शिवसूत्रविमर्शिनी ।

अथ तृतीयोन्मेषारम्भः ।

इदानीमाणवोपायं [आणवोपायो नाम पाशव्यापारः । यदा तु अंसौ
विकल्पः स्वसंस्कारार्थमुपायान्तरमपेक्षते तदा बुद्धिप्राणादिकान्
परिमितरूपान् उपायत्वेन गृह्णन् अणुत्वं प्राप्त आणवं
ज्ञानमाविर्भावयति । तत् हि चित्तविश्रान्त्यात्मकम् । यदुक्तम्

पूर्वं विसृज्य सकलं कर्तव्यं शून्यतानले ।
चित्तविश्रान्तिसञ्ज्ञोऽयमाणवः परिकीर्तितः ॥] प्रतिपिपादयिषुः अणोः
तावत्स्वरूपं दर्शयति -

आत्मा चित्तम् ॥ १ ॥

यदेतत् विषयवासनाच्छुरितत्वात् नित्यं
तदध्यवसायादिव्यापारबुद्ध्यहङ्कृन्मनोरूपं [तदिति तेषां
विषयाणां निश्चयाभिमानविकल्पाः ।] चित्तं तदेव अतति [अत
सातत्यगमने इति पाठात् ।] चिदात्मकस्वस्वरूपाख्यात्या
सत्त्वादिवृत्त्यवलम्बनेन [प्रकाशचाञ्चल्यावरणादीनां
सत्त्वादिगुणकार्याणां वृत्त्याश्रयेण प्रकाशो बुद्धिव्यापारः चाञ्चल्यं
मनसः आवरणमहङ्कृतेः ।] योनीः सञ्चरति इति

प्। ७४)

आत्मा अणुरित्यर्थः । न तु चिदेकरूपस्य अस्य अतनमस्ति [नहि वस्तुतो
नित्यविभुबुद्धस्वरूपस्य आत्मनः क्वचित् देशाद्यन्तरे गतिरित्यर्थः ।] । अत
एव चैतन्यमात्मा (१-१) इति##-
इदानीं तु एतदीयसङ्कोचावभासप्रधानाणवदशौचित्येन इति न
पूर्वापरवैषम्यम् ॥ १ ॥

अस्य चित्तस्वरूपस्य अण्वात्मनः -

ज्ञानं बन्धः ॥ २ ॥

सुखदुःखमोहमयाध्यवसायादिवृत्तिरूपं [अध्यवसायो निश्चयः
आदिना विकल्पनाभिमानादि गृह्यते ।] तदुचितभेदावभासनात्मकं यत्
ज्ञानं तत् बन्धः । तत्पाशितत्वादेव हि अयं संसरति । तदुक्तं
श्रीतन्त्रसद्भावे

सत्त्वस्थो राजसस्थश्च तमस्थो गुणवेदकः ।
एवं पर्यटते देही स्थानात्स्थानान्तरं व्रजन् ॥

इति । एतदेव

तन्मात्रोदयरूपेण [तन्मात्राणि स्थूलभूतकारणभावेन
ईश्वरेच्छयैव अवभासिताः सूक्ष्मा शब्दादयः तेषामुदयः
स्थूलशरीरभावपरिणताकाशाद्यात्मना अभिव्यक्तिः तथा च यद्यत् नाड्यादि
सुषिरं तदाकाशं शब्दतन्मात्रोदयः । यद्यत् सक्रियं प्राणादि स वायुः
स्पर्शतन्मात्रोदयः । यद्यत् उष्णभास्वरादिरूपमग्न्यादि तत्तेज्ॐ
रूपतन्मात्रोदयः । यद्यत् द्रवरूपं रुधिरादि ता आपः रसतन्मात्रोदयः ।
यद्यत् कठिनं मांसास्थिस्नाय्वादि सा पृथिवी गन्धतन्मात्रोदयः इति
तन्मात्रोदयो रूपमाकारो यस्य तेन मनोऽहम्बुद्धिवर्तिना अनुभूयमानस्य
आत्मलाभोऽनुभवश्च अन्तःकरणनिविष्टः इति मनसि रजोगुणोदये अहङ्कारे
तमोगुणोदये बुद्धौ च सत्त्वगुणोदयरूपायां वृत्तिर्वर्तनं यस्य
तादृशेन पुर्यां सूक्ष्मशरीरे तन्मात्रपञ्चकं गुणत्रयमिति
स्थूलशरीरकारणभूतमष्टकं यत् सन्निविष्टं तन्मुख्यं पुर्यष्टकं
तत्कार्यत्वात् स्थूलमपि शरीरं तेन संरुद्धः तावन्मात्रमेव
आत्मत्वेनाभिनयमानो विस्मृतसर्वात्मकत्वादिस्वसामर्थ्यवशात् बद्धः अत
एव परवशः सर्वशक्तिस्वभावव्यतिरिक्त##-
मायाभासितानादिनिजकर्म्पचित-वासनानुगुण##-
पुर्यष्टकोद्भूतं देहबन्धे भोगनिर्वृत्तेः हेतुतः प्रत्ययोद्भवं
नियतस्वविषयज्ञानोत्पादरूपं यतः अयं पशुर्भुङ्क्ते अनुभवति
स्वविषयमात्रभोक्तृताभिमानप्रत्ययोत्पादस्य भोगसद्भावात् अतः तस्य
स्थूलसूक्ष्मात्मपुर्यष्टकस्य विद्यमानत्वात् अप्रबोधे सति अनुच्छेदात् संसरेत्
अनवरतं नानाशरीरभोगवासना-कर्मचक्रभ्रममनुभवेत् आ
प्रबोधप्रत्युदयात् ।] मनोऽहम्बुद्धिवर्तिना ।

प्। ७५)

पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ॥

भुङ्क्ते परवशो भोगं तद्भावात्संसरेत्… ।

इत्यनेनानूदितम् ।

… अतः ।
संसृतिप्रलयस्यास्य [अहो हेतोः अस्य पशोः संसृतिक्षयस्य कारणमिति
वैयधिकरण्येन षष्ठ्यौ व्याख्येये ।] कारणं सम्प्रचक्ष्महे ॥

इत्येतत्प्रतिबिधानाय [एतदिति भोक्तृत्वाभिमानात्मसंसृतिकारणस्य
निराकरणाय ।] स्पन्दशास्त्रे ॥ २ ॥

प्। ७६)

ननु च

ज्ञानं प्रकाशकं लोके आत्मा चैव प्रकाशकः ।
अनयोरपृथग्भावाज्ज्ञाने ज्ञानी प्रकाशते [ज्ञान इति
नीलाद्युपलम्भाध्यवसायादिपदे ज्ञानी प्रकाशात्मा आत्मैव प्रस्फुरति
अनयोः ज्ञानिज्ञानयोरेकस्वभावात् । यदुक्तम्

प्रकाशमानं न पृथक् प्रकाशात्
स च प्रकाशो न पृथग्विमर्शात् ।

नान्यो विमर्शोऽहमिति-स्वरूपाद्
अहंस्वरूपोऽस्मि चिदेकरूपः ॥ इति ।

पुनश्च । प्रकाशमाने परमार्थभानौ
नश्यत्यविद्यातिमिरे समस्ते ।
तदा बुधा निर्मलदृष्टयोऽपि
किञ्चिन्न पश्यन्ति भवप्रपञ्चम् ॥ इति ।

ज्ञानं न भवतो भिन्नं ज्ञेयं ज्ञानात्प्ठङ् नहि ।
अतो न त्वितरत्किञ्चित्तस्माद्भेदो न वास्तवः ॥ इति च ।] ॥

इति-श्रीविज्ञानभैरवोक्तदृष्ट्या ज्ञानमपि प्रकाशमयमेव इति##-
प्रत्यभिज्ञायेत यदा तु तन्मायाशक्तितो नैवं विमर्शस्तदा -

कलादीनां तत्त्वानामविवेको
माया ॥ ३ ॥

किञ्चित्कर्तृतादिरूपकलादिक्षित्यन्तानां तत्त्वानां कञ्चुक-पुर्यष्टक##-

प्। ७७)

तानां योऽयमविवेकः [परमार्थस्वरूपस्य अपथनस्वभावः ।]
पृथक्त्वाभिमतानामेव अपृथगात्मत्वेन प्रतिपत्तिः सा माया
तत्त्वाख्यातिमयः प्रपञ्चः । तदुक्तं श्रीतन्त्रसद्भावे

कलोद्वलितचैतन्यो [कलया किञ्चित्कर्तृत्वलक्षणेन कलातत्त्वेन
उद्वलितमपूर्णतां प्राप्तं चैतन्यं सर्वकर्तृत्वलक्षणं यस्य सः ।
विद्यया अल्पज्ञतात्मकेन विद्यातत्त्वेन दर्शिताः कमनीयतया
प्रमेयभूमिकां नीता गोचरा इन्द्रियार्थाः । रागेण रागतत्त्वेन रञ्जितो
विषयेषु साभिलाषीकृत आत्मा यस्य । तस्य पशोः दरात्मको
मिताहन्तात्ममायीयमलस्वरूपो बन्धः । तदाश्रयेति मायीयबन्धाश्रयः
शुभाशुभकर्मवासनास्वभावः । तत्रैव उभयरूपे मले असौ बध्यते
इत्यर्थः ।] विद्यादर्शितगोचरः ।
रागेण रञ्जितात्मासौ बुद्ध्यादिकरणैर्युतः ॥

एवं मायात्मको बन्धः प्रोक्तस्तस्यो(स्य द-)दरात्मकः ।
तदाश्रयगुणो धर्मोऽधर्मश्चैव समासतः ॥

तत्रासौ संस्थितः पाश्यः पाशितस्तैस्तु तिष्ठति ।

इति । स्पन्दे तु

अप्रबुद्धधियस्त्वेते [अप्रबुद्धा परमेश्वरपरानुग्रहविरहात्
अविगलितगाढाज्ञाननिद्रा धीः येषां तान् गुणादिस्पन्दनिःष्यन्दाः स्वस्मिन्
परमात्मनि सामान्यस्पन्दमात्रकर्मके स्थितिः निर्विकल्पप्रतिपत्तिप्रभवा
सुथिरा प्रतिष्ठा तस्याः स्थगने सद्य एव आच्छादने गृहीतोद्योगाः
प्रतिपक्षभूतस्य प्रबोधस्य अभावात् लब्दप्रसरत्वत् एवमुपचरिताः दारुणे
दुर्लङ्घ्ये जन्मादिप्रबन्धमार्गे पातयन्ति इत्युत्तरेणान्वयः । अयमाशयः
यथा कांश्चित् राजादीन् प्रमादित्वाद्यवस्थासत्त्वात् सदपि
सैन्यादिस्वसामर्थ्यं सत्त्वेन अप्रतिपद्यमानान् अन्तरप्रेक्षिणो विपक्षाः
स्वपदव्यपरोपणबद्धाभियोगा महति व्यसने पातयन्ति आ
स्वसामर्थ्यसद्भावप्रतिपत्तेः । एवमप्रबुद्धस्य सर्वकर्तृत्वादिलक्षं
निजं महिमानं सामान्यस्पन्दरूपं विद्यमानमपि अप्रतिबुद्ध्यमानस्य
सर्वकार्यपरतन्त्रं देहादिसर्गमेव आत्मत्वेन अवगच्छतः एते लब्धप्रसराः
सुखितोऽहमित्यादयो गुणप्रधानाः प्रत्ययप्रवाहाः सत्ये स्वात्मनि स्थितिः
व्यवधाय संसारमेव आसादयन्ति आ प्रबोधप्राप्तेः इति प्रबुद्धा एव
अस्योपदेशस्य विषया न अप्रबुद्धाः ॥] स्वस्थितिस्थगनोद्यताः ।

इत्यनेन एतत् भङ्ग्या उक्तम् ॥ ३ ॥

प्। ७८)

अतश्च एतत्प्रशमाय [एतदिति मायाबन्धनिवृत्त्यै ।] -

शरीरे संहारः कलानाम् ॥ ४ ॥

महाभूतात्मकं पुर्यष्टकरूपं समनान्तं यत् स्थूलं सूक्ष्मं परं
शरीरं तत्र याः पृथिव्यादिशिवान्ततत्त्वरूपाः कला भागाः तासां
संहारः स्वकारणे लयभावनया [यथा उपनिषदि तस्माद्वा
एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेराप अद्भ्यः
पृथिवी पृथिव्याः पुरुषः पुरुष एवेदं सर्वम् इति यथाक्रमं
यथास्वकारणमुत्पद्यन्ते । एवं व्युत्क्रमं तत्त्वानां
पृथिव्यादिशिवान्तानां स्वकारणे लयो भाव्यते आरोहणक्रमेण ।]
दाहादिचिन्तनयुक्त्या [निजापसव्यापादाङ्गुष्ठात् भावनया उत्थापितेन
कालाग्निरुद्रेण रचितवपुःप्लोषणादियुक्तिः ।] वा ध्यातव्यः इति शेषः ।
यदुक्तं श्रीविज्ञानभैरवे

प्। ७९)

भुवनाध्वादिरूपेण [भेद-भेदाभेद-अभेदस्थित्या वा
भुवन-तत्त्व-कलाध्वस्थित्या अन्त इति भावनावसाने
निर्विकल्पपदविश्रान्तिः । ध्यानाख्योऽयमाणवोपायः ।]
चिन्तयेत्कमशोऽखिलम् ।
स्थूलसूक्ष्मपरस्थित्या यावदन्ते मनोलयः ॥

इति । तथा

कालाग्निना कालपदादुत्थितेन [दक्षपादाङ्गुष्ठात् पुरमिति शरीरम्
आभासः परिमितप्रमेयादिज्ञानम् ।] स्वकं पुरम् ।
प्लुष्टं विचिन्तयेदन्ते शान्ताभासः प्रजायते ॥

इति । एवमादि च सर्वागमेष्वस्ति । अत एव

उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः [उच्चारः
स्थूलसूक्ष्मोभयरूपेण प्राणव्यापारः करणं देहसन्निवेशविशेषात्मा
मुद्रादिव्यापारः ध्यानं बुद्धिव्यापारः यदेतत् सर्वतत्त्वान्तर्भूतं
स्वप्रकाशं परतत्त्वं तस्यैव निजहृदयबोधे विभावनम् वर्णः
सूक्ष्मप्राणोच्चारे स्फुरन् अव्यक्तानुकृतिप्रायो ध्वनिः
सृष्टिसंहारबीजात्मा स्थानं त्रिकोणकन्दहृदादि एतदभ्यासात्
परसंवित्तिलाभो भवति ।] ।
यो भवेत्स समावेशः सम्यगाणव उच्यते ॥

इति-श्रीपूर्वशास्त्रे ध्यानादि एव आणवत्वेन उक्तम् । एतच्च स्थूलत्वात्
शाक्तोपायप्रकाशात्मनि स्पन्दशास्त्रे न सङ्गृहीतम् । यत्तु अत्र
पर्यवसानभङ्ग्या [विकल्पसंस्कारेण स्फुटतमविकल्पोन्मुखप्रेक्षिणि
चित्तसम्बोधलक्षणे शाक्तोपाये चित्तविश्रान्तिलक्षणस्य आणवोपायस्य
पर्यवसानम् इत्यर्थः ।] शाक्तादि अस्ति तत् अस्माभिः

प्। ८०)

अत्रापि स्पन्दग्रन्थात् संवादितं संवादयिष्यते च किञ्चित् ॥ ४ ॥

एवं ध्यानाख्यमाणवमुपायं प्रदर्श्य तदेकयोगक्षेमान् [अप्राप्तस्य
प्राप्तिर्नाम योगः प्राप्तस्य परिरक्षणं नाम क्षेमः ।] प्राणायाम##-

नाडीसंहार-भूतजय-भूतकैवल्य-
भूतपृथक्त्वानि ॥ ५ ॥

योगिना भावनीयानि इति शेषः । नाडीनां प्राणापानादिवाहिनीनां सुषीणां
संहारः प्राणापानयुक्त्या [पूरकादिपरिशीलनेन
बाह्यान्तरप्रसरद्रूपतापरिवर्जं सम्मेलनम् ।] एकत्र उदानवह्न्यात्मनि
मध्यनाड्यां विलीनतापादानम् [चिरकालं कुम्भकाभ्यसनेन
सर्वनाडीषु विसरणः प्राणवायुरुदाने विलीयते तद्वाहित्वात् तासां
नाडिसंहार इत्युपचर्यते इत्यर्थः ।] । यदुक्तं श्रीमत्स्वच्छन्दे

अपसव्येन [सव्येन दक्षनाशापथेन रेचकं कुर्यात् अपसव्येन वामेन
पूर्येत् वायुपूरणं कुर्यात् एवमनवरतं क्रियमाणमेतत् नाडीनां
मोक्षमार्गपथस्य वा मध्यधाम्नः शोधनं मारुतप्रशमनं भवति ।
] रेच्येत सव्येनैव तु पूरयेत् ।
नाडीनां शोधनं ह्येतन्मोक्षमार्गपथस्य च ॥

प्। ८१)

रेचनात्पूरणाद्रोधात्प्राणायामास्त्रिधा [प्राणायाम इति प्राणस्य
यथास्थितवाहविजयेन स्वायत्ततानयनम् । एते त्रयः प्राणायामाः
सर्वसाधारण्येन नासिकापथे क्रमेण निर्वर्त्यमानाः साधारणा
बाह्याश्चेत्यर्थः ।] स्मृताः ।
सामान्या बहिरेते तु पुनश्चाभ्यन्तरे त्रयः ॥

आभ्यन्तरेण [मध्यपथेन अत्र रोचनं द्वादशान्ते पूरणं हृदि
निष्कम्पं कुम्भकमिति निरायासं प्रशान्तकुम्भकमित्यर्थः कार्या इति
निर्वर्तनीया भवन्ति ।] रेच्येत पूर्येताभ्यन्तरेण तु ।
निःस्पन्दं कुम्भकं कृत्वा कार्याश्चाभ्यन्तरास्त्रयः ॥

इति । भूतानां पृथिव्यादीनां जयो धारणाभिर्वशीकारः । यथोक्तं तत्रैव

वायवी [पाददेशे तिर्यग्गतेः नाभौ जाठराग्नेः कण्ठे स्थितिपदे
धरण्याः घण्टिकायां रसस्य ब्रह्मरन्ध्रे च व्योम्नः सद्भावात् तथैव च
धारणा उक्ताः । अत्र च वर्णमण्डललाञ्छनाक्षरात्मकत्वं
धारणाध्येयम् प्रथमं कण्ठे पार्थिवीं धारणां बद्ध्वा हृदयात्
उद्घातपञ्चकेन पञ्चगुणं पार्थिवं तत्त्वं भिन्द्यात् । ततोऽनेनैव क्रमेण
हृदयादेव चतुर्भिरुद्घातैः चतुर्गुणमसत्त्वं ततो हृदयादेव
नाभिक्षेत्रे त्रिभिः त्रिगुणमग्निम् अनन्तरं हृदयादेव द्वाभ्यां
पादाङ्गुष्ठगतं वायुं ततोऽपि अङ्गुष्ठात् सङ्कोचयुक्त्या
प्राणशक्तिमूर्ध्वमुद्बोध्य हृदयादेव एकोद्घातयुक्त्या शरवत्
ब्रह्मरन्ध्रस्थमेकगुणं व्योमग्रन्थिं भित्त्वा द्वादशान्ते सर्वाः सिद्धयो
भवन्ति ।] धारणाङ्गुष्ठे आग्नेयी नाभिमध्यतः ।
माहेयी कण्ठदेशे तु वारुणी घण्टिकाश्रिता ॥

आकाशधारणा मूर्ध्नि सर्वसिद्धिकरी स्मृता ।

इति । भूतेभ्यः कैवल्यं चित्तस्य ततः प्रत्याहरणम् । यदुक्तं तत्रैव

प्। ८२)

नाभ्यां [निष्कम्पकुम्भकानन्तरं शनैः शनैः हृदयादधः
सञ्चारयुक्त्या प्राणं नाभ्यामेव नियम्येत्यर्थात् तथा इन्द्रियगोचरात्
तत्प्रत्याहारयुक्त्या नाभ्यामेव मनो नियम्य मनोनियमपूर्वकं प्राणं
नाभौ नियच्छतो योगिनः सुप्रशान्तः प्राणायामो भवति तदनु
निरुद्धवायुप्रकोपहरणाय नाभितो वामनासापुटेन मन्दं मन्दं
विरेचयेत् इति भावः ।] हृदयसञ्चारान्मनश्चेन्द्रियगोचरात् ।
प्राणायामश्चतुर्थस्तु सुप्रशान्त इति स्मृतः ॥

इति । हृदयान्नाभौ प्राणस्य विषयेभ्यो मनसश्च तत्रैव
सञ्चारणादित्यर्थः । भूतेभ्यः पृथक्त्वं
तदनुपरक्तस्वच्छस्वच्छन्दचिदात्मता । यदुक्तं तत्रैव

भित्त्वा [हृत्कण्ठादीनि सर्वाणि उद्गतं मनो यस्मात् उन्मना तत्पर्यन्तानि
स्थानानि पूर्वोक्तलक्षणैः पञ्चप्रणवाधिकारोक्तैः भित्त्वा अथ एतत्सर्वं
त्यक्त्वा स्वच्छन्दतामेति गाढगाढोन्मनापदविश्रान्तिप्रकर्षात्
तुर्यातीतदशालाभात् चिदानन्दघनपरभैरवसमावेशमनुभवति योगीन्द्र
इत्यर्थः ।] क्रमेण सर्वाणि उन्मनान्तानि यानि च ।
पूर्वोक्तलक्षणैर्देवि त्यक्त्वा स्वच्छन्दतां व्रजेत् ॥

इति । भूतसन्धानभूतपृथक्त्वविश्वसङ्घट्टाः (१-२०) इति यत्
पूर्वमुक्तम् तत् शाम्भवोपायसमाविष्टस्य अयत्नतो भवति । इदं तु
आणवोपायप्रयत्नसाध्यमिति विशेषः ॥ ५ ॥

एवं देहशुद्धि [स्वकारणे लयभावनया कालाग्निना
दग्धदेहादिभावनया वा देहशोधनमभिहितमस्ति ।] भूतशुद्धि##-

प्। ८३)

र-धारणा-ध्यान-समाधिभिर्या तत्तत्तत्त्वरूपा सिद्धिर्भवति सा
मोहावरणात् न तु तत्त्वज्ञानादित्याह -

मोहावरणात्सिद्धिः ॥ ६ ॥

मोहयति इति मोह माया तत्कृतादावरणात् प्रोक्तधारणादिक्रमसमासादिता
[आदिपदेन ध्यानसमाधी ग्राह्यौ ।] तत्तत्तत्त्वभोगरूपा सिद्धिर्भवति ।
न तु परतत्त्वप्रकाशः । यदुक्तं श्रीमल्लक्ष्मीकौलार्णवे

स्वयम्भूर्भगवान्देवो
[अनन्योन्मुखप्रेक्षित्वात्मस्वातन्त्र्यशक्तिसमवेतो भगवान्
विश्वोदयविलयादिक्रीडनशीलो द्योतनादिसतत्त्वश्च देवः चिद्घनः परमेश्वर
एव स्वयं स्वेच्छयैव न तु प्रयोजनान्तरापेक्षया
तत्तद्रुद्रक्षेत्रज्ञाद्यनन्तप्रमातृरूपवैचित्र्येण भवनशीलः स्फुरन्
मायाप्रमातृतां समुल्लास्य विस्मृतस्वतन्त्रचिद्घनस्वभावो
विचित्रपशु-पक्षि-नृ-सरिसृपादिजन्मनां संस्कारेण वासनया
वर्जितः स्वायत्तीकृत्य अस्वतन्त्रतां प्रापितः अत एव मोहितो
भिन्नवेद्यप्रथात्ममायीयपाशेन मलिनितः सर्वजन्तूनां
शिवप्रकाशमन्तरेण सत्तास्फुरत्तानुपपत्तेः प्रत्यक्षं
चित्प्रकाशस्वभावं स्वात्मानं न पश्यति न च परामृशति इति वाक्यार्थः ।
] जन्मसंस्कारवर्जितः ।
निर्विकल्पं परं धाम अनादिनिधनं शिवम् ॥

प्रत्यक्षं सर्वजन्तूनां न च पश्यति मोहितः ।

इति । विगलितमोहस्य तु

प्। ८४)

मध्यमं [उदानरूपं ज्ञानशक्तिरूपम् उदानस्य
प्राणीयभावनिमज्जनेन चिद्व्याप्त्युन्मज्जनात् ज्ञानशक्तिरूपत्वम् । न च
भ्रमितव्यं बुद्ध्यभावे कथं ज्ञानं ? इति तस्य सदोदितत्वात् । यदाहुः
अख्यात्युल्लसितेषु भिन्नेषु भावेषु बुद्धिरुच्यते अभेदे चिन्मये बोध इति ।
श्रीसोमानन्दपादा अपि

बुद्धिं विना कथं बोधः सा बुद्धिः प्रकृतेः प्रजा ।
न च तस्य तया योग इति चेदपरस्थितौ ॥

सा बुद्धिर्यत्पुनः सूक्ष्मं सर्वदिक्कं व्यवस्थितम् ।
ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा ॥

इति । तां ज्ञानशक्तिम् उन्मिषत्स्फुरत्तारूपां संविदमालम्ब्य तत्स्थमेव
आसनं योगी लभते निजज्ञानशक्त्यासीनः चिन्महेशरूपो भवति ।]
प्राणमाश्रित्य प्राणापानपथान्तरम् ।
आलम्ब्य ज्ञानशक्तिं च तत्स्थं चैवासनं लभेत् ॥

प्राणादिस्थूलभावं [प्राणापानसमानेषु यः स्थूलो
रेचकपूरकादिस्वभावः तं त्यक्त्वा अथेति
एतत्स्थूलप्राणायामानन्तरभाविनं सूक्ष्मम् आन्तरं मध्यपथेन
रेचनाचमनादिरूपं च तमुज्झित्वा यस्मात् सूक्ष्ममपि अतीतं परमम्
अप्राणाद्यचित्स्फुरत्तात्म स्पन्दनं लभ्यते तस्मात् तदेव परं स्पन्दनं यत्
स एव स्थूलसूक्ष्मभेदभाजां प्राणानाम् आयामः
प्रशमितप्राधान्यावभासात्मा नियमः निर्दिष्ट उत्कृष्टतया निरूपितः ।
यस्मादिति यं प्राणायाममासाद्य न पुनः च्यवते चित्प्रमातृमयतां न
कदाचित् जहातीति ।] तु त्यक्त्वा सूक्ष्ममथान्तरम् ।
सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः ॥

प्राणायामः स निर्दिष्टो यस्मान्न च्यवते पुनः ।
शब्दादिगुणवृत्तिर्या [शब्दस्पर्शादीनां गुणानां सत्त्वादिरूपाणां
या काचित् वृत्तिर्दशा चेतसा संविदा अनुभूयते तामनादरेण अपहस्त्य
स्वचेतसा अविकल्पसंवित्परामर्शनेनैव परचिद्धामप्रवेशः हि इति यस्मात्
भूमेः प्रसृतस्य चित्तस्य तत्प्रतीपप्रापणात्मा प्रत्याहारः अतश्च
भवपाशानां निकृन्तकः इत्यर्थः ।] चेतसा ह्यनुभूयते ॥

प्। ८५)

त्यक्त्वा तां परमं धाम प्रविशेत्तत्स्वचेतसा ।
प्रत्याहार इति प्रोक्तो भवपाशनिकृन्तनः ॥

धीगुणान्समतिक्रम्य [बुद्धेः सत्वादिगुणान् समावेशेन प्रशमय्य
निर्ध्येयं ध्येयेभ्यो नियत्याकृत्यादिरूपेभ्यो निष्क्रान्तं निष्क्रान्तानि च तानि
यस्मात् तं विभुं व्यापकमव्ययं नित्यं स्वसंवेद्यं स्वप्रकाशं
ध्येयं ध्यानार्हम् । अथ च अध्येयम् अध्येतव्यं विम्रष्टव्यम् स्मर्तव्यं च
अर्थात् चिदानन्दघनं परमेश्वरं ध्यात्वा विमृश्य तत्त्वज्ञाः
तद्विमर्शामैव ध्यानम् अविच्छिन्नेन पारम्पर्येण जानन्ति च एवार्थे ।]
निर्ध्येयं परमं विभुम् ।
ध्यात्वा ध्येयं स्वसंवेद्यं ध्यानं तच्च विदुर्बुधाः ॥

धारणा [येन योगिना सर्वदा परमात्मत्वं चैतन्यं समावेशेन
अवलम्ब्यते तस्य या धारणा चैतन्यविमर्शनात्मा वृत्तिः सा
भवबन्धविनाशे हेतुः धारणा अन्यधारणावैलक्ष्येण विनिर्दिष्टा । अथ च
यथा चिद्घनानन्दपरमात्मप्रकाशोपचयो भूयिष्ठो भवति सा धारणा न
तु भूतानामधिकरणेषु तत्तत्त्र्यस्रचतुरस्रादिस्वरूपानुभवनम् ।]
परमात्मत्वं धार्यते येन सर्वदा ।
धारणा सा विनिर्दिष्टा भवपाशनिवारिणी ॥

स्वपरस्थेषु भूतेषु जगत्यस्मिन्समानधीः ।
शिवोऽहमद्वितीयोऽहं समाधिः स परः स्मृतः [ग्राह्य##-
इत्यहन्तेदन्तासामानाधिकरण्यात्मक-शुद्धविद्योत्थाध्यवसायरूपः
समाधिः ।] ॥

इति श्रीमन्मृत्युजिद्भट्टारकनिरूपितनीत्या धारणादिभिरपि
परतत्त्वसमावेश एव भवति न तु मितसिद्धिः ॥ ६ ॥

प्। ८६)

तदाह -

मोहजयादनन्ताभोगात्सहज-
विद्याजयः ॥ ७ ॥

मोहस्य अख्यात्यात्मकसमनान्तपाशात्मनो मायाया जयाद् अभिभवात् ।
कीदृशात् ? अनन्तः संस्कारप्रशमपर्यन्तः आभोगो विस्तारो यस्य
तादृशात्

वेदनानादिधर्मस्य… ।
इत्यादिना निरूपितरूपायाः सहजविद्याया जयो लाभो भवति । आणवोपायस्यापि
शाक्तोपायपर्यवसानादित्युक्तत्वात् [ध्यानौपयिकस्य आणवसमाधानस्य
शुद्धविकल्पोपाये शाक्ते परिविश्रमणात् इत्यर्थः ।] । तथा च
श्रीस्वच्छन्दे

समनान्तं [एकादशविधो मान्त्रो ध्वनिः यथा अकारः उकारो मकारो
बिन्दुः अर्धचन्द्रो निरोधी नादो नादान्तः शक्तिः व्यापिनी समना इति एतदवधेः
सकारणषट्कस्य भेदप्रथात्मतया पाशजालकल्पस्य हेयता अत ऊर्ध्वम्
अभेदविमर्शात्मतया उपादेयता । वरारोह इति वर उत्कृष्ट आरोहः
शक्तिद्वादशान्ते विश्रमणं यस्याः तत्सम्बुद्धिः ।] वरारोहे
पाशजालमनन्तकम् ।

इत्युपक्रम्य

प्। ८७)

पाशावलोकनं [पाशानां समनान्तानाम् अवलोकनम् आत्मत्वेन
अभिमननम् स्वरूपं पाशोत्तीर्णचिन्मात्रत्वं यत् एतावत्पर्यन्ता आत्मव्यापित्ः ।
] त्यक्त्वा स्वरूपालोकनं हि यत् ।
आत्मव्याप्तिर्भवत्येषा शिवव्याप्तिस्ततोऽन्यथा ॥

सार्वज्ञादिगुणा [ये सर्वज्ञत्व-सर्वकर्तृत्वादिरूपा गुणा धर्माः
परमोपादेयत्वेन अर्थ्यमानत्वात् अर्थाः तान् व्यापकान् अशेषमन्तरभेदेन
क्रोडीकुर्वतो यदा स्वान् भावयेत् तदा तद्भावनापरिनिष्पत्तिः आत्मनः
शिवव्याप्तिः सा च भावकस्य चैतन्ये हेतुरूपिणी प्रयोजिका तत्प्रसादादेव
शुद्धात्मनः तद्भावनाप्ररूढेः ।] येऽर्था व्यापकान्भावयेद्यदा ।
शिवव्याप्तिर्भवत्येषा चैतन्ये हेतुरूपिणी ॥

इति-ग्रन्थेन आत्मव्याप्त्यन्तस्य मोहस्य जयात् उन्मनाशिवव्याप्त्यात्मनः
सहजविद्यायाः प्राप्तिरुक्ता । यदुक्तं तत्रैव

आत्मतत्त्वं ततस्त्यक्त्वा विद्यातत्त्वे नियोजयेत् ।
उन्मना सा तु विज्ञेया मनः सङ्कल्प उच्यते ॥

सङ्कल्पात्क्रमतो ज्ञानमुन्मनं युगपत्स्थितम् [योजयेत्
आत्मानमित्यध्याहारः सा विद्या सङ्कल्प इच्छा सा च
ईशितव्यविश्वक्रमासूत्रणात्मत्वात् क्रमतो ज्ञानम् इत्युक्तम् । उन्मनम्
उत्क्रान्तम् उत्कर्षं च मनः प्राप्तं यत्र तत् उन्मनम् युगपत् इति विश्वस्य
आसूत्रणावभासननिर्माणाद्यनन्तशाखाशतभिन्नस्यापि अत्र
नित्योदितानन्दघनस्वातन्त्र्यशक्त्याभासात्मत्वेन अवस्थानात् अत ईदृक्
उन्मनं ज्ञानमेव उन्मनाशक्तिः ।] ।
तस्मात्सा च परा विद्या यस्मादन्या न विद्यते ॥

प्। ८८)

वेदनानादिधर्मस्य परमात्मत्वबोधना ।
वर्जनापरमात्मत्वे तस्माद्विद्येति चोच्यते ॥

तत्रस्थो [तत्रस्थो विद्यास्थोऽसङ्कुचितपरमशिवरूपं प्रत्यभिजानीयात् ।
] व्यञ्जयेत्तेजः परं परमकारणम् ।

इति ॥ ७ ॥

एवमयमासादितसहजविद्यः -

जाग्रद्द्वितीयकरः ॥ ८ ॥

लब्ध्वापि शुद्धविद्यां तदैकध्यव्याप्तौ [तस्यां विद्यायाम्
एकधाभाव ऐकध्यं तदैकाग्र्यम् ।] जागरूकः
पूर्णविमर्शात्मकस्वाहन्तापेक्षया यत् द्वितीयमिदन्तावमृश्यं
[स्वानुभूतिप्रकाशापेक्षया द्वितीयं शक्तिरूपम् ।]
वेद्यावभासात्मकं जगत् तत् करो रश्मिर्यस्य तथाविधो भवति । विश्वमस्य
स्वदीधितिकल्पं स्फुरति इत्यर्थः । यथोक्तं श्रीविज्ञानभैरवे

यत्र [यत्र यत्र नीलसुखादौ अक्षमार्गेण चक्षुरादिसुषिरमार्गेण विभोः
परभैरवस्य आत्मनः चैतन्यं चित्प्रकाशो व्यज्यते स्फुरति तस्य नीलादेः
तन्मात्रधर्मित्वात् चैतन्यव्यतिरेके चेत्यत्वाभावापत्तेः
दर्पणमात्रात्मकविचित्रप्रतिबिम्बवत् चैतन्यमात्रस्वभावत्वं विमृश्य
विश्वभित्तिभूतायां चितावेव यो लीयते तस्य परभैरवतैव यथा घनीभूतः
प्रकाश एव सूर्यमण्डलं जातं तथा चिदेव हि आश्यानीभूता जगदात्मना
भाति इत्याम्नायः ।] यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः ।
तस्य तन्मात्रधर्मित्वाच्चिल्लयाद्भरितात्मता ॥

प्। ८९)

इति । श्रीसर्वमङ्गलायामपि

शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते ।
शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः ॥

इति ॥ ८ ॥

ईदृशश्चायं सर्वदा स्वस्वरूपविमर्शाविष्टः -

नर्तक आत्मा ॥ ९ ॥

नृत्यति अन्तर्विगूहितस्वस्वरूपावष्टम्भमूलं
तत्तज्जागरादिनानाभूमिकाप्रपञ्चं [आदिना स्वप्नसुषुप्ते ग्राह्ये ।
इच्छादिशक्तिविजृम्भणपूर्वं निरुपादानहेतुनिचयं नानाभूमीः
चिद्भित्तावेव उन्मीलयतीत्यर्थः ।] स्वपरिस्पन्दलीलयैव स्वभित्तौ प्रकटयति
इति नर्तक आत्मा । तदुक्तं श्रीनैश्वासदेवीमहेश्वरनर्तकाख्ये सप्तमपटले
देवीकृतस्तवे

त्वमेकांशेनान्तरात्मा [आत्मैव पुर्यष्टकसम्बन्धात् वासनारूपैः
शुभाशुभैः निबद्धः सन् योनेर्योन्यन्तरं पर्यटन् आत्म बाह्यात्मनोरन्तः
व्यवशितत्वात् अन्तरात्मा ज्ञेयः कोशरक्षितेति
स्वस्वरूपपरमात्मत्वरक्षितेत्यर्थः ।] नर्तकः कोशरक्षिता ॥

इति । भट्टश्रीनारायणेनापि

विसृष्टाशेषसद्बीजगर्भं [विसृष्टमशेषं सतां भावानां बीजं
मायाप्रकृत्यादि गर्भे यस्य तत् नाटकपक्षे बीजादिसञ्ज्ञा
तच्छास्त्रप्रसिद्धा संहर्तुं प्रशमयितुं मुखसन्धिना प्रस्तोतुं
निर्वहणसन्धिना निर्वाहयितुं च भवन्तमृते अन्यः कविः कवयिता कः
प्रजापतिश्च क्षमः न कोऽपि इत्यर्थः ।] त्रैलोक्यनाटकम् ।
प्रस्ताव्य हर संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः ॥

प्। ९०)

इति । सर्वागमोपनिषदि श्रीप्रत्यभिज्ञायाम्

संसारनाट्यप्रवर्तयिता सुप्ते जगति जागरूक
एक एव परमेश्वरः ॥

इति ॥ ९ ॥

एवं-विधस्य अस्य जगन्नाट्यनर्तकस्य भूमिकाग्रहण##-

रङ्गोऽन्तरात्मा ॥ १० ॥

रज्यतेऽस्मिन् जगन्नाट्यक्रीडाप्रदर्शनाशयेनात्मना इति रङ्गः
तत्तद्भूमिकाग्रहणस्थानम् अन्तरात्मा सङ्कोचावभाससतत्त्वः
शून्यप्रधानः प्राणप्रधानो वा पुर्यष्टकरूपो देहापेक्षया अन्तरो
[प्राणपुर्यष्टकनियन्त्रितो जीवः जीवभावस्य पुर्यष्टकप्राण एव
मुख्यत्वात् ।] जीवः । तत्र हि अयं कृतपदः स्वकरणपरिस्पन्दक्रमेण
[सहजस्वातन्त्र्यशक्तिविस्फुरणात्मा आन्तरेन्द्रियस्पन्दः ।]
जगन्नाट्यमाभासयति । उक्तं च श्रीस्वच्छन्दे

प्। ९१)

पुर्यष्टकसमावेशाद्विचरन्सर्वयोनिषु [य एष कञ्चुकमात्रशरीरः
प्रकृतिलीन आत्मा अयमेव आन्तरसूक्ष्मशरीरारम्भक##-
सम्बन्धात् वासनावलितो योन्यन्तरगामी इत्यर्थः ।] ।
अन्तरात्मा स विज्ञेयः … ॥

इति ॥ १० ॥

इत्थं अन्तरात्मरङ्गे नृत्यतोऽस्य-

प्रेक्षकाणीन्द्रियाणि ॥ ११ ॥

योगिनश्चक्षुरादीनि इन्द्रियाणि हि संसारनाट्यप्रकटनप्रमोदनिर्भरं
स्वस्वरूपम् अन्तर्मुखतया साक्षात्कुर्वन्ति तत्प्रयोगप्ररूढ्या विगलितविभागं
चमत्काररससम्पूर्णतामापादयन्ति
[अहन्तारसचमत्कारपरिशीलनदार्ढ्यात् अहमिदं चमत्करोमि इति
विभागपरिवर्जं स्वात्मानं शिवोऽहमस्मि इति परामृशन् चमत्कुरुते
इत्यर्थः ।] । यच्छ्रुतिः

कश्चिद्धीरः प्रत्यगात्मानमैक्षद् आवृत्तचक्षुरमृतत्वमश्नन् ॥
(कठोपनिषदि अ० २। व० ४ । मम्० १) ।

इति ॥ ११ ॥

अस्य च -

धीवशात्सत्त्वसिद्धिः ॥ १२ ॥

धीः तात्त्विकस्वरूपविमर्शनविशारदा (विशदा)

प्। ९२)

धिषणा तद्वशात् सत्त्वस्य स्फुरत्तात्मनः सूक्ष्मस्य आन्तरपरिस्पन्दस्य
सिद्धिरभिव्यक्तिर्भवति । नाट्ये च सात्त्विकाभिनयसिद्धिर्बुद्धिकौशलादेव
[सात्त्विकरूपस्य अभिनयस्य सिद्धिरित्यन्वयः । सात्त्विकः स्तम्भस्वेद##-
रामयुधिष्ठिरादीनामवस्थानुकरणम् । सात्त्विकेत्युपलक्षणं वाचिक##-

एवं स्फुरत्तात्मकसत्त्वासादनादेव [स्वातन्त्र्यशक्तिविस्फुरणात्मनः
सत्त्वस्य प्राप्तेरित्यर्थः ।] अस्य योगिनः -

सिद्धः स्वतन्त्रभावः ॥ १३ ॥

सिद्धः सम्पन्नः स्वतन्त्रभावः सहजज्ञत्व-कर्तृत्वात्मकम्
अशेषविश्ववशीकारि स्वातन्त्र्यम् । यदुक्तं श्रीश्रीनाथपादैः

श्रयेत्स्वातन्त्र्यशक्तिं [पुरुषे षोडशकले तामाहुरमृतां कलाम् ।

इत्युक्तस्वरूपा स्वातन्त्र्यशक्तिः कलयति परामृशति क्षिपति विसृजति संहरति
च गणयति जानीते च इति-काली विश्वस्य अन्तर्बहीरूपतया पालन##-

इति । श्रीस्वच्छन्देऽपि

प्। ९३)

सर्वतत्त्वानि [सर्ववेद्योल्लासस्य शिवाभिन्नस्वात्मैक्येन परामर्शनात्
जलाग्न्यादीनि तत्त्वानि भूतानि हिंस्रादिजन्तवः वर्णाः शब्दराशिशरीरस्थाः
नित्यं वशे तिष्ठन्ति ।] भूतानि मन्त्रवर्णाश्च ये स्मृताः ।
नित्यं तस्य वशास्ते वै शिवभावनया सदा ॥

इति ॥ १३ ॥

एष स्वतन्त्रभावोऽस्य -

यथा तत्र तथान्यत्र ॥ १४ ॥

यत्र देहे योगिनः स्वाभिव्यक्तिर्जाता तत्र यथा तथा अन्यत्र सर्वत्र सदावहितस्य
सा भवति [अवहितस्य योगिनः शरीरान्तरसङ्क्रान्ति समुत्क्रान्त्यादिषु अपि
स्वातन्त्र्याविर्भावात् इत्यर्थः ।] । यथोक्तं श्रीस्वच्छन्दे

स्वच्छन्दश्चैव स्वच्छन्दः स्वच्छन्दो विचरेत्सदा [योगप्रकर्षात् तु
नित्यम् आदिमध्यान्तकोटिषु अयं श्रीस्वच्छन्दभैरव एव स्फुरन् स्थित इति यावत्
।] ।

इति । श्रीस्पन्देऽपि

लभते तत्प्रयत्नेन [अयमाशयः प्राकृतं जडमपि एतत्
बाह्याभ्यन्तरमिन्द्रियचक्रं प्रवृत्त्यादिचेतनव्यापारसमर्थं
यत्संस्पर्शबलात् भवति तत् तत्त्वमात्मत्वेन स्फुटीकृतं सत्
इन्द्रियचैतन्यापादनस्वातन्त्र्यवत् सर्वविषयस्वातन्त्र्यलाभाय कल्पते एव अतः
परीक्ष्यं येन अभ्यासदशायामेव अभिव्यज्यमाने स्वातन्त्र्ये
परशरीरावेशादिक्रीडा उपपद्यते ।] परीक्ष्यं तत्त्वमादरात् ।
यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥

इति ॥ १४ ॥

प्। ९४)

न चैवमपि उदासीनेन अनेन भाव्यम् अपि तु -

बीजावधानम् ॥ १५ ॥

कर्तव्यमिति शेषः । बीजं विश्वकारणं स्फुरत्तात्मा परा शक्तिः । यदुक्तं
श्रीमृत्युजिद्भट्टारके

सा योनिः सर्वदेवानां शक्तीनां चाप्यनेकधा ।
अग्नीषोमात्मिका योनिस्ततः [संहरसृष्टि-प्रमाणप्रमेय##-

इत्यादि । तत्र परशक्त्यात्मनि बीजे अवधानं भूयो भूयश्चित्तनिवेशनं
कार्यम् ॥ १५ ॥

एवं हि सति असौ योगी -

आसनस्थः सुखं ह्रदे निम-
ज्जति ॥ १६ ॥

आस्यते नित्यमैकात्म्येन स्थीयते अस्मिन् इति आसनं परं शाक्तं बलम् यस्तत्र
तिष्ठति परिहृतपरापरध्यानधारणादिसर्वक्रियाप्रयासो [शाक्त##-

प्। ९५)

नित्यमन्तर्मुखतया तदेव परामृशति यः स सुखमनायासतया ह्रदे
विश्वप्रवाहप्रसरहेतौ स्वच्छोच्छलत्तादियोगिनि
[विश्वप्रतिबिम्बोपग्रहणे शक्तत्वं स्वच्छता
देशकालाकारास्तूपादानसामग्रीनिरपेक्षं तत्तद्वस्तुरूपेण
अवभासनकारित्वमुच्छलत्ता ।] परामृतसमुद्रे निमज्जति
देहादिसङ्कोचसंस्कारब्रोडनेन तन्मयीभवति । यदुक्तं
श्रीमृत्युजिद्भट्टारके एव

नोर्ध्वे [ऊर्ध्वे द्वादशान्ते अधः कन्दादौ मध्यतो मध्ये हृदयादौ
अग्रतः पृष्ठतः पार्श्वयोः तत्पुरुष-सद्योजातादिरूपम् ।] ध्यानं
प्रयुञ्जीत नाधस्तान्न च मध्यतः ।
नाग्रतः पृष्ठतः किञ्चिन्न पार्श्वे नोभयोरपि ॥

नान्तः शरीरसंस्थं [नान्तः शरीरेति

आ मूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकाम् ।
चिन्तयेत्तां द्विषट्कान्ते शाम्यन्तीं भैरवोदयः ॥

इति-वत् । न बाह्य इति

वस्त्वन्तरे वेद्यमाने सर्ववेद्येषु शून्यता ।
तामेव मनसा ध्यायन्विदितेऽपि प्रशाम्यति ॥

इति-वत् । नाकाश इति

तेजसा सूर्यदीपादेराकाशे शबलीकृते ।
दृष्टिं निवेश्य तत्रैव स्वात्मरूपं प्रकाशते ॥

इति-वत् । नाध इति

कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात् ।
अविकल्पमतेः सम्यक्सद्यश्चित्तलयः स्फुटम् ॥

इति-वत् ।] तु न बाह्ये भावयेत्क्वचित् ।
नाकाशे बन्धयेल्लक्ष्यं नाधो दृष्टिं निवेशयेत् ॥

प्। ९६)

न चक्षुर्मीलनं [न चक्षुर्मीलनमिति

एवमेव निमील्यादौ नेत्रे कृष्णाभमग्रतः ।
प्रसार्य भैरवं रूपं भावयंस्तन्मयो भवेत् ॥

इति-वत् । दृष्टिबन्धनम् इति

निर्वृक्षगिरिभित्त्यादौ देशे दृष्टिं विनिक्षिपेत् ।
निलीने मानसे भावे वृत्तिक्षीणः प्रजायते ॥

इति-वत् । अवलम्ब्यते इत्यवलम्बो ध्येय आकारः तमिति

भावे त्यक्ते निरुद्धा चिन्नैव भावान्तरं व्रजेत् ।
तदा तन्मध्यभावेन विकसत्यतिभावना ॥

इति-वत् । निरालम्बमिति

उभयोर्भावयोर्ज्ञाने ज्ञात्वा मध्यं समाश्रयेत् ।
युगपच्च द्वयं त्यक्त्वा मध्ये तत्त्वं प्रकाशते ॥

इति-वत् । सह आलम्बेन वर्तते इति सालम्बं साकारज्ञानम्

इच्छायामथ वा ज्ञाने जाते चित्तं निवेशयेत् ।
तत्र बुद्ध्यानन्यचेतास्ततः स्यादात्मदर्शनम् ॥

इति-वत् ।] किञ्चिन्न किञ्चिद्दृष्टिबन्धनम् ।
अवलम्बं निरालम्बं सालम्बं नैव भावयेत् ॥

नेन्द्रियाणि [नेन्द्रियाणीति तत्तद्धारणापटलोक्तनीत्या सर्वं त्यक्त्वा
समाधिस्थ अकिञ्चिच्चिन्तकत्वेन स्वस्वरूपविमर्शप्रवणः तन्मयः
आनन्दपदसंलीनः समरसज्ञानमयः ।] न भूतानि
शब्दस्पर्शरसादयः ।
एवं त्यक्त्वा समाधिस्थः केवलं तन्मयीभवेत् ॥

प्। ९७)

सावस्था [या च एवं-भूता दशा सा शैवी मुक्तावस्था
वेद्योल्लासानामात्यन्तिकानवभासनपदम् विनिवर्तते इति सांसारिकीं स्थितिमुज्झति
इत्यर्थः ।] परमा प्रोक्ता शिवस्य परमात्मनः ।
निराभासं पदं तत्तु तत्प्राप्य विनिवर्तते ॥

इति ॥ १६ ॥

तदेवं
नाडीसंहाराद्याणवोपायक्रमासादितमोहजयोन्मज्जच्छुद्धविद्यात्मक##-
योगी-

स्वमात्रानिर्माणमापादयति ॥ १७ ॥

स्वस्य चैतन्यस्य सम्बन्धिनी मात्रा चिद्रसाश्यानतात्मा अंशः तद्रूपं
यथेष्टवेद्यवेदकावभासात्मकं निर्माणमापादयति निर्मितत्वेन दर्शयति ।
यदुक्तं श्रीस्वच्छन्दे

तदेव [महाप्रकाशात्मनः श्रीस्वतन्त्रनाथस्य स्वच्छन्दभैरवस्यैव
स्वस्वातन्त्र्येण स्थूलाभासतया स्फुरणात् स एव विचित्रवेद्यस्फूर्त्या उपाधियते
व्यापकः प्रकाशो हि व्याप्यात्मना स्फुरति न तु व्याप्यं नाम तस्माद्भिन्नम्
अतः स उपाधिः चित्तत्त्वात् नातिरिच्यते इति भावः ।] भवति स्थूलं
स्थूलोपाधिवशात्प्रिये ।
स्थूलसूक्ष्मविभेदेन तदेकं संव्यवस्थितम् ॥

इति । प्रत्यभिज्ञायामपि

प्। ९८)

आत्मानमत [एतादृशशुद्धस्वातन्त्र्यवशात् नैष तदा पृथगेव
लब्धप्रतिष्ठं वस्तु अवैति अपि तु अज्ञेयमात्मानम् अनियन्त्रितप्रभावतया
ज्ञेयीकरोति भिन्नज्ञेयसापेक्षत्वे ज्ञानकर्तृता म्लायेत् ज्ञातृत्वं हीयेत इति
तात्पर्यम् ।] एवायं ज्ञेयीकुर्यात्पृथक्स्थिति ।
ज्ञेयं न तु … ॥

इति । आगमेऽपि

जलं [यथा जलहिमयोः रस-तदाश्यानताभावः एवं शिव
तच्छक्त्यात्मजगतोः चिद्रस-तदाश्यानतासंवेदनात्
परशाक्तस्फारपूतहृदयानां पश्चिमं जन्मान्तरं नास्ति वर्तमाने
जीवन्ङ्क्ततया स्थितस्यापि देहस्य आरब्ध कर्मभोगक्षये निवर्तिष्यमाणत्वात् ।
] हिमं च यो वेद गुरुवक्त्रागमात्प्रिये ।
नास्त्येव तस्य कर्तव्यं तस्यापश्चिमजन्मता ॥

इति अनेनैव आशयेन उक्तम् । एतदेव

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥

इति-अनेन स्पन्दे प्रतिपादितम् ॥ १७ ॥

न चैवं स्वशक्तिनिर्मितभूतभावशरीरवतोऽस्य [द्विविधं शरीरं
भूतात्मकं भावात्मकं च । तत्र
मायाशक्तिवैभवविस्मारिततात्त्विकस्वभावतया वस्तुसंवेदनावसरे
स्वरूपापरामर्शमुकुलितसामर्थ्योऽयं जीवः अवच्छिन्नाहङ्कारास्पदतया
शिरःपाण्यादिमच्छरीरत्वेन यत् परामृशति तत् अस्य सृष्ट्यादिमयत्वात्
भूतात्मकम् । यत्तु व्यतिरिक्तं शब्दादिविषयत्वेन परामृशति तत्
भावात्मकम् । परमार्थे तु विचार्यमाणे द्वयमेव भिन्नं स्वस्मात् अस्य
शरीरं संवेद्यमानत्वाविशेषात् ।] जन्मादिबन्धः कश्चिदित्याह -

प्। ९९)

विद्याऽविनाशे जन्मविनाशः ॥ १८ ॥

प्रोक्तायाः सहजविद्याया अविनाशे सततोन्मग्नतया स्फुरणे जन्मनः
अज्ञानसहकारिकर्महेतुकस्य [अज्ञानपदेन अपूर्णम्मन्यता##-
सहकारि उपोद्बलकम् इत्यर्थः ।] दुःखमयस्य देहेन्द्रियादिसमुदायस्य
नाशो विध्वंसः सम्पन्न एव । यदुक्तं श्रीकण्ठ्याम्

सप्रपञ्चं परित्यज्य हेयोपादेयलक्षणम् ।
तृणादिकं तथा पर्णं पाषाणं सचराचरम् ॥

शिवाद्यवनिपर्यन्तं भावाभावोपबृंहितम् ।
सर्वं शिवमयं [प्रमेयविकासौन्मुख्यपरिवर्जनमेव
विश्वमयानुत्तरशिवमयीकरणम् प्राक् सृष्टेः विश्वस्य
चिद्रसस्वभावैकात्म्येन अवस्थानात् इत्यर्थः ।] ध्यात्वा भूयो जन्म न
प्राप्नुयात् ॥

इति । श्रीस्वच्छन्दे

स्वनिर्वाणं [स्वनिर्वाणं मोक्षमार्गः पराद्वयमयत्वात् अत एव परं
शुद्धं शुद्धाशुद्धसदाशिवादिपदात् अपि प्रकृष्टम् गुरूणां
परम्परैव पारम्परं परभैरव-तच्छक्ति-सदाशिव-ईशान##-
विमुक्तः स्यात् देहान्ते गत्वा तदैकात्म्यमेति ।] परं शुद्धं
गुरुपारम्परागतम् ।
तद्विदित्वा विमुच्येत गत्वा भूयो न जायते ॥

इति । श्रीमृत्युजित्यपि

प्। १००)

तत्त्वत्रयविनिर्मुक्तं [तत्त्वत्रयं नर-शक्ति-शिवाख्यम्
शाश्वतमविवर्तं विवर्तवाद इव न असत्यविभक्तान्यरूपोपग्राहि
अचलमपरिणामि ध्रुवं नित्यम् दिव्येन योगमार्गेण
विकल्पहानोन्मिषदविकल्पविमर्शावष्टम्भोपायेन साक्षात्कृत्य पुनर्जन्म
नैति ।] शाश्वतं त्वचलं ध्रुवम् ।
दिव्येन योगमार्गेण दृष्ट्वा भूयो न जायते ॥

इति ॥ १८ ॥

यदा तु शुद्धविद्यास्वरूपम् अस्य निमज्जति तदा -

कवर्गादिषु माहेश्वर्याद्याः पशु-
मातरः ॥ १९ ॥

अधिष्ठत्र्यो [परतत्त्वधामाधिरूढावपि प्रमाद्यतः पशून्
परापरमयशब्दप्रत्ययोत्पादनेन अविश्रान्तं परस्वरूपावृतौ
आधिपत्यभाजो मातृका मोहयन्ति इति तात्पर्यम् ।] भवन्ति इति शेषः ।

या सा [शक्तिर्विमर्शात्मिका समवायिनी परप्रमात्रवियुक्तत्वात्
तदात्मभूता तस्याः आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभाववशात्
इच्छात्वप्राप्तिः ।] शक्तिर्जगद्धातुः कथिता समवायिनी ।
इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ।
सैकापि सत्यनेकत्वं यथा गच्छति तच्छृणु ॥

एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् ।
ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते [इदमेतत्##-
कल्पितमायीयशून्यादिप्रमात्रपेक्षया भेदेन ज्ञापनात् ज्ञानशक्तिरुच्यते ।
] ॥

प्। १०१)

एवं भूतमिदं वस्तु भवत्विति यदा पुनः ।
जाता तदैव तत्तद्वत्कुर्वत्यत्र क्रियोच्यते
[निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्वैचित्र्यभूमिकाप्रपञ्चं
वितन्वतः परमेश्वरस्य असौ पारमेश्वरी स्वातन्त्र्यशक्तिः तत्तत्प्रमातृ##-
] ॥

एवं सैषा द्विरूपापि पुनर्भेदैरनन्तताम् ।
अर्थोपाधिवशात्प्राप्ता चिन्तामणिरिवेश्वरी ॥

तत्र तावत्समापन्नमातृभावा [वाच्य-वाचकात्मजगज्जननात् माता ।
] विभिद्यते ।
द्विधा च नवधा [कूटबीजस्यापि वर्गान्तरात्मतया अभ्युपगमात्
नवधात्वम् ।] चैव पञ्चाशद्धा च मालिनी ॥

बीजयोन्यात्मकाद्भेदाद् द्विधा बीजं स्वरा मताः ।
कादिभिश्च स्मृता योनिर्नवधा वर्गभेदतः ॥

बीजमत्र शिवः शक्तिर्योनिरित्यभिधीयते ।
वर्गाष्टकविभेदेन माहेश्वर्यादि चाष्टकम् ॥

प्रतिवर्णविभेदेन शतार्धकिरणोज्ज्वला [शतार्धेति
पञ्चाशच्छक्तिभास्वरा रुद्राणां पञ्चाशतो वाच्यात्मनाम् वाचकत्वेन
परिनिष्ठिता ।] ।
रुद्राणां वाचकत्वेन तत्सङ्ख्यानां निवेशिता ॥

इति-श्रीमालिनीविजयनिरूपितनीत्या पारमेश्वरी परावाक् प्रसरन्ती इच्छा##-
शिव-शक्ति-माहेश्वर्यादिवाचक-आदि-क्षान्तरूपां
मातृकात्मतां श्रित्वा सर्वप्रमातृषु अविकल्प-

प्। १०२)

क-सविकल्पक-तत्तत्संवेदनदशासु अन्तः परामर्शात्मना
स्थूलसूक्ष्मशब्दानुवेधनं विदधाना वर्ग##-
असङ्कुचितस्वतन्त्रचिद्धनस्वस्वरूपमावृण्वाना
सङ्कुचितपरतन्त्रदेहादिमयत्वमापादयति । तदुक्तं श्रीतिमिरोद्घाटेपि

करन्ध्रचितिमध्यस्था [ब्रह्माख्यसुषिरस्थे चिद्गगने संविदन्तःस्था
माहेश्वर्याद्या भेदमयज्ञानावभासनप्रावण्यात् घोरतर्यभिधाः
पशुमातरो दुरुच्छेदब्रह्मग्रन्थ्याश्रयाः पशुजनम् अधः
पातयन्तीत्यर्थः । यदुक्तम्

विषयेष्वेव संलीनानधोऽधः पातयन्त्यणून् ।
रुद्राणून्याः समालिङ्ग्य घोरतर्योऽपराः स्मृताः ॥

इति ।

घोरेति पाशजालाख्यं पापयुक्तं भयानकम् ।

इति च ।] ब्रह्मपाशावलम्बिकाः ।
पीठेश्वर्यो महाघोरा मोहयन्त्यो मुहुर्मुहुः ॥

इति पूर्वमपि संवादितम् । ज्ञानाधिष्ठानं मातृका (१-४-)
इति सामान्येन उक्तम् इदं तु प्राप्ततत्त्वोऽपि प्रमाद्यन् माहेश्यादिभिः
पशुजनाधिष्ठातृभूताभिरपि शब्दानुवेधद्वारेण मोह्यते इत्याशयेन इति
विशेषः ॥ १९ ॥

प्। १०३)

यत एवम् अतः शुद्धविद्यास्वरूपमुक्तयुक्तिभिरासादितमपि यथा न नश्यति
तथा सर्वदशासु योगिना सावधानेन भवितव्यम् इत्याह -

त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २० ॥

त्रिषु जागरादिषु पदेषु चतुर्थं शुद्धविद्याप्रकाशरूपं
तुर्यानन्दरसात्मकं धाम तैलवदिति यथा तैलं क्रमेण अधिकमधिकं
प्रसरद् आश्रयं व्याप्नोति तथा आसेच्यम् । त्रिष्वपि पदेषु
उन्मेषोपशान्त्यात्मकाद्यन्तकोट्योः परिस्फुरता तुर्यरसेन मध्यदशामपि
अवष्टम्भयुक्त्या व्याप्नुयात् येन तमयीभावमाप्नुयात्
[विश्वसृष्ट्याविर्भवनात्मकस्य उन्मेषस्य जागरादिदशानाम्
आद्यन्तकोटिषु प्रशमात् परिशिष्टस्य व्यापिनः तुर्यप्रकाशस्यैव रसः
आस्वाद्यते अतः सृष्टिरूपोन्मेषोऽपि तदवधानदृढाभ्यासात्
तुर्यरसमयीकार्यः इत्यर्थः ।] । जाग्रत्स्वप्नसुषुप्तेषु तुर्याभोगसम्भवः
(१-७) इत्यनेन उद्यम-शक्तिचक्रानुसन्ध्यवष्टम्भभाजः
स्वरसप्रसरज्जागरादिपदेषु सत्तामात्रं तुर्यस्योक्तम् । त्रितयभोक्ता वीरेशः
(१-११) इति

प्। १०४)

शाम्भवोपायानुगुणहठपाकयुक्त्या [हठपाकक्रमः हठेन
क्रमातिक्रमरूपेण सकृदुपदेशाद्यात्मना बलात्कारेण यः पाकः
चिदग्निसात्कारः तस्य क्रमेण सृष्ट्याद्युपाधीनां विगलनम् इयं युक्तिः
तीव्रतरशक्तिपाताधिकारेण शाम्भवोपायविशेषानुगुणा इत्यर्थः ।]
जागरादिसंहारो दर्शितः । अनेन तु सूत्रेण आणवोचितावष्टम्भयुक्त्या
दलकल्पं [दलः खड्गकोशः स यथा खड्गाद्विभिन्नः तद्वत्
पृथगवभासमानमित्यर्थः ।] जागरादित्रयं तुर्यरसासिक्तं कार्यम्
इत्युक्तम् इति विशेषः ॥

अत्रोपायमाह- [अत्रेति जागरादिदशासु तैलवत् आसेचने ।]

मग्नः स्वचित्तेन प्रविशेत् ॥ २१ ॥

प्राणादिस्थूलभावं [स्थूलो रेचकपूरकादिस्वभावः तदनन्तरभावि
सूक्ष्मम् आन्तरं मध्यपथेन रेचनाचमनादिरूपम् तदतीतम्
प्राणव्यतिरिक्तपूर्वतनचित्स्फुरत्तात्म स्पन्दनम् ।] तु त्यक्त्वा
सूक्ष्ममथान्तरम् ।
सूक्ष्मातीतं तु परमं स्पन्दनं लभ्यते यतः ॥

इत्युपक्रम्य

… प्रविशेत्तत्स्वचेतसा ॥

इति-श्रीमृत्युजिद्भट्टारकनिरूपितनीत्या प्राणायाम-ध्यान##-

प्। १०५)

स्वचित्तेन [चेत्यसङ्कोचौन्मुख्यहानपूर्वमसङ्कुचितचितिरूपेण इत्यर्थः ।

तत्संवेदनरूपण तादात्म्यप्रतिपत्तितः ।

इति-स्पन्ददृशा आदौ शिष्यात्मानं स्वात्मनि समरसीकृत्य
समनान्तमतिक्रम्य शुद्धात्मनि स्थितिं बद्ध्वा बोधरूपेण
अविकल्पसंवित्सप्र्शेनैव उन्मनाशक्त्यनुप्रवेशप्रमुखं शिवे योजयेत् ।]
अविकल्पकरूपेण अन्तर्मुखान्तरविमर्शचमत्कारात्मना संवेदन प्रविशेत्
समाविशेत् । कीदृक् सन् ? मग्नः शरीरप्राणादिप्रमातृतां तत्रैव
चिच्चमत्काररसे मज्जनेन प्रशमयन् । तदुक्तं श्रीस्वच्छन्दे

व्यापारं मानसं त्यक्त्वा बोधरूपेण योजयेत् ।
तदा शिवत्वमभ्येति पशुर्मुक्तो भवार्णवात् ॥

इति । श्रीविज्ञानभट्टारकेऽपि

मानसं चेतना शक्तिरात्मा चेति चतुष्टयम् ।
यदा प्रिये परिक्षीणं तदा तद्भैरवं वपुः [मानसं सङ्कल्पात्मकम्
चेतना बुद्धिः शक्तिः प्राणाख्या आत्मा एतदुपहितः परिमितप्रमाता
एतच्चतुष्टयं यदा परिक्षीणं चिच्चमत्कारतामापन्नं तदा तत् पूर्वोक्तं
भैरवं वपुर्भवति ।] ॥

इति । एतदेअ ज्ञानगर्भे स्तोत्रे

विहाय सकलाः क्रिया जननि मानसीः सर्वतो
विमुक्तकरणक्रियानुसृतिपारतन्त्र्योज्ज्वलम् ।

प्। १०६)

स्थितैस्त्वदनुभावतः सपदि वेद्यते सा परा
दशा नृभिरतन्द्रितासमसुखामृतस्यन्दिनी [मानसीः
विकल्पस्मृत्यादिरूपाः करणं
दिव्यकरणाख्यमूर्ध्वरेचकादिमुद्राबन्धनम् इत्थं
शाम्भवोपायसमाविष्टैर्योगिभिः अनुत्तरानन्ददशा अनुभूयते ।] ॥

इत्यनेन महागुरुभिर्निबद्धम् ॥ २१ ॥

इत्थं च परमपदप्रविष्टस्य अस्य वस्तुस्वाभाव्यात् [विसर्गधाम्नः
चिदर्कबिम्बस्य बहिः
विचित्रविश्वपदार्थोल्लिलसिषात्ममरीचिनिचयप्रसारणौन्मुख्यं स्वभावः
प्रत्यवम्रष्टृस्वरूपत्वात् ।] यदा पुनः प्रसरणं भवति तदा -

प्राणसमाचारे समदर्शनम् ॥ २२ ॥

परस्फुरत्तात्मकशाक्तपरिमलसंस्कृतस्य प्राणस्य सम्यक् इति
विअकसितसमग्रग्रन्थ्यात्मकान्तरावष्टम्भबलात् [यत्र विश्वे
पाशात्मग्रन्थयः स्वात्मसात्क्रियन्ते तादृशस्य आन्तरस्वरूपस्य
आलम्बनबलात् ।] आ ईषत् बहिर्मन्दमन्दं चारे प्रसरणे समं
चिदानन्दघनात्मतया एकरूपं दर्शनं संवेदनम् [येयं
जीवनस्वभावा चिद्रूपस्य स्थितिः सैव सामान्यस्पन्दरूपा अचेतनप्राणादेः
चेतनायमानतासम्पादयित्री अहमिति-विकल्पपरामर्शमयी
प्राणादिविशिष्टरूपेण पाञ्चविध्यं भजते तस्मात्
प्राणादिप्रसरणमुपजीव्य वर्तमाना जागरादितुर्यातीता दशा अन्यथा
तुर्यतदतीतयोः व्युत्थानानुपपत्तेः प्राणवृत्तिसद्भावादेव व्युत्थीयते
योगिभिः अतो हेयासु प्राथमिकीषु तिसृषु अवस्थासु चिदात्मतया संवेद्यते
वेद्यम् इति तात्पर्यम् ।] अर्थात् सर्वदशासु अस्य भवति इत्यर्थः । उक्तं च
श्रीमदानन्दभैरवे

प्। १०७)

उत्सृज्य लौकिकाचारमद्वैतं मुक्तिदं श्रयेत् ।
स समं सर्वदेवानां [देवानाम् अनाश्रित-सदाशिव-ईश्वर##-
द्रव्याणां क्षीरमद्यादीनां चिदात्मैक्यतापरामर्शी इत्यर्थः ।] तथा
वर्णाश्रमादिके ॥

द्रव्याणां समतादर्शी स मुक्तः सर्वबन्धनैः ।

इति । अत एव श्रीप्रत्यभिज्ञायाम्

बुद्धिप्राणप्रसरेऽपि बाह्यदेशाद्युपादानानाहितसङ्कोचानां
[अनाहितसङ्कोचानामिति अकृतचित्स्वरूपावृतीनाम् ।]
विश्वात्मस्वरूपलाभ एव ॥

इत्युक्तम् ॥ २२ ॥

यदा तु अन्तर्मुखतुर्यावधानावष्टम्भप्रकर्षलभ्यं तुर्यातीतपदम्
एवमयं न समाविशति अपि तु पूर्वापरकोटिसंवेद्यतुर्यचमत्कारमात्रे एव
सन्तुष्यन्नास्ते तदा अस्य -

मध्येऽवरप्रसवः ॥ २३ ॥

पूर्वापरकोट्योस्तुर्यरसमास्वादयतो मध्ये मध्यदशायाम्
[अवरप्रसवओ भेदप्रथनात्मा मध्यदशायामेव भवति न सर्वत्र ।
] अवरः अश्रेष्ठः प्रसवो व्युत्था-

प्। १०८)

नात्मा कुत्सितः सर्गो जायते । न तु विद्यासंहारे तदुत्थस्वप्नदर्शनम्
(२-१०) इत्युक्तसूत्रार्थनीत्या सदा व्यामुह्यति इत्यर्थः । उक्तं
श्रीमालिनीविजये

वासनामात्रलाभेऽपि योऽप्रमत्तो
[चिदानन्दघनस्वस्वरूपामृतरसास्वादने समाधानसंस्कारस्य
प्राप्तौ प्रमाद्यतो माहेश्वर्यादिभिः विघ्नद्भिः सिद्धैश्च
अनित्यदिव्यभोगेषु विलोभनात् तुर्यातीतपदसमावेशाय तेष् रतिः न विधेया
इत्यर्थः ।] न जायते ।
तमनित्येषु भोगेषु योजयन्ति विनायकाः ॥

तस्मान्न तेषु संसक्तिं कुर्वीतोत्तमवाञ्छया ।

इति प्रागपि (७१ पृ०) संवादितम् ॥ २३ ॥

एवमेव प्रसवेऽपि प्रवृत्ते यदि तुर्यरसावष्टम्भेन मध्यपदं सिञ्चति
पुनरपि तदा -

मात्रास्वप्रत्ययसन्धाने नष्टस्य
पुनरुत्थानम् ॥ २४ ॥

मात्रासु [मीयन्ते इति मात्राः रूपादयो विषयाः पञ्चस्वेव विषयेषु
विश्वपदार्थानां परिसमाप्तेः ।] पदार्थेषु स्वप्रत्ययसन्धानम् ।

चक्षुषा यच्च सन्धानं [सन्धानं रूपज्ञानम् वाचा
पश्यन्त्यादिरूपिण्या यानि सुखादीनि ।] वाचा वा यश्च गोचरः ।
मनश्चिन्तयते यानि बुद्धिश्चैवाध्यवस्यति ॥

प्। १०९)

अहङ्कृतानि यान्येव यच्च वेद्यतया स्थितम् [कल्पितप्रमात्रपेक्षया
भिन्नावभासप्राणितम् इदन्तास्पदम् अवलम्बयता ग्राह्यभावेन स्थितम् स इति
चित्प्रकाशः परमशिवो भावाभावमये विश्वस्मिन् जगति चित्प्रकाशैकात्म्येन
प्रकाशमाने अन्वेष्टव्य प्रत्यभिज्ञेयः । यथा अयं स चिदात्मा प्रकाशो
महेश्वरः यत्प्रकाशाभेदेन विश्वमिदं प्रकाशते प्रकाशबाह्यस्य
कस्यापि प्रकाशनानुपपत्तेः यस्तु अयं विश्वप्रकाशात्मा स्वप्रकाशः
प्रकाशः प्रकाशते स एवाहमिति तात्पर्यम् ।] ।
यश्च नास्ति स तत्रैव त्वन्वेष्टव्यः प्रयत्नतः ॥

इति-श्रीस्वच्छन्दनिरूपितनीत्या विश्वमिदम् अहम् इति चिद्घनात्मरूपतां
सर्वत्र अनुसन्दधतः [पौनः-पुन्येन आवेशसद्भावात् अवहितत्वेन
विमृशतः ।] पूर्वोक्तावरप्रसवात् नष्टस्य
अपहारिततुर्यैकघनचमत्कारमयस्वभावस्य पुनरुत्थानम् उन्मज्जनं
तदैक्यसम्पत्सम्पूर्णत्वं योगिनो भवति इत्यर्थः । तदुक्तं श्रीस्वच्छन्दे

प्रसह्य चञ्चलीत्येव [कुटिलं चलति भोगाभिलाषेण व्युत्थानमेव धावति
न अभीष्टं पदमवष्टभ्नाति यस्मात् ।] योगिनामपि यन्मनः ।

इत्युपक्रम्य

यस्य [तत इति अध्याहार्यम् पूर्वपद्यसापेक्षत्वात् ज्ञेयं परतत्त्वं भाव
आशयः चिन्त्यतुर्यातीतपदमयः स्थिरो निश्चलः पूर्णो निराकाङ्क्षः
समन्ततः सर्वंसर्विकया तुः अप्यर्थे ।] ज्ञेयमयो भावः स्थिरः
पूर्णः समन्ततः ।
मनो न चलितं तस्य सर्वावस्थागतस्य तु ॥

प्। ११०)

यत्र यत्र मनो [ईदृशस्य महायोगिनो मन एव
परतत्त्विक्यभावनावासितं कर्तृ तुर्यातीतपदं ज्ञेयं सर्वत्र चिन्तयत्येव ।
तदुक्तं महागुरुभिः

शिवभावनयौषध्या बद्धे मनसि संसृतेः ।
काष्ठकुड्यादिषि क्षिप्ते रसवच्छिवहेमता ॥ इति ।] याति ज्ञेयं तत्रैव
चिन्तयेत् ।
चलित्वा यास्यते कुत्र सर्वं शिवमयं यतः ।

इति ।

विषयेषु च सर्वेषु इन्द्रियार्थेषु [इन्द्रियाणि च अर्थश्च ऐन्द्रियिकं
प्रयोजनं च विषयोपभोगः तेषु स्थितो योगिवरो यो निरूप्येत विचार्येत यत्र
कुत्रापि नास्य अशिवमस्ति सर्वस्य अस्य प्रकाशमानतया
प्रकाशघनशिवैकात्म्यात् ।] च स्थितम् ।
यत्र यत्र निरूप्येत नाशिवं विद्यते क्वचित् ॥

इति च ॥ २४ ॥

इत्थमासादितप्रकर्षो योगी-

शिवतुल्यो जायते ॥ २५ ॥

तुर्यपरिशीलनप्रकर्षात् [पुनः पुनः तुर्यपदपरामर्शनदार्ढ्यात्
मध्यधाम्नि प्रोच्छलदहन्ताचमत्कृतिप्ररूढेः ।] प्राप्ततुर्यातीतपदः
परिपूर्णस्वच्छस्वच्छन्दचिदानन्दघनेन शिवेन भगवता तुलोयो देहकलया
अविगलनात् तत्समो जायते [मुखेन्दुरिति-वत् ईषत् न्यूनतया साम्यम् ।]
। तद्विगलनेन साक्षाच्छिव एव असौ इत्यर्थः । तथा च श्रीकालिकाक्रमे

प्। १११)

तस्मान्नित्यमसन्दिग्धं बुद्ध्वा योगं गुरोर्मुखात् ।
अविकल्पेन [विकल्पहान्या उन्मिषदविकल्पविमर्शावष्टम्भेन
शिवमयभावेन तुर्यातीताख्यं पदं भावयेत् शिवमयभावनाया
भैरवस्वरूपसाम्यप्राप्त्यवधित्वात् ।] भावेन भावयेत्तन्मयत्वतः ॥

यावत्तत्समतां याति भगवान्भैरवोऽब्रवीत् ।

इति ॥ २५ ॥

एवमपि च येनेदं तद्धि भोगतः इत्याद्युक्तरीत्या
उपनतभोगातिवाहनमात्रप्रयोजनात् देहस्थितिः अस्य न अतिक्रमणीया इत्याह
[आगामिसञ्चितयोः कर्मणोः ज्ञानाग्निना भस्मसाद्भावेऽपि प्रारब्धस्य
भोगमन्तरेण नाशयितुमशक्यत्वात् जीवन्मुक्तस्य आ
प्रारब्धभोगपरिसमाप्तेः देहस्थितिः चक्रभ्रमिरिव आ वेगावसानात् न
अतिवर्तनीयाः देहपातेः अपुनरावर्तनात् ।] -

शरीरवृत्तिर्व्रतम् ॥ २६ ॥

प्रोक्तदृशा शिवतुल्यस्य योगिनण् शिवाहम्भावेन वर्तमानस्य शरीरे
वृत्तिर्वर्तनं यत् तदेव व्रतम्
स्वस्वरूपविमर्शात्मकनित्योदितपरपूजातत्परस्य नियमेन अनुष्ठेयम् अस्य ।
तथा च श्रीस्वच्छन्दे

प्। ११२)

सुप्रदीप्ते [देह-मन्त्र-प्राण-आत्म-शिवपदानाम् औचित्यात्
काष्ठ-अरणि-वह्नि-तच्छिखा-अम्बराणि दृष्टान्तः तेन
अरणिमन्थनयुक्त्या सुप्रदीप्ते प्रज्वालिते वह्नौ सति यथा शिखा ज्वाला दाह्यं
दग्ध्वा अम्बरे दृश्यते तत्र लयात् तदात्मभावं प्राप्ता अवलोक्यते
तद्वद्दिव्यक्रणमन्त्रारणिसमुत्तेजनेन देहे यः प्राणः तस्मिन् सुप्रदीप्ते
मध्योर्ध्ववाह्युदानाग्नितामायाति देहे स्थितो य आत्मा
प्रोक्तशुद्धविज्ञानकेवलरूपो वह्निशिखातुल्यः समनान्तं समस्तं
देहदारु दग्ध्वा तस्मिन् तुर्यातीते पदे लीयते निरुपाधि##-
चाम्बरे ।
देहप्राणस्थितोऽप्यात्मा तद्वल्लियेत तत्पदे ॥

इत्युक्त्या देहप्राणाद्यवस्थितस्यैव शिवसमाविष्टत्वमुक्तम् । न पुनस्तस्य
देहस्थितिव्यतिरिक्तं व्रतमुपयुक्तम् । यदुक्तं श्रीत्रिकसारे

देहोत्थिताभिर्मुद्राभिर्यः सदा मुद्रितो बुधः ।
स तु मुद्राधरः [अन्तर्लक्ष्यबहिर्दृष्टिः इत्याद्युक्तनीत्या
शाम्भवीयमुद्रामुद्रणात् मुद्राधरः न तु काय##-

इति । श्रीकुलपञ्चाशिकायामपि

अव्यक्तलिङ्गिनं दृष्ट्वा सम्भाषन्ते मरीचयः
[निगूढभैरवीयमुद्राचिह्नितस्य सर्वाः शक्तयः उपसृता आविर्भवन्ति ।
व्यक्तस्थूलमुद्राधृतोऽनुपसरणात् ।] ।
लिङ्गिनं नोपसर्पन्ति अतिगुप्ततरा यतः ॥

इति ॥ २६ ॥

प्। ११३)

एवं-विधस्य अस्य -

कथा जपः ॥ २७ ॥

अहमेव परो हंसः शिवः परमकारणम् ।

इति-श्रीस्वच्छन्दनिरूपितनीत्या नित्यमेव पराहम्भावनामयत्वात् ।

तस्य देवातिदेवस्य परबोधस्वरूपिणः ।
विमर्शः परमा शक्तिः सर्वज्ञाः ज्ञानशालिनी ॥

इति-श्रीकालिकाक्रमनिरूपितनीत्या
महाम्न्त्रात्मकाकृतकाहंविमर्शारूढस्य यद्यदालापादि तत्तदस्य
स्वात्मदेवताविमर्शानवरतावर्तनात्मा जपो जायते
[अनुत्तरज्ञानशालित्वात् योगिनो यत्किञ्चन आलापादि लौकिकव्यवहृत्यनुसारि
तदस्य जपः अहम्परामर्शसार-स्वात्मदेवताभावनातात्पर्यात् नहि
प्रकाशात्मपरप्रमातृरूपतां विना किञ्चिदपि प्रस्फुरेदित्यर्थः ।] ।
यदुक्तं श्रीविज्ञानभैरवे

भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः [विश्वपूरणात् परे
भावे स्वस्वभावे या भावना विमर्शना

अहमेव परो हंसः शिवः परमकारणम् ।
इत्यादिरूपा भाव्यते सम्पाद्यते स जपः नादोऽकृतकाहंविमर्शात्मा जप्यो
जपनीयो स्वात्मदेवः । यदुक्तम्

नास्योच्चारयिता कश्चित्प्रतिहन्ता न विद्यते ।
स्वयमुच्चरते देवि प्राणिनामुरसि स्थितः ॥ इति ।] ॥

इति । तथा

प्। ११४)

सकारेण बहिर्याति हकारेण विशेत्पुनः ।
हंस-हंसेत्यमुं मन्त्रं जीवो जपति नित्यशः ॥

षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ।
जपो देव्या विनिर्दिष्टः सुलभो दुर्लभो जडैः ॥

इति ॥ २७ ॥

ईदृग्जपव्रतवतोऽस्य चर्यामाह [चर्या स्वरूपसाक्षात्कारोपायस्थितिः
कर्तव्यं वा ।] -

दानमात्मज्ञानम् ॥ २८ ॥

प्रोक्तचैतन्यरूपस्य आत्मनो यत् ज्ञानं साक्षात्कारः तत् अस्य दानम् दीयते
परिपूर्णं स्वरूपम् दीयते खण्ड्यते विश्वभेदः [विश्वरूपो
धरण्यादिशिवान्तं षट्त्रिंशत्तत्त्वलक्षणो भेदः ।] दायते शोध्यते
मायास्वरूपम् दीयते रक्ष्यते लब्धः शिवात्मा स्वभावश्च अनेन इति कृत्वा
[डुदाञ् दाने दो अवखण्डने दीङ् रक्षणे दैप् शोधने एते अत्र घातवः ।
] ।

अथ च दीयते इति दानम् आत्मज्ञानमेव अनेन अन्तेवासिभ्यो दीयते । तदुक्तम्

प्। ११५)

दर्शनात्स्पर्शनाद्वापि वितताद्भवसागरात् ।
तारयिष्यन्ति योगीन्द्राः [योगीन्द्राणां योगिनीसिद्धादीनां दर्शन##-
तीव्रशक्तिपातवत्सु अनुग्राह्येषु उपकर्तव्यत्वम् इत्यर्थः । कुलानां
देहाक्षभुवनादीनामाचरणम् आचारः सृष्टिसंहाराख्यः तत्र अवहिताः ।
] कुलाचारप्रतिष्ठिताः ॥

इति ॥ २८ ॥

यथोक्तनीत्या शिवतुल्यतया नित्यमेवं व्रतजपचर्यानिष्ठत्वात्
निजशक्तिचक्रारूढः [स्वशक्तिविकासमयं विश्वमध्यासीनः ।] स
एव तत्त्वत उपदेश्यानां प्रतिबोधक [स्वस्वरूपप्रत्यभिज्ञापकः ।]
इत्याह -

योऽविपस्थो ज्ञाहेतुश्च ॥ २९ ॥

अवीन् पशून् पाति इति अविपं कवर्गादिषु माहेश्वर्याद्याः पशुमातरः
(३-१९) इत्यभिहितदृशा माहेश्वर्यादिशक्तिचक्रं तत्र तिष्ठति
विदितस्वमाहात्म्यत्वात् [सर्वोऽयं मद्विभव इति
प्रत्यभिज्ञातसात्मैश्वर्यत्वात् ।] प्रभुत्वेन यः प्रतपति स ज्ञाहेतुः
जानाति इति ज्ञा ज्ञानशक्तिः तस्या हेतुः उपदेश्स्यान् ज्ञानशक्त्या
प्रतिबोधयितुं [स्वात्मानं प्रत्यभिज्ञापयितुमित्यर्थः ।]

प्। ११६)

क्षमः । अन्यस्तु शक्तिचक्रपरतन्त्रीकृतत्वात् स्वात्मनि अप्रभविष्णुः
[माहेश्वर्यादिशक्तिभिः पारतन्त्र्याधानात् पशुभावमापितः ।]
कथमन्यान् प्रबोधयेत् । यच्छब्दापेक्षया सूत्रेऽत्र तच्छब्दोऽध्याहार्यः । च
शब्दो ह्यर्थे । योऽयमविपस्थः स यस्मात्
ज्ञानप्रबोधनहेतुस्तस्माद्युक्तमुक्तम् दानमात्मज्ञानम् (३##-

अन्ये तु अक्षरसारूप्यात् [अश्नोतेरौणादिकसरन्-प्रत्यये अश्नुते
प्रतिशब्दमिष्टार्थप्रकाशितया वेदाङ्गानि व्याप्नोतीत्यक्षरम् तत्सारूप्यात्
प्रतिशब्दमक्षरसमरूपसङ्गतशब्दैर्निर्वचनं विधेयमित्यर्थः ।]
प्रब्रूयात् इति निरुक्तस्थित्या यो इति योगीन्द्र वि इति विज्ञानम् प इति पदम् स्थ इति
पदस्थः इत्यस्य अन्त्यमक्षरम् । ज्ञ इति ज्ञाता हे इति हेयः तु इति तुच्छता
विसर्जनीयेन विसर्गशक्तिः [ऊर्ध्वाधःसृष्टिरूपा ।] चकारेण
अनुक्तसमुच्चयार्थेन कर्ता परामृश्यते इत्याश्रित्य यो योगीन्द्रो
विमर्शशक्त्या स्वरूपात्मविज्ञानपदस्थः स ज्ञाता कर्ता च अवगन्तव्यः
तदा च अस्य हेयतां तुच्छतां निःसारतां न तु उपादेयतामा-

प्। ११७)

सादयति इति व्याचक्षते । एतच्च न नः प्रतिभाति पदार्थसङ्गतेर्नातिचारुत्वात्
प्रतिसूत्रं च ईदृशव्याख्याक्रमस्य सहस्रशो दर्शयितुं शक्यत्वात् ॥ २९ ॥

अस्य च -

स्वशक्तिप्रचयोऽस्य विश्वम् ॥ ३० ॥

यतोऽयं शिवतुल्य उक्तस्ततो यथा

शक्तयोऽस्य जगत्कृत्स्नम् … ।

इत्याद्याम्नायदृष्ट्या शिवस्य विश्वं स्वशक्तिमयं तथा अस्यापि स्वस्याः
संविदात्मनः शक्तेः प्रचयः क्रियाशक्तिस्फुरणरूपो
[विश्वनिर्माणसामर्थ्यं क्रियाशक्तिरित्यर्थः ।] विकासो विश्वम् ।
यदुक्तं श्रीमृत्युजिति

यतो ज्ञानमयो [देवः परमेश्वरो ज्ञानमयः चिन्मात्रपरमार्थः
तच्च ज्ञानं बहुधा स्वातन्त्र्यात् सङ्कोचमाभास्य नानात्वमाश्रित्य स्थितम्
अतश्च सङ्कोचाभासभाजो ये निगूहितस्वरूपतया नियन्त्रिता आभासिता देवेन तत
एव बद्धाः तेषां नानादर्शनोपासाभिः स्वस्वरूपप्रथाहेतुतया यतो देवः
त्राणं तस्मात् निरुक्तदृशा नेत्रमुच्यते न तु चक्षुर्गोलकतया ।] देवो
ज्ञानं च बहुधा स्थितम् ।
नियन्त्रितानां बद्धानां त्राणं तन्नेत्रमुच्यते ॥

कालिकाक्रमेऽपि

प्। ११८)

तत्तद्रूपतया [नीलसुखादिरूपतया बहिरन्तःप्रकाशमानानां
भावानां प्रकाशसारत्वात् तदन्वयव्यतिरेकानुविधायित्वेन पृथक् सत्ता
नास्ति इत्यर्थः ।] ज्ञानं बहिरन्तः प्रकाशते ।
ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् ॥

न हि ज्ञानादृते भावाः केनचिद्विषयीकृताः ।
ज्ञानं तदात्मतां यातमेतस्मादवसीयते [यो यमनुपजीव्य नोपलभ्यते
स तस्मात् अव्यतिरेकी यथा मृदं विना घटः तस्मात् ज्ञानस्यैव
ज्ञेयभावात्मतया परिनिष्ठनिश्चय इत्यर्थः ।] ॥

अस्तिनास्तिविभागेन निषेधविधियोगतः ।
ज्ञानात्मता ज्ञेयनिष्ठा भावानां भावनाबलात् ॥

युगपद्वेदनाज्ज्ञानज्ञेययोरेकरूपता [भावाभावरूपाणां
नीलसुखादिभावानां भावनाबलात् स्वात्मसाक्षात्कारबलात् उभयोः
ज्ञानज्ञेययोः एकतमसान्निध्यविरहे सत्ताया असम्भवात्
ऐकरूप्याभ्युपगमः ।] ।

इति ॥ ३० ॥

न केवलं सृष्टिदशायां निजशक्तिविकासोऽस्य विश्वं यत् तत्पृष्ठपातिनौ -

स्थितिलयौ ॥ ३१ ॥

स्वशक्तिप्रचयः इत्यनुवर्तते । क्रियाशक्त्याभासितस्य विश्वस्य
तत्तत्प्रमात्रपेक्षं कञ्चित्कालं बहिर्मुखत्वावभासनरूपा या स्थितिः
चिन्म-

प्। ११९)

यप्रमातृविश्रान्त्यात्मा च यो लयः तावेतौ एतस्य स्वशक्तिप्रचय एव
तत्तद्वेद्यं हि आभासमानं विलीयमानं च निजसंविच्छक्त्यात्मकमेव
अन्यथा अस्य संवेदनानुपपत्तेः [कल्पितशून्यमायीयादिप्रमातुः
अपेक्षया विश्वस्य बाह्यतावभासमयी स्थितिः कल्पितप्रमातृभावनिमज्जने
तदपेक्षिविश्वबाह्यतानवभासनात् चिन्मयस्वरूपविश्रान्तिः विलयः उभयस्य
अस्य स्वसंविच्छक्तिमयत्वात् तदनभ्युपगमे द्वयोरपि अनयोः
उपलब्ध्यनुपपत्तेः इति तात्पर्यम् ।] । अत एव श्रीकालिकाक्रमे

अस्तिनास्तिविभागेन … ।

इत्यादि स्थितिलयपरत्वेनोक्तम् । तथा

सर्वं शुद्धं निरालम्बं [आलम्बात् वेद्यात् निष्क्रान्तं
क्रोडीकृताशेषवेद्यम् स्वप्रत्ययात्मकं स्वाहन्तात्मकम् ।] ज्ञानं
स्वप्रत्ययात्मकम् ।
यः पश्यति स मुक्तात्मा जीवन्नेव न संशयः ॥

इति ॥ ३१ ॥

नन्वेवं सृष्टिस्थितिलयावस्थासु अन्योन्यभेदावभासमयीषु अस्य
स्वरूपान्यथात्वमायातम् ! [वेद्यपरामर्शनौन्मुख्ये
तदतिरिक्तस्वात्मविमर्शननिरासोऽन्यथात्वम् ।] इत्याशङ्काशान्त्यर्थमाह -

प्। १२०)

तत्प्रवृत्तावप्यनिरासः संवे-
त्तृभावात् ॥ ३२ ॥

तेषां सृष्ट्यादीनां प्रवृत्तावपि उन्मज्जनेऽपि नास्य योगिनः
संवेत्तृभावात् तुर्यचमत्कारात्मकविमर्शमयात् उपलब्धृत्वात्
निरासश्चलनम् तन्निरासे कस्यचिदप्यप्रकाशनात् । यदुक्तं तत्रैव

नाशेऽविद्याप्रपञ्चस्य [मायोद्भासितदेहाक्षतत्त्वभुवनादिविलयेऽपि
सदोदितस्फुरणधर्मिणः संवित्स्वभावस्य उदयास्तमयाभावात् अविनाशिता
व्यवहारदशायामपि ध्वंसोत्पत्त्योः प्रकाशमानतया तदभिन्नयोः
प्रकाशान्तर्विश्रान्त्या उपचर्यमाणत्वम् इत्यर्थः ।] स्वभावो न विनश्यति

उत्पत्तिध्वंसविरहात्तस्मान्नाशो न वास्तवः ॥

यतोऽविद्या समुत्पत्तिध्वंसाभ्यामुपचर्यते ।
यत्स्वभावेन नष्टं न तन्नष्टं कथमुच्यते ॥

इति । एतदेव स्पन्दे

अवस्थायुगलं [ग्राह्यग्राहकभावभिन्नयोः भोग्यभोक्तृतयोः मध्ये
भोग्यात्ममायाप्रपञ्चो भेदनिष्ठो विलीयते उदयते च भोक्तुः पुनः
चिन्मयस्य अकालकलिततया न कथञ्चित् विलयोदयशङ्का ।] चात्र
कार्यकर्तृत्वशब्दितम् ।
कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥

तथा ।

प्। १२१)

कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते ।
तस्मिṁलुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते [यथा कश्चित् देवदत्तो
गृहाद्यवस्थितः केनापि आहूतो भोः देवदत्त ? इति स
आत्मानमपह्नोतुकामः प्रत्याह नाहमस्मि इति । एवमुक्ते प्रत्युत
स्थितोऽहमस्मीति प्रतिपादितं भवति न तु असन्निधानम् इत्येवं
प्रकारोऽप्रबुद्धविषये तस्मात् अभावसमाध्यवस्थासु कार्याभावात्
करणव्यापारविरतिमात्रेण आत्माभावप्रत्ययो भ्रान्तिरेव इत्याशयः ।] ॥

न तु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदम् ।
तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात्
[अन्तर्मुखस्वरूपविनाशितायां विश्वमनीलमूकप्रायं स्यादित्यर्थः ।
] ॥

इत्यनेनोक्तम् ॥ ३२ ॥

अस्य योगिनः -

सुखदुःखयोर्बहिर्मननम् ॥ ३३ ॥

वेद्यस्पर्शजातयोः सुखदुःखयोर्बहिरिव नीलादिवत् इदन्ताभासतया मननं
संवेदनं न तु लौकिकवत् अहन्तास्पर्शनेन अस्य हि स्वशक्तिप्रचयोऽस्य विश्वम्
(३-३०) इत्युक्तसूत्रार्थनीत्या सर्वम् अहन्ताच्छादितत्वेन स्फुरति न तु
नियतं सुखदुःखाद्येव इत्येवम्परमेतत् । योगी हि
प्रशान्तपुर्यष्टकप्रमातृभावः कथं

प्। १२२)

सुखदुःखाभ्यां स्पृश्यते । तथा च श्रीप्रत्यभिज्ञासूत्रविमर्शिन्याम् ।

ग्राहकभूमिकोत्तीर्णानां वास्तवप्रमातृदशाप्रपन्नानां
तत्तत्स्वहेतूपस्थापितसुखदुःखसाक्षात्कारेऽपि
[विचित्रस्रक्चन्दनवनितादयः सुखहेतुः द्वेष्योपगमो दुःखहेतुः ।]
न तेषां सुखदुःखादि नोत्पद्यत एव वा सुखादि हेतुवैकल्यात्
[सुखादिहेतूनां चित्प्रकाशान्तर्ब्रुडिततया चमत्करणात् तदभावः ।]
सहजानन्दाविर्भावस्तु तदा स्यात् ॥

इत्युक्तम् । अत एव

न दुःखं न सुखं यत्र न ग्राह्यं ग्राहको न च ।
न चास्ति मूढभावोऽपि तदस्ति परमार्थतः
[सुखदुःखाद्याश्रयावस्थाद्वयेन विनश्यत्स्वभावेन अस्पृष्टस्य
संवित्तत्त्वस्य तदनाकलितत्वात् सौषुप्तपदस्यापि संवेद्यत्वात् संवेदकसत्ता
तत्र अभ्युपगम्यते अन्यथा तदौत्तरकालिकस्मृत्यनुपपत्तेः ।] ॥

इति स्पन्दे निरूपितम् ॥ ३३ ॥

यतश्च उत्तिर्णपुर्यष्टकप्रमातृभावस्य योगिनो नान्तः
सुखदुःखसंस्पर्शः अत एवासौ -

तद्विमुक्तस्तु केवली ॥ ३४ ॥

ताभ्यां सुखदुःखाभ्यां विशेषेण मुक्तः संस्कारमात्रेणापि अन्तर्
असंस्पृष्टः केवली

प्। १२३)

केवलं चिन्मात्रप्रमातृतारूपं यस्य । तदुक्तं श्रीकालिकाक्रमे

सुखदुःखादिविज्ञानविकल्पानल्पकल्पितम् ।
भित्त्वा द्वैतमहामोहं योगी योगफलं लभेत् ॥

इति । तु-शब्दो वक्ष्यमाणापेक्षया विशेषद्योतकः एवमुत्तरसूत्रगतोऽपि
एतत्सूत्रापेक्षया ॥ ३४ ॥

यदाह -

मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५ ॥

मोहेन अज्ञानेन प्रतिसंहतः तदेकघनः तत एव सुखदुःखाश्रयो यः स
पुनः कर्मात्मा नित्यं शुभाशुभकलङ्कितः । तदुक्तं तत्रैव

यदविद्यावृततया विकल्पविधियोगतः ।
शिवादीन्नैव झटिति समुद्भावयतेऽखिलान् ॥

ततः शुभाशुभा भावा लक्ष्यन्ते तद्वशत्वतः ।
अशुभेभ्यश्च भावेभ्यः परं दुःखं प्रजायते [अज्ञजनस्य
घटपटादिविविधविकल्पजालकल्पनामास्थितस्य शिवादितत्त्वानाम्
अनुत्तरचिद्घनस्वभावतया अपरामर्शनात् मायीयमलमलिनतां प्राप्य
शुभाशुभकार्ममलसमुत्थदुःखानुभवः । तज्ज्ञस्य तु विश्वस्य
भावपटले स्वात्मविलसितमिदम् इति प्रविविञ्चानस्य सहजसुखाविर्भाव
इत्यर्थः ।] ॥

इति ॥ ३५ ॥

प्। १२४)

एवमीदृशस्यापि कर्मात्मनो यदा
अनर्गलमाहेशशक्तिपातवशोन्मिषितसहजस्वातन्त्र्ययोगो भवति तदा अस्य -

भेदतिरस्कारे सर्गान्तरकर्म-
त्वम् ॥ ३६ ॥

शरीरप्राणाद्यहन्ताभिमानात्मनः सकलप्रलयाकलादिप्रमात्रुचितस्य
[मायापदे शून्यप्रमातृरूपाः प्रलयाकलाः तेषां प्रलीनकल्पं
विश्वं प्रमेयम् स्वौचित्यात् सकला ब्रह्मादिकीटान्ताः क्षेत्रज्ञा
भिन्नभिन्नप्रायं विश्वं पश्यन्तः तेषां तथाभूतमेव सर्वतो भिन्नं
परिमितं प्रमेयम् । इत्थं प्रमातॄणां यथा-स्वस्वभावं भेदाभास
इत्यर्थः ।] भेदस्य तिरस्कारे स्थितस्यापि चिद्घनस्वभावोन्मज्जनाद्
अपहस्तने सति क्रमेण मन्त्र-मन्त्रेश्वर##-
यथाभिलषितनिर्मेयनिर्मातृत्वं भवति । तथा च श्रीस्वच्छन्दे

त्रिगुणेन [त्रैगुण्यमनेकगुणतोपलक्षणम् ।
महामन्त्रात्मकपरिपूर्णाहम्भावेन स्वस्वभावपरामर्शने अवहितत्वात्
स्वच्छन्दसादृश्यम् ।] तु जप्तेन स्वच्छन्दसदृशो भवेत् ।

इति स्वच्छन्दसादृश्येन भेदतिरस्कारमस्य उक्त्वा

प्। १२५)

ब्रह्मविष्ण्विन्द्रदेवानां सिद्धदैत्योरगेशिनाम् [उरगानामीशते तच्छीला
इति उरगेशिनः शेषादयः शापानुग्रहादिकृत्त्वात् सिद्धादीन् प्रति अस्य
भयदातृभयहर्तृत्वम् ।] ॥

भयदाता च हर्ता च शापानुग्रहकृद्भवेत् ।
दर्पं हरति कालस्य पातयेद्भूधरानपि ॥

इत्युक्तम् ॥ ३६ ॥

न च एतदस्य असम्भाव्यम् यतः-

करणशक्तिः स्वतोऽनुभवात् ॥ ३७ ॥

स्वतः स्वस्मादेवानुभवात् सङ्कल्पस्वप्नादौ करणशक्तिः
[विश्ववैचित्र्यनिर्माणशक्तिः ।] तत्तदसाधारणार्थनिर्मातृत्वम्
आत्मनः सिद्धमेव । अनेनैव आशयेन श्रीप्रत्यभिज्ञायाम्

अत एव यथाभीष्टसमुल्लेखावभासनात् [यथाभिमतवस्तूनां
बहिरसत्त्वात् अननुभूतानामपि सम्यगुल्लेखनात् प्रकाशनाच्च हेतोः यस्य
कस्यचित् ब्रह्मादिकीटान्तस्य प्राणिनः उल्लेखनात्मिका क्रियाशक्तिः
अवभासनात्मिका ज्ञानशक्तिश्च स्वाभाविकी इति सिद्धति तस्मात्
कल्पितप्रमातृभूमिकायामपि
व्यतिरिक्तेश्वरोपकॢप्तप्राच्यसृष्टिमनुपजीव्यैव
यथाभिमतोल्लेखनादिव्यापारसम्भावनाभावात्
ज्ञानक्रियालक्षणस्यैश्वर्यस्यैव स्फुटं प्रत्यभिज्ञेयतावश्यम्भावः ।
] ।
ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥

इत्युक्तम् । तथासम्भवात् यदि चैतत् गाढा-

प्। १२६)

भिनिवेशेन विमृशति तदा सर्वसाधारणा [विमर्शातिशयवशात्
सर्वजनैः तन्निर्मितिः द्रष्टुं शक्यते
प्रसिद्धविश्वामित्रादिमुनिरचितनूतनस्वर्गसृष्टिगाथावत् इत्यर्थः ।]
अभीष्टार्थनिर्मातृतापि भवति । तदुक्तं तत्त्वगर्भे

यदा [यदा ते योगिनः सुस्फुटं स्वकीयज्ञाक्रियाशक्तिशालिनः तदा तेषां
अभीष्टपदार्थनिर्मिते दार्ढ्यदीनता अस्थैर्यं दृढतरं यथा तथा
अदूरमचिराय दारिता खण्डिता भवति तत्सङ्कल्पस्य च कल्पतरुवत्
चिन्तिताशुदायित्वात् इत्यर्थः ।] तु तेऽपि सुव्यक्तस्वसामर्थ्यगुणोज्ज्वलाः ।
भवेद्दृढतरादूरदारिता दार्ढ्यदीनता ।
तदा च तेषां सङ्कल्पः कल्पपादपतां व्रजेत् ॥

इति ॥ ३७ ॥

यतश्च करणशक्तिशब्दोक्त्या तुर्यात्मा स्वातन्त्र्यशक्तिरेव बोधरूपस्य
प्रमातुः सारम् [अन्यथा स्वातन्त्र्यसारताविरहे निर्विमर्शस्य
संवित्प्रकाशस्य तत्तद्भावजातप्रतिफलिततायामपि स्फटिकादिवत् जाड्यापत्तेः
विश्वव्यवहारविप्रलोपः स्यादित्यर्थः ।] अतो
मायाशक्त्यपहस्तिततत्स्वरूपोत्तेजनाय -

त्रिपदाद्यनुप्राणनम् ॥ ३८ ॥

त्रयाणां भावौन्मुख्यतदभिष्वङ्गतदन्तर्मुखीभावनामयानां
सृष्टिस्थितिलयशब्दोक्तानां प-

प्। १२७)

दानामवस्थानां यद् आदि प्रधानं त्रिचमत्कृतित्वेन आनन्दघनं
तुर्याख्यं पदं मायाशक्त्याच्छादितमपि तत्तद्विषयोपभोगाद्यवसरेषु
विद्युद्वदाभासमानं तेन तत्तदवसरेषु क्षणमात्रोदितेनापि अनुप्राणनम्
अन्तर्मुखतद्विमर्शावस्थितितारतम्येन अनुगततया प्राणनम् आत्मनस्तेनैव
जीवितेनापि जीवितस्य उत्तेजनं कुर्यात् [वनितादिविषयोपभोगेषु
विगलितवेद्यान्तरसंवेदनं तुर्यपदमुद्यदपि पशुजनैः
प्रत्यक्षस्त्रयादिविषयव्यवहितं संवेद्यते निरावरणं तु तदवहितैः एतेन
जीवितात्मतुर्यपदेन जीवत्स्वरूपस्य आत्मनः तस्मिन् एव अवहितीकरणमुत्तेजनम्
इत्यर्थः ।] । तदुक्तं श्रीविज्ञानभैरवे

अन्तः स्वानुभवानन्दा [अन्तः पूर्णाहन्तायां स्वानुभवः स्वप्रकाश
आनन्द एव रूपं यस्याः सा अकिञ्चिच्चिन्तनमयी अवस्थातुः भैरवरूपस्य
आत्मनो मम अव्यतिरिक्ता शक्तिरवस्था भरितोऽशेषविश्वाभेदचमत्कारमय
आकारः स्वरूपं यस्याः सा तादृशी तदेव च तत्त्वतः परमार्थतो विमलं
स्वभित्त्याभासितजगदनाच्छादितं विश्वपूरमशेषावभासकं वपुः
स्वरूपं ज्ञेयम् न तु भूतमयम् ।] विकल्पोन्मुक्तगोचरा ।
यावस्था भरिताकारा भैरवी भैरवात्मनः ॥

तद्वपुस्तत्त्वतो ज्ञेयं विमलं विश्वपूरणम् ।

इत्याद्युपक्रम्य

प्। १२८)

शक्तिसङ्गमसङ्क्षुब्धशक्त्यावेशावसानिकम् [व्यक्तस्त्रीसङ्गमं विना
तत्सङ्गमोपजनितानन्दवृत्तिस्मरणेनैव य आनन्दोद्गमः स स्वीयो
ब्रह्मानन्दोऽवसेयः । यदुक्तम्

जायया सम्परिष्वक्तो न बाह्यं वेद नान्तरम् ।
निदर्शनं श्रुतिः प्राह मूर्खस्तं मन्यते विधिम् ॥

न सृष्टिर्जायते लिङ्गान्न भगान्नापिरेतसः ।
आनन्दोच्छलिता शक्तिः सृजत्यात्मानमात्मना ॥

इत्याद्युक्त्या स्त्रीसङ्गानन्दाविर्भूतायाम् आनन्दशक्तौ समावेशस्य अन्ते
स्त्र्यादिसम्पर्काद्यभावेन स्वात्ममात्रनिष्ठं ब्रह्मसम्बन्ध्येव
भावनीयम् यद्वा विश्वस्फुरणशक्तिसङ्गमसङ्क्षुब्धायां चिच्छक्तौ य
आवेशः तस्य अवसाने भवं सुखं स्वरूपस्यैव ।] ।
यत्सुखं ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यमुच्यते ॥

लेहनामन्थनाकोटैः [लेहनमधरासवास्वादनम् आमन्थनं
प्रधानाङ्गविलोडनम् आलिङ्गनं वा आकोटनमाघात नखक्षतादि वा
इत्याद्युद्दीपनादिविभावैरुद्दीपितस्य आनन्दस्य अतिशयस्मरणात्
उल्लसदानन्दमयः स्वात्मैव विभाव्यः ।] स्त्रीसुखस्य भरात्स्मृतेः ।
शक्त्यभावेऽपि देवेशि भवेदानन्दसम्प्लवः ॥

आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात् ।
आनन्दमुद्गतं ध्यात्वा तन्मयस्तल्लयीभवेत् ॥

जग्धिपानकृतोल्लासरसानन्दविजृम्भणात् ।
भावयेद्भैरवं भावं महानन्दमयो
[मिष्टान्नभोजनक्षीरपानादिरसास्वादनात् विजृम्भितानन्दोत्कर्षस्य
आनन्दभरितावस्थां विभावयतोऽनन्यवृत्तितया अनुत्तरसुखावाप्तिः ।]
भवेत् ॥

प्। १२९)

गीतादिविषयास्वादासमसौख्यैकतात्मनः [गीतमादि येषां
वंशवीणाकलरवादीनां विषयाणां चमत्करणेन उपजनितानुपमसुखे
समाहितचित्तस्य शाक्तस्पर्शावेशेन ब्रह्मसुखावाप्तिः ।] ।
योगिनस्तन्मयत्वेन मनोरूढेस्तदात्मता ॥

इत्यादिना उपायप्रदर्शनेन प्रपञ्चितम् । एतच्च

अतिक्रुद्धः [अतिक्रोधादिना प्रकारत्रयेण
दुःखसुखमोहात्मविषयग्रहणरूपान्तःकरणव्यापारमयेन तथा
धावच्छब्दोपलक्षितेन कर्मेन्द्रियव्यापारेण च जाग्रदवस्थाविषयाणि अन्यानि
एवं विधानि प्रकारान्तराणि सङ्ग्राह्याणि । इत्थं विचित्रावस्थासु
निरालम्बनचित्तवृत्तिः यां भूमिकामधितिष्ठेत् तत्र पदे
स्वभावमात्राधारस्य
प्रत्यस्तमितसमस्तविशेषशक्तिचक्रपरमात्मधर्मस्य प्रतिष्ठितस्पन्दस्य
उपलब्धिरित्यर्थः ।] प्रहृष्टो वा किं करोमीति वा मृशन् ।
धावन्वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥

इत्यादिना

… प्रबुद्धः स्यादनावृतः ॥

इत्यन्तेन प्रदर्शितम् । एतत् स्पन्दनिर्णये निराकाङ्क्षं [असन्देहनिर्णयात्
प्रबुद्धविषयजिज्ञासाया असम्भवात् इत्यर्थः ।] मयैव निर्णीतम् । त्रिषु
चतुर्थम्… (३-२०) इति सूत्रेण जागरादौ तुर्यानुप्राणनमुक्तम् ।
अनेन सर्वदशानुगतादिमध्यान्तेषु सृष्टिस्थितिसंहारनिरूपितया भङ्ग्या
निरूपितेषु इति विशेषः [पौर्वापर्येण प्रोक्तयोरनयोः सूत्रयोः
अर्थैक्यतास्वीकरणेपि सामान्यविशिष्टार्थरूपरचनासद्भावात्
पौनरुक्त्यविरोधपरिहारः ।] ॥ ३८ ॥

प्। १३०)

एतच्च त्रिपदाद्यनुप्राणनमन्तर्मुखत्वावष्टम्भत्वदशायामेवासाद्य न
सन्तुष्येत् अपि तु -

चित्तस्थितिवच्छरीरकरण-
बाह्येषु ॥ ३९ ॥

त्रिपदाद्यनुप्राणनम् इत्येव । यथा अन्तर्मुखरूपायां चित्तस्थितौ
तुर्येणानुप्राणनं कुर्यात् तथा शरीरकरणबाह्याभासात्मिकायां
बहिर्मुखतायाम्पि आन्तरविमर्शावष्टम्भबलात् क्रमात्क्रमं
तारतम्यभाजा तेन अनुप्राणनं कुर्यात्
[कादाचित्कस्वरूपविश्रान्त्यात्मिकायां दशायां विद्युत्प्रकाशमिव
क्षणमात्रस्थायिनं तुर्यचमत्कारमासाद्य आनन्दभरिततया यथा सन्तोष
एवं बहिरौन्मुख्येऽपि सन्ततमानन्दमयपरमार्थामृतरसपर्यवसेकात्
तद्विमर्शानन्दविकसितत्वम् इति तात्पर्यम् ।] । यदुक्तं श्रीविज्ञानभैरवे

सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत् ।
युगप्त्स्वामृतेनैव परानन्दमयो भवेत् [सर्वत्र बहिरभिमते वस्तुजाते
चिदानन्दघनरसकणिकाच्छुरिततया परिपूर्णां शिवतां विभावयतो जनस्य
अनुत्तरानन्दमयस्वरूपसमावेश इत्यर्थः ।] ॥

इति । एवं हि आनन्दात्मा स्वातन्त्र्यशक्तिः सर्वदशासु स्फुटीभूता सती
यथेष्टनिर्माणकारिणी भवति ॥ ३९ ॥

प्। १३१)

यदा तु अयमेव आन्तरीं तुर्यदशाम् [अनुत्तरानन्दमयीमवस्थामित्यर्थः ।
] आत्मत्वेन न विमृशति तदा देहादिप्रमातृताभावाद्
अपूर्णम्मन्यतात्मकाणवमलरूपात् -

अभिलाषाद्बहिर्गतिः संवा-
ह्यस्य ॥ ४० ॥

शक्तिचक्राधिष्ठितैः कञ्चुकान्तःकरणबहिष्करणतन्मात्रभूतैः
[कञ्चुकैः मायासहितैः कलाविद्यादिभिः ।] सह संवाह्यते
योनेर्योन्यन्तरं नीयते इति संवाह्यः कर्मात्मरूपः पशुः तस्य

… अभिलाषो [अभिलाषः अपूर्णम्मन्यतात्मा लौलिकारूपः न तु
किञ्चित् मे स्यात् इति ईदृक् रागतत्त्वस्य एवमात्मकत्वात् । अत्र तु एतस्मिन् आणवे मले
भित्तिभूते अन्यत् मलद्वयमाधेयमस्ति इत्यर्थः ।] मलोऽत्र तु ।

इति श्रीस्वच्छन्दोक्तनीत्या अपूर्णम्मन्यतात्मकाविद्याख्याणवमलरूपाद
अभिलाषाद्धेतोर्बहिर्गतिः विषयोन्मुखत्वमेव भवति न तु
अन्तर्मुखरूपावहितत्वं जातुचित् । यदुक्तं कालिकाक्रमे

प्। १३२)

यदविद्यावृततया विकल्पविधियोगतः ।
शिवादीन्नैव झटिति समुद्भावयतेखिलान् ॥

ततः शुभाशुभा भावा लक्ष्यन्ते तद्वशत्वतः ।
अशुभेभ्यश्च भावेभ्यः परं दुःखं प्रजायते [अविद्यावृतस्य
पशोः सन्ततप्रसरत्स्वारसिकविकल्पक्षुब्धतया चित्तत्त्वमपरामृशतः
पुण्यापुण्यकलङ्कस्पृष्टत्वात् तत्तन्निकृष्टदुष्फलपरिणामः ।] ॥

अतथ्यां कल्पनां कृत्वा पच्यन्ते नरकादिषु ।
स्वोत्थैर्दोषैश्च दह्यन्ते वेणवो वह्निना यथा ॥

मायामयैः सदा भावैरविद्यां परिभुञ्जते ।
मायामयीं तनुं यान्ति ते जनाः क्लेशभाजनम्
[मिथ्याकल्पनोपकॢप्तिपूर्वं स्वसङ्घट्टजाग्निदग्धवेणुवत्
स्वोत्पन्नकामादिदोषैः निरयव्यथानुभवनानन्तरम्
असत्यकल्पभोग्यसम्भोगाय भोगायतनपरिग्रहः पुनरप्येवम् इत्थं क्लेशात्
क्लेशान्तरगतिरविरता भवति आ अनुत्तरशिवज्ञानावाप्तेः इत्याशयः ।] ॥

इति ॥ ४० ॥

यदा तु पारमेशशक्तिपातवशोन्मिषितं स्वं स्वभावमेव विमृशति तदा
अभिलाषाभावाद् न अस्य बहिर्गतिः अपि तु आत्मारामतैव
[अपूर्णमन्यतात्मक आणवमलरूपाभिलाषाकलिताशयस्य बहिरन्तरं
स्वं चिदानन्दघनस्वरूपं पश्यतः
चित्प्रमातृत्वस्फुरणचमत्कृतिकरणं स्वात्मारमणम् ।] नित्यमित्याह -

प्। १३३)

तदारूढप्रमितेस्तत्क्ष्याज्जिव-
सङ्क्षयः ॥ ४१ ॥

तदिति पूर्वनिर्दिष्टसंवेन्त्रात्मनि तुर्यपदे आरूढा तद्विमर्शनपरा प्रमितिः
संवित् यस्य योगिनस्तस्य । तदिति अभिलाषक्षयात् जीवस्य संवाह्यात्मनः
पुर्यष्टकप्रमातृभावस्य क्षयः प्रशमः चित्प्रमातृतयैव स्फुरति
इत्यर्थः । यदुक्तं तत्रैव

यथा स्वप्नानुभूतार्थान्प्रबुद्धो [यथा स्वापावस्थायां हृदि
अत्यन्ताल्पप्रदेशे अनुभूयमानान्यपि विचित्रोपवननदीपर्वतपुरादीनि
वस्तुतोऽसन्ति तदात्वप्रकाशनानि प्रबुद्धो जनः चिदात्मनः
स्वातन्त्र्यविलसितमभिमन्यते एवं जागरायां स्वातन्त्र्यविजृम्भितं
चिदनतिरिक्ततया अनवभासनात् चिदभिन्नं शिवमयमेव विश्वं
भावनापरिनिष्पत्त्या पर्यालोचयतो योगिनः संसारदृष्टिविलोपः । संवित् किल
विश्ववैचित्र्यावभासनेच्छया ग्राहकतामाश्रित्य ग्राह्यरूपेण स्फुरति इति
संवित्स्फुरणस्यैव विपरीतभावनया संसारदृष्टिः अवैपरीत्येन
भावनातिशयात् तद्विनष्टौ पुनः स्वात्मैश्वर्यचमत्कार इत्यर्थः ।] नैव
पश्यति ।
तथा भावनया योगी संसारं नैव पश्यति ॥

इति । तथा

निरस्य सदसद्वृत्तिः संश्रित्य पदमान्तरम् ।
विहाय कल्पनाजालमद्वैतेन परापरम् ॥

प्। १३४)

यः स्वात्मनिरतो नित्यं कालग्रासैकतत्परः ।
कैवल्यपदभाग्योगी स निर्वाणपदं लभेत्
[नीलसुखाद्यात्मसदसद्वृत्तिनाम् अविकल्पपरामर्शेन
परापरकलनानां च प्रसरनिरसनपुरःसरं पूर्णाहन्तापदमवष्टभ्य
स्वात्मनिभालनप्रकर्षात् कलनात्मनो जीवामि इति कलामारभ्य
क्षित्यन्तमास्थितस्य स्थूलस्य कालस्य नैबिड्येन ग्रसनप्रवणत्वात्
निर्वाणपदलब्धिः इत्यर्थः ।] ॥

इति । कैवल्यपदभागिति इन्द्रियतन्मात्राभिरसंवाह्यः ॥ ४१ ॥

नत्वेवं जीवसङ्क्षये सति अस्य देहपातः प्राप्तः न च असौ सुप्रबुद्धस्यापि
देहिनः सद्य एव दृश्यते तत्कथमयं तदारूढप्रमितिः [देहसद्भावे
तुर्यपदारूढिविरोधादित्यर्थः ।] ? इत्याशङ्क्याह -

भूतकञ्चुकी तदा विमुक्तो भूयः
पतिसमः परः ॥ ४२ ॥

तदेति अभिलाषक्षयात् जीवसङ्क्षये पुर्यष्टकप्रमातृताभिमानविगलने सति
अयं भूतकञ्चुकी शरीरारम्भीणि भूतानि कञ्चुकमिव व्यतिरिक्तं
प्रावरणमिव न तु अहन्तापदस्पर्शीनि [कल्पितपुर्यष्टकादिशरीरे पशुजनवत्
परिमिताहम्भावविगलनादित्यर्थः ।] यस्य तथाभूतः सन् विमुक्तो
निर्वाणभाक् यतो भूयो बाहुल्येन पतिसमः
चिद्घनपारमेश्वरस्वरूपाविष्टः तत एव परः पूर्णः शरीरवृत्तिर्व्रतम्
(३-२६) इत्युक्तसूत्रार्थनीत्या दलकल्पे [दलः जीर्णनिर्मोकः ।
इदं तात्पर्यम् यथा मुक्तायां त्वचि सर्पस्य अहन्ताभिमानाग्रहणम् एवं
शिवज्ञानाभ्यसनेन पृथक्तया परामृष्टे देहादौ
प्रमातृताभिमानाभावः । यद्वा दलः खड्गपिधानम् यथा
खड्गाद्व्यतिरिक्तः तथा व्यतिरिक्ते देहे तत्प्रमातृभावेन नायं स्पृश्यते ।
] देहादौ स्थितोऽपि न तत्प्रमातृतासंस्कारेणापि स्पृष्टः । तदुक्तं
श्रीकुलरत्नमालायां

यदा गुरुवरः सम्यक्
कथयेत् तन् न संशयः ।
मुक्तस् तेनैव कालेन
यन्त्रस् तिष्ठति केवलम् ॥(4)

किं पुनश्चैकतानस्तु [एकतानोऽनन्यवृत्तिरित्यर्थः ।] परे ब्रह्मणि
यः सुधीः ।
क्षणमात्रस्थितो योगी स मुक्तो मोचयेत्प्रजाः ॥

इति । श्रीमृत्युजित्यपि

निमेषोन्मेषमात्रं तु तत्त्वं यद्युपलभ्यते ।
तदैव किल मुक्तोऽसौ न पुनर्जन्म चाप्नुयात् ॥

इति । कुलसारेऽपि

प्। १३६)

अहो तत्त्वस्य माहात्म्यं ज्ञातमात्रस्य सुन्दरि ।
श्रोत्रान्तरं तु सम्प्राप्ते तत्क्षणादेव मुच्यते ॥

इति ॥ ४२ ॥

ननु भूतकञ्चुकित्वमपि अस्य कस्मात् तदैव न निवर्तते ! इत्याह -

नैसर्गिकः प्राणसम्बन्धः ॥ ४३ ॥

निसर्गात् स्वातन्त्र्यात्मनः स्वभावात् आयातो नैसर्गिकः प्राणसम्बन्धः संवित्
किल भगवती विश्ववैचित्र्यम् अवबिभासयिषुः सङ्कोचावभासपूर्वकं
सङ्कुचदशेषविश्वस्फुरत्तात्मकप्राणनारूपग्राहकभूमिकां श्रित्वा
ग्राह्यरूपजगदाभासात्मना स्फुरतीति नैसर्गिकः स्वातन्त्र्यात्
प्रथममुद्भासितोऽस्याः प्राणसम्बन्धः [नैसर्गिकप्राणसम्बन्धात्
तदवस्थित्यवधिः कञ्चुकावस्थितिः तयोः साहचर्यं
मितप्रमातृनिष्पादितकार्मपाशाधीनम् । अतश्च
प्राक्तनसञ्चितमिश्रकर्मोत्पन्नं भोगायतनं
प्रारब्धोपनतभोग्यभोगादेव क्षीयते नान्यथा तस्मात् तत्त्वविदो वपुषः
चक्रभ्रमिवत् अवस्थानमारब्धभोगातिवाहनप्रयोजनम् इत्यर्थः ।] । तथा
च श्रीवाजसनेयायाम्

या सा शक्तिः परा सूक्ष्मा व्यापिनी निर्मला शिवा ।
शक्तिचक्रस्य जननी परानन्दामृतात्मिका ॥

प्। १३७)

महाघोरेश्वरी चण्डा सृष्टिसंहारकारिका ।
त्रिवहं त्रिविधं त्रिस्थं बलात्कालं प्रकर्षति [प्राणपरिणता जीवनरूपा
परा शक्तिः घोरातिघोरादिशक्तिचक्रजननात् तदीशित्री स्वरूपगोपनोन्मुखत्वात्
चण्डरूपा तस्या एव त्रुट्यादिशक्तिकालपरिमितिपर्यन्तं कालकर्षणात्
तत्सृष्टिसंहर्तृत्वम् । त्रिवहमिति त्रिषु इडापिङ्गलासुषुम्नामार्गेषु वहति इति
त्रिविधं सोमसूर्याग्निरूपम् त्रिस्थम् अतीतादिषु स्थितम् ।] ॥

इति संविद एव भगवत्याः प्राणक्रमेण
नाडित्रयवाहिसोमसूर्यवह्न्यात्मावस्थितातीतानागतवर्तमानरूपबाह्यकालोल्ला
सनविलापनकारित्वमुक्तम् [उल्लासनं बहिःसृष्टिः विलापनम् अन्तः
संहरणम् ।] । तदुक्तं स्वच्छन्देऽपि

प्राणः [हकारस्तु स्मृतः प्राण इति
योऽशेषवाच्यवाचकाविभागविमर्शमयो हलाकृतिः प्राण उक्तः स एव
स्वातन्त्र्यावभासितसङ्कोचपुरःसरमवरोहणक्रमेण प्रकृतं रूपं यस्य
प्राणनरूपसामान्यप्राणस्य स विसर्गापूरणं प्रति सर्वैरेव सुषिरभागैः
बहिः तत्तद्भावावभाससृष्टिरूपविसर्गार्थं तदवभासपुरःसरं
प्रवेशयुक्त्या तदाहरणेन अन्तः आपूरणार्थं प्रकर्षेण अननात् ध्वननात्
अर्थजिघृक्षाग्रहणविश्रान्तिदशोचितात् विमर्शात् प्राण इत्यर्थः । एतदेव
स्फुटयति नित्यमिति । सर्वदेहगतोऽपि अयं प्राणिनामुरसि
स्फुटमुपलभ्यमानत्वेन अवस्थितो नित्यमापूरयन् अर्थात् प्राणिनोऽर्थान् च
प्रवेशनिर्गमाभ्यां विमर्शमयं जीवनं कुरुते इत्युत्तरेण सम्बन्धः ।
] प्राणमयः प्राणो विसर्गापूरणं प्रति ।
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः ॥

इति । प्राणस्य

प्। १३८)

हकारस्तु [योऽयं हल् आकृतिः यस्य स अनच्कोऽनाहतध्वन्यात्मा

स्वयमुच्चरते देवि प्राणिनामुरसि स्थितः ।

इति नीत्या स्वप्रवृत्तः

नादाख्यं यत्परं बीजम् …

इति तन्त्रान्तरोक्तस्थित्या सर्वस्य स्वतः स्फुरन् स एष प्राणः प्राणनापरपर्यायो
जीवः स्मृतो गुरुपारम्पर्येण अविच्छेदेन अधीतः ।

अथ च धूलिभेदानुसारेण हलाकृतिः अशेषं विश्वं गर्भीकृत्य
कुण्डलिन्याकारः प्रसुप्तभुजगरूपः स्वप्रवृत्तः स्वयमेव
नादामर्शरूपतां निमज्ज्य प्राणात्मकं रूपमाविश्य स्थितः यतः
पारमेशी बोधाख्या शक्तिः विश्वं गर्भीकृत्य परा कुण्डलिका सती
विमर्शरूपतया नादात्मवर्णकुण्डलिकात्मतया भाति इत्याम्नायः । एवं च
व्याख्यातरूपः प्राण एव हंसः ऊर्ध्वमधश्च स्वरसेन वहन्
हानसमादानधर्मकहकारसकारविमर्शरूपतया स्फुरणात् ।] स्मृतः
प्राणः सुप्रवृत्तो हलाकृतिः ।

इत्युक्तनीत्या श्रीस्वच्छन्दभट्टारकरूपप्राणमयत्वात् विसर्गापूरतया
सृष्टिसंहारकारित्वमभिहितम् इति युक्तमुक्तम् नैसर्गिकः प्राणसम्बन्धः
इति । अत एव श्रीभट्टकल्लटेन प्राणाख्यनिमित्तदार्ढ्यम्

प्राक् संवित् प्राणे परिणता ।

इति तत्त्वार्थचिन्तामणावुक्तम् ॥ ४३ ॥

अतश्च स्थितेऽपि नैसर्गिके प्राणसम्बन्धे यस्तदारूढ [तदारूढ इति
प्राणनारूपग्राहकभूमिकामाश्रित इत्यर्थः ।] आन्तरीं कलां
विमृशन्नास्ते स लोकोत्तर एव इत्याह -

प्। १३९)

नासिकान्तर्मध्यसंयमात् किमत्र
सव्यापसव्यसौषुम्नेषु ॥ ४४ ॥

सर्वनाडीचक्रप्रधानरूपेषु सव्यापसव्यसौषुम्नेषु
दक्षिणवाममध्यनाडीपदेषु या नासिका नसते कौटिल्येन वहति इति कृत्वा
कुटिलवाहिनी प्राणशक्तिः तस्याः अन्तरिति आन्तरी संवित् तस्याः अपि मध्यं
सर्वान्तरतमतया प्रधानम् ।

तस्य देवातिदेवस्य परबोधस्वरूपिणः ।
विमर्शः परमा शक्तिः सर्वज्ञा ज्ञानशालिनी ॥

इति श्रीकालिकाक्रमोक्तनीत्या यत् विमर्शमयं रूपं तत्संयमात्
अन्तर्निभालनप्रकर्षात् [भूयोभूयः अन्तर्मुखस्वरूपे दार्ढ्येन
अवहितत्वात् चित्तधारणं निभालनम् भल धारणे इति धात्वर्थात् ।] किमत्र
उच्यते अयं हि सर्वदशासु देदीप्यमानो निर्व्युत्थानः परः समाधिः ।
तदुक्तं श्रीविज्ञानभैरवे

ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं सम्बन्धे सावधानता
[प्राणापानगत्यात्मग्राह्यग्राहकविज्ञानं सर्वप्रमातृसाधारणम्
योगिनां तु तत्सञ्चारे परप्रमात्रावेशावहितत्वम् ।] ॥

इति ॥ ४४ ॥

प्। १४०)

एवमीदृशस्य योगफलं दर्शयन् प्रकरणमुपसंहरति -

भूयः [भूयःशब्दस्य बाहुल्यपुनस्त्वरूपद्वैयर्थ्यम् ।]
स्यात्प्रतिमीलनम् ॥ ४५ ॥

चैतन्यात्मनः स्वरूपात् उदितस्य अस्य विश्वस्य भूयः पुनः
विगलितभेदसंस्कारात्मना बाहुल्येन च प्रतिमीलनम् चैतन्याभिमुख्येन
निमीलनं पुनरपि चैतन्यात्मस्वस्वरूपोन्मीलनरूपं परयोगाभिनिविष्टस्य
योगिनो भवति । तदुक्तं श्रीस्वच्छन्दे

उन्मनापरतो [समनाशक्तेः परतो य आत्मन उन्मनाशक्तियोगः स
तादात्म्यरूपः तत्र औन्मनसे परमशिवधाम्नि निर्विकल्पविमर्शोऽपि नास्ति
वेद्यत्वाभावात् । वेद्यताया समनावधेः पाशजालमयतया सविकल्परूपत्वात् ।
] देवि तत्रात्मानं नियोजयेत् ।
तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते ॥

इति । तथा च

उद्बोधितो यथा वह्निर्निर्मलोऽतीव भास्वरः ।
न भूयः प्रविशेत्काष्ठे तथात्माध्वन [षडध्वात्मनः
पाशजालादित्यर्थः ।] उद्धृतः ॥

मलकर्मकलाद्यैस्तु निर्मलो विगतक्लमः ।
तत्रस्थोऽपि न बाध्येत यतोऽतीव सुनिर्मलः ॥

प्। १४१)

इति । भूयः स्यादित्यभिदधतोऽयमाशयः यत् शिवत्वमस्य योगिनो न अपूर्वम्
अपि तु स्वभाव एव केवलं मायाशक्त्युत्थापितस्वविकल्पदौरात्म्यात्
भासमानमपि तत् नायं प्रत्यवम्रष्टुं क्षमः इत्यस्य
उक्तोपायप्रदर्शनक्रमेण तदेव अभिव्यज्यते इति शिवम् ॥ ४५ ॥

सेयमागमसंवादस्पन्दसङ्गैसुन्दरा ।
वृत्तिः शैवरहस्यार्थे शिवसूत्रेषु दर्शिता ॥ १ ॥

शिवरहस्यनिदर्शनसंस्रवन् -

नवनवामृतसाररसोल्बणाम् ।
सुकृतिनो रसयन्तु भवच्छिदे
स्फुटमिमां शिवसूत्रविमर्शिनीम् ॥ २ ॥

इयमरोचकिनां रुचिवर्धिनी
परिणतिं तनुते परमां मतेः ।
रसनमात्रत एव सुधौघवत्-
मृतिजराजननादिभयापहृत् ॥ ३ ॥

देहप्राणसुखादिभिः परिमिताहन्तास्पदैः संवृत-
श्चैतन्यं चिनुते निजं न सुमहन्माहेश्वरं स्वं जनः ।
मध्ये बोधसुधाब्धि विश्वमभितस्तत्फेनपिण्डोपमं
यः पश्येदुपदेशतस्तु कथितः साक्षात्स एकः शिवः ॥ ४ ॥

प्। १४२)

तरत तरसा संसाराब्धिं विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवप्रोक्तं सूत्रं रहस्यसमुज्ज्वलं
प्रसभविलसत्सद्युक्त्यान्तः समुत्प्लवदायि तत् ॥ ५ ॥

इति श्रीमन्महामाहेश्वराचार्यवर्याभिनवगुप्तपादपद्मोपजीवि##-
नाम तृतीय उन्मेषः ॥ ३ ॥

समाप्ता चेयं शिवसूत्रविमर्शिनी ॥

कृतिः श्रीक्षेमराजस्य क्षेमायास्तु विमर्शिनाम् ।
शिवस्वात्मैक्यबोधार्था शिवसूत्रविमर्शिनी ॥