०१। मन्त्रवादः
अथातो मन्त्रवादश्च सङ्ग्रहेण निगद्यते ।
मन्त्रोपासनया मुक्तिः सह प्रागुक्तवर्त्मना ॥ १
नमः स्वाहा स्वधा वौषट् बषङ्ढुंफडिव्भेदतः ।
सप्तकोटिमहामन्त्राः सर्वकृत्यविधायिनः ॥ २
साक्षाच्छक्तिस्वरूपास्ते नत्वन्येच तथा वचः ।
मननं सर्ववेदित्वं त्राणं संसार्यनुग्रहः ॥ ३
मननत्राणसंयोगात् मन्त्र इत्यभिधीयते । ४
इत्यतोऽपि स्फुटं तस्मात् मन्त्रज्ञानपुरः सरम् ।
मन्त्रोपासनया मुक्तिर्मन्त्रवादे निरूपिता ॥ ५
०२। यन्त्रवादः
अथातो यन्त्रवादे तु वामतन्त्रोक्तवर्त्मना ।
तद्यन्त्रसेवया सर्वं सिध्यतीति विनिश्चयः ॥ ६
सर्वत्रापि विना यन्त्रं मन्त्रभेदेन किं फलम् ।
तन्त्रभेदेन वा तस्मात्सर्वं यन्त्रेण सिद्धयति ॥ ७
अणिमा महिमा चैव गरिमा लघिमा तथा ।
ईशत्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च ॥ ८
ततोऽन्ये सिद्धिभेदाश्च कथ्यन्ते कर्षणं पुनः ।
मोहनं च तथा चोच्चाटन स्तम्भनमेव च ॥ ९
मारणं च तथा विद्वेषणं भेदनमित्यपि ।
लोकान्तरेषु भोगश्च मुक्तिश्चेति विनिश्चयात् ॥ १०
साक्षाच्छक्तिस्वरूपं तद्यन्त्रमेवात्र सेव्यते ।
तदङ्गत्वेन मन्त्रादि सेवातुल्यं च सम्मतम् ॥ ११
०३। औषधवादः
अथात्रौषधवादे तु सर्वमौषधसेवया ।
साध्यमेवेति सिद्धान्तः तद्धिशक्तयात्मकं मतम् ॥ १२
ततस्तत्तन्त्रसंसिद्धकायकल्पादिसेवया ।
मण्डलाद्युक्तकालेन जननादिश्च नश्यति ॥ १३
देहकान्तिर्महत्वं च देहस्य नियतं भवेत् ।
आकाशगमनादिश्च सिद्धिर्मुक्तिश्च सिद्धयति ॥ १४
किं फलं मन्त्रयन्त्रादि सेवयेति विनिश्चितः । १५
०४। कर्मसिद्धान्तः
अथातः कर्मसिद्धान्ते सर्व कर्मवशादिति ।
औषधेन तथा यन्त्रमन्त्रजातैश्च किं फलम् ॥ १६
जातं क्षयं सुखं क्लेशं वार्धकं मरण तथा ।
एवमुक्तं तु षट्कं च गतसंकल्पनिश्चयम् ॥ १७
जन्मारोग्यं श्रुतं श्रीजनितमथ यशो बन्धुदाराश्च पुत्राः
भृत्याः क्षेत्रं गृहाः स्युर्वितरणमपि गीर्देहकान्तिर्महत्वम् ।
प्रीतिर्मित्रं सखायः शुभमपि च विपत्कालमृत्युर्नराणां
पूर्वाभ्यासानुरूपं विधिविहितवशादेति कालं प्रपद्ये ॥ १८
इत्यतो हि नवीनैः किं स्वप्रयत्नैस्तथाविधैः ।
अत एव तथा लोके शास्त्रेष्वपि च विश्रुतम् ॥ १९
भवितव्यं भवत्येव नालिकेरफलाम्बुवत् ।
गन्तव्यं गच्छति सदा गजभुक्तकपित्थवत् ॥ २०
कुब्ज च काणं विकलं च पड्गुं मूकं च मूर्खं मतिविभ्रमं वा ।
देवानुकूलेन वृणोति सम्पन्न पौरुष कुत्रचिदस्ति कान्ते ॥ २१
इदं मया प्राप्तमिदं प्रपत्स्ये इदं करोमीति वृथा जनोऽयम् ।
वदन्त्यहोऽज्ञानवशोऽनवद्ये न पौरुषं कुत्रचिदस्ति कृत्ये । २२
सपुत्रदारः सपशुर्धनाढयः सामर्थ्यतोऽस्मीत्यवपद्यते यः ।
स विप्रकर्ष किमुपैति शोकं द्विपात्पशुर्ज्ञानबहिष्कृतश्च ॥ २३
इति सञ्चिन्त्य कर्मानुसारिणी बुद्धिरित्यतः ।
न्यायादेव यथा बुद्धिर्यत एव प्रवर्तते ॥ २४
तथा तत्र प्रवृत्तः सन्नान्यथा कुत्रचित्स्वयम् ।
सुखदुःखादिविषये नालसो मुक्तिभाग्भवेत् ॥ २५
इत्येवं कर्मवादश्च कथितः सङ्ग्रहेण तु ॥ २६-1
०५। अद्वैतवामसिद्धान्तः
अद्वैतवामपक्षे तु सर्वशक्तिविवर्तकम् ।
तथा शक्तिविवर्तेन विना किञिञ्चन्न दृश्यते ॥ २७
कर्म माया च लोकश्च तथा जीवेश्वरौ शिवः ।
पशु पाशादि सर्व च विना शक्त्या नहि स्फुटम् ॥ २८
इतिविज्ञानमात्रेण मुक्त एव भवेन्नरः ।
ब्रह्महा मद्यपः स्तेयी त्वगम्यागमनोऽपि सः ॥ २९
कुतो वा कर्मणा मुक्तिस्तथैव श्रूयते वचः ।
ज्ञानादेव हिकैवल्यं नान्यथा कर्मकोटिभिः ॥ ३०
नाभुतं क्षीयते कर्म कल्पकोटिशतैरपि ।
इत्यादि वचनं सर्वं अज्ञानि विषयं मतम् ॥ ३१
एवमद्वैतसिद्धान्तो वामभेदे निरूपितः ॥ ३२-1
०६। द्वैतवामसिद्धान्तः
द्वैतवामागमे सिद्धः पदार्थस्त्रिविधो मतः ।
शक्तिः पशुश्च पाशश्च नत्वेका शक्तिरित्यथ ॥ ३३
आत्मा च शक्तिवत्साध्यस्ततः सर्वज्ञतादिमान् ।
अनादौ मलसम्बन्धातज्ज्ञानादि न राजते ॥ ३४
तथा ज्ञानादिसंसिद्धौ शक्तिदीक्षापुरस्सरम् ।
गुरोरेव मुखात्प्राप्ततन्त्रज्ञानपरायणः ॥ ३५
चर्यया वाऽथ योगेन पूजादिक्रियया पुनः ।
उपास्त्या शक्तिभेदानां साक्षाच्छतेरतोऽथवा । ३६
मुक्त एव भवेन्नायं केवलेन तु कर्मणा ।
विज्ञानेन च मुक्तात्मा शक्त्या च भ्राजते सदा ॥ ३७
मुक्तौ सुनिर्मलः सर्वज्ञता धर्मादिसंयुतः ।
इत्येवं द्वैतवामाख्ये सिद्धान्तश्च निरूपितः ॥ ३८
०७। मिश्रवामवादः
अथातो मिश्रवामे तु पृथक्त्वेपि परस्परम् ।
त्रयाणां च पदार्थनां व्याप्त्या तस्याश्च शक्तितः ॥ ३९
सर्वेषां मिश्रसिद्धान्ते सर्वं शक्तिमयं स्मृतम् ।
शिवश्च तस्य देहश्च ज्ञानावरणमेव च ॥ ४०
तथात्मा तस्य देहादि तदेवं भुवनानि च ।
शक्तिरूपमिति ज्ञात्वा शाक्ततन्त्रोक्तवर्त्मना ॥ ४१
साध्या च मधुमांसादिसंपादन पुरस्सरम् ।
पूजया होमतो वाथ जपेन ध्यानतः पुनः॥ ४२
शक्त्युपासनया मुक्तिः मुक्तः शक्त्यात्मको भवेत् ।
न शक्तेर्भिन्न एवायं शक्त्या मिश्रो यतः पुनः ॥ ४३
न समश्च भवेच्छक्त्या तथानेकेशवादतः ।
इत्येवं मिश्रवामे तु तदर्थोऽपि निरूपितः ॥ ४४
०८। वामसिद्धान्तः
अथातो वामसिद्धान्तः संग्रहेण निरूप्यते ।
वामाद्यष्टागमप्रोक्तमङ्गीकृत्य यथोचितम् ॥ ४५
प्रत्यक्षादीनि मानानि प्रागुक्तान्येव तानि वै ।
शक्तिश्च पशुपाशौ च पदार्थस्त्रिविधो मतः ॥ ४६
अनन्या शक्तिरन्येषां सर्वेषां व्याप्तितो मता ।
वामादिषु च सर्वेषु कृतकृत्योऽत्र साधकः ॥ ४७
तीव्रतीव्रतरत्वेन शक्तिपातेन संयुतः ।
शाम्भवी दीक्षया मुक्तः सदुपायबलेन च ॥ ४८
सदुपायस्तु सन्मार्गज्ञानयोगादिकः स्मृतः ।
आधाराद्या बहुविधा सा ह्यनुग्रहरूपिणि ॥ ४९
ध्येयाऽऽदित्यादिवद्धयानात् सा शक्तिः पारमेश्वरी ।
इत्येवं वामसिद्धान्तः संग्रहेण समीरितः ॥ ५०
०९। शक्तिपरिणामसिद्धान्तः
आदितो वामपक्षे तु तत्सिद्धान्तो निरूप्यते ।
शाक्तं सामान्यतः प्रोक्तमङ्गीकृत्य यथोचितम् ॥ ५१
शक्तिरेव जगत्कर्त्रीं सा पुनः स्यात्सहस्रशः ।
समारभ्य पराशक्तेः क्रियाशक्त्यन्तभेदतः ॥ ५२
तद्रूपपरिणामेन जगत्सर्वं चराचरम् ।
मन्त्रेश्वरादयः सर्वे ततोऽन्ये जीवकोटयः ॥ ५३
वष्कादिशब्दभेदश्च तत्वाद्यर्थभिदा पुनः ।
ज्ञेयभेदाश्च ज्ञानं च ज्ञापकश्च ततोन्यथा ॥ ५४
यदस्ति सर्वं तच्छक्तिमूर्त्तिरूपं तथा जगत् ।
शिवरूपं च सा शक्तिर्बहुनोक्तेन किं पुनः ॥ ५५
एवं विज्ञानवान् मूलनवसिद्धान्त (यामलागम) वर्त्मगः ॥ ५६।-1
वैष्णवादिषु बाह्येषु शैवभेदेषु वा पुनः ।
भैरवादिषु भेदेषु कृतकृत्यः पुरा नरः ॥ ५७
कर्मसाम्यादिसंसिद्धशक्तिपातविशेषतः ।
वामतन्त्रोक्तमार्गेण सद्गुरोर्लब्धदीक्षया ॥ ५८
चर्यादीनमनुज्ञानात् साधको मुक्तिभाग्भवेत् ।
इत्येवं वामसिद्धान्तः कथितः सङ्गहादिह ॥ ५९
०९। शैवभेदाः
लोकायतोऽथ बौद्धश्चार्हतो
मीमांस एव च ।
मायावादः पाञ्चरात्रं
षडेते समया बहिः ॥ ६०
शैवं पाशुपतं वामं
भैरवं तु महाव्रतम् ।
कालामुखमिति ख्यातम्
अन्तःसमयषट्ककम् ॥ ६१
शैवभेदं प्रवक्ष्यामि ऐक्यपाषाणवादिनौ ।
भेदवादी समावादी सङ्करानती चाविकारवान् ॥ ६२
परिणामि चा शैवश्च सिध्दान्ती पर ईरितः । ६३-1
१०। कौल-मतम्।
भैरवस्यापि भेदोऽस्ति यदेवंश्रूयते श्रुतौ ।
चतुर्विधं दक्षिणं स्यादिति सौम्ये शिवागमे ॥ ६४
तेषु कौलस्तु मत्स्येन्द्रनाथसिद्धादिभिःस्फुटम् ।
प्रवर्त्तितो न सौम्ये तु मृगेन्द्रे कथितो मतः ॥ ६५
शैवं मन्त्रश्वरं गौणं दिव्यमार्ष गणर्ह्यकम् ।
योगिनी सिद्धके ॥॥ होता ॥॥ स्यष्टौ विदुर्बुधाः ॥ ६६
तथा मत्स्येन्द्रसिद्धादिमतोऽत्र कौलकः स्मृतः ।
तत्रार्थाः पञ्चभूतोत्थशरीर भुवनादयः । ६७
ज्ञानकर्मेन्द्रियाण्येव दशधा विषया अपि ।
पाशास्ते पशवो बद्धा देवादि स्थावरान्तकाः ॥ ६८
॥॥ स्तु भैरव ॥॥ स्तदुपास्त्या परा ॥॥
चर्यया क्रियया वापि मधुमांसादि सेवया ॥ ६९
योगतो वा त ॥॥ ततः ।
अतिप्रख्यातिमायाति सर्वलोकैश्च पूजिताः ।
पश्चाद्भैरवदेवस्य पदं प्राप्य विमुच्यते ॥ ७०
पाशाद्याधिपतेरस्य सर्वेषां जगतां प्रभोः ।
अत्र सिद्धिंगताः सिद्धाः सर्वे ते नाथ संज्ञिताः ॥ ७१
गोरक्षनाथप्रख्या ये योगशास्त्रप्रवर्तकाः ।
आदिनाथो विरूपाक्षो मत्स्येन्द्रो परिघस्तथा ॥ ७२
नागार्जुनो मेघनाथश्चारङ्गी योगशास्त्रवित् ।
गोरक्षसिद्धबुद्धश्च न च ते सिद्धयोगिनः ॥ ७३
शापानुग्रहकतारो निराशा भिक्षुकाः सदा ।
इष्टदाः सेवया पुंसां सिंहनादादिचिन्हिताः ॥ ७४
इत्येवं सङ्ग्रहेणात्र कौलपक्षो निरूपितः । ७५-1
गरुड — दक्षिण — वाम — भूततन्त्राः
दृष्टादृष्टार्थसंसिद्धशास्त्रेषु कामिकादिषु ।
लोकविश्वासहेतोस्तद् दृष्टार्थप्रतिपादनम् ॥ ७६
गारुडं दक्षिणं वामं भूततन्त्रं तथैव च ।
चतुर्विधानि शास्त्राणि पुरुषाद्युदितानि च ॥ ७७
अधः स्रोतांसि शैवानि मूर्तिभिः पुरुषादिभिः ।
विज्ञानकेवलैर्रद्रैः प्रेर्यैस्तत्पुरुषादिभिः॥ ७८
प्रवर्तितानि तान्येवं कामिकाद्यनुसारतः ।
अस्वतन्त्रतयोक्तानि तेषु गारुड उच्यते ॥ ७९
पुरुषब्रह्मरूपोयं पूजनीयो जगत्पतिः ।
तदुपासनया सिद्ध प्र ॥॥ च्यते ॥ ८०
यन्मन्त्रौषधसंसिद्धं चिकित्साजातमुत्तमम् । ८१-1
१२। कालामुखम्
अथ कालामुखार्थस्तु सङ्ग्रहेण निगद्यते ।
स्फाटिकं कुण्डलं चैव रक्तचन्दनलेपनम् ॥ ८२
पुत्रदीप ॥॥ कालामुखस्तथा ।
इति लक्षणसंयुक्तः सेव्यः कालामुखो मतः ॥ ८३
व्रतं कालामुखं प्रोक्तम् ॥॥ ।
प्रत्यक्षादीनि मानानि तत्र प्रागुक्तवर्त्मना ॥ ८४
पतिः पशुश्च पाशश्च प्रमेयस्त्रिविधो मतः ।
पतिः साक्षान्महादेवो रुद्र एव न भैरवः ॥ ८५
रुद्रांशेन विना तस्य न पृथक्त्वेन सभ्भवः ।
तस्मादेवं महादेवो रुद्रोऽयं मूलविग्रहः ॥ ८६
स एव दक्षिणामूर्तिरूपादिबहुविग्रहः ।
साक्षात्सदाशिवो नित्यः शिव एव जगत्पतिः ॥ ८७
तद्भेदो बहुधा प्रोक्तस्तत्तत्कृत्यानुसारतः ।
पशुस्तु त्रिविधो ज्ञेयः प्रागुक्तेनैव वर्त्मना ॥ ८८
पाशं च मलमायादि मायेयं स्याज्जगद् ध्रुवम् ।
पाशबन्धनिवृत्यर्थं पशुभिः सेव्यते शिवः ॥ ८९
अष्टम्यां च चतुर्दश्यां शिवरात्रिव्रतेन च ।
सोमवारादिभिर्नित्यमन्यथोपायतः पुनः ॥ ९०
व्रतं कालामुखं प्रोक्तं शिवदीक्षापुरःसरम् ।
शक्तिपातानुसारेण कर्मसाम्येऽपि सम्भवे ॥ ९१
तथानुष्ठानसामर्थ्यादात्मा शुद्धो भवेत्तदा ।
आत्मा नक्षत्रवद्भाति शिवस्त्वर्क इव स्फुटम् ॥ ९२
तदात्मशिवसंयोगः परमोक्ष इति समृतः ।
इत्येवं सङ्गहादुक्तो व्रतं कालामुखो मतः ॥ ९३
१३। कापालम्
अथ कापालसिद्धान्तः कथ्यते संग्रहादिह ।
तत्कालामुखसंप्रोक्तमङ्गीकृत्य यथोचितम् ॥ ९४
कापालशैवतन्त्रं तु सेव्यते यत्कपालिभिः ।
महाश्मशाने संहारे नृत्यमानमहेशवत् ॥ ९५
स्वात्मानं ध्यायमानः सन् सामगानपुरःसरम् ।
नरकपालहस्तस्तुस भिक्षामटते ततः ॥ ९६
कापालीति हि संप्रोक्तः कापाले साधकोत्तमः ।
कथं प्रागुक्तशैवस्य कालामुखमतस्य च ॥ ९७
एकदेशमतत्वेन केचिदिच्छन्ति पण्डिताः ।
पञ्चार्थं च पुराकल्पं शिवगुह्यप्रमाणकम् ॥ ९८
व्यूहमादर्शनं चैव पद्माकरकशैलकम् ।
नृत्तं चैव सुदुष्प्रापं सिद्धार्थ हि चतुर्दश ॥ ९९
कापालमेवमाख्यातं लाकुलं श्रुणु चानघ ।
इति दीप्तेन तत्तन्त्राण्युक्तान्यर्थस्त्रिधा मतः ॥ १००
पतिः पशुश्च पाशश्च तत्र रुद्रो जगत्पतिः ।
महाश्मशाने संहारे नृत्यमानो महेश्वरः॥ १०१
सदाशिव इति ज्ञेयः सर्ववित्सर्वकृत्प्रभुः ।
आत्मानो बहवो बद्धा ज्ञानमात्रस्वरूपिणः ॥ १०२
ज्ञानक्रियास्वरूपस्तु शिव एको न चापरः ।
कर्म माया च पाशः स्यादाकाशं तत्वमुच्यते ॥ १०३
काल एवात्र माया च तयोर्भेदो न विद्यते ।
तेन बन्धनिवृत्त्यर्थं शिवदीक्षापुरःसरम् ॥ १०४
कुर्वन्नित्यादिकं कर्म कापालज्ञानपारगः ।
अतिवैराग्यसंपन्नः स्तुतिनिन्दापराङ्मुखः ॥ १०५
तथा भिक्षान्नभोक्तायं प्रागुक्तेनैव वर्त्मना ।
मुक्त एव भवेत्तत्र मुक्तौ शिवसमः पुमान् ॥ १०६
न तु नक्षत्रवज्जीवो भानुवद्राजते यतः ।
मुक्तो शिवगुणावेशाद्विभेदो जायते किल ॥ १०७
सर्वज्ञतादिधर्मो हि मुक्तय शिववत्पुनः ।
इत्येवं संग्रहादेव कापालः कतितो मतः ॥ १०८
१४। महाव्रतम्
अथ महाव्रतः शैवः कथ्यते लेशत स्फुटम् ।
कापालागमसंप्रोक्तमङ्गीकृत्य यथोचितम् ॥ १०९
कुण्डिका कुण्डलं चैव उरगश्च शिखामणिः ।
केशयज्ञोपवीतं च पञ्च मुद्रा महाव्रते ॥ ११०
इति लक्षणसंयुक्तः उच्यते स महाव्रतः ।
प्रत्यक्षादीनि मानानि प्रागुक्तान्येव तानि वै ॥ १११
तथा मानेषु सर्वेषु श्रेष्ठो महाव्रतः स्मृतः ।
पतिः पशुश्च पाशश्च तदर्थःत्रिविधो मतः ॥ ११२
पतिःसदाशिवो ज्ञेयः सर्ववित्सर्वकृद्विभुः ।
अनादिनिरमलो रुद्रः सर्वकारणकारणः ॥ ११३
आत्मानो बहवो ज्ञेया ज्ञानमात्रसवरूपिणः ।
पतयुरेव क्रियाशक्तिरनान्येषामातमनामिह ॥ ११४
पाशस्तु कर्म माया च नत्वाणवमलः स्मृतः ।
शक्तिपाते तु तत्तन्त्रशिवदीक्षापुरःसरम् ॥ ११५
ज्ञानचर्याद्यनुष्ठानान्मुक्तो भवति मानवः ।
लिङ्गधारी सदा स्वस्य मस्तके कन्धरेऽथवा ॥ ११६
नाभेरूध्र्वं यथाशास्त्रं स्थानेषु हृदयादिषु ।
लिङ्गस्य धारणान्मुक्तिः किं पुनः पूजया नृणाम् ॥ ११७
यथा शिवे तथा भक्तिः गुरौ वै जङ्गमेषु च ।
तथापि जङ्गमे भक्तिर्विशेष इति कथ्यते ॥ ११८
महाव्रताख्यशास्त्रोक्तनित्यकर्मादितत्पराः ।
एकेन जन्मना मुक्तिं प्रयान्तीह महाव्रताः ॥ ११९
इति महाव्रतः सोऽयं संग्रहेण प्रदर्शितः । १२०-1
१५। पाशुपतम्-गुणसंक्रान्तम्
अथ पाशुपतं वक्ष्ये गुणसंक्रान्तवादिनाम् ।
भस्म मेध्यं चोत्तरीयं विष्ठरं पुस्तकं तथा ॥ १२१
मेखलोपरि कौपीनमेवं पाशुपतं स्मृतम् ।
इति लक्षणसंयुक्तैः सेव्यते यो नरोत्तमैः ॥ १२२
प्रत्यक्षादीनि मानानि प्रागुक्तानीह तानि वै ।
तत्र पाशुपतः श्रेष्ठः आगमस्तु सदोच्यते ॥ १२३
प्राजापत्यं पाशुपतं प्रबुद्धं पद्मसंहिता ।
वासिष्ठं काश्यपं कल्पं वाराहं भार्गवोत्तरम् ॥ १२४
प्रफुल्लं वासवं चैव वायुप्रोक्तं तथैव च ।
वारुणं बार्हस्पत्यं च परमेशं च षोडश ॥ १२५
मतं पाशुपतं प्रोक्तमिति दीप्तागमे श्रुतम् ।
पतिः पशुश्च पाशश्च तदर्थस्त्रिविधो मतः ॥ १२६
॥॥॥॥ सर्वे ते व्यापकाः स्मृताः ।
मायातः कर्मतश्चैव बद्धाः सर्वेश्वराज्ञया ॥ १२७
कार्यकारणतत्वोत्थ - बुद्धिकर्मानुसारतः ।
कुतश्चित्कारणातत्र वैराग्यं जायते यदा ॥ १२८
तदा पाशुपतप्रोक्तशिवदीक्षापुरःसरम् ।
ज्ञानचर्याद्यनुष्ठानान्मुक्तः शिवसमो भवेत् ॥ १२९
किञ्चिज्ज्ञत्वादिधर्मस्य निवृत्त्या मुक्तिकालतः ।
सर्वज्ञत्वादिधर्माणां संभवात् तुल्यता स्फुटा ॥ १३०
कैवल्यं शिवसाम्यत्वात्स्यान्मुक्तिर्निर्मलात्मनः ।
ईश्वरात्तद्गुणाः सर्वे संक्रमन्ते तदात्मनि ॥ १३१
पुण्यपूरुषसंपर्कात् पुण्यानीव ततोऽन्यतः।
क्षमावति त्वनाक्रोशात्पुण्यवद्भिः सहस्थितेः ॥ १३२
पुण्यं संक्रमते पुंसामित्यादि वचनात्स्फुटम् ।
तथा च शिववन्मुक्ताः सर्वज्ञात्वादिधर्मिणः ॥ १३३
अपि कृत्यं न कुर्वन्ति स्वार्थनिष्ठा हि ते यतः ।
इत्येवं गुणसंक्रान्तः साम्यपक्षो निरूपितः ॥ १३४
१६। प्रवाहनित्येशवादम्
अथ तद्भेदवादः प्रवाहनित्येश्वराभिधः ।
कथ्यते पूर्वतः प्रोक्तमङ्गीकृत्य यथोचितम् ॥ १३५
एकात्मवादिरीत्यात्र मन्यन्ते ते शिवात्मनोः ।
अन्यत्पाशुपतप्रोक्तवर्त्मना तेन संमतः। १३६
मुक्तौ तु शिव एवायं मुक्तः कृत्यं करोति सः ।
स्वाधिकारादुपरतो न करोति शिवो विभुः ॥ १३७
ईश्वरात्तद्गुणानां तु संक्रान्तौ निर्मलात्मनि ।
तस्य कार्याण्यसौ बुध्वा जगत्सृष्टयादि कृत्यतः ॥ १३८
स्ववत्संसारनिर्वाहे पुत्रं हष्ट्वा महामतिम् ।
स्वकृत्यादुपरक्ताक्षः सन्यासी स्यात्पिता यथा । १३९
इति प्रवाहनित्येशवादो लेशात्प्रदर्शितः इति । १४०-1
१७। श्रौतपाशुपतम्।
श्रौत पाशुरते तत्र प्रत्यक्षादि प्रमाणतः ।
ज्ञेयोऽर्थस्त्रिविधो मुक्तिरुत्पत्तिसमता नृणाम् । १४१
इत्ययं किं प्रतिपादयति ? वैदिकपाशुपतमतं दर्शयति ।
अत्र प्रागुक्तेषु शैवेषु श्रौतपाशुपतो नाम श्रुत्यनुसारेण
शिवायै शिवेनोक्तः उपमन्य्वादिप्रवर्तित इति ज्ञेयम् ।
तदुक्तं च -
श्रौतपाशुपतो नाम शतकोटिप्रविस्तरः ।
परमार्थप्रदः श्रेष्ठो वायव्यांहि तथा वचः ॥ १४२
शैवागमोऽपि द्विविधः श्रौतोऽश्रौतश्च स स्मृतः ।
श्रुतिसारमयः श्रौतः स्वतन्त्र इतरो मतः ॥ १४३
स्वतन्त्रो दशधा पूर्वं तथाष्टादशधा पुनः ।
कामिकादिसमाख्याभिः सिद्धः सिद्धान्तसंज्ञितः ॥ १४४
श्रुतिसारमयोऽन्यस्तु शतकोटिप्रविस्तरः ।
परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ १४५
एतत्पाशुपतं श्रौतमथर्वशिरसि स्थितम् ।
तत्रोक्तः परमो धर्मश्चर्याद्यैस्तु चतुर्विधः ॥ १४६
तथा पाशुपतो भक्तः शिवं प्रत्यक्षयेद् दृढम् ।
तस्माच्छ्रेष्ठमनुष्टानं योगे पाशुपते मते ॥ १४७
श्रीकण्ठेन शिवेनोक्तः शिवायै स शिवागमः ।
शिवाश्रितानां सर्वेषां श्रेयसामेकसाधनम् ॥ १४८
युगावर्तेषु सर्वेषु योगाचार्यस्वरूपिणा ।
तत्र तत्रावतीर्णेन शिवेनैव प्रवर्यते ॥ १४९
संक्षिप्यास्य प्रवक्तारः चत्वारः परमर्षयः ।
रुरूर्दधीचोऽगस्त्यश्च उपमन्युर्महायशाः । १५०
ते च पाशुपताः ज्ञेयाः संहिताभ्यासवर्तकाः ।
तत्सन्ततीया गुरवः शतशोऽथ सहस्रशः ॥ १५१
अथात्र वैदिकपाशुपते प्रत्यक्षादिप्रमाणसिद्धानां पदार्थानां त्रैविध्यकथनं वेदान्तवाक्यानां विशिष्टाद्वैतार्थ कृत्वा कामिकाद्युतवत्सर्वेषां पदार्थानां पतिपशुपाशेष्वेव संग्रहाभ्युपगमात् । तदुक्तंच -
शैववैदिकसिद्धानि यानि नामानि तानि वै ।
प्रत्यक्षमनुमानाख्यमुपमानागमौ तथा ॥ १५२
अर्थापत्यादिमानानि श्रौतपाशुपते मते ।
प्रामाण्यं स्वत एव स्यात्तत्र वैदिकशैववत् ॥ १५३
अथ तन्मानसंसिद्धं वस्तु च त्रिविधं स्मृतम् ।
अजडश्च जडश्चैव नियन्तृ च तयोरपि ॥ १५४
पशुः पाशः पतिश्चैव कथ्यते त्रितयं क्रमात् ।
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ १५५
तदेवं त्रितयं भूयः कथ्यते तत्ववादिभिः ।
अक्षरं पशुरित्युक्तं क्षरं पाश उदाहृतः ॥ १५६
क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ।
इति तल्लक्षणोक्त्या च तथैवं हि श्रुतं पुनः ॥ १५७
वायुः —
प्रकृतिः क्षरमित्युक्ता पुरुषोऽक्षरमुच्यते ।
द्वाविमौ प्रेरयत्यन्यः परमः परमेश्वरः ॥ १५८
मुनयः —
॥॥॥। पुरुषो मतः ।
अनयोः केन संबन्धः को वा प्रेरक ईश्वरः ॥ १५९
वायुः —
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ।
सम्बन्धो मलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १६०
मुनयः —
मलः किदृक् कुतो ह्यस्य शिवत्वं च शिवः कुतः ॥ १६१
वायुः —
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ।
मलश्चिच्छादको नैजो विशुद्धिः शिवता स्वतः ॥ १६२
मुनयः —
आवृणोति कथं ह्योषा व्यापिनं केन हेतुना ।
किमावृत्तिः तस्य पुंसः केन सर्व निवर्तते ॥ १६३
वायुः —
आवृतिः व्यापितोऽपिस्यात् व्यापि यस्मात् कलादपि ।
हेतुः कर्मैव भोगार्थो निवर्तेत मलक्षयात् ॥ १६४
मुनयः —
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ।
तत्किमादि किमन्तं च किं फलं वा किमाश्रयम् ॥ १६५
तस्मै भोगश्च भोग्यं च किं वा तद्भोग्यसाधकम् ।
मलक्षयस्य हेतुः कः कीदृक् क्षीणमलः पुमान् ॥ १६६
वायुः —
कला विद्या च रागश्च कालो नियतिरेव च ।
कलाद्याश्च समाख्याता यैर्युक्तः पुरुषो भवेत् ॥ १६७
पुण्यपापात्मकं कर्म सुखदुःखफलं तु तत् ।
अनादिफलभोगान्तमज्ञानार्थसमाश्रयम् ॥ १६८
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ।
बाह्यान्तःकरणेद्वारं शरीरं भोगसाधकम् ॥ १६९
भावातिशयलभ्येन प्रसादेन मलक्षयः ।
क्षीणे चात्ममले तस्मिन्पुमान् शिवसमो भवेत् ॥ १७०
मुनयः —
कलादि पञ्च तत्वानां किं कर्म पृथगुच्यते।
भोक्तेति पुरुषश्चोति येनात्मा व्यपदिश्यते ॥ १७१
किमात्मकं तदव्यक्त केनाकारेण भुज्यते ।
किं तस्य कारणं भुक्तौ शरीरं च किमुच्यते ॥ १७२
वायुः —
दृक् क्रिया व्यष्टिका विद्या कलारागप्रवर्तिका ।
कालोऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ १७३
अव्यक्तं कारणं यत्तत् त्रिगुणप्रभवाप्ययम् ।
प्रधानं प्रकृतिश्चेति यदाहुस्तत्वचिन्तकाः ॥ १७४
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ।
सुखदुःख विमोहात्मा भिद्यते गुणतस्त्रिधा ॥ १७५
सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।
प्रकृतौ सूक्ष्मरूपेण तिले तैलमिवस्थिताः ॥ १७६
सुखं च सुखहेतुश्च समासात्सात्विकं स्मृतम् ।
तामसं तद्विपर्यासात्तावुभौ हेतुराजसम् ॥ १७७
सात्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ।
मध्यमानुगतिर्या सा राजसी परिपठ्यते ॥ १७८
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ।
ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ १७९
प्राकृतं मानसं बुद्धिरहङ्कारो गुणत्रयम् ।
समासादेवमव्यक्त सविकारमुदाहृतम् ॥ १८०
तत्कारणदशापन्मव्यक्तमिह कथ्यते ।
व्यक्तं कार्यदशापन्नं शरीरादि घटादि च ॥ १८१
यथा घटादिकं कार्यं मृदादि कारणं स्मृतम् ।
शरीरादि तथाव्यक्तमव्यक्तं नातिभिद्यते ॥ १८२
तस्मादव्यक्तमेवैकं कारणं करणानि च ।
शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ १८३
मुनयः —
बुद्धीन्द्रियशरीरेभ्यो वस्तुनोऽपि कुतो भिदा ॥ १८४B
वायुः —
बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्तो विभुर्महान् ।
तथा तद्वद्विदात्मेति हेतुस्तत्र सुदुर्गमः ॥ १८५
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ।
स्मृतेरनियतज्ञानाद्यथा वै देहवेदनात् ॥ १८६
अतः स्मार्तानुभूतानामशेषज्ञेयगोचरः ।
अन्तर्यामीति वेदेषु वेदान्तेषु च गीयते ॥ १८७
सर्वतन्त्रः स सर्वत्र व्याप्य तिष्ठति शाश्वतः ।
तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ १८८
न चायं चक्षुषा ग्राहयो न परैरिन्द्रियैरपि ।
मनसैव प्रदीप्तेन महानात्मावसीयते ॥ १८९
न च स्त्री न पुमानेष नैव चापि नपुंसकः ।
नैवोध्र्वंनापि तिर्यक्च नाधस्ताच्च कुतश्चन ॥ १९०
अशरीरः शरीरेषु चलेषु स्थाणुरव्ययः ।
सदा पश्यति तद्धीरो नरः प्रत्यवमर्शनात् ॥ १९१
किमत्र बहुनोक्तैन पुरुषो देहतः पृथक् ।
अपृथक् ये तु पश्यन्ति न सम्यक् तेषु दर्शनम् ॥ १९२
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ।
अशुद्धमवश दुःखमध्रुवं च न विद्यते ॥ १९३
विवदाम्बुजभूतेन पुरुषस्तेन संगतः ? ।
सुखी दुःखी विमूढश्च भवति स्वेन कर्मणा ॥ १९४
अद्भिरासेवितं क्षेत्रं जनयत्यञ्जसा यथा ।
अज्ञानाप्यायितं कर्म देह जनयते तथा ॥ १९५
अत्यन्तमसुखा वासा रुग्णाश्चैकान्तमृत्यवः ।
अनागता अतीताश्च तनवोऽस्य सहस्रशः ॥ १९६
मृत्या गत्या च शीर्णेषु शरीरेषु शरीरिणाम्।
अत्यन्तवसतिः कापि न केनापि च लभ्यते ॥ १९७
छादितश्च वियुक्तश्च शरीरैरेष लक्ष्यते ।
चन्द्रविम्बवदाकारे तरलैः अत्रसंचयैः ॥ १९८
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ १९९B
अष्टपादपरिक्षेपेष्वक्षमुद्रेव लक्ष्यते ।
नैवास्य विहितः कश्चिन्नासौ भवति कस्यचित् ॥ २००
पथि सङ्गम एवायं दारैरन्यैश्च बन्धुभिः ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ २०१
समेत्य च व्यपेयातां तद्वत्भूतसमागमः ।
स पश्यति शरीरं तच्छरीरं नैव पश्यति ॥ २०२
तौपश्यति परः कश्चित्परं तौ नैव पश्यतः ।
ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्तिताः ॥ २०३
पशूनामेव सर्वेषां प्रोक्तमेतन्निबोधत।
य एषो बध्यते पाशैः सुखदुःखाशनः पशुः ॥ २०४
क्रिया साधनभूतोऽयमीश्वरस्येति सूरयः ।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ २०५
ईश्वरप्रेरितो गच्छेदभ्रं वा स्वर्गमेव वा । २०६-1
मुनयः —
योऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ।
आभ्यां विलक्षणः कश्चित्कथमस्त्यनयोः पतिः ॥ २०७
अस्ति कश्चिदपर्यन्तरमणीयगुणान्वितः ।
अखण्डजगदण्डानां पिण्डीकरणपण्डितः ॥ २०८
औदार्य वीर्य गाम्भीर्य स्वभावकरुणालयः ।
पतिर्विश्वस्य निर्माता पशुपाशविलक्षणः ॥ २०९
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत्।
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ २१०
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ।
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ २११
जगच्च तत्कर्त्रपेक्षं कार्यं सावयवं यतः ॥ २१२-1
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ।
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ २१३
अयथाकरणज्ञानादण्डस्य गमनं यथा ।
आत्मानं च पृथक्कृत्वा प्रेरितारं तथा पृथक् ॥ २१४
असौ जुषस्ततस्तेन ह्यमृतत्वाय कल्पते ।
पशोः पाशस्य पत्युश्च तत्त्वतोऽस्ति यदन्तरम् ॥ २१५
ब्रह्मवित्तद्विदित्त्वैवं योनेर्मुक्तो भविष्यति ।
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ २१६
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ।
भोक्ता भोग्यं प्रेरयिता मन्तव्यं त्रिविधं स्मृतम् ॥ २१७
नातः परं विजानद्भिः वेदितव्यं हि किञ्चन ।
तिलेषु वा यथा तैलं दन्धि वा सर्पिषं यथा ॥ २१८
यथाऽऽपः स्रोतसा व्याप्ता यथाऽरण्ये हुताशनः ।
एवं महात्मनात्मानमात्मन्यपि विलक्षणम् ॥ २१९
सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति ।
य एको जालवानीश ईशिनीभि स्वशक्तिभिः ॥ २२०
सर्वानिमान्वशे कृत्वा एक एव स ईशते ।
एक एव तदा रुद्रो न द्वितीयश्च कश्चन ॥ २२१
संसृज्य विश्वं भुवनं गोप्ता संचुकोच सः ।
विश्वतश्चक्षुरेवायं उतायं विश्वतो मुखः ॥ २२२
तथैव विश्वतो बाहुर्विश्वतः पादसम्युतः ।
द्यावाभूमी च जनयन् देव एकः पुरातनः ॥ २२३
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ।
हिरण्यगर्भं देवानां प्रथमं तु नयेदयम् ॥ २२४
विश्वस्मादधिको रुद्रो महर्षिरिति शुश्रुम ।
वेदाहमेतं पुरुषं महान्तममृते ध्रुवम् ॥ २२५
आदित्यवर्णं तमसः परस्तात्तत्संज्ञितं विभुम् ।
यस्मान्नास्ति परं किञ्चिदपरं परमार्थतः ॥ २२६
नानीयो नास्ति तद्ज्ज्ययो तेन पूर्णमिदं जगत् ।
सदैको वृक्षवत्स्तब्धः केवलो दिवि तिष्ठति ॥ २२७
संगल्पप्रभवं तस्य cअराcअमिदं जगत् ।
सर्वाननशिरोग्रीवः सर्वभूतगुणाशयः ॥ २२८
सर्वव्यापी च भगवान् तस्मात्सर्वगतः शिवः ।
सर्वतः पाणिपादो यः सर्वतोऽक्षिशिरोमुखः ॥ २२९
सर्वतः श्रुतिमानेव सर्वमाश्रित्य तिष्ठति ।
सर्वेन्द्रियगुणाभावः सर्वेन्द्रियविवर्जितः ॥ २३०
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ।
अचक्षुरपि यः पश्यत्यकर्णोऽपि श्रृणोति यः ॥ २३१
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ।
अणोरणीयान्महतो महीयानयमव्ययः ॥ २३२
गुहायां निहितश्चापि जन्तोरस्य महेश्वरः ।
सतं च पुरुषं व्याप्य महिमातिशयान्वितम् ॥ २३३
धातुप्रसादादीशानं वीतशोकः प्रपश्यति ।
वेदाहमेतमजरं पुराणं सर्वगं विभुम् ॥ २३४
निरोधं जन्मनो यस्य वदन्ति ब्रह्मवादिनः ।
एकानेकविभिन्नात्मा बहुधा शक्तियोगतः ॥ २३५
विदधाति विहत्यान्ते विश्वमादौ महेश्वरः ।
विश्वधात्री त्वजारव्याता वी ॥॥ च प्रकृतिः समुता ॥ २३६
तामजां लोहितां कृष्णां शुक्लां कृष्णां तमः पराम् ।
॥॥ प्रमाणं स विरूपिणम् ॥ २३७
तामेकः सेवतेऽन्यस्तु भुक्तभोगां जहाति च ।
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ २३८
एकोऽत्ति पिप्पलं स्वादु परोऽनश्नन् प्रपश्यति ।
वृक्षेऽस्मिन् पुरुषो मग्नः मुह्यमानस्तु शोचति ॥ २३९
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ।
तदास्य महिमानं च वीतशोकः सुखी भवेत् ॥ २४०
तपांसि यज्ञाः क्रतवो यद्भूतं भव्यमेव हि ।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ २४१
तस्यास्त्वधश्चरैरेव व्याप्तं सर्वमिदं जगत् ।
सूक्ष्मातिसूक्ष्ममीशानं कलिलस्यापि मध्यमम् ॥ २४२
स्रष्टारमपि विश्वस्याधिष्ठितारं च कस्य तु ।
विश्वमेवेश्वरं ज्ञात्वा शान्तिमत्यन्तमृच्छति ॥ २४३
स एव कालो गोप्ता च विश्वस्याधिपतिः पतिः ।
तं विश्वाधिपति ज्ञात्वा मृत्युपाशाद्विमुच्यते ॥ २४४
घृतात्परं मध्यमिव सूक्ष्मं ज्ञात्वाऽधिपं शिवम् ।
सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥२४५
एष एव परो देवो विश्वकर्मा महेश्वरः ।
हृदये सन्निविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ २४६
यदा तमस्तन्न दिवि न रात्रिर्न सदप्यसत्।
केवलः शिव एवैकः यतः प्रज्ञा पुरातनी ॥ २४७
नैनमूध्र्व च तिर्यक् च नमध्ये परिजग्रमत् ।
न तस्य प्रतिमा चास्ति तस्य नाम महद्याशः ॥ २४८
अजातमृतमेवैकं बुध्वा जन्मनि भीरवः ।
रुद्रस्यास्य प्रपद्यन्ते मोक्षार्थं दक्षिणं मुखम् ॥ २४९
द्वे अक्षरे ब्रह्म परे अनन्ते समुदाहृते ॥ २५०-1
विद्याऽविद्य समाख्याते निहिते यत्र गूढवत् ।
अक्षरं विद्याह्यमृतं विद्यति परिकीर्त्यते ? ॥ २५१
उभे ते ईशते यस्तु सोऽन्यः खलु महेश्वरः ।
एकैकं बहुधा बीजं विकुर्वनेव देवपः ॥ २५२
सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रजापतीन् ।
दिश ऊर्ध्वमधस्तिर्यक् वासयन् भ्राजते स्वयम् ॥ २५३
यो हि स्व्भावनप्येको वरेणस्यस्त्वधितिष्ठति ।
स्वभावाद्वाचिकान् सर्वान् वाच्यांश्च परिणामयन् ॥ २५४
गुणांश्च भोक्तृभोग्यत्वे तद्विश्वमधितिष्ठति ।
एतद्वै गुह्योपनिषद् गूढं ब्रह्म परात्परम् ॥ २५५
ब्रह्मयोनि जगत्पूर्वं विदुर्देवा महर्षयः ।
भावग्राह्यमनीडाख्यं भासि भावकरं शिवम् ॥ २५६
कलासर्गान्त्रं देवं ये विदुस्ते महर्षयः ।
स्वभावमेके मन्यन्ते कालमन्ये विमोहिताः ॥ २५७
देवस्य महिमा ह्योष येनेदं भ्राम्यते जगत् ।
येनेदं वर्तते नित्यं तथा कालात्मको।पि यः ॥ २५८
तेन गीतमिदं कर्म भूतैः सह विवर्तते ।
स्वेनैव भूयसः कृत्त्वे विनिवर्त्य च भूरिशः ॥ २५९
तत्त्वस्य सह तत्वेन योगं चापि नियोजयेत् ।
तेषामेवावकाळः स्यात् कृतस्यापि च कर्मणः ॥ २६०
स एव देवः संयोक्ता तमिद्धं भोक्तृभोग्ययोः ॥ २६१-1
परस्त्रिकालादधिकः स एव परमेश्वरः ।
तं विश्वरूपमभवं भवरूपं प्रजापतिम् ॥ २६२
देवदेवं जगत्पूर्वं स्वचित्तस्थमुपास्महे ।
कार्यादिभ्यः परो यस्मात् प्रपञ्चः परिवर्तते ॥ २६३
धर्मावहं पापनुदं भगेशं विश्वधाम च ।
तमीश्वराणां परमं देवतानां च दैवतम् ॥ २६४
पतिं पतीनां सर्वेषां विदाम भुवनेश्वरम् ।
देवदेवं जगत्पूर्वं स्वचित्तस्थमुपास्महे ॥ २६५
न तस्य विद्यते कार्यं कारणं च न विद्यते ।
न तत्समो नाधिकश्च क्वचिज्जगत्ति दृश्यते ॥ २६६
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ।
ज्ञानमिच्छा क्रिया चैव तेन विश्वमिदं कृतम् ॥ २६७
न तस्यास्ति पतिः कश्चिन्नैव लिङ्गे च शीतला ? ॥ २६८-1
कारणं कारणानां च स तेषामधिपाधिपः ।
न चास्य जनिता कश्चिन्नैव जन्म कुतश्चन ॥ २६९
न जन्म हेतवस्तद्वन्मलमायादि संज्ञकाः।
स एकः सर्वभूतेषु गूढो व्याप्तश्च सर्वतः ॥ २७०
सर्वभूतान्तरात्मा च कर्माध्यक्षः स कथ्यते ।
सर्वभूताधिवासश्च साक्षी वेत्ता च निर्गुणः ॥ २७१
एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ।
समासेन च सर्वाणि करोति च यथोचितम् ॥ २७२
तमेवात्मनि तिष्ठन्तं ये पश्यन्ति मुमुक्षवः।
तेषामेव सुखं नित्यं नेतरेषां महात्मनाम् ॥ २७३
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ।
एको बहूना चाकामः कामानेकान् प्रयच्छत ॥ २७४
सांख्ययोगादिगम्यं तत्कारणं जगतः परम् ।
ज्ञात्वा देवं पशुः पाशैः सर्वैरपि विमुच्यते ॥ २७५
विश्वकृद्विश्ववित्स्वात्मा योनिज्ञः कालविगुणी ।
प्रधानक्षेत्रविन्निर्गुणेशः पाशविमोचकः ॥ २७६
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ।
यो वेद तमहं बुध्वा स्वात्मबुद्धिप्रसादतः ॥ २७७
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ २७८
अमृतस्य परंसेतुं दग्धेन्धनमिवानलम् ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ २७९
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।
तपः प्रसादाद्देवस्य प्रसादाच्च महर्षयः ॥ २८०
विश्रमोचितमात्मानं पवित्र परपावनम् ।
वेदान्तपरमं गुह्यं पुरा कल्पप्रचोदितम् ॥ २८१
ब्रह्मणो वदनालब्धं मयेदं भाग्यगौरवात् ।
इत्येवं त्रिपदार्थास्ते कथिताः सङ्गहात्पुनः ॥ २८२
कथ्यन्ते पञ्चधा पाशा मलमायाद्वयं पुनः ॥ २८३-1
अनुग्रहतिरोधायी शक्तिः पञ्चविधा तथा ।
तत्र मायाद्वयोद्धूतं षट्त्रिंशत्तत्वजातकम् ॥ २८४
पञ्च भूतानि तन्मात्रपञ्चकर्मेन्द्रियाणि च ।
ज्ञानकर्मविभागेन पञ्च पञ्च विभागशः ॥ २८५
त्वगादि धातवः सप्त पञ्च प्राणादिवायवः ।
मनश्चाहंकृतिः रव्यातिर्गुणाश्च प्रकृतिः पुमान् ॥ २८६
रागो विद्या कला चेति नियतिः काल एव च ।
माया च शुद्धविद्या च महेशःश्च सदाशिवः ॥ २८७
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ।
महामाया च मायेति प्रकृतिस्त्रिगुणेति च ॥ २८८
त्रिविधा कार्यभेदेन सा प्रभिन्ना षडध्वनः ।
स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ २८९
इत्यादि वचनादेवं पशुभेदश्च कथ्यते ।
सकलाश्च तथा सर्वे विमलाः प्रलयाकलाः ॥ २९०
मलैकमात्रसम्बन्धास्ते विज्ञानकला मताः ।
तदवान्तरभेदेन भिद्यते बहुधा पुनः ॥ २९१
एतद्विविधपाशानां पशूनां पतिरीश्वरः ।
स्थानभोगाधिकारादिवशेन बहुधा पुनः ॥ २९२
भिद्यते तत्तदात्मानुग्रहेणैव तथा वचः ।
पक्वात्मानः क्रमाद्भिन्नाः एकद्वित्रिमलाः क्रमात् ॥ २९३
एक द्वित्रि मलान्सर्वान् शिव एकोऽधितिष्ठति ।
अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ २९४
अरुद्रात्मकमप्येवं रुद्रैर्जगदधिष्ठितम् ।
अण्वन्ता हि महाभूमिः शतरूद्राद्यधिष्ठिता ॥ २९५
मायन्तमन्तरिक्षं तु अमरेशादिभिः क्रमात् ।
अङ्गुष्ठमात्रपर्यन्तः समन्तात्सन्ततं तथा ॥ २९६
महामायावसाना द्यौर्वामाद्यैर्भुवनाधिपैः ।
अनाश्रितान्तैरध्वान्तवर्तिभिः समधिष्ठिता ॥ २९७
इत्येवं तदधिष्ठानभेदः स कथितः पुनः ।
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ २९८
न किञ्चिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ २९९-1
स्वभावादेष पर्याप्तः परानुग्रहकर्मणि ।
अन्यथान्यत्स्वभावेन न किमप्यनुगृह्यते ॥ ३००
परं सर्वमनुग्राह्यं पशुपाशादिकं जगत् ।
परस्यानुग्रहार्थं नु पत्युराज्ञासमन्वयः ॥ ३०१
यत्तत्पुनरनुग्राह्यं परतन्त्रं तदिष्यते ।
अनुग्रहादृते नास्य भुक्तिमुक्ती त्वनन्वयात् ॥ ३०२
मूर्त्यात्मानीऽप्यनुग्राह्याः शिवज्ञाननिवर्तनात् ।
अज्ञानाधिष्ठितं किञ्चिदिह शम्भोर्न विद्यते ॥ ३०३
येनोपलक्ष्यतेऽस्माभिः सकलेनापि निष्कलः ।
स मूर्त्यात्मा शिवस्यैव मूर्तिरित्युपचर्यते ॥ ३०४
न हत्यसौ निष्कलः साक्षात् शिवः परमकारणः ।
स्वाकारेणानुभावेन तेनाप्यनुपलक्षितः ॥ ३०५
प्रमाणगम्यतामात्रं तत्सद्भावोपपादकम् ।
न तावताऽनपेक्षा धीरुपलभ्येत लक्षणम् ॥ ३०६
यथा काष्ठाद्यानारूढी न वन्हिलुपलभ्यते ।
एवं शिवोपि मूर्त्यात्मन्यनारूढ इति च स्थितिः ॥ ३०७
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ।
नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ३०८
तत एव हि पूजार्थं मूर्त्यात्मपरिकल्पनम् ।
मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ३०९
लिङ्गादावर्पितं द्रव्यमाचार्येऽपि विशेषतः ।
तत्तन्मूर्त्यात्मभावेन शिवोऽस्माभिरुपास्यते ॥ ३१०
यथानुगृह्यते सोऽपि मूर्त्यात्मा परमात्मना ।
तथा मूर्त्याम् ॥॥ न परतो वयम् ॥ ३११
लोकानुग्रहणायैव शिवेन परमेष्ठिना ।
सदाशिवादयः सर्वे मूर्त्यात्मानोऽप्यधिष्ठिताः ॥ ३१२
तेऽपि मूर्त्यात्मभावेन लब्ध्वा स्वयमनुग्रहम् ।
कुरुते चानुगृह्नन्ति शिवेन समधिष्ठिताः ॥ ३१३
आत्मनामेव भोगाय मोक्षाय च विशेषतः ।
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ ३१४
तथापि तेषामेवैते न शिवस्य तु सर्वथा ।
अग्नावपि समाविष्टे ॥। ख कालतः ॥ ३१५
इति नाग्निरसौ तत्र ताम्रसंसर्गकारणात् ।
नाग्नेरशुचिसंसर्गादशुचित्वमुपेयते ॥ ३१६
अशुचेस्त्वग्निसंयोगाच्छुचित्वमुपजायते ।
एवं शोध्यात्मसंसर्गान्नैवाशुद्धः शिवो भवेत् ॥ ३१७
शिवसंसर्गतस्त्वेष शोध्यात्मैव विशुद्धयति ।
अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः ॥ ३१८
मूर्त्यात्मस्वेवमैश्वर्यमीशस्यैव न चात्मनाम् ।
नहि काष्ठो ज्यलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ ३१९
काष्ठस्याङ्गारसंसक्तिरेवमत्रापि योज्यताम् ।
तत एव जगाच्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ ३२०
शिवावेशवशादेव शिवत्वमुपचर्यते ।
इत्यतो बहुधा भिन्नः शिवोऽनुग्रहकारणात् ॥ ३२१
तथा चैकात्मवादे तु श्रृऊयते हि तथा वचः ।
आत्मसंज्ञः शिवः शुद्धः एक एवाद्वयः सदा ॥ ३२२
इत्यतो द्वैतसिद्धान्तनिर्णयः स निरस्यते ।
अद्वैतमागमशिरोभिरुपासनायामुक्तं तवेति परमार्थतया न वाच्यम् ॥
भेदः स्फुटो गरुडमान्त्रिकयोरलीकं तदात्म्यभावनमथापि विषं प्रमार्ष्टिं ॥ ३२३
इति वेदान्तवाक्यानामावेशाद्वैत ईरितः ।
कृतार्थेन विरोधः स्यात् यथा पूर्वमुदाहृतम् ॥ ३२४
स एकः सर्वभूतेषु गूढो व्याप्तश्च सर्वतः ।
सर्वभूतान्तरात्मा च कर्माध्यक्षः स कथ्यते ॥ ३२५
तत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ।
शिवावेशवशादेव शिवत्वमुपश्चर्यते ॥ ३२६
इत्यतोऽत्र समावेशसाम्यमुक्तिश्च निश्चिता ॥ ३२७-1
अथ कृतचर्याक्रियायोगनिष्ठानां कर्मसाम्यमलपरिपाकवशात् शक्तिनिपातयुक्तानां साधकानामेव मुक्तिप्रतिपादनमितरेषां शिवज्ञानानुदयात् न मुक्तेः सम्भव इति । तदुक्तं च —
शिवचर्यादिसंपत्या शक्तिपातापवित्रितः ।
योग्यो निर्वाणदीक्षायां ततोऽनुष्ठानतत्परः ॥ ३२८
मुक्त एव भवेन्नान्ये वायव्यां हि तथा वचः ।
शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ॥ ३२९
अन्यथा तु तथा कृष्ण तत्र शुद्धिर्नजायते ।
न विद्या न शिवाचारो विमुक्तिर्न च सिद्धयति ॥ ३३०
तस्मादङ्गानि संवीक्ष्य शक्तिपातस्य भूरिशः ।
ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत् ॥ ३३१
यो तथा कुरुते मोहात् स विनश्यति दुर्मतिः ।
तस्मात् सर्वप्रयत्नेन गुरुः शिष्यान् परीक्षयेत् ॥ ३३२
लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः ।
सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी ॥ ३३३
आनन्दबोधयोर्योगमन्तःकरणविक्रिया ।
यया स्यात्कम्परोमाञ्cअस्वरनेत्राङ्गविक्रिया ॥ ३३४
शिष्यं तं लक्षणैरेभिर्गुरुः कुर्यात्परीक्षणम् ।
ततो दीक्षां गुरुः कुर्यात्सर्वपापविनाशिनीम् ॥ ३३५
दीपते येन विज्ञानं क्षीयते पाशबन्धनम् ।
तस्मात्संस्कार एवेदं दीक्षेत्यपि च कथ्यते ॥ ३३६
शाम्भवी चैव शाक्तो च मान्त्री चैव शिवागमे ।
दीक्षोपदिश्यते ज्ञेया शिवेन परमात्मना ॥ ३३७
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ।
सच्यः सञ्जायते प्रज्ञा पाशोपक्षयकारिणी ॥ ३३८
सा दीक्षा शाम्भवी प्रोता सा पुनर्भिद्यते द्विधा ।
तीव्र तीव्रतरा चेति पाशोपक्षयभेदतः ॥ ३३९
यया स्यान्निर्वृतिः सद्यः सेयं तीव्रतरा मता ।
तीव्रातु जीवितान्तं या पुंसां पाशविमोचिका ॥ ३४०
शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ।
गुरुणा योगमार्गेण शाक्ती या क्रियते मता ॥ ३४१
मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका ।
मन्दा मन्दतरा लेशात् कर्तव्या गुरुणा बहिः ॥ ३४२
तदेवं दीक्षितस्यात्र शैवकर्म च विश्रुतम् ।
नाशिवः शिवमभ्यासेन्नाशिवः शिवमर्चयेत् ॥ ३४३
नाशिवस्तु शिवं ध्यायेन्नाशिवः शिवमाप्नुयात् ।
तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ३४४
शिवोऽहमिति सञ्चिन्त्य शैवकर्मसमाचरेत् ।
कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुच्यते ॥ ३४५
ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ।
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥ ३४६
जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ।
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तराः ॥ ३४७
कर्मयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ।
भोगकामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥ ३४८
अकामो रुद्रभावेन भोगान्भुक्त्वा ततश्च्युतः ।
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥ ३४९
तपस्वीति ततस्तस्मिन्भोगान्भुङ्क्त्वा ततश्च्युतः ।
जपध्यानरतो भूत्वा जायते भुविमानवः ॥ ३५०
जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ।
ज्ञानं लब्ध्वाऽचिरादेव शिवसायुज्यमाप्नुयात् ॥ ३५१
तस्मान्मुक्तेश्चिराध्येतुं कर्मयज्ञो हि देहिनाम् ।
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥ ३५२
तस्मात्पञ्चसु यज्ञेषु ध्यानयज्ञरतो भवेत् ।
ध्यानं ज्ञानंच यस्यास्ति तीर्णं तेन भवार्णवात् ॥ ३५३
आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ।
हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ३५४
शिवज्ञानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ।
तदुभाभ्यामेव मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥ ३५५
द्वादशान्तेऽथवा मूर्ध्नि ललाटे भ्रूयुगान्तरे ।
नासाग्रे वाथवा नेत्रे कन्धरे हदयेऽथवा ॥ ३५६
नाभौवा शाश्वतस्थाने श्रद्धाशुद्धेन चेतसा ।
बहिर्योगविचारेण देवं देवींच पूजयेत् ॥ ३५७
अथैवं श्रूयते तत्र वायव्यां कुत्रचित्पुनः ।
नामाष्ठकमयो योगः शिवेन परिकल्पितः ॥ ३५८
तेन योगेन सहसा शैवी प्रज्ञा प्रवर्तते ।
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थितिम् ॥ ३५९
प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ।
प्रसादात्परमो योगः स शिवं चापरोक्षयेत् ॥ ३६०
शिवापरोक्ष्यात्संसारकारणं तु वियुज्यते ।
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमोभवेत् ॥ इति ॥ ३६१
अथात्मनां शिवेन विशिष्टाद्वैतसिद्धसायुज्यप्राप्तौ शिवावेशवशात्तेषां तेन साम्यप्रतिपादनं अन्यथैकात्मवादरीत्त्या सायुज्यमात्रसिद्धौ भूयो भूयः संसारप्राप्तिदोषादिसम्भवात् पुनः समुत्पत्यादिसाम्याभ्युपगमे त्वद्वैत श्रुतिविरोधादनित्यत्वादिदोषापत्तेः । तदुक्तं च —
श्रौतपाशुरते मुक्तिर्मलापायादनन्तरम् ।
शिवावेशवशादुक्तविशिष्टाद्वैतवर्त्मना ॥ ३६२
शिवधर्मान्वितो मुक्तः शिवैकज्ञानपूर्वकम् ।
आत्मानन्दमवाप्नोति तथैव वचनं श्रुतम् ॥ ३६३
अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः ।
मूर्त्यात्मसुएवमैश्वर्यमीशस्यैव न चात्मनाम् ॥ ३६४
तत एव जगत्यस्मिन् काष्ठपाषाणमृत्स्वपि ।
शिवावेशवशादेव शिवत्वमुपचर्यत ॥ ३६५
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम्।
यथापः स्रोतसा व्याप्ता यथारण्ये हुताशनः ॥ ३६६
एवं महात्मनात्मानमात्मन्यपि विलक्षणम् ।
सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति ॥ ३६७
तमेवमात्मनिष्ठं तं ये पश्यन्ति मुमुक्षवः ।
तेषामेव सुखं नित्यं नेतरेषां महात्मनाम् ॥ ३६८
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ।
इत्यादि बहुधा पूर्वं श्रौतशैवमुदाहृतम् ॥ ३६९
अथावेशवशदेव शिवधर्मान्वितो यदि ।
स चात्मा जड एव स्यादिति शङ्का न विद्यते ॥ ३७०
आत्मासौ चेतनो यस्मात् समाविष्टः शिवेन तु ।
ग्रहैराविष्टपुरुष इव वेत्ति करोति च ॥ ३७१
अन्यथासौ शिवः कुर्यात्पाशाविष्टः स्वकर्म च ।
घटाविष्टः पिशाचश्च तथैव वचनं श्रुतम् ॥ ३७२
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ।
न किञ्चिदपि कर्तव्यमिति साधुविनिश्चितम् ॥ ३७३
स्वभावादेव पर्याप्तं परानुग्रहकर्मणि ।
अन्यथान्यस्वभावेन न किमप्यनुगृह्यते ॥ ३७४
परं सर्वमनुग्राह्यं पशुपाशादिकं जगत् ।
परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ३७५
यत्तत्पुनरनुग्रह्यं परतन्त्रं तदिष्यते ।
अनुग्रहादृते नास्य भुक्तिमुक्तीत्वनन्यात् ॥ ३७६
मूर्त्यात्मानोऽप्यनुग्राह्याः इति पूर्वमुदाहृतम् ।
सदाशिवादयः सर्वे मूर्त्यात्मानोऽप्यधिष्ठिताः ॥ ३७७
तेऽपिमूत्र्यात्मभावेन लब्ध्वा स्वयं अनुग्रहम् ।
अन्यात्मनोऽनुगृहन्ति शिवेन समधिष्ठिताः ॥ ३७८
आत्मनामेव भोगाय मोक्षायेत्यादिकं पुनः ।
अतो हि परमुक्तौ तत् ज्ञानानन्दः श्रुतः स्फुटम् ॥ ३७९
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ।
एकोऽति पिप्पलं स्वादु परोऽनश्नन्प्रपश्यति ॥ ३८०
वृक्षेऽस्मिन् पुरुषो मग्नो मुह्यमानस्तु शोचति ।
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ३८१
तदास्य महिमानं च वीतशोकः सुखी भवेत् ।
रसो ब्रह्म रसं लब्ध्वाऽऽनन्दी भवति नान्यथा ॥ ३८२
निजानन्दं सदा पश्यन्नपश्यत्यखिलं जगत् ॥ ३८३-1
इति तत्समता तस्य विमुक्तस्य न सर्वथा ।
किन्त्वेकदेशतः सिद्धा यत एवं वचः श्रुतम् ॥ ३८४
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ।
एको बहूनां चाकामः कामकामान् प्रयच्छति ॥ ३८५
आत्मानं च पृथक् कृत्वा प्रेरितारं तथा पृथक् ।
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ३८६
पशोः पत्युश्च पाशस्य तत्त्वतोऽस्ति यदन्तरम् ।
ब्रह्मवित्तद्विदित्वैव योनेर्मुक्तो भविष्यति ॥ ३८७
न तस्य विद्यते कार्यं कारणं च न विद्यते ।
न तत्समो नाधिकश्च क्वचिज्जगति दृश्यते ॥ ३८८
सर्वज्ञत्वादि धर्मेषु चैवमेव यतो वचः ।
यदा विकासयत्येवरवौ पद्मानि भानुभिः ॥ ३८९
समं न विकसन्त्येव स्वस्वभावानुरोधतः ।
स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम् ॥ ३९०
न हि स्वभाविनोऽर्थस्यान्तं कार्येषु साधयेत् ।
सुवर्णमेकं साङ्गारं द्रावयत्यग्निसङ्गमः ॥ ३९१
एवं पक्कमलानेव मोचयेत शिवः परान् ।
यद्यथा भविंतु योग्य तत्तथा न भवेत्स्वयम् ॥ ३९२
विना भावयता भर्त्रा स्वतन्त्रः स ततो भवेत् ।
स्वभावविमलो यद्वत्सर्वानुग्राहकः शिवः ॥ ३९३
स्वभावमलिनो यद्वदात्मानो जीवसंज्ञिताः ॥ ३९४-1
इति वायव्यवचनमथ स्कान्दे विशेषतः ।
बध्वा पशूनिमान्पाशैः शरीरकरणादिभिः ॥ ३९५
मोचयेत सदा शम्मुः सर्वज्ञत्वादिशक्तिमान् ।
लीलासाधनभूतास्ते ब्रह्माद्याः पशवः प्रभोः ॥ ३९६
सर्वज्ञोऽयमतः शम्भुः सृजत्यवति हन्ति च ।
तृप्तो यतः सदादेवः सर्वानुग्राहकः स्मृतः ॥ ३९७
बोधोऽनादिः परस्येति बोधकः सकलात्मनाम् ।
स्वतन्त्रशक्तिर्देवेशः पक्कान्मोचयति प्रभुः ॥ ३९८
अलुप्तशक्तिमान्यस्मात्तस्मात् मोचनकारकः ।
अनन्ताः शक्तयोऽस्यैव निमित्तमखिलात्मनाम् ॥ ३९९
एवं षडङ्गवान् पञ्चब्रह्मरूपी सदाशिवः ।
ज्ञेयः पशुपतिः सर्वैः पशुपाशबिलक्षणः ॥ ४००
इत्येवमात्मनो भावाच्छिवसाम्यं न सर्वथा ।
अनेकेश्वरवादादि दोष एव ततोऽन्यथा ॥ ४०१
तथा तद्भागतः साम्ये यदन्यद् दूषणं श्रुतम् ।
केनचित्साधनेनैव मुक्तः शिवसमो भवेत् ॥ ४०२
इत्येवं केचिदिच्छन्ति वादिनो मुनिपुङ्गवाः ।
वार्तामात्रमिदं प्रोक्तं सर्वथा न तदर्थवत् ॥ ४०३
एकदेशेन वा जीवः किं वा सर्वात्मना समः ।
एकदेशेन चेत्सर्वे शिवाः संसारवर्तिनः ॥ ४०४
एकदेशेन स्र्वेषामस्ति साम्यं शिवेन हि ।
सर्वात्मना चेत्साम्यंस्यात् सर्वथा शिव एव सः ॥ ४०५
भेदकाकारशून्यत्वाद्भेदाभावाच्च वस्तुनः ॥ ४०६
तस्माज्जीवः स्वतः साक्षात् शिवः सत्यादिलक्षणः ।
इतयत्र भागतः साम्ये दूषणं तु न बन्धवत् ॥ ४०७
न सन्ति भाविनां यस्मादात्मानं सर्वथा यतः ।
न साम्या सर्वथा साम्ये परिपूर्णमनोरथाः ॥ ४०८
स्वरूपावाप्तिरेव स्यादिति मोक्षस्य लक्षणात् ।
तदेव भागतः साम्यं कामिकादौ च विश्रुतम् ॥ ४०९
शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ।
इत्याद्येकात्मवादे तु सफुटमुक्तं च दूषणम् ॥ ४१०
त्वन्मते परिविज्ञाननिष्पन्ना अपि मुक्तयः ।
भजते नाविसंवादमाम्भसा इव कृष्टयः ॥ ४११
समुत्पात्याऽथवा साम्ये सद्य एव विनश्यति ।
संक्रान्तौ तु न दृष्ठान्तो न मान व्यक्तिसाम्यतः ॥ ४१२
न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा इतीरणात् ।
तथा तत्कृत्यविरहात् सर्वज्ञत्वेन साम्यता ॥ ४१३
सर्वज्ञत्वं शिवस्यापि ज्ञेयं यत्सर्वकृत्यतः ।
एवं च सति षाङ्गुण्यसाम्यवादो निरस्यते ॥ ४१४
ज्ञत्वकर्तृत्वमूलेन षाड्गुण्यप्रतिपादनात् ।
न चास्य कृत्यविरहेऽप्यस्तु सर्वार्थवेदनम् ॥ ४१५
प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ।
इति न्यायादसाध्यार्थः साधनेऽप्यप्रवृत्तिमान् ॥ ४१६
जगत्कृत्यप्रवृत्तस्य किं तद्विज्ञानतः फलम् ।
एवं बहुविधाशेषवस्तुव्यापारदर्शिनः ॥ ४१७
जायते कापि संप्रीतिः सा हि तस्य प्रयोजनम् ।
मैवमेतादृशाज्ज्ञानात्प्रीतिलेशो न जायते ॥ ४१८
यन्नास्त्यतिशयः कश्चित्तद्गृहीतेषु वस्तुषु ।
अस्य मुक्तस्य सदृशा अन्ये मुक्ताः शिवेन ते ॥ ४१९
बद्धास्तद्यजनार्थाश्च न्यूनाः कोऽतिशयस्ततः ।
यदि सृष्ट्यत्ययं शम्भोः कृत्यातिशयदर्शनात् ॥ ४२०
तदा तत्साम्यवादोऽयं त्वया दत्तजलाञ्जलिः ॥ ४२१-1
सति ह्यतिशये शम्भौ नवतत्वान्तदर्शिनम् ।
कर्तुमर्हसि तस्मात्वं भग्ना सर्वज्ञताप्यसौ ॥ ४२२
किञ्cअ तच्छिवकृत्यस्य भानं चिदचिदात्मके ।
जगत्येव नcआस्पन्दे शिवे मुक्तान्तरेषु वा ॥ ४२३
तन्मुक्तस्य जगच्चेष्टा ज्ञानं तत्स्मरणात्मकम् ।
न्यायो ह्त्यनादौ संसारे किं न संभवति स्वयम् ॥ ४२४
अपि वा परमुक्तो तत् ज्ञानं योगविशेषतः ।
यथार्थं विश्वविज्ञानांज्जीवन्मुक्तः प्रजायते ॥ ४२५
समाधौ मलमुत्सार्य चान्यदेशचरित्रकम् ।
जायते येन तत्सर्वं योगिभिर्योगदर्शनम् ॥ ४२६
इत्यादि वचनं तत्र प्रमाणं परिदृश्यते ।
तदर्थेष्वनुभूतेष्वप्यस्ति नातिशयः कृतः ॥ ४२७
अस्तु वातिशयः कश्चिदस्य प्रीतिकरो न सः ।
दयाकरस्तु बद्धानां दर्शनाज्जायते हि सः ॥ ४२८
यथा तुल्यः शिवोऽप्येषां क्लेशं दृष्टवा कृपानिधिः ।
मुक्तिं करोति कालेन श्रूयते तच्च सर्वतः ॥ ४२९
जगत्सृष्टिस्थितिध्वंसं कारुण्याच्च शिवात्मकम् ।
एवं स्वभावमलिनान् सर्वदा दुःखिनः पशून् ॥ ४३०
स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ।
संसारस्येश्वरो नित्यं समूल्य निवर्तकः ॥ ४३१
संसारवैद्य इत्युक्तः स च तत्वार्थवेदिभिः ।
यथा वात्र द्वयोर्लोके समं कारागृहस्थयोः ॥ ४३२
विमुक्तोऽन्यतरं वीक्ष्य नासौ सुप्रीतिमृच्छति ।
किंतु तं दयते क्लेशात्तथा बद्ध च मुक्तिभाक् ॥ ४३३
तथा सति स चाकिञ्चित्करः सन्दुःखितः सदा ।
अन्यथा प्रीतियुक्तश्वेत्स हि दुष्टतमो भवेत् ॥ ४३४
तथा तज्ज्ञानतस्तुष्टिर्न शिवस्यापि विश्रुता ।
न शिवेन विना किञ्चित्प्रवृत्तिरिह विद्यते ॥ ४३५
तत्प्रेरितमिदं सर्वं तथापि न स तुष्यति ।
शक्तिराज्ञापिका तस्य नियन्त्री सर्वतो मुखी ॥ ४३६
तया ततमिदं विश्वं तथापि न स तुष्यति ।
वायव्ये हि ततश्चोक्तमेवं त्वन्मतवादिभिः ॥ ४३७
नात्मच्छेदोऽपवर्गो न च पशुशिवयोरैक्यमत्रापवर्गो ।
नाविद्याग्रासहनिर्नच गुणविलयो नापि पाषाणमुक्तिः ॥ ४३८
यद्बोधानन्दरूपत्रिमलविगमने व्यक्तमात्मस्वरूपं ।
तन्सायुज्येनवाच्यं शिवसदृशविभुः शैवतन्त्रेऽपवर्गः ॥ ४३९
पश्यन्वागविनान्तं तत् कर्मवैचित्रयवेष्टितम् ।
मुक्तस्तिष्ठति तुष्णीको यदिहास्य पुमर्थता ॥ ४४०
नह्यन्यतरदत्रेष्ठप्राप्त्यनिष्ठप्रहाणयोः ।
ततश्च शिवसाम्योक्तरीत्या युक्ति पुरःसरम् ॥ ४४१
विशिरान्तरतः सिद्धः सर्वज्ञत्वादिधर्मतः ।
शिव धर्मान्वितो मुक्तो जीवः शिवसमो भवेत् ॥ ४४२
इत्येवं संग्रहादेव श्रौतपाशुपतो मतः ।
दर्शितं चात्र वायव्यसंहितावचनादिभिः ॥ ४४३
१८। गारुड शैवम्
दृष्टादृष्टार्थसंसिद्धशास्त्रेषु सकलेषु च ।
लोकविश्वासहेतोस्तत् दुष्टार्थप्रतिपादनम् ॥ ४४४
गारुडं दक्षिणं वामं भूततन्त्रं तथैव च ।
चतुर्विधानि शास्त्राणि पुरुषाद्युदितानि च ॥ ४४५
अधः स्रोतांसि शैवानि मूर्तिभिः पुरुषादिभिः ।
विज्ञानकेवलैरुद्रैः प्रेर्यस्तत्पुरुषादिभिः ॥ ४४६
प्रवर्तितानि तान्येवं कामिकाद्यनुसारतः ।
अस्वतन्त्रतयोक्तानि तेषु गारुड उच्यते ॥ ४४७
तत्पूरुषब्रह्मरूपः पूजनीयो जगत्पतिः ।
तदुपासनया सिद्धप्रत्यक्षमिदमुच्यते ॥ ४४८
यन्मन्त्रौषधसंसिद्धं चिकित्साजातमुत्तमम् ।
दक्षिणे घोररूपं तु परं ब्रह्म जगत्पतिः ॥ ४४९
साधकैः पूजनीयः स्यात् स्वाभीष्टार्थप्रसिद्धये ।
तथा स्वाभीष्टसिध्यर्थ लोकेशत्रुजयादयः ॥ ४५०
वामे तु वामदेवः स्यात् पूजनीयो महेश्वरः ।
ततः प्रत्यक्षसिद्धार्थ रसबौद्धादयो मताः ॥ ४५१
सद्यो जातंतु यद्बहा भूततन्त्रे तु पूज्यते ।
भूतप्रेतचिकित्सादिः प्रत्यक्षार्थं इहोच्यते ॥ ४५२
इत्येवं संग्रहेणोक्ताः शैवास्ते गारुडादयः ।
अन्यथाप्यस्ति चेदेवं तत्र तत्रावधार्यताम् ॥ ४५३
१९। योगशैवम्
शिवयोगिमते मुक्तिः सारूप्यमिति कथ्यते ।
न तु सालोक्य सामीप्य पदावाप्तीति ये स्मृते ॥ ४५४
न श्रेष्टौ पुरुषार्थौ तावसंपूर्णमनोरथौ ।
शिवसारूप्यसंप्राप्तिः शिवत्वप्राप्तिरिष्यते । ४५५
सा मुक्तिः शिवसाम्येति सिद्धान्ते श्रूयते स्फुटम्।
शिवसमानतारूपं शिवविग्रह एव च । ४५६
सायुज्यमिति तत्प्रोक्तमित्यादि वचनादिह ।
सायुज्यमिति पर्यायः सारूप्यस्येति निश्चयात्। ४५७
अविरोधस्त्वनेकेशवाददोषोऽपि नो भवेत् । ४५८-1
शिवप्रसादतो मुक्ता जीवा यस्मात्तथा वचः ।
मुक्तात्मानोऽपि एव विज्ञेयः पञ्चमन्त्रतनुः ॥ ४५९
ततः सारूप्यमुक्तिर्या सा मुक्तिर्योगिनां मते ।
अणिमादि महासिद्धिप्रदा हि परमा मता । ४६०
योगशैवाश्च बहवो गृहयन्तेऽत्र चतुर्विधाः ।
सिद्धान्तोऽनादिशैवश्च तथाऽवान्तर एव च ॥ ४६१
योगशैवाः चतुर्विधाः एवं संग्रहतो मताः । ४६२-1
२० अवान्तरशैवम्
अवान्तरे तु पूर्वोक्तमङ्गीकृत्य यथोचितम् ।
॥॥ केशवेऽस्मिन् पदमुक्तिमते पुनः ॥ ४६३
प्रणवः शब्दरूपत्वाज्जडो वर्णादि पञ्चकम् ।
जीवानां ज्ञानहेतुः स्यात्तत्तद्विषयगोचरे ॥ ४६४
ब्रह्मादिप्रेरकैः प्रेर्यः परो बन्धस्तथागमः ।
अकारश्च उकारश्च मकारो बिन्दुनादकः ॥ ४६५
योगेन प्रणवं ज्ञेयं पञ्चदेवात्मकं परम् ।
अकारश्च उकारश्च अहङ्कारं बुद्धिरेव च ॥ ४६६
मकार ॥॥ क्तं नादात्मविग्रहम् ।
एवं पश्चप्रकारेण ओङ्कारोहृतमुच्यते ॥ ४६७
तज्जातस्वात्मबोधस्तु सजलस्य तरङ्गवत् ।
अकारं ब्रह्मदैवत्यं उकारं विष्णुदैवतम् ॥ ४६८
मकारं रुद्रदैवत्यं बिन्दुरीश्वर एव च ।
नादं सदाशिवं प्रोक्तमित्येताः पञ्च देवताः ॥ ४६९
चतस्रो वृत्तयस्तस्या याभिर्व्याप्तास्त्रिधासवः ।
आप्योरपरमो बन्ध एभ्यो मुक्तिस्तु नापरः ॥ ४७०
तन्निवृत्यविनाभूतो दृक्क्रियावारको यतः ।
इत्येवं न पतिर्नदिस्ततोऽन्यश्चेतनः शिवः ॥ ४७१
स स्तन्मादिस्वरूपेण पञ्चकृत्येन पञ्चधा । ?
तेषां शिवैकरूपत्वान्न वैषम्यं परस्परम् ॥ ४७२
नानारूपविकल्पेन ध्येयः सर्वार्थ ईश्वरः ।
तस्माद्विष्णुश्च रुद्रश्च ईश्वरश्च तथा शिवः॥ ४७३
पञ्चधा पञ्चदैवत्यं सकलः परिपठ्यते ।
येन येन हि रूपेण साधक संस्मरेत्तदा ॥ ४७४
तस्य तनमयतां याति चिन्तामणिरिवेश्वरः ।
इतयतो मुक्तिसिध्यर्थमुपासयासते तथा क्रमः ॥ ४७५
मूलाधारे स्थितो ब्रह्मा नाभ्यन्तं व्याप्य तेजसा ।
नाभिस्थानगतो विष्णुः कण्ठानतं तु स्वतेजसा ॥ ४७६
कण्ठे रुद्रो ललाटान्तं स्थितो व्याप्य स्वतेजसा ।
ललाटे तु महेशः सयाद्ब्रह्मरन्ध्रावधि स्थितः ॥ ४७७
तदूर्ध्वे तु सदेशः सयाद्व्याप्य सर्वं स्वतेजसा ।
इति स्वस्वस्थले ध्येयाः स्वतेजोमण्डलान्विताः ॥ ४७८
२१। शुध्दशैवयोगम्
अथात्र शुद्धशैवाख्ययोगपक्षो निरूप्यते ।
प्रागुक्तपुत्रमार्गेषु शुद्धशैवस्य यन्मतम् ॥ ४७९
तन्मते सिद्धमर्थं तदङ्गीकृत्य यथोचितम् ।
पशुः पाशश्च पूर्वोक्तः पतिरेव सदाशिवः ॥ ४८०
महेश्वरादिदेवास्तु तदाज्ञापरिपालकाः । ४८१-1
तदर्चायां तु सामीप्यं ध्यानात्सारूप्यमेव च ।
तत्तु तत्समतामुक्तिः सा संपूर्णमनोरथा ॥ ४८२
शिवसमानतारूपं शिवविग्रहमेव च ।
सायुषार्थेषु परमस्तत्प्राप्तौ साधनात्मकः ।
योग एव स कर्तव्यो मृगेन्द्रादिषु विश्रुतः ॥ ४८३
अथवात्मवतां मत्वा स्वाधिकारं सुदुष्करम् ।
यतेरन्नात्मवत्तायै देशिकाद्या जिगीषवः ॥ ४८४
तदात्मवत्वं योगित्वं जिताक्षस्योपपद्यते ।
प्राणायामाद्यनुष्ठानाज्जिताक्षत्वं शनैः शनैः ॥ ४८५
प्राणायामः प्रत्याहारः धारणाध्यानवीक्षणे ।
जपः समाधिरित्यङ्गी योगोऽष्टमः स्वयम् ॥ ४८६
प्राणः प्रागुदितो वायुरायामोऽस्य प्रवेदनम् ।
प्रेरणा कृष्टिसंरोधलक्षर्णं क्रतुदोषकृत् ॥ ४८७
ततः सुखलवास्वादे तेषां वृत्तस्य चेतसः ।
प्रत्याहारो विधातव्यः सर्वतो विनिवर्तनम् ॥ ४८८
तेनेन्द्रियारथसंसर्गविनिवृत्तोश्चितो मतिः ।
धारणा योग्यतामेति पदे सवेच्छाप्रकल्पिते ॥ ४८९
चिन्ता तद्विषयध्यानं तच्चादिष्टं मुहुर्मुहुः ।
दृष्टमित्यत्र मन्त्राणि तानि मूर्धादितः स्मरेत् ॥ ४९०
ऊध्र्वप्राक् दक्षिणादीनि पञ्चेशानेन कल्पयेत् ।
उत्तमाङ्गानि वक्त्राणि वक्त्राम्बुजचतुष्टयम् ॥ ४९१
इत्यादि वचनात्स्पष्टमर्चनापटलादिषु ।
तदेकतानतामेति स समाधिर्विधीयते ॥ ४९२
जपस्तद्भाषणं ध्येयं संमुखीकरणं मुने ।
ऊहो हि वीक्षणवस्तुविकल्पानन्तरोदितः ॥ ४९३
यदा वेत्ति पदं हेयमुपादेयं च तत्स्थितेः ।
तत्पोषकं विपक्ष च यश्च तत्पोषक परम् ॥ ४९४
इत्यादिवचनाच्छुद्धशैवयोगोऽवधार्यताम् ।
एवं योगक्रमस्त्वन्ययोगिनामपि संमतः ॥ ४९५
तत्तन्मतानुसारेण सकलध्यानिनां नृणाम् । ४९६-1
२२। अनादिशैवम्
अनादिशैवसिद्धान्ते त्वङ्गीकृत्य यथोचितम् ।
पूर्वोक्तेषु विशेषेण कथ्यते लेशतः स्फुटम् ॥ ४९७
शुद्धविद्यादितत्वानां जडता न शिवात्मता ।
नादस्य ज्ञानरूपत्वं स शिवः स्यादिति श्रुतिः ॥ ४९८
न तु शब्दादृते पुंसः प्रत्ययोऽस्ति कदाचन ।
शब्दानुविद्धमेवेह विश्वज्ञानंप्रदृश्यते ॥ ४९९
इति तज्ज्ञानसंसिद्धिः सूक्ष्मादिक्रमतः स्फुटम् । ५००-1
तदेव प्रणवाकारं शिवं चैव तथागमः ।
नादबिन्दूद्भवाकारं ओङ्कारं शुद्धतत्त्वकम् ॥ ५०१
शुद्धज्ञानं स्वताज्ञांशं शुद्धवर्त्मनि कारणम् ।
ज्ञानबीजं पराकारमोङ्कारं प्रभुरीश्वरः ॥ ५०२
तत्सादाख्यशिवाकारं कलापञ्चकसम्भवम् ।
अकारोकारमकारबिन्दुनादश्च पञ्चमम् ॥ ५०३
ओङ्कारं स्वकलाकारं मध्ये वाक्पञ्चकोद्भवम् ।
महासूक्ष्मान्नादमुत्पन्न सूक्ष्माद्बिन्दुसमुद्भवम् ॥ ५०४
पश्यन्ती तन्मकारोजमुकारो मध्यमोदयम् ।
अकारोत्पन्नावैखर्या आदिवाक् पञ्चसाधनम् ॥ ५०५
तन्मध्ये तु महेशश्च रुद्रविष्ण्वात्मभूरिति । ५०६-1
पञ्चमस्य कलाशाक्तिः पञ्चकृत्योद्भवं तथा ।
सृष्ट्यादि पञ्चकृत्यर्थं ब्रह्मादिदेवसम्भवम् ॥ ५०७
षट्त्रिंशत्तत्वसंभिन्ना कुटिला शक्तिरुद्भवा ।
कुटिला कुण्डली व्याप्ता कुण्डली प्रणवोदिता ॥ ५०८
इति सर्वजगत्कर्ता शिवो नादात्मकः स्मृतः ।
स्वस्वावसरभेदेन श्रूयते द्विविधः पुनः ॥ ५०९
॥॥ शब्दब्रह्मपरं तु यत् ।
परं तत्तत्वमुद्दिष्टं ब्रह्मशब्देन शब्दितम् ॥ ५१०
शब्दब्रह्ममयं यत्तत् सदाशिवमिति स्मृतम् ।
सदाशिवतनुः साक्षात् प्रणवः स्याज्जनार्दन ॥ ५११
सर्वकारणभूतोऽसौ देवदेवः सदाशिवः ।
तन्नादो परनादः स्यात् नान्यथेति तथागमः ॥ ५१२
नादब्रह्म शब्दार्थं ध्यायेदोङ्कारमीश्वरम् ।
इत्येवं वैदिकेऽप्युक्तं श्रूयते च शिवागमे ॥ ५१३
ममैषा परमा मूर्तिः नादसंज्ञा वरानने ।
चिन्त्यते योगिभिर्नित्यमपुनर्भवकाङ्क्षिभिः ॥ ५१४
शब्दतत्वे परेलीने ओङ्कारा गतमानसः ।
परमोक्षमवाप्रनोति शब्दस्यैवार्थसिद्धये ॥ ५१५
तत्सिद्धौ लययोगी स्यात् श्रृयते तस्य वैभवम् । ५१५-1
ब्राह्मणानां शतं पुण्यमधिकं वेदवेदिनाम् ।
तेषां सहस्रगुणिताः शैवतन्त्रेषु दीक्षिताः । ५१७
दीक्षितानां च सर्वेषां यजमानो विशिष्यते ।
तेभ्यश्च यजमानेभ्यो भस्मलेपी विशिष्यते । ५१८
भस्मलेपिसहस्राणां पूजकोऽप्यधिको भवेत् ।
पूजकानां च सर्वेषां मन्त्रवेत्ता विशिष्यते । ५१९
मन्त्रवर्णविदां तेषामध्वज्ञाता विशिष्यते ।
अध्वविदां सर्वेषां प्रासादज्ञो विशिष्यते ॥ ५२०
प्रासादज्ञानवेदीनां लययोगी विशिष्यते ।
लययोगवतां पुंसां प्राणलिङगी विशिष्यते । ५२१
इत्येवं नासतो मुक्तिः शुद्धतत्त्वसमाश्रया ।
अथोपास्तिक्रमः शैवे योगदीक्षापुरःसरम् । ५२२
ज्ञेयं गुरुमुखादेव शक्तिपातपवित्रितैः ।
इत्यनाद्याख्यशैवार्थः कथितः संग्रहादिह ॥ ५२३
२३। सिद्धान्तशिवयोगः
अथ सिद्धान्तशैवस्तु संग्रहेण निगद्यते ।
योगसामान्यतः प्रोक्तमङ्गीकृत्य यथोचितम् । ५२४
पतिः पशुश्च पाशश्च पदार्थस्त्रिविधो मतः ।
अशुद्धाध्वा तु पाशः स्यात् कलाभित्तिस्तदुच्यते । ५२५
पुस्त्वं पशुरेवस्यान्नत्वन्याश्चेतनो मतः ।
पुंस्तत्वं च विना भोगानुपपत्तेः कञ्चित् क्वचित् । ५२६
तस्यात्मेत्यादि संज्ञास्तु तस्यावसरभेदतः ।
तदेवं शुद्धशैवाख्ये सिद्धान्ते भ्रूयते स्फुटम् । ५२७
कलोद्बलितचैतन्यो विद्यादर्शितगोचरः
रागेण रख्रितश्चापि बुद्धयादिकरणैर्युतः ॥ ५२८
मायाद्यवनिपर्यन्ततत्वभूतात्मवर्त्मनि
भुङ्क्ते तत्र स्थितान्भोगान् भोगैकरसिकः पुमान् । ५२९
तत्प्रेरकः पतिः सोऽयं शिवतत्त्वात्मको मतः ।
शिवतत्वं यथाप्रोक्तं प्रेरकाख्यमिति श्रुतेः ॥ ५३०
विदन्त्यक्षाणि पुंसार्थान्न स्वयं सोऽपि शम्भुना ।
इत्येवं तत्प्रयोगश्च मुक्त्युपायस्तु कथ्यते ॥ ५३१
पतिस्तु शिवतत्वाख्यं पञ्चधा कार्यभेदतः ।
ज्ञानं नादस्वरूपं च क्रियारूपं तु शक्तिकम् ॥ ५३२
ज्ञानक्रियासमावेशात् सादाख्यं तत्वमुद्भवम् ।
ज्ञानन्यूनं क्रियाधिक्यं तत्वं माहेश्वरं भवेत् ॥ ५३३
योगाधिक्य क्रियान्यूनं शुद्धविद्याख्यरुद्रकः ।
शुद्धतत्वमिति प्रोक्तं नित्यं स्वातन्त्र्यविग्रहम् ५३४
कृत्यभेदं विना नैवमेतत्पूर्वा पराक्रमः ।
इति नानाविधस्त्वेकः शिवो ध्येयस्तथागमः ॥ ५३५
स तु निरञ्जनः शान्तः सर्वज्ञः सर्वगः प्रभुः । ५३६-1
नानारूपविकल्पेन शिवशक्त्योः प्रधानता ।
सर्वेषामपि मूलत्वादिति ध्येयं मुमुक्षुभिः ॥ ५३७
तद्व्यष्टिस्थानतो वाथ समष्टिध्यानतः पुनः ।
एवं हि श्रृऊयते शैवे शुद्धविद्या हिरण्मया ॥ ५३८
महेश्वरः श्वेतभासः सादाख्यं स्फटिकोपमम् ।
बिन्दुनादस्वरूपं तु श्वेतरक्तप्रकाशकम् ॥ ५३९
इति तद्व्यष्टितो ध्यानं समष्टिध्यानमुच्यते ।
कुन्देन्दुतुहिनप्रख्यं वृत्तं सर्वार्थदर्शकम् ॥ ५४०
शिवतत्वं स्मृतं ह्येतत्पञ्चवक्त्रं चतुर्भुजम् ।
एतद्ध्यानादणोर्मुक्तिरणिमादि पुरःसरम् ॥ ५४१
तदेवं ध्यानतः सिद्धौ भौतिकं तु नियामकम् ।
यस्मान्नाचेतनं तत्वं सिद्धमप्युपकारकम् ॥ ५४२
शैवं वपुरिति ध्यायेदतो यत्तत्समीहितम् ।
इत्येवं संग्रहेणायं सिद्धान्तः कथितः स्फुटम् ॥ ५४३
२४। गुणशैवम्।
अथात्र गुणशैवे तु जगत्सर्वं गुणान्वितम् ।
कैवल्यं साधकानां तत्त्रिमूत्र्याराधनात् स्मृतम् ॥ ५४४
इत्ययं किं प्रतिपादयति? शुद्धशैवभेदेषु ॥॥॥ सिद्धपदमुक्ति पादेषु प्रागुद्दिष्टक्रमेण प्रथमं गुणशैवमतं दर्शयति । अत्रगुणशैवो नाम शुद्धशैव एव । तन्मते विश्वस्य गुणान्वितत्वप्रतिपादनं प्राकृतप्रपञ्चं विना तदूर्ध्वकलादि तत्वतात्विकार्थानामभ्युपगमात् । तदुक्तं च —
न तदस्ति जगत्यस्मिन् वासतु किंचदचेतनम ।
यन्नाव्याप्तं गुणैर्यस्मिन् नैको वा मिश्रको गुणः ॥ ५४५
इति मृगेन्द्रशास्त्रोक्तेर्जगत्सर्वं गुणान्वतम् ।
तथा भारतपक्षादौ विस्तरेण च दर्शितम् ॥ ५४६
ततस्तदूर्ध्वमर्धोनकलादि बहुधेरितः ।
तथा चास्मिन्मते तत्वं प्रधानाख्यं च कर्म यत् ॥ ५४७
तिरोधायी च पाशः स्यात् सकलः पशवो मताः ।
देवादिस्थावरान्ताश्च विज्ञानप्रलयाकलाः ।
ब्रह्मा विश्णुश्च रुद्रश्च जगत्कर्ता तथागमः ॥ ५४८
अचेतनं विभुं सूक्ष्मं भोग्यं साधारणं ध्रुवम् ।
चतुविंशकमेकं च प्रधानगुणलक्षणम् ॥ ५४९
पुंसां भोगापवर्गार्थिमीश्वरेच्छा प्रचोदितम् ।
प्रधानाच्च भवेद्बुदिधः जगद्धेतुशिवाज्ञया ॥ ५५०
बुद्धेरपि च संक्षोभादहङ्कारखिधा भवेत् ।
अहङ्काराच्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च ॥ ५५१
सूक्ष्मेभ्यः पञ्चभूतानि तेभ्यः स्थूलमिदं जगत् ।
चतुर्विंशकमव्यक्तं पुरुषः पञ्चविंशकः ॥ ५५२
क्वचित्कलादिभेदानां कथनं तु शिवागमे ।
अवस्थान्तरभेदेन प्रकृतेरिति सम्मतम् ॥ ५५३
अथ तत्पुरुषश्चात्र श्रुतो लक्षणपूर्वकम् ।
किञ्चित्कर्ता स किञ्चिज्ज्ञः पुरुषः पञ्चविंशकः । ५५४
न करोति यतः सर्वं स भोग्यं च करोति च ।
अतः स्वातन्त्रयवान्नायं किञ्चित्कर्ताणुरेवच ॥ ५५५
न वेत्ति तत्त्वतः सर्वं तेनाज्ञः पुरुषः स्मृतः ।
इति । अथ त्रिमूत्र्याराधनादेव मुक्तिप्रतिपादनं तदन्यत । या महेश्वरादि देवतानभ्युपगमात् । तदुक्तं च
गुणशैवमते कर्ता रुद्र एकस्तथा पुनः ।
त्रिबिधः कृत्यभेदेन गुणाविष्टस्तथागमः । ५५६
संहृत्य भुवनं विश्वं गोप्तान्तः संचुकोच सः ।
एक एव तथा रुद्रो न द्वितीयश्च कश्चन । ५५७
इति स्वायंभुवे प्रोक्तः शिवधर्मोत्तरे पुनः ।
रुद्रः षट्वंशकः प्रोक्तः शिवः परमकारणः । ५५८
प्रधानादभवद्रुद्रः तथा विष्णुः पितामहः ।
सत्कार्यकरणोपेता स विशुद्धा महेश्वराः ॥ ५५९
जगतः कारणत्वेन त्रयो देवा व्यवस्थिताः ।
इत्येवं च त्रयश्चात्र समा एव परस्परम् । ५६०
तदुपासनया मुक्तिस्तत्तदागमवर्त्मना ।
वैदिकोऽपि च शैवेन नान्यथा मुक्तिरिष्यते । ५६१
इन्द्रादित्यादि देवा ये तदाज्ञापरिपालकाः ।
तदेतद्गुणशैवं तु ज्ञानसिद्धौ च विश्रुतम्। ५६२
जटाचूडामणिर्भस्मधारण भस्ममिश्रकम् ।
त्रिगुणैश्च त्रिमूर्त्तिः स्याद्भावानां गुणशैवकम् । ५६३
२५। परकैवल्यम्
अथातः परकैवल्यमते निष्कळसेवया ।
परमुक्तिः त्रिधा सा तु संग्रहान्नवधा पुनः ॥ ५६४
इत्ययं किं प्रतिपादयति? प्रागुपदिष्टक्रमेण सामान्यतः शुद्धशैवभेद-कर्मावरण सिद्धान्तकलितपरमुक्ति सिद्धान्तप्रकटनपूर्वकं तद्विभागं दर्शयति । अथ इत्यधिकारार्थः । अतः परमुक्तिमतात्परम्परामुक्तिमतप्रकरणे तन्मते निष्कलोपास्यैव मुक्तिः सा च परा इति प्रतिपादनम् । प्रगुक्तपदमुक्तवादरीत्या सकलोपास्तितः प्राप्तपदमुक्तेर्विनाशित्वात्। तदुक्तं च —
अथातः शुद्धशैवोक्तकर्मावरणसंभवः ।
परमुक्तिमतोऽयं च सङ्ग्रहेण निगद्यते । ५६५
पूर्वं सामान्यतः प्रोक्तं शुद्धशैवमते पुनः ।
पूर्वोक्तेतु मते सर्वमङ्गीकृत्य यथोचितम् । ५६६
पतिः पशुश्च पाशश्च पदार्थस्त्रिविधो मतः ।
पतिस्तत्र शिवः प्रोक्तो निष्कलो निर्मलः श्रुतः । ५६७
अप्रमेयमनिर्देश्यमनौपम्यमनामयम् ।
सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् । ५६८
अप्रमेयमनन्तत्वादनिर्देश्यमलक्ष्यतः । ५६९-1
अनौपम्यमसादृश्याद्विमलत्वादनामयम् ।
सूक्ष्मं चानुपलभ्यत्वाद्व्यापकत्वाच सर्वगम् । ५७०
नित्यं कारणशून्यत्वादचलत्वाच्च तध्रुवम् ।
अव्ययं परिपूर्णत्वात्स्वामिभावात्तथेश्वरम् । ५७१
शिवतत्त्वमिदं प्रोक्तं सर्वाध्वोपरी संस्थितम् ।
इत्यतः सकलत्वादि निरस्तं प्रागुदीरितम् । ५७२
शिवस्य निष्कलस्यास्य कर्तृत्वमपि युज्यते ।
सृष्ट्यादावात्मनो देहचेष्टायां युज्यते यथा ॥ ५७३
अतो हि श्रृऊयते स्पष्ट मृगेन्द्रादौ तथैव च ।
अथानादिमलापेतः सर्वकृत्सर्वविच्छवः ॥ ५७४
पूर्वव्यत्यासितस्याणोः पाशजालमपोहति ।
करणं च न शक्तयन्यच्छक्तिनिर्गचेतनान्वितः ॥ ५७५
विषया नियमादेकं बोधकृत्ये च तत्तथा ।
लोके वपुष्मतो दृष्टंकृत्यं स्यादस्मदादिवत् ॥ ५७६
मूलाद्यसम्भवाच्छाक्तं वपुर्नो तादृशं विभोः ।
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः ॥ ५७७
ईशतत्पुरुषाधोर वामाजैर्मस्तकादिकम् ।
यथा कालो ह्यमूर्तोऽपि दृश्यते फलसाधकः ॥ ५७८
एवं शिवो ह्यमूर्तोऽपि कुरुते कार्यमिच्छया ।
सृष्ट्यर्थं सर्वतत्वानां लोकस्योत्पत्तिकारणम् ॥ ५७९
योगिनामुपकाराय स्वेच्छया गृह्यते तनुम् ।
इत्यस्य सकलत्वेऽपि कश्चिद् दोषो न विद्यते ॥ ५८०
पशुरात्मा विभुर्नित्यः सकलः प्रलयाकलः ।
विज्ञानाकल इत्येव त्रिबिधः स्यात्तथागमः ॥ ५८१
आत्मनो व्यापिनोऽनन्ताश्चिद्रूपाः पशवस्त्रिधा ।
सकलाकलभेदेन एकद्वित्रिमलाः क्रमात् ॥ ५८२
मायाकर्ममलच्छन्नः सकलः सोऽभिधीयते ।
सृष्टौ कलादियोगा ये तथैते सकला मताः ॥ ५८३
मलकमाव्ऱ्^तो यस्तु स भवेत्प्रलयाकलः ।
मलैकबन्धसम्बन्धो विज्ञानाकलः पशुः ॥ ५८४
आथात्मनां विभुत्वं च पौष्करादिषु विस्तृतम् ।
व्यापकत्वे ह्यणौ सिद्ध्यद्धर्मव्यापकता भवेत् ॥ ५८५
अन्यत्रानुपलब्धस्य देहाद्व्यापकता कुतः ॥ ५८६आ
ईश्वरः —
न देहपरिमाणत्वमाणूनामुपपद्यते ।
तस्य देहाद्बहिर्देशे स्थितार्थग्राहृत्वतः ॥ ५८७
किञ्चाभिव्यञ्जको यत्र यत्र देहेन्द्रियादिकम ।
तत्र सर्वत्र तत्कार्यद्रुष्टेर्व्यापकतात्मनः ॥ ५८८
व्यापकोऽयममुर्त्ततवाध्याथा व्योम ततस्तथा ।
तद्धर्मभूतं ज्ञानं च व्यापकं विषयोन्मुखम् ॥ ५८९
इत्यादि बहुधा स्पष्ट साधितं तत्तथा सति ।
पुर्यटकसमायोगादवस्थादिश्च युज्यते ॥ ५९०
पाशाः पञ्चविधा ज्ञेयाः प्रागुक्तेनैव वर्त्मना ।
तच्छुद्धाध्वपदप्राप्तिरपि बन्ध इति स्मृतः ॥ ५९१
मलश्चास्ति पशूनां तत्सद्भावे श्रूयते श्रुतिः ।
आत्माऽन्तःकरणादन्योप्यन्वितो मन्त्रिभूपवत् ।
अवसथापञ्चकसथोऽतो मलबध्दसवदृक्क्रियः ॥ ५९२
तदेकं सर्वभूतानामनादि निबिडं महत् ॥ ५९३
प्रत्यात्मस्थस्वकालान्तोपाधिशक्तिसमूहवत् ।
इत्येवं पाशबद्धस्य कुतश्चित्कारणादणोः ॥ ५९४
संप्राप्तशिवपुण्येन कर्मसाम्यस्य सम्भवे ।
मलपाकेन सार्धं तद् दीक्षा योग्यो भवेन्नरः ॥ ५९५
दीक्षा तु योगमार्गेण न पुनः कर्मवत्र्मना ॥ ५९६-1
योगमार्गेण दीक्षायां पुनरष्टाङ्गयोगयुक् ।
निष्कलोपासनं कृत्वा परमुक्तिमवाप्नुयात् ॥ ५९७
न कर्तव्यं क्रियाजालं योगिनामिति च श्रुतिः ।
बहिश्चितं निर्वायैव विन्दन्लीकेन सीदति ॥ ५९८
यद्यद्यपेक्षया यस्तु कुरुते कर्म सञ्चयम् ।
तद्गतिर्जयिते तस्मान्निराकारं विचिन्तयेत् ॥ ५९९
व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् ।
संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥ ६००
आत्मस्थं यः शिवंत्यक्त्वा बहिष्टं यजते शिवम् ।
हस्तस्तं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ६०१
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ।
अज्ञानां भावनार्थाय प्रतिमा परिकल्पिता ॥ ६०२
इति सामान्यतः प्रोक्तः परमुक्तिमतस्तिवह ।
विशिष्योपरि वक्षयामस्तत्तद्वादानुसारतः ॥ ६०३
२६। ईश्वरैक्यसिद्धान्तः
तत्रेश्वरैक्यसिद्धान्ते त्वङ्गीकृत्य यथोचितम् ।
प्रागुकतं परकैवल्यं शिवेनैक्यमितीरितम् ॥ ६०४
इत्ययं किं प्रतिपादयति? शुद्धशैवभेदकर्मावरणसिद्धान्त
सिद्धपरमुक्तिपादे प्रागुद्दिष्टक्रमेण प्रथममीश्वरैक्यवादं
दर्शयति । अथात्र ईश्वरैक्यवादे प्रागुक्तपरमुक्तिसामान्योक्तेषु
यथोचितमुपगमकथनं आणवमलादेरभ्युपगमात् । तदुक्तं च —
अथेश्वरैक्यवादस्तु संग्रहेण निगद्यते ।
पूर्वं सामान्यतः प्रोक्तमङ्गीकृत्य यथोचितम् ॥ ६०५
अनादिनिर्मलस्त्वीशस्तद्वदात्मा च निर्मलः ।
नायं तद्वज्जगत्कर्ता यदेवं श्रूयते श्रुतिः ॥ ६०६
शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ।
पाशाश्चतुर्विधा ज्ञेया नत्वाणवमलो मतः ॥ ६०७
मायैव सहजत्वेन रुणद्धि पशुदृक्क्रिये ।
किमन्येनाणनेनैवं श्रृऊयते हि शिवागमे ॥ ६०८
माया कम्बुकवज्ज्ञेया तुषवच्च कलादिकम् ।
शिवेच्छाविधिसंसिद्धौ मायैव सहजो मलः ॥ ६०९
रुणद्धि पुरुषं माया साऽनादिभववासना ।
मायाच्छादितच्चैतन्यः सः तन्त्रेऽस्मिंशच्च निर्मलः ॥ ६१०
तस्मान्मोहादयश्चास्या मायायास्तु गुणा मताः ।
नत्वाणवमलत्यैव सुप्रभेदे हि ते श्रुताः ॥ ६११
मोहो मदश्च रागश्च विषादश्चैव शोषितम् ।
हर्षकी हि च वैचित्र्यं सप्तैते सहजा मलाः ॥ ६१२
तदेवं पुरुषोऽनादिनिर्मलः स्यात्तथापि सः ।
बद्धः शुद्धैरशुद्धैश्च मायाकायैः शिवेच्छया ॥ ६१३
आर्जितैः पुण्यपापैश्च तत्कर्मानुगुणः पशुः ।
कदाचित्कर्मसाम्ये च शक्तिपाते च सम्भवे ॥ ६१४
मुमुक्षुर्नैष्टिकाचार्यज्ञानदीक्षादिदीक्षितः ।
सदुपायात्तदुद्दिष्टान्मुक्त एव न संशयः ॥ ६१५
इति अथात्र परमुक्तेः शिवेनैक्यप्राप्तिकथनं ततोऽन्यथापद
प्राप्तिकथने तदुपरितनभावेन तत्प्राप्तिकामनानन्तरयोगतः संपूर्णमनोरथाभावात्, तत्कर्मक्षये विनश्वरत्वात्, देहसद्भावेन बन्धनिवृत्यभावाच्च । तदुक्तं च —
शिवेनैक्यं तु कैवल्यमैक्यं शैवमते नृणाम् ।
निष्कलोपासनादेव तत्प्राप्तिश्च श्रुतागमे ॥ ६१६
शिवं परमकल्याणं निष्कलं निर्मलं प्रभुम् । ६१७-1
चिदानन्दमयं नित्यं तेजोरूपं विचिन्तयेत् ।
पशुभावं परित्यज्य शिवोऽहमिति भावयेत् ॥ ६१८
विज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः ।
नादेयहेयोऽप्ययमप्रतर्क्यस्तिष्ठन्सदा ब्रह्ममयो विशोकः ॥ ६१९
इत्यादि वचनात्तत्र तथा मुक्तिश्च विश्रुता ।
यथार्कद्युतिरभ्रेषु तथा पाशेष्विहात्मचित् ॥ ६२०
मग्ना मुह्यति कालेन तदपाये तु भासते ।
शिवो संयोजितं रूपं सायुज्यमिति कथ्यते ॥ ६२१
ज्ञानात्सायुज्यं एवं तु तोये तोयं यथा तथा ।
शिवेनैक्यं गतः सिद्धस्तदध्नस्ववृत्तिकः ॥ ६२२
मलमायाद्यसंसृषटौ भवति स्वानुभूतिमान् ।
इत्येवं न पदप्राप्तिर्मुक्तिः सा तु विनश्वरा ॥ ६२३
तदेवमैक्यशैवस्तु कथितः संग्रहादिह । ६२४-1
२७। पाषाणवादम्।
पाषाणवादिसिद्धान्ते मुक्तिः पाषाणवत्स्थितिः ।
भेदवादिमते मुक्तिः नृणां निर्मलता मता । ६२५
इत्ययं किं प्रतिपादयति? पाषाणभेदवादो दर्शयति । अत्र पाषाण शैवमते त्वीश्वरैक्यवादोक्तेषु यथोचितमङ्गीकृत्य पाषाणवत्स्थितिरेव मुक्तिरिति प्रतिपादनम् । आणवमलमुपगम्य तस्यानादित्वेन विनाशायोगात्तदुक्तपरमेश्वरैक्यासंभवात् । तदुक्तंच —
पाषाणशैवसिद्धान्तः सङ्ग्रहेण निगद्यते ।
ऐक्यशैवोक्तसिद्धान्ते त्वङ्गीकृत्य यथोचितम् । ६२६
पतिरनादिमुक्तः स्यान्न तथा पशुरुच्यते ।
पञ्चपाशेन बद्धत्वात्समलः स्यात्तथाऽगमः । ६२७
मलः कर्म च माया च शक्तिश्चैव तिरोधिका ।
बिन्दुश्च पञ्च पाशाः स्युयैरेवं बध्यते पशुः । ६२८
तन्मायाव्यतिरिक्ताणोर्मलश्च सहजः श्रुतः ।
सहजोऽणोर्मलो माया कार्यमागमिको मलः ॥ ६२९
माया नो मोहिनी प्रोक्ता स्वतः कार्यातप्रकाशिका ।
यतः क्रमेण संश्लिष्टा चैतन्यद्योतिकात्मनः ॥ ६३०
मलं विदार्य चिद्व्यक्तिरेकदेशो भवत्यणोः ।
चितेश्चित्सहजो धर्मः स चानादिमलावृतः ॥ ६३१
ताम्रकालिकवद्योगात्सहजः समुदाहुतः ।
इत्यतो मलधर्माःस्युः प्रोक्ता मोहादयोऽपि च ॥ ६३२
तथा च प्रागुदाहृतवचनस्यैवमूह्यताम् -
माया कम्बुकवच्चेति न रुग्वच्छतिरोघकम् ॥ ६३३
प्रत्यक्केवलानां तु नृणां प्रलयकालतः -
शक्तिस्वरूपमात्रेण मायायाः समवस्थितेः ।
तदन्तर्गतभावेन तथात्मुपपद्यतेः ॥ ६३४।
यदुक्तं तु ततः पश्चात्तुषवच्च कलादिकम् ।
इत्येतद्वचनं पूर्वकर्मविषयभोगतः ॥ ६३५
कला(दि) कञ्चुकसम्बन्धस्तुषावत्स्यादिति स्थितम् ।
शिवेच्छाविधिसंसिद्धौ मायैव सहजो मलः ॥ ६३६
इत्यत्र परमेशेच्छा विधिः कर्म तथा सति ।
तत्कर्मभोगसिद्धं न मायैव सहकारिणी ॥ ६३७
स्वकार्यद्वारतः सेति सहजत्वं न चान्यथा ।
रुणद्धि पुरुषं माया याऽनादिभववासना ॥ ६३८
मायाच्छादितचैतन्यमित्यत्राप्येवमुच्यते ।
भोगद्वारेण भिथ्याधीरयथार्थे यथार्थवत् ॥ ६३९
यथा नृणां भवेदेवजनिकेति तथा श्रुता ।
मायापि मोहिनी प्रोक्ता विषयास्वादभोगतः ॥ ६४०
असत्यं सत्यतां याति यावन्नो विन्दते परम् ।
इत्येतेऽपि तदेवं हि मायायाः पृथगाणवः ॥ ६४१
तेनायं समलो जीवः जीवप्रेर्यस्तथागमः ।
पशून् पाशांश्च मुक्ताणून् पातीति पतिरुच्यते ॥ ६४२
तदेवं बद्धजीवात्मा कर्मसाम्यादिसम्भवे ।
मुमुक्षुः साधको विद्वान् संप्राप्य ज्ञानदेशिकम् ॥ ६४३
ज्ञानदीक्षां लभेत्सा च शास्त्रदीक्षा न चान्यथा ।
क्रियादीक्षा प्रबद्धानां ज्ञानदीक्षा मनीषिणाम् ॥ ६४४
उच्यते ज्ञानदीक्षां तां न विना पाशमोचनम् ।
इत्येवं कामिकोक्तेन शास्त्रदीक्षा च सा श्रुता ॥ ६४५
शास्त्रस्य संप्रदानेन शास्त्रदीक्षा समीरिता ।
न त्वन्या ज्ञानदीक्षा सा क्वचिदेवं हि विश्रुता ॥ ६४६
विनेज्यानलकर्मादि मनोव्यापारमात्रतः ।
दीक्षा ज्ञानवती प्रोक्ता सम्यक्तत्त्वावबोधजा ॥ ६४७
इत्येषाच क्रियादीक्षा मनोव्यापारसम्भवा ।
ततः कर्म परित्यज्य ज्ञानाचार्यमुखात्स्फुटम् ॥ ६४८
ज्ञानं प्राप्य भवेन्मुक्तो नान्येति तथागमः ।
ज्ञानेनैव तु कैवल्यं प्राप्तं तत्र न संशयः ॥ ६४९
संसारबीजमज्ञानं संसार्यज्ञस्ततः स्मृतः ।
ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ६५०
शिवज्ञानात्परं ज्ञानं तत्समं च न विद्यते ।
वेदपाठाद् दिवं याति मन्वन्तरशतं पुनः ॥ ६५१
शिवागमपरिज्ञानाच्छिवसायुज्यमेष्यति ।
नास्ति ज्ञानसमो योगो नास्ति ज्ञानसमं व्रतम् ॥ ६५२
नास्ति ज्ञानसमाचर्य नास्ति ज्ञानसमा क्रिया ।
नास्ति ज्ञानसमं तीर्थं नास्ति ज्ञानसमं तपः ॥ ६५३
नास्ति ज्ञानसमो यज्ञः तस्माज्ज्ञानं विशिष्यते ।
इत्येवं शैवसिद्धान्ते भ्रूयते वैदिके पुनः ॥ ६५४
आत्मनः परमा मुक्तिर्ज्ञानिनैव न कर्मणा ।
ज्ञानादेव हि कैवल्यं नान्यथा कर्मकोटिभिः ॥ ६५५
अतो हि ज्ञानवानेव गुरुः स्पादिति च श्रुतिः ।
सर्वलक्षणहिनोऽपि ज्ञानवान्गुरुरिष्यते ॥ ६५६
इत्येतच्च गुरोः शम्भोः प्रसादाच्चेति विश्रुतम् ।
यच्च शम्भोः प्रसादेन गुरोश्चैव प्रसादतः ॥ ६५७
जायते तच्छिवज्ञानं नान्यथा सत्यमीरितम् ।
गुरोरनुज्ञां संप्राप्य पठेद्दिव्यागमं शिवे ॥ ६५८
गुरुवक्त्रेण बोद्धव्यं गुरुसेवापरायणैः ।
दीक्षितानां तु विप्राणां न पापं वेदपाठनम् ॥ ६५९
अदीक्षितानां विप्राणां शिवागमविलोकनम् ।
पापमेतन्महादेवि सत्यमेतन्न संशयः ॥ ६६०
इत्यदीक्षितपुंसां तु ज्ञानाभ्यासः कथं भवेत् ।
इति चेन्न तथा प्रोक्तः प्रबुद्धान्प्रति च स्मृतम् ॥ ६६१
न शम्भुगुरुभक्तानां विदुषां वा तथागमः ।
व्याकुर्याच्छिवभक्तेभ्यः तन्त्रार्थं गतमत्सरः ॥ ६६२
न्यायतो न्यायवर्तिभ्यः पालयन्गुरुसन्ततिम् ।
अन्यथा तु मतङ्गादेर्मतङ्गाद्यवबोधनम ॥ ६६३
अदीक्षितस्य देवेशः कृतवानिति तत्कथम् ।
तदेवं ज्ञानतः प्राप्य मुक्तिः पाषाणवत्स्थितिः ॥ ६६४
न चैषा योगतो वाथ दीक्षया वा ततोऽन्यथा ।
आगन्तुकमलापाये नापायः सहजसय तु ॥ ६६५
न्रुणामनादिसिध्दसयानागनतुकमलसय वै ।
ततो मायादिसंजातसरवावस्था विवर्जिता ॥ ६६६
सुखदुःखादिविज्ञानविकल्परहिता पुनः ।
मलमात्रेण संयुक्ता मुक्तिः पाषाणवत्स्थितिः ॥ ६६७
शिवत्वप्राप्तिरेषैव नान्यथेति तथागमः ।
मनोवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥ ६६८
अन्यथेशात्मनोरैक्ये दूष्यमेकात्मवादवत् । ६६९-1
२८। भेदशैवम्
अथात्र भेदशैवमते पाषाणशैवमतोक्तेषु यथोचितमङ्गिकृत्य निर्मलता मुक्तिप्रतिपादनमाणवस्यापि मलस्य विश्लेषयोगेन न्रुणां सर्वमलापाय एव शिवत्वप्राप्तिः परमोक्ष इत्ययुपगमात् । तदुक्तंच —
भेदशैवस्य सिध्दान्तः संग्रहेण निगद्यते ।
पाषाणशैवसिध्दान्तमाङ्गीकृत्य यथोचितम् ॥ ६७०
पत्यादयः पदार्थासते भिन्ना एव परसपरम् ।
अन्यथा तु पदार्थानां स्वरुपं च न सिध्यति ॥ ६७१
तेषां पृथक्तया प्रोक्ततत्तल्लक्षणमप्यथ ।
तत्र यः पशुरितयुक्त आणवादिसमावृतः ॥ ६७२
कुतनिष्कारणात्तस्य मलपाकादिसम्भवे ।
शिवशक्तिनिपाते च कृपया परमेश्वरः ॥ ६७३
आचार्यमूर्तिमास्थाय दीक्षया मोक्षदो भवेत् ।
नतु ज्ञानेन योगादिनाप्येवमागमे श्रुतम् ॥ ६७४
अथात्मा समलो बद्धः पुनर्मुक्तश्च दीक्षया ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥ ६७५
ज्ञानतो योगतश्चैव चर्यातश्च न मुच्यते ।
दीक्षया तु भवेन्मुक्तिः सर्वेषां प्राणिनामिह ॥ ६७६
मन्दशक्तिनिपातानां कर्तव्यं च विधीयते ।
दीक्षितानां ततोऽन्येषां सद्योमुक्तिस्तु विश्रुता ॥ ६७७
एका निर्वाणदा सद्योद्वितीया देहपाततः ।
प्रारब्धसञ्चितागामि कर्मजालं विशोध्यते ॥ ६७८
यदात्यन्तविरक्तानां सद्यो निर्वाणदा भवेत् ।
तदेव दीक्षया मुक्तिरत्र शैवविनिश्चिता ॥ ६७९
ज्ञानं तु बुध्दिनिष्ठस्य अज्ञाननाशपुरःसरम् ।
कर्मक्षयकरं नात्मनिष्ठाज्ञाननिवर्तकम् ॥ ६८०
तस्मान्न परमुक्तौ तत्साधनं हि तथा वचः । ६८१-1
विज्ञानयोगसन्यासैः भोगाद्वा कर्मणः क्षयात् ।
इत्यादि वचनं किञ्च वैदिके हि तथा श्रुतम् ॥ ६८२
परोक्षब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम् ।
बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ ६८३
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ।
योगादिश्च पदप्राप्तौ साधनं न तु मुक्तितः ॥ ६८४
दीक्षया मलनाशो हि नान्यथेति विनिश्चयात् ।
मलस्य द्रव्यरूपत्वात्तदपायस्तु दीक्षया ॥ ६८५
चक्षुषः पटलापायो भिषग्व्यापारतो यथा ।
न तु ज्ञानेन तेनेति क्वाचितु प्रतिपादनम् ॥ ६८६
मन्दादिशक्तिपातानां तथा दीक्षापुरःसरम् ।
ज्ञानाभ्यासेन कालेनमुक्तिरेवेति तत्परम् ॥ ६८७
वैदिकोतं त्वविद्या या अभावत्वेन सम्मतात् ।
ज्ञानादेव तु कैवल्यमित्येतदुचितं पुनः ॥ ६८८
तथा न शोचते शैवे प्रागुतेनैव वर्त्मना ।
यदुक्तं ज्ञानदीक्षा तु शास्त्रदीक्षेति तन्न च ॥ ६८९
दीक्षा ज्ञानवती प्रोक्ता सम्यक् तत्वावबोधजा ।
इत्येवं शास्त्रदीक्षायाः पृथक्त्वेन श्रुतं यतः ॥ ६९०
सा दीक्षा हि क्रियाशक्तिः शिवस्य परमात्मनः ।
तया विना कुतो मुक्तौ साधनं किञ्चिदिष्ते ॥ ६९१
ज्ञानं स्याच्छास्त्रदीक्षेति यदुक्तं तन्न युज्यते ।
श्रवणादि क्रियामूलं शास्त्रज्ञानं हि यत्स्फुटम् ॥ ६९२
ततस्तथाविधेनैव कर्मणा न विनागतिः ॥ ६९३-1
अथायं तु मतङ्गादिर्विना दीक्षां महेश्वरात् ।
प्राप्तवानागमज्ञानमित्युक्तं च न युज्यते ॥ ६९४
महेशेन यदा दृष्टो मतङ्गो दीक्षितस्तदा ।
चक्षुरुन्मील्य यत्तत्वं ध्यात्वा शिष्यं समीक्षते ॥ ६९५
पाशबन्धविमोक्षाय दीक्षेयं चाक्षुषी भवेत् ।
इत्यतो ध्येयतत्वं हि भगवान् परमेश्वरः ॥ ६९६
अदीक्षितस्य सिद्धान्तश्रवणादौ विधिस्तु न । ६९७-1
त्वदुक्तौ न्यायवर्तिभ्य इति तत्र विशेषणात् ।
न्यायवर्तिन एतेऽत्र शिवदीक्षानुवर्तिनः ॥ ६९८
तदेवं परमोक्षादौ दीक्षैव मुख्यसाधनम् ।
अतो दीक्षाविशेषेण शैवे ह्येवं च विश्रुतम् ॥ ६९९
दीक्षितः शिवजातिः स्यादन्यजातिर्न विद्यते ।
पुत्रकाणां साधकानां तथा समयिनामपि ॥ ७००
प्राक्रजात्युदीषणा ॥॥ शो भवेत् ।
दिनत्रयं तु रुद्रस्य पञ्चाहं केशवस्य तु ।
पितामहस्य पक्षैकं नरके पच्यते तु सः ॥ ७०१
अनुपनीतः प्रथमो द्वितीयोप्युपनीतकः ।
वेदाध्यायी तृतीयः स्यादग्निहोत्री चतुर्थकः ॥ ७०२
यज्ञयाजी च तत्रैव पञ्चमश्च प्रकीर्त्तितः ।
सत्रयाजी तु षष्टः स्याद्वेदान्ती सप्तमः स्मृतः ॥ ७०३
उत्तरोत्तरतश्चैते श्रेष्ठा वृत्या सहस्रकम् ।
मुख्यं वेदान्तविदुषः कोटिश्रेष्ठं च मत्प्रियः ॥ ७०४
भक्त्या भजति मामेव सर्वजातिषु तत्र वै ।
सर्वेषां दीक्षितानां तु सदृशं नास्ति लौकिके ॥ ७०५
यथा शिवस्तथा भक्तको यथा भक्तस्तथा शिवः ।
तस्मात्सर्वप्रयत्नेन दीक्षितानां च भोजनम् ॥ ७०६
भोगमोक्षप्रदानत्वात्कारणं च मम प्रियम् ।
तपो विद्याधिकस्यापि कर्तव्यं नाभिवादनम् ॥ ७०७
तदेवं दीक्षया मुक्तिर्मलनाशपुरःसरम् ।
आणवः सहजः सिद्धः जीवस्यानादिसम्भवः ॥ ७०८
मुक्तौ च तदपायश्च मुच्यते हि तथागमः ।
अथात्मा समलो बद्धः पुनर्मुक्तश्च दीक्षया ॥ ७०९
विषापहारं कुरुते ध्यानबीजबलैर्यथा ।
कुरुते पाशविश्लेषं तथाचार्यशिवाध्वरैः ॥ ७१०
मन्त्रौषधबलैर्यद्वत् सन्निरोधो विषस्य तु । ७११-1
तथाहि सर्वपाशाना सन्निरोधस्तु दीक्षया ।
तदाणवस्य विश्लेषो न युक्त इति नोच्यते ॥ ७१२
अथास्य सहजस्याणोरुच्छेदे चेतनस्य च ।
उच्छेदस्पटिकस्येव दोषः स्यात्कर्षणादितः ॥ ७१३
इति चेन्न निरुपे तु रूपदृष्टान्तदोषतः ।
अथवा कालिमायास्तु विश्लेषे सति ताम्रगः ॥ ७१४
न स्वरूपविनाशश्च तथात्रैवं शिवागमः ।
सहजा कालिमा ताम्रै तत्क्षयान्न च तत्क्षयः ॥ ७१५
यथा ताम्रस्य तद्वत्स्यादेवं पुंसो मलक्षयः ।
रसविद्धं यथा ताम्र हेमत्वं प्रतिपद्यते ॥ ७१६
तथा विज्ञानसम्बन्धाच्छिवत्वं प्रतिपद्यते ।
मलापायस्तु तच्छक्तिनिरोधो हि तथागमः ॥ ७१७
अग्नेस्तु दाहिका शक्तिर्मन्त्रैराशु निरुध्यते ।
तद्वच्छक्तिसंरोधाद्विभक्तेत्यभिशब्द्यते ॥ ७१८
अनेनापि विरोधी न तदपाये तु निर्मलः ।
आत्मा मुक्तः स एवायं न मुक्तः समलो मतः ॥ ७१९
मनोवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ।
इत्येवं मुक्त्युपायानामनुष्ठानप्रवर्तकम् ॥ ७२०
देवीकालोत्तरे किन्तु श्रूयते मुक्तिलक्षणम् ।
मलैर्मुक्तस्तथात्मा तुमुक्त इत्युच्यते बुधैः ॥ ७२१
इत्येवं सुप्रभेदादौ शिवेन प्रतिपादितम् ।
ततो निर्मलतो मुक्तिर्भेदवादे व्यवस्थिता ॥ ७२२
२९। समवादम्
अथायं समवादस्तु संग्रहेण निरस्यते ।
पूर्वोक्तवादसंसिद्धमङ्गीकृत्य यथोचितम् ॥ ७२३
न दीक्षामात्रतो मुक्तिः किन्तु ज्ञानादिनापि वा ।
शैव पूजाद्यनुष्ठाने योग्यता जनका हि सा ॥ ७२४
अन्यथा दीक्षितस्यात्र कर्तव्यं कथमुच्यते ।
विधानत्वेन चर्यादि स्वदीक्षोत्तरकालतः ॥ ७२५
दीक्षितानां क्रमेणैव सदाचारोनिगद्यते ।
नित्यादि कर्म कर्तव्यं शिवमार्गस्थितेषु च ॥ ७२६
तेषां साधारणं कर्म कार्यं सर्वात्मना मतम् ।
नित्यादि त्रितयं कार्यं चतुर्भिरविचारतः ॥ ७२७
वैश्वदेवं तथा सन्ध्यां शूद्रस्त्यक्त्वा त्रयीमयीम् ।
इत्यादि वचनादुत आचारस्तु विरुध्यते ॥ ७२८
न देहपातदीक्षा तु मुक्तिदा कर्मणा विना ।
प्रागनुष्ठित ॥॥॥॥॥॥॥॥॥॥॥।
स्यादत्यन्तविरक्तानामिति तद्विधितः स्फुटम् ॥ ७२९
ततो दीक्षाविरुद्धस्य ज्ञानयोगादिती गतिः ।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि ॥ ७३०
ज्ञानतो योगतश्चैव चर्यातश्च मुच्यते ।
इत्यादि वचनं दीक्षास्तुतिरित्येव सम्मतम् ॥ ७३१
तद्दीक्षा ज्ञानयोगदेर्मुक्तिः शैवागमोदिता ।
न सा निर्मलतामात्राणूनां पाषाणवत्स्थितिः ॥ ७३२
न किञ्चिज्ज्ञानमप्यसय भवावस्थापरं ततः ॥ ? ७३३-1
परमः पुरुषार्थो हि मोक्ष एवेति सम्मतः ।
सतु मुक्तस्य यज्ज्ञानं पशुपाशादि वस्तुषु ॥ ७३४
स देशस्येव सर्वेषु यः सपूर्णमनोरथः ।
ज्ञानस्य शिववित्सिद्धैः क्रियाया निर्मलस्य च ॥ ७३५
षाङ्गुण्यस्य च तज्ज्ञानं क्रियामूलस्य सम्भवात् ।
तथा च शिववन्मुक्तः षट्गुणाढ्य इति श्रुतः ॥ ७३६
ज्ञानयोगं समासाद्य सतत्रैव विमुच्यते ।
न तेषा पुनरावृत्तिघोरे संसारसागरे ॥ ७३७
सर्वज्ञाः सर्वगाः सिद्धा इत्येवं आगमः पुनः ॥ ७३८
अप्रमेयगुणोपेतः सर्वज्ञः खलु सर्वदा । ७३९-1
सर्वकृत्सर्वलोकेशः शिवतुल्यः प्रजायते ।
इति निश्वासके किञ्च शिवधर्मोत्तरादिषु ॥ ७४०
सर्वज्ञः परिपूर्णश्च शुद्धः सर्वगतः प्रभुः ।
संसारसागरान्मुक्तः शिवतुल्यः प्रजायते ॥ ७४१
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहः स शिवत्वमेति ॥ ७४२
इति षाड्गुण्यसंप्राप्तिः परमोक्ष इति स्मृतः ।
तेनायं शिववन्मुक्तो राजते हि न चान्यथा ॥ ७४३
मुक्तिः प्रागुक्तरीत्यास्य निर्मलत्वं च केवलम् ।
मलैमुक्तस्तदात्मा तुमुक्त इत्युच्यते बुधैः ॥ ७४४
इत्येवं सुप्रभेदादेस्तात्पर्यमिदमिष्यते ।
तथा निर्मलतायां तु षाड्गुण्यं च भवेदिति ॥ ७४५
एवं सामान्यतः प्रोक्तः सदाशिवसमो मतः । ७४६-1
३०। कौशिकम्।
अथ कौशिकसिद्धान्तः समावेश इति श्रुतः।
महीपतिरृषिः प्रोक्तः पूर्ववक्त्रेण दीक्षितः ॥ ७४७
अंशुमादिकवीरान्तं पुरुषेणोद्भवं भवेत् ।
इत्येवं वचनात् पश्चात् समावेशस्तु कौशिकः ॥ ७४८
तदावेशेन साम्यं तु संग्रहेण निरूप्यते ।
अप्रमेयगुणोपेतः सर्वज्ञः खलु सर्वदा ॥ ७४९
सर्वकृत्सर्वलोकेशः शिवतुल्यः प्रजायते ।
इत्यागमेषु मुक्तस्य श्रूयते शिवतुल्यता ॥ ७५०
सा तु योगानुसारेण सायुज्याणीः शिवेन वै ।
मुक्तौ शिवसमावेशाच्छिव धर्मविभासतः ॥ ७५१
तथा मुक्तस्य लोकेऽपि ग्रहाविष्टस्यनुर्यथा ॥
॥॥॥॥॥ दृश्यते ग्रहतुल्यता ।
अन्यथा भवकालेऽपि षड्गुणाढ्यो भवेत्पुमान् ॥ ७५२
तथाभिप्रायतश्चैव भ्रूयते हि शिवागमे ।
यथा भेषजसामर्थ्यादशक्तानां बलं परम् ॥ ७५३
तेन तच्छक्तियोगेन सामर्थ्यममितं भवेत् ।
एवं शैवाध्वरं प्राप्य दीक्षामन्त्रसमुद्भवम् ॥ ७५४
न पुनरजन्मतां याति दीक्षितो मनुजोत्तमः ।
इत्येवमत्रवायव्यसंहितायां च विश्रुतम् ॥ ७५५
अयस्यग्नौ समाविष्टे दाहोऽग्नेरेव नायसः ।
मूर्त्यात्मस्वेवमैश्वर्यमीशस्यैव न चात्मनाम् ॥ ७५६
तत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ।
शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७५७
अतो हि बन्धकाले च नृणां करणयोगतः।
अयसाग्नेर्यथा योगे वियोगोऽग्नेर्यथाऽयसा ॥ ७५८
तत्वैस्तदात्मनश्चैव शक्त्या कर्मवशाद्भवेत् ।
अथावेशवशादेव तत्तद्धर्मान्वितो यदि ॥ ७५९
न चात्मा जड एव स्यादिति शङ्का न विद्यते ।
आत्मासौ चेतनो यस्मादाविष्टस्तेन तेन च ॥ ७६०
ग्रहेणाविष्ट पुरुष इव वेत्ति करोति च ।
इत्यावेशेन साम्यं तु संग्रहेण समीरितम् ॥ ७६१
३१। भारद्वाजम्
उत्पत्तिसमतापक्षो भरद्वाजमतः श्रुतः ।
भारद्वाजं समुद्भूतमिति प्रागुक्तः पुनः ॥ ७६२
शर्वोक्तादिकसिद्धान्तं वातुलान्तमिति समृतम् ।
सद्योजातमुखेत्पन्नं भारद्वाजमृषिं तथा ॥ ७६३
सूत्रमार्गेण सञ्चिन्त्य सद्योजातं तु दीक्षितम् ।
इत्यत्रोत्पत्तितः साम्यं मुक्तिरेव न चान्यथा ॥ ७६४
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ।
एतत्समाधिमुत्कृष्टं प्रशंसन्ति मनीषिणः ॥ ७६५
शिवमेव स्वयं भाव्यं शिवमेव स्वयं भवेत् ।
इत्यादि शिवयोगेन ततोऽन्येन च यत्फलम् ॥ ७६६
श्रूयते शिवसाम्यं यदुक्तौ मुक्तात्मनामिह ।
तदपूर्वतया त्वेषा जायते परमार्थतः ॥ ७६७
शिवात्सर्वज्ञतामुख्य धर्मोत्पत्तिपरस्परम् ।
जीवन्मुक्तस्तुतद्विद्वान् पूर्वोपाधिगुणान्त्यजेत् ॥ ७६८
स सच्चिदादिधर्मित्वं भजेद् भ्रमरकीटवत् ।
इत्यनेनापि तत्स्पष्ट तथाचैव शिवागमे ॥ ७६९
संसारसागरान्मुक्तः प्रयोगेण तथा मतः ॥ ७७०Α
न त्वावेशवशात्तत्वं तथात्वे शिवधर्मतः ।
मुक्तस्य भासमानानां परधर्मावलम्बतः ॥ ७७१
पुरुषार्थो न मुक्तस्य स्वसंपूर्णमनोरथः ।
अतो बन्धदशायां च तत्तद्गुणविनाभवः ॥ ७७२
नृणां ज्ञानं न लीनं तु कला कालादिभिः स्फुटम् ।
अन्यथा तु कुतः कर्म भोगवैचित्र्यसंभवः ॥ ७७३
प्रागुक्तवचनं सर्वमेतदर्थानुसारतः।
युक्तमित्थं समुद्भूतसाम्यवादः समीरितः ॥ ७७४
३२। आगस्त्यम्
अथाभिव्यक्तिसाम्यं तु संग्रहेण निरूप्यते ।
पूर्वोक्तेर्ष्वथ भेदेषुचाङ्गीकृत्य यथोचितम् ॥ ७७५
अगस्त्य एतत्सिद्धान्तवादीति श्रूयते श्रूतौ ।
आगस्त्यमभिव्यक्तं तु चानादिस्तु परं स्मृतम् ॥ ७७६
बिम्बादिकं तु सिद्धान्तं वामदेवोद्भवं तथा ।
ब्राह्मणर्षिरगस्त्यः स्याद्वामवक्त्रेण दीक्षितः ॥ ७७७
इति साम्यश्रुतेर्मुक्तौ मुक्तस्य शिवतुल्यता ।
कल्प्या सा च समुत्पत्तिक्रमेण न हि सम्भवेत् ॥ ७७८
उत्पत्त्या सिद्धधर्मस्तु मुक्तस्य हि विनश्यति ।
मुक्तावपूर्वभावेन समुत्पन्नतया स्फुटम् ॥ ७७९
किन्त्वभिव्यक्रिमात्रेणयदेवं श्रूयते श्रुतौ ।
षाड्गुण्यव्यक्तये तेन स्त्रुवेणाज्याहुतिस्तु षट् ॥ ७८०
इति निर्वाणदीक्षोक्तविधिमार्गानुसारतः ।
व्यक्तोऽसौ शिववद्भाति शिव एव तनुक्षये ॥ ७८१
सर्वज्ञः स शिवो यद्वत्किञ्चिज्ज्ञत्वविवर्जितः ।
शिवत्वव्यक्तिसंपुरणः संसारी न पुनास्तदा ॥ ७८२
इति मुक्तौ च तद्वयक्तिसाम्यमेवेति निशिचतम् ।
पूर्वत्रोक्तागमार्थश्च स एवाभ्युपपद्यते ॥ ७८३
अतो हि गुरुभिश्चापि तथैव प्रतिपाद्यते ।
दृष्टा नैनं हि मोहान्धैः सदेश्वरसमानता ॥ ७८४
समता च समुत्पत्तिसङ्कातयावेशपक्षतः ।
नाभिव्यक्तिः परा गीता बुध्दिवाचामगोचरा ॥ ७८५
तदेवं व्यक्तिसाम्यं तु यथान्यायं निरूप्यते ।
सदसद्व्यक्तिवर्जितः सच्चिदानन्दरूपी यः ॥ ७८६
स एव सर्वगः सद्भिः ब्रह्मशब्देन शब्दितः ।
इत्येवं श्रूयते शम्भोर्धर्मामाणां त्रितयं क्वचित् ॥ ७८७
साम्येऽत्र सत्वचित्वाभ्यां न विवादः शिवात्मनोः । ७८८-1
आनन्दात्मतया त्वेतत्तयोर्निश्चीयते परम् ।
उच्यमानोऽयमानन्दो यो धर्मश्चेतनात्मकः ॥ ७८९
क्रियाज्ञानसमृद्धिः स्यात्प्रकृत्यर्थानुसारतः ।
समृद्धिः परिपूर्तिश्च व्याप्तिश्चाखण्डितेति च ॥ ७९०
तृप्तिश्चानन्दपर्याय इहैते सर्वतः समाः ।
इत्थं सत्यतिरिक्तोऽथों रसो नास्माभिरिष्यते ॥ ७९१
इति रत्नत्रयादौ हि गुरुभिश्च निरूपितः ।
वेदान्तैश्चतुराम्नायैस्तथान्यैः प्रतिपाद्यते ॥ ७९२
आनन्दविप्रलब्धानामानन्दोपहिता चितिः ।
चिन्महोदधिगाम्भीर्यमवसीयेत सूरिभिः ॥ ७९३
ततः समाधिसंप्राप्तं यदिदं सुखमात्मनः ।
शिवानन्दान्न किन्त्वेतदात्मशक्तेर्विजृम्भणम् ॥ ७९४
तदेतत्सचिदानन्दरूपीत्यादौ शिवागमे ।
दृष्टस्यानन्दशब्दस्य समृद्ध्यर्थः स युज्यते ॥ ७९५
तथा चास्ति हि चैतन्यसम्रृद्धिरिदमेतयोः ।
ततो मुक्तात्मशिवयोः साम्यमप्येतदक्षयम् ॥ ७९६
अनेनाचिन्त्यविश्वादौ मुक्तिरूपोपपादके ।
ब्रह्मप्राप्त्यवधिस्तेन चात्मानन्दसुखं भवेत् ॥ ७९७
शिवानन्दमनुप्राप्य चाविर्भावाय कल्पते ।
इत्येवमादि सूत्रेऽपि सोऽर्थःसमुपपाद्यते ॥। ७९८
तदेवं सच्चिदानन्दधर्मसाम्यमितीरितम् ।
अथ सर्वज्ञकर्तृत्वधर्मतोऽप्यवधार्यताम् ॥ ७९९
शिववत्सर्वकर्तृत्वे सर्वज्ञत्वेच सत्यपि ।
न करोति न जानाति भृशं मुह्यति बालवत् ॥ ८००
तीव्रशक्तिनिष्पातेन गुरुणा दीक्षितो यदा ।
सर्वज्ञः स शिवो यद्वत् किञ्चिज्ज्ञत्वविवर्जितः ॥ ८०१
शिवत्वव्यक्तिसंपूर्णः संसारी न पुनस्तदा।
इत्यादि श्रवणादीदृक् साम्यं च शिवमुक्तयोः ॥ ८०२
प्रकारान्तरतः शास्त्रे षाङ्गुण्यं प्रतिपाद्यते ।
यथा शिवे तथा जीवे मुक्तौ तदपि युज्यते ॥ ८०३
सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहःस शिवत्वमेति ॥ ८०४
इत्येवं श्रूयते यस्मात्सर्वज्ञानोत्तरागमे ।
एवं नानापथेनापि जीवात्मपरमात्मनोः ॥ ८०५
अभिव्यक्तिमते मुक्तौ साम्यं सिद्धयति सर्वथा ।
ततश्च शिवपूजादौ नारुद्रो रुद्रमर्चयेत् ॥ ८०६
इत्यतस्तत्समोऽर्हः स्यात् शिवोऽहंभावनादिभिः ।
प्राकृतं भावमुत्सृज्य शिवोऽहमिति भावयेत् ॥ ८०७
शिवमेव स्वयं भाव्यं शिवमेव स्वयं भवेत् ।
समरसीभावयोगात्तत्समाधिरिहोच्यते ॥ ८०८
व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् ।
संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥ ८०९
भुक्तिः स्वात्मनि संसिद्धं शिवत्वं भावयेत्सदा ।
शिवत्वव्यक्तिरेवं स्यात्शिवसाम्यं तथा वचः ॥ ८१०
जीवन्मुक्तस्तुतद्विद्वान्सर्वोपाधिगुणान्त्यजेत् ।
स सच्चिदादि धर्मित्वं भेजे भ्रमरकीटवत् ॥ ८११
नान्य एवेत्युपायै (धे) श्च साम्यसिद्धिः प्रदृश्यते ।
३३। गौतमीयम्
शिवादाधिक्यवादजोऽयं गौतमीय इति स्मृतः ।
अधिकं परमेशानादिति कैवल्यमुच्यते ॥ ८१२
इति सूत्रं किं प्रतिपादयति? शिवादाधिव्यवादं दर्शयति । अत्र शिवादाधिक्यवादोऽयं गौतमीय इति श्रुतः इति कथम्? तदागमश्रवणात् । यदुक्तं प्राक् “भारद्वाजं समुद्भूतं शिवादाधिक्यगौतमं” इति । अथात्र शिवादाधिक्यमेव कैवल्यमिति प्रतिपादनं शिवसाम्याभ्युपगमे त्वनौपम्यतया संपूर्णमनोरथपुरुषार्थासम्भवात् ।
शिवादाधिक्यवादस्तु संग्रहेण निरूप्यते ।
व्यक्तिसाम्यमते प्रोक्तमङ्गीकृत्य यथोचितम् ॥ ८१३
पशुरेव शिवो यस्मात्पञ्चकृत्यकरः श्रुतः ।
स इत्थं विग्रहोऽनेन करणेनाहतौजसा ॥ ८१४
करोति सर्वदा कृत्यं यदा यदुपपद्यते ।
इति तत्कृत्यभेदेन लयावस्थादिसंभवः ॥ ८१५
तेनायं पाशसंबन्धः पशुरेव शिवः स्मृतः ।
अनुग्रहतिरोभावौ द्वौ पाशौ तु सदाशिवे ॥ ८१६
इत्यादि वचनात्किञ्च पशुराद्यः सदाशिवः ।
एवं बूतात्सदाशिवादुत्कर्षेणैव वर्तते ॥ ८१७
सर्वबन्धविनिर्मुक्तको निष्कर्मा निरवस्थितः ।
मुक्तको मुक्तावुपायस्तु व्यक्तिवादोक्तवर्त्मना ॥ ८१८
शिवोऽहं भावनाख्यः स्यात्स्वरूपध्यानगोचरः ।
अन्यथा शिवधर्मस्य निकृष्टस्यतु भावना ॥ ८१९
कथं ददाति मुख्यत्वं मुक्तस्य परमात्मनः ।
न किञ्चिदपि कर्तव्यमिति हि श्रूयते श्रुतिः । ८२०
न च सृष्ट्यादि कुर्वन्ति स्वार्थनिष्ठा हि ते यतः ।
इति मुक्तस्य न तथा सर्वदाऽस्य महेशितुः । ८२१
तदेवमीशादाधिक्यमुक्तिरेव परा नृणाम् ।
शिवेन साम्यमुक्तिस्तु फल्गुप्राया निरस्यते । ८२२
नानौपम्यतया तत्र स्वसंपूर्णमनोरथः ।
पुरुषार्थः कुतः प्राप्तः परम इति निश्चयात् । ८२३
शैव भेदं प्रवक्ष्यामि ऐक्यपाषाणवादिनौ ।
भेदवादी समवादी संक्रान्तिश्चाविकारवान् ॥ ८२४
३४। काश्यपमा
संक्रान्त्या शिवसाम्यं तु तादात्म्यं काश्यपाशये ।
आत्मनः शिवसायुज्यं स्वसाध्यमविकारिणाम् । ८२५
इत्ययं किं प्रतिपादयति? शिवसंक्रान्ताविकारवादो दर्शयति । अत्र काश्यपाभिमते संक्रान्तिसमतापक्षे तत्साम्यं तादात्म्यमेवेति प्रतिपादनं तदितराभिव्यक्ति उत्पत्त्यभ्युपगमे त्वनेकेश्वरवादादिदोषसंभवात् ।
शैवे संक्रान्तपक्षोऽयं काश्यपाभिमतः श्रुतः ।
कौशिकः काश्यपः चैव भारद्वाजश्च गौतमः ॥ ८२६
अगस्च्यश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः ।
कामिकादि सहस्रान्तमीशानं ॥॥ था ॥ ८२७
काश्यपं ब्रह्मर्षिप्रोक्तमूर्ध्ववक्त्रेण दीक्षितम् ।
संक्रान्तिशैवं काश्यपमित्येव रौरवागमे ॥ ८२८
इत्येवं तत्र संक्रान्तिसाम्यमुक्तौ तु युक्तिमत् ।
अनेकेश्वरवादादि दोष एव न संभवेत् ॥ ८२९
अथ संक्रान्तपक्षोऽयं कथ्यते लेशतोऽधुना ।
प्रागुक्तसमवादार्थमङ्गीकृत्य यथोचितम् ॥
चेतनः पतिरेवान्यौ पशुपाशौ जडात्मकौ ॥ ८३०
पाशवत्तत्पशुश्चात्र जड एवेति विश्रुतः ।
अचेतनो विभुर्नित्यो गुणहीनोऽक्रियोऽप्रभुः ॥ ८३१
इति स्वायम्भुवाद्युक्तमात्मधर्मनिरूपणे ।
तदेवं सिद्धजीवात्मा निर्विकारी तथापि सः ॥ ८३२
शरीरे दीपवद्भाति सर्वदा स्वप्रकाशतः ।
कान्तस्य सन्निधौ यद्वदयश्चेष्टा प्रदृश्यते ॥ ८३३
सन्निधौ तस्य जीवस्य योगसिद्धिश्च जायते ।
तत्तत्कर्मानुसारेण बुद्धौ तत्प्रतिबिम्बतः॥ ८३४
प्राणव्यापारतो जातदेहचेष्टादिना पुनः ।
अजातप्राणवृत्यातुन तथा जडकालतः ॥ ८३५
एवं संसारिणस्तस्य शक्तिपातादिसम्भवे ।
प्राणायामाभ्युपायेन परयोगानुसारतः ॥ ८३६
सदाचार्योपदेशेन समाधिश्च विलीयते ।
श्यामनीलादिसम्बन्धात्स्फटिकत्वं मणौ स्थितम् ॥ ८३७
त्यक्त्वा तानि प्रयत्नेन शुद्धस्फटिकमावहेत् ।
इत्येवं सुप्रभेदेऽथ निश्वासाख्ये तथा पुनः ॥ ८३८
स च योगेन दृश्येत प्रत्यक्षं जलचन्द्रवत् ।
अमायी निर्विकारी च बहिरन्तश्च संस्थितः ॥ ८३९
समायी बिम्बसंक्रान्तः खे स्थितेन कृती जले ।
मलिनेऽपि स्वदेहेऽपि दृश्यते परमेश्वरः ॥ ८४०
जलसंपुर्णमध्ये तु छायारूपं यथा विशेत् ।
नोत्सरेनैव भिद्यत तद्वद्देवी विराजते ॥ ८४१
काष्ठमध्ये स्थितो यद्वन्मथितो निर्मलोऽनलः ॥ ८४२-1
स च शान्तमये प्राप्ते न भूयो विशतेऽरणिम् ।
सम्यक् ज्ञानं विदित्वा तु पशुवन्न भवेत्पुनः ॥ ८४३
न पशोः करणं चैव शिवस्यैव तथा वचः ।
शिवेनैक्यं गतः सिद्धस्तदधीनस्ववृत्तिकः ॥ ८४४
मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् ।
एवं तत्करणत्वेन शिवभूतस्य योगिनः ॥ ८४५
विषयासक्तियोगेऽपि नागाम्यमिति च श्रुतम् ।
पद्मपत्रं यथा तोयैस्तत्स्थैरपि लिप्यते ॥ ८४६
शब्दादिविषयाम्भोभिर्युक्तो ज्ञानी न लिप्यते ॥ ८४७-1
तदेवं परमुक्तौ च तत्रैव वचनं श्रुतम् ।
अथात्मा तु शिवे लीनो जले तु लवण यथा ॥ ८४८
अविशेषं भजेन्मुक्तौ आत्मा तु परमात्मनि ।
शिवसमानतारूपं शिवविग्रहमेव च ॥ ८४९
सकले निष्कले चैव सर्वत्रैव समानता ।
सायुज्यमिति तत्प्रोक्तमिति तादात्मयमेव तत् ॥ ८५०
इत्येवं शिवसंक्रान्तपक्षी लेशानिरूपितः । ८५१-1
३५। ईश्वर अविकारवादम्
शिवाविकारमार्गोऽयं कथ्यते लेशतोऽधुना ।
शिवसंक्रान्तसाम्योक्तमङ्गीकृत्य यथोचितम् ॥ ८५२
शिव एव जगत्कर्ता तद्वदात्मा च चेतनः ।
पाश एवजडः प्रोक्तः पदार्थत्रयलक्षणम् ॥ ८५३
अज्ञो जन्तुरनीशोऽयमित्यादि वचनात्कचित् ।
आत्मना मन्त्रतोक्तिस्तु न स्वभावात्समीरिता ॥ ८५४
पाशेनात्यन्तसंश्लेषात्पाशधर्मानुसारिणी ।
तथा जीवो बहुच्छिद्रघटे दीप इवस्थितः ॥ ८५५
देहेऽस्मिन् कर्मभोगार्थं स्वयमेव प्रवर्तते । ८५६
शिवसन्निधिमात्रेण सहायेन तथागमः ।
यस्य सन्निधिमात्रेण चेष्टन्ते सर्वजन्तवः ॥ ८५७
इत्येवं निजसामर्थ्यान्नियतार्थसमीहितैः ।
इन्द्रियैजायिते सर्वं तथैव श्रूयते वचः ॥ ८५८
कलोद्बलितचैतन्यो विद्यादर्शितगोचरः ।
रागेण रञ्जितश्चापि बुद्धत्यादिकरणैर्युतः ॥ ८५९
मायाद्यवनिपर्यन्तं तत्वभूतात्मवर्त्मनि ।
भुङ्क्ते तत्र स्थितान्भोगान्भोगैकरसिकः पुमान् ॥ ८६०
अक्षाण्यात्मप्रभुप्रेर्याण्यपि तन्न विदुः स्वयम् ।
तैर्विना यन्न वेत्यर्थं न विना तेन तान्यपि ॥ ८६१
एवं संसारिणस्तस्य शक्तिपातादिसम्भवे ।
ज्ञानाद्युपायतो मुक्तौ प्रयत्नं च विधीयते ॥ ८६२
उत्साहान्निश्चयाद्ध्येयादभ्यासात्तत्वदर्शनात् ।
मुनेर्जनपदतयागाअद्योगः षड्भिः प्रसिध्यति ॥ ८६३
उल्काहसतो यथा कशिचत् द्रव्यमालोक्य तां त्यजेत ।
ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ८६४
इत्याद्युपायसंपन्नः स्वसामर्थ्यविशेषतः ।
पशुभावपरित्यागाद्भजत्येकान्ततः शिवम् ॥ ८६५
पुरुषो धर्मसन्तप्तः स्वचछायापरिशोभितम् ।
वृक्षं स्वच्छं जलं वापि यथा तद्वदिहागमः ॥ ८६६
चिद्दृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिमरीचिकाम् ।
लब्ध्वा शिवपदच्छायां ध्यायेत्पञ्चाक्षरं सुधीः ॥ ८६७
नैव शून्यं न चाशून्यं अशून्यं शून्यमेव च ।
पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ८६८
जलं सामुद्रमासाद्य नदी हृष्टाम्बुवाहिनि ।
क्षारतोयत्वमायाति प्रभावाद्धिमहोदधेः ॥ ८६९
एवं वै देहभिन्नात्मा शान्तिमेवाधिगच्छति ।
एकान्तेऽवस्थितः सैष शिवशक्तिसमन्वितः ॥ ८७०
सर्वान्बन्धान्परित्यज्य मुक्तो व्रजति तं परम् ।
इतीश्वराविकाराख्यपक्षः सोऽयं विनिशिचतः ॥ ८७१
३६ परिणामवादम्
परिणाममते मुक्तिः स्करूपावाप्तिरिष्यते ।
मकुटाजितवीरादिदक्षिणागामवर्त्मना ॥ ८७२
इत्ययं किं प्रतिपादयति? निमित्तकारणपरिणामवादं दर्शयति । अथात्र उक्तकारणपरिणामवादे नृणां स्वरूपावाप्तिरेव मुक्तिरितिप्रतिपादनं तेषांशिवात्मकत्वेन तदितरेषां च तथात्वेनाभ्युपगम्य प्रगुक्ताविकारादिवादरीत्याशिवं विना पदार्थान्तराभ्युपगमात् ।
३७। शैवम्
अथात्र शैवपक्षार्थः संग्रहेण निगद्यते ।
पूर्वतः प्रोक्तपक्षेष्वप्यङ्गीकृत्य यथोचितम् ॥ ८७३
उक्तानां त्रिपदार्थानां अनन्यत्वं परस्परम् ।
व्याप्तितस्तत्र जीवस्तु स्वप्रकाशचिदात्मकः ॥ ८७४
अनादि मलबद्धोऽयमज्ञः केवलतः पुनः ॥ ८७५-1
कलादि ज्ञानसंप्राप्त्या दीपवत्परमेष्ठिना ।
सुखदुःखादिकान्भोगान्भुङ्क्ते संसारकालतः ॥ ८७६
एवं संसारिणस्तस्य शक्तिपातादिसम्भवे ।
शिवोऽयं देशिको भूत्वा दीक्षापूर्वं यथामतिम् ॥ ८७७
मलमायादिबन्धानां मुक्त्युपायं वदत्यथ ।
तद्विधोपायसंसिद्धौ ज्ञानं तज्जायते स्कुटम् ॥ ८७८
तदेव तादृशज्ञातृज्ञानज्ञेयविहीनतः ।
तज्जीवपरयोरैक्यतादात्म्यमपि सिद्ध्यति ॥ ८७९
न त्वत्रातिशयः कश्चिदानन्दानुभवः पुनः ।
तथात्वे भेदवादः स्यात्तत एवं वचः श्रुतम् ॥ ८८०
देहपाते शिवो भूत्वा शिवधर्मान्वितः स च ।
न पुनर्भेदमायाति सरित्तोयमिवाम्बुधौ ॥ ८८१
ज्ञातृज्ञानज्ञेयभेदविहीनं तत्परं पदम् ।
प्राप्य लाभाच्च मुक्तोऽसौ किं पुनः प्राप्यमिष्यते ॥ ८८२
इतयेवं संग्रहेणत्र शैवपक्षः समीरितः ॥ ८८३-1