैर्विहन्यते ।
वशितया सर्वभूतान्यादेशकारीणि भवन्ति । ईशितृतया
भूतानां प्रभवाप्ययव्यूहानामीष्टे । यत्रकामावसायि-तया
यथासङ्कल्पं भूतप्रकृतीनामवस्थानम् इति ।
यद्वा चक्रं संविद्देवीरूपं ब्राह्यादिशक्तिचक्रम्,
तदीश्वरत्वेनास्य प्रातिभादयो योगशास्त्रप्रसिद्धा ज्ञानप्रकर्षा
जायन्ते, इत्यखण्डितैश्वर्यपरिपूर्णश्चक्रेश्वरो विराजते इत्याशयः
।] ॥ १-१०२ ॥
॥ १-२२ ॥

————— पगे २६ ——————-
इत्थं सति कथं मन्त्रवीर्यसंविद्भवत्यतः ।

सूत्रमाह महावीर्यस्वरूपप्रतिपादकम् ॥ १-१०३ ॥

महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः
[शक्तिमच्छक्तिसङ्घट्टस्यैव उत्पत्स्यमानविसर्गप्रसरणा-
धारानवगाह्यस्वभावतया महाह्रदोपचारः ।
तदन्तःसारसर्वस्वभूतः स्वसंवेद्योऽहम्परामर्शमयो
निरपेक्षोऽविकल्पमहामन्त्रमणिः ( यत् विश्वावष्टम्भकमादि-
मान्त्यरूपमसामान्यं वीर्यं तदुपभोगपात्रैः
महायोगिभिरेवास्वाद्यते प्रोक्तरूपानुसन्धानात् ) परावाग्रपो
गर्भीकृतानन्तवाच्यवाचकात्मा प्राप्यस्थानीयं
विश्रान्तिधामेत्यर्थः ।] ॥ १-२३ ॥

चिदात्मैव परः शुद्धः शक्तिमच्छक्तिविग्रहः ।

सृष्टिस्वभावो भावानामुद्भवे परमैव भूः ॥ १-१०४ ॥

दिक्कालकलनाहीनो ह्यनवच्छिन्नसन्ततिः ।

महाह्रदसमानत्वात्स महाह्रद उच्यते ॥ १-१०५ ॥

तदकृत्रिममाख्यातं बलमात्मनि तत्र च ।

————— पगे २७ ——————-
दृगानन्दारणीसारमध्यस्वरसलक्षणः ॥ १-१०६ ॥

विकस्वरोन्मिषत्तात्मशाक्ताख्येन बलेन च ।

सोमांशे स्थैर्यलाभः स्यात्तदुदानप्रवेशनम् ॥ १-१०७ ॥

अनुसन्धानमेतत्तत्तेन तत्र स्थितिर्यदा ।

तदा गर्भीकृताभीष्टवेद्याकारनिजस्थितिः ॥ १-१०८ ॥

सम्यगुच्छूनतारूपोल्लसिताङ्कुररूपकः ।

प्रोन्मेषः सूक्ष्मवाग्रूपः सोऽनभिव्यक्तवर्णकः ॥ १-१०९ ॥

ककारार्धवृत्तियोगाद्भवेन्मन्त्रोदयः स्फुटम् ।

स एव वीर्यानुभवो मान्त्रः साधकसिद्धिदः (क्: मन्त्रः साधक-) ॥
११० ॥
॥ १-२३ ॥

सामान्यचित्प्रकाशैकस्वरूपप्रतिपादकम् ।

शिवसूत्रप्रकरणं समाप्तमिदमादिमम् ॥ १-१११ ॥

————— पगे २८ ——————-
अतः परतरं मान्त्रं स्वरूपमुपवर्ण्यते ।

वक्ष्यमाणप्रकरणे विद्योदयसमन्वितम् ॥ १-११२ ॥

इति श्रीमद्भट्टदिवाकरात्मज-श्रीमदाचार्य-भट्टभास्कर-
विरचिते शिवसूत्रवार्तिके सामान्यचित्प्रकाशस्वरूपनिरूपणाख्यः
प्रथमः प्रकाशः ॥ १ ॥