१८ प्राण-लिङ्गि-स्थल-विषय-नव-विध-लिङ्ग-प्रसङ्गः

अष्टादशः परिच्छेदः

आत्मस्थलम्

(अथात्मस्थलम्)

अथ प्राणलिङ्गिस्थलभेदाः कथ्यन्ते । अथागस्त्यप्रश्नः-

प्रसादिस्थलसम्बद्धाः स्थलभेदाः प्रकीर्तिताः ।
प्राणलिङ्गिस्थलारूढान् स्थलभेदान् वदस्व मे ॥ १ ॥

मरितोण्डदार्यः

स्थलभेदान् अवान्तरभेदानित्यर्थः । वदस्व उपदिशेत्यर्थः । शिष्टं
स्पष्टम् ॥ १ ॥

अथ श्रीरेणुकस्तद्भेदं सूत्रत्रयेण निरूपयति-

स्थलानां नवकं प्रोक्तं प्राणलिङ्गिस्थलाश्रितम् ।
आदावात्मस्थलं प्रोक्तमन्तरात्मस्थलं ततः ॥ २ ॥

परमात्मस्थलं पश्चान्निर्देहागमसञ्ज्ञकम् ।
निर्भावागमसञ्ज्ञं च ततो नष्टागमस्थलम् ॥ ३ ॥

आदिप्रसादनामाथ ततोऽप्यन्त्यप्रसादकम् ।
सेव्यप्रसादकं चाथ शृणु तेषां च लक्षणम् ॥ ४ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २-४ ॥

[[३५६]]

मरितोण्डदार्यः

अथ-एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः
सत्यकामः सत्यसङ्कल्पः [छा० उ० ८।१।४] इति छान्दोग्यश्रुत्युसारेणायं
सेव्य एवात्मेत्यात्मस्थलं निरूपयति-

जीवभावं परित्यज्य यदा तत्त्वं विभाव्यते ।
गुरोश्च बोधयोगेन तदात्मायं प्रकीर्तितः ॥ ५ ॥

मरितोण्डदार्यः

अयं सेव्य एव श्रीगुरोः शिवज्ञानसम्बन्धेन जीवभावं जीवत्वं
परित्यज्य यदा परतत्त्वं विभाव्यते तदा आत्मेति परिकीर्तित इत्यर्थः ॥ ५ ॥

अथ कोऽयं जीव इत्यत्र-

वालाग्रशतभागेन शतधा कल्पितेन तु ।
भाग आत्मा स विज्ञेयः स चानन्त्याय कल्प्यते ॥

इति श्वेताश्वतरश्रुत्यनुसारेण जीवस्वरूपं पञ्चभिः सूत्रैः
प्रतिपादयति-

वालाग्रशतभागेन सदृशो हृदयस्थितः ।
अनश्नन् कर्मफलं सर्वमात्मा स्फुरति दीपवत् ॥ ६ ॥

मरितोण्डदार्यः

वालाग्रेति केशाग्रशतभागेन सदृशः सन् स्वार्जितकर्मफलं
भुञ्जन् सन् हृदये हृदयकमले स्थितः तिष्ठतीत्यर्थः । नन्वेवं चेत्
शरीरैकदेशनिष्ठत्वेन पादे मे वेदना शिरसि सुखमिति
सर्वाङ्गीणचैतन्योपलब्धिः कथमित्याशङ्क्याह-दीपवदिति । दीपस्य
गृहैकदेशनिष्ठत्वेऽपि स्वप्रभया सम्पूर्णगृहं व्याप्य
तदन्तर्गतसकलवस्तुप्रकाशकत्वं यथा तद्वद् जीवस्य शरीरैकदेश-
निष्ठत्वेऽपि प्रज्ञया शरीरं समारुह्य इति श्रुतेस्तद्बुद्धेर्व्यापकत्वेन
सर्वं शरीरं व्याप्य सर्वाङ्गीणचैतन्यमनुभवन् आत्मा जीवात्मा
स्फुरति प्रकाशत इत्यर्थः ॥ ६ ॥

[[३५७]]

मरितोण्डदार्यः

नन्वेवंविधरूपं जीवस्य स्वाभाविकं किमित्यत्राह-

आत्मापि सर्वभूतानामन्तःकरणमाश्रितः ।
अणुभूतो मलासङ्गादादिकर्मनियन्त्रितः ॥ ७ ॥

मरितोण्डदार्यः

सर्वभूतानां पञ्चभूतानाम् आत्मापि परमार्थतो
व्यापकत्वाश्रयोऽपि मलासङ्गाद् आणवादिमलव्यापनाद् अणुभूतः
परमणुदतिसूक्ष्मः सन् आदिकर्मनियन्त्रितः प्राचीनकर्मपाशबद्धः सन्
अन्तःकरणमाश्रितोऽहङ्कारमाश्रितवानित्यर्थः ॥ ७ ॥

अथैवमहङ्कारसम्बन्धाद् देहसम्बन्धोऽपि प्राप्त इत्यत्राह-

जपायोगाद्यथा रागः स्फटिकस्य मणेर्भवेत् ।
तथाऽहङ्कारसम्बन्धादात्मनो देहमानिता ॥ ८ ॥

परिमिताहङ्कारसम्बन्धाद् देहसम्बन्धः प्राप्त इत्यर्थः । शिष्टं
स्पष्टम् ॥ ८ ॥

मरितोण्डदार्यः

ननु सर्वदोषरहितस्यात्मनः कथमुक्तप्रकारेण शरीरसम्बन्ध इत्यत्राह-

अशरीरोऽपि सर्वत्र व्यापकोऽपि निरञ्जनः ।
आत्मा मायाशरीरस्थः परिभ्रमति संसृतौ ॥ ९ ॥

मरितोण्डदार्यः

परापरमोक्षकारणीभूतशुद्धविद्याशरीरवत्त्वेनाशरीरोऽपि
अपरिच्छिन्नत्वाद् व्यापकोऽपि दोषरहितत्वान्निरञ्जनोऽपि
कलादिक्षितिपर्यन्तत्रिंशत्तत्त्वकारणीभूतस्वकीयाधोमायाशक्ति-
परिकल्पितचन्द्रकलाविशिष्टशरीरवान् सन् संसारे परिभ्रमतीत्यर्थः ॥ ९ ॥

[[३५८]]

मरितोण्डदार्यः

अथैवंरूपजीवस्यात्मत्वप्राप्तिप्रकारमाह-

आत्मस्वरूपविज्ञानं देहेन्द्रियविभागतः ।
अखण्डब्रह्मरूपेण तदात्मप्राप्तिरुच्यते ॥ १० ॥

मरितोण्डदार्यः

देहेन्द्रियविभागत
उक्तलक्षणमायिकप्राकृतसत्त्वादिगुणकार्यरूपशरीरेन्द्रियादिव्यतिरिक्तत्वेन
अखण्डब्रह्मरूपेण अपरिच्छिन्नब्रह्मरूपेण आत्म विज्ञानं
स्वस्वरूपज्ञानं यदा भवति तदात्मप्राप्तिरात्मत्वलाभ उच्यते
आत्मलाभान्न परं विद्यते । नेति सति न हृद्यः इति श्रुतेरित्यर्थः ॥ १० ॥

नन्वपरिच्छिन्नं ब्रह्म परिच्छिन्नशरीरविशिष्टं किमर्थं जातमित्यत्राह-

न चास्ति देहसम्बन्धो निर्देहस्य स्वभावतः ।
अज्ञानकर्मयोगेन देही भवति भुक्तये ॥ ११ ॥

मरितोण्डदार्यः

अशरीरस्य परमात्मनः परमार्थतः शरीरसम्बन्धो नास्त्येव
तथापि भुक्तये-

यथा नृपः सार्वभौमप्रभावामोदबृहितः ।
क्रीडन् करोति पादातिधर्म तद्धर्मधर्मितः ॥

मरितोण्डदार्यः

इति शिवदृष्टिशास्त्रोक्तदृष्टान्तेन अखण्डरसास्वादपरिबृंहितोऽपि
खण्डरसास्वादनार्थमिच्छायामज्ञानकर्मयोगेन
स्वातन्त्र्यपरिकल्पिताणवादिमलसम्बन्धेन देही भवति
घृतकाठिन्यन्यायेनांशतः शरीरी भवति । तस्मादंशीभूतस्य
ज्ञानादिमलसम्बन्धान्नृप इवाहं शिव इति ज्ञानं नास्तीति बोध्यम् ।
अस्मिन्नर्थे-स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स
एतावानास [शि० दृ० १।३७-३८; बृ० उ० १।४।३] । तत्सृष्ट्वा तदेवानुप्राविशत् ।
तदनुप्रविश्य सच्च त्यच्चाभवत् [तै० उ० ६।४] इति श्रुतिः । विष्टभ्याहमिदं
कृत्स्नमेकांशेन स्थितो जगत् [भ० गी० १०।४२।५] इति ममैवांशो जीवलोके
जीवभूतः सनातनः [भ० गी० १५।७] इति भगवदुक्तिश्च । शिवस्य
निरंशत्वेऽपि स्वतन्त्रत्वात् स्वातन्त्रपरिकल्पितांशभावः

[[३५९]]

सम्भवति वत्सापहरणदृष्टान्तात् । क्रिया हि कर्मण्येव विश्राम्येन्न तु
कर्तरीति न्यायान्नात्मनो बन्धः । वस्तुतस्तु-आत्मा वा इदमेक एवाग्र आसीत् [ऐ०
उ० १।१] इति श्रुतेः कला सप्तदशी देशी स्वान्तर्लीनचराचरा इत्यागमोक्तेः-

इदं पूर्वं जगत्सर्वं प्रलये पारमेश्वरे ।
मायाभिन्ने स्वमायाख्यकारणाभेदरूपतः ॥
वर्तते वासनारूपेणैव नाभावरूपतः ।

मरितोण्डदार्यः

इति पाराशरोपपुराणवचनाच्च सर्वं
विश्वमण्डरसन्यायेनात्मसमवेतचित्क्रियासामरस्यलक्षणचिदम्बरशक्तौ
तादात्म्येनास्तीति परमात्मस्थले वक्ष्यमाणरीत्या वह्निर्विस्फुलिङ्गानिव
स्वतादात्म्यापन्नान् चित्कणान् तत्तत्कर्मानुसारेण सृजत्यवति संहरति
तिरयतेऽनुगृह्णातीति न काचिदनुपपत्तिः ॥ ११ ॥

तर्ह्यसौ जीवः किन्नामक इत्यत्राह-

नासौ देवो न गन्धर्वो न यक्षो नैव राक्षसः ।
न मनुष्यो न तिर्यक्च न च स्थावरविग्रहः ॥ १२ ॥

तत्तच्छरीरयोगेन तत्तन्नाम्ना विराजितः । स्पष्टम् ॥ १२ ॥

[[३६०]]

तर्ह्ययं कीदृश इत्यत्र-स्वस्वकृतदुष्कर्मणा परमेश्वरप्रेरणया
बद्धाः संसारिणो जीवाः इति वृद्धजाबालश्रुत्यनुसारेण
दृग्युगैक्यावलोकमिव द्वैताद्वैतसामरस्यात्मनः शिवस्य
स्वातन्त्र्यपरिकल्पितजीवोपाधिना नानारूपाः सन्तः शिवस्य
क्रीडाभाजनरूपा इत्याह-

नानाकर्मविपाकाश्च नानायोनिसमाश्रिताः ।
नानायोगसमापन्ना नानाबुद्धिविचेष्टिताः ॥ १३ ॥

नानामार्गसमारूढा नानासङ्कल्पकारिणः ।
अस्वतन्त्राश्च किञ्चिज्ज्ञाः किञ्चित्कर्तृत्वहेतवः ।
लीलाभाजनतां प्राप्ताः शिवस्य परमात्मनः ॥ १४ ॥

मरितोण्डदार्यः

नानाविधप्राचीनकर्मविपाकवशाद् देवाः षोडशलक्षाणि
इत्युदाहृतवचनानुसारेण देवतिर्यङ्मनुष्यादिनानायोनिसमापन्ना
नानाविधस्वर्गभोगोपायचिन्तका नानाविधबुद्ध्याक्रान्ताः सन्तो
नानाविधवैष्णवादिदर्शनमार्गप्रविष्टा नानासङ्कल्पकारिणः
किञ्चिज्ज्ञाः किञ्चित्कर्तृत्वकारणीभूताः स्वातन्त्र्यशून्या जीवाः
परमात्मनः शिवस्य लीलाभाजनतां गताः क्रीडाभाण्डरूपा इत्यर्थः ॥
१३-१४ ॥

अथैते किं यान्तीत्यत्राह-

चोदिताः परमेशेन स्वस्वकर्मानुरूपतः ।
स्वर्ग वा नरकं वापि प्राणिनो यान्ति कर्मिणः ॥ १५ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ १५ ॥

अथ स्वर्गनरकयोर्वा तेषां स्थैर्यमस्ति किमित्यत्राह-

पुनः कर्मावशेषेण जायन्ते गर्भकोटरात् ।
जाता मृताः पुनर्जाताः पुनर्मरणभाजिनः ।

[[३६१]]

भ्रमन्ति घोरसंसारे विश्रान्तिकथया विना ॥ १६ ॥

मरितोण्डदार्यः

विश्रान्तिकथया स्वस्वरूपाविश्रान्तिवार्ताव्यतिरेकेणेत्यर्थः । शिष्टं
स्पष्टम् ॥ १६ ॥

नन्वेवं चेत् संसारचक्रपरिभ्रमणं शाश्वतं किमित्यत्राह-

जीवत्वं दुःखसर्वस्वं तदिदं मलकल्पितम् ।
निरस्यते गुरोर्बोधाज्ज्ञानशक्तिः प्रकाशते ॥ १७ ॥

मरितोण्डदार्यः

जीवत्वमाणवादिमलकल्पितम् अज्ञानादिमलकल्पितमित्यर्थः । तस्माद्
दुःखसर्वस्वरूपम् । तदिदं दुःखसर्वस्वरूपं जीवत्वं गुरोर्बोधात्
श्रीगुरूपदिष्टशिवाद्वैतबोधात् निरस्यते निवार्यते ज्ञानशक्तिः
स्वस्वरूपज्ञानशक्तिसामर्थ्यं प्रकाश्यत इत्यर्थः ॥ १७ ॥

इत्यात्मस्थलम्

अन्तरात्मस्थलम्

अथान्तरात्मस्थलम्

अथ-

सूर्यो यथा सर्वलोकस्य चक्षुर्न
लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न
लिप्यते लोकदुःखेन बाह्यः [कठोप० २।५।११] ॥

मरितोण्डदार्यः

इति कठवल्लीश्रुत्यनुसारेण निराकृतजीवभावस्यात्मनोऽन्तरात्मत्वं
भवतीति निरूपयति-

यदा निरस्तं जीवत्वं भवेद् गुर्वनुबोधतः ।
तदान्तरात्मभावोऽपि निरस्तस्य भवेद् ध्रुवम् ॥ १८ ॥

[[३६२]]

मरितोण्डदार्यः

गुर्वनुबोधतो गुरूपदेशाज्जीवत्वं जीवभावो यदा निरस्तं भवेत्
तदा निरस्तस्य निरस्तजीवभाववत आत्मनोऽन्तरात्मभावो भवेत् स्यात् ध्रुवं
निश्चय इत्यर्थः ॥ १८ ॥

अथान्तरात्मस्वरूपं सूत्रत्रयेण कथयति-

देहस्थितोऽप्ययं जीवो देहसङ्गविवर्जितः ।
बोधात् परात्मभावित्वादन्तरात्मेति कीर्तितः ॥ १९ ॥

मरितोण्डदार्यः

अयं जीवो देहस्थितोऽपि देहसङ्गरहितः सन् बोधात् स्वस्वरूपज्ञानात्
परात्मभावित्वात् परमात्मनो भाववत्त्वाद् अन्तरात्मेति कथ्यत इत्यर्थः ॥ १९

अथ प्रकारान्तरेणोपपादयति-

आत्मान्तरालवर्तित्वाज्जीवात्मपरमात्मनोः ।
योगादुभयधर्माणामन्तरात्मेति कीर्तितः ॥ २० ॥

मरितोण्डदार्यः

आत्मा निरस्तजीवभाववान् सेव्यः शिष्योपदेशसमये
जीवात्मपरमात्मनोरन्तरालवर्तित्वात् मध्यवर्तित्वादित्यर्थः । तदा
शिष्यबुद्धिशिक्षकत्वेन तदन्तर्यामितया शिवधर्मयोगाद्
आहारव्याहारदेर्विद्यमानत्वेन जीवधर्मयोगात् । एवमुभयधर्माणां
योगाद् अन्तरात्मेति कीर्तित इति ॥ २० ॥

अथ प्रकारान्तरेणाह-

अहङ्कारस्य सम्बन्धान्मनुष्यत्वादिविभ्रमः ।
न स्वभाव इति ज्ञानादन्तरात्मेति कथ्यते ॥ २१ ॥

मरितोण्डदार्यः

परिच्छिन्नस्वरूपाहम्भाववशाद् मनुष्यत्वादिविभ्रमः स्यात् न
स्वभावत इति ज्ञानात् परिच्छिन्नस्वरूपत्वं न स्वाभाविकमिति ज्ञानाद्
अन्तरात्मेति कथ्यत इत्यर्थः ॥ २१ ॥

[[३६३]]

मरितोण्डदार्यः

अथास्य शरीरसम्बन्धोऽस्ति न वेत्यत्र दृष्टान्तपूर्वकं सूत्रत्रयेणाह-

यथा पद्मपलाशस्य न सङ्गो वारिणा भवेत् ।
तथा देहजुषोऽप्यस्य न शरीरेण सङ्गतिः ॥ २२ ॥

नीडस्थितो यथा पक्षी नीडाद्भिन्नः प्रदृश्यते ।
देहस्थितस्तथात्मायं देहादन्यः प्रकाश्यते ॥ २३ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २२-२३ ॥

अथ पुनर्दृष्टान्तमाह-

आच्छाद्यते यथा चन्द्रो मेघैरासङ्गवर्जितैः ।
तथात्मा देहसङ्घातैरसङ्गपरिवेष्टितः ॥ २४ ॥

मरितोण्डदार्यः

चन्द्र आसङ्गवर्जितैः स्वस्य सर्वत्र सङ्गरहितैर्मेघैर्यथा
आच्छाद्यते तथा आत्मा निवृत्तजीवभावः सेव्यो देहसङ्घातैः
स्थूलादिदेहसमूहैः असङ्गः सन् परिवेष्टित इत्यर्थः ॥ २४ ॥

तर्ह्ययं कं पश्यन्नास्त इत्यत्राह-

निर्ममो निरहङ्कारो निरस्तोपाधिविक्लवः ।
देहस्थोऽपि सदा ह्यात्मा शिवं पश्यति योगतः ॥ २५ ॥

विक्लवो बाधः । योगो योगसामर्थ्यम् । शिष्टं स्पष्टम् ॥ २५ ॥

[[३६४]]

मरितोण्डदार्यः

तर्हि शिवं पश्यन्नयं तथा भासत इत्यत्राह-

भोक्तृभोज्यपरित्यागात् प्रेरकस्य प्रसादतः ।
भोक्तृताभावगलितः स्फुरत्यात्मा स्वभावतः ॥ २६ ॥

मरितोण्डदार्यः

भोक्तृभोज्यपरित्यागाद् भोक्तृजीवेन भोज्यविषयपरित्यागात्
प्रेरकस्येश्वरस्य प्रसन्नतावशाद् भोक्तृताभावगलितः सन्
भोक्तृलक्षणजीवभाववियुक्तः सन् स्वभावतो
जीवेश्वरसाधारणीभूतात्मत्वस्वरूपतः स्फुरति प्रकाशत इत्यर्थः ॥ २६ ॥

अथान्तरात्मस्थलं समापयति-

सर्वेषां प्रेरकत्वेन शम्भुरन्तःस्थितः सदा ।
तत्परिज्ञानयोगेन योगी नन्दति मुक्तवत् ॥ २७ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ २७ ॥

इत्यन्तरात्मस्थलम्

परमात्मस्थलम्

अथ परमात्मस्थलम्

अथ-

एवं विदित्वा परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम् ।
समस्तसाक्षिं सदसद्विहीनं
प्रयाति शुद्धं परमात्मरूपम् [कै० उ० २।२२-२३] ॥

मरितोण्डदार्यः

इति कैवल्यश्रुत्यनुसारेण अयमन्तरात्मैव निर्मलत्वेन परमात्मेति
निरूपयति-

[[३६५]]

निर्धूते तत्प्रबोधेन मले संसारकारणे ।
सामरस्यात् परात्मस्थात् परमात्मायमुच्यते ॥ २८ ॥

मरितोण्डदार्यः

अयमन्तरात्मा संसारकारणे मलेऽज्ञाने तत्प्रबोधेन
तच्छिवाद्वैतज्ञानेन निर्धूते सति निवारिते सति परात्मस्थात् परमात्मस्थात्
सामरस्यात् समरसभावात् परमात्मेत्युच्यत इत्यर्थः ॥ २८ ॥

अथ कोऽयं परमात्मेत्यत्राह-

सर्वेषामात्मभेदानामुत्कृष्टत्वात् स्वतेजसा ।
परमात्मा शिवः प्रोक्तः सर्वगोऽपि प्रकाशवान् ॥ २९ ॥

मरितोण्डदार्यः

स्वतेजसा निजतेजसा सर्वगोऽपि सर्वव्यापकोऽपि प्रकाशवान् शिवः
सर्वेषामात्मभेदानाम् उत्कृष्टत्वात् परमात्मेति प्रोक्त उच्यते इत्यर्थः ॥ २९ ॥

अथ प्रकारान्तरेण तल्लक्षणमाह-

ब्रह्माण्डबुद्बुदस्तोमा यस्य मायामहोदधौ ।
उन्मज्जन्ति निमज्जन्ति परमात्मा स उच्यते ॥ ३० ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ३० ॥

अथ तत्स्वरूपमेव दृष्टान्तपूर्वकं सूत्रत्रयेण कथयति-

यस्मिन् ज्योतिर्गणाः सर्वे स्फुलिङ्गा इव पावकात् ।
उत्पत्य विलयं यान्ति तद्रूपं परमात्मनः ॥ ३१ ॥

मरितोण्डदार्यः

यस्मिन् वस्तुनि सर्वे ज्योतिर्गणाः समस्तजीवतेजःसमूहा वह्नेर्जाता
विस्फुलिङ्गा इव उत्पत्य विलयं यान्ति तत्परमात्मनो रूपं स्वरूपमित्यर्थः
॥ ३१ ॥

[[३६६]]

मरितोण्डदार्यः

अथ प्रकारान्तरेणाह-

यस्मिन् समस्तवस्तूनि कल्लोला इव वारिधौ ।
सम्भूय लयमायान्ति तद्रूपं परमात्मनः ॥ ३२ ॥

मरितोण्डदार्यः

यस्मिन् वस्तुनि भूम्यादिसमस्ततत्त्वानि समुद्रे बृहत्तरङ्गा इव
सम्भूय लयमायान्ति तत्परमात्मनो रूपम् ॥ ३२ ॥

पुनः प्रकारान्तरेणाह-

निरस्तमलसम्बन्धं निःशेषजगदात्मकम् ।
सर्वतत्त्वोपरि प्रोक्तं स्वरूपं परमात्मनः ॥ ३३ ॥

मरितोण्डदार्यः

निवारिताणवादिमलसम्बन्धं
नामरूपात्मकसकलजगज्जीवनभूतं परमात्मनः स्वरूपं
भूम्यादिशिवान्तसकलतत्त्वोपरि प्रोक्तम् ॥ ३३ ॥

अथ परमात्मा कथं प्रकाशत इत्यत्राह-

यथा व्याप्य जगत्सर्वं स्वभासा भाति भास्करः ।
तथा स्वशक्तिभिर्व्याप्य परमात्मा प्रकाशते ॥ ३४ ॥

मरितोण्डदार्यः

भास्करः स्वकान्त्या जगत्सर्वं व्याप्य यथा वर्तते तथा परमात्मा
धूमावत्यादिस्वकीयपञ्चशक्तिभिर्विश्वं व्याप्य प्रकाशत इत्यर्थः ।
तथाहि- सृज्यस्य पाञ्चभौतिकत्वाद् भूम्यां धूमावत्यपरपर्याया
तिरोधानशक्तिः जले पुष्टिलक्षणा पालनशक्तिः तेजसि
विश्वप्रकाशकतालक्षणा सृष्टिशक्तिः वायौ शोषकतालक्षणा
संहारशक्तिः नभसि व्यापकशिवैकीकरणप्रवीणानुग्रहात्मिका

[[३६७]]

विभुताशक्तिः । एवं पञ्चभिर्विश्वं व्याप्य वर्तत इत्यर्थः ।
उक्तोऽयमर्थः पञ्चाशिकाशास्त्रे-

धूमावती पृथिव्यां ह्लादाप्सु शुचौ तु भास्वती प्रथते ।
वायौ स्पन्दा विभ्वी नभसि व्याप्तं जगत् ताभिः ॥
धूमावती तिरोधौ भास्वत्यवभासनेऽध्वनां शक्तिः ।
क्षोभे स्पन्दा व्याप्तौ विभ्वी ह्लादा च पुष्टौ स्यात् ॥

मरितोण्डदार्यः

इति । एवं स्वशक्तिभिर्विश्वं व्याप्य वर्तत इत्यर्थः । अत्र स्वकान्त्या
विश्वं व्याप्य भासमानस्य सूर्यस्य यथाऽभेदः तथा
शिवाद्विश्वस्याभेदो नाशङ्कनीयः भूम्यादेः शक्तिरूपत्वात् शक्तीनां
शिवस्वभावत्वात् । नैवं विश्वं सारतेजोरूपम् किन्तु सम्बन्धमात्रम्
सर्वांशे दृष्टान्ताभावाद् व्याप्तावेव दृष्टान्त इति ॥ ३४ ॥

नन्वेवं विश्वव्यापकत्वेन भासमानत्वादीश्वरस्य
विश्वविकारत्वं कस्मान्न सम्भवति इत्याक्षेपस्योत्तरं वदन्
परमात्मस्थलं समापयति-

विश्वतो भासमानोऽपि विश्वमायाविलक्षणः ।
परमात्मा स्वयञ्ज्योतीरूपो जीवात्मनां भवेत् ॥ ३५ ॥

मरितोण्डदार्यः

परमात्मा विश्वस्मिन् सर्वत्र भासमानोऽपि विश्वमायाविलक्षणो
विश्वोपादानकारणीभूतो व्योमवद् विश्वगतषड्भावविकार [जायतेऽस्ति
वर्द्धते विपरिणमतेऽपक्षीयते नश्यति इति षड्भावविकारा निरुक्त उक्ताः ।]
दोषरहितः सन् सच्चिदानन्दस्वरूपेण जीवात्मानां
संसारहेयबुद्धिसम्पन्नानां ज्योतीरूपो बुद्धिप्रकाशको भवतीति ॥ ३५ ॥

[[३६८]]

इति परमात्मस्थलम्

निर्देहागमस्थलम्

अथ निर्देहागमस्थलम्

अथ-

आश्रयो द्वन्द्वमित्युक्तं द्वन्द्वत्यागात् परो दमः ।
जीवन्मुक्तः सदा योगी देहत्यागाद्विमुच्यते ॥

मरितोण्डदार्यः

इति देवीकालोत्तरवचनानुसारेण देहधर्मं निराकृत्य
परमात्मस्वरूपभावनावतः शिवयोगिनो निर्देहगमस्थलं निरूपयति-

देहिनोऽपि परात्मत्वभाविनोनिरहङ्कृतेः ।
निरस्तदेहधर्मस्य निर्देहागम उच्यते ॥ ३६ ॥

मरितोण्डदार्यः

परमात्मत्वभाविनोऽहङ्कारममकारशून्यस्य निरस्तदेहधर्मस्य
निरस्तस्थूलत्वादिदेहधर्मवतो देहिनो देहवतः शिवयोगिनो निर्देहागमो
निर्देहप्राप्तिरुच्यते कथ्यत इत्यर्थः ॥ ३६ ॥

अथ परमात्मभाववतः शिवयोगिनो देहसम्बन्धो नास्तीति षड्भिः
सूत्रैः प्रतिपादयति-

गलिते ममताहन्ते संसारभ्रमकारणे ।
पराहन्तां प्रविष्टस्य कुतो देहः कुतो रतिः ॥ ३७ ॥

शरीरः प्रीतिश्च कुत इत्यर्थः ॥ ३७ ॥

केवले निष्प्रपञ्चौघे गम्भीरे चिन्महोदधौ ।
निमग्नमानसो योगी कथं देहं विचिन्तयेत् ॥ ३६ ॥

मरितोण्डदार्यः

निवृत्तचराचरप्रपञ्चसमूहवति अगाधे चित्समुद्रे निमग्नचित्तः
शिवयोगी देहं

[[३६९]]

केन प्रकारेण चिन्तयेत्? न केनापीत्यर्थः ॥ ३८ ॥

अपरिच्छेद्यमात्मानं चिदम्बरमिति स्मरन् ।
देहयोगेऽपि देहस्थैर्विकारैर्न विलिप्यते ॥ ३९ ॥

मरितोण्डदार्यः

स्वात्मानं परिच्छेदरहितचिदाकाशं स्मरन् शिवयोगी देहे सत्यपि
देहस्थेन्द्रियविकारैर्न लिप्यत इत्यर्थः ॥ ३९ ॥

अखण्डसंविदाकारमद्वितीयं सुखात्मकम् ।
परमाकाशमात्मानं मन्वानः कुत्र मुह्यति ॥ ४० ॥

मरितोण्डदार्यः

स्वात्मानमखण्डाद्वितीयचिदानन्दाकारं परमाकाशं सन्तं
मन्वानः आकाशशरीरं ब्रह्म सत्यात्म प्राणारामं मन आनन्दं
शान्तिसमृद्धम् इति छान्दोग्य (तैत्तिरीय) [तै० उ० १।६।२] श्रुत्यनुसारेण जानन्
शिवयोगी कुत्र कस्मिन्नधिकरणे शरीर्यहमिति मुह्यति? न कुत्रापि
ब्रह्मातिरिक्तदेशाभावादित्यर्थः ॥ ४० ॥

नन्वाकाशास्यापि घटाद्युपाधिना परिमितिर्दृश्यत इत्यत्राह-

उपाधिविहिता भेदा दृश्यन्ते चैकवस्तुनि ।
इति यस्य मतिः सोऽयं कथं देहमितो भवेत् ॥ ४१ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ४१ ॥

अथ तत्कुत इत्यत्राह-

भेदबुद्धिः समस्तानां परिच्छेदस्य कारणम् ।
अभेदबुद्धौ जातायां परिच्छेदस्य का कथा ॥ ४२ ॥

[[३७०]]

मरितोण्डदार्यः

घटाकाशदृष्टान्तेन भेदस्तावदौपाधिक इति ज्ञाते अभेदबुद्धौ
दृढायां वस्तुपरिच्छेदकारणीभूतभेदबुद्धेः शिथिलत्वात्
परिच्छेदवार्ता न कापीत्यर्थः ॥ ४२ ॥

अथ तदद्वैतं प्रकटीकृत्य निर्देहागमस्थलं समापयति-

शिवोऽहमिति यस्यास्ति भावना सर्वगामिनी ।
तस्या देहेन सम्बन्धः कथं स्यादमितात्मनः ॥ ४३ ॥

मरितोण्डदार्यः

शिवोऽहमिति सर्वव्यापकीभूता शिवाद्वैतभावना यस्य
शिवयोगिनोऽस्ति तस्य अपरिमितात्मनः परिच्छिन्नशरीरेण सम्बन्धः कथं
स्यात्? न कथञ्चिदपीत्यर्थः ॥ ४३ ॥

इति निर्देहागमस्थलम्

निर्भावागमस्थलम्

अथ निर्भावागमस्थलम्

अथ-

नैवोर्ध्वं धारयेच्चित्तं न मध्यं नाप्यधः क्वचित् ।
अन्तर्भावविनिर्मुक्तं सदा कुर्यान्निराश्रयम् ॥

मरितोण्डदार्यः

इति देवीकालोत्तरवचनानुसारेण निर्देहागमसम्पन्नस्य शिवयोगिनो
निर्भावागमस्थलं निरूपयति-

व्यतिरेकात् स्वरूपस्य भावान्तरनिराकृतेः ।
भावो विकारनिर्मुक्तो निर्भावागम उच्यते ॥ ४४ ॥

मरितोण्डदार्यः

स्वरूपस्य निर्देहस्वरूपस्य व्यतिरेकाद् व्यतिरिक्तत्वाद्
भावान्तरनिराकृतेरन्यभावनिराकरणाद् विकारनिर्मुक्त
इन्द्रियविकारविनिर्मुक्तो भावो मनोभावो निर्भावागम इत्युच्यत इत्यर्थः ॥ ४४

[[३७१]]

अथ तन्निर्भावलक्षणं पञ्चभिः सूत्रैः प्रतिपादयति-

अहं ब्रह्मेति भावस्य वस्तुद्वयसमाश्रयः ।
एकीभूतस्य चिद्व्योम्नि तदभावो विनिश्चितः ॥ ४५ ॥

मरितोण्डदार्यः

अहं ब्रह्मेति भावस्याहमिति ब्रह्मेति वस्तुद्वयाक्षेपो भवेत् चिद्व्योम्नि
एकीभूतस्य समरसीभूतस्य भावस्य तदभावो वस्तुद्वयाक्षेपाभावो
विनिश्चितो विशेषेण निश्चित इत्यर्थः ॥ ४५ ॥

अथाहं ब्रह्मास्मीति भावस्य कोटिद्वयावगाहित्वेन विकल्पघटितत्वाद्
अहमित्येकभावस्य विकल्पशून्यत्वाद् एकभावेन स्थितस्य
मायिकजातिभेदादिवासना नास्तीत्याह-

एकभावनिरूढस्य निष्कलङ्के चिदम्बरे ।
क्व जातिवासनायोगः क्व देहित्वं परिभ्रमः ॥ ४६ ॥

मरितोण्डदार्यः

निरञ्जने चिदाकाशे तादात्म्येनारूढस्य शिवयोगिनो
जातिवर्णाश्रमवासनासम्बन्धः क्व? देहित्वं शरीरवत्त्वं क्व?
संसारचक्रपरिभ्रमणं च क्वेत्यर्थः ॥ ४६ ॥

नन्वेवं चेद् ध्यानादीनां का गतिरित्यत्राह-

शून्ये चिदम्बरे स्थाने दूरे वाङ्मानसाध्वनः ।
विलीनात्मा महायोगी केन किं वाऽपि भावयेत् ॥ ४७ ॥

मरितोण्डदार्यः

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तै० उ० २।४।१] इति
श्रुतेर्वाङ्मनोमार्गागोचरे नीलपीताद्याकारशून्ये चिदाकाशस्थाने
तादात्म्यापन्नः शिवयोगी केन प्रकारेण किं वा वस्तु भावयेत्? केनापि
प्रकारेण किमपि वस्तु भावनायोग्यं न सम्भवतीत्यर्थः ॥ ४७ ॥

[[३७२]]

मरितोण्डदार्यः

ननु विधिनिषेधवासनाशून्यत्वे निन्दाप्राप्तिर्भवेदित्यत्राह-

अविशुद्धे विशुद्धे वा स्थले दीप्तिर्यथा रवेः ।
पतत्येवं सदाद्वैती सर्वत्र समवृत्तिमान् ॥ ४८ ॥

मरितोण्डदार्यः

रवेः सूर्यस्य दीप्तिः प्रकाशो विशुद्धस्थलेऽविशुद्धस्थले च यथा
पतति एवं शिवाद्वैती सदा सर्वत्र समवृत्तिमान् समानबुद्धिवृत्तिमान् सन्
सञ्चरतीत्यर्थः ॥ ४८ ॥

कथं सञ्चरतीत्यत्राह-

न बिभेति जरामृत्योर्न क्षुधाया वशं व्रजेत् ।
परिपूर्णनिजानन्दं समास्वादन् महासुखी ॥ ४९ ॥

महासुखी भूत्वा सञ्चरतीत्यर्थः ॥ शिष्टं स्पष्टम् ॥ ४९ ॥

इति निर्भावागमस्थलम्

नष्टागमस्थलम्

अथ नष्टागमस्थलम्

अथैवं निर्भावागमसम्पन्नस्य भेदज्ञानाभावेन
तन्नष्टागमस्थलं प्रकाशयति-

भेदशून्ये महाबोधे ज्ञात्रादित्रयहीनकः ।
ज्ञानस्य नष्टभावेन नष्टागम इहोच्यते ॥ ५० ॥

मरितोण्डदार्यः

द्वैतशून्ये महाशिवज्ञाने
ज्ञातृज्ञानज्ञेयात्मकत्रिपुटीमयप्रपञ्चशून्यत्वाद् इह
निर्भावागमसम्पन्नशिवयोगिविषये ज्ञानस्य भेदज्ञानस्य नष्टभावेन
नष्टत्वेन नष्टागम इत्युच्यत इत्यर्थः ॥ ५० ॥

[[३७३]]

मरितोण्डदार्यः

ननु शिवयोगिनः कथं त्रिपुटीमयप्रपञ्चशून्यत्वमित्यत्राह-

अद्वैतवासनाविष्टचेतसां परयोगिनाम् ।
पश्यतामन्तरात्मानं ज्ञातृत्वं कथमन्यथा ॥ ५१ ॥

मरितोण्डदार्यः

अन्यथा ज्ञातृत्वं स्वातिरिक्तपदार्थान्तरज्ञातृत्वमित्यर्थः । अन्तः
स्वहृदय इत्यर्थः । शिष्टं स्पष्टम् ॥ ५१ ॥

ननु तस्यान्यथा ज्ञातृत्वाभावे किं प्रकाशत इत्यत्राह-

अकर्ताऽहमवेत्ताऽहमदेहोऽहं निरञ्जनः ।
इति चिन्तयतः साक्षात् संविदेव प्रकाशते ॥ ५२ ॥

मरितोण्डदार्यः

एवं चिन्तयतः शिवयोगिनः ज्ञातृज्ञानज्ञेयविहीनोऽपि सदाज्ञानम्
इति श्रुतेस्त्रिपुटीमयप्रपञ्चनाशं कृत्वा विशिष्टशिवाद्वैतज्ञानमेव
प्रकाशते । अयमेव नष्टागमप्रकाश इति भावः ॥ ५२ ॥

अथ तस्य ज्ञेयान्तरं च नास्त्येवेत्याह-

निरस्तभेदजल्पस्य निरीहस्य प्रशाम्यतः ।
स्वे महिम्नि विलीनस्य किमन्यज्ज्ञेयमुच्यते ॥ ५३ ॥

मरितोण्डदार्यः

निरस्तभेदजल्पस्य द्वितीयाद्भयमेव पश्यन्ति इति
बृहदारण्यकश्रुतेर्युक्त्या च निराकृतद्वैतवाक्यस्य प्रशाम्यतो
रागद्वेषरहितस्य स्वे महिम्नि स्वविमर्शे विलीनस्य तदेकनिष्ठस्य निरीहस्य
विरक्तस्य शिवयोगिनो ज्ञेयं ज्ञातुं योग्यम् अन्यत् किम्? न किमपीत्यर्थः ।
नन्वत्र युक्तिः किमिति चेत् उच्यते-भेदो नाम किमन्योन्याभावो वा वैधर्म्यं
वा वस्तुस्वरूपं वेति त्रेधा विकल्पः । आद्ये तत्रान्यत्वं भावस्वभावो वा
भेदनिबन्धनः कश्चिदुपाधिर्वेति द्विधा विकल्पः । तत्र नाद्यः
भावस्याभावत्वप्रसङ्गात् अन्यत्वस्य

[[३७४]]

भावस्वभावत्वात् भावादन्योऽभाव इति प्रसिद्धत्वात् । ननु भावानां
बाहुल्याद् भावस्य भावान्तरान्यत्वं स्वभाव इति चेत् अस्तु तस्य
विशेषघटितत्वात् । इह तु भेदसामान्यलक्षणप्रविष्टान्यत्वस्य
प्रश्नविषयत्वेन न तदुत्तरं भवितुमर्हति तस्य भेदसिद्ध्यनन्तरभावित्वात्
। किञ्च भावस्य भावान्तरान्यत्वं स्वभाव इति नियमस्तत्तद्भावकृतो वा
तद्व्यतिरिक्तमहापुरुषकृतो वा? नाद्यः घटादिभावस्य जडत्वेन
कर्तृत्वाभावात् । न द्वितीयः कल्पनायाः
प्रागनन्यत्वेनान्तरालिकतयान्यत्वस्य तत्स्वभावत्वासम्भवात् । ननु न
केनापि कृतः किन्तु स्वतःसिद्ध इति चेत् तर्हि स्वप्रकाशोऽपि भवेत् ब्रह्मवत्
स्वतःसिद्धत्वात् । ननु ब्रह्मापि मानान्तरसिद्धमिति न स्वतःसिद्धमिति
वाच्यम् नित्यत्वेन कारकव्यापारासम्भवात् स्वप्रकाशत्वेन
ज्ञापकव्यापारासम्भवात् अन्यथा जडत्वप्रसङ्गात् । नाप्यन्यत्वं
भेदनिबन्धनः कश्चिदुपाधिः आत्माश्रयादिदोषप्रसङ्गात् । नापि द्वितीयः
घटे पटत्वं नास्ति पटे घटत्वं नास्ति वैधर्म्यम् एवंविधनिश्चयस्य
घटपटभेदसिद्ध्यनन्तरभावित्वात् । न च
घटपटयोस्तन्तुमयत्वमृण्मयत्वाभ्यां भेदः सिद्ध एवेति वाच्यम् घट
एव मृण्मयत्वं पटे (च)
तन्तुमयत्वमित्यसाधारणप्रतीतेर्घटपटभेदसिद्ध्यधीनत्वात् तस्या
अद्यापि साध्यकोटिप्रविष्टत्वात् । किञ्च तन्तुमयत्वमृण्मयत्वयोर्भेदस्तत्र
तदवयवभेदादिति परमाणुपर्यालोचनायां निरवयवत्वेन भेदाग्रहाद्
मूलक्षयकारिण्यनवस्था स्यादिति । नापि तृतीयः वस्तुस्वरूपं हि
वस्त्वन्तरस्वरूपाननुगामीत्यङ्गीकरणीयम् अन्यथा
स्वरूपसाङ्कर्यापत्तेः एवं चेदं रजतमित्यत्र शुक्तिरेव रजताकारेण
निश्चीयत इति भ्रान्तिज्ञानोच्छेदप्रसङ्गात् । दूरत्वादिदोषवशात् तथा
निश्चीयत इति चेत् तर्हि इङ्गलादिकमपि रजतत्वेन कुतो न निश्चीयते? न च
विशेषदर्शनसामग्री प्रतिबन्धिकेति वाच्यम् शुक्तिकायामपि
विशेषादर्शनसामग्रीसत्त्वेनानारोपप्रसङ्गात् ।
अविशेषदर्शनसामग्रीप्राबल्यादारोपः सम्भवतीति चेन्न वस्त्वन्तरे
वस्त्वन्तरस्वरूपमनुप्रविष्टमित्यङ्गीकरणीयत्वेनाननुप्रविष्टमिति
वक्तुमशक्यत्वेन स्वरूपसाङ्कर्यापत्तेरनिवार्यत्वेन
भेदवादोच्छेदप्रसङ्गात् पूर्वोक्तदोषप्रसङ्गाच्च । किञ्च वस्तुनि
भासमानो भेदस्तद् वस्तुस्वरूपाभिन्नो वा भिन्नो वा स्यात्? नाद्यः
अत्यन्तविरोधाद् भेदस्याभेदतासम्भवात् । न द्वितीयः सोऽपि भेदः कीदृश
इत्युपर्युपरि विचार्यमाणोऽनवस्थामेवोपस्थापयतीति विश्रान्त्यभावात् ।
नाप्यभेदात्यन्ताभावो भेदः आत्माश्रयप्रसङ्गात् । नास्त्यैक्यप्रतियोगी
एकत्वस्य प्रतियोग्यभावात् द्वित्वादीनां तन्मूलकत्वात् । नापि विभागः तस्य
संयोगपूर्ववत्वेन पूर्वापरदिशोः पूर्वपश्चिमाचलयोश्च कदापि
संयोगाभावेन भेदाभावप्रसङ्गात् । तस्मात्

[[३७५]]

गत्यन्तराभावेन भेदव्यवहारसिद्ध्यर्थं सकलसामरस्यात्मनो
महेश्वरस्येच्छावशात् सागरतरङ्गन्यायेनाभेदपर्यवसायित्वेन
कल्पितविभागो भेद इत्यङ्गीकरणीयत्वेनाप्यभेद एव सिद्ध्यतीति
शिवाद्वैतसिद्धान्तवादिनां युक्तिरीदृशीति विचक्षणैर्विमर्शनीयेति ॥ ५३ ॥

अथोक्तसूत्रत्रयार्थमेव विशेषयति-

एकीभूते निजाकारे संविदा निष्प्रपञ्चया ।
केन किं वेदनीयं तद्वेत्ता कः परिभाष्यते ॥ ५४ ॥

मरितोण्डदार्यः

निजाकारे स्वस्वरूपे निष्प्रपञ्चया संविदा शिवाद्वैतज्ञानेन
एकीभूते सति सामरस्ये सति केन किं वस्तु वेदनीयं ज्ञेयं स्यात् तद्वेत्ता
ज्ञानेन ज्ञेयवेत्ता च क इति परिभाष्यते नातः परं वेदितव्यं हि किञ्चित् इति
श्रुतेः वेदितव्यं न किञ्चन
इत्यागमोक्तेश्चान्योन्याभावनिबन्धनभेदघटित-
मायिकत्रिपुटीमयप्रपञ्चदर्शनं शिवयोगिनां नास्तीत्यर्थः ॥ ५४ ॥

तर्हि कीदृशं प्रपञ्चदर्शनं स्यादित्यत्र वदन् नष्टागमस्थलं
समापयति-

महासत्ता महासंविद् विश्वरूपा प्रकाशते ।
तद्विना नास्ति वस्त्वेकं भेदबुद्धिं विमुञ्चतः ॥ ५५ ॥

मरितोण्डदार्यः

महासत्ता गगनकुसुममित्यादौ अर्थवत्पदयोरेव
सम्मेलनरूपसंयोगात् तदुपरि विभक्तियोगाच्चार्थवत्त्वाद्
गगनकुसुममङ्गीकरणीयमिति
सदसत्सकलवस्तुव्यापकत्वान्महासत्तेत्युच्यते हृदयोल्लेखं विना
गगनकुसुममिति व्यवहारासम्भवान्महासंविदित्युच्यते । एवं
स्वशिरच्छायानुल्लङ्घनमिव [तुलनीय- स्वपदा स्वशिरश्छायां
यद्वल्लङ्घितुमीहते । पादोद्देशे शिरो न स्यात्तथेयं बैन्दवी कला ॥]
सदसद्विश्वव्यापकीभूतं

[[३७६]]

ब्रह्मचैतन्यमेव जगद्रूपेण भासते न तद्व्यतिरिक्तं किञ्चिदिति
भेदबुद्धिं विमुञ्चतः शिवयोगिनो महासत्तास्फुरत्ताकचैतन्यं विना
एकं वस्तु अन्यद्वस्तु नास्ति सागरतरङ्गन्यायेन
तद्बुद्धेरभेदविश्रान्तत्वादिति ॥ ५५ ॥

इति नष्टागमस्थलम्

आदिप्रसादिस्थलम्

अथादिप्रसादिस्थलम्

अथ-

यो ब्रह्माणं विदधाति पूर्वं यो
वै वेदांश्च प्रहिणोति तस्मै ।
तं महादेवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ [श्वे० उ० ६।१८]

मरितोण्डदार्यः

इति श्वेताश्वतरमन्त्रानुसारेण नष्टागमसम्पन्नशिवयोग्येव
सर्वादिभूतशिवप्रसादवानित्यादिप्रसादीत्युच्यत इति तदीयस्थलं
प्रतिपादयति-

सर्वाधिष्ठातृकः शम्भुरादिस्तस्य प्रसादतः ।
आदिप्रसादीत्युक्तोऽयं निर्विकारपदे स्थितः ॥ ५६ ॥

मरितोण्डदार्यः

विश्वाधारभूमित्वात्तन्नियामकत्वाच्छम्भुरादिः
सृष्ट्यादिपञ्चकृत्यमूलकारणम् । तस्य सर्वादिभूतस्य शम्भोः प्रसादतो
निर्विकारपदे विकाररहितनष्टागमस्थले स्थितोऽयं शिवयोगी आदिप्रसादी
आदिप्रसादवानित्यर्थः ॥ ५६ ॥

अथ तस्य महत्त्वं चतुर्भिः सूत्रैः प्रतिपादयति-

अनेकजन्मशुद्दस्य निरहङ्कारभाविनः ।
अप्रपञ्चस्यादिदेवः प्रसीदति विमुक्तये ॥ ५७ ॥

अनेकजन्मभिः शुद्धात्मनः परिच्छिन्नदेहाद्यभिमानशून्यस्य
अप्रपञ्चस्य

[[३७७]]

प्रापञ्चिकभेदरहितस्य शिवयोगिन आदिदेवः सर्वादिदेवः शिवो विमुक्तये
परमोक्षाय प्रसीदति प्रसन्नो भवतीत्यर्थः ॥ ५७ ॥

शिवप्रसादसम्पत्त्या शिवभावमुपेयुषि ।
शिवादन्यज्जगज्जालं दृश्यते न च दृश्यते ॥ ५८ ॥

मरितोण्डदार्यः

शिवप्रसादप्राप्त्या शिवत्वमुपेयुषि विषये जगज्जालं जगत्समूहं
शिवादन्यदिति दृश्यते इदन्त्वेन दृश्यं सन्न च दृश्यते । भेदस्य
निराकृतत्वात् सागरतरङ्गन्यायेनाभेदेन दृश्यत इत्यर्थः ॥ ५८ ॥

शम्भोः शिवप्रसादेन संसारच्छेदकारिणा ।
मोहग्रन्थिं विनिर्भिद्य मुक्तिं यान्ति विवेकिनः ॥ ५९ ॥

मरितोण्डदार्यः

नित्यानित्यविवेकिनः संसारच्छेदकारिणा शिवप्रसादेनैव
अज्ञानग्रन्थिं विदार्य परमोक्षं यान्तीत्यर्थः ॥ ५९ ॥

ननु शिवप्रसादेन विना मुक्तिर्नास्ति वेत्यत्राह-

विना प्रसादमीशस्य संसारो न निवर्तते ।
विना सूर्योदयं लोके कुतः स्यात् तमसो लयः ॥ ६० ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ६० ॥

[[३७८]]

मरितोण्डदार्यः

अथ शिवस्य सर्वात्मस्वपक्षपातेन कृपाप्रसादं
संसूच्यादिप्रसादिस्थलं समापयति-

सर्वानुग्राहकः शम्भुः केवलं कृपया प्रभुः ।
मोचयेत् सकलान् जन्तून् न किञ्चिदिह कारणम् ॥ ६१ ॥

मरितोण्डदार्यः

प्रभुः स्वतन्त्रः सर्वानुग्राहकः सर्वहितोऽपि शम्भुः शिवः
केवलं कृपयैव सकलान् जन्तून् प्राणिनो मोचयेत् पाशमुक्तान् कुर्यात् इह
पाशमोचनविषये शम्भोः किञ्चित्कारणं च नास्ति सर्वानुग्रहकृत्यस्य
तत्स्वभावत्वादिति ॥ ६१ ॥

इत्यादिप्रसादिस्थलम्

अन्त्यप्रसादिस्थलम्

अथान्त्यप्रसादिस्थलम्

अथ-

अणोरणीयान् महतो महीयाना-
त्मास्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम् ॥ [कठोप० १।२।२०]

मरितोण्डदार्यः

इति कठवल्लीश्रुत्युक्तप्रकारेण तदादिप्रसाद्येव सर्वाश्रयः सन्
अन्त्यस्य शिवस्यानुभवप्रसादवानित्यन्त्यप्रसादिस्थलं निरूपयति-

लयः सर्वपदार्थानामन्त्य इत्युच्यते बुधैः ।
प्रसादोऽनुभवस्तस्य तद्वानन्त्यप्रसादवान् ॥ ६२ ॥

मरितोण्डदार्यः

सर्वपदार्थानां भूम्यादिशिवान्तपदार्थानां लयो लयाश्रयः
परशिव एवान्त्यः सर्वान्त्य इति बुधैरुच्यते । तस्य सर्वान्त्यस्य शिवस्य
अनुभवः साक्षात्कार एव प्रसादः तद्वान् तदनुभवते
आदिप्रसाद्येवान्त्यप्रसादवानित्युच्यत इत्यर्थः ॥ ६२ ॥

[[३७९]]

अथ सर्वपदार्थलयप्रकारं सूत्रद्वयेन कथयति-

देवतिर्यङ्मनुष्यादिव्यवहारविकल्पना ।
मायाकृता परे तत्त्वे तल्लये तत्क्षयो भवेत् ॥ ६३ ॥

तल्लये मायालय इत्यर्थः । शिष्टं स्पष्टम् ॥ ६३ ॥

मरितोण्डदार्यः

अयं कथं मायाक्षय इत्यत्राह-

साक्षात्कृते परे तत्त्वे सच्चिदानन्दलक्षणे ।
क्व पदार्थपरिज्ञानं कुतो ज्ञातृत्वसम्भवः ॥ ६४ ॥

मरितोण्डदार्यः

सच्चिदानन्दस्वरूपे परब्रह्मणि प्रत्यक्षीकृते सति मायाया
निवृत्तत्वात् तत्कल्पितपदार्थपरिज्ञानं क्व? ज्ञातृत्वसम्भवो
ज्ञेयज्ञानातिरिक्तज्ञातृत्वस्य आविर्भावश्च क्व? ज्ञेयाद्यपेक्षया
ज्ञातृत्वस्य कल्पितत्वादिति भावः ॥ ६४ ॥

अत्र दृष्टान्तमाह-

सुषुप्तस्य यथा वस्तु न किञ्चिदपि भासते ।
तथा मुक्तस्य जीवस्य न किञ्चिद्वस्तु दृश्यते ॥ ६५ ॥

मुक्तस्य जीवस्य जीवन्मुक्तस्येत्यर्थः । शिष्टं स्पष्टम् ॥ ६५ ॥

मरितोण्डदार्यः

अत्र जीवन्मुक्तस्य पदार्थदर्शनमस्तीति नाशङ्कनीयम्
शिवाभेदेनैव दर्शनात् प्राकृतत्वेन किमपि न दृश्यत इति । अथ
जीवन्मुक्तस्वरूपं कीदृशमित्यत्र सूत्रद्वयेन कथयति-

यथाकाशमविच्छिन्नं निर्विकारं स्वरूपतः ।
तथा मुक्तस्य जीवस्य स्वरूपमवशिष्यते ॥ ६६ ॥

[[३८०]]

अवशिष्यते प्रकाशत इत्यर्थः । शिष्टं स्पष्टम् ॥ ६६ ॥

मरितोण्डदार्यः

अथ स जीवन्मुक्तः किं जानन् किं कुर्वन् कथं तिष्ठतीत्यत्राह-

न किञ्चिन्दपि मुक्तस्य दृश्यं कर्तव्यमेव वा ।
सुखस्फूर्तिस्वरूपेण निश्चला स्थितिरुच्यते ॥ ६७ ॥

मरितोण्डदार्यः

स्पष्टम् ॥ ६७ ॥

अथ जीवन्मुक्तस्य दृश्यं कर्तव्यं कुतो नास्तीत्यत्र
वदन्नन्त्यप्रसादिस्थलं समापयति-

शिवाद्वैतपरिज्ञानशिथिलाशेषवस्तुनः ।
केवलं संविदुल्लासदर्शिनः केन को भवेत् ॥ ६८ ॥

मरितोण्डदार्यः

शिवाद्वैतपरिज्ञानेन निवृत्तसकलभेदवस्तुनः अत एव केवलं
चिद्विलासं पश्यतः शिवयोगिनो ज्ञानेन्द्रियव्यापारेण
कर्मेन्द्रियव्यापारेण वा केनापि किं भवेत् किं प्रयोजनं स्यात् न
किञ्चिदित्यनयोराद्यन्तप्रसादयोरुपक्रमोपसंहारन्यायेनैक्यं
विमर्शनीयम् ॥ ६८ ॥

इत्यन्त्यप्रसादिस्थलम्

सेव्यप्रसादिस्थलम्

अथ सेव्यप्रसादिस्थलम्

अथ-

अन्तःशरीर एवायं बाह्यम् एव न संस्थितः ।
महानन्दप्रसादोऽयं सर्वत्रैवावभासते ॥

मरितोण्डदार्यः

इति सर्वज्ञानोत्तरवचनानुसारेण
सेव्यशिवगुरुप्रसादसम्पन्नोऽन्त्यप्रसाद्येव सेव्यप्रसादीति सुत्रत्रयेण
कथयति-

सेव्यो गुरुः समस्तानां शिव एव न संशयः ।

[[३८१]]

प्रसादोऽस्य परानन्दप्रकाशः परिकीर्त्यते ॥ ६९ ॥

मरितोण्डदार्यः

समस्तानां सेव्यः श्रीगुरुः शिव एवात्र सन्देहो नास्ति । अस्य प्रसादः
श्रीगुरुरूपशिवप्रसाद एव परानन्दप्रकाश इति कीर्त्यते ॥ ६९ ॥

सेव्यो गुरुः स्मृतो ह्यस्य प्रसादोऽनुभवो मतः ।
तदेकावेशरूपेण तद्वान् सेव्यप्रसादवान् ॥ ७० ॥

मरितोण्डदार्यः

गुरुः शिवस्वरूपश्रीगुरुरेव सेव्य इति स्मृतः । अस्य शिवरूपस्य
श्रीगुरोरनुभव उपदेशानुभव एव प्रसाद इति सम्मतः । तदेकावेशरूपेण
तयोर्गुरुप्रसादयोरेकीभावेन तद्वान् तत्प्रसादवानन्त्यप्रसाद्येव
सेव्यप्रसादवान् सेव्यप्रसादीति हि प्रसिद्ध इत्यर्थः ॥ ७० ॥

गुरुदेवः परं तत्त्वं परतत्त्वं गुरुः स्मृतः ।
तदेकत्वानुभावेन न किञ्चिदवशिष्यते ॥ ७१ ॥

मरितोण्डदार्यः

गुरुशिवयोः शक्तिशक्तिमद्भावेन तयोरैक्यानुसन्धानेन ज्ञातव्यं
न किञ्चिदवशिष्यते सर्वस्यापि विश्वस्य शिवशक्तिमयत्वादिति ॥ ७१ ॥

अथ परमानन्दवतः सेव्यप्रसादिनः क्वापि प्रीतिर्नास्तीति सूत्रत्रयेण
कथयति-

अपरिच्छेद्यमात्मस्थमवाङ्मनसगोचरम् ।
आनन्दं पश्यतां पुंसां रतिरन्यत्र का भवेत् ॥ ७२ ॥

मरितोण्डदार्यः

परिच्छेदरहितं वाङ्मानसयोरगोचरं स्वस्वरूपं परमानन्दम्
अपरोक्षेण पश्यतां शिवयोगिनामन्यत्र विषयेषु रतिरभिलाषो न क्वापि
स्यादित्यर्थः ॥ ७२ ॥

[[३८२]]

ज्ञानामृतेन तृप्तस्य किमन्यैर्भोज्यवस्तुभिः ।
ज्ञानादेव परानन्दं प्रकाशयति सच्छिवः ॥ ७३ ॥

मरितोण्डदार्यः

ज्ञानामृतेन सन्तुष्टस्य
शिवयोगिनोऽन्यैश्चित्पीयूषव्यतिरिक्तैर्भोज्यपदार्थैः किम्? न किञ्चित् इत्यर्थः ।
सच्छिवोऽग्नेरुष्णत्वप्रकाशकत्वादय इव शिवस्य सच्चिदानन्दाः
स्वभावास्तादृशः शिवो ज्ञानादेव निजज्ञानादेव परानन्दं
स्वस्वभावभूतनित्यानन्दं प्रकाशयतीति ॥ ७३ ॥

अथ तदेव विशदयति-

मुक्तिरेव परा तृप्तिः सच्चिदानन्दलक्षणा ।
नित्यतृप्तस्य मुक्तस्य किमन्यैर्भोगसाधनैः ॥ ७४ ॥

मरितोण्डदार्यः

नित्यतृप्तस्य सर्वज्ञताद्युपलक्षितनित्यतृप्तिमतो मुक्तस्य
परममुक्तिमतः शिवयोगिन इत्यर्थः । शिष्टं स्पष्टम् ॥ ७४ ॥

अथ तस्य परमुक्तस्यान्तर्बहिः किमपि कर्म नास्तीति निरूपयति-

न बाह्यं कर्म तस्यास्ति न चान्तर्नैव कुत्रचित् ।
शिवैक्यज्ञानरूढस्य देहभ्रान्तिं विमुञ्चतः ॥ ७५ ॥

मरितोण्डदार्यः

स्वरूपहानिवृद्धिव्यतिरेकेण सजातीयसमानसमरसभावेन
शिवैक्यज्ञानमारुह्य देहभ्रान्तिं विमुञ्चतस्तस्य सेव्यप्रसादिनो
बहिरङ्गविधीयमानपूजाकर्म नास्ति अन्तश्चान्तरङ्गे
विधीयमानध्यानादिकर्म नास्ति कुत्रचित् क्वापि
बिन्दुतिरोभावमलमायाद्युपलक्षितकर्मपाशोऽपि नास्तीत्यर्थः ॥ ७५ ॥

[[३८३]]

अथ प्रसादिस्थलं समापयति-

न कर्मबन्धे न तपोविशेषे
न मन्त्रयोगाभ्यसने तथैव ।
ध्याने न बोधे च तथात्मतत्त्वे
मनःप्रवृत्तिः परयोगभाजाम् ॥ ७६ ॥

इति श्रीमत्षट्स्थलब्रह्मिणा शिवयोगिनाम्ना रेणुकाचार्येण विरचिते
वीरशैवधर्मनिर्णये सिद्धान्तशिखामणौ
प्राणलिङ्गिस्थलविषयनवविधलिङ्गप्रसङ्गो नामाष्टादशः परिच्छेदः ॥
१८ ॥

मरितोण्डदार्यः

परयोगभाजां सर्वोत्कृष्टपरशिवयोगभाजां सेव्यप्रसादिनां
मनःप्रवृत्तिश्चित्तवृत्तिर्मन्त्रयोगाभ्यसनेऽजपागायत्रीरूपसोऽहम्मन्त्र-
योगाभ्यासे न नास्तीत्यर्थः । तथैव कर्मबन्धे
षट्कर्मबन्धत्रयरूपहठयोगेऽपि न तपोविशेषे योगानां
विशिष्टराजयोगेऽपि न ध्यानेऽनाहतब्रह्मध्यानरूपलययोगेऽपि न किन्तु
तथात्मतत्त्वे तद्योगचतुष्टयचैतन्यस्वरूपे बोधे स्वस्वरूपज्ञाने
मनःप्रवृत्तिः स्यादित्यर्थः । अयं भावः-
देशिकोपदेशेनापरदेहपाणिपादगुह्यानि प्रथमं संशोध्य बन्धयित्वा
तदनन्तरं परापश्यन्तीमध्यमावैखरीस्वरूपरुद्रविष्णुब्रह्मेन्द्रादि-
दैवतलयराजहठमन्त्रयोगात् क्रमेण पूर्वकायस्य
कर्णाक्षिनासारसनासु संयोज्यानन्तरं
पूर्वापरकायकीलकभूतबिन्दुमायाकार्यरूपवाक्त्वचौ निश्चलीकृत्य
सर्वयोगज्ञानजननक्षेत्रभूताविमुक्तक्षेत्रे
परब्रह्मपरशिवपरलिङ्गापरपर्यायनामभिः संसेव्य
स्वस्वरूपसेवितसेव्यप्रसादीत्यर्थः । एतल्लिङ्गत्रयं
प्राणलिङ्गिनोऽङ्गत्रयस्य क्रमेण सम्बन्धयेदिति सेव्यप्रसादिस्थलम् ॥ ७६ ॥

इति श्रीमत्पदवाक्यप्रमाणपारावारधुरीणश्रीमरितोण्डदार्येण
विरचितायां तत्त्वप्रदीपिकाख्यायां सिद्धान्तशिखामणिव्याख्यायां
प्राणलिङ्गिस्थलविषयनवविधलिङ्गप्रसङ्गो नामाष्टादशः परिच्छेदः ॥
१८ ॥