शिवसूत्रविमर्शिनी ।

अथ

द्वितीय उन्मेषः ।

इदानीं शाक्तोपायः प्रदर्श्यते । तत्र शक्तिः [परा संविच्छक्तिः
पूर्णाहन्ता या विश्वस्फुरणकर्तृतारूपा ।] मन्त्रवीर्यस्फाररूपा इति
प्रथमोन्मेषान्तसूत्रिततत्स्वरूपविवेचनपुरःसरमुन्मेषान्तरमारभ##-

चित्तं मन्त्रः ॥ १ ॥

चेत्यते विमृश्यते अनेन परं तत्त्वम् इति चित्तं पूर्णस्फुरत्तासत्त्वप्रासाद##-
तॄ पालने इत्येताभ्यां निरुक्ततया निर्वचनीयत्वेन निर्णीततया उच्यते ।]
गुप्तम् अन्तर् अभेदेन विमृश्यते परमेश्वररूपम् अनेन इति कृत्वा मन्त्रः ।
अत एव च परस्फुरत्तात्मकमननधर्मात्मता
भेदमयसंसारप्रशमनात्मक-त्राणधर्मता च अस्य निरुच्यते ।

अथ च मन्त्रदेवताविमर्शपरत्वेन प्राप्ततत्सा-

प्। ४८)

मरस्यम् [मन्त्राधिदेवताभिः सह प्राप्तैक्यम् ।] आराधकचित्तमेव
मन्त्रः न तु विचित्रवर्णसङ्घट्टनामात्रकम् । यदुक्तं
श्रीमत्सर्वज्ञानोत्तरे

उच्चार्यमाणा ये मन्त्रा न मन्त्रांश्चापि तान्विदुः ।
मोहिता देवगन्धर्वा मिथ्याज्ञानेन गर्विताः ॥

इति । श्रीतन्त्रसद्भावेऽपि

मन्त्राणां जीवभूता तु या स्मृता शक्तिरव्यया
[पूर्णाहंविमर्शनात्मिका संविच्छक्तिः ।] ।
तया हीना वरारोहे निष्फलाः शरदभ्रवत् ॥

इति । श्रीश्रीकण्ठीयसंहितायां तु

पृथङ्मन्त्रः पृथङ्मन्त्री न सिद्ध्यति कदाचन ।
ज्ञानमूलमिदं सर्वमन्यथा नैव सिद्ध्यति
[वाच्यवाचकयोरभेदोपचारात् मन्त्रो मन्त्रदेवता । एवं
मन्त्रिमन्त्रदेवतासु आराध्याराधकभावेन पृथग्धीः सिद्धिं नैति ।
मननत्राणधर्मकत्वात् तु मन्त्राः ज्ञानशक्तौ स्थिताः
प्राप्तज्ञानशक्त्यात्ममहावीर्याः सर्वसिद्धिदाः
प्रतिनियतकार्यसम्पादनसमर्था भवन्ति इत्यर्थः ।] ॥

इत्युक्तम् । एतच्च स्पन्दे

सहाराधकचित्तेन तेनैते शिवधर्मिणः [शिवस्य परमेश्वरस्य
अनन्यसाधरणः सर्वज्ञत्वादिर्गुणो धर्मो विद्यते येषां ते मन्त्राः
मननत्राणरूपाः शिवादभिन्नस्वरूपा इत्यर्थः ।] ॥

इति भङ्ग्या प्रतिपादितम् ॥ १ ॥

अस्य च -

प्रयत्नः साधकः ॥ २ ॥

प्। ४९)

यथोक्तरूपस्य मन्त्रस्य अनुसन्धित्साप्रथमोन्मेषावष्टम्भप्रयतनात्मा
[अनुसन्धातुमिच्छा अनुसन्धित्सा तस्याः प्रथमं परप्रतिभोन्मज्जने यो
निरोधः तत्र प्रयतनस्वभावः ।] अक्र्टको यः प्रयत्नः स एव साधको
मन्त्रयितुर्मन्त्रदेवतातादात्म्यप्रदः । तदुक्तं श्रीतन्त्रसद्भावे

आमिषं तु यथा स्वस्थः सम्पश्यञ्शकुनिः प्रिये ।
क्षिप्रमाकर्षयेद्यद्वद्वेगेन सहजेन तु ॥

तद्वदेव हि योगीन्द्रो मनो बिन्दुं विकर्षयेत् [विकर्षयेत् इति द्विकर्मकं
क्रियापदम् । बिन्दुः अविभक्तप्रकाशरूपः । यदुक्तम्

उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि ।
अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥ इति ।] ।
यथा शरो धनुःसंस्थो यत्नेनाताड्य धावति ॥

तथा बिन्दुर्वरारोहे उच्चारेणैव धावति ॥

इति । अन्यत्रापि

तद्ग्रहो [तज्ज्ञानमेव मन्त्रसद्भावः मन्त्रवीर्यमित्यर्थः ।]
मन्त्रसद्भावः … ।

इति । अत्र हि तद्वत् इति अकृतकनिजोद्योगबलेन योगीन्द्रो मनः कर्म बिन्दुं
विकर्षयेत् परप्रकाशात्मतां प्रापयेत् इति । तथा बिन्दुः

प्। ५०)

परप्रकाशः अकृतकोद्यन्तृतात्मना उच्चारेण [उच्चारेण विमर्शरूपेण
न तु स्थान-करण प्रयत्नरूपबीजाक्षरोच्चारेण
तस्याणवोपायपर्यवसायित्वात् परप्रमातृविश्रान्त्यर्थं
सहजोद्ममनकर्तृतात्मना विमर्शेन स्फुरति इति ।] धावति प्रसरति
इत्यर्थः । एतच्च स्पन्दे

अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि ।
तदात्मतासमापत्तिरिच्छतः साधकस्य या [तदात्मतासमापत्तिः
मन्त्रदेवतात्मतायाः समापत्तिः । इदमत्र तात्पर्यम् । न्यासादिहेतोः
मन्त्ररुद्धान्यदेवताकारायां मन्त्रोच्चारणवस्थायां साधकचेतसः
स्वयमप्रयत्नेन सम्पद्यमानं यदभिन्नरूपत्वं स एव
परामर्शक्षमसंविदो ध्यातुः आराध्यदेवतायाः प्रत्यक्षदर्शनरूपो
मुख्य उदयः न तु व्यतिरेकविभाव्यमानाकारता इति अनयैव संविदा
शिवरूपतापत्तेः शिवो भूत्वा शिवं यजेत् इत्यस्य विधेः चरितार्थत्वम् ।] ॥

इत्यनेनोक्तम् ॥ २ ॥

ईदृशसाधकसाध्यस्य मन्त्रस्य पूर्वोपक्षिप्तं वीर्यं लक्षयति -

विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३ ॥

विद्या पराद्वयप्रथा शरीरं स्वरूपं यस्य स विद्याशरीरो भगवान्
शब्दराशिः तस्य या सत्ता अशेषविश्वाभेदमयपूर्णाहंविमर्शनात्मा
स्फुरत्ता सा मन्त्राणां रहस्यम् [वीर्यमित्यर्थः ।] उपनिषत् ।

प्। ५१)

यदुक्तं श्रीतन्त्रसद्भावे

सर्वे वर्णात्मका मन्त्रास्ते च शक्त्यात्मकाः प्रिये ।
शक्तिस्तु मातृका ज्ञेया सा च ज्ञेया शिवात्मिका ॥

इति । तत्रैव [श्रीतन्त्रसद्भावे ।] च अयमर्थः अतिरहस्योऽपि वितत्य
स्फुटीकृतः [वक्ष्यमाणागमेन ।] । तथा च

न जानन्ति गुरुं देवं शास्त्रोक्तान्समयांस्तथा ।
दम्भकौटिल्यनिरता लौल्यार्थाः [लोला रसना तस्या इदं रसास्वादनं
लौल्यं तदेव अर्थो येषां ते रसास्वादासक्ताः । उपलक्षणमेतत्
शब्दादिविषयचमत्कारनिरता इत्यर्थः ।] क्रिययोज्झिताः ॥

अस्मात्तु कारणाद्देवि मया वीर्यं प्रगोपितम् ।
तेन गुप्तेन ते गुप्ताः शेषा वर्णास्तु केवलाः ॥

इति-पीठाकाबन्धं [पीठिकाबन्धो मूलबन्धः शास्त्रादौ
सङ्क्षेपेण सम्बन्धादिकथनरूपः ।] कृत्वा

या सा तु मातृका देवि परतेजःसमन्विता [परतेजः पराहन्ता ।] ।
तया व्याप्तमिदं विश्वं सब्रह्मभुवनान्तकम् [अनाश्रितशिवादारभ्य
स्थूलमेयपर्यन्तम् ।] ॥

तत्रस्थं [तत्रस्थमिति मातृकास्थं परं तेजः । अवर्णस्थ इति
अनुत्तरस्थितः ।] च यदा देवि व्यापितं च सुरार्चिते ।
अवर्णस्थो यथा वर्णः स्थितः सर्वगतः प्रिये ॥

तथाहं कथयिष्यामि निर्णयार्थं स्फुटं तव ।

प्। ५२)

इत्युपक्रम्य

या सा शक्तिः परा सूक्ष्मा निराचारेति कीर्तिता ।
हृद्बिन्दुं वेष्टयित्वान्तः सुषुप्तभुजगाकृतिः [अनुत्तरशक्तिः
स्वस्वातन्त्र्यात् ग्राह्यग्राह्यकात्मभावजातस्य इयत्तापरिच्छेदनेन
स्वरूपगोपनात्मसङ्कोचावलम्बनात् स्वात्मानं सर्वोद्यततया अवस्थितेः
प्रकटं कुर्वाणापि बिन्दुस्वरूपिणी । वेत्तीति विन्दुः विदिक्रियायां स्वतन्त्रः
प्रमाता तस्य रूपमविभागः प्रकाशः तत्स्वभावैव अत एव परा संविद्रूपा
सूक्ष्मा प्राणनारूपा नियतात्मध्यानपूजादिकात् आचारात् निष्क्रान्ता निराचारा
हृद्बिन्दुं हृत्पद्ममण्डलान्तःस्थं सङ्कुचितात्मताप्राधान्यात्
बहीरूपतया भेदभूमावेव प्राप्तप्ररोहं नरात्मकं बिन्दुम्
अन्तर्वेष्टयित्वा स्वात्मान्तर्लीनं विधाय सुषुप्तभुजगाकृतिः
बहिर्भावौन्मुख्यविरहितत्वात् स्वात्ममात्रविश्रान्ता इत्यर्थः । इदमत्र
तात्पर्यम् । विन्दुः परप्रकाशात्मा स्वातन्त्र्यात् विश्वमवविभासयिषुः
द्वादशान्त-भ्रूमध्य-हृदयलक्षणेषु स्थानेषु विश्रान्तिभेदात्
नरशक्ति शिवत्मको बोध्यः इच्छाद्यात्मक-शिव-विद्या##-

अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ।
उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः ॥ इति ।] ।
तत्र सुप्ता महाभागे न किञ्चिन्मन्यते उमे ॥

चन्द्राग्निरविनक्षत्रैर्भुवनानि चतुर्दश [प्रमा-प्रमाण##-
स्वात्मसात्कृत्य विषेण मोहिता इव सम्भवन्ती स्वात्मानमपि अजानती भवति
इत्यर्थः ।] ।
क्षिप्त्वोदरे तु या देवी विषमूढेव सा गता ॥

प्। ५३)

प्रबुद्धा सा निनादेन [विन्दुरेव तत्तत्परामर्शतामुल्लिलासयिषुः
नादात्मकशब्दरूपतया स्फुरित शब्दयति स्वाभेदेन विश्वं परामृशति इति
शब्दः परावाग्रूपो विमर्शः स एव नदति सर्वेषामेव जीवकलात्वेन स्फुरति इति
नादात्मा । यदुक्तम्

योऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः । इति ।] परेण
ज्ञानरूपिणा ।
मथिता चोदरस्थेन बिन्दुना वरवर्णिनि ॥

तावद्वै भ्रमवेगेन मथनं शक्तिविग्रहे ।
भेदात्तु प्रथमोत्पन्ना विन्दवस्तेऽतिवर्चसः ॥

उत्थिता [परैव सूक्ष्मा अमाकलारूपा कुण्डलिनी शक्तिः शिवेन सह
परस्परसामरस्यरूपमथ्यमन्थकभावात्मकं सङ्घट्टमासाद्य उत्थिता
सती इच्छा ज्ञान-क्रियारूपतामाश्रित्य रौद्रीत्वमुन्मुद्रयन्ती
शृङ्गाटकाकारतामम्बिकात्वमवलम्बमाना
उकारात्मकशशाङ्कशकलाकारतां ज्येष्ठात्वमधितिष्ठन्ती च
शिवविन्दूदितकालाग्निरूपरेफात्मकविन्दुविश्रान्तस्पष्टरेखाकारतामा##-
एकैवेत्थमित्यन्तस्य श्लोकपञ्चकस्य तात्पर्यार्थो निरूपितः ।] तु यदा तेन
कला सूक्ष्मा तु कुण्डली ।
चतुष्कलमयो विन्दुः शक्तेरुदरगः प्रभुः ॥

मथ्यमन्थनयोगेन ऋजुत्वं जायते प्रिये ।
ज्येष्ठाशक्तिः स्मृता सा तु विन्दुद्वयसुमध्यगा ॥

विन्दुना क्षोभमायाता रेखैवामृतकुण्डली ।
रेखिणी नाम सा ज्ञेया उभौ विन्दू यदन्तगौ ॥

त्रिपथा सा समाख्याता रौद्री नाम्ना तु गीयते ।
रोधिनी सा समुद्दिष्टा मोक्षमार्गनिरोधनात् ॥

प्। ५४)

शशाङ्कशकलाकारा अम्बिका चार्धचन्द्रिका ।
एकैवेत्थं परा शक्तिस्त्रिधा [अनुत्तरेच्छोन्मेषरूपा ।] सा तु प्रजायते ॥

आभ्यो युक्तवियुक्ताभ्यः सञ्जातो नववर्गकः ।
नवधा च स्मृता सा तु नववर्गोपलक्षिता ॥

पञ्चमन्त्रगता देवि सद्य[सद्योजात-वामदेव-ईशान##-
तेन पञ्चविधा प्रोक्ता ज्ञातव्या सुरनायिके ॥

स्वरद्वादशगा देवि द्वादशस्था उदाहृता ।
अकारादिक्षकारान्ता स्थिता पञ्चाशता भिदा ॥

हृत्स्था [परावाग्रूपस्य अहमात्मनः परामर्शस्य हि अनन्यापेक्षं
परत्वमिति परावाग्रूपैव परमेश्वरी स्वस्वातन्त्र्यात् बहीरूपतामुल्लिलासयिषुः
वाच्यवाचकक्रमानुदयात् विभागस्य अस्फुटत्वात् चिज्ज्योतिष एव प्राधान्यात्
द्रष्टृरूपतया पश्यन्तीशब्दव्यपदेश्या । तदनु वाच्यवाचकक्रमस्य
आसूत्रितविभागत्वेऽपि स्फुटास्फुटरूपत्वेन बुद्धिमात्रनिष्ठतया
दर्शनप्राधान्यात् द्रष्टृदृश्ययोरन्तरालवर्तित्वेन मध्यमापदवाच्या ।
ततोऽपि स्थानकरणप्रयत्नबलात् तत्तद्वर्णक्रमोपग्रहात् विभागस्य स्फुटत्वात्
दृश्यस्यैव प्राधान्यात् विखरे शरीरे भवत्वात् वैखरीशब्दव्यपदेश्या । इति
विश्वरूपतावभासने पर सूक्ष्म-स्थूलरूपतया त्रैविध्यम् इति
हृत्स्थेत्यादिश्लोकद्वयस्यायं तात्पर्यार्थो निरूपितः ।] एकाणवा प्रोक्ता
कण्ठे प्रोक्ता द्वितीयका ।
त्रिराणवा तु ज्ञातव्या जिह्वामूले सदा स्थिता ॥

जिह्वाग्रे वर्णनिष्पत्तिर्भवत्यत्र न संशयः ।
एवं शब्दस्य निष्पत्तिः शब्दव्याप्तं चराचरम् ॥

इत्यादिना ग्रन्थेन परभैरवीयपरावाक्शक्त्यात्मकमातृका अत एव
ज्येष्ठा-रौद्री-अम्बा-

प्। ५५)

ख्यशक्तिप्रसरसम्भेदवैचित्र्येण सर्ववर्णोदयस्य उक्तत्वात्
वर्णसङ्घट्टनाशरीराणां मन्त्राणां सैव भगवती व्याख्यातरूपा
विद्याशरीरसत्ता रहस्यम् - इति प्रदर्शितम् । प्रत्यागमं च
मातृकामालिनीप्रस्तारपूर्वकं मन्त्रोद्धारकथनस्य अयमेव आशयः ।
रहस्यागमसारसङ्ग्रहरूपत्वात् शिवसूत्राणाम् आगमसंवादे भरः
अस्माभिः कृत इति नास्मभ्यम् असूयितव्यम् । एवमपि संवादिते आगमे यदि
रहस्यार्थो न बुद्ध्यते तस्मात् सद्गुरुसपर्या कार्या । एष च सूत्रार्थः

तदाक्रम्य [तदिति निरावरणचिद्रूपबलमधिष्ठाय मन्त्राः अनुग्रहादौ
अधिकारे देहिनां करणानि इव स्वाधिकारे प्रवर्तन्ते । निवृत्ताधिकाराणां तु
तेषाम् आराधकचित्तेन सह स्वस्वभावव्योम्नि संलीनतया
मायाकालुष्यराहित्यात् शिवधर्मितासमापत्तिः ।] बलं मन्त्राः … ।

इत्यनेन कारिकाद्वयेन स्पन्दे दर्शितः ॥ ३ ॥

येषां तु एवं-विधमेतन्मन्त्रवीर्यं
प्रोक्तमहाह्रदानुसन्धानौपयिकमपि परमेश्वरेच्छात एव न
हृदयङ्गमीभवति अपि तु आनुषङ्गिकमात्रविन्दुनादादिकलाजनितासु
मितसिद्धिषु चित्तं रोहति तेषाम् -

प्। ५६)

गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४ ॥

गर्भः अख्यातिर्महामाया तत्र तदात्मके मितमन्त्रसिद्धिप्रपञ्चे यश्चित्तस्य
विकासः तावन्मात्रे प्रपञ्चे सन्तोषः असावेव अविशिष्टा
सर्वजनसाधारणरूपा विद्या किञ्चिज्ज्ञत्वरूपा अशुद्धविद्या सैव स्वप्नो
भेदनिष्ठो विचित्रो विकल्पात्मा भ्रमः । तदुक्तं पातञ्जले

ते [ते प्रातिभादयः समाहितचित्तस्य उत्पद्यमाना उपसर्गाः
तद्दर्शनप्रत्यनीकत्वात् व्युत्थितचित्तस्य उत्पद्यमानाः सिद्धय इत्यनुमीयते ।
तत्र योगजधर्मानुगृहीतेभ्यो मनः-श्रोत्र-त्वक्-चक्षुः##-
सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् श्रावणात् दिव्यशब्दज्ञानम्
वेदनात् दिव्यस्पर्शाधिगमः आदर्शात् दिव्यरूपदर्शनम् आस्वादात्
दिव्यरससंवित् वार्तात् दिव्यगन्धज्ञानम् । इदमत्र सूत्रभाष्ययोः प्रयोजनम् ।
व्युत्थितचित्तो हि ताः सिद्धीरभिमन्यते जन्मदुर्गत इव द्रव्यकणिकामपि
द्रविणसम्भारम् योगिना तु समाहितचित्तेन उपनताभ्योऽपि ताभ्यो विरक्तव्यम् ।
अभिसंहित तापत्रयौत्पत्तिकोपशमरूपपरमपुरुषार्थः स खलु अयं
तत्प्रत्यनीकासु सिद्धिषु विरज्येत इति ।] समाधावुपसर्गा व्युत्थाने सिद्धयः
॥ (३-३७)

इति । तदेतत्

प्। ५७)

अतो विन्दुरतो [विन्दुः भ्रूमध्यादौ प्रदेशे
ध्यानाभ्यासप्रकर्षप्रवर्धमानोत्तरोत्तरप्रसादः तेजोविशेषः यो
विन्दुभेदाभ्यासात् धरातत्त्वध्यायिनामभिव्यज्यते । तथा नादो
वेगवन्नद्योघनिर्घोषघनोपक्रमः
क्रमसूक्ष्मीभावाभिव्यज्यमानमधुमत्त-मधुकरध्वनितानुकारी
स्वोच्चरितो ध्वनिविशेषः यं व्योमतत्त्वाभ्यासिनः शृण्वन्ति । तथा रूपं
सन्तमसाद्यावरणेऽपि सति तत्तद्दृश्यवस्त्वाकारदर्शनं यत् तेजस्तत्त्वे
न्यक्षनिक्षप्तमतिभिः निरीक्ष्यते । तथा रसो रसवद्भोग्यवस्तुविरहेऽपि
अमृतास्वादो मुखे यो लोलाग्रलम्बिकादिधारणानिरतैः
अप्तत्त्वध्यायिभिरुपलभ्यते । पवनतत्त्वध्यायिनां स्पर्शसुखविशेषोऽपि
अस्मादेव प्रवर्तते इति द्रष्टव्यम् । उन्मेषाभ्यासयोगिना नात्र सन्तोषिणा
भाव्यम् निरुत्तरपदारोहप्रत्यूहभूतत्वात् ।] नादो रूपमस्मादतो रसः ।
प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥

इत्यनेन दर्शितम् ॥ ४ ॥

यदा तु आगतामपि मितसिद्धिं खिलीकृत्य परामेव स्थितिमवष्टभ्नाति योगी
ततः -

विद्यासमुत्थाने स्वाभाविके खेचरी
शिवावस्था ॥ ५ ॥

प्राङ्निर्दिष्टसतत्त्वाया विद्यायाः स्वाभाविके समुत्थाने
परमेशेच्छामात्रघटिते मितसिद्धिन्यग्भाविनि सहजे समुन्मज्जने खे
बोधगगने चरति इति खेचरी मुद्रा अभिव्यज्यते । कीदृशी

प्। ५८)

खेचरी शिवस्य चिन्नाथस्य अवस्थातुः सम्बन्धिनी अवस्था
स्वानन्दोच्छलत्तारूपा । न तु

बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं न्यसेत् ।
दण्डाकारं तु तावत्तन्नयेद्यावत्कखत्रयम् [के शिरसि खत्रयं शक्ति##-
ब्रह्मरन्ध्रं संस्थितम् । तत्र तत् मनः अवष्टभ्य खत्रयेण
ऊर्ध्वगमनाय प्रेरयेदिति ।] ॥

निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु ।
एतां बद्ध्वा महायोगी खे गतिं प्रतिपद्यते ॥

इत्येवं संस्थानविशेषानुसरणरूपाः अपि तु

… पराम् ।
गतिमेत्यर्थभावेन कुलमार्गेण [कुलमार्गेण अक्षकुलद्वारेणेत्यर्थः ।
] नित्यशः ॥

चरते सर्वजन्तूनां खेचरी नाम सा स्मृता ।

इति-श्रीतन्त्रसद्भावनिरूपितपरसंवित्तिस्वरूपा । एवमिह
भेदात्मकमायीयसमस्तक्षोभप्रशान्त्या चिदात्मकस्वरूपोन्मज्जनैकरूपं
मन्त्रवीर्यं मुद्रावीर्यं च आदिष्टम् । तदुक्तं कुलचूडामणौ

एकं सृष्टिमयं [सृष्टिमयं बीजमिति मन्त्रवीर्यरूपम् अहमिति बीजम् ।
मुद्रा परभैरवीयात्मा ।] बीजमेका मुद्रा च खेचरी ।
द्वावेतौ यस्य जायेते सोऽतिशान्तपदे स्थितः ॥

प्। ५९)

इति । स्पन्दे तु मन्त्रवीर्यस्वरूपनिरूपणेनैव मुद्रावीर्यं सङ्गृहीतम् ।

यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।

इत्यर्धेन अन्यपरेणापि चूडामण्युक्तं खेचरीस्वरूपं भङ्ग्या सूचितम् ॥ ५ ॥

तदत्र मुद्रामन्त्रवीर्यासादनेऽपि -

गुरुरुपायः ॥ ६ ॥

गृणाति उपदिशति तात्त्विकमर्थमिति गुरुः सोऽत्र व्याप्तिप्रदर्शकत्वेन
[व्याप्तिरत्र मुद्रावीर्य-मन्त्रवीर्यस्वरूपा ।] उपायः । तदुक्तं
श्रीमालिनीविजये

स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ।

इति । स्पन्दे तु एवमादिप्रसिद्धत्वात् [गुर्वादिप्रसिद्धेरित्यर्थः । तथा
अन्यत्रापि

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ॥ इति ।] न सङ्गृहीतम् ।

अगाधसंशयाम्भोधिसमुत्तरणतारिणीम् ।
वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥

इति-पार्यन्तिकोक्त्या च एतदपि सङ्गृहीतमेव ।

प्। ६०)

गुरुर्वा पारमेश्वरी अनुग्राहिका शक्तिः । यथोक्तं श्रीमालिनीविजये

शक्तिचक्रं तदेवोक्तं गुरुवक्त्रं तदुच्यते ।

इति । श्रीमन्त्रिशिरोभैरवेऽपि

गुरोर्गुरुतरा शक्तिर्गुरुवक्त्रगता भवेत् ।

इति । सैव अवकाशं ददती उपायः ॥ ६ ॥

तस्माद्गुरोः प्रसन्नात् -

मातृकाचक्रसम्बोधः ॥ ७ ॥

शिष्यस्य भवतीति शेषः । श्रीपरात्रिंशकादिनिर्दिष्टनीत्या
अहंविमर्शप्रथमकला [इह खलु अनाख्यपरामर्शात्मा अनुत्तरः
शिवशक्त्यादिप्रतिनियतव्यपदेशासहिष्णुः परप्रकाश एव परं तत्त्वं स एव
च स्वातन्त्र्यात् विश्वमवबिभासयिषुः स्वात्मनि शिवशक्तिरूपतामवभासयति
तस्य शिवलक्षणस्य तत्त्वस्य अव्यभिचरितस्वभावा पूर्णाहन्तात्मा अनुत्तरा
कुलस्वरूपा शक्तिरस्तीति । एवं च अकारलक्षणं कुलं शरीरमस्य - इति
आद्यवर्णोऽभिहितः ।] अनुत्तराकुलस्वरूपा प्रसरन्ती आनन्दस्वरूपा
[आकाररूपा ।] सती इच्छेशनभूमिकाभासनपुरःसरं [इरूपाम्
ईरूपां च । इच्छान्तं तावत् अहं-विमर्श एव प्रथमकलारूप इत्यर्थः ।
] ज्ञानात्मिकामुन्मेषदशां ज्ञेयाभासासूत्रणाधिक्येन च ऊनतां
[उन्मेषदशाम् उकाररूपाम् ऊनताम् ऊकाररूपाम् ।]

प्। ६१)

प्रदर्श्य इच्छामेव द्विरूपां [यथा विद्योतनं तस्या एव मनाक्
आधिक्यम् तथा सैव इच्छा ऋकारतामापन्न विद्युदिव तस्या एव विद्योतनं
मनागाधिक्यं च ऋ इति र-श्रुतिश्च वह्निबीजं तेजोरूपम् । एवं
विद्युत्कल्पा एव इच्छा ऌ इति तस्या विद्योतनकल्पं ऌ इति मनागधिकं ल##-
इच्छाया रञ्जितत्वात् षण्ढस्वराणां चतुर्णां तेजोमात्ररूपे र-श्रुतौ
स्थैर्यरूपे ल-श्रुतौ वा सामर्थ्यं द्वितय एव नान्यत्र इति ।]
विद्युद्विद्योतनकल्पतेजोमात्ररूपेण स्थैर्यात्मना च एषणीयेन रञ्जितत्वात् र##-
अमृतरूपेण मेयाभासारूषणमात्रतश्च बीजान्तरप्रसवासमर्थतया
षण्ढाख्यबीजचतुष्टयात्मना रूपेण प्रपञ्च्य
प्रोक्तानुत्तरानन्देच्छासङ्घट्टेन त्रिकोणबीजम् [त्रिकोणबीजम् एकारः स
एव योनिबीजमिति ।] अनुत्तरानन्दोन्मेषयोजनया च
क्रियाशक्त्युपगमरूपमोकारं [निर्माणशक्त्यङ्गीकाररूपम् ।]
प्रोक्तैतद्बीजद्वयसङ्घट्टेन [ए-ओ इत्येतद्बीजद्वयम् ।] षट्कोणं
शूलबीजं [त्रिशूलबीजम् ऐ-औ इत्येवमात्मकमित्यर्थः ।] च
इच्छाज्ञानशक्तिव्याप्तपूर्णक्रियाशक्तिप्रधानत्वात्
शक्तित्रयसङ्घट्टनमयं प्रदर्श्य इयत्पर्यन्तविश्वैकवेदनरूपं
विन्दुमुन्मील्य

प्। ६२)

युगपदन्तर्बहिर्विसर्जनमयविन्दुद्वयात्मानं विसर्गभूमिमुद्दर्शितवती अत
एव अन्तर्विमर्शनेन अनुत्तरे एव एतद्विश्वं विश्रान्तं दर्शयति
बहिर्विमर्शेन तु कादि-मान्तं पञ्चकपञ्चकं अ-इ-उ-ऋ##-
वर्णसन्निवेशोल्लासिका इत्यर्थः ।] पुरुषान्तं समस्तं प्रपञ्चयति ।
एकैकस्याश्च शक्तेः पञ्चशक्तित्वमस्ति इत्येकैकतः पञ्चकोदयः । आभ्य एव
शक्तिभ्यः [उक्तचिदादिभ्यः सर्ववर्णमूलभूताभ्यः इत्यर्थः ।]
शिक्षोक्तसञ्ज्ञानुसारेण [व्याकरणादि-शिक्षोक्तक्रमेण
प्रमातृभूमौ नियति-कला-विद्या-राग-इत्यादिभिः
अन्तरवतिष्ठमानत्वात् अन्तःस्थसञ्ज्ञामुपलभमानान् य-र-ल##-
अन्तःपुम्भूमौ नियत्यादिकञ्चुकत्वेन अवस्थानात्
अन्तस्थाख्यान्प्रमातृभूमिधारणेन विश्वधारणात् धारणाशब्देन
आम्नायेषु उक्तान् तदुपरि भेदविगलनेन अभेदापत्त्या उन्मिषितत्वात्
ऊष्माभिधानान् चतुरो वर्णानाभासितवती । अत्र [अत्रेति ऊष्माक्षरेषु श##-
परिपूर्णममृतवर्णं [मेयरूपं भोग्यम् ।]

प्। ६३)

प्रदर्श्य तदन्ते प्राणबीजप्रदर्शनं कृतम् तत्
अनुत्तरशक्त्याप्यायितानाहतमयम् [ह-कलात्मकम् ।]
इयद्वाच्यवाचकरूपं [वाचकं मन्त्र-वर्ण-पदाध्वरूपं
वाच्यं कला-तत्त्व-भुवनाध्वरूपम् ।] षडध्वस्फारमयं
विश्वम् इति प्रत्यभिज्ञापयितुम् । अत एव प्रत्याहारयुक्त्या
अनुत्तरानाहताभ्यामेव शिवशक्तिभ्यां गर्भीकृतम् एतदात्मकमेव
विश्वम् इति महामन्त्रवीर्यात्मनोऽहंविमर्शस्य तत्त्वम् ।
यथोक्तमस्मत्परमेष्ठिश्रीमदुत्पलदेवपादैः

प्रकाशस्यात्मविश्रान्तिरहम्भावो हि कीर्तितः ।
उक्ता सैव च विश्रान्तिः सर्वापेक्षानिरोधतः ॥

स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।

इति । तदियत्पर्यन्तं यन्मातृकायास्तत्त्वं तदेव ककार [अनुत्तरात्मकः
ककारः विसर्गात्मकः सकारः तत्सङ्घट्टात्मा क्ष-इति कूटवर्णः ।]
सकारप्रत्याहारेण अनुत्तरविसर्गसङ्घट्टसारेण कूटबीजेन प्रदर्शितमन्ते
इत्यलं रहस्यप्रकटनेन । एवं-विधायाः

… न विद्या मातृकापरा ।

इत्याम्नायसूचितप्रभावाया मातृकायाः सम्बन्धिनश्चक्रस्य

प्। ६४)

प्रोक्तानुत्तरानन्देच्छादिशक्तिसमूहस्य
चिदानन्दघनस्वस्वरूपसमावेशमयः सम्यक् बोधो भवति । एतच्चेह
दिङ्मात्रेणोट्टङ्कितम् [उट्टङ्कितं सूचितम् । तथा च अयमत्र स्फुटो
वर्णनिर्णयः । अ-इति अनुत्तरप्रथमकला अकुलस्वरूपा पूर्णाहन्ता । आ##-
। ई-इति सैव ईशित्री सती स्वात्मविश्रान्तेव अत एव इकार-द्वितयसन्धिरूपता
। उ इति इच्छायां बहिरौन्मुख्ये सति विश्वोन्मेषरूपा ज्ञानशक्तिः । ऊ इति तस्यां
दर्पणनगरवत् अभिन्नायां सत्यां ज्ञेयस्याधिक्यात् संवित्तत्त्वस्य
ऊनतावभासित्वम् । ऋ-ऋ-इति इच्छायाः खलु द्विप्रकारायाः
शून्यभुवमधिशयानाया ज्ञानशक्तिसाचिव्येन तेजःस्पर्शित्वात् र##-
अत्यन्तं शून्यभुवि प्रसरन्त्याः किञ्चित् ज्ञानशक्तिराहित्येन
काष्ठपाषाणरूपतामिव आददानाया ल-श्रुत्या स्थैर्यात्मकत्वेन
विद्युद्विद्योतनकल्पमवभासनम् अत एव स्वात्ममात्रविश्रान्तित्वेन
एषाममृतात्मकत्वम् बहिरौन्मुख्याभावात् बीजान्तरप्रसवासमर्थत्वेन
नपुंसकताव्यपदेशः । ए-इति अनुत्तरानन्दयोरिच्छायां प्रसरतोः
अनुत्तरप्राधान्यात् त्रिकोणबीजम् इच्छाज्ञानक्रियाणां साम्यात् । ऐ-इति
तयोरेव इच्छायामीशित्र्यां च अत्यन्तप्रसरणात् दीर्घीभवनं मात्राधिक्यात् ।
ओ-इति अनुत्तरानन्दयोः बहिरुल्लसितुमिच्छया ज्ञानशक्तौ
विश्वोन्मेषावस्थायां प्रसरणरूपम् । औ-इति अस्यैव अत्यन्तं दैर्घ्यात्
इच्छाज्ञानक्रियाणां स्फुटतया त्रिशूलबीजत्वम् । अं-इति
एवमियत्पर्यन्तस्य विश्वस्य वेदनात्मकत्वेन विन्दुतया प्रथमं
शक्तिमत्परामर्शः । अः-इति पूर्वोक्तस्य अनुत्तरस्यैव
आनन्दशक्त्यविभक्तस्य विसर्गरूपतया शक्तिप्राधान्यपरामर्शः ।
परमेश्वरस्य शक्तयः पञ्च । तासामेकैकस्याः अपि शक्तेः पञ्चकयोगः ।
तेन अनुत्तरात् प्रसृतस्य कवर्गस्य इच्छायाः स्वरूपस्थाया जातस्य चवर्गस्य
अलुब्धलुब्धात्मद्विप्रकाराया इच्छाया उद्भूतस्य टवर्गस्य तवर्गस्य च
उन्मेषात् उत्पन्नस्य पवर्गस्य पञ्चकत्वम् । तत्र अवर्गस्य अधिष्ठात्री ब्राह्मी ।
कवर्गस्य माहेश्वरी पृथ्वी-जल-तेजो-वायु-आकाशानि इति
भूतपञ्चकस्वभावता च । चवर्गस्य वाराही अधिष्ठात्री कौमारी
उपस्थपायु-पाद-पाणि-वाचः इति कर्मेन्द्रियपञ्चकता च ।
तवर्गस्य अधिष्ठात्री चामुण्डा घ्राण-जिह्वा-चक्षुः-त्वक्##-
मनो-बुद्धि-अहङ्कार-प्रकृति-पुरुषतत्त्वानि इति पञ्चकत्वं
च । अन्तस्थानां नियति-राग-कला-विद्यातत्त्वचतुष्कत्वम्
मायाकालयोरत्रैव अन्तर्भावः । श-ष-सकाराणामीश्वर##-
तदेवमनुत्तर-हकारयोः प्रत्याहारे निखिलं वाच्यवाचकमयं
षडध्वरूपं विश्वम् अनुत्तर एव विश्राम्यति इति- दर्शयितुम्
अनुत्तरात्मकस्य ककारस्य सकारस्य च शक्तिमयस्य सङ्घट्टात्मतया
कूटबीजस्य अन्ते प्रदर्शनं कृतमिति वर्णनिर्णयः ।] । विततं तु
अस्मत्प्रभुपादैः श्रीपरात्रिम्-

प्। ६५)

शकाविवरण-तन्त्रालोकादौ प्रकाशितम् । उक्तं च श्रीसिद्धामृते

सात्र [सा पारमेश्वरी संविन्मात्ररूपा विसर्गशक्तिरेव
गर्भीकृतनिखिलविश्वत्वात् कुण्डलिनीशब्दव्यपदेश्या अनच्ककलारूपा
वाच्यवाचकात्मनि अत्र विश्वत्र अविद्यादेः तत्कारणत्वे दूरापास्तत्वात् बीजभूता
तत्त्वेऽपि संविन्निष्ठत्वात् सर्वव्यवस्थितीनां जीवभूता नहि संविदमन्तरेण
किञ्चिदपि स्फुरेदिति भावः । तदेवं-विधायाश्च तस्याः सकाशात्
अनुत्तरेच्छाज्ञानाख्यं परामर्शत्रयं जातम् ततश्च परामर्शत्रयात्
उक्तनीत्या निखिलपरामर्शान्तरोदयः ।] कुण्डलिनी बीजजीवभूता चिदात्मिका ।
तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः ॥

प्। ६६)

आ इत्यवर्णादित्यादि [एकः इति शब्दः स्वरूपपरामर्शकः अपरः प्रकारे
तेन अनुत्तरात् आनन्दो यथा जातः एवमिच्छातः ईशित्री उन्मेषादूनता यावत्
ककारादिः सकरान्तो यस्याः एवं-विधा हकारात्मिका वैसर्गिकी कला जाता
निखिलमेव वर्णजातमुदितमित्यर्थः । मकारान्तेति वक्तव्ये ककारादि##-
जन्मापि द्योतयितुमुक्तम् । अ-कु-ह-विसर्जनीयानां कण्ठः
इत्यादिनीत्या कवर्गहकारविसर्जनीयानामकारादेव उत्पत्तिः । वैसर्गिकी कला इति
सामान्योक्तेः परापरो हि विसर्जनीयात्मा विसर्गः कटाक्षितः । एतच्च सर्वं
विसर्गादुत्पन्नं विसर्ग एव तत्तदामर्शात्मना स्फुरित इत्यर्थः । स एव हि
परप्रमात्रेकरूपऽशेषविश्वक्रोडीकारेण अनुत्तरहकारात्मना प्रस्फुरन्
अन्तर्बहीरूपतया नर-शक्ति-शिवात्मतामाभासयेत् अत आह पञ्चधा
स च इति । चो हेतौ यतः स विसर्ग एव बिन्दुः विदिक्रियायां स्वतन्त्रः प्रमाता
बहीरूपतया हृदये नररूपतया बहीरूपत्वेऽपि अन्तारूपतायामेव विश्रान्तेः
नादे शक्तितया अन्तारूपतया परमे पदे द्वादशान्ते शिवतया प्रस्फुरन्
पञ्चप्रकारः । अत एव शरीरेऽपि हृदयात् मूर्धान्तं हृत्कण्ठ##-
पञ्चधात्वेऽपि अस्य वस्तुतः त्रैरूप्ये एव पर्यवसानमिति न
पूर्वापरव्याहतत्वं किञ्चिदाशङ्क्नीयम् । ननु एक एव असौ कथं हृदादौ
वर्तते ? इत्यत आह व्यापको हि सः इति । आ इत्यवर्णेति पद्यद्वयस्यार्थो
निर्दिष्टः ।] यावद्वैसर्गिकी कला ।
ककारादिसकारान्ताद्विसर्गात्पञ्चधा स च ॥

बहिश्चान्तश्च हृदये नादेऽथ परमे पदे ।
विन्दुरात्मनि मूर्धान्ते हृदयाद्व्यापको हि सः ॥

आदिमान्त्यविहीनास्तु [न केवलं मातृकाया एव परमन्त्रवीर्यात्मत्वेन
अज्ञाताया नैष्फल्यं यावत् मननत्राणधर्माणां मन्त्राणामपि इत्याह
आदिमेति तुशब्दः चार्थे । आदिमः अनुत्तरः अन्त्यो हकारः तेन मन्त्राः
अहम्परामर्शरूपादिमान्त्यविहीनाः तद्रूपत्वेन अपरिज्ञायमानाः
शरदभ्रवत् स्युः अकिञ्चित्करा एव इत्यर्थः । अन्यथा पुनः अहं##-
तत्तत्स्वकार्यकारिणो भवेयुः इति तात्पर्यार्थः ।] मन्त्राः स्युः
शरदभ्रवत् ।

प्। ६७)

गुरुर्लक्षणमेतावदादिमान्त्यं [एतत्परिज्ञानमेव गुरोर्मुख्यं
लक्षणमित्याह गुरोरिति । एवं-ज्ञानित्वादियोगात् द्योतनस्वभावो
विश्वनिर्भरः अहमिव सर्वेषां पूज्यः इति भगवदुक्तिः ।] च वेदयेत् ॥

पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ।
श्लोकगाथादि [एवं-विधो गुरुः न केवलं स्वभावत एव
परिस्फुरत्परशक्तिवीर्यात्मनो मन्त्रानेव वेत्ति यावत् किञ्चन लौकिकमपि
श्लोकादि इत्याह श्लोकेति । स खलु गुरुः तस्मात् निरतिशयज्ञानयोगात् सर्वं
यत्किञ्चन बाह्यं श्लोकादि तथा अहं-परामर्शत्वेन परामृशन्
मन्त्रत्वेनैव सर्ववेत्तृत्वात्मकमनन-संसार्यनुग्रहात्मक##-
अहम्परामर्शरूपमेव इत्यर्थः । नहि
प्रकाशात्मपरप्रमातृरूपतामन्तरेण किञ्चिदपि स्फुरेदिति भावः ।]
यत्किञ्चिदादिमान्त्ययुतं यतः ॥

तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ।

इति । एतच्च स्पन्दे

सेयं [मातृकातत्त्वपरिज्ञानवतामेव योगिनाम् इयं शक्तिः
भुक्तिमुक्तिलक्षणां सिद्धिं यच्छेत् अन्यथा तत्तद्वाचकानुवेधद्वारेण
हर्षशोकादिरूपतामादधाना बन्धकारिणी एव पशूनाम् इति
भुक्तिमुक्तिलक्षणफलायोगात् निष्फलैव भवेदिति पिण्डार्थः ।] क्रियात्मिका
शक्तिः शिवस्य पशुवर्तिनी ।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका ॥

इत्यनेनैव भङ्ग्या सूचितम् ॥ ७ ॥

प्। ६८)

ईदृशस्य अस्य मातृकाचक्रसम्बोधवतः -

शरीरं हविः ॥ ८ ॥

सर्वैर्यत्प्रमातृत्वेन अभिषिकं स्थूलसूक्ष्मादिस्वरूपं शरीरं तत्
महायोगिनः परस्मिन् चिदग्नौ हूयमानं हविः
शरीरप्रमातृताप्रशमनेन सदैव चिन्मातृताभिनिविष्टत्वात् । यदुक्तं
श्रीविज्ञानभैरवे

महाशून्यालये वह्नौ भूताक्षविषयादिकम् ।
हूयते मनसा साकं स होमः स्रुक्च चेतना [महाशून्यस्य
शून्यातिशून्यपदस्य आ समन्तात् लयो यत्र परतत्त्वात्मनि वह्नौ तत्र
भूतेन्द्रिय-विषय-भुवन-तत्त्वादिरूपं जगत्
तद्विभागकल्पनाहेतुना मनसा सह चेतना विश्वानुसन्धात्री शक्तिरेव स्रुक्
तया हूयते यत् स होमः अग्नौ हविर्दानमित्यर्थः । चित्तिः स्रुक् चित्तमाज्यम् इत्यादि
श्रुतेः ।] ॥

इति । श्रीतिमिरोद्घाटेऽपि

यः प्रियो यः सुहृद्बन्धुर्यो दाता योऽतिवल्लभः ।
तदङ्गभक्षणाद्देवि [स्वात्मार्थानुकूल्यस्य आश्रयभूतेषु प्रिय##-
भक्षणात् तदहन्तादिप्रशमनात् योगी प्रत्ययसृष्टिं भुङ्क्ते इत्यर्थः ।
] ह्युत्पतेद्गगनाङ्गना ॥

इति । अत्र हि देहप्रमातृताप्रशमनमेव पिण्डार्थः । श्रीमद्भगवद्गीतास्वपि

प्। ६९)

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते [सर्वान् इन्द्रियव्यापारान्
मानसान् मुखनासिकानिर्गमनादीन् वायवीयान् व्यापारान् च आत्मनो मनसः
संयमहेतौ योगनाम्नि ऐकाग्र्य वह्नौ सम्यक् ज्ञानपरिदीपिते निवेशयन्ति
गृह्यमाणं विषयं सङ्कल्प्यमानं या तदेकाग्रतयैव
परित्यक्तान्यव्यापारतया बुद्ध्या गृह्णन्ति इति तात्पर्यम् ।] ॥

इति । स्पन्दे तु

यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ।

इत्यनेनैव सङ्गृहीतम् । क्षोभो देहाद्यहम्प्रत्ययरूपः इति हि तद्वृत्तौ
भट्टश्रीकल्लटः ॥ ८ ॥

अस्य च -

ज्ञानमन्नम् ॥ ९ ॥

यत्पूर्वं ज्ञानं बन्धः (१-२) इत्युक्तं तत् अद्यमानत्वात्
ग्रस्यमानत्वात् योगिनामन्नम् । यत्संवादितं प्राक्

मृत्युं च कालं च कलाकलापं
विकारजातं प्रतिपत्तिसात्म्यम् ।
ऐकात्म्य-नानात्म्यवितर्कजातं
तदा स सर्वं कवलीकरोति ॥

इति ।

अथ [उक्तार्थविषये अर्थान्तरमादिशति ।] च यत्स्वरूपविमर्शात्मकं
ज्ञानं तत्

प्। ७०)

अस्य अन्नं पूर्णपरितृप्तिकारितया स्वात्मविश्रान्तिहेतुः । तदुक्तं
श्रीविज्ञानभैरवे

अत्रैकतमयुक्तिस्थे [द्वादशोत्तरशतभूमिकासु एकतमस्यां
भूमिकायां समाहितमनसो योगिनो या विश्वभरितात्म-भैरवावस्था सा
तृप्तिरित्यर्थः ।] योत्पद्येत दिनाद्दिनम् ।
भरिताकारिता सात्र तृप्तिरत्यन्तपूर्णता ॥

इति । युक्तिर्हि [शाम्भव-शाक्ताणवाख्योपायत्रयस्य भिन्नतया
निर्दिष्टत्वात् इयत्सङ्ख्याक-भूमिकाप्रत्ययात्मिका ।] तत्र
द्वादशोत्तरशतभूमिकाज्ञानरूपैव । एतच्च स्पन्दे

प्रबुद्धः [असङ्कुचितस्वातन्त्र्यशक्तिरित्यर्थः ।] सर्वदा
तिष्ठेत् … ।

इत्यनया कारिकया सङ्गृहीतम् ॥ ९ ॥

यदा तु एवं सततावहितो न भवति तदा ज्ञानवतोऽपि अस्य अवधानावलेपात् -

विद्यासंहारे तदुत्थस्वप्न-
दर्शनम् ॥ १० ॥

प्रोक्तज्ञानस्फाररूपायाः शुद्धविद्यायाः संहारे निमज्जने तदुत्थस्य
क्रमात्क्रमन्यक्कृतविद्यासंस्कारस्य स्वप्नस्य भेदमयस्य
विकल्पप्रपञ्चरूपस्य दर्शनं स्फुटम् उन्मज्जनं भवति । तदुक्तं
श्रीमालिनीविजये

प्। ७१)

न चैतदप्रसन्नेन शङ्करेणोपदिश्यते ।
कथञ्चिदुपदिष्टेऽपि वासना नैव जायते ॥

इत्युपक्रम्य

वासनामात्रलाभेऽपि योऽप्रमत्तो न जायते ।
तमनित्येषु भोगेषु योजयन्ति विनायकाः [विनायकाः तत्तद्दिव्यगण##-
ऋतम्भराप्रज्ञावतो ब्राह्मणस्य सत्त्वशुद्धिमनुपश्यन्तः
स्थानैरुपनिमन्त्रयन्ते । भो इहास्यतां कमनीयोऽयं भोगः कमनीयेयं
कन्ता रसायनमिदं जरामृत्यू बाधते वैहायसमिदं यानं अमी
कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षयः उत्तमा अनुकूला अप्सरसः
दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वमिदमुपार्जितमायुष्मता
प्रतिपद्यतामिदमक्षय्यमजरममरस्थानं देवानां प्रियम् इति
पातञ्जलदर्शनोक्तप्रकारेण सविनयादरपूर्वं
दिव्यवस्तुगुणानुकीर्तनतत्प्रदर्शनेन योगिनमनित्यभोगेषु प्रलोभयन्ते ।
तस्मात् परसिद्धिप्राप्तौ प्रत्यूहभूतत्वात् भोगेभ्यो विरज्येतेति भावः ।] ॥

इति । तदेतत्

अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः ।
सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये [एकस्य स्वतन्त्रपरमेशितुः
ममैव इदं विश्वम् - इति विश्वभरितसंवित्स्वरूपसमाधानपरित्यागेन
योगिनः पदद्वये प्रसरद्दृक्क्रियात्मकतया विचित्रभ्रमदानसमर्थं
नानाभाववैचित्र्यनिर्माणं पशोरिव दुर्निवारप्रसरमस्ति
नीलसुखादिसृष्ट्यैव अयं स्वायत्तीक्रियते इत्यर्थः । समाहितचेतसस्तु तत्र
ज्ञानज्ञेयात्मभावेन स्फुरन्ती पारमेश्वरी शक्तिः
चिन्मयस्वरूपावरणप्रतिबन्धाय न प्रगल्भते इति भावः ।] ॥

इत्यनेन स्पन्दे सङ्गृहीतम् । अतश्च नित्यं शुद्धविद्याविमर्शनपरेणैव
योगिना भाव्यम् इत्युपदिष्टं भवति । यथोक्तम्

प्। ७२)

तस्मान्न तेषु संसक्तिं कुर्वीतोत्तमवाञ्छया ।

इति-श्रीपूर्वे । श्रीस्पन्देऽपि

अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये ।
जाग्रदेव निजं भावमचिरेणाधिगच्छति [शाक्ततत्त्वस्य
स्वरूपाविर्भावाय सततमुद्युञ्जानो जागरावस्थायामेव
निरावरणचिद्रसघनभैरवपरमार्थसत्तां संवेदयते इति ।] ॥

इति । एवं चित्तं मन्त्रः (२-१) इत्यतः प्रभृति मन्त्रवीर्य##-

उच्चाररहितं वस्तु चेतसैव विचिन्तयन् [दृढैकाग्र्येण
विमर्शनविषयीकुर्वन् ।] ।
यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥

इत्याम्नातं शाक्तोपायं विविच्य अवधानावलिप्तं प्रति विद्यासंहारे
तदुत्थस्वप्नदर्शनम् (२-१०) इति सूत्रेण एतदनुषङ्गेण
[भेदमयप्रपञ्चदर्शनस्य निमज्जने क उपाय इति प्रसङ्गेन ।]
आणवोपायप्रतिपादनस्य अवकाशो दत्तः । इति शिवम् ॥ १० ॥

आदितः सूत्रसङ्ख्या ॥ ३२ ॥

इति श्रीमन्माहेश्वराचार्याभिनवगुप्तपादपद्मोपजीवि##-
नाम द्वितीय उन्मेषः ॥ २ ॥