ॐ नमः सच्चिदानन्दात्मने
अथ शिवसूत्रविमर्शिनी ।
प्रथम उन्मेषः ।
रुद्रक्षेत्रज्ञवर्गः [रुद्रेति प्रमातृप्रमेयमयस्य जगतः
सृष्टिस्थितिसंहारकारिणो रुद्राः पतिरूपाः । क्षेत्रज्ञाः पशवो ब्रह्मादयः
।] समुदयति यतो यत्र विश्रान्तिमृच्छेद्
यत्तत्त्वं यस्य विश्वं स्फुरितमयमियद्यन्मयं विश्वमेतत् ।
स्वाच्छन्द्यानन्दवृन्दोच्छलदमृतमयानुत्तरस्पन्दतत्त्वं
[स्वाच्छन्द्येन स्वातन्त्र्येण यत् आनन्दवृन्दं सर्वशक्तिकारणभूता
अकारादि-क्षकारान्ता रश्मिकलाः शक्तिमात्रसमूहः उच्छलत् अतिशयेन
निर्गच्छत् यस्मात् इति बहुव्रीहिणा विमर्शरूपं विशेषणम् उक्त्वा
प्रकाशरूपविशेषणम् आह अमृतेति । एतादृशानन्दस्वभावश्च असौ
अनुत्तरः अनिर्वचनीयश्च असौ स्पन्दः कारणकारणम् आद्यः किञ्चिच्चलत्तात्मा
तत्त्वं स्वरूपं यस्य तत् चैतन्यं जयति ।] [स्पन्दकारिकार्थम्
अवलम्ब्य एतत् निरूपितम् इति व्यज्यते ।]
चैतन्यं शाङ्करं तज्जयति यदखिलं द्वैतभासाद्वयात्म
[वस्तुत इति शेषः ।] ॥
आसमञ्जस्यमालोच्य वृत्तीनामिह [शिवसूत्रवृत्तिरिति ग्रन्थान्तरमस्ति ।
] तत्त्वतः ।
शिवसूत्रं व्याकरोमि गुर्वाम्नायविगानतः
[गुरोर्वचनस्य विशेषण गानं विगानं तस्मात् । अथवा विरुद्धत्वेन
गानं ज्ञानं विगानं । निन्दा वा विगानं वचनीयत्वम् इति कोशात् । तस्मादेव
आसमञ्जस्यम् इति सम्बन्धः । अत एव अहम् एतत् व्याकरोमि । वचन इति वक्तव्ये
आम्नायग्रहणं प्रामाण्यार्थम् ।] ॥
प्। २)
इह कश्चित्
[कश्चिदिति महेश्वरानुग्रहविशेषप्राप्तमहद्दशाकः अत एव अपूर्वः ।
]
शक्तिपातवशोन्मिषन्माहेश्वरभक्त्यतिशयात्
अनङ्गीकृताधरदर्शनस्थ-नाग[नागबोधी बौद्धाचार्यः ।
]-बोध्यादि-सिद्धादेशनः शिवाराधनपरः पारमेश्वर##-
]सत्सम्प्रदाय-पवित्रितहृदयः श्रीमहादेवगिरौ महामाहेश्वरः
[ईशस्य ऐक्येन विमर्शनात् महान्] श्रीमान् वसुगुप्तनामा गुरुरभवत्
।
कदाचिच्च असौ द्वैतदर्शनाधिवासितप्राये जीवलोके रहस्यसम्प्रदायो
[सम्प्रदायो हि परम्परोपदेशः सोऽपि कर्णात्कर्णन्यायेन अत एव मा
विच्छेदि ।]
मा विच्छेदि इत्याशयतः अनुजिघृक्षापरेण परमशिवेन स्वप्ने अनुगृह्य
उन्मिषितप्रतिभः
[स्वप्ने उन्मिषितप्रतिभः कृत इत्यस्य अग्निमेण इति-शब्देन अन्वयः ।
]
कृतः यथा अत्र महीभृति महति शिलातले रहस्यम् अस्ति तत् अधिगम्य
अनुग्रहयोग्येषु प्रकाशय इति ।
प्। ३)
प्रबुद्धश्च असौ अन्विष्यन् तां महतीं शिलां करस्पर्शनमात्रपरिवर्तनतः
संवादीकृतस्वप्नां [प्रमाणीकृतस्वप्नाम् ।] प्रत्यक्षीकृत्य
इमानि शिवोपनिषत्सङ्ग्रहरूपाणि [शिवरहस्यागमशास्त्रसङ्ग्रहरूपाणि
।] शिवसूत्राणि ततः समाससाद [तथा च वार्तिकम्
श्रीमन्महादेवगिरौ वसुगुप्तगुरोः पुरा ।
सिद्धादेशात्प्रादुरासञ्शिवसूत्राणि तस्य हि ॥
इति ।] । एतानि च सम्यक् अधिगम्य भट्टश्रीकल्लटाद्येषु सच्छिष्येषु
प्रकाशितवान् स्पन्दकारिकाभिश्च सङ्गृहीतवान् । तत्पारम्पर्य[तस्मात्
वसुगुप्तात् गुरुपरम्परया यथायथं प्राप्तानि ।]-प्राप्तानि
स्पन्दसूत्राणि अस्माभिः स्पन्दनिर्णये सम्यक् निर्णीतानि । शिवसूत्राणि तु
निर्णीयन्ते ॥
तत्र प्रथमं नरेश्वर-भेद-वादि[नरा आत्मानः पृथक् ईश्वरश्च
पृथक् इति वादिनां प्रातिपक्ष्येण वैपरीत्येन ।]-प्रातिपक्ष्येण
चैतन्य-परमार्थतः शिव एव विश्वस्य आत्मा इति आदिशति-
प्। ४)
चैतन्यमात्मा ॥ १ ॥
विस्तारः (द्रष्टुं नोद्यम्)
अत्र वार्तिकम्
चैतन्यमात्मनो रूपं सिद्धं ज्ञानक्रियात्मकम् ।
तस्यानावृतरूपत्वाच्छिवत्वं केन वार्यते ॥ इति
इह अचेतितस्य [अचेतितस्य अप्रकाशितस्य । प्रकाशात् बाह्यं यत् तत् अवस्तु ।]
कस्यापि सत्त्वाभावात् चितिक्रिया सर्वसामान्यरूपा [सर्वत्र अस्ति इत्यर्थः ।
] इति चेतयते इति चेतनः सर्वज्ञानक्रियास्वतन्त्रः तस्य भावः चैतन्यं
[चैतन्यं चितिः चेतन आत्मा इति राहोः शिर इतिवत् काल्पनिकम् वस्तुतः एकमेव
सर्वम् । चितिक्रिया प्रकाशाभिमर्शः तस्य भावः स्वातन्त्र्यम् ।]
सर्वज्ञानक्रियासम्बन्धमयं [चितिक्रियासम्बन्धमयम् । सम्बन्धस्य
सम्बन्धिविश्रान्तस्य प्रतीतेः चितिक्रियासम्बन्धमयं चैतन्यमिति व्यञा
निष्कृष्टम् ।] परिपूर्णं स्वातन्त्र्यम् उच्यते । तच्च परमशिवस्यैव
भगवतः अस्ति अनाश्रितान्तानां [सकलादीनां शिवतत्त्वान्तानां नास्ति तत् ।
शिवतत्त्वमपि वस्तुतः ततो न्यूनं सृज्यमानम् अनाश्रितसञ्ज्ञम्
अच्छेद्याक्लेद्याशोष्यादिधर्मकम् ।] तत्परतन्त्रवृत्तित्वात् । स च यद्यपि
नित्यत्व-व्यापकत्वामूर्तत्वाद्यनन्तधर्मात्मा तथापि नित्यत्वादीनाम्
अन्यत्रापि [आकाशपरमाण्वादौ ।]
प्। ५)
सम्भाव्यत्वात् अन्यासम्भविनः स्वातन्त्र्यस्यैव उद्धुरीकारप्रदर्शनमिदम् ।
इत्थं धर्मान्तरप्रतिक्षेपतश्च चैतन्यमिति भावप्रत्ययेन दर्शितम्
[इत्थमिति स्वातन्त्र्यस्य उद्धुरीकारप्रदर्शनतः । तथा च
आचार्याभिनवगुप्तपादाः
चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् ।
अनाक्षिप्तविशेषं सद् आह सूत्रे पुरातने ॥ इति ।
मात्रशब्दस्य अर्थमाह अनाक्षिप्तेति । भावप्रत्ययान्तो हि शब्दः
सहचारिधर्मान्तरनिवृत्तिमेव ब्रूते । यदाहुः
धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः ॥
सङ्केतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः ।
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ॥
इति ।
चितिः प्रत्यवमर्शात्मा …
इति श्रीप्रत्यभिज्ञायाम् । चेतयते इत्यत्र या चितिः चितिक्रिया तस्याः प्रत्यवमर्शः
स्वात्मचमत्कारलक्षणः आत्मा स्वभावः । तथा हि घटेन स्वात्मनि न
चमत्क्रियते स्वात्मा न परामृश्यते न स्वात्मनि तेन प्रकाश्यते न
अपरिच्छिन्नतया भास्यते ततो न चेत्यते इत्युच्यते । चैत्रेण तु स्वात्मनि अहमिति
संरम्भोद्योगोल्लास-विभूतियोगात् चमत्क्रियते स्वात्मा परामृश्यते
स्वात्मन्येव प्रकाश्यते इदम् इति यः परिच्छेदः
एतावद्रूपतयातद्विलक्षणीभावेन नील-पीत-सुख-दुःख##-
इत्युच्यते।] । तदेतत् [एतत् चैतन्यं स्वातन्त्र्यमेव आत्मा ।] आत्माः न
पुनरन्यः कोऽपि भेदवाद्यभ्युपगतो
प्। ६)
भिन्नभिन्नस्वभावः । तस्य [तस्य भिन्नभिन्नस्वभावस्य ।] अचैतन्ये
जडतया अनात्मत्वात् । चिदात्मत्वे भेदानुपपत्तेः चितो देशकालाकारैः
चिद्व्यतिरेकात् अचेत्यमानत्वेन [अप्रकाश्यमानत्वेन ।] असद्भिः
चेत्यमानत्वेन तु चिदात्मभिः [चिदव्यतिरेकात्तु न भिन्नभिन्नस्वभावैः ।
] भेदस्य [कर्मणि षष्ठी । भेदस्य आधातुम् इत्यत्र भेदं कर्तुम्
इत्यर्थः ।] आधातुम् अशक्यत्वात् चिन्मात्रत्वे तु आत्मनां स्वभावभेदस्य
अघटनात् वक्ष्यमाणनीत्या [मलस्थितेर्दृश्यत्वात् भेदशङ्कायां
प्राप्तायां तस्य अव्यतिरिक्तत्वेन वक्ष्यमाणत्वात् न भेदावस्थितिः इत्यर्थः ।
] अव्यतिरिक्तमलसम्बन्धयोगेनापि भेदस्य अनुपपत्तेः प्राक् [मुक्तेः
प्राक् ।] मलस्य सत्त्वेऽपि मुक्तिदशायां तदुपशमनात् नानात्मवादस्य
वक्तुम् अशकत्वात् मलसंस्कारसम्भवे [मलशान्तावपि ।] वा
अनादिशिवात् कथञ्चित् अपकर्षे [न्यूनतायां वा । मुक्तिदशायां
मलसंस्कारसम्भवो वा ईदृशी न्यूनता या भवितुं नार्हति । तदङ्गीकारे
मुक्तिरेव न स्यात् किन्तु संसार एव इत्यर्थः ।] वा मुक्तशिवाः संसारिण एव
स्युरिति । यथोक्तम्
चैतन्यमेक एवात्मा …
प्। ७)
इति नानात्मवादस्य अनुपपत्तिः सूचिता [आत्मनां भेदो नास्ति इति कथितम् ।
] ।
अथ च आत्मा [लौकिकाः शरीरं चार्वाकाश्च वैदिकाः प्राणम् योगाचारा
बौद्धाश्च बुद्धिम् माध्यमिकाः शून्यम् आत्मानम् अभ्युपगच्छन्ति । तेषां
मतनिराकरणाय अथेति प्रश्नपूर्वकम् उपदिशति ।] क इति जिज्ञासून्
उपदेश्यान् प्रति बोधयितुं न शरीर-प्राण-बुद्धि-शून्यानि
लौकिक-चार्वाक-वैदिक-योगाचार-माध्यमिकाद्यभ्युपगतानि
आत्मा अपि तु यथोक्तं चैतन्यमेव [आत्मा इति शेषः ।] । तस्यैव शरीरादि
[शरीरादयश्च प्रकाशमानत्वेनैव गृहीताः ।]
कल्पितप्रमातृपदेऽपि अकल्पिताहंविमर्शमय-सत्यप्रमातृत्वेन
स्फुरणात् । तदुक्तं श्रीमृत्युजिद्भट्टारके
परमात्मस्वरूपं तु सर्वोपाधिविवर्जितम् ।
चैतन्यमात्मनो [देहादिमतः । योगवासिष्ठेऽपि
यद्यज्ज्ञेयमिदं तत्त्वं सन्त्यज्य युक्तिभिः ।
प्रप्यावशिष्टं चिन्मात्रं सोऽस्म् सोऽस्मीति भावय ॥
अष्टावक्रोक्तौ च
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं तः ।
यदा प्रकाशते विश्वं तदाहं भास एव हि ॥] रूपं सर्वशास्त्रेषु
पठ्यते ॥
इति । श्रीविज्ञानभैरवेऽपि
प्। ८)
चिद्धर्मा [चिद्धर्मा आत्मा । विशेषः भेदः ।] सर्वदेहेषु विशेषो
नास्ति कुत्रचित् ।
अतश्च तन्मयं सर्वं भावयन् भवजिज्जनः ॥
इति । एतदेव
यतः करणवर्गोऽयं … ।
इति कारिकाद्वयेन सङ्गृह्य उपदेश्यान् प्रति साभिज्ञानं [इयमेव चित्
सर्वदेहेषु स्फुरतीति साभिज्ञानम् ।] गुरुणा उपदिष्टं श्रीस्पन्दे ।
किञ्च यदेतत् चैतन्यम् उक्तं स एव आत्मा स्वभावः विशेषाचोदनात् [अस्यैव
आत्मा इति विशेषो न चोदितः (अस्यैव आत्मा इति विशेषाचोदनात् विश्वस्य इति
कथ्यते) ।] भावाभावरूपस्य विश्वस्य जगतः । नहि अचेत्यमानः
[अचेत्यमान इति स्वभाव इत्यनेन सम्बध्यते । अचेत्यमानः
अप्रकाश्यमानः । अविमृष्टं हि यत् तत् आस्तु इति ]] कोऽपि कस्यापि
कदाचिदपि स्वभावो भवति । चेत्यमानस्तु स्वप्रकाशचिदेकीभूतत्वात्
चैतन्यात्मैव [चैतन्यस्वभाव एव स्वभावः ।] । तदुक्तं
श्रीमदुच्छुष्मभैरवे
यावन्न वेदका एते तावद्वेद्याः कथं प्रिये ।
वेदकं वेद्यमेकं तु तत्त्वं नास्त्यशुचिस्ततः [ततः तस्मादेव हेतोः ।
] ॥
इति । एतदेव
प्। ९)
यस्मात्सर्वमयो जीवः … ।
इति कारिकाद्वयेन सङ्गृहीतम् ।
यतः चैतन्यं विश्वस्य स्वभावः तत एव तत्साधनाय प्रमाणादि वराकम्
अनुपयुक्तम् [अनुपयुक्तमिति
प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते ।
अनपह्नवनीयत्वात्किं तस्मिन्मानकल्पनैः ॥
इत्यभिनवगुप्तपादैस्तन्त्रालोके प्रमाणानुपपत्तेराम्नातत्वात् ।] तस्यापि
[प्रमाणवराकस्यापि
प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते ।
तेषामपि परो जीवः स एव परमेश्वरः ॥
इत्यभिनवगुप्तपादैश्चैतन्याधीनैव सिद्धिर्निर्दिष्टास्ति ।]
स्वप्रकाशचैतन्याधीनसिद्धिकत्वात् चैतन्यस्य च प्रोक्तयुक्त्या केनापि आवरीतुम्
अशक्यत्वात् सदा प्रकाशमानत्वात् । यदुक्तं श्रीत्रिकहृदये
स्वपदा स्वशिरश्छायां यद्वल्लङ्घितुमीहते ।
पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ॥
इति । यो लङ्घितुम् ईहते तस्य यथा पादोद्देशे शिरो न स्यात् तथा इयमिति अत्र
सम्बन्धः । अनेनैव आशयेन स्पन्दे
प्। १०)
यत्र स्थितम् … ।
इत्यादि उपक्रम्य
… तदस्ति परमार्थतः ॥
इत्यन्तेन महता ग्रन्थेन शङ्करात्मक-स्पन्द-तत्त्वरूपं चैतन्यं
सर्वदा स्वप्रकाशं परमार्थसत् अस्ति इति प्रमाणीकृतम् ॥ १ ॥
यदि जीवजडात्मनो विश्वस्य परमशिवरूपं चैतन्यमेव स्वभावः
तत् कथम् अयं बन्ध इत्याशङ्काशान्तये
संहितया इतरथा च अकारप्रश्लेषाप्रश्लेषपाठतः सूत्रम् आह -
विस्तारः (द्रष्टुं नोद्यम्)
परः सन्निकर्षः
संहिता इति श्लिष्टसन्धिकारेण चैतन्यमात्माज्ञानं बन्धः
इत्यकारप्रश्लेषपाठेन एकं सूत्रम् । इतरथेति पृथक् सूत्रद्वयेन
अकाराप्रश्लेषात् संह्ताया अभावात् इत्यारोहावरोहक्रमेण अत्र ज्ञानम् आत्मनि
अनात्माभिमानलक्षणम् अनात्मनि आत्माभिमानलक्षणं च मलम्
वियुक्तसंयुक्तपाठतया दर्शितम् । तथा च आचार्याभिनवगुप्तपादाः
चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः ।
संश्लेषेतरय्गोआभ्यामयमर्थः प्रदर्शितः ॥
चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् ।
अनाक्षिप्तविशेषं सद् आह सूत्रे पुरातने ॥
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा ।
ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते ।
तत एव समुच्छेद्यमित्यावृत्त्या निरूपितम् ॥
इति ।
प्। ११)
ज्ञानं बन्धः ॥ २ ॥
इह उक्त-युक्त्या चित्-प्रकाश-व्यतिरिक्तं न किञ्चिद् उपपद्यत इति [इयमुक्तिः सिद्धान्तिवादानुसारेण भेदवादिनः ।] मलस्यापि का सत्ता कीदृग् वा
तन्निरोधकत्वं [मलावारकत्वं मलाच्छादकत्वं चित्स्वरूपस्य ।]
स्यादिति भेदवादोक्तप्रक्रियापरिहारेण
[भेदवादेनोक्तसिद्धान्तानुसारमेव या उक्ता चोद्यप्रक्रिया तत्परिहारेण
सिद्धान्ती वक्ति ।]
मलमज्ञानमिच्छन्ति
संसाराङ्कुरकारणम् ॥
इति ।
विस्तारः (द्रष्टुं नोद्यम्)
मलमिति अज्ञानं तिमिरं
पारमेश्वरस्वातन्त्र्यमात्रसमुल्लसितस्वरूपगोपनासतत्त्वम्
आत्मानात्मनोरन्यथाभिमानस्वभावमपूर्णं ज्ञानं तदाणवं मलम्
संसारेति संसारस्य भिन्नवेद्यप्रथात्रैव मायाख्यं … इत्याद्युक्त
स्वरूपस्य मायीयस्य मलस्य संसारकारणं कर्म संसाराङ्कुर उच्यते इति
नीत्या अङ्कुरः कारणं कार्ममलं तस्य कारणम् । मायीयस्य कार्ममलं
तस्य चाणवं कारणमिति भावः । अज्ञानस्य पौरुषबौद्धात्मकत्वेन
द्वैविध्येऽपि इह पौरुषमेव विवक्षितं नान्यदिति संसाराङ्कुरकारणमिति
विशेषणेन सूचितम् । तथा चाचार्याभिनवगुप्तपादाः
विशेषणेन बुद्धिस्थे संसारोत्तरकालिके ।
सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ इति ।
अज्ञानाद्बध्यते लोकस्ततः सृष्टिश्च संहृतिः ॥
इति श्रीमालिनीविजय-श्रीसर्वाचारोक्तस्थित्या
प्। १२)
यः परमेश्वरेण स्वस्वातन्त्र्यशक्त्याभासितस्वरूपगोपनारूपया
महामायाशक्त्या [महामायाशक्त्येति मायोपरि महामाया
इत्याम्नायनीत्या माया शिवतत्त्वमेकं परित्यज्य सर्वत्र कृतव्याप्तिः अन्यथा
मायोपरि वर्तमानत्वात्कथमवस्थाभेदः स्यादिति भट्टोत्पलमतम् ।]
स्वात्मन्याकाश[स्वात्मन आकाशसाम्यं स्वच्छत्वात्
मायामेघावृत्यसङ्कोचात् ।]कल्पेऽनाश्रितात्[शिवतत्त्वात् ।
]प्रभृति मायाप्रमात्रन्तं सङ्कोचोऽवभासितः स एव
शिवाभेदाख्यात्यात्मका[शिवाभेदस्य अख्यातिरप्रथनं
स्वातन्त्र्यहानिरूपम् ।]##-
बन्धः । यथा च व्यतिरिक्तस्य मलस्यानुपपन्नत्वं तथा अस्माभिः
श्रीस्वच्छन्दोद्द्योते पञ्चमपटलान्ते दीक्षाविचारे वितत्य दर्शितम् । एष च
सूत्रार्थः
निजाशुद्द्यासमर्थस्य … ।
इति कारिकाभागेन सङ्गृहीतः । एवमात्मनि [एवमिति उक्तप्रकारेण आत्मनि
परमात्मनि ।] अनात्मताभिमानरूपाख्याति[स्वातन्त्र्यहानिर्बोधस्य…
इत्यनेन स्वरूपगोपना विज्ञानाकलेषु प्रत्यभिज्ञायामुक्ता ।]##-
प्। १३)
ज्ञानं न केवलं बन्धो यावद् अनात्मनि शरीरादौ आत्मताभिमानात्मकम्
अज्ञानमूलं [स्वातन्त्र्याभिमाने च स्वातन्त्र्यस्याप्यबोधता इत्येवं
रूपम् ।] ज्ञानमपि बन्ध एव । एतच्च
परामृतरसापाय… ।
इति कारिकया सङ्गृहीतम् ।
एवं चैतन्यशब्देनोक्तं यत्किञ्चित् स्वातन्त्र्यात्मकं रूपं तत्र चिदात्मन्यपि
स्वातन्त्र्याप्रथात्मविज्ञानाकलवद् अपूर्णम्मन्यतामात्रात्मना रूपेण
स्वातन्त्र्येऽपि देहादौ [देहादौ यत्स्वातन्त्र्यं तत्र ।] अबोधरूपेण
अनात्मन्यात्मताभिमानात्मना रूपेण द्विप्रकारमाणवमलम् अनेन सूत्रेण
सूत्रितम् । तदुक्तं श्रीप्रत्यभिज्ञायाम् ।
स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥
इति ॥ २ ॥
किम् ईदृगाणवमलात्मैव बन्धः ? न इत्याह -
योनिवर्गः [योनिवर्गः मायामलम् कला कार्ममलम् ।] कलाशरीरम् ॥
३ ॥
प्। १४)
बन्ध इत्यनुवर्तते योऽयं योनेर्विश्वकारणस्य मायायाः सम्बन्धी वर्गः
साक्षात् पारम्पर्येण च तद्धेतुको देहभुवनाद्यारम्भी
किञ्चित्कर्तृताद्यात्मककलादिक्षित्यन्तस्तत्त्वसमूहः तद्रूपं [स एव
मायामूल इति मलबन्धः ।] मायीयम् तथा कलयति [कलयति
स्वरूपमावेशयति ।] स्वस्वरूपावेशेन तत्तद् वस्तु परिच्छिनत्तीति कला
[वस्तुनि वा तत्र तत्र प्रमातरि स्वकलनमेव कला ।] व्यापारः शरीरं
स्वरूपं यस्य तत् कलाशरीरं कार्मं मलमपि बन्ध इत्यर्थः । एतदपि
निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः ।
इत्यनेनैव सङ्गृहीतम् । यथा चैतत् तथा अस्मदीयात्
स्पन्दनिर्णयादवबोद्धव्यम् । एषां च कलादीनां [तत्त्वानाम् आदिना
विद्याकालरागनियत्यादीनि गृह्यन्ते ।] किञ्चित्कर्तृत्वादिलक्षणं
स्वरूपमाणवमलाभित्तिलग्नं [वस्तुतः
आणवमेवेतरयोर्मलयोर्मूलभूतमित्यर्थः ।] पुंसामावरकतया
मलत्वेन [कलादीनि तत्त्वानि च मलान्येवेत्याशयः ।] सिद्धमेव ।
यदुक्तं श्रीमत्स्वच्छन्दे
प्। १५)
मलप्रध्वस्तचैतन्यं [स्वातन्त्र्यहानिर्बोधस्य
इत्याद्युक्तलक्षणेनाणवमलेनैव प्रथमं चैतन्यसङ्कोचः सञ्जायते ।]
कलाविद्यासमाश्रितम् ।
रागेण रञ्जितात्मानं कालेन कलितं [कलितं परिच्छिन्नम् । यमितं
नियमितम् । पुम्भावेन पुरुषतत्त्वेन । गुणेति गुणत्रयविभागेन । बुद्धिकर्मेति
बुद्धीन्द्रियैः कर्मेन्द्रियैश्च । तन्मात्रैः शब्दादिभिः । स्थूलभूतकैः
क्षित्यन्तैः ।] तथा ॥
नियत्या यमितं भूयः पुम्भावेनोपबृंहितम् ।
प्रधानाशयसम्पन्नं गुणत्रयसमन्वितम् ॥
बुद्धितत्त्वसमासीनमहङ्कारसमावृतम् ।
मनसा बुद्धिकर्माक्षैस्तन्मात्रैः स्थूलभूतकैः ॥
इति । कार्म[इयत्पर्यन्तमाणवमायीयमलद्वयमेव प्रोक्तं
भवतीत्याशयेनाह कार्मेति यतः गोपितस्वमहिम्नोऽस्य
सम्मोहाद्विस्मृतात्मनः ।
यः सङ्कोचः स एवास्य आणवो मल उच्यते ॥
ततः षट्कञ्चुकव्याप्तिविलोपितनिजस्थितेः ।
भूतदेहे स्थितिर्यासौ मायीयो मल उच्यते ॥
यदन्तःकरणाधीनारब्धिकर्मेन्द्रियादिभिः ।
बहिर्व्याप्रियते कार्मं मलमेतस्य तन्मतम् ॥
इत्यध्यात्मनये ।]मलस्याप्यावरकत्वं [ज्योतिष्टोमयाज्यहं
स्वर्गगन्ता अशुभकारी नरकगन्ता इति द्विरूपं कार्ममावरकमेव ।]
श्रीमालिनीविजये प्रदर्शितम्
धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् ।
इति । तदेतत् मायीयं कार्मं च मलम्
प्। १६)
भिन्नवेद्यप्रथात्रैव [अत्र आणवे ।] मायाख्यं जन्मभोगदम् ।
कर्तर्यबोधे कार्मं च … ॥
इति श्रीप्रत्यभिज्ञायाम् आणवमलभित्तिकं सङ्कुचितविशिष्टज्ञानतयैवोक्तम्
[सर्वे मला हि सङ्कुचितविशिष्टज्ञानरूपा एव ।] ॥ ३ ॥
अथ कथमस्याज्ञानात्मकज्ञान-योनिवर्ग-कलाशरीररूपस्य
त्रिविधस्य मलस्य बन्धकत्वमित्याह -
ज्ञानाधिष्ठानं मातृका ॥ ४ ॥
यदेतत् त्रिविधमलस्वरूपम् अपूर्णम्मन्यताभिन्नवेद्यप्रथा##-
[अकारादिक्षकारान्तरूपा ।] अज्ञाता माता मातृका [अज्ञाता माता
मातृका अज्ञाते कः प्रत्ययः । इयमेव बन्धयित्री ज्ञाता चेत् सिद्ध्युपपादिका ।
] विश्वजननी तत्तत्सङ्कुचितवेद्याभासात्मनो ज्ञानस्य अपूर्णोऽस्मि
[अपूर्णोऽस्मि इत्यादिना आणवमायीयकार्ममलान्युदाह्रियन्ते ।] क्षामः
स्थूलो वास्मि अग्निष्टोमयाज्यस्मि
इत्यादितत्तदविकल्पकसविकल्पकावभासपरामर्शमयस्य
[स्थूलसूक्ष्मशब्दपरामर्शमयस्य ज्ञानस्य ।] तत्त-
प्। १७)
द्वाचकशब्दानुवेधद्वारेण [न सोऽस्ति प्रत्ययो लोके यः
शब्दानुगमादृते । इति-स्थित्या शब्दसम्भिन्नमेव ज्ञानम् ।]
शोक-स्मय-हर्ष-रागादिरूपतामादधाना
करन्ध्रचितिमध्यस्थ [के व्योम्नि चिद्गगने या चितिः तन्मध्यस्थाः
चिच्छक्तिरूपा एव । वस्तुतः ब्रह्मपाश एव दुर्ग्रन्थिरभेद्यत्वात् । ब्राह्म्याद्या
घोरतराः ।] ब्रह्मपाशावलम्बिकाः ।
पीठेश्वर्यो महाघोरा मोहयन्ति मुहुर्मुहुः ॥
इति श्रीतिमिरोद्घाटप्रोक्तनीत्या वर्ग[वर्गाः अष्टौ कला निवृत्त्यादयः ।
आदिना षडध्वानः ।]##-
श्रीसर्ववीराद्यागमप्रसिद्धलिपिक्रमसन्निवेशोत्थापिका अम्बा-ज्येष्ठा##-
मातृकाशक्तिरित्यर्थः ।] शक्तिरधिष्ठात्री तदधिष्ठानादेव हि
अन्तरऽभेदानुसन्धिवन्ध्यत्वात् [अन्तः पूर्णाहन्तायां
योऽभेदानुसन्धिश्चिदभेदपरामर्शस्तच्छून्यत्वात् ।] क्षणमपि
अलब्धविश्रान्तीनि बहिर्मुखान्येव ज्ञानानि इति युक्तैव एषां [ज्ञानानाम् ।
] बन्धकत्वोक्तिः । एतच्च
प्। १८)
शब्दराशिसमुत्थस्य … ।
इति कारिकया
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः ।
इति च कारिकया सङ्गृहीतम् ॥ ४ ॥
अथ एतद्बन्धप्रशमोपायमुपेयविश्रान्तिसतत्त्वमादिशति [सतत्त्वं
सपरमार्थम् ।] -
उद्यमो भैरवः ॥ ५ ॥
योऽयं प्रसरद्रूपाया [विश्वमयः प्रसरः विश्वोत्तीर्णश्च संविदः
इत्यनेन अनुत्तररूपस्य योऽयं विमर्श आनन्दरूपः स उन्मेषः स्वरूपविकास
इत्येवं-रूपो विमर्शः ।] विमर्शमय्याः संविदो झगिति
उच्छलनात्मकपरप्रतिभोन्मज्जनरूप [शक्तिपातवशादाकस्मिकी
स्फुरत्तात्मकस्वरूपप्रथा नवनवा ।] उद्यमः स एव
सर्वशक्तिसामरस्येन [समरसतापादनेन क्रोडीकारेणैकात्म्येन
मयूराण्डरसवत् ।] अशेषविश्वभरितत्वात्
सकलकल्पनाकुलालङ्कवलनमयत्वाच्च [संस्कारशेषस्यापि ।] भैरवो
[घृतमायुरितिवत् उद्यमस्य भैरवस्वरूपावभासहेतुत्वात् उद्यम एव
भैरव इति । भैरव इति भरणवणवमनरूपः भीरुणामभयमिति व्युत्पत्त्या
संसारिणामभयदः । भीर्भयं संसारत्रासः तया जनितो रव आक्रन्दः
भीरवः ततो जातः तदाक्रन्दवतां स्फुरितः अस्यैव भीरवस्य
संसारभयविमर्शनस्य अयं शक्तिपातवशेन उत्थापकः । भानि नक्षत्राणि
ईरयतीति भीरः कालः तं वायन्तीति भीरवाः कालग्राससमाधिरसिका
योगिनस्तेषामयमित्यान्तरः स्वभावः । भिये पशुजनत्रासाय रवः
शब्दराशिसमुत्थाकारादिकलाविमर्शो यासां खेचर्यादिसंविद्देवीनां ता
भीरवः तासामयं स्वामी भैरवः । तथा भैरवो भीषणः
संसारवृत्तविघटनपर एवमागमेषु निरुक्तत्वात् श्रीबृहस्पतिपादैः
शिवतनावन्वर्थव्याख्यातस्वरूपत्वाच्च ।]
भैरवात्मकस्वस्वरूपाभिव्यक्तिहे-
प्। १९)
तुत्वात् भक्तिभाजाम् अन्तर्मुखैतत्तत्त्वावधानधनानां जायते इत्युपदिष्टं
भवति । उक्तं च श्रीमालिनीविजये
अकिञ्चिच्चिन्तकस्यैव [यदाहुराचार्याभिनवगुप्तपादाः
अकिञ्चिच्चिन्तकस्येति विकल्पानुपयोगिता ।
तथा च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥
स कथं भवतीत्याह गुरुणातिगरीयसा ।
ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥
तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः ।
आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥
परतद्रूपता शम्भोराद्या शक्यविभागिनः ।
तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥
न विना निश्चयेन द्राङ् मातृदर्पणबिम्बितम् ।
मातारमधरीकुर्वन् स्वां विभूतिं प्रदर्शयन् ।
आस्ते हृदयनैर्मल्यातिशये तारतम्यतः ॥ इति ।] गुरुणा प्रतिबोधतः ।
जायते यः समावेशः शाम्भवोऽसावुदीरितः ॥
इति । अत्र हि गुरुणा प्रतिबोधतः इत्यत्र
प्। २०)
गुरुतः स्वस्मात् प्रतिबोधतः इत्यस्यार्थो गुरुभिरादिष्टः । श्रीस्वच्छन्देऽपि
उक्तम्
आत्मनो भैरवं रूपं भावयेद्यस्तु [भ्रमरकीटन्यायेन तन्मय एव
परिशिष्यते इति ।] पूरुषः ।
तस्य मन्त्राः प्रसिद्ध्यन्ति नित्ययुक्तस्य सुन्दरि ॥
इति । भावनं हि अत्र अन्तर्मुखोद्यन्तृतापदविमर्शनमेव
[उद्यन्तुर्भावः उद्यन्तृता तस्य पदमुद्यमकर्तृत्वम् ।] । एतच्च
एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥
इत्यनेन सङ्गृहीतम् ॥ ५ ॥
एवं झगिति परप्रतिभोन्मेषावष्टम्भोपायिकां भैरवसमापत्तिम्
अज्ञानबन्धप्रशमैकहेतुं प्रदर्श्य एतत्परामर्शप्रकर्षाद्
[परप्रतिभाभ्यासदार्ढ्यात् ।] व्युत्थानमपि प्रशान्तभेदावभासं
भवतीत्याह -
शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६ ॥
योऽयं परप्रतिभोन्मज्जनात्मोद्यन्तृतास्वभावो भैरव उक्तः अस्यैव
अन्तर्लक्ष्यबहिर्दृष्ट्यात्मतया निःशेषशक्तिचक्रक्रमाक्रमाक्रामिणी
[क्रमः सृष्टिस्थितिसंहाराणामाभासविच्छेदनस्वभावः अक्रमः
युगपत्तेषामवभासः तौ क्रमाक्रमावाक्रामतीति क्रमाक्रमाक्रामिणी ।
यदुक्तं ज्ञानगर्भे
क्रमत्रयसमाश्रयव्यतिकरेण या सन्ततं
क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः ।
क्रमैकवपुरक्रमप्रक्र्टिरेव या शोभते
करोमि हृदि तामहं भगवतीं परां संविदम् ॥
इति सृष्ट्यादिक्रमत्रयरूपतामवभासयन्त्यपि तदतिवर्तनेन परिस्फुरन्ती
क्रमाक्रमवपुः परैव अनाख्या पारमेश्वरी संवित्परामृष्टा
भवत्यत्रेत्यर्थः ।] अतिक्रा-
प्। २१)
न्तक्रमाक्रमातिरिक्तारिक्ततदुभयात्मतयापि [उभयात्मता
कृशपूर्णरूपता ।] अभिधीयमानापि अनेतद्रूपा अनुत्तरा परा
स्वातन्त्र्यशक्तिः काप्यस्ति । यया स्वभित्तौ मह्युल्लासात् प्रभृति
परप्रमातृविश्रान्त्यन्तं श्रीमत्सृष्ट्यादिशक्तिचक्रस्फारणात्मा
[सृष्ट्यादिशक्तिचक्रस्य पराशक्तिरूपत्वमेवास्तीत्यर्थः ।]
क्रीडेयमादर्शिता । तस्यैतदाभासितस्य शक्तिचक्रस्य रहस्याम्नायाम्नातनीत्या
यत्सन्धानं यथोचितक्रमविमर्शनं [प्रकाशविमर्शान्तर्गत एव
क्रमो यत्र ।] तस्मिन् सतिः कालाग्न्यादेश्चरमकलान्तस्य विश्वस्य संहारो
देहात्मतया बाह्यतया च अवस्थितस्यापि सतः परसंविदग्निसाद्भावो
भवतीत्यर्थः । उक्तं च श्रीभर्गशिखायाम्
मृत्युं च कालं च कलाकलापं
विकारजालं प्रतिपत्तिसात्म्यम् ।
प्। २२)
ऐकात्म्यनानात्म्यविकल्पजातं [भिन्नानामात्मनामैकात्म्यम् ।]
तदा स सर्वं कवलीकरोति ॥
इति । श्रीमद्वीरावलावपि
यत्र सर्वे [सर्वे तत्त्वसञ्चयाः संस्कारशेषतयापि लीयन्ते इति । चितिं
महाश्मशानम् ।] लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः ।
तां चितिं पश्य कायस्थां कालानलसमत्विषम् ॥
इति । श्रीमन्मालिनीविजयेऽपि
उच्चाररहितं वस्तु [वस्तु परावाग्रूपम् अत एवानुच्चारम् उच्चारास्पदं हि
वैखरी । विचिन्तयन्निति शक्तिचक्रवेद्यप्रकाशसमनन्तरमेव झगिति विमृशन्
तादृग्वेद्यविमर्शनमेव शाक्त उपाय इत्यर्थः ।] चेतसैव विचिन्तयन् ।
यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥
इत्युक्त्या एतदेव भङ्ग्या निरूपितम् ।
एतच्च सद्गुरुचरणोपासनया [यथोक्तं केनापि
ज्ञेयत्वमप्युपगता हृदये न रोढुं
शक्ताः प्रमूढमनसामुपदेशवाचः ।
आर्द्रत्वमादधतिं किं नलिनीदलानां
श्लिष्टा निरन्तरतयापि नभोऽम्बुधाराः ॥
इत्यतोऽयमुपायः सद्गुरूपासयैवाभिव्यक्तिमायातीत्यलमायासदायिना विस्तरेण
।] अभिव्यक्तिमायातीति नाधिकमुन्मीलितम् [शक्तिचक्रानुसन्धानं
नाधिक्येन प्रकाशितमिति भावः ।] ।
प्। २३)
एतदेव
यस्योन्मेषनिमेषाभ्यां … ।
इति
यदा त्वेकत्र संरूढः … ।
इति च प्रथमचरमश्लोकाभ्यां सङ्गृहीतम् ॥ ६ ॥
एवमुपसंहृतविश्वस्य न समाधिव्युत्थानभेदः कोऽपि इत्याह -
जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसम्भवः ॥ ७ ॥
समनन्तरनिरूपयिष्यमाणानां जाग्रत्स्वप्नसुषुप्तानां भेदे नानारूपे
पृथक्त्वावभासे उद्यमो भैरवः (१-५) इति लक्षितस्य
[लक्षणपर्यालोचितस्य ।] स्फुरत्तात्मनः सर्वदशानुस्यूतस्य तुर्यस्य
य आभोगश्चमत्कारः तस्य सम्भवो नित्यमेव तुर्यचमत्कारमयत्वं
प्रोक्तमहायोगयुक्तस्य भवतीत्यर्थः । केचित् सम्भव इत्यत्र
[तुर्याभोगसंविदिति ।] संविदिति स्पष्टार्थं पठन्ति । एतच्च
यथेन्दुः [अवीचौ वासोऽस्तु शिवपदे वा न तस्य प्रकाशानन्दविच्छेदः
तुर्याभोगमयत्वात् यथेन्दोस्तुच्छातुच्छजगदाह्लादनं सर्वत्र
समतयाह्लादनात् जगदाह्लादनं च बाह्यचन्द्रवत्
स्वरूपस्फूर्तिविभवात्मकं स्फुटमेवेतीयान् अर्थोऽत्र विवक्षितः ।]
पुष्पसङ्काशः समन्तादवभासते ।
आह्लादनसमूहेन जगदाह्लादयेत्क्षणात् ॥
प्। २४)
तद्वद्देवि महायोगी यदा पर्यटते महीम् ।
ज्ञानेन्दुकिरणैः सर्वैर्जगच्चित्रं समस्तकम् ॥
आह्लादयेत्समन्तात्तदवीच्यादिशिवान्तकम् ।
इत्यादिना श्रीचन्द्रज्ञाने जागरादौ तुर्याभोगमयत्वं महायोगिनो दर्शितम् ।
स्पन्दे तु
जागरादिविभेदेऽपि … ।
इति कारिकया सङ्गृहीतम् ॥ ७ ॥
एतज्जाग्रदादित्रयं सूत्रत्रयेण लक्षयति -
ज्ञानं जाग्रत् ॥ ८ ॥
स्वप्नो विकल्पाः ॥ ९ ॥
अविवेको मायासौषुप्तम् ॥ १० ॥
सर्वसाधारणार्थविषयं
[एकस्यैव घटस्य निर्विकल्पसविकल्पकतया प्रमितिविषयीभवनं
जाग्रत्स्वप्नौ तत्रैव स्वरूपानभिज्ञानं सौषुप्तम् । अन्यत्र तु
अक्षैर्योऽर्थग्रहः पुंसां तज्जाग्रदिति कथ्यते ।
यत्तैर्विनार्थस्मरणं मनसा स्वप्नसञ्ज्ञितम् ।
यत्रार्थस्मरणे न स्तस्तत्सौषुप्तमुदाहृतम् ॥
इति ।]
बाह्येन्द्रियजं ज्ञानं लोकस्य जाग्रत् जागरावस्था । ये तु मनोमा-
प्। २५)
त्रजन्या असाधारणार्थविषया विकल्पाः स एव स्वप्नः स्वप्नावस्था तस्य
एवं-विधविकल्पप्रधानत्वात् । यस्तु अविवेको विवेचनाभावोऽख्यातिः एतदेव
मायारूपं मोहमयं सौषुप्तम् । सौषुप्तं लक्षयता प्रसङ्गात्
उच्छेद्याया मायाया अपि स्वरूपमुक्तम् [मायास्वरूपं तु सर्वत्र
मुख्यतया मोहमयत्वेन निरूपितम् ।] ।
इत्थमपि च ईदृशेनाप्यनेन लक्षणेन तिसृष्वपि जागरादिदशासु
त्रैरूप्यमस्तीति दर्शितम् । तथा चात्र यद्यत् स्वप्नदशोचितं
प्रथममविकल्पकं ज्ञानं सा जागरा । ये तु तत्र विकल्पाः स स्वप्नः ।
तत्त्वाविवेचनं सौषुप्तम् । सौषुप्ते यद्यपि विकल्पा न सञ्चेत्यन्ते तथापि
तत्प्रविविक्षायां [तत्र सौषुप्ते प्रवेष्टुमिच्छायाम् ।]
तथोचितजाग्रज्ज्ञानमिव तदनन्तरं संस्कारकल्पविकल्परूपस्तदुचितः
स्वप्नोऽप्यस्त्येव ।
किं च योग्यभिप्रायेण प्रथमं तत्तद्धारणारूपं [धारणा
ज्ञानप्रवाहरूपाः अहं वायुरहं शून्य इत्यादिप्रत्ययरूपः प्रवाहः ।
] ज्ञानं जाग्रत् ततः तत्प्रत्ययप्रवाहरूपा विकल्पाः
प्। २६)
स्वप्नः ग्राह्यग्राहकभेदासञ्चेतनरूपश्च समाधिः सौषुप्तम् इत्यप्यनया
वचोयुक्त्या दर्शितम् । अत एव श्रीपूर्वशास्त्रे जागरादीनां
परस्परानुवेधकृतो [जाग्रति त्रैरूप्यं स्वप्ने त्रैरूप्यं सौषुप्ते
त्रैरूप्यमित्यनुवेधनम् । यथा जागरेऽपि जाग्रत्स्वप्नसुषुप्तानि एवं स्वप्नेऽपि
जाग्रत्स्वप्नसुषुप्तानि सुषुप्ते च जाग्रत्स्वप्नसुषुप्तानि किन्तु
सुषुप्तरूपमनतिक्रान्तानि तादृशानीत्यर्थः ।] योग्यभिप्रायेणापि
…ऽबुद्धं बुद्धमेव च ।
प्रबुद्धं सुप्रबुद्धं च … ॥
इत्यादिना [अबुद्धमित्यादिना जाग्रत्स्वप्नसुषुप्ततुर्याणि कथ्यन्ते ।] भेदो
निरूपितः ॥ ८ ॥ ९ ॥ १० ॥
एवं लोकयोग्यनुसारेण व्याख्याते जागरादित्रये
शक्तिचक्रसन्धानाद्विश्वसंहारेण यस्य
तुर्याभोगमयत्वमभेदव्याप्त्यात्मकं स्फुरति स तद्धाराधिरोहेण
तुर्यातीतं पूर्वोक्तं चैतन्यमाविशन् -
त्रितयभोक्ता वीरेशः ॥ ११ ॥
एतज्जागरादित्रयं शक्तिचक्रानुसन्धानयुक्त्या तुर्यानन्दाच्छुरितं यः
तत्परामर्शानुप्रवेशप्रकर्षाद्विगलितभेदसंस्कारमानन्दरसप्रवाहमय
मेव पश्यति स त्रितयस्यास्य भोक्ता चमत्कर्ता ।
प्। २७)
तत एव
त्रिषु [त्रिषु धामसु जागरादिषु ग्राह्यग्राह्कयुगलं परामृशति यः स
भोगनिरतोऽपि कर्मभिर्न लिप्यते जलस्थपद्मपत्रवदित्यर्थः ।] धामसु
यद्भोग्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥
इति नीत्या निःसपत्नस्वात्मसाम्राज्योऽयं परमानन्दपरिपूर्णो
भवभेदग्रसनप्रवणानां वीराणामिन्द्रियाणामीश्वरः स्वामी
श्रीमन्थानभैरवसत्तानुप्रविष्टो [मथ्नाति तत्तद्वेद्यं स्वात्मान्तर्लीनं
कृत्वा पिण्डीकृत्य उत्थापयतीति मन्थानाभिधानः स्वच्छन्दभैरवं
इत्यर्थः ।] महाम्नायेषूच्यते । यस्तु एवं-विधो न भवति स
जागराद्यवस्थाभिर्भुज्यमानो लौकिकः पशुरेव । योग्यपि इमां
धारामनधिरूढो न वीरेश्वरः अपि तु मूढ एवेत्युक्तं [यदाहुः
विना स्वभावानुभवेन पुंसः
कैवल्यमुत्क्रान्तिबलाद्यदि स्यात् ।
अत्रापि पक्षे ननु मोक्षभाक्स
उद्बन्धनं यत्कुरुते प्रमूढः ॥
तथा
विदेहा अपि बध्यन्ते प्रलये गुणवासिताः ।
शरीरिणोऽपि मुच्यन्ते विशुद्धज्ञानसंश्रयात् ॥
ज्ञानगर्भेऽपि
मयि स्थितमिदं जगत् सकलमेव सर्वत्र वा
स्थितोऽहमिति धारणाद्वितयभावनावेशतः ।
जगत्त्रितयनाथतानतिचिरेण सम्प्राप्यते
नृभिस्तव सपर्यया दलितकिल्विषोपप्लवैः ॥ इति] भवति ।
प्। २८)
एतच्च
योगी स्वच्छन्दयोगेन स्वच्छन्दगतिचारिणा
[परतत्त्ववृत्त्यवस्थित्यात्मना स्वात्मप्रतिष्ठया स्वच्छन्दगत्या
चरत्यवश्यं योऽयं परतत्त्वैक्यप्रतीतिमयत्वात् स्वच्छन्दशब्दवाच्यो
महायोगः तेन श्रीस्वच्छन्दभैरवस्य पदे धाम्नि युक्तोऽभिनिविष्टः स्यात् स
तत्साम्यमेति ।] ।
स स्वच्छन्दपदे युक्तः स्वच्छन्दसमतां व्रजेत् ॥
इत्यादिना श्रीस्वच्छन्दादिशास्त्रेषु वितत्य दर्शितम् । स्पन्देऽपि
तस्योपलब्धिः [तस्य तत्त्वस्य उपलब्धिः ज्ञानम् सततं सर्वावस्थासु
यदुक्तं ज्ञानगर्भे
बहिष्करणबुद्ध्यहङ्कृतिमनःसुषुम्नाश्रयाच्-
चतुर्दशसु चण्डिके पथिषु येन येन व्रजेत् ।
कला शिवनिकेतनं जननि तत्र सा तादृशी
दशोदयति दुर्लभा जगति या सुरैरप्यहो ॥
इति । शिवनिकेतनं शिवस्य वेद्यस्य निकेतनमाश्रयः ।] सततं
त्रिपदाव्यभिचारिणी [त्रिषु पदेषु जागरादिषु भोक्तृरूपेण न व्यभिचरतीति
तुर्ये तु निर्भ्रान्तैव । उक्तं च
काप्यवस्था न ते सास्ति यस्यां संविन्न वर्तते ।
तेन चिद्धनमेव त्वां योगिनः पर्युपासते ॥ इति ।] ।
इति कारिकया सङ्गृहीतमेतत् ॥ ११ ॥
प्। २९)
किमस्य महायोगिनः काश्चित् तत्त्वाधिरोहप्रत्यासन्ना [अधिरोहणस्य
भूमिकाः स्थानानि याभिः षट्त्रिंशत्तत्त्वोपरिष्ठं स्थानं लक्ष्यते इति
वाक्यार्थः ।] भूमिकाः सन्ति ? याह्बिस्तत्त्वोर्ध्ववर्तिनी भूमिर्लक्ष्यते ।
सन्ति इत्याह -
विस्मयो योगभूमिकाः ॥ १२ ॥
यथा सातिशयवस्तुदर्शने कस्यचित् विस्मयो भवति तथा अस्य महायोगिनो नित्यं
तत्तद्वेद्यावभासामर्शाभोगेषु [एतद्रूपचर्वणेषु
सामान्याहन्ताविश्रमणेषु ।]
निःसामान्यातिशयनवनवचमत्कारचिद्धनस्वात्मावेशवशात्
स्मेरस्मेरस्तिमितविकसितसमस्तकरणचक्रस्य [स्मेरस्मेरेति
साश्चर्यनिःस्पन्दम् ।] यो विस्मयोऽनवच्छिन्नानन्दे स्वात्मनि
अपरितृप्तत्वेन मुहुर्मुहुराश्चर्यायमाणता ता एव योगस्य परतत्त्वैक्यस्य
सम्बन्धिन्यो भूमिकाः तदध्यारोहविश्रान्तिसूचिकाः परिमिता भूमयो न तु
कन्दबिन्द्वाद्यनुभववृत्तयः [कन्दः मूलाधारः
बिन्दुर्भ्रूमध्यस्थानम् ।] । तदुक्तं श्रीकुलयुक्तौ
प्। ३०)
आत्मा चैवत्मना ज्ञातो यदा भवति साधकैः ।
तदा विस्मयमात्मा वै आत्मन्येव प्रपश्यति ॥
इति । एतच्च
तमधिष्ठातृभावेन स्वभावमवलोकयन् ।
स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥
इति कारिकया सङ्गृहीतम् ॥ १२ ॥
ईदृग्योगभूमिकासमापन्नस्यास्य योगिनः [ईदृशीं भूमिकां
प्राप्तस्य योगिनः ]]-
इच्छा शक्तिरुमा कुमारी ॥ १३ ॥
योगिनः परभैरवतां समापन्नस्य या इच्छा सा शक्तिरुमा परैव
पारमेश्वरी स्वातन्त्र्यरूपा सा च कुमारी विश्वसर्गसंहारक्रीडापरा कुमार
क्रीडायाम् इति पाठात् ।
अथ च कुं भेदोत्थापिकां मायाभूमिं मारयति अनुद्भिन्नप्रसरां करोति
तच्छीला । कुमारी च परानुपभोग्या भोक्त्रिकात्म्येन [भर्तारं कदा
प्राप्स्ये इत्यभिप्रायेण ।] स्फुरन्ती ।
अथवा यथा उमा [गिरितनया पार्वती ।] कुमारी परिहृतसर्वासङ्गा
महेश्वरैकात्म्यसाधनाराधनाय नित्योद्युक्ता
प्। ३१)
तथैव अस्येच्छा इत्यस्मद्गुरुभिरित्थमेव पाठो दृष्टो व्याख्यातश्च ।
अन्यैस्तु शक्तितमा [इच्छा शक्तितमा कुमारी इति ।] इति पठित्वा
ज्ञानक्रियापेक्षोऽस्याः [इच्छाशक्तेः ।] प्रकर्षो व्याख्यातः ।
एवं न लौकिकवत् अस्य योगिनः स्थूलेच्छा अपि तु परा शक्तिरूपैव
सर्वत्राप्रतिहता । तदुक्तं श्रीमत्स्वच्छन्दे
सा [योगात्परतत्त्वैक्यादुत्थिता या माया स्वरूपगोपना तया प्रतिच्छन्ना
स्थगितपरस्वरूपा सर्वदेवीनां सम्बन्धिनामरूपप्रपञ्चेन स्थितेत्यर्थः ।
किं चैषा ब्रह्माण्डमवतीर्णा सती भगवच्छक्तिः
परेषामनुपभोग्यत्वात्कुमारीत्वमाश्रित्य स्थिता तादृशी चासौ
लोकान्भावयति अभीष्टफलेन सफलान्सम्पादयति इति ।] देवी सर्वदेवीनां
नामरूपैश्च तिष्ठति ।
योगमायाप्रतिच्छन्ना कुमारी लोकभाविनी ॥
इति । श्रीमृत्युञ्जयभट्टारकेऽपि
सा ममेच्छा परा शक्तिरवियुक्ता [यदेवं भूतं वीर्यं पूर्वोक्तं सा
मम सम्बन्धिनी परा शक्तिरिच्छा इच्छारूपतां प्राप्ता कीदृशी स्वभावजा
सहजा शक्तियुक्ता गर्भीकृताशेषविश्वशक्त्यभेदविमर्शेति यावत्
स्वभावजेति स्फुटयति वह्नेरिति शक्तियुक्तेति च व्यनक्ति सर्वस्येत्यनेन
कारणात्मिका निर्मात्री स्वा आत्मीया चिदानन्दस्वरूपसम्बन्धिनी शक्तिः न तु
व्यतिरिक्ता इति क्षेमराजपादाः शक्तियुक्ता स्वा शक्तिः इति पाठान्तराण्यनूद्य
व्याचक्षते ।] स्वभावजा ।
प्। ३२)
वह्नेरूष्मेव विज्ञेया रश्मिरूपा रवेरिव ॥
सर्वस्य जगतो वापि सा शक्तिः कारणात्मिका ।
इति । तदेतत्
नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते ।
अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥
इति कारिकया भङ्ग्या प्रतिपादितम् ॥ १३ ॥
ईदृशस्य महेच्छस्य [महेच्छस्य योगिनः ।] -
दृश्यं शरीरम् [शरीरं स्वाङ्गकल्पमित्यर्थः ।] ॥ १४ ॥
यद्यद् दृश्यं बाह्यमाभ्यन्तरं वा तत्तत् सर्वम् अहमिदम् इति##-
स्वाङ्गकल्पं विश्वं स्वशक्तिप्रचयोऽस्य विश्वम् (३-३०) इति
वक्ष्यमाणनीत्या स्वस्वभावाव्यतिरिक्तमेव परामृशतः ।] स्फुरति न
भेदेन ।
शरीरं च देहधीप्राणशून्यरूपं नीलादिवद् दृश्यं न तु
पशुवद्द्रष्टृतया [शरीरे अहं-भावः द्रष्टृता ।] भाति ।
एवं देहे बाह्ये च सर्वत्रास्य मयूराण्डरसवदविभक्तैव प्रतिपत्तिर्भवति
[प्रतिपत्तिर्ज्ञानम् ।] । यथोक्तं श्रीविज्ञानभैरवे
प्। ३३)
जलस्येवोर्मयो वह्नेर्ज्वालाभङ्ग्यः [समुद्रकल्पस्य चिदात्मन ईश्वरस्य
विश्वं तरङ्गकल्पम् अभिन्नं भिन्नमिवाभासमानं
तत्रैवोदयव्ययावाप्नोति इति ध्यायेदिति शेषः ।] प्रभा रवेः ।
ममैव भैरवस्यैता विश्वभङ्ग्यो विनिर्गताः ॥
इति । एतच्च
भक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः [भोग्यं हि नाम
प्रमेयमुच्यते न च प्रमेयं तदुपसर्जनवृत्तित्वात् प्रमाणदतिरिच्यते । तच्च
एवं-विधं भोग्यं भोक्तुरतिरिक्तं न भवेत् वस्तुतः सर्ववस्तूनां
प्रमातर्येव विश्रान्तेः अतश्च भोक्तैव तदुभयात्मना रूपेण प्रस्फुरति इति
भावः ।] ।
इत्यनेन सङ्गृहीतम् ॥ १४ ॥
यच्चेदं सर्वस्य दृश्यस्य शरीरतया शून्यान्तस्य च दृश्यतया एकरूपं
प्रकाशनमुक्तं नैतत् दुर्घटम् अपि तु-
हृदये चित्तसङ्घट्टाद्दृश्यस्वापदर्शनम् ॥ १५ ॥
विश्वप्रतिष्ठास्थानत्वात् चित्प्रकाशो हृदयं तत्र चित्तसङ्घट्टात्
[समन्तात् घटनात् चलतः चित्तस्यैकाग्रभावनादित्यन्वयः । चितिरेव
सङ्कोचवती चित्तशब्देनोच्यते तस्य चित्प्रकाशे समन्ताद्विषयजातं परिहृत्य
समवधानता इति वाक्यार्थः ।] चलतश्चलतः तदेकाग्रभावनात्
दृश्यस्य नीलदेहप्राणबुद्ध्यात्मनः स्वापस्य
प्। ३४)
च एतदभावरूपस्य [नीलाद्यभावरूपस्य ।] शून्यस्य दर्शनं
त्यक्तग्राह्यग्राहकविभेदेन यथावस्तु स्वाङ्गकल्पतया प्रकाशनं भवति ।
चित्प्रकाशतामभिनिविशमानं हि चित्तं तदाच्छुरितमेव विश्वं पश्यति ।
तदुक्तं श्रीविज्ञानभैरवे
हृद्याकाशे [चित्तत्त्वे वेद्ये धृतधीन्द्रियः
प्रमाणप्रमेययोर्मध्यगः सौभाग्यं स्वातन्त्र्यमुपैतीत्यर्थः । अथ वा
ऊर्ध्वाधरपद्मसम्पुटमध्यं गतो भावनयानुप्रविष्टः अत एव
हृदयाकाशे निलीनमक्षं मनः तद्द्वारेण च अन्येन्द्रियचक्रं यस्य सः ।
] निलीनाक्षः पद्मसम्पुटमध्यगः ।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात् ॥
इति । परं हि अत्र सौभाग्यं विश्वेश्वरतापत्तिः । तत्त्ववृत्तिसमापन्नं
महायोगिनमुद्दिश्य श्रीमत्स्वच्छन्देऽपि
स च [स चेति स एव प्राप्तपरसामरस्य एव स्थावरमचेतनं जङ्गमं
सचेतनं च इति सङ्क्षेपेण द्विधा स्थितं षड्विधमध्वानं व्याप्य षोढा हि
वाच्यवाचकरूपोऽध्वा तदन्तर्वर्तिषु सर्वेषु देवयोन्यादिषु चतुर्दशसु भूतेषु
भावेषु धर्मादिषु घटादिषु च तत्त्वेषु पृथिव्यादिषु भोगसाधनेषु च
करणेषु सामरस्येन स्थितः सर्वास्ववस्थासु अविलुप्तपरभैरवसमापत्तिः ।
एषैव च निर्व्युत्थानसमाध्यात्मा महारहस्यभूरिति ।] सर्वेषु भूतेषु
भावतत्त्वेन्द्रियेषु च ।
स्थावरं जङ्गमं चैव चेतनाचेतनं स्थितम् ॥
अध्वानं व्याप्य सर्वं तु सामरस्येन संस्थितः ।
प्। ३५)
इति [अत्र दृष्टप्रत्ययो यथा
जनः स्वदेहकण्डूतिं विजानाति यथा तथा ।
परब्रह्मस्वरूपी च वेत्ति विश्वविचेष्टितम् ॥ इति ।] । स्पन्दे तु
तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥
इत्यनेनैव एतत्सङ्गृहीतम् ॥ १५ ॥
अत्रैव उपायान्तरमाह -
शुद्धतत्त्वसन्धानाद्वाऽपशुशक्तिः ॥ १६ ॥
शुद्धं [शुद्धमिति मायोपरि महामाया इति रहस्याम्नायदृशा
सर्वत्र मायाशक्तिः कृतव्याप्तिः इत्यतः शुद्धं तत्त्वं
परमशिवाख्यमेव । तत्र तत्त्वनिर्देश उपदेश्यजनापेक्षया ।] तत्त्वं
परमशिवाख्यं तत्र यदा विश्वमनुसन्धत्ते [शिवमयमेवैतद्विश्वम्
इति विमृशति ।] तन्मयमेव एतत् इति तदा अविद्यमाना पश्वाख्या
बन्धशक्तिर्यस्य तादृगयं सदाशिववत् विश्वस्य जगतः पतिर्भवति ।
तदुक्तं श्रीमल्लक्ष्मीकौलार्णवे
दीक्षासिद्धौ तु ये प्रोक्ताः प्रत्ययाः स्तोभपूर्वकाः [प्रत्ययाः
देशादिव्यवहितविप्रकृष्टवस्तुज्ञानानि स्तोभः चित्तत्त्वावरणम् ।
सन्धानस्य शुद्धतत्त्वविमर्शस्य षोडशांशमपि ऐश्वर्यप्रकटनं
नार्हति यतस्तस्य भूमिकाविघ्नसमाक्रान्तत्वम् ।] ।
सन्धानस्यैव ते देवि कलां नार्हन्ति षोडशीम् ॥
प्। ३६)
इति । श्रीविज्ञानभैरवे तु
सर्वं [आपादात्केशान्तं सर्वं देहं प्रत्यंशं चिदेकरूपम् युगपत्
अक्रमेण जगद्वा स्फुरच्चिच्चमत्कारव्याप्त्या अन्तर्बहिः प्रकाशमानं न
पृथक् प्रकाशात् अन्यथा चेत्यमानत्वानुपपत्तेः इति न्यायात् प्रकाशः
प्रकाशते इति भावयेत् ।] देहं चिन्मयं हि जगद्वा परिभावयेत् ।
युगपन्निर्विकल्पेन मनसा परमोद्भवः ॥
इति । तदेतत्
इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् ।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः ॥
इति कारिकया सङ्गृहीतम् ॥ १६ ॥
ईदृग्ज्ञानरूपस्य अस्य योगिनः -
वितर्क आत्मज्ञानम् ॥ १७ ॥
विश्वात्मा शिव एवास्मि इति यो वितर्को विचारः एतदेव अस्य आत्मज्ञानम् । तदुक्तं
श्रीविज्ञानभैरवे
सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः ।
स एवाहं शैवधर्मा इति दार्ढ्याच्छिवो भवेत् [शिवस्यायं शैवो
धर्मः स्वच्छस्वातन्त्र्यादिः स एवाहमहमेव स इत्यसन्दिग्धत्वेन
भावनाच्छिवता इयं शाक्ती भूः ।] ॥
इति । स्पन्देऽपि
… अयमेवात्मनो ग्रहः ।
प्। ३७)
इत्यनेन एतदुक्तम् । तत्र हि आत्मनो ग्रहणं ग्रहो ज्ञानम् एतदेव
यद्विश्वात्मकशिवाभिन्नत्वम् एषोऽपि अर्थो विवक्षितः ॥ १७ ॥
किं च अस्य -
लोकानन्दः समाधिसुखम् ॥ १८ ॥
लोक्यते इति लोको वस्तुग्रामः लोकयति इति च लोको ग्राहकवर्गः तस्मिन्स्फुरति
[ग्राह्यग्राहकवर्गे सामान्यलोकपरिकल्पिते स्फुरत्यपि योगिनः अहमिदम् इति
विकल्पाभावात् य आनदः तदेव समाधिसुखम् ।
अविकारोभयपार्श्वे चाषपिच्छसदृशेऽर्थे ।
अन्तर्मुखो योगी बहिर्मुख इति कलना कुतः ॥
अहन्तेदन्तात्मभागयोर्विकाररहिते स्वात्मरूपे अर्थे इत्यर्थः ।] सति
ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं सम्बन्धे [सर्वदेहिनां सकलप्रमातृणां
वेद्यवेदकसंवेदनं निर्विशेषम् । योगिनां तु तत्र
आद्यन्तमध्यदशावगाहिप्रमातृस्वरूपाविस्मरणरूपा समाधानतेति ।
] सावधानता ॥
इति श्रीविज्ञानभट्टारकनिरूपितनीत्या
प्रमातृपदविश्रान्त्यवधानान्तश्चमत्कारमयो य आनन्द एतदेव अस्य
समाधिसुखम् । तदुक्तं तत्रैव
सर्वं [स्वानन्दभरितं त्यक्तविषयात्मानन्दं स्वामृतेन स्वानन्देन
भरितं स्वकीयचिदानन्दपूर्णं सर्वं चिन्तयेत् । अत्र आश्यानचिद्रसरूपस्य
जगतोऽपि भासनमन्यधारणातो विशेषाधायकमिति ।] जगत्स्वदेहं वा
स्वानन्दभरितं स्मरेत् ।
युगप्त्स्वामृतेनैव परानन्दमयो भवेत् ॥
प्। ३८)
इति । एतच्च
इयमेवामृतप्राप्तिः … ।
इत्यनेन सङ्गृहीतम् ।
अथ च यत् अस्य स्वात्मारामस्य समाधिसुखं तदेव [योगिसम्बन्धि
स्वानन्दमयं समाधिसुखं स्वानुभवगोचरम् ।] तत्तादृशम्
अवलोकयतां लोकानाम् आनन्दसङ्क्रमणयुक्त्या स्वानन्दाभिव्यक्तिपर्यवसायि
[तल्लोकान् पर्यवसाययति पर्यवस्यतः प्रयोजयति । तेषां
स्वानन्दाभिव्यक्तौ विश्रान्तिप्रदमित्यर्थः ।] भवति । एतदपि
श्रीचन्द्रज्ञानग्रन्थेन प्रागुक्तेन (२३ पृ० सू० ७) सुसंवादम् ॥ १८ ॥
अथ ईदृशस्य अस्य योगिनो विभूतियोगं [अणिमाद्यैश्वर्येण
यथेष्टनिर्माणवैचित्र्यसम्पादनसामर्थ्यम् ।] दर्शयति -
शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९ ॥
इच्छा शक्तिरुमा कुमारी (१-१३) इति सूत्रेण या अस्य शक्तिरुक्ता
तामेव यदा अनुसन्धत्ते दार्ढ्येन [रुद्रशक्तिपर्याय##-
] तन्मयीभवति तदा तद्वशेन
प्। ३९)
अस्य यथाभिमतं शरीरमुत्पद्यते । तदुक्तं श्रीमृत्युञ्जयभट्टारके
ततः प्रवर्तते शक्तिर्लक्ष्यहीना [लक्ष्यहीना वेद्यरहिता परस्फुरत्तात्मा
निष्क्रान्त आमयो महामाया यस्याः तादृशी महामायाद्युल्लासिका
पराशक्तिः । तत एव द्वादशान्तधाम्नः प्रवर्तते समुन्मिषति इच्छा##-
इच्छा सा तु विनिर्दिष्टा ज्ञानरूपा क्रियात्मिका ॥
इत्युपक्रम्य
सा योनिः सर्वदेवानां शक्तीनां चाप्यनेकधा ।
अग्नीषोमात्मिका योनिस्तस्यां सर्वं [प्राप्तपरतत्त्वाभेदस्य योगिनो या
उन्मिषन्ती पराशक्तिरुक्ता सा यतः
सर्वदेवानामनाश्रितसदाशिवेश्वरानन्तरुद्रादीनां शक्तीनां
वामाज्येष्ठादीनां ब्राह्म्यादीनां च अग्नीषोमात्मिका योनिः तत एव
सोमप्रधाना यतस्तस्याः सर्वं प्रवर्तते अत एव अग्नीषोमात्मप्रकृति विश्वम्
अग्नीषोममयमिव । तथा च अग्निरपि आह्लादयति हिममपि च दहतीति तत्त्वविद
आहुः इति सृष्टिस्थितिसंहर्तृत्वं शक्तेः प्रदर्शितम् ।] प्रवर्तते ॥
इति । शक्तिसन्धानमाहात्म्यं लक्ष्मीकौलार्णवे
न [यदि मन्त्रादिनापि यथाभिमतशरीरोत्पत्तिर्दृश्यते तथापि न
स्वाभाविकी व्यभिचारात् कृत्रिमत्वात् । अतः सन्धानमेव शरीरान्तरोत्पत्तौ
कारणमित्यर्थः ।] सन्धानं विना दीक्षा न सिद्धीनां च साधनम् ।
न मन्त्रो मन्त्रयुक्तिश्च न योगाकर्षणं तथा ॥
इत्यादिना प्रतिपादितम् । एतच्च
प्। ४०)
यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान्हृदि स्थितान् ।
सोमसूर्योदयं कृत्वा सम्पादयति देहिनः [देहाभिमानवतः ।] ॥
इत्यनेन सङ्गृहीतम् । देहिनः अत्यक्तदेहवासनस्य योगिनो हृदि स्थितान् अर्थान्
तत्तदपूर्वनिर्माणादिरूपान् धाता महेश्वरः प्रकाशानन्दात्मतया
सोमसूर्यरूपवाहोन्मीलनेन [प्राणापानविकासनेन ।]
सोमसूर्यसामरस्यात्मनश्च शक्तेरुदयं [समानशक्तेः
प्राणनरूपिण्या देहव्यापिन्याः ।] कृत्वा बहिर्मुखवाहित्वेन तामासाद्य
सम्पादयति इति हि अस्यार्थः
तथा स्वप्नेऽप्यभीष्टार्थान्… ।
इत्येतच्छ्लोकप्रतिपादितस्वप्नस्वातन्त्र्यं प्रति दृष्टान्ते योजितः इति
स्पन्दनिर्णये मयैव दर्शितम् ॥ १९ ॥
अन्या अपि अस्य यथाभिलषिताः सिद्धय एतन्माहात्म्येनैव घटन्ते इत्याह -
भूतसन्धानभूतपृथक्त्वविश्वसङ्घट्टाः ॥ २० ॥
भूतानि शरीरप्राणभावाद्यात्मकानि तेषां
प्। ४१)
क्वचित् आप्यायनादौ सन्धानं परिपोषणं व्याध्याद्युपशमादौ
पृथक्त्वं शरीरादेर्विश्लेषणं [भूतानांव्याध्यादेः सकाशात् ।]
देशकालादिविप्रकृष्टस्य [नित्य-विभु-स्वतन्त्र##-
तदावेशसद्भावात् न तद्व्यवहितं किञ्चित् इति भावः ।] च विश्वस्य
सङ्घट्टो ज्ञानविषयीकार्यत्वादिकः अस्य पूर्वोक्तशक्तिसन्धाने सति जायते ।
एतच्च सर्वागमेषु साधनाधिकारेषु अस्ति । तदेव स्पन्दे
दुर्बलोऽपि [दुर्बलः क्षीणधातुः तत् स्पन्दतत्त्वम् बुभुक्षानिवृत्तिरपि
सिद्धिषु गणितेति भावः ।] तदाक्रम्य यतः कार्ये प्रवर्तते ।
आच्छादयेद्बुभुक्षां च तथा योऽतिबुभुक्षितः ॥
इति ।
ग्लानिर्विलुण्ठिका देहे तस्याश्चाज्ञानतः सृतिः ।
तदुन्मेषविलुप्तं [तत् अज्ञानम् सा ग्लानिः तस्या हि हेतुरज्ञानम् । अतश्च
योगिनां वलीपलिताद्यभावः शरीरदार्ढ्यं चास्ति । ग्लानिर्विलुम्पिका देहे इति
मूलपाठः ।] चेत्कुतः सा स्यादहेतुका ॥
इति ।
यथा ह्यर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि ।
भूयः स्फुटतरो भाति स्वबलोद्योगभावितः [स्वबलोद्योगः
संविद्बलप्रयत्नः ।] ॥
प्। ४२)
तथा [तथेति तेन संविद्बलप्रयत्नेन यद्वस्तु प्रातिस्विकरूपेण
देशकालविशिष्टेन संस्थितं तद्वस्तु संविद्बलमाश्रितवतो जनस्य आशु
प्रतिभातीति । अतोऽत्र देशकालव्यवहितवस्तुनो ज्ञानविषयीभवनं नो
दुर्घटमिति भावः ।] यत्परमार्थेन येन यत्र यथा स्थितम् ।
तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते ॥
इत्यादिना विभूतिस्पन्दे सोपपत्तिकं दर्शितम् ॥ २० ॥
यदा तु मितसिद्धिरनभिलष्यन् विश्वात्मप्रथामिच्छति तदा अस्य -
शुद्धविद्योदयाच्चक्रेशत्वसिद्धिः ॥ २१ ॥
वैश्वात्म्यप्रथावाञ्छया यदा शक्तिं सन्धत्ते तदा अहमेव सर्वम् इति
शुद्धविद्याया उदयात् विश्वात्मकस्वशक्तिचक्रेशत्वरूपं माहेश्वर्यमस्य
सिद्ध्यति । तदुक्तं स्वच्छन्दे
तस्मात्सा [मायान्तावधिकात्मतत्त्वोर्ध्वस्थ##-
परा विद्या यस्मादन्या [अन्येत्यपरा ईदृशी इत्यर्थात्
एतयैवाशेषविश्वक्रोडीकारात् ।] न विद्यते ।
विन्दते ह्यत्र युगप्त्सार्वज्ञ्यादिगुणान्परान् [परानिति अभेदरूपान्
सार्वज्ञ्यादीन् यतो युगप्त् अत्र उन्मनायां योगिवरो लभते तत इयं परा विद्या
विदॢ लाभे इति धात्वर्थानुगमात् । यदाहुः
सर्वज्ञता तृप्तिरनादिबोधः
स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः
षडाहुरङ्गानि महेश्वरस्य ॥ इति ।] ॥
प्। ४३)
वेदनानादिधर्मस्य [अनादिधर्मः स्वातन्त्र्यशक्त्यात्मा स्वभावः तस्य
वेदना विचारणा आत्मनश्च यत्परमात्मत्वं शिवरूपत्वमस्ति तस्य बोधना
अवगमहेतुः अत एव अपरमात्मत्वे अतद्विषये इयं वर्जना सम्पद्यते तस्मात्
विद विचारणे विद ज्ञाने इति धात्वर्थानुगमात् इयं विद्योच्यते इति
क्षेमराजपादाः ।] परमात्मत्वबोधना ।
वर्जनापरमात्मत्वे तस्माद्विद्येति सोच्यते ॥
तत्रस्थो [तत्रेति उन्मनाख्यायां विद्यायां व्यञ्जयेत् आत्मीयमेवोन्मीलयेत्
प्रत्यभिजानीयात् तेजः चिज्ज्योतिः परम् असङ्कुचितं परमकारणं
परमशिवरूपम् अतश्च शिवतां व्रजेत् तदैकात्म्यमियात् इति
श्रीक्षेमराजपादाः ।] व्यञ्जयेत्तेजः परं परमकारणम् ।
परस्मिंस्तेजसि व्यक्ते तत्रस्थः शिवतां व्रजेत् ॥
इति । तदेतत्
दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥
इत्यनेनैव सङ्गृहीतम् ॥ २१ ॥
यदा तु स्वात्मारामतामेव [स्वात्मनि आ समन्तात् रमते इति स्वात्मारामः ।
] इच्छति तदा अस्य -
प्। ४४)
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२ ॥
परा भट्टारिका संवित् इच्छाशक्तिप्रमुखं स्थूलमेयपर्यन्तं विश्वं
वमन्ती खेचरीचक्राद्यशेषवाहप्रवर्तकत्व-स्वच्छत्वानावृतत्व##-
[खेचरीगोचर्याद्यशेषप्रवाहप्रवर्तकत्वात् विश्वप्रतिबिम्बसहत्वेन
स्वच्छत्वात् प्रतिबिम्बसहत्वेपि विश्वानावृतत्वात् दुर्लक्षतया गभीरत्वात्
संविदो महाह्रदसाधर्म्यमुद्दिश्यते ।] तस्यानुसन्धानात्
अन्तर्मुखतया अनारतं तत्तादात्म्यविमर्शनात् वक्ष्यमाणस्य
शब्दराशिस्फारात्मकपराहन्ताविमर्शमयस्य [शब्दानां
पदवाक्याद्यात्मना विभक्तानां स्थूलानामविभागस्वभावः कारणात्मा यो
राशिः तस्य स्फारः नाम स्फुरणकर्तृता तत्तदामर्शात्मना स्वभित्तौ
विश्वरूपतावबिभासयिषा इति ।] मन्त्रवीर्यस्यानुभवः [मन्त्राणां
वीर्यभूतस्य महामन्त्रस्य पूर्णाहन्तायाः ।] स्वात्मरूपतया स्फुरणं
भवति । अत एव श्रीमालिनीविजये
या सा शक्तिर्जगद्धातुः … ।
इत्युपक्रम्य इच्छादिप्रमुखपञ्चाशद्भेदरूपतया
[आदिक्षान्तपञ्चाशद्वर्णरूपेण ।]
प्। ४५)
मातृका-मालिनीरूपताम् [परप्रमात्रवियुक्तत्वात् तदनतिरिक्ता
अक्षुब्धैव पराशक्तिः पशुभिः सर्वमन्त्रविद्यानां योनित्वेन अज्ञाता
मातृका इत्युक्ता । क्षुब्धा तु बीजयोनिषु परस्परसङ्घट्टात्मलोलीभावात्
नादि-फान्तरूपा मालिनी इति-सञ्ज्ञा मलते विश्वमन्तर्दर्पणवत् धत्ते
इति विश्वस्वरूपिणी इत्यर्थः ।] अशेषविश्वमयीं शक्तेः प्रदर्श्य तत एव
मन्त्रोद्धारो दर्शितः इति परैव शक्तिर्महाह्रदः ततः तदनुसन्धानात्
[अनुसन्धानं विमर्शनम् ।] मातृका##-
तदाक्रम्य बलं मन्त्राः … ।
इत्याद्युक्त्या भङ्ग्या प्रतिपादितम् ।
तदेवं चैतन्यमात्मा (१-१) इत्युपक्रम्य
तत्स्वातन्त्र्यावभासिततदख्यातिमयं [चैतन्याख्यातिमयम्
आणवमलस्वरूपमित्यर्थः ।] सर्वमेव बन्धं
यथोक्तोद्यमात्मकभैरवसमापत्तिः प्रशमयन्ती विश्वं
स्वानन्दामृतमयं करोति सर्वाश्च सिद्धिः मन्त्रवीर्यानुप्रवेशान्ता ददाति ।
इति शाम्भवोपायप्रथनात्मा [शम्भौ प्रकाशरूपे भवः शाम्भवः
तत आगत इति वा ।] अयं प्रथम उन्मेष उक्तः । अत्र तु मध्ये
शक्तिस्वरूपमुक्तं तत् शाम्भवरूपस्य
प्। ४६)
शक्तिमत्ताप्रदर्शनाभिप्रायेण [शक्तिमत्ता स्वातन्त्र्यसारता ।] इति
शिव ॥ २२ ॥
इति श्रीमन्महामाहेश्वराचार्याभिनवगुप्तपादपद्मोपजीवि##-
नाम प्रथम उन्मेषः ॥ १ ॥