१ चैतन्यमात्मा
२ ज्ञानं बन्धः
३ योनिवर्गः कलाशरीरम्
४ ज्ञानधिष्ठानं मातृका
५ उद्यमो भैरवः
६ शक्तिचक्रसन्धाने विश्वसंहारः
७ जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंवित्
८ ज्ञानं जाग्रत्
९ स्वप्नो विकल्पाः
१० अविवेको मायासौषुप्तम्
११ त्रितयभोक्ता वीरेशः
१२ विस्मयो योगभूमिकाः
१३ इच्छाशक्तितमा कुमारी
१४ दृश्यं शरीरम्
१५ हृदये चित्तसङ्घट्टाद्दृश्यस्वापदर्शनम्
१६ शुद्धतत्त्वसन्धानाद्वा
१७ स्वपदशक्तिः
१८ वितर्क आत्मज्ञानम्
१९ लोकानन्दः समाधिसुखम्
२० शक्तिसन्धाने शरीरोत्पत्तिः
२१ भूतसन्धान-भूतपृथक्त्व-विश्वसङ्घट्टाः
२२ शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः
२३ महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः

इति प्रथमप्रकाशसूत्राणि