१ चित्तं मन्त्रः
२ प्रयत्नः साधकः
३ विद्याशरीरसत्ता मन्त्ररहस्यम्
४ गर्भे चित्तविकासो विशिष्टोऽविद्यास्वप्नः
५ विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था
६ गुरुरुपायः
७ मातृकाचक्रसम्बोधः
८ शरीरं हविः
९ ज्ञानमन्नम्
१० विद्यासंहारे तदुत्थस्वप्नदर्शनम्
इति द्वितीयप्रकाशसूत्राणि