२१ रेणुक-शिव-लिङ्गैक्य-प्रसङ्गः

एकविंशः परिच्छेदः

विभीषणाभीष्टदानम्

मरितोण्डदार्यः

अथ रेवणसिद्धेश्वरेण कुम्भसम्भवाय
पिण्डादिवृत्तिज्ञानशून्यान्तोपदिष्टं वीरशैवसङ्ग्रहं
शिवयोगिसञ्ज्ञकाचार्यः स्वशिष्यप्रशिष्येषु प्रख्यातं कृत्वा अनन्तरं
रेणुकविभीषणसंवादं रेवणसिद्धेश्वरैक्यं च
पञ्चपञ्चाशत्सूत्रैः सङ्गृह्याह-

इत्युक्त्वा पश्यतस्तस्य पुरस्तादेव रेणुकः ।
अन्तर्दधे महादेवं चिन्तयन्नन्तरात्मना ॥ १ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ १ ॥

य इदं शिवसिद्धान्तं वीरशैवमतं परम् ।
शृणोति शुद्धमनसा स याति परमां गतिम् ॥ २ ॥

मरितोण्डदार्यः

यः पुरुषो वीरशैवमतमङ्गलिङ्गषट्स्थलरूपं सद्
वीरशैवधर्मनिर्णयसम्मतं परं सर्वोत्कृष्टम् इदं शिवसिद्धान्तं
श्रुतिसम्मतमेतच्छिवसिद्धान्तं शुद्धमनसा निर्मलचित्तेन शृणोति स
परमां गतिं परमुक्तिं यातीत्यर्थः ॥ २ ॥

अथान्तर्हितो रेणुको लङ्कां प्रविष्टवानित्याह-

स्वच्छन्दाचाररसिकः स्वेच्छानिर्मितविग्रहः ।
आससाद् पुरीं लङ्कां रेणुको गणनायकः ॥ ३ ॥

निर्मलस्वेच्छाचाररसिक इत्यर्थः । शिष्टं स्पष्टम् ॥ ३ ॥

[[४५३]]

तमागतं महाभागं सर्वागमविशारदम् ।
विभीषणः समालोक्य गेहं प्रावेशयन्निजम् ॥ ४ ॥

मरितोण्डदार्यः

महाभागः श्रेष्ठः सर्वागमविशारदः
कामिकादिवातुलान्तदिव्यागमकुशल इत्यर्थः । शिष्टं स्पष्टम् ॥ ४ ॥

भद्रासने निजे रम्ये निवेश्य गणनायकम् ।
अर्घ्यपाद्यादिभिः सर्वैरुपचारैरपूजयत् ॥ ५ ॥

निजे भद्रासने स्वकीयसिंहासन इत्यर्थः । शिष्टं स्पष्टम् ॥ ५ ॥

पूजितेन प्रसन्नेन रेणुकेन निरूपितः ।
निषसाद तदभ्याशे स निजासनमाश्रितः ॥ ६ ॥

मरितोण्डदार्यः

स विभीषणः पूजाप्रसन्नेन श्रीरेणुकेनाज्ञापितः सन् तत्समीपे
स्वकीयासनान्तरमाश्रितवान् सन् निषसाद उपविष्टवानित्यर्थः ॥ ६ ॥

अथ विभीषणः-

आबभाषे गणेन्द्रं तं कृताञ्जलि विभीषणः ।
मानुषाकारसम्पन्नं साक्षाच्छिवमिवापरम् ॥ ७ ॥

मरितोण्डदार्यः

विभीषणो मानुषाकृतिं साक्षादपरं शिवमिव स्थितमिति शेषः ।
तं गणेन्द्रं रेणुकं कृताञ्जलि कृतमञ्जलिपुटं यस्मिन् कर्मणि यथा
भवति तथा आबभाषे विज्ञापनवचनं प्रयुक्तवानित्यर्थः ॥ ७ ॥

[[४५४]]

रेणुक त्वं गणाधीश शिवज्ञानपरायण ।
अवतीर्णं महीमेनामिति सम्यक् श्रुतं मया ॥ ८ ॥

मरितोण्डदार्यः

भो शिवज्ञानपरायण गणाधीश श्रीरेणुक त्वामेनां महीं
भूलोकं प्रत्यवतीर्णं सन्तं मया सम्यग् इति लोकवार्तया श्रुतमित्यर्थः
॥ ८ ॥

मद्भाग्यगौरवादद्य समायास्त्वं पुरीमिमाम् ।
कथं भाग्यविहीनानां सुलभाः स्युर्भवादृशाः ॥ ९ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ९ ॥

मत्समो नास्ति लोकेषु भाग्यातिशयवत्तया ।
यस्य गेहं स्वयं प्राप्तो भवान् साक्षान्महेश्वरः ॥ १० ॥

मरितोण्डदार्यः

भो रेणुक भूलोकगतप्रत्यक्षमहेश्वरो भवान् स्वयमेव यस्य मे
राजालयं प्राप्तोऽसि ततो भाग्यातिशयत्त्वेन लोकेषु मत्समः कोऽपि
नास्तीत्यर्थः ॥ १० ॥

अथ न तावन्मात्रमित्यत्राह-

कृतार्था मे पुरी ह्येषा कृतार्थो राक्षसान्वयः ।
जीवितं च कृतार्थं मे यस्य त्वं दृष्टिगोचरः ॥ ११ ॥

मरितोण्डदार्यः

भो रेणुक त्वं यस्य मे दृष्टिगोचरः तस्मात् मे ममैषा लङ्कापुरी
कृतार्थेत्यादि ॥ ११ ॥

इति ब्रुवाणं कल्याणं राक्षसेन्द्रं गणेश्वरः ।
बभाषे सस्मितो वाणीं विश्वोल्लासकरीं शुभाम् ॥ १२ ॥

मरितोण्डदार्यः

सस्मितः मन्दस्मितेन युक्तः सन्नित्यर्थः । विश्वोल्लासकरीं
सर्वेषामानन्दकरीमित्यर्थः । शिष्टं स्पष्टम् ॥ १२ ॥

[[४५५]]

अथ तत्प्रकारं चतुर्भिः श्लोकैर्वर्णयति-

विभीषण महाभाग जाने त्वां धर्मकोविदम् ।
त्वां विना कस्य लोकेषु जायते भक्तिरीदृशी ॥ १३ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ १३ ॥

समस्तशास्त्रसारज्ञं सर्वधर्मपरायणम् ।
अध्यात्मविद्यानिरतमाहुस्त्वां राक्षसेश्वर ॥ १४ ॥

मरितोण्डदार्यः

भो विभीषण त्वां समस्तनिगमादिशास्त्रसारज्ञं
सकलशिवधर्मेषु परायणं तत्परमित्यर्थः ।
शिवाद्वैतज्ञानयोगरूपाध्यात्मविद्यानिरतं सन्तनम् आहुरित्यर्थः ॥ १४ ॥

अतः कारणात्-

त्वदीयधर्मसम्पत्तिं श्रुत्वाहं विस्मिताशयः ।
व्रजन् कैलासमचलं त्वदन्तिकमुपागतः ॥ १५ ॥

मरितोण्डदार्यः

कैलासमचलं व्रजन्नहं त्वदीयशिवधर्मसम्पत्तिं
श्रुत्वाऽश्चर्ययुक्तचित्तः सन् त्वत्समीपमागतोऽस्मीत्यर्थः ॥ १५ ॥

प्रीतोऽस्मि तव चारित्रैः शोभनैर्लोकविश्रुतैः ।
दास्यामि ते वरं साक्षात् प्रार्थयस्व यथेप्सितम् ॥ १६ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ १६ ॥

[[४५६]]

इति प्रसादसुमुखे भाषमाणे गणेश्वरे ।
प्रणम्य परया प्रीत्या व्याजहार विभीषणः ॥ १७ ॥

व्याजहार विज्ञापनवाक्यं प्रयुक्तवानित्यर्थः ॥ १७ ॥

मरितोण्डदार्यः

अथ तत्प्रकारं षड्भिः सूत्रैः प्रदर्श्य स्वस्य
रावणोक्ताभिप्रायमष्टभिः सूत्रैः सुचयति-

आगमानुग्रहादेव भवतः शिवयोगिनः ।
दुर्लभाः सर्वलोकानां समपद्यन्त सम्पदः ॥ १८ ॥

मरितोण्डदार्यः

भो गणेश्वर शिवयोगिनो भवत आगमनरूपानुग्रहादेव
सर्वजनदुर्लभाः सम्पदः समपद्यन्त प्राप्ता इत्यर्थः ॥ १८ ॥

तथापि प्रार्थनीयं मे किञ्चिदस्ति गणेश्वर ।
सुकृते परिपक्वे हि स्वयं सिद्ध्यति वाञ्छितम् ॥ १९ ॥

मे ममेत्यर्थः । शिष्टं स्पष्टम् ॥ १९ ॥

रावणो हि मम भ्राता माहेश्वरशिखामणिः ।
अदृष्टशत्रुसम्बाधं शशास हि जगत्त्रयम् ॥ २० ॥

मरितोण्डदार्यः

अदृष्टशत्रुसम्बाधं यथा भवति तथा जगत्त्रयं हि प्रसिद्धं सत्
शशास पालयामासेत्यर्थः ॥ २० ॥

यस्य प्रतापमतुलं सोढुमक्षमशक्तयः ।
इन्द्रादयः सुराः सर्वे राज्यलक्ष्म्या वियोजिताः ॥ २१ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २१ ॥

[[४५७]]

स तु कालवशेनेव स्वचारित्रविपर्ययात् ।
रणे विष्ण्ववतारेण रामेण निहतोऽभवत् ॥ २२ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २२ ॥

स तु रामशराविद्धः कण्ठस्खलितजीवितः ।
अवशिष्टं समालोक्य मामवादीत् सुदुःखितः ॥ २३ ॥

मरितोण्डदार्यः

स रावणो रामबाणेन क्षतं लब्धवान् सन् कण्ठगतप्राणः सन्
अवशिष्टं राक्षसेषु हतशिष्टं मां दृष्ट्वात्यन्तदुःखितः सन्
प्रत्यवददित्यर्थः ॥ २३ ॥

अथ रावणोक्तप्रकारमुपपादयति-

विभीषण विशेषज्ञ महाबुद्धे सुधार्मिक ।
अवशिष्टोऽसि वंशस्य रक्षसां भाग्यगौरवात् ॥ २४ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २४ ॥

वयमज्ञानसम्पन्ना महत्सु द्रोहकारिणः ।
ईदृशीं तु गतिं प्राप्ता दुस्तरा हि विधिस्थितिः ॥ २५ ॥

मरितोण्डदार्यः

वयमज्ञानसम्पन्नाः सन्तो महत्सु महतां विषये द्रोहकारिण इति
ईदृशी गतिं प्राप्ताः । तथाहि विधिस्थितिः दैवाधीनवृत्तिः दुस्तरा हि
लङ्घितुमशक्या खल्वित्यर्थः ॥ २५ ॥

नवकं लिङ्गकोटीनां प्रतिष्ठाप्यमिह स्थले ।
इति सङ्कल्पितं पूर्वं मया तदवशिष्यते ॥ २६ ॥

[[४५८]]

मरितोण्डदार्यः

इह स्थले अस्मिन् लङ्कापत्तनस्थले नवकोटिलिङ्गं प्रतिष्ठाप्यमिति मया
पूर्वं सङ्कल्पितम् तत्र किञ्चिदवशिष्टमस्तीत्यर्थः ॥ २६ ॥

कियदवशिष्टमित्यत्राह-

कोटिषट्कं तु लिङ्गानां मया साधु प्रतिष्ठितम् ।
कोटित्रयं तु लिङ्गानां स्थापनीयमतस्त्वया ॥ २७ ॥

अतस्तत्सङ्कल्पपूरणार्थमित्यर्थः ॥ २७ ॥

इति तस्य वचः श्रुत्वा दीनबुद्धेर्मरिष्यतः ।
तथा साधु करोमीति प्रतिज्ञातं मया तथा ॥ २८ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २८ ॥

युगपच्छिवलिङ्गानां कोटित्रयमनुत्तमम् ।
प्रतिष्ठाप्यं यथाशास्त्रमिति मे निश्चयोऽभवत् ॥ २९ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २९ ॥

लिङ्गकोटित्रयस्येह युगपत् स्थापनाविधौ ।
अविदन्नेकमाचार्यमहमेवमवस्थितः ॥ ३० ॥

मरितोण्डदार्यः

इह लङ्कायामित्यर्थः । युगपल्लिङ्गत्रिकोटिस्थापनविषये
मुख्यमाचार्यमलब्धवान् सन्नेवं स्थितोऽस्मीत्यर्थः ॥ ३० ॥

शिवशास्त्रविशेषज्ञ शिवज्ञाननिधिर्भवान् ।
आचार्यभावमासाद्य मम पूरय वाञ्छितम् ॥ ३१ ॥

[[४५९]]

मरितोण्डदार्यः

शिवशास्त्रविशेषज्ञ भो रेवणसिद्ध भवान् शिवज्ञानस्य
निधिर्निक्षेपस्थानभूतः अत आचार्यभावमासाद्य
युगपत्कोटित्रयाचार्यभावं प्राप्य ममाभीष्टं पूरयेत्यर्थः ॥ ३१ ॥

अथ श्रीरेणुकस्तस्याभीष्टं पूरयित्वाऽन्तर्हित इति श्लोकपञ्चकेन
प्रतिपादयति-

तस्येति वचनं श्रुत्वा राक्षसेन्द्रस्य धीमतः ।
तथेति प्रतिशुश्राव सर्वज्ञो गणनायकः ॥ ३२ ॥

प्रतिशुश्राव अङ्गीकृतवानित्यर्थः । शिष्टं स्पष्टम् ॥ ३२ ॥

तत्र सन्तुष्टचित्तस्य पौलस्त्यस्येष्टसिद्धये ।
कोटित्रयं तु लिङ्गानां यथाशास्त्रं यथाविधि ।
त्रिकोट्याचार्यरूपेण स्थापितं तेन तत्क्षणे ॥ ३३ ॥

तत्र लङ्कायां पौलस्त्यस्य विभीषणस्येत्यर्थः । शिष्टं स्पष्टम् ॥ ३३ ॥

तादृशं तस्या माहात्म्यं समालोक्य विभीषणः ।
प्रणनाम मुहुर्भक्त्या पादयोस्तस्य विस्मितः ॥ ३४ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ३४ ॥

प्रणतं विनयोपेतं प्रहृष्टं राक्षसेश्वरम् ।
अनुगृह्य स्वमाहात्म्याद् रेणुकोऽन्तर्हितोऽभवत् ॥ ३५ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ३५ ॥

[[४६०]]

बिभीषणोऽपि हृष्टात्मा रेणुकस्य प्रसादतः ।
शिवभक्तिरसासक्तः स्थिरराज्यमपालयत् ॥ ३६ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ३६ ॥

अथाष्टदिक्षु प्रसिद्धस्य रेवणसिद्धेश्वरस्य महत्त्वं
सङ्कोचेनाष्टभिः सूत्रैः प्रकाशयति-

रेणुकोऽपि महातेजाः सञ्चरन् क्षितिमण्डले ।
प्रच्छन्नश्च प्रकाशश्च परमाद्वैतभावितः ॥ ३७ ॥

कांश्चिद् दृष्टिनिपातेन करुणारसवर्षिणा ।
अपरानुपदेशेन शिवाद्वैताभिमर्शिना ॥ ३८ ॥

अन्यांश्च सहवासेन समस्तमलहारिणा ।
कृतार्थयन् जनान् सर्वान् कृतिनः पक्वकर्मिणः ॥ ३९ ॥

दर्शयित्वा निजाधिक्यं शिवदर्शनलालसः ।
खण्डयित्वा दुराचारान् पाषण्डान् भिन्नदर्शनान् ॥ ४० ॥

यन्त्रमन्त्रकलासिद्धान् विमतान् सिद्धमण्डलान् ।
विजित्य स्वप्रभावेण स्थापयित्वा शिवागमान् ।
आजगाम निजावासं कोल्लिपाक्यभिधं पुरम् ॥ ४१ ॥

मरितोण्डदार्यः

प्रच्छन्नश्च सप्तशतवर्षपर्यन्तमिति शेषः । तथा प्रकटितः सन्
कांश्चिज्जनान् करुणारसपूरितकटाक्षेण कृतार्थयन् अपरान्
शिवाद्वैतप्रकाशकोपदेशेन कृतार्थयन् अन्यान् निर्मलसहवासेन
कृतार्थयन् अवशिष्टसर्वजनान् कृतिनः सकलकलाकुशलान् पक्वकर्मिणः
परिपक्वमलमायापाशवन्तः सन्तश्च कृतार्थयन् सन् शिवदर्शनलालसः
शिवसमयलम्पटः श्रीरेवणसिद्धो निजाधिक्यम् अनेकचित्रविचित्रनिजमहत्त्वं
दर्शयित्वा भिन्नदर्शनान् वैष्णवाद्यन्यसमयनिष्ठान् पाषण्डान्
शङ्खचक्राद्यन्यलाञ्छनयुक्तान् दुराचारान् खण्डयित्वा
यन्त्रमन्त्रादिचतुःषष्टिकलासिद्धियुक्तान्
कापालिकादिपरमतसिद्धमण्डलान् गोरक्षादिनवकोटिसिद्धान् स्वसामर्थ्येन
विजित्य कामिकादिशिवसिद्धान्तान् स्थापयित्वा निजावासं कोल्लिपाक्यभिधं
पुरमाजगाम आससादेत्यर्थः ॥ ३७-४१ ॥

[[४६१]]

तत्र सम्भावितः सर्वैर्जनैः शिवपरायणैः ।
सोमनाथाभिधानस्य शिवस्य प्राप मन्दिरम् ॥ ४२ ॥

सम्भावितः सत्कृत इत्यर्थः । शिष्टं स्पष्टम् ॥ ४२ ॥

पश्यतां तत्र सर्वेषां भक्तानां शिवयोगिनाम् ।
तन्वानो विस्मयं भावैस्तुष्टाव परमेश्वरम् ॥ ४३ ॥

मरितोण्डदार्यः

भावैर्निर्मलगुणैरित्यर्थः । विस्मयमाश्चर्यं तन्वानो
विस्तारयन्नित्यर्थः ॥ ४३ ॥

अथ सप्तभिः सूत्रैः सोमेश्वरस्य स्तुतिं करोति-

देवदेव जगन्नाथ जगत्कारणकारण ।
ब्रह्मविष्णुसुराधीशवन्द्यमानपदाम्बुज ॥ ४४ ॥

मरितोण्डदार्यः

अत्र जगच्छब्देन भुवनान्युच्यन्ते ।
तत्कारणीभूतबिन्दुमायादीनामपि कारणीभूत! इत्यर्थः ॥ ४४ ॥

संसारनाटकभ्रान्तिकलानिर्वहणप्रद ।
समस्तवेदवेदान्तपरिबोधितवैभव ॥ ४५ ॥

[[४६२]]

संसारनाटकभ्रान्तिकलाजयप्रद इत्यर्थः ॥ ४५ ॥

संसारवैद्य सर्वज्ञ सर्वशक्तिनिरङ्कुश ।
सच्चिदानन्द सर्वस्व परमाकाशविग्रह ॥ ४६ ॥

मरितोण्डदार्यः

आकाशशरीरं ब्रह्म [तै० उ० १।६।२] इति श्रुतेश्चिदाकाशस्वरूप
इत्यर्थः । शिष्टं स्पष्टम् ॥ ४६ ॥

समस्तजगदाधारज्योतिर्लिङ्गविजृम्भण ।
सदाशिवमुखानेकदिव्यमूर्तिकलाधर ॥ ४७ ॥

मरितोण्डदार्यः

ज्वाललिङ्गाय नमः [म० ना० उ० १४।९] इति श्रुतेर्ज्योतिलिङ्गस्वरूपेण
जृम्भमाण इत्यर्थः । स्थिरेभिरङ्गैः पुरुरूप उग्रः [द्ध० सं० २।३३।९] इति
श्रुतेः सकलनिष्कलसदाशिवप्रभृतिदिव्यमूर्तिकलाधर इत्यर्थः । अत्र - स एको
रुद्रः स ईशानः स भगवान् स महेश्वरः स महादेवः [अ० शि० उ० ३] इति
श्रुतिः ॥ ४७ ॥

गुणत्रयपदातीत मलत्रयविनाशन ।
जगत्त्रयविलासात्मन् श्रुतित्रयविलोचन ॥ ४८ ॥

मरितोण्डदार्यः

सत्त्वरजस्तमोगुणस्थानातीत
आणवकार्मणमायिकाख्यमलत्रयोन्मूलनकर
स्वर्गमर्त्यपाताललक्षणजगत्त्रयसृष्ट्यादिपञ्चकृत्यक्रीडाविलासोन्मुख
ऋग्यजुःसमाख्यश्रुतित्रयविलोचन इत्यर्थः ॥ ४८ ॥

[[४६३]]

पाहि मां परमेशान पाहि मां पार्वतीपते ।
त्वदाज्ञया मयैतावत्कालमात्रं महीतले ।
अचारि भवदुक्तानामागमानां प्रसिद्धये ॥ ४९ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ४९ ॥

अतः परं स्वरूपं ते प्राप्तुकामोऽस्मि शङ्कर ।
अन्तरं देहि मे किञ्चिदनुकम्पाविशेषतः ॥ ५० ॥

मरितोण्डदार्यः

भो शङ्कर सुखकर तेन प्रसिद्ध सोमेश्वर अतः परम् इतः
परमित्यर्थः । अहं ते स्वरूपं लब्धुकामोऽस्मि मे मम अन्तरमवकाशं
देहि । अनुकम्पां कृपां विशेषतो देहि कुर्वित्यर्थः ॥ ५० ॥

अथ वृत्तत्रयेण शिवप्रसन्नतां रेवणसिद्धेश्वरस्य लिङ्गैक्य च
प्रतिपादयति-

इत्युक्ते गणनायकेन सहसा लिङ्गात् ततः शाङ्कराद्
वत्सागच्छ महानुभाव भवतो भक्त्या प्रसन्नोऽस्म्यहम् ।
इत्युच्चैरगदद् वचस्तनुभृतामश्चर्यमासीत् तदा
दिव्यो दुन्दुभिराननाद गगने पुष्पं ववर्षुर्गणाः ॥ ५१ ॥

मरितोण्डदार्यः

गणनायकेन रेवणसिद्धेश्वरेण इत्युक्ते एवं विज्ञापिते सति सहसा
तत्क्षणेन शाङ्करात् ततो लिङ्गात् सोमेश्वरलिङ्गाद् भो महानुभाव
निगमागमेषु महानिश्चयबुद्धिमन् वत्स रेवणसिद्धाख्यकुमार
भवतस्तव भक्त्या नवविधभक्त्या अहं प्रसन्नोऽस्मि आगच्छ आयाहीति
वचः शिव उच्चैरगदद् आवादीत् । तदा तस्मिन् समये तनुभृतां
शरीरिणामाश्चर्यं कौतुकमासीत् गगने दिव्यो दुन्दभिः देवदुन्दुभिः
आननाद सर्वत्र ध्वनितवान् गणाः प्रमथगणा देवगणाश्च पुष्पं
कुसुमवृष्टिं ववर्षुरित्यर्थः ॥ ५१ ॥

[[४६४]]

श्रुत्वा लिङ्गाद् वचनमुदितं शाङ्करं सानुकम्पं
संहृष्टात्मा गणपतिरथो ज्योतिषा दीप्यमानः ।
जातोत्कण्ठैः परमनुचरैर्योगिभिः स्तूयमानो
ज्योतिर्लिङ्गं परमनुविशत् स्वप्रकाशं तदानीम् ॥ ५२ ॥

मरितोण्डदार्यः

अथो पुष्पवृष्ट्यनन्तरं संहृष्टात्मा सन्तुष्टचित्तो गणपतिः
शिवगणपतिः श्रीरेवणसिद्धो ज्योतिषा शिवप्रकाशेन दीप्यमानः
प्रकाशमानः सन् लिङ्गात् सोमेशलिङ्गाद् उदितम् उद्भूतं सानुकम्पं
कृपासहितं शाङ्करं वचनं शिवसम्बन्धिवचनं पूर्वोक्तवाक्यं
श्रुत्वा जातोत्कण्ठैर् उद्भूताश्चर्यवद्भिः अनुचरैः सहचरैः शिवयोगिभिः
परमधिकतया स्तूयमानः सन् तदानीं तस्मिन् समये परं सर्वोत्कृष्टं
निजप्रकाशरूपं ज्योतिर्लिङ्गं तस्य भासा सर्वमिदं विभाति [क० उ० ५।१५]
तमेव भान्तमनुभाति सर्वम् [क० उ० ५।१५] इति श्रुतिसिद्धचिल्लिङ्गमनुविशत्
स्वरूपहानिवृद्धिव्यतिरेकेण सामरस्येन प्रविष्टवानित्यर्थः ॥ ५२ ॥

लीने तस्मिन् शाङ्करे स्वप्रकाशे
दिव्याकारे रेणुके सिद्धनाथे ।
सर्वो लोको विस्मितोऽभूत् तदानीं
शैवी भक्तिः सप्रमाणा बभूव ॥ ५३ ॥

मरितोण्डदार्यः

दिव्याकारे मनोहरस्वरूपे रेणुके सिद्धनाथे रेवणसिद्धेश्वरे
स्वप्रकाशे शाङ्करे तस्मिन् लिङ्गे सोमेशलिङ्गे लीने सति ऐक्यं गते सति सर्वो
लोकः समस्तजनो विस्मित आश्चर्ययुक्त आसीत् । तदानीं तस्मिन् काले शैवी
भक्तिः शिवसम्बन्धिनी भक्तिः सप्रमाणा प्रमाणेन सह वर्तमाना
बभूव आसीदित्यर्थः ॥ ५३ ॥

श्रीवेदागमवीरशैवसरणिं श्रीषट्स्थलोद्यन्मणिं
श्रीजीवेश्वरयोगपद्मतरणिं श्रीगोप्यचिन्तामणिम् ।

[[४६५]]

श्रीसिद्धान्तशिखामणिं लिखयिता यस्तं लिखित्वा परान्
श्रुत्वा श्रावयिता स याति विमलां भुक्तिं च मुक्तिं पराम् ॥ ५४ ॥

इति श्रीमत्षट्स्थलब्रह्मिणा शिवयोगिनाम्ना रेणुकाचार्येण विरचिते
वीरशैवधर्मनिर्णये सिद्धान्तशिखामणौ रेणुकविभीषणसंवादे
रेणुकशिवलिङ्गैक्यप्रसङ्गो नामैकविंशः परिच्छेदः ॥ २१ ॥

॥ श्रीसिद्धान्तशिखामणिश्च समाप्तः ॥

मरितोण्डदार्यः

श्रीवेदागमवीरशैवसरणिं
मङ्गलकरसकलसमयशास्त्रोत्तरवेदागमप्रतिपाद्यवीरशैवसरणिरेव
सरणिर्यस्येत्यर्थः श्रीषट्स्थलोद्यन्मणिं
मङ्गलात्मकैकोत्तरशतस्थलरूपाङ्गलिङ्गषट्स्थलमार्गप्रकाशन-
शाणोल्लीढरत्नम् श्रीजीवेश्वरयोगपद्मतरणिं
शोभमानजीवपरमैक्यलक्षणकमलविकसनार्कम् श्रीगोप्यचिन्तामणिं
मङ्गलकरशिवरहस्यार्थप्रकाशनचिन्तारत्नं तं
श्रीसिद्धान्तशिखामण्याख्यवीरशैवशास्त्रं यो लिखित्वा परान् लेखयिता
यः श्रुत्वा परान् श्रावयिता स विमलां भक्तिं परां मुक्तिं च याति
प्राप्नोतीत्यर्थः ॥ ५४ ॥

इति श्रीमत्पदवाक्यप्रमाणपारावारधुरीणश्रीमरितोण्डदार्येण
विरचितायां तत्त्वप्रदीपिकाख्यायां सिद्धान्तशिखामणिव्याख्यायां
रेणुकविभीषणसंवादे रेणुकशिवलिङ्गैक्यप्रसङ्गो नामैकविंशः
परिच्छेदः ॥ २१ ॥