१ आत्मा चित्तम्
२ ज्ञानं बन्धः
३ कलादीनां तत्त्वानामविवेको माया
४ शरीरे संहारः कलानाम्
५ नाडीसंहार-भूतजय-भूतकैवल्य-भूतपृथक्त्वानि
६ मोहावरणात्सिद्धिः
७ मोहजयादनन्ताभोगात्सहजविद्याजयः
८ जाग्रद्द्वितीयकरः
९ नर्तक आत्मा
१० रङ्गोऽन्तरात्मा
११ प्रेक्षकाणीन्द्रियाणि
१२ धीवशात्सत्त्वसिद्धिः
१३ सिद्धः स्वतन्त्रभावः
१४ यथा तत्र तथान्यत्र
१५ विसर्गस्वाभाव्यादबहिः स्थितेस्तत्स्थितिः
१६ बीजावधानम्
१७ आसनस्थः सुखं ह्रदे निमज्जति
१८ स्वमात्रानिर्माणमापादयति
१९ विद्याविनाशे जन्मविनाशः
२० कवर्गादिषु माहेश्वर्याद्याः पशुमातरः
२१ त्रिषु चतुर्थं तैलवदासेच्यम्
२२ मग्नः स्वचित्ते प्रविशेत्
२३ मध्येऽवरप्रसवः
२४ प्राणसमाचारे समदर्शनम्
२५ मात्रास्वप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम्
२६ शिवतुल्यो जायते
२७ शरीरवृत्तिर्व्रतम्
२८ कथा जपः
२९ दानमात्मज्ञानम्
३० योविपस्थो ज्ञाहेतुश्च
३१ स्वशक्तिप्रचयोऽस्य विश्वम्
३२ स्थितिलयौ
३३ तत्प्रवृत्तावप्यनिरासः संवेत्तृभावात्
३४ सुखासुखयोर्बहिर्मननम्
३५ तद्विमुक्तस्तु केवली
३६ मोहप्रतिसंहतस्तु कर्मात्मा
३७ भेदतिरस्कारे सर्गान्तरकर्मत्वम्
३८ करणशक्तिः स्वतोऽनुभवात्
३९ त्रिपदाद्यनुप्राणनम्
४० चित्तस्थितिवच्छरीरकरणबाह्येषु
४१ अभिलाषाद्बहिर्गतिः सम्बाह्यस्य
४२ तदारूढप्रमितेस्तत्क्षयाज्जीवसङ्क्षयः
४३ भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः
४४ नैसर्गिकः प्राणसम्बन्धः
४५ नासिकान्तर्मध्यसंयमात् किमत्र सव्यापसव्यसौषुम्नेषु
४६ भूयः स्यात्प्रतिमीलनम्

इति तृतीयप्रकाशसूत्राणि ॥
समाप्तोऽयं शिवसूत्रवार्तिकसूत्रपाठः ॥